३०

त्रिंशमाह्निकम्

" विवेकः "

सहजपरामर्शात्मकमहावीर्यसौधधौततनुम् ।
अभिमतसाधकसाधकमनोऽनुगं तं मनोऽनुगं नौमि ॥

इदानीं द्वितीयार्धेन मन्त्रान् निरूपयितुमाह–

अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते ।

ननु किमनेन निरूपितेन?–इत्याशङ्क्य आह–

तावद्विमर्शानारूढधियां तत्सिद्धये क्रमात् ॥ ३०-१ ॥

तावान्–पूर्णः ।
तत्सिद्धये इति– पूर्णाहंविमर्शारोहसम्पत्त्यर्थम्–इत्यर्थः ॥ १ ॥

ननु कथमनेन तत् स्यात् ?–इत्याशङ्क्य आह–

प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः ।

ननु विमर्शस्वभावत्वं नाम कर्तुरेव सम्भवतीत्युक्तं प्राक् बहुशः, मन्त्राश्च करणरूपा इति कथमेषामेवं न्याय्यम्?– इत्याशङ्क्य आह–

स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ ३०-२ ॥

ननु यदि एवं तत् कथमाचार्यस्य दीक्षानुग्रहादौ कर्तृत्वं घटते?–इत्याशङ्क्य आह–

यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः ।
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ ३०-३ ॥

ननु यदि एवम्, तत् करणमन्तरेण एषां कर्तृत्वमेव कथं घटते?–इत्याशङ्क्य उक्तम्–यान्ति करणान्यपि कर्तृतामिति ।
मन्त्रा हि कर्तृतां यान्त्यपि करणानि अजहत्कर्तृभावां करणतामधिशेरते–इत्यर्थः ॥ ३ ॥

इदानी मन्त्राणामेव स्वरूपं निरूपयति–

आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये ।
क्ष्लां क्ष्का वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ ३०-४ ॥

हं नाले यं तथा रं लं वं धर्मादिचतुष्टये ।
ऋं ऋं ऌं ॡं चतुष्के च विपरीतक्रमाद्भवेत् ॥ ३०-५ ॥

ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये ।
अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ ३०-६ ॥

कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः ।
सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ ३०-७ ॥

शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये ।
सबिन्दुकाः क्ष्मं प्रेते जूं शूलशृङ्गेषु कल्पयेत् ॥ ३०-८ ॥

पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः ।
सङ्क्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ ३०-९ ॥

आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् ।
अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ ३०-१० ॥

रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः ।
अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ ३०-११ ॥

सषष्ठस्वरबिन्द्वर्धचन्द्राद्याः स्युर्नवात्मनः ।

पृथ्वीप्रभृताविति–धरायां सुरोदे पोते कन्दे च ।
तेन आधारशक्तौ मायाबीजम्, अन्यत्र तु नाभिर्वामस्तनक्षीराभ्यां कण्ठनासाभ्यां युक्ता केवला च, पोते तु कण्ठः तेजश्च सर्वत्रेति ।
नाले इति–दण्डे, तेन अत्र सौजाः प्राणः ।
विपरीते इति–अधर्मादौ, तेन अत्र ओजःसम्भिन्नमन्तःस्थानां चतुष्टयं नपुंसकानां च ।
विद्येति–चतुष्किकारूपमसूरकमयी, मायेति– अधश्छादनरूपा, कलेति–ऊर्ध्वच्छादनरूपा ।
विद्याया एव ईश्वरतत्त्वं सन्निकृष्टोपरितनभूमिका, तेन अत्र जङ्घाद्वयं सविसर्गः प्राणश्चेति ।
विद्येशेति–विद्येश्वराधिष्ठानस्थानं पद्माकारमीश्वरतत्त्वम्, ईश्वरेति–सदाशिवः; कर्णिकायां हि शुद्धावरणादिरूपा व्याप्तिः–इति भावः ।
कादिभान्ता इति– चतुर्विंशतिः, तेन प्रतिकेसरमेकैको वर्णः ।
प्राणः हकारः ।
आअ इरि ऊउ एए इत्यष्टौ स्वराः ।
अथेति नवकस्येति च उक्तेरिदमापतितं यत् कर्णिकायामपि प्राण एव नवमस्वरभिन्न इति ।
तदुक्तम्–

“केसरेषु भकारान्ता हं हां हिं हीं च हं तथा ।
हूं हें हैं ह्ॐ दलेष्वेवं स्वसञ्ज्ञाभिश्च शक्तयः ॥
"

इति ।
मण्डलत्रये इति–अर्थादधिष्ठातृसहिते, तेन आग्नेये मण्डले गुह्यं सौरे उदरं चान्द्रे जीव इति ।
प्रेते च ओजःसम्भिन्ने नाभिकटी ।
शूलशृङ्गेषु च सबिन्दुदण्डं शूलम् ।
आद्यमिति आधारशक्तिवाचकं मायाबीजम् ।
अन्त्यमिति–शूलारवाचकं जूङ्कारम्, तेन ह्रीं जूं आसनपक्षाय नमः–इत्यूहः ।
अग्निः रेफः, मारुतः य, पृथ्वी ल, अम्बु व, षष्ठः स्वरः ऊकारः ।
अ इ उ ए ओ इति पञ्च ह्रस्वाः ।
आ ई ऊ ए औ अः इति षट् दीर्घाः ।
एवमापाते एव वचनादन्यत्रापि अङ्गवक्त्राणामियमेव वार्त्ता–इति आवेदितम् ।
अग्निः रेफः, प्राणः ह, अग्निः रेफः, संहारः क्ष, कालो म, इन्द्रः ल, अम्बुः व, समीरणो य, षष्ठः स्वर ऊकारः ॥
बिन्द्वादीनां च अन्यत्र अन्यथा व्यपदेशः–इत्याह–

बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ ३०-१२ ॥

क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ ।
तत्संवित्तिस्तदापत्तिरिति सञ्ज्ञाभिशब्दिता ॥ ३०-१३ ॥

एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता ।

बिन्दोरेव च अर्धचन्द्रनिरोधिकान्ता व्याप्तिरिति अत्र तदनन्तरमेव नादस्य वचनम् ।
एवं बिन्दोः

“…बिन्दुश्चैवेश्वरः स्वयम् ।
" (स्व। ४।२६४)

इत्युक्तेरीश्वरतायां

“रिश्वरो बहिरुन्मेषो… ।
" (रि।
प्र। ३।१।३)

इत्युक्त्या बहिरुल्लसनमेव सतत्त्वमिति क्षेप इति उक्तम् ।
नादस्य च–

“…णादे वाच्यः सदाशिवः ।
" (स्व। ४।२६५)

इति

“…णिमेषोऽन्तः सदाशिवः ।
" (रि।
प्र। ३।१।३)

इति च उक्त्या बहिरुल्लसितस्य विश्वस्य अन्तराक्रमणमेव रूपमिति आक्रान्तिरिति ।
एवमपि इदन्तानिमज्जनादहन्तोन्मज्जनात्मनि नादान्ते प्रमातृरूपायाः संविद एव प्रबोध इति चिदुद्बोध इति ।
एवं बुद्धायाः संविदः शक्तिदशायामुद्रेकः, व्यापिन्यां कथञ्चिदुद्रेकेऽपि तथैव अवस्थानम्, यावद्योगिनां समनापदे तत्साक्षात्कारः, उन्मनाभूमौ च तदैकात्म्यमित्येवमुक्तम् ।
एतावतीति–उन्मनैकात्म्यापत्तिपर्यन्ता ।
यदुक्तं तत्र–

“क्षेपमाक्रमणं चैव चिदुद्बोधं च दीपनम् ।
स्थापनं चैव संवित्तिस्तदापत्तिस्तथैव च ॥

कारणक्रमयोगेन शास्त्रेऽस्मिन् सुरसुन्दरि ।
आधाराधेयभावेन मूर्तिः सप्तविधा स्मृता ॥
"

इति उपक्रम्य

“क्षेपस्तु कथितो बिन्दुराक्रान्तिर्नाद उच्यते ।
चिदुद्बोधः परावस्था दीपनं शक्तिरुच्यते ॥

स्थापनं व्यापिनी प्रोक्ता संवित्तिः समना स्मृता ।
उन्मना च तदापत्तिरित्येषा मूर्तिरुच्यते ॥
"

इति ॥

न केवलमियं मूर्तेरेव एतावती व्याप्तिः, यावत् मन्त्रदीपकतया अभिमतस्य नमस्कारस्य अपि–इत्याह–

परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ ३०-१४ ॥

एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भः स्वरैर्युतः ।
षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ ३०-१५ ॥

क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः ।
झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ ३०-१६ ॥

एष भैरवसद्भावश्चन्द्रार्धादिविभूषितः ।
मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ ३०-१७ ॥

ओङ्कारोऽथ चतुर्थ्यन्ता सञ्ज्ञा नतिरिति क्रमात् ।
गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ ३०-१८ ॥

नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् ।
सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ ३०-१९ ॥

आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः ।
बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ ३०-२० ॥

पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् ।
द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः ॥ ३०-२१ ॥

ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् ।
हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परो पृथक् ॥ ३०-२२ ॥

अकारयुक्तावस्त्रं हुं ह विसर्गो पुनः शरः ।
तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ ३०-२३ ॥

एषा परापरादेव्या विद्या श्रीत्रिकशासने ।
पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ ३०-२४ ॥

अघोर्यादौ सप्तके स्यात् पिबन्याः परिशिष्टकम् ।
प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते ॥ ३०-२५ ॥

देवताचक्रविन्यासः स बहुत्वान्न लिप्यते ।
माया विसर्गिणी हुं फट् चेति मन्त्रोऽपरात्मकः ॥ ३०-२६ ॥

परायास्तूक्तसव्याप्तिर्जीवः सहचतुर्दशः ।
सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ ३०-२७ ॥

स्वरूपतो विभिन्नापि रचनानेकसङ्कुला ।

इयमेतावती व्याप्तिरेव जातितया सर्वत्र प्रसिद्धो नमस्कार उच्यते यदसौ नमस्कर्तुर्देहादिप्रमातृताहारात् चित्प्रमातृतादानेन तात्कर्म्यात् परिणाम इव परिणामः ।
एवमपि अस्य तत्त्वादप्रच्यावो न सम्भाव्यः–इत्याह–तल्लयश्चेति ।
त्र्यर्णोज्झित इति–व य ऊ इत्येभिर्हीनः ।
बीजैरिति– ह्रस्वपञ्चकसम्भिन्नैराकाशवायुवह्निजलपृथ्वीरूपैः ।
दीप्तैरिति–ओकारादीनामकारादीनां ह्रस्वानामाग्नेयस्वभावत्वात् तेजोमयैरिति प्राच्याः, सरेफैरिति श्रीमल्लक्ष्मणगुप्तपादाः ।
यदागमः–

“षड्विंशकं परं बीजं रेफयुक्तं सबिन्दुकम् ।

पूर्ववक्त्रं महेशस्य देवीनां चैव पार्वति ।

मान्तान्तं तु सबिन्दुञ्च सरेफं भैरवाकृति ।
दक्षिणं तद्भवेदास्यं देवदेवीगणस्य तु ॥

पुनरैन्द्रं महाबीजमष्टाविंशतिमं शुभम् ।
सरेफं बिन्दुसंयुक्तं पश्चिमं वदनं शुभम् ॥

वारुणं च परं बीजमग्निबीजेन भेदितम् ।

बिन्दुमस्तकसम्भिन्नं वदनं चोत्तरं शुभम् ।
"

इति ॥

झकारो दक्षिणाङ्गुलितया अभिमतः, संहृतिः क्ष, प्राणः ह ।
षष्ठ स्वरः ऊकारः ।
प्रागिति–पञ्चदशाह्निके ।
न चोदितमिति– श्रीपूर्वशास्त्रे, तेन ॐ गणेशाय नम इत्यादिः प्रयोगः ।
नामाद्यक्षरमिति–गणेशस्य गेति वागीश्वर्या वेति, तेन ॐ गं गणेशाय नमः, ॐ, वां वागीश्वर्यै नम इत्यादिः प्रयोगः ।
तदिति–नामाद्यक्षरम् ।
चतुर्दशः औकारः, षष्ठः स्वरः ऊकारः, तेन गूं (गणेशाय नमः) इति ।
अघोरे घोररूपे इति ।
क्रमोदितैर्बीजैरिति–अर्थादन्ते उपलक्षितानि ।
विसर्गिणीत्युक्तेर्माया अत्र बिन्दुरहिता ।
तेन अघोरे ह्रीः परमघोरे कवचबीजं घोररूपे हः इति ।
पुनरामन्त्रणत्रयमिति घोरमुखि भीमे भीषणे इति, किन्तु अत्र द्वितीयस्मिन्नामन्त्रणपदे एकारस्थाने अकारः कार्यो येन अस्य भीमेति रूपं स्यात् ।
शक्तिद्वयामन्त्र इति वमनि पिवनि इति ।
अन्त्यमिति–नीत्यक्षरम्, तेन वम पिव इति ।
ततोऽपि दक्षजानुयुतः प्राणः, अग्निवर्णाविति–रेफद्वयम् ।
पञ्चमःस्वर उकारः ।
पराविति– अग्निवर्णावेव, अस्त्रमिति–फट्, ततः कवचबीजम्, सविसर्गः प्राणश्च पुनःशर इति द्वितीयमस्त्रम् ।
तारेणेति–प्रथममवस्थितेन प्रणवेन ।
वस्वग्नीति अष्टत्रिंशत् ।
अर्धार्णेति–अनच्कष्टकारः ।
तदुक्तं त्रिशिरोभैरवे–

“एवं परापरा देवी पदाष्टकविभूषिता ।
अष्टत्रिंशाक्षरा सैषा प्रोद्धृता परमेश्वरी ॥

अर्धाक्षरद्वयं चास्या ज्ञातव्यं तत्त्ववेदिभिः ।
"

इति ॥

पञ्चेति–यथा ॐ अघोरे ह्रीः इति अघोर्याः ।
वेदेति चत्वारः ।
अक्षीति द्वयम् ।
वह्नीति त्रयम् ।
नेत्रेति द्वयम् ।
परिशिष्टकमिति सार्धार्णद्वयमेकादशाक्षरं पदम् ।
यदुक्तम्–

“परापराङ्गसम्भूता योगिन्योऽष्टौ महाबलाः ।
पञ्च षट् पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु ॥

ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता ।
" (मा। वि। ३।६०)

इति ।
देवताचक्रेति–चत्वारिंशत्सङ्ख्याकस्य ।
यदुक्तं तत्र–

“प्रणवे भैरवो देवः कर्णिकायां व्यवस्थितः ।
अकारे उत्फुल्लनयना घोकारे पीनपयोधरा ॥

रेकारे त्वष्टृरूपा तु ह्रीःकारे व्याघ्ररूपिका ।
पकारे सिंहरूपा तु रकारे पाननिरता ॥

ततश्चैव क्रमायाता मकारे राक्षसी तथा ।
घोकारे मांसभक्षी तु रेकारे तु रणाशिनी ॥

रेतोवहा च हुङ्कारे घोकारे निर्भया स्मृता ।
रकारे घोरदशना रूकारे तु अरुन्धती ॥

क्रमेणैतास्तु विन्यस्य पेकारे प्रियवादिनी ।
हःकारे उग्ररूपा तु घोकारे नग्नरूपिणी ॥

रकारे रक्तनेत्री तु मुकारे चण्डरूपिणी ।
खिकारे पक्षिरूपा तु भीकारे भरणोज्ज्वला ॥

मकारे मारणी प्रोक्ता भीकारे च शिवा स्मृता ।
विन्यस्यैताः क्रमायाताः षकारे शाकिनी स्मृता ॥

णेकारे यन्त्रलेहा तु वकारे वशकारिका ।
मकारे कालदमना पिकारे पिङ्गली स्मृता ॥

वकारे वर्धनी चैव हेकारे हिमशीतला ।
रुक्मिणी च रुकारेण रुकारेण हलायुधा ॥

वह्निरूपा रकारेण तेजोरूपा रकारजा ।
फकारे योनिरूपा तु टकारे पररूपिणी ॥

हुङ्कारे हुतवहाख्या हःकारे वरदायिका ।
फकारेण महारौद्रा टकारे पाशदायिका ॥
"

इति ।
बहुत्वादिति–ग्रन्थविस्तरभयात्, प्रक्रान्ते श्रीपूर्वशास्त्रे हि एतत्पूजनं न आम्नातम्–इत्याशयः ।
अपरात्मक इति अपरासम्बन्धी– इत्यर्थः ।
यदुक्तम्–

“अघोरान्तं न्यसेदादौ प्राणं बिन्दुयुतं पुनः ।
वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत् ॥
" (मा। वि। ३।५१)

इति ।
उक्तेति–पूर्वम् ।
जीवः स ।
चतुर्दशः औ ।
स्वरूपाविभेदेऽपि अनेकप्रकारताप्रवचने रचनानेकसङ्कुलेति विशेषणद्वारेण हेतुः ॥

एतदेव शब्दान्तरद्वारेण पठति–

जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ ३०-२८ ॥

जीव इति अर्थात् सचतुर्दशः ।
प्राणाः ह ह ।
तदुक्तं तत्र–

“पराशक्तिस्तु सावित्र्या इच्छया च नियोजितः ।
जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥
"

इति ॥

तेन स्हौः ह्सौः वेति ॥

अनयोश्च आधाराधेयभावविपर्ययस्य अभिप्रायं प्रकटयन् विशेषणमेव प्रकाशयति–

आधाराधेयभावेन अविनाभावयोगतः ।
हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ ३०-२९ ॥

भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् ।
दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ ३०-३० ॥

प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् ।
परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ ३०-३१ ॥

स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् ।
अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ ३०-३२ ॥

शून्यद्वयसमोपेतं पराया हृदयं परम् ।
युग्मयोगे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ ३०-३३ ॥

अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः ।
गुप्ता गुप्ततरास्ते तु अङ्गाभिजनवर्जिताः ॥ ३०-३४ ॥

यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः ।
कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ ३०-३५ ॥

अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा ।
सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु ॥ ३०-३६ ॥

स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः ।
ओङ्कारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ ३०-३७ ॥

प्रणवश्चामृते तेजोमालिनी स्वाहया सह ।
एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ ३०-३८ ॥

वेदवेदनि हूं फट् च प्रणवादियुता शिखा ।
वज्रिणे वज्रधराय स्वाहेत्योङ्कारपूर्वकम् ॥ ३०-३९ ॥

एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् ।
तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ ३०-४० ॥

नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् ।
तारः श्लीं पशु हुं फट् च तदस्त्रं रसवर्णकम् ॥ ३०-४१ ॥

लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः ।
इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ ३०-४२ ॥

स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके ।
नमः स्वाहा तथा वौषट् हं वषट् फट् च जातयः ॥ ३०-४३ ॥

अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः ।
जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके ॥ ३०-४४ ॥

अभिचारे च मन्त्राणां नमस्कारादिजातयः ।
अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ ३०-४५ ॥

योन्यर्णेन च मातॄणां सद्भावः कालकर्षिणी ।
आद्योज्झितो वाप्यन्तेन वर्जितो वाथ सम्मतः ॥ ३०-४६ ॥

जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः ।
अतिदीप्तस्तु वामाङ्घिर्रभूषितो मूर्ध्नि बिन्दुना ॥ ३०-४७ ॥

दक्षजानुगतश्चायं सर्वमातृगणार्चितः ।
अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥ ३०-४८ ॥

सद्भावः परमो ह्येष मातॄणां भैरवस्य च ।
तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ ३०-४९ ॥

रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः ।
यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ ३०-५० ॥

यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् ।
अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ ३०-५१ ॥

दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ ।
नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ ३०-५२ ॥

सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः ।
अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ ३०-५३ ॥

महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् ।
नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ ३०-५४ ॥

श्रीडामरे महायागे परात्परतरोदिता ।
सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ ३०-५५ ॥

अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते ।
शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ ३०-५६ ॥

एवं प्रत्ययमालोच्य मृत्युजिद् ध्यानमाश्रयेत् ।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ ३०-५७ ॥

द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा ।
कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु ॥ ३०-५८ ॥

व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने ।
छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ ३०-५९ ॥

बिन्द्विन्द्वनलकूटाग्निमरुष्ठस्वरैर्युतम् ।
आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ ३०-६० ॥

कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः ।
जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ ३०-६१ ॥

कथितं सरहस्यं तु सद्योनिर्वाणकं परम् ।
अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी ॥ ३०-६२ ॥

शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ।
सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ ३०-६३ ॥

यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ।

अविनाभावेति–शक्तिशुद्धात्मनोरैकात्म्यात् ।
यदुक्तं तत्र–

“अविनाभावतो देवि शक्तेः शुद्धात्मना सह ।
शिवं शक्तिं विजानीयात्प्राणः शुद्धात्मसञ्ज्ञकः ॥

एकरूपतया ज्ञेयावाधाराधेययोगतः ।
"

इति ॥

अन्त्यस्य च अस्य बीजस्य

“हृदयार्णं नितम्बार्णं दक्षजानुगतं प्रिये ।

सा देवी स शिवस्तच्च विश्वं तस्यान्यविस्तरः ।
ग्रन्थकोटिसहस्राणामेतत् सारं विचिन्तयेत् ॥

प्रभावोऽस्या न शक्येत वक्तुं कल्पशतैरपि ।
"

इत्यादिना श्रीदेवीपञ्चशितके माहात्म्यमुक्तम् ।
अत्र च श्रीमदोजराजस्य पाठव्यत्ययात् मतान्तरमिति तद्गुरव एव प्रमाणम् ।
हंसः ह, अमृतं स, कालरुद्रः ऊ, भुवनेशः औ, अनङ्गद्वयम् विसर्गः, स्ह्सूः ।
षट्चक्रेति–षडवयवत्वात् ।
प्राणः ह, दण्डः रेफः, गुह्यशक्तिः ई इच्छा अः, एवं ह्रीम्ः ।
अमृतं स, खेति आकाशबीजम् ह, एवं स्ह ।
बिन्दुरत्र अविनाभावित्वादाक्षेप्यः ।
यद्वेति पक्षान्तरे ।
सावित्रिका औ, तेन शून्यद्वयं विसर्गः, एवं सौः ।
युग्मयागो यामलम् ।
यद्यपि च एतत्

“…जीवः सहचतुर्दशः ।
" (२७ श्लो।
)

इत्यादिना समनन्तरमेव उद्धृतं तथापि पुनः श्रीत्रिशिरोभैरवग्रन्थशय्यानुगुण्यादुक्तम्–इति न कश्चिद्दोषः ।
अन्ये इति–

“जीवः प्राणस्थ… ।
" (श्लो। २८)

इत्यादिना उक्ताः ।
अभिजनेति–वक्त्रैः ।
स एवेति–सकारः ।
खेति– बिन्दुः ।
तदुक्तम्–

“जीवो दीर्घस्वरैः षड्भः पृथग्जातिसमन्वितः ।
विद्यात्रयस्य गात्राणि ह्रस्वैर्वक्त्राणि पञ्चभिः ॥
" (मा। वि। ३।६१)

इति ॥

अत्र च शिखायां कवचबीजमिति श्रीत्रिशिरोभैरवानुयायिनः, चतुष्कलमिति श्रीदेव्यायामलोपजीविनः, अस्मद्गुरवस्तु द्वितीयमेव पक्षमामनन्ति यदिह श्रीपूर्वशास्त्रानुदितस्यापि नेत्रमन्त्रस्य श्रीत्रिशिरोभैरवीयं मतमपहाय श्रीदेव्यायामलप्रक्रमेणाभिधानात् तदर्थ एव विवक्षित इति ।
तथाच त्रिशिरोभैरवः–

गायत्रीं पञ्चधा कृत्वा शुक्रया तु समन्विताम् ।
हृदयायेति मन्त्रोऽयं सर्वज्ञो हृदयं परम् ॥

वागीशीं केवलां गृह्य नितम्बं तु समालिखेत् ।
निवृत्तिस्थं तु तं कृत्वा तारा तु तदनन्तरम् ॥

द्विधायोज्य ज्ञानशक्त्या युक्ता शूलं समुद्धरेत् ।
दण्डेन रहितं कृत्वा गायत्र्या तु समन्वितम् ॥

महाकाली पयोयुक्ता मायाशक्त्या तु पूतना ।
नादिनी जिह्वया युक्ता परमा कण्ठसंयुता ॥

पयोन्वितां तु तां कृत्वा अम्बिका पयसा युता ।
शिरस्त्रिशिरनाथस्य तृप्तियुक्तमुदाहृतम् ॥

ज्ञानशक्तिस्तु कण्ठस्था दहनीं केवलां न्यसेत् ।
द्विधायोज्य समालिख्य नादिनी तदनन्तरम् ॥

मायया तु समायुक्ता मोहिनी अम्बिकायुता ।
शुक्रादेव्या समायुक्ता फेङ्कारी तदनन्तरम् ॥

कपालं चैव तस्यान्ते स्वरार्धेन विवर्जितम् ।
अनादिबोधसञ्ज्ञा तु शिखा प्रोक्ता सुरेश्वरि ॥

शिखिनीं केवलां दद्याज्जयन्ती दण्डसंयुता ।
जिह्वायुक्ता तु संयोज्या दृग्युक्ता च जनार्दनी ॥

शिखिनी केवलोद्धार्या त्रिशूलं दण्डसंयुतम् ।
प्रियदर्शन्यतो दण्डः पयसा तु समन्वितः ॥

वायुवेगा तु परमा शिखिनी पयसा युता ।
अम्बिका पयसा युक्ता अभेद्यं कवचं विदुः ॥

चामुण्डा परमा शक्तिरम्बिका च ततोद्धरेत् ।
सावित्र्या सहिताः सर्वा बिन्दुना समलङ्कृताः ॥

नेत्रत्रयं तु देवस्य आख्यातं तव सुव्रते ।
कुसुमा पूतना चैव गुह्यशक्तिसमन्विता ॥

शुक्रया मस्तकोपेता हृदयं केवलं ददेत् ।
गुह्यं मोहनयाभेद्य अम्बिका बिन्दुसंयुता ॥

प्रज्ञाशक्तिसमारूढा फेङ्कारी तु कपालिनीम् ।
भिन्नां तु योजयेच्चाशु अस्त्रं भानुसमप्रभम् ॥

महापाशुपतं ख्यातं सर्वासिद्धिविनाशनम् ।
"

इति ॥

श्रीदेव्यायामलमपि–

“पञ्चधा हृदयं चास्य आदिवर्णं तु यत्स्मृतम् ।
वागर्णं च नितम्बं च शिरोमालाद्यसंस्थितम् ॥

ऊरुं दक्षिणजानुस्थं द्विधा कृत्वा समन्ततः ।
परतस्तूद्धरेद्वर्णं शूलमोकारदीपितम् ॥

नितम्बं क्षीरयुक्तं तु शिरोमालातृतीयकम् ।
नि स्वाहा शिर आख्यातं प्रणवादिविभूषितम् ॥

प्रणवं कण्ठवर्णं च दक्षजानुनियोजितम् ।
द्विधा कृत्वा ततः पश्चात् सव्यपादं च मध्यतः ॥

सव्यपादं ततोद्धृत्य जिह्वार्णेन शिखा युता ।

अपरान्त्यद्वयं योज्य शिखा वज्रिण उद्धरेत् ।

कण्ठार्णं च त्रिशूलं च नेत्रे परत उद्धरेत् ।
क्षीरार्णे शूलदण्डं च स्वाहान्ते कवचोऽग्रतः ॥

प्रणवं शूलवर्णं तु कर्णपूरेण भूषितम् ।
दक्षिणेन नितम्बाढ्यमात्मा योज्यो विसर्गवान् ॥

नेत्रं देव्या भवेदेतन्मृत्युञ्जयकरं परम् ।
श्लीं पशुं प्रणवाद्यं च प्राणं परत एव च ॥

युक्तं च सर्वतः कुर्याद्वामश्रवणभूषणे ।
शिखान्ताद्योजयेद्वर्णमस्त्रं परमदारुणम् ॥

इति ॥

तारः प्रणवः, द्विजिह्वो ज, ख बिन्दुः, शरस्वरः उ, जीवः सविसर्गः स ।
रसेति–षट्, टकारो हि अनचकत्वादिह न गणितः ।
दीर्घैरिति–प्रागुक्तदीर्घषट्कयुक्तैः, कुबेरेशानयोस्तु षष्ठेन द्वितीयेन च दीर्घेण सम्भिन्नो सकारमकाराविति उक्तं सूमायुक्तैरिति ।
ह्रस्वैरिति–दीर्घानुगुणैः ।
यदुक्तम्–

“पूतना शूलदण्डस्तु कपालं नाभिरेव च ।
शिखिनी वायुवेगा च परमा च नितम्बकः ॥

विज्ञेयाश्च महादेवि दीर्घयुक्ताः सबिन्दुकाः ।
मन्त्रास्तु लोकपालानां तदस्त्रा दीर्घवर्जिताः ॥
"

इति ॥

तुर्यद्वितीयाभ्यामिति–रिकाराकाराभ्याम् ।
ह्रस्वाभ्यामिति– इकाराकाराभ्यां

“तद्वन्नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती ।
स्वरावाद्यतृतीयौ तु वाचकौ पद्मचक्रयोः ॥
"

इति ।
षट्स्विति काकाक्षिन्यायेन योज्यम् ।
कर्मणामपि हि षड्विधत्वमेव विविक्षितम् ।
तदात्मिका इति–क्रमरूपा–इत्यर्थः ।
तदात्मकत्वमेव दर्शयति–जपे इत्यादिना ।
अक्षीति–द्वितीयः कवर्गः ।
द्वितीया इति– खफराः ।
योन्यर्णेन एकारेण ।
एव पञ्चपिण्डनाथः ।
यदुक्तम्–

“दन्तपङ्क्त्या द्वितीयं तु वामपादं तथैव च ।
अधो दण्डनियुक्तं तु दक्षजानुसमायुतम् ॥

तिलकेन समाक्रान्तं सर्वसिद्धिप्रदायकम् ।
"

इति ॥

आद्येति–खकारेण, तेन फ्रें इति ।
अन्त्येनापीति–न केवलमाद्येन खकारेण यावदन्त्येन रेफेणापि–इत्यर्थः, तेन फें इति ।
जीवः स ।
प्राणयोः हकारयोः पुटम् ।
कालानलः र ।
वामाङ्घ्रः फ ।
अतिदीप्तोऽधोवर्तिना रेफेण ।
दक्षजानुः ए ।
स्वरेति ह्रस्वदीर्घभेदेन ।
दण्डः र ।
जीवः स ।
त्रिशूलम् ज ।
दक्षाङ्गुलिः भ ।
अपरो दक्षापेक्षया वामः स्तनः ल ।
नाभिः क्ष ।
कण्ठः व ।
मरुत् य ।
रुद्रः ऊ ।
विसर्गः अः ।
त्रिशूलम् औ ।
अष्टमश्च अत्र वर्णः शपठाद्य इति सहितया आवेदितम् ।
तदुक्तम्–

“कालं सर्वगतं चैव दारणाक्रान्तमस्तकम् ।
तृतीयाद्यं तरङ्गं च डाकिनीमर्मसंयुतम् ॥

पवनं नवमे युक्तं तस्मात्सप्तममेयुतम् ।
लक्ष्मीबीजं ततोद्धृत्य उदधीशसमन्वितम् ॥

सोमात्सप्तममुद्धृत्य नववर्णा कुलेश्वरी ।
"

इति ॥

कालः म ।
सर्वगतः ह ।
दारणा आ ।
तृतीयाद्यम् च ।
तरङ्गं ण, डाकिनीमर्म ड ।
पवनः य ।
नवमः ओ ।
तस्मादिति एकारात् सप्तमो ग, ए एकारः ।
लक्ष्मीबीजं श, उदधीशः व ।
सोमात् ( अवर्णात्) सप्तमः ऋ ।
नववर्णेयमिति ।
“…षद्भावः कालकर्षिणी ।
" (श्लो। ४६)

इत्युक्त्या सद्भावादिभ्य एकतमेन सह–इत्यर्थः ।
इयता च अनयोः पिण्डयोः पिण्डनाथेन समव्याप्तिकत्वमावेदितम् ।
परात्परतरेति– यदुक्तं तत्र–

“या सा सङ्कर्षिणी देवी परातीता व्यवस्थिता ।
"

इति ॥

सुधा स, छेदकम् क, शण्ठाद्यम् ऋ, छेदकमस्वरमिति अनच्कककारमेवं स्कृक् ।
तदुक्तम्–

“जीवमादिद्विजारूढं शिरोमालादिसंयुतम् ।
कृत्वा ततोऽग्रे कुर्वीत द्विजमाद्यमजीवकम् ॥

इत्येषा कथिता कालरात्रिर्मर्मनिकृन्तनी ।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥

शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना ।
एवं प्रत्ययमालोच्य मृत्युजिद् ध्यानमाश्रयेत् ॥
" (मा। वि। १७।३१)

इति ॥

दण्डः र, अग्निः र, तौ च द्विः; तेन ररः ररः ।
प्राणः ह, नभः क्ष, शूलम् ज, एवं ह्क्ष्जः ।
छेत्ता क, अनलः र एवं क्रः ।
कूटम् क्ष, अग्निः र, एवं क्ष्रः ।
बिन्दुः, इन्दुः स, अनलः र, कूटम् क्ष, अग्निः र, मरुत् य, षष्ठः स्वरः ऊ, एवं स्रक्ष्यूई ॥

सद्यः प्रत्ययदायित्वमेव अस्या दर्शयति–

या ज्ञानिनोऽपि सम्पूर्णकृत्यस्यापि श्रुता सती ॥ ३०-६४ ॥

प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति ।
यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः ॥ ३०-६५ ॥

प्रबोधं वक्तृसाम्मुख्यमभ्येति रभसात्स्वयम् ।
परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ ३०-६६ ॥

पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् ।
आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ ३०-६७ ॥

गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढेर् ।
जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ ३०-६८ ॥

एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् ।
हम्स हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः ॥ ३०-६९ ॥

रविसोमवह्निसङ्घट्टबिन्दुदेहो हहह समुत्क्राम ।
तृतीयमार्यावाक्यं प्राक्सङ्ख्यैरेकाधिकैः पदैः ॥ ३०-७० ॥

हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी ।
मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ ३०-७१ ॥

कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह ।
आर्यावाक्यमिदं सार्धं रुद्रसङ्ख्यपदेरितम् ॥ ३०-७२ ॥

निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः ।
अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे! ॥ ३०-७३ ॥

एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः ।
व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ ३०-७४ ॥

प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् ।
आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ ३०-७५ ॥

ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य ।
उत्क्रम हे देहेश्वर! निरञ्जनं शिवपदं प्रयाह्याशु ॥ ३०-७६ ॥

आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः ।
प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ ३०-७७ ॥

आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य ।
धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ ३०-७८ ॥

आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः ।
हे ब्रह्मन्! हे विष्णो! हे रुद्र! शिवोऽसि वासुदेवस्त्वम् ॥ ३०-७९ ॥

अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश! ।
एतद्भुवनसङ्ख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ ३०-८० ॥

सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् ।
पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ ३०-८१ ॥

अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म! ।
आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ ३०-८२ ॥

अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे ।
पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः ॥ ३०-८३ ॥

अभवाभव! नित्योदित! परमात्मंस्त्यज सरागमध्वानम् ।
एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ ३०-८४ ॥

ह्रींहूम्मन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् ।
आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥ ३०-८५ ॥

तदिदं गुणभूतमयं त्यज स्व षाट्कोशिकं पिण्डम् ।
स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ ३०-८६ ॥

मा देहं भूतमयं प्रर्गृह्यतां शाश्वतं महादेहम् ।
आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ ३०-८७ ॥

मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् ।
आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ ३०-८८ ॥

सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः ।
वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ ३०-८९ ॥

प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते ।

भुवनाख्यैरिति–चतुर्दशभिः ।
एतावद्भिरिति–चतुर्दशभिरेव ।
प्राक्सङ्ख्यैरेकाधिकैरिति–पञ्चदशभिः ।
रुद्रसङ्ख्यैरिति– एकादशभिः ।
उपैतीति–तेन अत्र शुभाशुभोपेक्षीति पाठः ।
निःश्वासशासने इति–तत्र हि उत्क्रम हे देहेश प्रभञ्जनस्त्वं प्रयाह्याशु–इति पाठः, पदप्रविभागस्तु अविशिष्ट एव ।
नवभिरिति–समाहृत्येत्यस्य एकत्वेन इष्टेः ।
भुवनसङ्ख्यातैरिति– चतुर्दशभिः ।
अग्नीषोमसनातनमृत्पिण्डेति एकमेव पदम् ।
आर्य्यावाक्यमिति- अर्थात् नवमम् ।
पदत्रयमिति–निःश्वासादौ हि अग्नीषोमसनात्म त्रिपिण्डञ्जहिहि हे महाकोशमिति पाठः, तेन अत्र पञ्चदश पदानि- इति सिद्धम् ।
आर्यावाक्यमिति–अर्थादर्धम् ।
द्विरिति– द्वौ वारौ, तेन अत्र अङ्गुष्ठमात्रमलमलमावरणं जहिहि हे महासूक्ष्ममिति पाठः ।
आर्यावाक्यमिति–अर्थादेकादशम् ।
तावद्भिरिति–सप्तभिः ।
पञ्चदशभिर्वाक्यैरिति, आर्याभिस्तु द्वादशभिः सार्धाभिः ॥

निष्कलामेव ब्रह्मविद्यां निर्दिशति–

तारो माया वेदकलो मातृतारो नवात्मकः ॥ ३०-९० ॥

इति पञ्चाक्षराणि स्युःप्रोक्तव्याप्त्यनुसारतः ।
बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ ३०-९१ ॥

एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः ।
कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति ॥ ३०-९२ ॥

लघुत्वेन तुलाशुद्धिः सद्यः प्रत्ययकारिणी ।
तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ ३०-९३ ॥

शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् ।
षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ ३०-९४ ॥

अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् ।
हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ ३०-९५ ॥

वेदकलः–चतुष्कलः ।
मातृतारः–फ्रेङ्कारः ।

नवात्मा– बिन्दुप्राणदण्डनाभिनितम्बवामस्तनकण्ठवामस्कन्धवामकर्णाभर् अणाक्षरारब्धः ।
एतच्च सार्धमार्याद्वादशकमवमृष्टप्रागुक्तार्थसतत्त्वस्य स्वयमवगन्तुं शक्यत्वात् ग्रन्थविस्तरभयाच्च न प्रातिपद्येन व्याख्यातमिति न विद्वद्भिरस्मभ्यमसूयितव्यम् ।
बिन्दुः शून्यम्, प्राणः ह, अमृतम् स, जलम् व, मरुत् य, षष्ठस्वरः ऊ; प्राणः ह, त्रिकूटः क्ष, ऊर्ध्वबाहुः झ, शूलम् औ, बिन्दुः शून्यम्, अनच्कौ नादः, नासा शक्तिरधोवक्त्रश्चन्द्रखण्डः अर्धचन्द्रः; एवं हूर्क्ष्झूं ॥ ९५ ॥

सर्वसंहारकत्वमेव अस्य दर्शयति–

अग्निमण्डलमध्यस्थभैरवानलतापिताः ।
वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ ३०-९६ ॥

विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः ।
ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ ३०-९७ ॥

प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् ।
प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ ३०-९८ ॥

वशमायान्तीति–हठेन मेलापं कुर्वति–इत्यर्थः ।
प्रथममितिमेलापसामनन्तर्येण–इत्यर्थः ।
एभिर्वर्णैरिति– मायाबीजकामराजाभ्यां वामस्तनदक्षजानुबिन्दुसम्भिन्नाभ्यां कण्ठादिदन्ताभ्यां चेत्येवंरूपैः ।
प्रत्येकमिति–यथा क्लं व्लं क्लं ह्रीं क्लं व्लं क्लं इति ।
द्वाभ्यामिति–यथा व्लां क्लां ह्रीं क्लीं व्लां क्लां इति, ह्रिं क्लिं व्लिं क्लिं ह्रीं क्लीं व्लें क्लें क्लिं व्लिं क्लिं ह्रिं इति ।
एवं स्वरान्तरभूषितत्वेऽपि ज्ञेयम् ॥९८ ॥
अत्रैव गुर्वागमौ दर्शयति–

तुलामेलकयोगः श्रीतन्त्रसद्भावशासने ।
य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ ३०-९९ ॥

अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः ।
देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ ३०-१०० ॥

प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता ।
कथ्यते हाटकेशानपातालाधिपचोदिता ॥ ३०-१०१ ॥

तदेव आह–

श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे ।
वरुणो मच्छन्दो भगदत्त इति त्रयमिदं हृदये ॥ ३०-१०२ ॥

धर्मादिवर्गसञ्ज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः ।
ह्रींश्रीम्पूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ ३०-१०३ ॥

मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन ।
कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ ३०-१०४ ॥

गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः ।
मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ ३०-१०५ ॥

एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये ।
बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ ३०-१०६ ॥

धर्मादिवर्गेति–धर्मार्थकाममोक्षलक्षणचतुर्वर्गः, तेन धर्मनाथः, अर्थनाथः, कामनाथः, मोक्षनाथ इति; सम्बोधः आमन्त्रणम्, तेन ह्रीं श्रीं श्रीनाथपादेत्यादिः क्रमः ।
उक्तमिति–परापराद्यात्मकम् ।
भावीति–वक्ष्यमाणम् ।
अथेति–विकल्पे ।
मनोऽभियोगेनेति–अनुसन्धानदार्ढ्येन–इत्यर्थः ।
आनन्दैरिति – तत्कारिभिः सुरादिभिः ।
परं धामेत्यनेन अस्या मुमुक्षुविषयत्वमेव निर्वाहितम् ॥

एतदेव विद्यात्रयं निर्दिशति–

प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् ।
पदपञ्चकस्य सम्बोधनयुक्तस्याग्निदयितान्ते ॥ ३०-१०७ ॥

प्रणवः ॐ, माया ह्रीम्म्, बिन्दुश्चतुष्कलतया हूई ।
अग्निदयिता स्वाहा ॥ १०७ ॥

पदपञ्चकमेव निर्दिशति–

सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि ।
समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ ३०-१०८ ॥

बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् ।
पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥ ३०-१०९ ॥

खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा ।
अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ ३०-११० ॥

अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् ।
वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तोऽर्णत्रयादतः ॥ ३०-१११ ॥

महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् ।
आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ ३०-११२ ॥

षडर्णं पापशब्दादिविमोहनिपदं ततः ।
पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ ३०-११३ ॥

पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति ।
तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ ३०-११४ ॥

तदनच्कतकारेण सहैकीभावतः पठेत् ।
रन्ध्रब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ ३०-११५ ॥

मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् ।
अष्टार्णमथ पञ्चार्णं योगधारिणिसञ्ज्ञितम् ॥ ३०-११६ ॥

आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् ।
एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ ३०-११७ ॥

रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे ।
पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ ३०-११८ ॥

सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा ।
सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ ३०-११९ ॥

विद्या सार्धार्णखशरसङ्ख्या सा पारमेश्वरी ।

पदपञ्चकस्यैव वर्णविभागमपि आह–पञ्चेत्यादि ।
रन्धेर्ति नव ।
खपञ्चार्णेति पञ्चाशद्वर्णाः, एवं ॐ ह्रीं हूई बोधनि ॐ ह्रीं हूई शिवसद्भावजननि स्वाहा ।
अनुत्तरः अ, इच्छा इ ।
घान्तः न ।
त्रयोदशः स्वरः ओ ।
अन्तःस्था यरलवाः ।
वर्गाद्यः अ ।
अश्वः ण ।
त्र्यस्रम् ए बिन्दुयुक् पान्तः फम्, एवं फें ।
विसर्गब्रह्म स, रन्ध्रब्धीति एकान्नपञ्चाशत् ।
एवं ऐङोयरलवाणफें महाहाटकेश्वरि क्षमस्व पापान्तकारिणि पापविमोहनि पापं हन हन धुन धुन रुद्रशक्तिवशात् सत् ।
मायार्णम् हीम् ह्रीं ।
एकारान्तं बोधनस्थमिति तेन आत्मे अन्तरात्मे परमात्मे इति ।
चतुष्पदीति–दह दहेति एकमेव हि पदम् ।
युग्मम्–पदयोः ।
षट्कम्– वर्णानाम् ।
बिन्दुः हूई ।
इषुः फट् ।
सावहा स्वाहा ।
खशरेति पञ्चाशत् ।
सार्धार्णं ट् ।
एवं ह्रीं परे ब्रह्मे चतुर्विद्ये योगधारिणि आत्मे अन्तरात्मे परमात्मे रुद्रशक्तिरुद्रदयिते मे पापं दह दह सौम्ये सदाशिवे हूई फट् स्वाहा– एतच्च अस्माकं गुरुभिरुपदिष्टम्–इत्याह–

एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ ३०-१२० ॥

यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् ।

ननु इह मन्त्राणां स्वरूपं दर्शितम्, वीर्यं पुनः कस्मात् न उक्तम्?–इत्याशङ्क्य आह–

अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ ३०-१२१ ॥

अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः ।
नहि तत्किञ्चनाप्यस्ति यत्पुरा न निरूपितम् ॥ ३०-१२२ ॥

निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते ।

ननु अनेकप्रकारं हि तद्वीर्यं तत् केन प्रकारेण एतद्?–इत्याशङ्क्य आह–अर्थेत्यादि ॥

एतदेव अर्धेन उपसंहरति–

इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ ३०-१२३ ॥

इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके मन्त्रादिप्रकाशनं नाम त्रिंशमाह्निकम् ॥ ३० ॥

इति शिवम् ॥

श्रीमद्गुरूपदेशासादितमान्त्रस्वरूपपरितृप्तः ।
एतज्जयरथनामा निरणैषीदाह्निकं त्रिंशम् ॥

इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते मन्त्रादिप्रकाशनं नाम त्रिंशमाह्निकं समाप्तम् ॥ ३० ॥