२८

अष्टाविंशमाह्निकम्

" विवेकः "

समयविलोपविलुम्पनभीमवपुः सकलसम्पदां दुर्गम् ।
शमयतु निरर्गलं वो दुर्गमभवदुर्गतिं दुर्गः ॥

इदानीं नित्यकर्म उपसंहरन् प्राप्तावसरं नैमित्तिकं वक्तुं प्रतिजानीते–

इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥ २८-१ ॥

तत्र नैमित्तिकमेव लक्षयितुं परेषां नित्यद्वारेण तल्लक्षणस्य अतिव्याप्त्यादिदोषदुष्टत्वमाविष्करोति–

नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते ।
मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥ २८-२ ॥

ननु यदि नाम यदेव नियतं भवेत्, तदेव नित्यं तत् नियतभावित्वान्यथानुपपत्त्या सर्वस्य तन्मयीभाव एव अहर्निशमापद्येत ।
स्नानादौ प्रवृत्तस्य हि तदा कदाचिदपि विरतिर्न स्यात् नियतभावित्वात् तस्य ।
न च एवमस्ति, तन्न किञ्चिदपि नित्यं भवेत्, अपि तु सर्वं नैमित्तिकमेव–इत्याह–सर्वं नैमित्तिकं तत इति ॥ २ ॥

अथोच्यते दिनादिकल्पनानियमेन नित्यतेति यथाशंसं सायम्प्रातरादावेव सन्ध्यावन्दनादि–इत्याह–

दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता ।
दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥ २८-३ ॥

एवं तर्हि सर्वत्र दिनादिकल्पनानैयत्यस्य भावात् सर्वमेव नित्यमुच्यते–इत्याह–सर्वेत्यादि ॥३ ॥

एवं परकृतं नैमित्तिकलक्षणं नित्यद्वारेण अपाकृत्य, स्वमतेन आह–

अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् ।
प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥ २८-४ ॥

इदं हि बुधा नैमित्तिकं प्राहुः–तल्लक्षणं कथितवन्तः यदशङ्कितव्या निश्चिता अत एव प्रत्यवायजिहासावैवश्यात् अवश्यन्तया भाविनी सत्ता स्वरूपं यस्य तत्तथेति ।
ननु नित्यमपि एवमित्यत्रापि अतिव्याप्तिरेव ?–इत्याह–जातुचिद्भवम् –इति कादाचित्कमित्यर्थः ।
ननु नित्यस्यापि कालनैयत्यादेवंरूपत्वमेवेति पुनरपि तदवस्थ एव स दोषः ?–इत्याह–प्रमात्रनियतमिति ।
नित्यं हि समय्यादीनां चतुर्णामपि नियतम्, इदं तु केषाञ्चिदेवेति ।
यदुक्तम्–

नित्यादित्रितयं कुर्याद् गुरुः साधक एव च ।
नित्यमेव द्वयं चान्यद्यावज्जीवं शिवाज्ञया ॥
"

इति ॥४ ॥

एवं नैमित्तिकं लक्षयित्वा प्रसङ्गान्नित्यमपि लक्षयति–

सन्ध्यादि पर्वसम्पूजा पवित्रकमिदं सदा ।
नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥ २८-५ ॥

इदं हि स्नानसन्ध्यावन्दनादि नित्यं यदेतदस्मद्दर्शनस्थे सर्वस्मिन् समय्यादिके सदा नियतरूपमेवेति ॥ ५ ॥

न्यायबलोपनतश्च अयं प्रमात्रपेक्षो नित्यनैमित्तिकयोर्विभाग उक्तः, शास्त्रीयस्तु यथावचनमेव सर्वत्र प्रसिद्धः ।
तत्र नित्यविभागः प्रागेव सविस्तरमुक्तः, नैमित्तिकविभागस्तु इह प्रकान्त एव–इत्याह–

ज्ञानशास्त्रगुरुभ्रतृतद्वर्गप्राप्तयस्तथा ।
तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसङ्गतिः ॥ २८-६ ॥

श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् ।
योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥ २८-७ ॥

शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः ।
देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥ २८-८ ॥

इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् ।
त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥ २८-९ ॥

संस्क्रिया–गुर्वभिषेकदिनम् ।
अभेदः–परमशिवेन एक्यात् तन्मृतिदिनम् ।
उत्सवः–लौकिको महीमानादिः ।
विपदः– स्वशक्त्यपहारादिरूपायाः, प्रमोदः–हारितस्य पुनर्लाभादिना, अद्भुतस्य–विश्वक्षोभादेः ।
अनेन च विपत्प्रतीकारादिना चतुष्टयेन शिवरात्रिसञ्ज्ञकमपि नैमित्तिकं सङ्गृहीतम् ।
तत्र हि एतदेव भगवतोऽभवत्–इत्याम्नायः ।
तच्च साधारण्येनैव सर्वशास्त्रेषु आम्नातमिति नेह स्वकण्ठेनोक्तम् ।
स्वांशसन्तानः–स्वमठिकासब्रह्मचारी ।
क्रमेति–प्रागुक्ततत्तच्चक्रात्मनः ।
स्वाप्नं देवतादर्शनमिति शुभस्वप्नदर्शनम्–इत्यर्थः ।
आज्ञा–स्वाभिषेकदिनम् ।
समयनिष्कृतिरिति–प्रायश्चित्ताचरणम्–इत्यर्थः ।
एवं नैमित्तिकस्य विभागमभिधाय प्रयोजनमप्याह–विशेषार्चानिबन्धनमिति ॥९ ॥

तदेवं सति प्राधान्यात् प्रथमं तावत् पर्वभेदानाह–

तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् ।
कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसञ्चरे ॥ २८-१० ॥

अब्धीन्दुमुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः ।
प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥ २८-११ ॥

अब्धिरक्षीन्दु वैष्णव्या एन्द्य्रस्त्वस्त्रं त्रयोदशी ।
वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥ २८-१२ ॥

द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः ।
तस्या अप्यष्टमी यस्माद् द्वितिथिः सा प्रकीर्तिता ॥ २८-१३ ॥

अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् ।
कुलपर्वेति तद् ब्रूमो यथोक्तं भैरवे कुले ॥ २८-१४ ॥

हैडरे त्रिकसद्भावे त्रिककालीकुलादिके ।
योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥ २८-१५ ॥

स चक्रभेदसञ्चारे काञ्चित् सूते स्वसंविदम् ।
स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥ २८-१६ ॥

पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः ।
पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ २८-१७ ॥

हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः ।

पूर्वमिति–कुलपर्व ।
अब्धीन्दु–चतुर्दशी, मुनिः सप्तमी ।
ब्रह्मसन्ततेरिति–ब्रह्म्याः ।
रसवह्नियुगिति षष्ठीतृतीयायुग्मम् ।
अब्धिः–चतुर्थी, अक्षीन्दु द्वादशी ।
अस्त्रं–पञ्चमी ।
रन्ध्ररुद्रौ नवमी एकादशी च ।
वस्वक्षीति अष्टमी द्वितीया च ।
तस्या अपीति– न केवलं चामुण्डायाः, तेन अष्टमी उभयोरपि साधारणीत्यर्थः ।
एवं यो यस्मिंस्तिथौ सम्भूतः, तत् तस्य कुलपर्व–इति भावः ।
यदुक्तम्–

“यो यस्मिंस्तिथिसम्भूतस्तस्य सा कुलदेवता ।
"

इति ।
वैपरीत्येनेति अशुभकरी–शुभकरीतिवत्, वस्तुतः अकुले अशरीरे शक्तौ वा भवेत्–इति भावः ।
पूर्वमिति–षष्ठाह्निके सप्तमाह्निके च ।
अस्मिन्नेवार्थे पर्वशब्दं व्युत्पादयति–पर्वेत्यादिना ।
तेन “पर्व पूरणे” इत्यस्य अचि पर्वशब्दोऽकारान्तः ।
“पॄ पालनपूरणयोः” इत्यस्य औणादिके वनिपि नकारान्तः पर्वञ्छब्दः ।
पूरणात्पर्व इति च निर्वचनम् ।
लक्ष्येऽप्येवम्–इत्याह– हैडरेऽत्रेत्यादि ।
अत्रेति–भैरवकुलादौ ।
तदुक्तं तत्र–

“पूजनात् कुलपर्वेषु… ।
"

इति,

“… कुलपर्वसु पूजनात् ॥
"

इति च ॥

एतदभिज्ञाश्च सिद्धयोगिन्यादयोऽत्र पूजापराः–इत्याह–

तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥ २८-१८ ॥

तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा ।
योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥ २८-१९ ॥

तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् ।

अतन्मय इति–चक्रचाराद्यनिष्णातः–इत्यर्थः ॥

एतदेव दृष्टान्तयति–

यथा पेर्क्षणके तत्तद्द्रष्ट्टसंविदभेदिताम् ॥ २८-२० ॥

क्रमोदितां सद्य एव लभते तत्प्रवेशनात् ।
योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥ २८-२१ ॥

लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् ।
तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥ २८-२२ ॥

तेन तत्तत्फलं तत्र काले सम्पूजयाचिरात् ।

यथा हि द्रष्टॄणां प्रेक्षणकादौ तावति अंशे भेदविगलनात् क्रमिकतया स्थिता अपि कस्यचित् तत्कालमनुप्रविष्टस्यापि सद्य एव अभिन्ना संविदुदेति, तथा प्रकृतेऽप्येवम् ।
पर्वादौ हि पूर्णायाः संविदः कामधेनुप्रख्यत्वं येन अचिरादेव तत्कालं पूजावशात् तत्तत्फलमुदियात् ॥

ननु सिद्धयोगिन्यादीनां पर्वादौ संविदः पारिपूर्ण्यात् तत्तत्फलमस्तु, अन्येषां पुनरेतत्कथं स्यात्?–इत्याशङ्कां प्रशमयितुं दृष्टान्तयति–

यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ २८-२३ ॥

अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् ।
तथा सुफलसंसिद्धयै योगिनीसिद्धनायकाः ॥ २८-२४ ॥

यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते ।

न च एतद्युक्तित एव सिद्धम्–इत्याह–

उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ २८-२५ ॥

यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया ।
मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥ २८-२६ ॥

कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये ।
ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ २८-२७ ॥

गुरूणां देवतानां च न कुर्वन्ति प्रमादतः ।
दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥ २८-२८ ॥

अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् ।
अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥ २८-२९ ॥

शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् ।
तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥ २८-३० ॥

तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् ।

तत्रेति–हैडरे ।
षोढेति–सामान्यतया सामान्यसामान्यतया सामान्यविशेषतया विशेषतया विशेषविशेषतया विशेषसामान्यतया चेति ॥

तदेव दर्शयति–

मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥ २८-३१ ॥

उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते ।
समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ २८-३२ ॥

तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि ।
पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥ २८-३३ ॥

यदेतेषु दिनष्वेव भविष्यद्ग्रहभात्मकः ।
उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥ २८-३४ ॥

सा चैकादशधैकस्मिन्नैकस्मिन्विभुनोदिता ।
सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥ २८-३५ ॥

अनुपपदं न वदेदिति ।
यदुक्तं प्राक्–

“श्रीपूर्वं नाम वक्तव्यं… ।
"

इति ।
अन्येति–नवमी, भुवनेति–चतुर्दशी, चरमेति–पञ्चदशी ।
सामान्यसामान्यमिति द्वयोरपि पक्षयोरनुगमात्, अत एव एकपक्षानुगामितया मासस्य आद्यं पञ्चमं चेति सामान्यतयैवोक्तम् ।
उभयात्मेति–एतद्दिनत्वेऽपि ग्रहादेर्विशेषस्य भावात् ।
सेति– विशिष्टता ।
एकादशधेति–आश्वयुजशुक्लनवम्या भग्रहाद्यात्मनो विशेषस्याभावात् ।
यद्वक्ष्यति–

“भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ।
वेलाभग्रहकलना कथितैकादशसु मासेषु ॥
"

इति ।
एकस्मिन्नेकस्मिन्निति–शास्त्रे ।
सजातीयेति–यथा मार्गशीर्षनवमी ।
सा हि सामान्यसामान्यपर्वत्वेऽपि अमुमपि विशेषमावहति, अत एव उत्कृष्टेत्युक्तम् ।
एवमिति–सामान्यविशेषतया विशेषतया च ॥ ३५ ॥

एतदेवात्र दर्शयति–

कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः ।
अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥ २८-३६ ॥

परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः ।
मूलप्राजापत्ये विशाखिका श्रवणसञ्ज्ञया भानि ॥ २८-३७ ॥

रन्ध्रे तिथ्यर्कपरे वसुरन्धेर् शशिवृषाङ्करसरन्ध्र्युगम् ।
प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥ २८-३८ ॥

प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु ।
कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ २८-३९ ॥

व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये ।

वह्नीति–त्रयः ।
श्रुतीति–चत्वारः ।
परफल्गुः उत्तरफल्गुनी ।
चैत्रम् चित्रा रक्ष एव राक्षस इतिवत् ।
प्राक्फल्गुः पूर्वफल्गुनी ।
कर्णः श्रवणः ।
प्राजापत्यम् रोहिणी ।
रन्ध्रे नवमीद्वयम् ।
तिथिः पञ्चदशी, अर्का द्वादशी, परा त्रयोदशी ।
वसुः अष्टमी ।
शशी प्रतिपत्, वृषाङ्का एकादशी, रसाः षष्ठी, शराः पञ्च ।
अत्र च मार्गशीर्षात् प्रभृति द्वादशसु मासेषु कृष्णपक्षादयः सर्व एव यथासङ्ख्येन योज्याः ।
यथा मार्गशीर्षे मासि कृष्णपक्षे आदित्यवारे उत्तरफल्गुनीनक्षत्रे नवम्यां प्रथमनिशार्धप्रहरद्वये पर्वत्वमिति ।
एवमत्र रसवृषाङ्कार्कपराख्यस्य तिथीनां चतुष्टयस्य भग्रहाद्यात्मकत्वात् विशेषरूपत्वमेव ।
शिष्टस्य तु नवम्यादेरुभयात्मकत्वात् सामान्यविशेषरूपत्वमिति ।
यदुक्तम्–

“कृष्णायां मार्गशीर्षस्य नवम्यां रजनीमुखे ।
आदित्योत्तरफल्गुन्योः पूर्वार्धप्रहरद्वयम् ॥

पौषमासनवम्यां च कृष्णायामर्धरात्रगम् ।
चित्राचन्द्रमसोर्योगे द्वितीयं पर्व पार्वति ॥

पूर्णायां पञ्चदश्यां च माघस्यार्धनिशागमे ।
योगे मघाबृहस्पत्योस्तृतीयं पर्व कौलिकम् ॥

तिष्यचन्द्रमसोर्योगे द्वादश्यां फाल्गुने सिते ।
चतुर्थं पर्व कथितं नभोमध्यगते रवौ ॥

बुधस्य पूर्वफल्गुन्या योगे मध्यगते रवौ ।
चैत्रशुक्लत्रयोदश्यां पञ्चमं पर्व चिन्तयेत् ॥

वैशाखमासस्याष्टम्यां बुधश्रवणसङ्गमे ।
मध्याह्ने कृष्णपक्षे च षष्ठं पर्व वरानने ॥

ज्येष्ठमास्यसिते पक्षे नवम्यां मध्यवासरे ।
चन्द्रवारुणयोर्योगे सप्तमं पर्व पार्वति ॥

आषाढमासप्रतिपद्यर्के मध्याह्नगे सिते ।
मूलभास्करयोर्योगे पर्वाष्टममुदाहृतम् ॥

श्रावणे रोहिणीशुक्रयोगे चैकादशेऽहनि ।
कृष्ण्पक्षे प्रभाते च नवमं पर्व भामिनि ॥

विशाखाजीवसंयोगे षष्ठ्यां भाद्रपदे सिते ।
मध्याह्नसमये देवि दशमं पर्व कौलिकम् ॥

या शुक्लनवमी मासि भवेदाश्वयुजे प्रिये ।
तस्यां तु ग्रहनक्षत्रवेलाकालो न गण्यते ॥

एतदेकादशं पर्व कुलसिद्धिमहोदयम् ।
कार्तिके मासि शुक्लायां नवम्यां रजनीमुखे ॥

श्रवणेन्दुसमापत्तौ द्वादशं पर्व कीर्तितम् ।
"

इति ।
अन्त्यजेति–धीवरीमातङ्ग्याद्या ।
तत्त्ववेदिनीति–समयज्ञा ।
तदुक्तम्–

“धीवरीचक्रपूजा च रात्रौ कार्या विधानतः ।
चक्रं सम्पूजयेद्देवि मातङ्गीकुलसम्भवम् ॥
"

इति,

“शक्तयः समयज्ञाश्च दिनान्ते क्रीडयन्ति ताः ।
"

इति च ॥

ननु इह पूजा नाम आदियागात् प्रभृति अनुयागपर्यन्तमुच्यते, सा च बहुकालनिर्वर्त्येति कथमसौ इयति समये पर्वसु सिद्ध्येत् ?–इत्याशङ्क्य आह–

सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥ २८-४० ॥

गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् ।
अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥ २८-४१ ॥

अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः ।

मुख्य इति–आदियागो हि पूजोपकरणभूतद्रव्योपहरणरूपत्वादेतदङ्गम्–इति भावः, तेन पर्ववेलायामनुयाग एव भरः कार्यः–इति तात्पर्यम् ॥

ननु कस्मादत्र आश्वयुजे मासि भग्रहादियोगो नोक्तः ?–इत्याशङ्क्य आह–

अग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥ २८-४२ ॥

वेलाभग्रहकलना कथितैकादशसु मासेषु ।

अत एव अत्र विशेषविशेषवत्त्वम् ॥

एवमन्यत्रापि विशेषविशेषत्वं दर्शयति–

फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥ २८-४३ ॥

अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र ।

अग्रतिथिः त्रयोदशी ।
तदुक्तम्–

“फाल्गुने द्वादशी शुक्ला सोमतिथियुता भवेत् ।
सिद्धावप्यग्रतिथ्यंशे विशेषोऽत्र महानयम् ॥
"

इति ॥

न केवलमत्रैव विशेषविशेषता, यावत् सर्वत्रापि–इत्याह–

दिवसनिशे किल कृत्वा

त्रिभागशः प्रथममध्यमापरविभागः ॥ २८-४४ ॥

पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः ।
यदि सङ्घटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥ २८-४५ ॥

तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् ।
दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥ २८-४६ ॥

ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् ।

इह किल पर्वतया अभिमतं दिनं निशां वा त्रिभागीकृत्य यथास्वं प्रथममध्यमापररूपभागत्रयान्यतरात्मा प्रत्यूषमध्याह्नप्रदोषलक्षणो यः पूजाकालः, तस्मिन्नपि त्रिभिर्विभक्ते यथास्वमेव प्रथमो मध्यमः परो वा मुख्यतमो यः पूजाकालः, तत्रैव पूज्यतया सम्मतं कन्यान्त्यजादीनां चक्रम् ।
वेला भग्रहादयश्च मुख्यतमा यदि सङ्घटन्ते, तत् तस्मिन् क्षणे क्रियमाणो याग आदियागः प्रधानं यजनम्–इत्यर्थः ।
तत्तस्माद्धेतोः पर्वसु विनापि योगं ज्ञानं वा पूजयैव काम्यं सिद्ध्येत्–अभीष्टसम्पत्तिः स्यात्–इत्यर्थः ।
तत्रापीति– विशेषविशेषात्मनि मुख्यतमेऽपि काले–इत्यर्थः ।
तत्तदिति– शान्त्युच्चाटनादि ॥

ननु अत्रैव विभाजितं पूजाकालमतिक्रम्य तिथ्यादि यदि स्यात्, तदा किं प्रतिपत्तव्यम् ?–इत्याशङ्क्य आह–

उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥ २८-४७ ॥

तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् ।

अत्रैव मतान्तरमाह–

नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥ २८-४८ ॥

ननु अत्र तिथिरेव नाम का यस्या अपि विशेषत्वं स्यात् ?–इत्याशङ्क्य आह–

संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः ।
यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥ २८-४९ ॥

इह यत्

“प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः ।
भवति शशिन… ॥
" (वृषम्। ४।४)

इत्यादिज्योतिःशास्त्रोदितदृष्ट्या प्रमेयात्मनः शशिनो यावान् एकैककलारूपो भागः प्रमाणात्मनोऽर्कस्य करनिकरैर्यावति ऊनाधिकषष्टिघटिकात्मनि काले दृश्यभागे परभागे वा पूर्णः परिवृद्धशौक्ल्यः स्यात्, सा हि तिथिरुच्यते या भग्रहैः स्फुटीभवति विशिष्टतामासादयति–इत्यर्थः ॥ ४९ ॥

अतश्च तिथेरेव मुख्यत्वम्–इत्याह–

तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन ।
वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ २८-५० ॥

श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु ।
वेलायोगं कञ्चन तिथिभग्रहयोगतो ह्यन्यम् ॥ २८-५१ ॥

चो हेतौ ।
एतच्च आगमतोऽपि उपपादयितुमाह–युक्तं चैतदित्यादि ।
तदुक्तं तत्र–

“मासस्य मार्गशीर्षस्य या तिथिर्नवमी भवेत् ।
कृष्णपक्षे सूर्ययुक्ता उत्तराफल्गुनीयुता ॥

तस्यां विशेषसम्पूजा कर्तव्या साधकोत्तमैः ।
"

इत्यादि

“कार्तिकस्य तु मासस्य शुक्ला या नवमी भवेत् ।
चन्द्रश्रवणसंयोगे द्वादशं पर्व पूजयेत् ॥
"

इत्यन्तम् ॥५१ ॥

अतश्च तिथेरेव मुख्यतया पूज्यत्वम्–इत्याह–

भग्रहयोगाभावे तिथिस्तु पूज्या प्रधानरूपत्वात् ।

तुर्हेतौ ।
यत् स्मृतिरपि–

“…टिथिं यत्नेन याजयेत् ।
"

इति ।
अनेन च अत्र पर्वणां विशिष्टत्वेऽपि सामान्यरूपत्वमुक्तम् ॥

एतदेव शास्त्रान्तरप्रसिद्धन्यायगर्भं दृष्टान्तयति–

श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥ २८-५२ ॥

मीमांसका हि श्वेतं छागमालभेतेति चोदितः पशुः, यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेतेत्यादौ यदि तद्वर्ण एव न प्राप्येत, तदा “गुणाः प्रतिनिधीयन्ते च्छागादीनां न जातयः” इत्यादिनयेन अतद्वर्णस्यापि छागस्यैव आलम्भं कथयन्ति–इति वाक्यार्थः ।
एवं प्रकृतेऽपि भग्रहवेलादिविशिष्टा तिथिश्चेत् न भवेत्, तत्केवलैव पर्वतया इयं ग्राह्येति ॥५२ ॥

नन्वत्र श्रीत्रिककुलादावनुक्तोऽपि भगवता वेलायोगः कथमूर्मिकुलादावभिधीयमानः सङ्गच्छताम् ?–इत्याशङ्क्य आह–

यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् ।
मुख्यतयोद्दिश्य विधिं तथा च तत्र पौषपर्वदिने ॥ २८-५३ ॥

कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा ।
आदेशः फलति तथा माघे चक्राद्वचः फलति ॥ २८-५४ ॥

अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः ।
चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥ २८-५५ ॥

सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना ।

एतदेव दर्शयति–तथा चेत्यादिना ।
पञ्चस्विति काकाक्षिन्यायेन योज्यम्, तेन फाल्गुनादाषाढान्तं पञ्चसु अभीष्टसिद्धिः, श्रावणान्मार्गशीर्षान्तुं च पञ्चसु क्रमेण मैत्र्यादीनि ।
तदुक्तं तत्र पौषमासादिक्रमेण

“पूजा तत्रैव यत्नेन रात्र्यर्धसमये प्रिये ।
ध्यानयुक्तो भवेत्पश्चान्मन्त्रजप्यपरायणः ॥

आदेशो जायते तस्य श्रुत्वासौ निष्क्रमेद् बहिः ।
तत्राभिवाञ्छितं भद्रे प्रापयेन्नात्र संशयः ॥
"

इति,

“रात्र्यर्धसमये मन्त्री विशेषात्तत्र पूजनात् ।
भ्रममाणस्य चक्रस्य वचनं यत्पतिष्यति ॥

तदविघ्नेन देवेशि सप्ताहात् सफलं भवेत् ।
"

इति,

“दिनार्धे पूजनात्तत्र अभीष्टं सिद्ध्यतेऽचिरात् ।
"

इति,

“यां सिद्धिमभिवाञ्छेत सा तस्य अचिराद्भवेत् ॥
"

इति,

“प्रार्थितं सिद्ध्यते देवि… ।
"

इति,

“मनोवाञ्छितसिद्धर्थं चक्रं सम्पूजयेत्प्रिये ।
…टच्चक्रं पूज्य सिद्ध्यति ॥
"

इति,

“पूजां वै वासरारम्भे कुर्वतोऽत्र विधानतः ।
मैत्रीभावेन तिष्ठन्ति सर्वभूतानि तस्य च ॥
"

इति,

“मध्याह्ने पूजनात्तत्र सौभाग्यधनधान्यतः ।
वृद्धिर्भवति देवेशि… ॥
"

इति,

“मेलापकं तु सर्वत्र तस्मिन्पर्वे भविष्यति ।
"

इति,

“भूमावास्फोटयेत् क्रोधात्सञ्ज्ञया यस्य वै प्रिये ।
पाषाणे स्फुटयेत् देवि तस्य मूर्धा तु सप्तधा ॥

स्फुटते तु महाभागे सत्यं नास्त्यत्र संशयः ।
निशि क्षेत्राटनाद्देवि सिद्धादेशमवाप्नुयात् ॥
"

इति च ॥

ननु अत्र तिथौ भग्रहाद्यभावेऽपि भवन् वेलायोगः किमपेक्षणीयो न वा ?–इत्याशङ्क्य आह–

भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ २८-५६ ॥

सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् ।

एवं षडंशयोगिनि दिने तु महता विशेषेण अर्चनं कुर्यात्–इत्याह-

भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥ २८-५७ ॥

यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् ।

सर्वाङ्गसुन्दरमित्यनेन अस्य अतीव दुर्लभत्वं प्रकाशितम् ॥

ननु काम्यमेव केवलमधिकृत्य यदि यागोऽभिप्रेतः, तदिह नैमित्तिकप्रकरणेऽपि अवश्यन्तया तद्योगः कस्मादुक्तः ?– इत्याशङ्क्य आह–

न च काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥ २८-५८ ॥

समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च ।
दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥ २८-५९ ॥

तदेवार्थद्वारेण पठति–दुष्टा हीत्यादि ॥५९ ॥

ननु एतावतैव केवलकाम्याधिकारेण एतन्नोक्तमिति कुतोऽवगतम् ?– इत्याशङ्क्य आह–

न च काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् ।
चो हेतौ ॥

एवं पर्वविशेषमभिधाय चक्रचर्चां कर्तुमाह–

तत्रानुयागसिद्धर्थं चक्रयागो निरूप्यते ॥ २८-६० ॥

मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते ।
नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥ २८-६१ ॥

सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः ।
ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसञ्ज्ञके ॥ २८-६२ ॥

यागे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् ।
तत्सम्पर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥ २८-६३ ॥

तदिति–ज्ञान्यादि ॥६३ ॥

तदेव पठति–

तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् ।
ज्ञानिने योगिने वापि यो ददाति करोति वा ॥ २८-६४ ॥

दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः ।
भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेत् ॥ २८-६५ ॥

सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः ।
तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥ २८-६६ ॥

अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये ।
परिसङ्ख्या न विद्येत तदाह भगवाञ्छिवः ॥ २८-६७ ॥

भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् ।
एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥ २८-६८ ॥

तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे ।
निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ २८-६९ ॥

यदस्य वक्त्रं सम्प्राप्ता यास्यामः परमं पदम् ।
अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः ॥ २८-७० ॥

तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि ।
आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥ २८-७१ ॥

करोतीति–अर्थात् सेवादि ।
कोटिरिति–अर्थात् ब्रह्मणानाम् ।
यदुक्तम्–

“चतुर्वेदार्थविदुषां ब्रह्मणानां महात्मनाम् ।
आचार्ये भोजिते देवि कोटिर्भवति भोजिता ॥
"

इति ।
एतस्मिन्निति–चक्रयागे ।
अन्य इति–अतत्त्वपारगाः ।
अपानभुज इति–अधःपातदायिनीं भोग्यरूपतामेव अनुसन्दधानाः–इत्यर्थः ।
अत एवोक्तमपानस्त्वधोमुख इति ।
तदुक्तम्–

“धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
" (साम्।
का।
)

इति ।
तस्मिन्निति प्राणभुजि तत्त्वपारगे ॥ ७१ ॥

ज्ञानिनश्च सर्वत्रैव अविगीतमुत्कृष्टत्वम्–इत्याह–

श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि ।
श्रोत्राभ्यन्तरसम्प्राप्ते गुरुवक्त्राद्विनिर्गते ॥ २८-७२ ॥

मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् ।
सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥ २८-७३ ॥

अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा ।
पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥ २८-७४ ॥

तत्र सन्निहितो देवः सदेवीकः सकिङ्करः ।

सुराप इत्यादिना अस्य महापातकित्वमपि अगण्यमेव–इति भावः ॥

अतश्च ज्ञानिनमेव आश्रित्य मूर्तियागं कुर्यात्–इत्याह–

तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥ २८-७५ ॥

मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते ।

विधिरिति–कर्म, अत एव अनेन चक्रार्चनमपि आसूत्रितम् ॥

स च कदा कार्यो किंविधिश्च–इत्याह–

पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥ २८-७६ ॥

सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु ।
उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥ २८-७७ ॥

दीक्षायां च प्रतिष्ठायां समयानां विशोधने ।
कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥ २८-७८ ॥

उत्सव इति–स्वगुरुजन्मदिनादौ ॥ ७८ ॥

पञ्चधात्वमेव दर्शयति–

केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः ।
केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ २८-७९ ॥

साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः ।
पत्नीयोगात् क्रयानीतवेश्यासंयोगतोऽथवा ॥ २८-८० ॥

चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः ।
तत्संयोगाच्चक्रयुक्तौ यागः सर्वफलप्रदः ॥ २८-८१ ॥

सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते ।

सपत्नीकैरिति–अर्थात् गुर्वादिभिश्चतुर्भिरपि ।
पत्न्यो–विवाहिताः ।
वक्ष्यन्ते इति–

“मातङ्गकृष्णसौनिककान्दुकचार्मिकविकोशिघातुविभेदाः ।
मात्स्यिकचाक्रिकसहितास्तेषां पत्न्यो नवात्र नवयागे ॥
"

इत्यादिना एकान्नत्रिंशाह्निके ।
चक्रयुक्त इति–चक्रयुक् ।
सर्वैरिति– एवमुक्तैः पुंस्त्रीरूपैः ॥
अत्रैव उपवेशने क्रमं दर्शयति–

मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥ २८-८२ ॥

तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् ।
पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥ २८-८३ ॥

तदा तद्गन्धधूपस्रक्समालम्भनवाससा ।
पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥ २८-८४ ॥

तदावृतिरिति–गुरुवर्गावरणम्–इत्यर्थः ।
सदेति–आवृतिक्रमे पङ्क्तिक्रमे वा ।
तत्तच्चक्रमिति–गुरुसाधकादिरूपं पूज्यतया सम्मतम् ॥८४ ॥

तदेव उदाहरति–

एकारके यथा चक्रे एकवीरविधिं स्मरेत् ।
द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥ २८-८५ ॥

षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा ।
अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥ २८-८६ ॥

ततः पात्रेऽलिसम्पूर्णे पूर्वं चक्रं यजेत्सुधीः ।
आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥ २८-८७ ॥

आधारेण विना भ्रंशो न च तुष्यन्ति रश्मयः ।

अन्यत्रेति–त्र्यरे ।
तादृशमिति–तत्तन्नियतसङ्ख्याकम्–इत्यर्थः ।
पूर्वमिति–प्रथमं प्रधानं वा ॥
एतदेव उपपादयति–

प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥ २८-८८ ॥

भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः ।
अणुशक्तिशिवात्मेत्थं ध्यात्वा सम्मिलितं त्रयम् ॥ २८-८९ ॥

ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् ।
प्रतिसञ्चरयोगेन पुनरन्तः प्रवेशयेत् ॥ २८-९० ॥

यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते ।

आवृतेरावृतेरिति–आवरणचतुष्टयस्यापि–इत्यर्थः ।
क्रमादिति–न तु अनन्तरोल्लङ्घनेन–इत्यर्थः ।
प्रतिसञ्चरः–प्रतीपं सञ्चरणम् ।
तद्धि पूर्णं भ्रमणमिति सृष्टिसंहारक्रमोभयात्मक एकः सञ्चारः–इत्यर्थः ॥

तर्पणे च अत्र क्रममाह–

तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥ २८-९१ ॥

वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः ।
ततोऽवदंशान्विविधान् मांसमत्स्यादिसंयुतान् ॥ २८-९२ ॥

अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः ।
पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥ २८-९३ ॥

पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः ।

तदेव दर्शयति–

दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥ २८-९४ ॥

दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् ।
तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥ २८-९५ ॥

निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते ।
ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥ २८-९६ ॥

तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः ।
धारया भैरवस्तुष्येत् करपानं परं ततः ॥ २८-९७ ॥

प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् ।
प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥ २८-९८ ॥

एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् ।
समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥ २८-९९ ॥

रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः ।
समयिभ्यः क्रमाद् द्विद्विगुणा गुर्वन्तकं भवेत् ॥ २८-१०० ॥

एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः ।
काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥ २८-१०१ ॥

दक्षहस्तेनेति–अर्थात् निविडोन्नतसङ्कुचिताङ्गुलीकेन ।
तर्जन्यङ्गुष्ठयोगेनेति–अर्थात् वामकरसम्बन्धिना, तेन वामोपरिस्थितां दक्षकनीयसीं तत्तर्जन्यङ्गुष्ठाभ्यामेव बद्धां कृत्वा अयं सन्निवेशः स्यात् ।
तदुक्तम्–

“अथ पात्रविधिर्नास्ति ततः कुर्यादमुं विधिम् ।
भद्रं वेल्लितशुक्तिर्वा पानं वै तत्र शस्यते ॥

दक्षिणेन भवेद्भद्रं हस्तेन परमेश्वरि ।
द्वाभ्यां चैव तु कर्तव्या वेल्लिशुक्तिर्महाफला ॥

दक्षिणे या कनिष्ठा तां कृत्वा वामस्य चोपरि ।
हस्तस्य तु वरारोहे तर्जन्यङ्गुष्ठयोगतः ॥

कृत्वा वामस्य चाङ्गुल्यो दक्षिणाधो व्यवस्थिताः ।
निःसन्धि वेल्लिशुक्तिं तु कृत्वा पानं प्रसिद्ध्यति ॥
"

इति ।
अत्रेति–चक्रयागे ।
रूपकम् दीनारः ॥१०१ ॥

सप्तकृत्वः करणे प्रयोजनमाह–

जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् ।
बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः ॥ २८-१०२ ॥

ततोऽपि सन्निधीयन्ते प्रीयन्ते वरदास्ततः ।
देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥ २८-१०३ ॥

वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता ।
रात्रौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् ॥ २८-१०४ ॥

असङ्केतयुजो योज्या देवताशब्दकीर्तनात् ।
अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ २८-१०५ ॥

काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा ।
प्रतिपच्छ्रुतिसञ्ज्ञे च चतुर्थी चोत्तरात्रये ॥ २८-१०६ ॥

हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ ।
सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥ २८-१०७ ॥

मूले तु द्वादशी ब्रह्मे भूताश्विन्यां च पूर्णिमा ।
धनिष्ठायाममावस्या सोऽयमेकादशात्मकः ॥ २८-१०८ ॥

अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः ।
योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥ २८-१०९ ॥

योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा ।
यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥ २८-११० ॥

मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना ।
इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥ २८-१११ ॥

समर्थतामिति–यागादौ ।
बलाबलमिति–वीरकर्मसु सामर्थ्यमसामर्थ्यं च ।
विस्मयन्ते इति एवंविधा अपि मर्त्या भवन्तीत्याश्चर्यं मन्वते–इत्यर्थः ।
मातर इति–सर्वसम्बन्धः ।
तदुक्तम्–

“प्रथमे मूर्तियागे तु वेश्म जानन्ति साधके ।
द्वितीये तस्य सामर्थ्यं तृतीये तु बलाबलम् ॥

चतुर्थे विस्मयं यान्ति देवि ता मातरः स्वयम् ।
पञ्चमे तस्य गत्वा तु विशन्ति गृहमध्यतः ॥

षष्ठे तु प्रीतिमायान्ति सप्तमे तु वरप्रदाः ।
वाञ्छितं तस्य दास्यन्ति आयुरारोग्यसम्पदः ॥
"

इति ।
देवताशब्दकीर्तनादसङ्केतयुजः कस्माच्चिदभिधानात् लौकिकशब्दव्यवहारशून्याः–इत्यर्थः, अत एवोक्तम्–गुप्त इति ।
श्रुतिसञ्ज्ञ इति–श्रवणे ।
उत्तरात्रये इति–तदेकतमयुक्ते–इत्यर्थः ।
एवं पूर्वास्वपि ज्ञेयम् ।
तत्परेत्यष्टमी, पित्र्य इति–मघासु ।
ब्रह्म इति

“केन्द्रायाष्टधनेषु भूमितनयात्स्वात्मत्रिषु ब्रह्मणः ।
"

इति ब्रह्मणशब्देन जीवस्याभिधानात् तद्दैवते तिष्ये–इत्यर्थः ।
भूतेति–चतुर्दशी ।
अर्कादित्रयेति–अर्कश्च तदादि च त्रयं चन्द्रभौमबुधलक्षणम्–इत्यर्थः ।
एवमेतद्ग्रहपञ्चकादेकतमेन युक्तो यथोक्ततिथिनक्षत्रोपलक्षितोऽहर्गणो योगपर्वेति विख्यातस्तन्नाम–इत्यर्थः ।
यदुक्तम्–

नवमी रोहिणीयोगे पुष्ये चैव चतुर्दशी ।
हस्ते च पञ्चमी ज्ञेया मूले तु द्वादशी भवेत् ॥

श्रवणे प्रतिपत्सिद्धा चतुर्थी चोत्तरात्रये ।
पूर्वासु सिद्धिदा षष्ठी मघासु पुनरष्टमी ॥

अश्विन्यां पूर्णिमा ज्ञेया वसुना सप्तमी स्मृता ।
धनिष्ठायाममावास्या ज्ञात्वा चैवं वरानने ॥

सोमे शुक्रे तथादित्ये बुधे चैवाथ लोहिते ।
कर्तव्यं वारगणनम्… ॥
"

इति ॥ १११ ॥

एवं चक्रार्चनमभिधाय पवित्रकविधिमभिधातुमाह–

अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः ।
श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥ २८-११२ ॥

श्रीसिद्धाटनसद्भावमालिनीसारशासने ।
तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥ २८-११३ ॥

सूचित इति–श्रीसिद्धादौ साक्षादनभिधानात् ।
प्राधान्यत इति– स्फुटत्वाविशेषेऽपि तदुत्पत्त्यादेरत्र आधिक्येन उक्तेः ॥ ११३ ॥

तदेव आह–

क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः ।
नागराजः स्वभुवने मेघकाले स्म नावसत् ॥ २८-११४ ॥

केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम् ।
दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥ २८-११५ ॥

व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे ।
पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः ॥ २८-११६ ॥

नागं निजजटाजूटपीठगं पर्यकल्पयत् ।
ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि ॥ २८-११७ ॥

महतां महितानां हि नाद्भुता विश्वपूज्यता ।
तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ २८-११८ ॥

आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् ।
दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥ २८-११९ ॥

वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च ।
विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥ २८-१२० ॥

तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः ।

पवित्रोऽयमिति तच्छब्दव्यपदेश्यः–इत्यर्थः ।
यदुक्तम्–

“तेनास्म्याराधितो देवि पवित्रेण महात्मना ।
"

इति,

“पवित्रो नाम नागेन्द्रो ज्येष्ठो भ्रतास्ति वासुकेः ।
"

इति च ।
पवित्रेणेति पाठे तु पञ्चगव्यादिनेति–व्याख्येयम् ।
समाः शतं दशगुणमिति वर्षसहस्रम्–इत्यर्थः ।
तदुक्तम्–

“दिव्यवर्षसहस्रं तु वायुभक्षो महाबलः ।
"

इति ।
कुर्यादिति–गुर्वादिः ।
दशेत्यादिना प्रयोजनमुक्तम् ॥

कदा कार्यः–इत्याह–

आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥ २८-१२१ ॥

कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा ।
तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥ २८-१२२ ॥

कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते ।

मिथुनेत्याद्युपलक्षणम्, तेन सिंहादिस्थेऽपि ।
अनिरोधेनेति– अविच्छेदेन–इत्यर्थः ।
तुलोपलक्षितस्येति–कार्तिके हि तुलागत एव रविर्भवेत्–इति भावः ॥

तमेव व्याख्याभेदं दर्शयति–

नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥ २८-१२३ ॥

कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् ।

यदुक्तम्–

“दीपपर्वणि कर्त्तव्यं विधानमिदमुत्तमम् ।
कुलं शक्तिः समाख्याता सा च नित्या प्रकीर्तिता ॥
"

इत्याद्युपक्रम्य

“मध्यमे वा सदा देवि सर्वारिष्टनिवृत्तये ।
अनेन तु विधानेन नित्याचक्रं प्रपूजयेत् ॥
"

इत्यन्तम् ॥

एवमेकीयं मतं प्रदर्श्य, अन्यदप्याह–

माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥ २८-१२४ ॥

पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा ।

ननु कुलपर्वत्वं चन्द्रस्य पूर्णत्वं तिथ्यन्तरेष्वप्यस्ति, तत् कथं माघपूर्णिमैव कुलपूर्णिमाशब्देनोच्यते?–इत्याशङ्क्य आह–

दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥ २८-१२५ ॥

कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते ।

इह फाल्गुनमासादारभ्य संवत्सरस्य ऋतूनां च उदय इति श्रावणमासं यावत् षट् पूर्णिमा उत्तरायणम् ।
भाद्रपदादारभ्य च माघमासं यावत् षडेव पूर्णिमा दक्षिणायनम् ।
यतः कुलशब्दवाच्यस्य दक्षिणायनस्य माघान्त्यदिवसे पूर्णत्वमस्तीत्युक्तम् ।
यच्छ्रुतिः–

“मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी ।
"

इति ।
तथा

“फाल्गुनपूर्णमास आधेय एतद्वा ऋतूनां मुखम् ।
"

इति ॥

अतश्चेदमप्युक्तं भवति–इत्याह–

दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥ २८-१२६ ॥

पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः ।

कृष्णस्येति–तमोरूपसमयलोपाद्यात्मनः ॥

एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह–

तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ २८-१२७ ॥

एकेनैव पदेन श्रीरत्नमालाकुलागमे ।
तदत्र समये सर्वविधिसम्पूरणात्मकः ॥ २८-१२८ ॥

पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा ।

बहु इति वैदिकात्प्रभृति–इत्यर्थः ॥

ननु

नभस्यनभसोर्मध्ये पक्षयोः कृष्णशुक्लयोः ।
"

इत्याद्युक्त्या कृष्णपक्षेऽपि अयं विधिः कर्तव्यत्वेनोक्तः, तत्कथमिहान्यथोक्तम् ?–इत्याशङ्क्य आह–

पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥ २८-१२९ ॥

दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते ।
एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥ २८-१३० ॥

हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् ।
सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ २८-१३१ ॥

परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि ।
प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ २८-१३२ ॥

अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् ।
विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥ २८-१३३ ॥

वटुके कनकाभावे रौप्यं तु परिकल्पयेत् ।
पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥ २८-१३४ ॥

तस्मान्नवगुणात् सूत्रात् त्रिगुणादिक्रमात् कुरु ।
चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा ॥ २८-१३५ ॥

तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः ।
अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥ २८-१३६ ॥

ग्रन्थयस्तत्त्वसङ्ख्याताः षडध्वकलनावशात् ।
यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥ २८-१३७ ॥

विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः ।
पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥ २८-१३८ ॥

गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा ।
ततो महोत्सवः कार्यो गुरुपूजापुरसरः ॥ २८-१३९ ॥

तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः ।
महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥ २८-१४० ॥

चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः ।
तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥ २८-१४१ ॥

वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः ।
मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ २८-१४२ ॥

सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् ।

सितं दलमिति–सितः पक्षः ।
उच्यते इति–अस्मच्छास्त्रे हि एवं श्रुतिरस्ति –इत्याशयः ।
परे गुराविति–परमगुरौ ।
अध्यब्धीति– चतुरधिकमित्यर्थः ।
रसाः षट् ।
चित्ररत्नप्रपूरितमिति- अर्थात् ग्रन्थिस्थाने ।
पाट्टसूत्रमिति–अर्थात् रूप्याभावेऽपि ।
चण्डांशवो–द्वादश ।
ततोऽपि त्रिगुणमिति– चतुर्विंशत्यधिकशतत्रयात्मकम्–इत्यर्थः ।
तन्त्विति–यत्र यादृशोऽभिमताः ।
षडध्वेति–तेन कलासङ्ख्यया पञ्चग्रन्थयो यावद् भुवनसङ्ख्यया अष्टादशोत्तरं शतम् व्यास समासाभ्यामिति–तत्त्वसङ्ख्यया व्यासः, कलासङ्ख्यया तु समास–इत्यर्थः ।
चित्रा इति–कुङ्कुमाद्यरुणीकृतत्वात्, अत एवोक्तम्–सद्गन्धपूरिता इति ।
चातुर्मास्यमिति–चतुर्षु मासेषु–इत्यर्थः ॥

सर्वथैव अस्य कर्तव्यत्वमुपोद्बलयति–

वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥ २८-१४३ ॥

सति वित्ते पुनः शाठ्यं व्याधये नरकाय च ।

ननु

“अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् ।
"

इत्याद्युक्त्या नित्यलोपपूरणाय पर्वसु पूजनमुक्तं तत्किं पवित्रकेणापि ?–इत्याशङ्क्य आह–

नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ २८-१४४ ॥

तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् ।

नन्वेवं पवित्रकस्यापि लोपे किं स्यात् ?–इत्याशङ्क्य आह–

पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥ २८-१४५ ॥

सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः ।

एवं श्रीरत्नमालायामुक्तं पवित्रकविधिमभिधाय, श्रीत्रिशिरोभैरवीयमप्याह–

अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥ २८-१४६ ॥

तदेवाह–

त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा ।
दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥ २८-१४७ ॥

त्रिप्रमेयस्येति–नरशक्तिशिवात्मकत्वात् ।
पञ्चपञ्चात्मकस्येति– तन्त्रप्रक्रियया वक्त्रतया, विशेषप्रक्रियया वामेश्यादितया च एवंरूपस्य–इत्यर्थः ।
षट्स्रोतस इति–पिचुवक्त्रेण सह ॥ १४७ ॥

तत्र अधिकारिनिर्देशाय आह–

ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः ।
नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥ २८-१४८ ॥

अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः ।
तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥ २८-१४९ ॥

श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे ।
न तु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥ २८-१५० ॥

सूक्ष्मेत्यनेन असंलक्षितत्वमुक्तम् ।
अत्रैव कालं निर्दिशति– श्रावणादावित्यादिना ॥ १५० ॥

अस्यैव स्वरूपं निर्देष्टुमाह–

पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च ।
चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥ २८-१५१ ॥

त्रिधा तु त्रिगुणीकृत्य मानसङ्ख्यां तु कारयेत् ।
अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥ २८-१५२ ॥

ह्रासस्तु पूर्वसङ्ख्याया दशभिर्दशभिः क्रमात् ।
नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥ २८-१५३ ॥

यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः ।
चतुः समविलिप्तांस्तानथवा कुङ्कुमेन तु ॥ २८-१५४ ॥

व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् ।
अर्चासु शोभनं मूर्ध्नि त्रितत्त्वपरिकल्पनात् ॥ २८-१५५ ॥

द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि ।

कौशेयं–पट्टभेदः ।
चातुराश्रमिकाणामिति–समय्यादीनाम् ।
पूर्वसङ्ख्याया इति–अष्टोत्तरशतादिरूपायाः ।
तत्र अष्टोत्तरशतात् दशभिर्दशभिर्ह्रासे अष्टानवतितन्तुकानि च पवित्रकाणि भवन्तीत्यादि ब्रूमः ।
व्यक्त इति–प्रतिमायाम् ।
लिङ्ग इति- अर्थादव्यक्ते व्यक्ताव्यक्ते च ।
अर्चास्विति–सर्वासु ।
तदुक्तं मये–

“त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् ।
"

इति ।
शक्तीनामिति–अघोर्यादीनाम् ।
ब्रह्मवक्त्रार्चिषामिति– अङ्गवक्त्राणाम्–इत्यर्थः ।
तदुक्तं तत्रैव-

“ब्रह्मवक्त्रैश्च सहितान्यङ्गानि प्रवदाम्यहम् ।
"

इति ॥

विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥ २८-१५६ ॥

घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे ।
स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ २८-१५७ ॥

प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् ।

वह्निपीठ इति–कुण्डे ।
नवरङ्गिकमिति–नानावर्णमित्यर्थः ॥

अत्रैव ग्रन्थीन् निर्दिशति–

विद्यापीठे तु खशराः, प्रतिमालिङ्गपीठगम् ॥ २८-१५८ ॥

वसुवेदम्, च घण्टायां शराक्ष्यष्टादश स्रुवे ।
वेदाक्षि स्रुचि, षट्त्रिंशत् प्रासादे, मण्डपे रविः ॥ २८-१५९ ॥

रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे, गुरौ ।
सप्त, साधकगाः पञ्च, पुत्रके सप्त, सामये ॥ २८-१६० ॥

चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते ।
लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥ २८-१६१ ॥

द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् ।
पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥ २८-१६२ ॥

पवित्रकाणां सम्पाद्य कुर्यात्सम्पातसंस्क्रियाम् ।
ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥ २८-१६३ ॥

दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् ।
ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति ॥ २८-१६४ ॥

यत्किञ्चिदकृतं दुष्टं कृतं वा मातृनन्दन ।
तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥ २८-१६५ ॥

सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे ।
अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥ २८-१६६ ॥

योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः ।
पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥ २८-१६७ ॥

आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् ।
ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥ २८-१६८ ॥

दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना ।
चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥ २८-१६९ ॥

प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् ।
पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥ २८-१७० ॥

कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् ।
वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥ २८-१७१ ॥

दद्यादसृक् तथा मद्यं पानानि विविधानि च ।
ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥ २८-१७२ ॥

तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः ।
शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥ २८-१७३ ॥

मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् ।
अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥ २८-१७४ ॥

ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् ।
अकामादथवा कामाद्यन्मया न कृतं विभो ॥ २८-१७५ ॥

तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया ।
मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥ २८-१७६ ॥

वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् ।
नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात् त्रयम् ॥ २८-१७७ ॥

एवं चतुष्टयं दद्यादनुलोमेन भौतिकः ।
नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥ २८-१७८ ॥

यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् ।
तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥ २८-१७९ ॥

वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः ।
भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥ २८-१८० ॥

चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् ।
कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥ २८-१८१ ॥

ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् ।
दद्यात्सुवर्णरत्नादिरूप्यवस्त्रविभूषिताम् ॥ २८-१८२ ॥

वदेद्गुरुश्च सम्पूर्णो विधिस्तव भवत्विति ।
वक्तव्यं देवदेवस्य पुनरागमनाय च ॥ २८-१८३ ॥

ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् ।
नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥ २८-१८४ ॥

चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् ।
नास्माद् व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥ २८-१८५ ॥

शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् ।

खशराः पञ्चाशत् ।
वसुवेदम् अष्टाचत्वारिंशत् ।
शराक्षि पञ्चविंशत् ।
वेदाक्षि चतुर्विंशत् ।
रविः द्वादश ।
रसेन्दु षोडश ।
अब्धिनेत्रे चतुर्विंशत् ।
तदुक्तम्–

“विद्यापीठे तु पञ्चाशत् प्रतिमालिङ्गपीठयोः ।
चत्वारिंशदथाष्टौ च घण्टायां पञ्चविंशतिः ॥

अष्टादश स्रुवे ज्ञेयाः स्रुचि विंशच्चतुस्तथा ।
प्रासादे चैव षट्त्रिंशत् द्वादशैव तु मण्डपे ॥

ध्यानगेहे चतुर्विंशत् षोडश स्नानमण्डपे ।
दैशिके सप्त दातव्याः साधके पञ्चकं ददेत् ॥

पुत्रके सप्तकं दद्याच्चतुः समयिनां तथा ।
अन्यशास्त्रोदितानां च शिष्याणां पञ्चकं ददेत् ॥

लिङ्गिनां केवलो ग्रन्थिस्तोरणेऽथ द्विपञ्चकम् ।
द्वारेषु अष्टकं दद्याद् ग्रन्थीनां मातृनायिके ॥
"

इति ।
तत्स्थत्वादि प्रागेव व्याख्यातम् ।
अनेनेति–श्लोकबद्धेन मन्त्रेण ।
आह्निकं च कुर्वीतेति प्राच्येन सम्बन्धः ।
तत इति–आह्निकानन्तरम् ।
विधिं पूजयित्वेति–गणेशादिविधिं विशेषेण इष्ट्वा–इत्यर्थः ।
यदुक्तम्–

“…विधिपूजां समाचरेत् ।
गणेशं प्रथमं पूज्य गुरुत्रयसमन्वितम् ॥

सर्वावरणसंयुक्तं त्रिशिरोमातृनायकम् ।
पवित्राण्याहरेत्पश्चात्… ॥
"

इति ।
तैरिति–दन्तकाष्ठादिभिः सर्वैः ।

“दन्तकाष्ठं तथा देवि पूर्ववक्त्रे नियोजयेत् ।
धात्रीं तु मृत्तिकायुक्तां दक्षिणे विनियोजयेत् ॥

मृदमामलकैर्युक्तां पश्चिमे विनियोजयेत् ।

वारि चामलकैर्युक्तं चतुःसमसमन्वितम् ।
ऊर्ध्ववक्त्रस्य दातव्यं भस्म काष्ठमृदादिना ॥

उत्तरस्य तु वक्त्रस्य दापयेच्चुम्बकोत्तमः ।
"

इति ।
एतानीति–दन्तकाष्ठादीनि ।
ईशगोचर इति–तत्कोणे ।
इदमिति– वक्ष्यमाणम् ।
तदत्र सप्रणवोऽयं श्लोको यथाभिप्रेतो मूलमन्त्रः ।
पूरय क्रियानियमं वौषडित्यूहः ।
त्रयमिति तत्त्वकल्पनया, एवमित्याद्येन सह चतुष्टयमित्यत्र छेदः ।
पुनरागमनायेति–

“ऊनाधिकं यद्विपरीतचेष्टं क्षमस्व सर्वं मम विश्वमूर्ते ।
प्रसीद देवेश नमोऽस्तु तुभ्यं प्रयाहि तुष्टः पुनरागमाय ॥
"

इति वक्तव्यम् ।
गुप्तमिति–यथा पामरादिरन्यो लोभादिवैवश्यं न जानीयात्, अत एवोक्तम्–यागार्थे तन्नियोजयेत् ।
कास्य स्तुतिरिति ।
यदुक्तम्–

“एतद्देवि परं गुह्यं व्रतानामधिनायकम् ।
विपरीतविनाशाय कर्तव्यं चुम्बकादिभिः ॥
"

इत्युपक्रम्य कृच्छ्रचान्द्रायणेनैव वाजपेयाश्वमेधकैः ।
सौत्रामणिं चातिकृच्छ्रं सम्यङ्निर्वर्त्य यत्फलम् ॥

तत्फलं कोटिगणितं पवित्रारोहणे कृते ।
"

इति ॥

इदानीं कुलपर्वादावासूत्रितो नैमित्तिकविधिरुच्यते–इत्याह–

अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥ २८-१८६ ॥

स भण्यते तत्र कार्या देवस्यार्चा विशेषतः ।
चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥ २८-१८७ ॥

तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् ।
पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥ २८-१८८ ॥

तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये ।
तदुपायोऽपि सम्पूज्यो मूर्तिकालक्रियादिकः ॥ २८-१८९ ॥

चिदचिदात्मकमिति–आत्मप्राणादिरूपम्–इत्यर्थः ।
तदुपाया इति– ज्ञानयोगादयः ।
मूर्तिः–लिङ्गादिरूपा, कालः–कुलपर्वादिः, क्रिया–स्नानध्यानादिरूपा ॥ १८९ ॥

ननु उपायत्वं नाम तदुपकरणमात्ररूपत्वमुच्यते, तस्यापि पूजया किं स्यात् ?–इत्याशङ्क्य आह–

उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् ।
तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥ २८-१९० ॥

इदं हि नाम उपायस्य उपायत्वं यदुपेयाविष्करणे परानपेक्षं समर्थत्वम् ।
तत् तस्य उपेयोपायस्यापि अर्चनात्

“…षा पूजा ह्यादराल्लयः ।
" (वि।
भै। १४७ श्लो।
)

इत्यादिनीत्या तत्रैव लयात् उपायेऽपि तदुपेये इव तन्मयीभावो भवेत् येन यथायथमधिरोहात् निर्विलम्बमुपेयमयतैव स्यात् ॥१९० ॥

अत एव आह–

यथा यथा च नैकट्यमुपायेषु तथा तथा ।
अवश्यम्भावि कार्यत्वं विशेषाच्चार्चनादिके ॥ २८-१९१ ॥

विशेषादिति–लोके हि यावदुपायोपेययोरन्यत्वात् अन्यथाभावोऽपि सम्भाव्येत, इह पुनरुपेयमयतापत्तिरेव उपायत्वमित्यन्यथाभावाशङ्काया अपि नास्त्यवकाशः–इत्याशयः ॥१९१ ॥

अतश्च आत्मज्ञानस्य साक्षान्मोक्षाद्युपायत्वात् तदवाप्तिदिनं मुख्यं पर्व–इत्याह–

ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः ।
यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥ २८-१९२ ॥

तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः ।
तद्विद्योऽपि गुरुभ्रता संवादाज्ज्ञानदायकः ॥ २८-१९३ ॥

ननु इह पितरमुद्दिश्य भ्रत्रादिव्यवहारो न्याय्यः, तत्कथं गुरुमुद्दिश्यापि एवमुक्तम् ?–इत्याशङ्क्य आह–

गुरोः पत्नी तथा भ्रता पुत्र इत्यादिको गणः ।
न योनिसम्बन्धवशाद्विद्यासम्बन्धजस्तु सः ॥ २८-१९४ ॥

नन्वत्र कस्मान्न यौन सम्बन्धः ?–इत्याशङ्क्य आह–

वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः ।
देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ २८-१९५ ॥

देहसन्तानः–पुत्रादिः, उपकारसन्तानः–सेवकादिः ॥१९५ ॥

अतश्च स्मृतिरपि युक्ता–इत्याह–

तथा च स्मृतिशास्त्रेषु सन्ततेर्दायहारिता ।
युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥ २८-१९६ ॥

ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः ।
बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥ २८-१९७ ॥

तावानिति–पुत्रपौत्रादिक्रमेण तथा तथा स्थितः–इत्यर्थः ।
स इति–पित्रादिः ।
दूरान्तिकत्वतो भेदादिति–पुत्रभ्रतृपुत्रादिलक्षणात् ।
यदभिप्रायेणैव

“अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
" (मनु। ९।१८७)

इत्यादि स्मृतम् ।
त्यक्तशरीरास्था इति देहादावनात्माभिमानिनः– इत्यर्थः ॥ १९७ ॥

ननु अस्य कथं देहादावहम्भाव एव भ्रश्येत्, येन तत्र अनास्थापि स्यात् ? –इत्याशङ्क्य आह–

तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्किर्यः ।

इत्थमिति–वक्ष्यमाणेन प्रकारेण ॥

तदेव आह–

देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥ २८-१९८ ॥

आत्मा विकाररहितः शाश्वतत्वादहेतुकः ।

पूर्वपूर्वेति–पितृपितामहादयः, अत एव कृतकत्वाद्विनश्वरः ॥

ननु यदि आत्मा निर्विकारः, तत्कथं पूर्णोऽपि अपूर्णतां श्रयेत्, अपूर्णोऽपि पूर्णताम् ?–इत्याशङ्क्य आह–

स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥ २८-१९९ ॥

पुनश्च प्रकटीभूय भैरवीभावभाजनम् ।

ननु अस्य पुनः स्वत एव चेद्भैरवीभावो भवेत् तत्कृतमनया प्रक्रान्तया दर्शनव्यवस्थया; मलपरिपाकादिश्च हेतुर्न न्याय्य इत्युक्तम्, तत्कतरस्तावदत्र समुचित उपाय इति न जानीमः ?– इत्याशङ्क्य आह–

तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥ २८-२०० ॥

य उपायः समुचितो ज्ञानसन्तान एष सः ।

समुचितोपायत्वमेव अस्य दर्शयति–

क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥ २८-२०१ ॥

गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते ।

ननु एवं प्राप्यलाभेऽस्य किं स्यात्?–इत्याशङ्क्य आह–

एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥ २८-२०२ ॥

ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् ।

इदमेव च अन्यैरितो बाह्यैराश्रयपरावृत्तिः–इत्युक्तम् ॥

यद्यपि च विज्ञानसन्तानस्य कारणत्वमुक्तं तथापि सहकारित्वात् न तन्मुख्यमित्यत्र मुख्येन कारणान्तरेण भाव्यम्–इत्याह–

असंसारोचितोदारतथाविज्ञानसन्ततेः ॥ २८-२०३ ॥

कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् ।

मुख्यमिति उपादानरूपम्–इत्यर्थः ॥

तदेव अस्य उपपादयति–

अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥ २८-२०४ ॥

उपादानं हि तद्युक्तं देहभेदे हि सत्यपि ।

तत्रार्पणवशादिति–उपादानकारणं हि अनुगामि भवेत्–इति भावः ॥

ननु देहभेदे सति अन्यस्य अन्यत्र कथं स्वविशेषार्पणं न्याय्यम्?– इत्याशङ्क्य आह–

देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥ २८-२०५ ॥

न तथात्वाय योगीच्छाविष्टशावशरीरवत् ।

न तथात्वायेति–क्वचिदपि नानयोः प्रयोजकत्वम्–इत्यर्थः ॥

न च अत्र कस्यचिद्विप्रतिपत्तिः–इत्याह–

योगिनः परदेहादिजीवत्तापादने निजम् ॥ २८-२०६ ॥

देहमत्यजतो नानाज्ञानोपादानता न किम् ।

नानाज्ञानेति–चक्षुरादीन्द्रियजानाम्–इत्यर्थः ॥

प्रकृतमेव उपसंहरति–

तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥ २८-२०७ ॥

अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः ।
इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥ २८-२०८ ॥

एककारणकार्यं च वस्त्वित्येष गुरोर्गणः ।

इत्थं स्थित इति–यौनसन्ततेर्गुणभावेन गुरुसन्ततेरेव प्राधान्ये न्याय्ये–इत्यर्थः ॥

तदेव विभजति–

गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥ २८-२०९ ॥

यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत् ।

सहकारिणश्च कदाचिदसम्भवेऽपि न काचित् क्षतिः–इत्याह–

अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥ २८-२१० ॥

सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् ।
एकजन्या भ्रतरः स्युस्तत्सदृग्यस्तु कोऽपि सः ॥ २८-२११ ॥

पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते ।
मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥ २८-२१२ ॥

तत्सदृगिति–गुरुभ्रत्रादिसदृशः–इत्यर्थः ॥ २१२ ॥

इदानीं

“ज्ञानस्य कस्यचित्प्राप्तिः… ।
" (१९२)

इत्यादिना उपक्रान्तं नैमित्तिकदिनमुख्यत्वमेव निर्वाहयति–

गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च ।
यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥ २८-२१३ ॥

एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते ।
तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥ २८-२१४ ॥

दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् ।
भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥ २८-२१५ ॥

स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति ।
नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥ २८-२१६ ॥

स्वजन्मेति–शिष्यादेः ।
इदमत्र तात्पर्यम् यदिह सर्वेषां स्वजन्मदिनं (तत्) तावन्मुख्यं नैमित्तिकम् ।
तथाहि–यदि अयं देहो नाभविष्यत्, तज्ज्ञानमपि नाभविष्यत् ।
एवं गुरुजन्मदिनमपि, तदभावे किं सतापि स्वजन्मदिनेन स्यात् ।
एतच्च दीक्षासंस्कारं विना सर्वं व्यर्थमिति तद्दिनमपि मुख्यमेव नैमित्तिकम् ।
तदपि विज्ञानसन्ततेरुत्पादात् जन्मदिनमेव ।
प्रायणदिनमपि एवमेव यदत्रापि शिवेनैकात्म्यापत्तिः ।
इयांस्तु विशेषो यदुभयमेतत् स्वपरयोरपि, इदं तु परस्यैवेति ।
एवं च दिनत्रयस्यापि विज्ञानोपायदेहादिकारणत्वं युक्तमेवोक्तमिति ॥ २१६ ॥

ननु मरणमेव नाम किमुच्यते यस्मिन्सति शिवाभेदोऽपि भवेत् ?– इत्याशङ्कायां प्रसङ्गापतितं मरणस्वरूपमेव तावदभिधातुं प्रतिजानीते–

तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् ।

अनेन गुर्वादिजन्मदीक्षाप्रायणदिनार्चाप्रयोजनादिनिरूपणानन्तर्येण अनुजोद्देशोद्दिष्टमृतिपरीक्षणमपि उपक्रान्तम् ॥
तदेव आह–

व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥ २८-२१७ ॥

विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् ।

किं नाम च अस्य शरीरभाक्त्वमुच्येत ?–इत्याशङ्क्य आह–

शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥ २८-२१८ ॥

संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः ।

तच्च शरीरभाक्त्वं संवित्तेरेतावत् यदस्याः शून्यदशामधिशयानाया बहिरुच्छलनादुदराकाशगर्भे वर्तमानं देहं गतः प्रथमः प्राणनोदयः

“प्राक् संवित् प्राणे परिणता ।
"

इति नयेन आद्यस्पन्दसञ्ज्ञितया प्राणनामात्ररूपतया संवित् आश्यानतामाश्रिता–इत्यर्थः ॥

ननु गर्भस्थ एव देहः कुतस्त्यो यद्गतत्वेन प्राथमिकः प्राणनोदयोऽपि स्यात् ?–इत्याशङ्क्य आह–

गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ २८-२१९ ॥

असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते ।

तस्यैवेति–प्राथमिकस्यैव प्राणनोदयस्य ।
असङ्कोचस्येति– अपरिगृहीतप्राणापानाद्यवच्छेदस्य–इत्यर्थः ।
यद्वशादेव अयं प्रावादुकानां प्रवादस्तनुकरणभुवनादिनिर्माता परमेश्वर इति ॥

गृहीतसङ्कोचः पुनरयं जाड्याच्चेतनाधिष्ठेय एव–इत्याह–

स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥ २८-२२० ॥

प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् ।
अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुध्यते ॥ २८-२२१ ॥

क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी ।
तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥ २८-२२२ ॥

गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः ।
एवं क्रमेण सम्पुष्टदेहप्राणबलो भृशम् ॥ २८-२२३ ॥

भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः ।

स इति–प्रथमः प्राणोदयः ।
वाय्वात्मेति– प्राणापानादिवायुपञ्चकात्मना गृहीतावच्छेदः–इत्यर्थः ।
अत इति–एवं वाय्वात्मनोऽस्य विचरणाद्धेतोः ।
स इति–गर्भस्थो देहः ।
तदुक्तं प्राक्–

शा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् ।
देहं यत् कुरुते संवित्पूर्णस्तेनैष भासते ॥
" (६।१४)

इति ।
तत्रापीति–एवं बलीयस्त्वे सति–इत्यर्थः ।
अक्षताग्रहणे शून्येत्यादिहेतुः, शून्याश्चक्षुरादीन्द्रियाधिष्ठानरूपाः सुषीर्नाडीर्लभमानस्य संवित् स्पर्शस्य आधिक्यात् इन्द्रियनाडीषु प्राणनात्मनः संवित्स्पर्शस्य उद्रेकेण अवस्थानात्–इत्यर्थः ।
अत्रापि हेतुः कर्मनियतिबलादिति, यदभिप्रायेणैव

शामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ।
" (सां।
का। २९)

इत्यादि अन्यैरुक्तम् ।
भुङ्क्ते इति–अर्थाद् गृहीतसङ्कोचः शिव एव ॥

न च एतत्स्वोपज्ञमेव अस्माभिरुक्तम्–इत्याह–

उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥ २८-२२४ ॥

यथा गृहं विनिष्पाद्य गृही समधितिष्ठति ।
तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ २८-२२५ ॥

किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते ।
स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥ २८-२२६ ॥

इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु ।

तत एव बहु पठेदिति–अस्माभिस्तु ग्रन्थविस्तरभयान्न पठितम्– इत्यभिप्रायः ।
तदुक्तं तत्र–

“ब्रह्मादिस्तम्बपर्यन्तं विश्वं तु सचराचरम् ।
मायातत्त्वसकाशात्तु सर्वमेव विनिःसृतम् ॥

धर्माधर्मनिबद्धस्तु पिण्ड उत्पद्यते तदा ।
तत उत्पद्यते गन्धः शुक्रशोणितसम्भवः ॥

शुक्रान्मांसं ततो मेदो मज्जा चास्थीनि देहिनाम् ।
रक्तात्त्वक्स्नायुमांसं च धातुषट्कं भवेदिदम् ॥

शुक्रं च शोणितं चैव अष्टधातुकमुच्यते ।
पश्चाद्भूतगणोपेतो देहो भवति देहिनाम् ॥

यथा गृहं तु निष्पाद्य गृही पश्चात्तु तिष्ठति ।
एवं देहं विनिष्पाद्य देही तिष्ठति चेश्वरः ॥

पुरुषः शून्यरूपस्तु निष्क्रियो गुणवर्जितः ।
किञ्चित्स्फुरणमात्रस्तु निष्कलः स हि कथ्यते ॥

सकलः कलया युक्तः शान्तात्मा प्रभुरव्ययः ।
तन्मात्राणि च भूतानि इन्द्रियाणि दशैव तु ॥

इन्द्रियार्था मनो बुद्धिस्तथाहङ्कार एव च ।
विज्ञेयः सकलो ह्येष शिवो देहे व्यवस्थितः ॥

मानुषाणां पशूनां च सर्पाणां जलचारिणाम् ।
व्यापकोऽपि शिवाख्यो वै संसारे संव्यवस्थितः ॥
"

इत्यादि बहु ॥
इह मरणस्य नान्तरीयकवृत्तित्वात् जन्माभिधानपूर्वं समुचितं वचनम्–इत्याह–

क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते ॥ २८-२२७ ॥

प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः ।

तेषां तु कर्मणामिति–देहारम्भकाणाम् ।
तत इति–प्राणयन्त्रस्य विघटनात् ॥

तद्विघटनमेव दर्शयति–

नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥ २८-२२८ ॥

भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः ।
इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥ २८-२२९ ॥

देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः ।

विपरीतत इति–सङ्कुचितं हि नाडीचक्रं विकसति, विकसितं च सङ्कुचतीति ।
अग्निः पित्तम्, तेन धातुत्रयस्यापि अपचयादत्यन्तं वा चयादस्य भङ्गादि भवेत् येन एतत् प्राग्रूपात्प्रच्युतिमेव आसादयेदेवम् ।
किं बहुना यदेव नाम हि किञ्चित् देहयन्त्रे प्राक्संस्थानोपमर्दकं तदेव मनीषिभिर्विघटनमित्युक्तं यल्लोके मरणमिति प्रसिद्धम् ॥

न च एतावतैव अस्य संसारोच्छेदः–इत्याह–

तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥ २८-२३० ॥

गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते ।
स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥ २८-२३१ ॥

तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि ।

यन्त्र इति–देहे, वाशब्दादयोनिजेऽपि ।
प्रतिबुध्येतेत्यनेन अस्य सृष्टिरुक्ता ।
भोगतद्धानीति तत्प्राप्त्यप्राप्ती, एषैव च अस्य स्थितिः ॥

एते च अस्य सृष्ट्यादयः कर्मबलोपनता इति नियत्याद्यपेक्षित्वात् तत्तद्वैचित्र्यभाजो भवन्ति–इत्याह–

विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ २८-२३२ ॥

अतो नियतिकालादिवैचित्र्यानुविधायिनः ।

अनुग्रहः पुनरस्य कर्मादि अनपेक्ष्यैव स्यात्–इत्याह–

अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे ॥ २८-२३३ ॥

ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते ।

ननु अनुग्रहस्यापि कर्मादिहेतुत्वे को दोषः?–इत्याशङ्क्य आह–

कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥ २८-२३४ ॥

सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे ।
अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥ २८-२३५ ॥

प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः ।

यदुक्तं प्राक्–

“यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ।
तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी ॥

तथास्वरूपताहानौ तद्गतं हेतुतां कथम् ।
व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् ॥

तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ।
" (१३।११६)

इति ।
प्रागिति–शक्तिपातपरीक्षाह्निके ॥

ननु एवंविधेन अनुग्रहेण अस्य किं स्यात् ?–इत्याशङ्क्य आह–

तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥ २८-२३६ ॥

देहान्ते शिव एवेति नास्य देहान्तरस्थितिः ।

नन्वेवं देहान्तरानुत्पत्तौ दीक्षैव किं निमित्तमुत निमित्तान्तरमस्ति?–इत्याशङ्क्य आह–

येऽपि तत्त्वावतीर्णानां शङ्कराज्ञानुवर्तिनाम् ॥ २८-२३७ ॥

स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे ।
मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ २८-२३८ ॥

मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः ।
तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः ॥ २८-२३९ ॥

केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः ।
येऽनुग्रहार्थमाज्ञप्तास्तेषु यो मिर्यते नरः ॥ २८-२४० ॥

सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः ।
यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नाशतस्त्यजेत् ॥ २८-२४१ ॥

यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता ।
तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥ २८-२४२ ॥

वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः ।
सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥ २८-२४३ ॥

तपस्यन्तौ बदर्यां च नरनारायणौ तथा ।
इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥ २८-२४४ ॥

आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् ।
स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते ॥ २८-२४५ ॥

तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि ।
मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥ २८-२४६ ॥

तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् ।
स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः ॥ २८-२४७ ॥

स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः ।

यद्यपि च अत्र पवित्रकविध्यनन्तरं तीर्थायतनचर्चनमुद्दिष्टं तथापि तत् मरणोपयोगित्वात् तत्परीक्षान्तरुपक्षिप्तमिति न कश्चित् पूर्वापरव्याघातः ।
अनुग्रहतत्परा इति–अबादिभ्यो हि तत्त्वेभ्यः परमेश्वराज्ञया पञ्चापि अष्टकानि अनुग्रहार्थमेव भुवमवतीर्णानि–इत्याशयः ।
स्फुटमिति–अनुग्रहार्थमेव एषामवतीर्णत्वात् ।
तपस्यन्तीत्यादिना एषां स्वकार्यावेदनं कृतम् ।
तत्रेति–तत्परेषु मर्त्येष्वप्यवतरन्तीति तेषां साक्षादनुग्रहकारित्वाभावात् ।
तत्तदंशका इति– ब्रह्मविष्णुरुद्राद्यंशाः–इत्यर्थः ।
अस्मिन्द्वय इति–अनुग्रहार्थं स्वकार्यार्थं च अवतीर्णे ॥

ननु यदि एवमत्र स्थावरादीनां सालोक्यं स्यात्, तन्मनुष्याणां का वार्त्ता?–इत्याशङ्क्य आह–

पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥ २८-२४८ ॥

पशुमात्राणामिति–अन्येषां पुनः सायुज्याद्यपि भवेत्–इति भावः ॥२४८॥

ननु एषां स्थावरादिवदेव किमविवेकः समस्ति न वा?–इत्याशङ्क्य आह–

अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा ।

तद्विशेषानुन्मेषादिति–राजसत्वात् पुंसाम् ।
मौढ्यत इति– स्थावरादीनां तामसत्वात् ॥

ननु अन्यत्र स्थावरादीनां

“येषां मृतानां चर्माणि यान्ति योगं शिवालये ।
वृक्षाणामपि दारूणि तेऽपि रुद्रा न संशयः ॥
"

इति दृशा रुद्रत्वमेव भवेत्–इत्युक्तम् ।
इह पुनरेषां सालोक्यं कस्मादभिहितम्?–इत्याशङ्क्य आह–

स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥ २८-२४९ ॥

प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः ।

तथाभावमिति–स्थावरादिरूपत्वम् ।
उत्तरोत्तरतामिति– पुमादिरूपतासादनक्रमेण ॥

अत एवम् आगमोऽप्येवम्–इत्याह–

हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥ २८-२५० ॥

इत्येतदागमेषूक्तं तत एव पुरे पुरे ।
क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥ २८-२५१ ॥

लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति ।
स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ २८-२५२ ॥

तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् ।
अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥ २८-२५३ ॥

पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः ।

ननु स्वयम्भ्वादीनां साक्षात्सन्निधेः क्षेत्रादिरूपत्वमस्तीति तद्गृहे मृतानां भवेदेवं को दोषः, मनुष्यादिप्रतिष्ठितानां लिङ्गानां पुनः कथमेवं युज्येत?–इत्याशङ्कां प्रशमयितुमागममेव संवादयति–क्षेत्रेत्यादिना ।
आचार्योऽत्र उत्कर्षी ॥

अतत्त्ववित्त्वमेव दर्शयति–

अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः ॥ २८-२५४ ॥

न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः ।
तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥ २८-२५५ ॥

तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये ।
तथा च आगमोऽप्येवम्– इत्याह–

उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥ २८-२५६ ॥

मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः ।
तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥ २८-२५७ ॥

अयोगिनामयं पन्था योगी योगेन वञ्चयेत् ।
वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥ २८-२५८ ॥

तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते ।

ज्ञात्वेति–

“यस्य वै स्नातमात्रस्य हृत्पादौ वाथ शुष्यतः ।
धूमो वा मस्तके नश्येद्दशाहं न स जीवति ॥
"

इत्याद्युक्तैस्तत्रत्यैरेव लक्षणैः ।
त्यजेदिति–उत्क्रान्त्यादिक्रमेण ।
उत्क्रान्त्यादावसमर्थः पुनस्तीर्थादावनशनादिना देहं त्यजेत्, येन अस्य पुनर्जन्ममरणायोगात् कालवञ्चनं सिध्येत्–इत्याह–तीर्थेत्यादि; अत एवाह–अयोगिनामयं पन्था इति ।
अनशनादिनापि देहं त्यक्तुमसमर्थेन क्षेत्रादि आश्रयणीयमेव यद्वशात्स्वारसिके देहापगमे कालवञ्चनं स्यात्–इत्याह–वञ्चनेत्विति ।
एकस्तुशब्दो हेतौ ॥

इदमेव च अत्र नाभिधेयं यावदन्यदपि–इत्याह–

अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥ २८-२५९ ॥

तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता ।

धरादियोगिनां हि तद्धारणाक्रमेण तत्सिद्धिभाक्त्वं तावत् सिद्धं मुक्तिस्तु क्षेत्रोपसेवनाद्भवेदिति भावः ॥

नन्वेवं क्षेत्रोपयोगः किमज्ञानामेव किं स्वित् ज्ञानिनामपि?– इत्याशङ्क्य आह–

सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ २८-२६० ॥

नन्वेवं ये न ज्ञानिनः, नापि पशवः, तेषां का वार्त्ता?– इत्याशङ्क्य आह–

ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥ २८-२६१ ॥

योग्यतावशसञ्जाता यस्य यत्रैव वासना ।
स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥ २८-२६२ ॥

इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपि च ।
यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥ २८-२६३ ॥

सिद्धभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् ।

स्वौचित्येति–न तु क्षेत्रौचित्ययोगतः ।
अन्यत्र श्रीमत्स्वायम्भुवेऽपि च वर्णितमिति सम्बन्धः ॥

क्षेत्रौचित्यात् पुनरेषां लोकधर्मिणां तत्सायुज्यमेव भवेत्–इत्याह-

ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥ २८-२६४ ॥

मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः ।

नन्वेवमपि एषां सर्वेषां किमविशेषेणैव रुद्रत्वेन अवतारः, उत न ?–इत्याशङ्क्य आह–

तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥ २८-२६५ ॥

तथा तथा विचित्रः स्यादवतारस्तदंशतः ।

संस्कारत इति–प्राक्कर्मवासनारूपात् ॥

तथा च आगमोऽपि–इत्याह–

सिद्धान्तादौ पुराणेषु तथा च श्रूयते बहु ॥ २८-२६६ ॥

तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः ।

नन्वेवमैकरूप्येऽपि रुद्रत्वस्य कथमेतद्युज्येत?–इत्याशङ्क्य आह–

अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥ २८-२६७ ॥

शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत् ।

यच्छब्दो हेतौ भिन्नक्रमः, तेन वपुःशब्दानन्तरं योज्यः, एवं तर्हि तत्तच्छक्त्यतिरिक्तं भावस्य रूपं पर्यवस्येत्?–इत्याशङ्क्य आह–शक्तिभ्योऽर्थान्तरं नैष इति ।
ततोऽर्थान्तरत्वे तु अस्य किं स्यात्?–इत्याशङ्क्य आह–तत्समूहादृते भवेदिति ।
यदनेकाभाससम्मूर्छनात्मको भाव इति एष तदाभाससम्मूर्छनामन्तरेण न किञ्चिदपि रूपं बिभृयात्– इत्यस्मत्सिद्धान्तः ॥

ननु अनेन प्रकृते किं स्यात् ?–इत्याशङ्क्य आह–

तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥ २८-२६८ ॥

कृत्यं तदुचितं सिद्ध्येत् स्ॐऽशोऽवतरति स्फुटम् ।

अतश्च अनेकाभासकदम्बतया उद्भासमानाद्रुद्रात् यस्मादेव आभासांशात् तत्तत्प्राक्कर्मानुगुणं कार्यं सिद्ध्येत्, स एव आभासांशः स्फुटमवतरति–तत्तद्रुद्ररूपतां साक्षाद् गृह्णीयात्–इत्यर्थः ॥

अत्रैव अधिकारिभेदात् वैचित्र्यान्तरमपि दर्शयितुमाह–

ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥ २८-२६९ ॥

तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः ।
ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥ २८-२७० ॥

येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः ।
प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥ २८-२७१ ॥

अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् ।
विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥ २८-२७२ ॥

ये च लोकधर्मिण एव अप्तत्त्वादावधरपदे प्राप्तयोजनिकास्तत्रैव च सादराः, परे तदुत्तरे तेजस्तत्त्वादौ तत्तत्त्वावतीर्णस्य अतिगुह्याष्टकादिमध्यादेकतरस्य स्थाने विनैव सन्धानं मृतास्ते तत्र अधरेऽपि उत्कर्षभागिनः तत्स्थानमृतसाधकान्तरवैलक्षण्येन भोगभाजो भवन्ति–इत्यर्थः ।
ये पुनरप्तत्त्वादावेव प्राप्तदीक्षाः, तत्र तथा अनादृतास्तेऽपि एवं मृतास्तदुत्तरे तेजस्तत्त्वादावेव भोगिनस्तत्पदमेव आसादयन्ति–इत्यर्थः ।
येऽपि तेजस्तत्त्वादावूर्ध्वे प्राप्तदीक्षास्ते मौढ्यादप्तत्त्वाद्यवतीर्णस्य स्वयम्भुवः सम्बन्धिनि अधरे स्थाने प्राप्तमृत्यवोऽपि तद्दीक्षाफलमेव सुष्ठु भजन्ते ।
यतस्ते तथाविधायामपि दीक्षायां बद्धास्था गतानुगतिकया प्रसिद्धिमात्रादेव अधरायतनादावास्थां श्रिताः ।
नहि एषामेवं शास्त्रीयो विवेकः समस्ति येन दीक्षोचितमेव स्थानमनुसरेयुः ॥२७२ ॥

एवमियता किं पर्यवसितम्?–इत्याशङ्क्य आह–

पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ।
तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥ २८-२७३ ॥

दीक्षितस्येति–लोकधर्मिदीक्षया ।
तत्परस्येति–एवं दीक्षितत्वेऽपि तत्तत्स्थानादौ मृतस्य ॥

सिद्धान्तादावूर्ध्वोर्ध्वं दीक्षितस्य पुनस्तत्र अनास्थया तीर्थादि आश्रयतः सर्वं निरर्थकमेव भवेत्–इत्याह–

यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः ।
व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥ २८-२७४ ॥

उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा ।
दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥ २८-२७५ ॥

तदुक्तम्–

“दीक्षितः शिवसिद्धान्ते गुरुपूजादिकां क्रियाम् ।
कृत्वान्ते च व्रजेद्यस्तु तीर्थमायतनादि वा ॥

वृथा दीक्षा वृथा ज्ञानं मन्त्राराधनमेव च ।
त्यक्तं तेनैव तत्सर्वं तीर्थमात्रफलेप्सुना ॥
"

इति ॥२७५ ॥

यस्तु तावदयोग्योऽपि तथास्ते स शिवालये ।
पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥ २८-२७६ ॥

तावदयोग्य इति–आजीवम् ।
पश्चादिति–मृत्युसमय एव ।
तावदिति– पूर्णम् ॥ २७६ ॥

ननु स्वयम्भ्वादीनामेव स्थाने मृतानामेवं भवेदिति कस्मादुक्तं यदन्यत्र अन्तर्वेद्यादावपि मरणस्थानत्वमभिहितम् ?–इत्याशङ्क्य आह–

नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ ।
उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥ २८-२७७ ॥

ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके ।
अधरायतनेष्वास्था श्रितास्तेऽत्र तिरोहिताः ॥ २८-२७८ ॥

निष्कृतिश्च एषां किमस्ति न वा?–इत्याशङ्क्य आह–

तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् ।
तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥ २८-२७९ ॥

दीक्षायतनविज्ञानदूषिणो ये तु चेतसा ।
आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥ २८-२८० ॥

ननु एते साक्षात् यदि आचरन्तो दृश्यन्त इति कुतस्तद्विशेष एषां ज्ञायेत ?–इत्याशङ्क्य आह–

ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः ।
व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥ २८-२८१ ॥

इह द्विविधानि व्यापारव्याहृतानि संसारभागीयानि कैवल्यभागीयानि च ।
तत्र एषां क्वचिद्यथानुसन्धानं प्रवृत्तिः, क्वचिदयथानुसन्धानं क्वचिच्च निरनुसन्धानमिति ।
तत्र आद्यः स्पष्ट एव पन्था यथानुसन्धानं व्यापारादेर्भावात् ।
द्वितीयस्तु विपर्यस्तो व्यापारादेरनुसन्धानविपर्ययेण दर्शनात् ।
तृतीयस्तु नैवंविधः–इत्याह–

यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः ।
अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥ २८-२८२ ॥

यानि संसारकैवल्यभागीयतया द्विविधानि, तानि व्यापारव्याहृतानि स्वास्थ्ये कदाचिदपि नोदितानि यथा ज्ञानिनः संसारभागीयानि अज्ञानिनस्तु कैवल्यभागीयानि, अस्वास्थ्ये पुनर्धातुदोषवशादुत्थितानि, तद्भोगमात्रकमेव तदानीमेषामेवंविधः प्राक्कर्मबलोपनतो भोग एव, न तु शुभाशुभकारि किञ्चित्–इत्यर्थः ॥ २८२ ॥

ननु कथं भोगमात्रकमेव एतदित्युक्तं यज्ज्ञानिनोऽपि अन्तश्च आत्तानां संसारवासनानामन्तरान्तरा दर्शनादज्ञानित्वं स्यात्, अज्ञानिनोऽपि ज्ञान्युचितानां संस्काराणामुदयात् ज्ञानित्वमिति?– इत्याशङ्क्य आह–

धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः ।
छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥ २८-२८३ ॥

ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा ।
अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥ २८-२८४ ॥

भूयिष्ठेति–एषां हि बलवज्ज्ञानम्–इत्याशयः ।
अनुन्मिषिता इति– अर्थादज्ञानिनः ॥ २८४ ॥

ननु स्वास्थ्याविशेषेऽपि ज्ञानिनां धातुदोषादेते संस्काराः प्रबुद्धाः, इतरेषां तु शक्तिपातत इति कुतस्त्योऽयं विशेषः ?– इत्याशङ्क्य आह–

यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः ।
इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥ २८-२८५ ॥

ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् ।
अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥ २८-२८६ ॥

न च एतदस्मदुपज्ञमेवेत्याह–इतीत्यादि ।
तच्छिद्रेष्विति, सूत्रत इति ।

“तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।
" (४।२७)

इति सूत्रे–इत्यर्थः ।
सांसारिकाणां हि व्यापारादीनां जन्मान्तरीयो गाढाभ्यासोऽस्ति निमित्तं यद्वशादेषामुदयोऽपि स्यात्, इतरेषां तु संसारिषु अभ्यासो नास्ति, कादाचित्कश्च उदयो दृश्यते, तदत्र केनचित् निमित्तेन भाव्यम् ।
स च शक्तिपात एवेति युक्तमुक्तम्–एते संस्काराः शक्तिपातत इति ॥ २८५-२८६ ॥

ननु एवं ज्ञानिनोऽपि एते संस्कारास्तिरोधानशक्तिपातहेतुका एव सन्ति?–इत्याशङ्क्य आह–

व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः ।
अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥ २८-२८७ ॥

विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः ।
तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥ २८-२८८ ॥

अप्राप्तनिश्चयामर्शैरिति–अन्यथाद्धित्वात् ।
रूढ्यभावत इति–अस्य हि अन्यत्र अस्ति दृढतरमभ्यासः–इति भावः ॥२८८ ॥

अतश्च अस्य अन्येऽपि सांसारिकाः संस्काराः सन्ति–इत्याह–

अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः ।
यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥ २८-२८९ ॥

तर्हि अस्य किं नाम मुक्तत्वम्?–इत्याशङ्क्य आह–

नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत् ।
स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥ २८-२९० ॥

अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः ।
स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥ २८-२९१ ॥

अत इति–जन्मादिवत् मरणस्यापि भोगविशेषात्मकत्वात् ॥ २९१ ॥

योगिनां पुनर्ज्ञानिभ्योऽपि मृतावतिशयः–इत्याह–

ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः ।
चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥ २८-२९२ ॥

निवेशयन्तीति उत्क्रान्त्यादिनिमित्तम् ।
अशङ्किता इति मरणव्यथाद्य योगात् ॥ २९२ ॥

तथा च आगमोऽप्येवम्–इत्याह–

श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः ।
इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥ २८-२९३ ॥

यदुक्तम्–

“धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ।
ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् ॥
" (१०।७८८)

इति ।

“रसतन्मात्रमात्रे वै कृत्वा सम्यक् तु धारणाम् ।
अपां योनिं परां प्राप्ताः… ॥
" (१०।७९९)

इति च ।
श्रीपूर्वशास्त्रे तु द्वादशपटलात्प्रभृति वितत्य एतदुक्तमिति तत एव अवधार्यम् ॥ २९३ ॥

ननु मरणं चेद्योगिनामस्ति अवश्यम्, सुखदुःखाद्यात्मा तद्भोगोऽपि स्यात्; तत्किमेतदुक्तम् ?–इत्याशङ्क्य आह–

एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् ।
धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ २८-२९४ ॥

ननु कियान् मरणाभिख्यो भोगो य एषां नास्ति–इत्याशङ्क्य आह–

एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा ।
ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ २८-२९५ ॥

तदिति–मर्मच्छिदादि ॥२९५ ॥

तदेव उपपादयति–

तथाहि मानसं यत्नं तावत्समधितिष्ठति ।
अहंरूढ्या परे देहे यावत्स्याद् बुद्धिसञ्चरः ॥ २८-२९६ ॥

प्राणचक्रं तदायत्तमपि सञ्चरते पथा ।
तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥ २८-२९७ ॥

यदि हि नाम स्वदेहं त्यजतो योगिनो मर्मसु वेदना, इन्द्रियेषु मोहः, मनसि तमोमयत्वं च अभविष्यत्, तदयं तत्प्रयत्ननिर्वर्त्यं परपुरप्रवेशादि एवं कथङ्कारमकरिष्यत् ।
मनःप्रयत्नाधीन एव हि योगिनः परदेहे बुद्धिप्राणादिसञ्चारः, येन अस्य तत्र अहन्ताप्ररोहः ॥२९७ ॥

ननु प्राणादेरिन्द्रियचक्रस्य मनोऽनुगामित्वमेव कस्मात् ?– इत्याशङ्कां दृष्टान्तदिशा उपशमयति–

मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः ।
स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥ २८-२९८ ॥

एवं योगिनां देहापगमेऽपि अन्यवदिन्द्रियाणामन्तरा अस्तमयो नास्ति– इत्याह–

अतोऽस्य परदेहादिसञ्चारे नास्ति मेलनम् ।
अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥ २८-२९९ ॥

अत इति–मृतिभोगाभावात् ।
ननु एतस्मिन्नेव देहे गाढमर्मप्रहारमात्रेणेन्द्रियाणामन्तरा मेलनं भवेत्, कथं पुनस्तत्त्यागेन?–इत्याशङ्क्य उक्तम्–सूक्ष्मं स्यादेतद्देहवत्पुनरिति ॥२९९ ॥

एतदेव दृष्टान्तगर्भमुपसंहरति–

एवं परशरीरादिचारिणामिव योगिनाम् ।
तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥ २८-३०० ॥

ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा ।
पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥ २८-३०१ ॥

दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् ।
भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥ २८-३०२ ॥

ते इति–योगिनः ।
लौकिका इति–पातञ्जलादिनिष्ठाः ॥ ३०२ ॥

एवं योगिनो मृतवृत्तान्तमभिधाय, ज्ञानिनोऽपि आह–

ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः ।
तत्र ये कम्प्रविज्ञानास्ते देहान्ते शिवाः स्फुटम् ॥ २८-३०३ ॥

एतदेव उपपादयति–

यतो विज्ञानमेतेषामुत्पन्नं न च सुस्फुटम् ।
विकल्पान्तरयोगेन न चाप्युन्मूलितात्मकम् ॥ २८-३०४ ॥

अतो देहे प्रमादोत्थो विकल्पो देहपाततः ।
नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥ २८-३०५ ॥

न च सुस्फुटमिति–देहबलोपनतेन विकल्पेन ग्लपनात् ।
विकल्पान्तरेति– विरुद्धस्य ॥ ३०५ ॥

ननु देहपाते विकल्पस्य प्रशमोऽस्तु, प्रस्फुटज्ञानोदये तु को हेतुः ?–इत्याशङ्क्य आह–

संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा ।
प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥ २८-३०६ ॥

ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा ।
जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥ २८-३०७ ॥

प्राप्तपाकमिति–परां काष्ठामधिरूढम्–इत्यर्थः ।
संवरीतुरिति–पिधायकस्य देहस्य ॥ ३०७ ॥

ननु किं न ज्ञानिनां मृतौ विचारः, यत्तेऽपि तदा पामरवत् देहादिमया एव किं न वा?–इत्याशङ्क्य दृष्टान्तगर्भमाह–

यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा ।
सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा ॥ २८-३०८ ॥

तथा च आगम–इत्याह–

श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः ।
स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥ २८-३०९ ॥

स्वशास्त्रे इति–आधारकारिकासु ॥ ३०९ ॥

तदेव क्रमेण पठति–

रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने ।
सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते ॥ २८- ३१०॥

निरये इति–अपकृष्टस्थाने–इत्यर्थः ॥ ३१० ॥

एतदेव सङ्क्षेपेण व्याचष्टे–

अपि चेति ध्वनिर्जीवन्मुक्ततामस्य भाषते ।
सचिन्ताचिन्तकत्वोक्तिरेतावत्सम्भवस्थितिम् ॥ २८-३११ ॥

न केवलमन्ते ज्ञानी विमोक्षं लभते, यावज्जीवन्नपि–इत्यर्थः ।
एतावदिति आसङ्गरहित इति यावत् ॥ ३११ ॥

इतरत्रापि तात्पर्यार्थं तावदाह–

तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ २८-३१२ ॥

अनन्तकारिका चैषा प्राहेदं बन्धकं किल ।
सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥ २८-३१३ ॥

ज्ञानिनो हि बन्धकं कर्म नास्तीत्यस्य तीर्थादौ मरणे न कश्चिद्विशेष–इत्यत्र तात्पर्यम् ॥ ३१२-३१३ ॥

तदेव पदशो व्याचष्टे–

अपिशब्दादलुप्तस्मृत्या वा सम्भाव्यते किल ।
मृतिर्नष्टस्मृतेरेव मृतेः प्राक् साऽस्तु किं तया ॥ २८-३१४ ॥

लिङ् च सम्भावनायां स्यादियत्सम्भाव्यते किल ।
स च कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥ २८-३१५ ॥

इह मरणं तावत् नष्टस्मृतेरेव भवतीति सम्भवन्त्या अपि मरणात्प्राक् स्मृत्या न कश्चिदर्थः–इति ।
अपिशब्दादनष्टायां स्मृतौ सम्भावनापि अफलप्रायैव–इत्यर्थः ।
लिङ्ङति–परित्यजेदिति ।
इयत्सम्भाव्यते इति–ज्ञानी हि नष्टस्मृतिरनष्टस्मृतिर्वा यत्र तत्र देहं परित्यजतीति ।
मृतेर्मुक्तावहेतुतामिति–ज्ञानप्राप्त्यैव हि अयं मुक्तः, किमस्य स्मरणेन–इत्याशयः ॥ ३१४-३१५ ॥

ननु यद्येवं ज्ञानसमकालमेव मुक्तः, किं कैवल्यं यातीत्युक्तम्?– इत्याशङ्क्य आह–

कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः ।
भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥ २८-३१६ ॥

आशङ्कापदमिति–ज्ञानसमकालमेव अयं किं मुक्तो न वेति ।
अत एव हतशोको निःशङ्कः–इत्युक्तम् ॥३१६ ॥

ननु किमिदमाशङ्कापदम्, नहि ज्ञानिनो देहादि किञ्चिद्बन्धकम्, यदुक्तम्–

शम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥
" (सां।
का। ६७)

इति?–इत्याशङ्क्य आह–

परदेहादिसम्बन्धो यथा नास्य विभेदकः ।
तथा स्वदेहसम्बन्धो जीवन्मुक्तस्य यद्यपि ॥ २८-३१७ ॥

अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः ।
शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥ २८-३१८ ॥

तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः ।
अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥ २८-३१९ ॥

तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते ।

इह ज्ञानिनः परदेहसम्बन्धवत् स्वदेहसम्बन्धो न बन्धको यतोऽस्य सति असति वा देहे शिवाभिन्नस्य विश्वाकारत्वे निराकारत्वे वा कश्चिद्विशेषो नास्ति यद्यपि, तथापि सति देहे भेदसंस्काराशङ्कापि सम्भाव्येति अधुना देहपातानन्तर्येण कैवल्यं यातीत्युक्तम् ।
अथवा जीवतोऽपि अस्य मुक्तदेहसद्भावात्प्रमात्रन्तराणां तदा न ज्ञानमधुना तु ज्ञानमिति ॥
तथा च आगमोऽप्येवम्–इत्याह–

श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥ २८-३२० ॥

जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते ।
सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥ २८-३२१ ॥

तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः ।
प्रधानं घट आकाश आत्मा नष्टे घटेऽपि खम् ॥ २८-३२२ ॥

न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् ।
स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥ २८-३२३ ॥

तस्य भावो न चाभावः संस्थानं न च कल्पना ।

प्रधानं कार्यकारणाद्यारब्धं प्राधानिकं शरीरम्–इत्यर्थः, तेन शरीरघटयोरात्माकाशयोश्च तुल्यत्वमिति ।
यथा घटे नष्टे तदवच्छिन्नं खं न नश्यति, तथा शरीरे नष्टेऽपि आत्मा, किन्तु अनवच्छिन्नस्वस्वरूपमय एव भवेत् ।
तदसौ तत्तत्प्रतिनियतकर्मकारित्वेऽपि तस्मिन् परप्रमातृतया प्रख्याते, अत एव स्वप्रकाशत्वात् प्रमाणप्रत्ययातिगे तदप्रत्येये, अत एव सूर्येन्दुपुटवर्जिते प्रमाणप्रमेययुगलकानवच्छिन्ने, अत एव जुगुप्सा जुगुप्स्यं वस्तु तदभावरूपमजुगुप्स्यं च तयोर्भङ्गस्थे हेयोपादेयकल्पनानिर्मुक्ते, अत एव

शर्वाःशक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।

क्षिप्त्वा मध्ये हाटकस्तम्भभूतस्तिष्ठन् विश्वाधार एकोऽवभासि ॥
"

इत्याद्युक्त्या सर्वतः स्तम्भवत्स्थिते, अत एव सदसदाद्यविकल्प्यत्वाच्छब्दसंस्पर्शासहिष्णौ निर्विकल्पात्मनि बोधान्तरे लीनत्वादनञ्जनो निरुपाधिचिदेकघनस्वस्वरूप एव– इत्यर्थः ।
अतश्चैवं ज्ञाततत्त्वो ज्ञानी स्वातन्त्र्यमास्थितः सर्ववस्तुषु प्रसरेत् सर्वत्र एकात्म्येनैव तिष्ठेत् ।
नहि अस्य जन्ममरणादिलक्षणा काचिद्वास्तवी कल्पना अस्ति–इत्यर्थः ॥

शास्त्रान्तराण्यपि एवम्–इत्याह–

एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥ २८-३२४ ॥

तदेव आह–

यं य वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ २८-३२५ ॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

तदेव व्याचिकीर्षुः पीठिकाबन्धं कर्तुं गीतार्थमेव तावत् सङ्गृह्य अभिधत्ते यदेत्यादिना–

यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥ २८-३२६ ॥

क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः ।

यदा हि कस्यचिदाजन्माभ्यासात् सत्त्वरजस्तमसां मध्यात् यद्यदेव प्रलयसमये विवृद्धं भवति, तदा अस्य तदौचित्यादेव मनुष्यस्थावरादिरूपतया गतिः स्यात्–इति वाक्यार्थः–यद्गीतम्–

“यदा सत्त्वे प्रवृत्ते तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥
" (भ।
गी। १४।१५)

इति ॥

ननु अन्तकाले सत्त्वादिमयत्वेऽपि श्वासायासहिक्कागद्गदादिवैवश्येन सर्वेषां मूढतयैव भाव्यम्, तथात्वे च एषां कथमूर्ध्वगत्यादिसमुचिता देहान्तरसङ्गतिः सङ्गच्छताम् ?– इत्याशङ्क्य आह–

तत्रेन्द्रियाणां सम्मोहश्वासायासपरीतता ॥ २८-३२७ ॥

इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः ।

इह यन्नाम सत्यामपि तनौ इन्द्रियसम्मोहादिः, सोऽयं गौण्या वृत्त्या देहत्यजनशब्दवाच्यो मृतिभोग उच्यते, न तु साक्षादेव देहत्यागः, तदानीमपि अस्य स्फुटत्वेनैव अवस्थानात् ॥

ननु यद्येवं तद्देहस्य साक्षात्त्यागः पुनः कदा स्यात्?–इत्याशङ्क्य आह–

यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ २८-३२८ ॥

यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् ।
सा देहत्यागकालांशकला देहवियोगिनी ॥ २८-३२९ ॥

तत एव हि तद्देहसुखदुःखादिकोज्झिता ।
तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ २८-३३० ॥

अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् ।
तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥ २८-३३१ ॥

यः पुनरयमेक एव एतदनन्तरं क्षणान्तरस्य अनुदयादसहायः, अत एव चरमः, अत एव प्राणापानादिविभागस्य त्रुटितत्वात्प्राणनात्मकस्तावत्सङ्कुचितसंवित्स्वभावः क्षणो यदानन्तर्येणैव च देहस्य काष्ठलोष्टादिप्रमेयान्तरसमानकक्ष्यत्वमभिलक्ष्यते, सा साक्षात् देहत्यजनशब्दवाच्या सर्वजनसंलक्षणीया कालांशस्यापि अंशरूपा कला तद्दार्ढ्यबन्धप्रच्यावात् देहवियोगिनी, अत एव तन्नि बन्धनसुखादिकोज्झिता सङ्कुचितसंविन्मात्ररूपा–इत्यर्थः ।
तस्यामेव च अन्त्यक्षणदशायां अदृष्टादिहेतुबलोपनतात् प्राक्संस्कारस्य प्रबोधात् यदेव सत्त्वादिप्रधानं किञ्चिद्देहान्तरासङ्गि स्मरति, तदेव अस्य प्रथमसंविदनुगृहीतं रूपं सम्पद्यते– इत्यर्थः ॥ ३३१ ॥

एवमेतदज्ञविषयमभिधाय स्वभ्यस्तास्वभ्यस्तज्ञानिविषयतयापि अभिधत्ते–

यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् ।

निःसुखदुःखादीति–विश्वोत्तीर्णसंविद्रूपम्–इत्यर्थः ।
आनन्दरूपकमिति पूर्णपरब्रह्मात्मकम्–इत्यर्थः ।
यदुक्तम्–

न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च ।
न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥
" (स्प।
का। १।५)

इति ।

“आनन्दो ब्रह्मणो रूपम् ।
"

इति च ॥

ननु स्मरणमात्रादेव अस्य कस्मादेवंरूपत्वापत्तिः स्यात् ?– इत्याशङ्क्य प्रतिविधत्ते तदेवेत्यादिना–

कस्मादेति तदेवैष यतः स्मरति संविदि ॥ २८-३३२ ॥

इह अन्त्ये क्षणे हि अभ्यासभूयस्त्वादिना येनैव रूपेण अग्रे भवितव्यं तत्संस्कारस्यैव प्रबोधेन भाव्यम्, तद्वशात्तत्स्मरणं तत्स्मृत्या च तद्भावप्राप्तिर् इति ॥ ३३२ ॥

ननु नित्याविलुप्तस्वरूपायाः संविदस्तावन्नास्ति प्रलीनत्वं तदधिष्ठेयत्वमेव देहत्वं तच्च नीलपीतादिभिरपि अविशिष्टं तत् कथमेवं देहस्यैव प्रलीनत्वमुच्यमानं सङ्गच्छतां येन स्मृत्यादिचिन्तापि स्यात् ?–इत्याशङ्क्य आह–

प्राक् प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः ।

इह यत् नीलाद्यपेक्षया प्रथमतरं चिदधिष्ठानवशात् सम्यगनधिकवृत्तित्वेऽपि दर्पणप्रतिबिम्बवदधिकतया स्फुरति असौ देहः प्रमातृदशामधिशयानस्तच्छब्दव्यपदेश्यः स्यात्–इत्यर्थः ॥

ननु एतावता प्रलीनतार्थः कः?–इत्याशङ्क्य आह–

यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥ २८-३३३ ॥

सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे ।

यदेव हि चिता प्रागस्याधिष्ठानं सैव अत्र सत्त्वादि अधिकृत्य लीनता प्रोक्ता, किं नाम असमञ्जसमस्याः–इत्यर्थः ।
ननु इह निखिलमेव भावजातं चिदधिष्ठानवशात्सत्तामुपेयात्, अन्यथा हि न किञ्चिदपि चेत्येत, अतश्चिदधिष्ठानत्वमेव चेत् प्रलीनत्वम्, को विशेषो जीवनमरणयोः ?–इत्याशङ्क्य उक्तम्–तादात्म्यवृत्तित इति ।
इह देहादीनां संवित्तादात्म्यवृत्तित्वेऽपि तत्स्वातन्त्र्यादेव तदनात्मवृत्तितयेव आधिक्येन प्रस्फुरणं जीवनम्, अन्यथा तु प्रलीनत्वादिशब्दव्यपदेश्यं मरणम्–इति तात्पर्यार्थः ॥

ननु आस्तामेतत्, देहस्य पुनः चिता नीलाद्यपेक्षया प्रागधिष्ठानमित्यत्र किं निबन्धनम् ?–इत्याशङ्क्य आह-

नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥ २८-३३४ ॥

अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् ।

अत एव संविदधिष्ठेयत्वाविशेषेऽपि नीलादिभ्योऽस्ति देहस्य विशेषः–इत्याह–

अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः ॥ २८-३३५ ॥

देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता ।

ननु एवमपि संविदधिष्ठेयत्वाविशेषात् नीलादीनामपि कथं न प्रलीनत्वं प्रोक्तम् ?–इत्याशङ्क्य आह–

तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥ २८-३३६ ॥

वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः ।

तत् तस्मात् देहस्य चिता प्रागधिष्ठेयत्वादेर्हेतोरन्येषां नीलादीनां वेद्यानां सम्भवन्ती अपि वेदयितृस्वभावायां संविदि तादात्म्यवृत्तिर्न अनुभूयते तेषामिदन्तया परामर्शात् ।
देहस्य पुनर्वेद्यत्वेऽपि सा सर्वकालमव्यभिचारिणी अहन्तापरामर्शसहिष्णुतया प्रमातृरूपस्य अविच्युतेः ॥

एवंरूपतायां च अत्र किं निमित्तम्?–इत्याशङ्क्य आह–

सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥ २८-३३७ ॥

स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया ।

सेति–तादात्म्यवृत्तिः ।
तथात्वे हि पूर्वशरीरप्रायणान्त्ये क्षणे प्रागनुभवाहितसंस्कारसमुत्थं तस्य नित्याव्यभिचरितसंविद्रूपस्य देहस्यैव स्मरणं निमित्तम् ।
येनैव हि वस्तुना सदा भावितान्तःकरणः, तदेव मरणसमये स्मरति, तद्भावमेव च प्राप्नोतीति ।
अत एव

“…टदेवैष यतः स्मरति संविदि ।
" (३३२)

इति अनन्तरमेव उक्तम् ॥

अत एव अस्मद्गुरुभिरपि युक्तमेवोक्तम्–इत्याह–

युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥ २८-३३८ ॥

देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् ।
तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥ २८-३३९ ॥

देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति ।

यन्नाम श्रीमत्कल्लटपादैः

“देहनीलादीनां सर्वशरीरग्रहणम् ।
"

इत्याद्युक्त्या शरीरत्वाविशेषेऽपि देह एव तथात्वनिबन्धनम्

“प्राणाख्यनिमित्तदार्ढ्यम् ।
"

इत्याद्युक्त्या प्राणदार्ढ्यं निमित्तमुक्तं तदनया समनन्तरोक्त्या

“प्राक्संवित्प्राणे परिणता ।
"

इत्यादिसूत्रितया सर्वाधिष्ठेयपूर्वत्वादिलक्षणया युक्त्या न्याय्यम् ।
अन्यथा हि अविशेषेऽपि एकत्र प्राणदार्ढ्ये को हेतुरित्येष दुरुद्धर एव प्रश्नः स्यात् ॥

ननु अस्तु अन्त्ये क्षणे स्मरणं भाविदेहहेतुत्वं तु तस्य कुतोऽवगतम्?–इत्याशङ्क्य आह–

स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥ २८-३४० ॥

ननु यदि यदेव स्मर्यते तदेव प्राप्यते, तर्हि तत्क्षणभावि नीलादिस्मरणमपि तथात्वनिबन्धनं स्यात् ?–इत्याशङ्क्य आह–

प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् ।

तद्देहाख्यमेव प्राग्भाविरूपमसौ प्राप्नोति यदन्त्यक्षणे देह एव प्राक् नीलादिभ्यः पूर्वचिता अधिष्ठितः, अत एव स्फुरन् स्मर्यते स्मृतिविषयतामुपेयात्–इत्यर्थः ॥

ननु तदा एवंविधस्य स्मरणस्य सद्भावे किं प्रमाणम्?–इत्याशङ्क्य आह–

अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥ २८-३४१ ॥

न जातु गोचरो यस्माद्देहान्तरविनिश्चयः ।

अतो देहवियोगावस्थावस्थानात् देहान्तरासङ्गि यदेवंविधं स्मरणम्, तदसर्वज्ञमातृषु न गोचरो देहसम्बन्धघटनेन अस्य प्रतिपादनवैफल्यादर्वाग्दृशः परे तत्कथमवबुद्ध्यन्ताम्– इत्यर्थः ।
ननु किमिदमनुभवविरुद्धमभिधानं यदन्त्येऽपि क्षणे बन्धुप्रभृतेः शिशिरोदकपानादेर्वा दृश्यत एव स्मरणमिति ?–इत्याशङ्क्य आह–

यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥ २८-३४२ ॥

न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् ।

न तदन्त्यमिति अपितु उपान्त्यक्षणवर्ती मृतिभोगोऽयम्–इति भावः ॥

ननु स्मरणमिव अनुभवोऽपि भाविदेहान्तरासङ्गे निमित्ततां यायात्; तथाहि–कश्चिन्मुनिः स्वसुतनिर्विशेषतया वर्धितं विपन्नजननीकमाश्रममृगपोतकं शवरशराघातविगतजीवितमवलोक्य महता दुःखेन तमेवानुशोचन् प्राणैर्विमुक्तो मृगीभावमभ्युवाहेति पुराविदः, तत् स्मरणस्यैव कथमेवम्भाव उक्तः ?–इत्याशङ्क्य आह–

कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥ २८-३४३ ॥

देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः ।
यथा पुराणे कथितं मृगपोतकतृष्णया ॥ २८-३४४ ॥

मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः ।

इह यस्य कस्यचन यैव अनेकजन्माभ्यस्ता वासना शरीरान्ते प्रभोत्स्यते देहान्तरासङ्गनिमित्तं स्मरणरूपतया प्रबोधमेष्यति, तदनुगुणोऽस्य देहसद्भावेऽपि स्फुटोऽनुभवो भवेत्, यदभिप्रायेणैव विष्णुपुराणादौ मृगपोतकतृष्णया अधिवासितः कोऽपि मुनिर्मृगीभावमभ्युवाहेति आख्यानम् ॥

एतदेव विविनक्ति–

तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये ॥ २८-३४५ ॥

तस्यैतद्वासना हेतुः काकतालीयवत् स तु ।

तस्येति जन्मान्तरस्य ।
एतद्वासनेति–शरीरान्ते प्रभोत्स्यमाना ।
स– इत्यनुभवः ॥

ननु यदि मृगीभावस्मरणमेव तद्देहासङ्गे निमित्तं तदवश्यं तत्पूर्वकत्वात् स्मरणस्य अनुभवोऽपि जन्मान्तरसूतये हेतुर्वाच्यः, अनुभवाहितविषयनियन्त्रणाविरहे हि यत्किञ्चन स्मर्येत नियमस्तु कुतस्त्यः ?–इत्याशङ्कते–

ननु कस्मात्तदेवैष स्मरति इत्याह-यत्सदा ॥ २८-३४६ ॥

अनुभवं विनापि भावनाद्वारं स्मृतेर्विषयनियमं दर्शयितुमाह–

तद्भावभावितस्तेन तदेवैष स्मरत्यलम् ।

यत् यस्मादेष सदा तद्भावभावितः, ततस्तदेव पर्याप्तं स्मरति- इति भगवानाह, कथितवान्–इत्यर्थः ॥

ननु तद्भावभावनमपि अनुभव एव अभिहितो भवेत् ?–इत्याशङ्क्य आह-

एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥ २८-३४७ ॥

ननु भविष्यद्विषयैव वासना भवेदिति कुतस्त्योऽयं नियमः?– इत्याशङ्क्य आह–

भविष्यतो हि भवनं भाव्यते न सतः क्वचित् ।

न सत इति–भूतस्य हि अनुभवनमेव भवेत्, न भावनम्–इति भावः ॥

तदेव व्यनक्ति–

क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ २८-३४८ ॥

स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् ।

ननु गाढमूढतया क्षणमपि भावनावकाशो येषां नास्ति तेषामन्त्यस्मरणाभावात् कथङ्कारं देहान्तरासङ्गः स्यात् ?– इत्याशङ्क्य आह–

तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥ २८-३४९ ॥

मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा ।
सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥ २८-३५० ॥

स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी ।

तदहर्जातबालादीनां हि तदानीं मूढत्वेऽपि प्राग्जन्मनि सतताभ्यस्ततया स्फुटा भावना नूनमभवत्, अतस्तस्य प्रक्रान्तस्य मूढशरीरस्य अन्ते संस्कारप्रबोधोन्मिषितस्मरणद्वारेण सा भावना यथोचितदेहवैचित्र्यफलदायिनी भवेत्–इति वाक्यार्थः ॥

नन्वत्र कथङ्कारं शरीरान्तरावस्थितत्वात् दूरव्यवहिता वासना प्रबोधमियात् येन तदुत्थायाः स्मृतेरपि तद्देहवैचित्र्यफलदायित्वं स्यात् ?–इत्याशङ्क्य आह–

देशादिव्यवधानेऽपि वासनानामुदीरितात् ॥ २८-३५१ ॥

आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः ।
तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥ २८-३५२ ॥

भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः ।

इह देशकालव्यवधानेऽपि वासनानां

“देशकालव्यवहितानामप्यानन्तर्यम् ।
" (यो।
सू। ४।९)

इत्यादिना उदीरितादानन्तर्यैकरूपत्वादवश्यं प्रबोधेन भाव्यम्, तद्वशाच्च स्मरणेनेति स्मृतिसंस्कारयोस्तत्तद्देहवैचित्र्यफलदायित्वं युक्तमेवोक्तम् ।
एवं तथानुभवेऽपि भावनैव प्रधानम्–इत्याह–अत इत्यादि ।
अतः एवमुक्ताद्भावनानुभवयोर्विभागात् हेतोः, तथा भावनोचितेन रूपेण अनुभवस्य दार्ढ्येन प्ररोहात्, स्फुटस्यापि वस्तुनो भविष्यत्ता पुनर्भाव्यमानैव भवेत् न अनुभूयमाना, भूतविषयत्वादनुभवस्य ।
सा च एवंविधा भाव्यमाना भविष्यत्ता स्वसन्तानानुगुणमेव देहान्तरं किं न सूते, नात्र काचिद्विप्रतिपत्तिः–इत्यर्थः ॥

ननु यदि नाम अस्य भावनामात्रोपनत एव देहान्तरोदयः, तत् किं नाम शोकादिवत् भावयित्रेकगोचर एव असौ स्यात्, उत सर्वजनसंवेद्योऽपि?–इत्याशङ्क्य आह–

तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥ २८-३५३ ॥

भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात् ।

तत्तादृक् भावनोचितं तद्वपुर्वासनाक्रमात् स्वप्नवत् जन्मान्तरे तादृशैः प्राप्ततद्रूपानुगुणैरेव बन्ध्वादिभिः सहापि भासते सर्वजनसंवेद्यं स्यात्–इत्यर्थः ॥

ननु विषमोऽयं दृष्टान्तः, स्वप्नेऽपि भासमाना अपि बन्ध्वादयस्तद्वृत्तान्तानभिज्ञा एव–इत्याह–

ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥ २८-३५४ ॥

वेद्यते… तदिति–स्वाप्नं वस्तु ।
तथेति–स्वप्नद्रष्ट्टवत्– इत्यर्थः ।
न किं वेद्यते इति–नैव ज्ञायते इति यावत् ॥
अत्र आह–

…क इदं प्राह स तावद्वेद वेद्यताम् ।

ननु क एवं वक्ति स स्वप्नद्रष्टा तावत् स्वाप्नस्य वस्तुनः सर्वजनवेद्यतां वेत्ति, ते तु विदन्तु मा वा विदन्निति ॥

ननु स्वप्ने देशकालादिव्यवहितत्वादसहिता एव बन्ध्वादय इति कथमसौ तद्वेद्यतामपि जानीयात् यद्वा भ्रन्तिमात्रमेतत् ।
ननु तत्र भासन्ते चेत् बन्ध्वादयः, कथमसन्निहिताः ।
नहि भातमभातं भवेत् ।
एवं हि जाग्रत्यपि तेषामसन्निधिरेव स्यात् ।
अथ तत्र व्यापारव्याहारादेर्दर्शनात्तत्सद्भावे बलवदनुमानं प्रमाणमस्तीति चेत्, इहापि तत्समानम्–इत्याह–

व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥ २८-३५५ ॥

स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता ।

स इति–मात्रन्तरव्रजः ।
प्रमाणाविवर्जितेति–नहि तत्र तदसद्भावावेदकं किञ्चित्प्रमाणमस्ति–इत्याशयः ।
भ्रन्तित्वेऽपि स्वप्नस्य जाग्रदविशेष एव ।
जाग्रदपि भ्रन्तिरेवेत्यत्र सर्वे कृतश्रमा इत्यलम् ॥

ननु एवमपि जाग्रत्स्वप्नयोर्दार्ढ्यादार्ढ्याभ्यां सत्यत्वमसत्यत्वं च सर्वत्र प्रसिद्धं कथमपह्नोतुं शक्यम् ?–इत्याशङ्क्य आह–

य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥ २८-३५६ ॥

स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् ।

इत्येतदिति–एकत्वेन अभिमननम्–इत्यर्थः ।
तत्प्रमातृवचोबलादिति–ते हि जाग्रत्प्रमातारो मत्समक्षं ह्यः स्वप्ने भवद्भिः किं दृष्टमिति पृष्टा नेत्येव परं ब्रूयुरिति ॥

ननु स्वप्ने तावत् बन्ध्वादयः केचित्, नहि अस्य ते द्वये सम्भवन्ति ?– इत्याशङ्क्य आह–

यानपश्यमहं स्वप्ने प्रमातंस्ते न केचन ॥ २८-३५७ ॥

न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा ।

ये हि बन्ध्वादयः प्रमातारः स्वप्ने दृश्यन्ते ते न केचनेत्यत्र का प्रमा तदसद्भावावेदकं किञ्चित्प्रमाणं नास्ति–इत्यर्थः, प्रत्युत तत्सत्तावेदकमनुमानमत्रोक्तम् ते च न मां शोचन्ति नेक्षन्ते चेत्यनेनार्थक्रियाकारिणोऽपि–इत्यावेदितम् ॥

ननु अनुमानं प्रमाणम्, तच्च प्रमेयोपसर्जनम्, प्रमेयं च अत्र प्रमात्रन्तरलक्षणं नास्त्येवेति किमालम्बनं तदुदियात् ?– इत्याशङ्क्य आह–

यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥ २८-३५८ ॥

प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः ।

इह यतः

शंविन्निष्ठा हि विषयव्यवस्थितिः ।
"

इत्यादिनीत्या सर्वानुमानानामर्थातिशयाधानाभावात् प्रमातर्येव फलवत्त्वात् तत्संविदुपारोहेणैव विश्रान्तिरिति प्रमीयमाणानां प्रमात्रन्तराणां सद्भावोऽपि अत्र तन्निष्ठ एव, न तु अनुमेयस्वरूपनिष्ठ इति किं तत्सत्त्वासत्त्वान्वेषणेन ।
एतच्च अन्यत्र अन्यैर्बहुशो वितानितमिति किमिह अप्राकरणिकप्रायेण अनेनेति आस्ताम् ॥

न केवलमानुमानिक्येव प्रतीतिरेवम्, यावत् प्रात्यक्षी अपि–इत्याह–

घटादेरस्तिता संविन्निष्ठिता न तु तद्गता ॥ २८-३५९ ॥

तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता ।

एतदनुमेयेऽपि अर्थे योजयति–तद्वदित्यादिना ।
एषेति–अस्तिता ॥

यथाव्याख्यातमेव प्रशमयति–

तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥ २८-३६० ॥

देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् ।

अन्यादृगिति–अनियतमेव–इत्यर्थः ॥

भावनापेक्षामेव उपोद्बलयति–

तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥ २८-३६१ ॥

मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः ।

असद्विषयायां सदातनायां भावनायां असद्गतिरेव भवति, तदपहस्तनाय सद्विषयायां च भावनायां अबलवत्यामपि बलवत्त्वापादनार्थम्

“अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा ।
"

इत्याद्युक्त्या महाप्रभावाणां ब्रह्मविद्यानामन्त्ये क्षणे संस्कारार्थं भगवता उपदेशः कृतो येन अस्य मुक्तिरेव स्यात् ॥

न च एतदशब्दार्थमेव उक्तम्–इत्याह–

निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥ २८-३६२ ॥

पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् ।
लीन(य)शब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥ २८-३६३ ॥

तत्र “वा"शब्दो वृक्षादीनां जन्मान्तरव्यवहितभावनोपक्षेपं द्योतयति, “अपि” शब्दश्च बलवत्त्वेऽप्यनुभवस्य अनवकॢप्तिम् ।
अन्तशब्दादिति–“अन्त"शब्द उपान्त्यादिक्षणव्यावर्तनपरः ।
स्मरणादिति–प्रकृतिरूपात् ।
शतुरिति–प्रत्ययरूपात् ।
अन्त्यतः पादादिति–

“…षदा तद्भावभावितः ।
" (८।६)

इति ।

निखिलादिति–काकाक्षिवत् ।
अर्धश्लोकादिति–

“तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
" (८।७)

इति ।
अनेन हि सदैव सद्विषया भावना कार्या–इत्युक्तम् ।
लीने(ये)ति– “प्रलीन” (य)शब्दगतात् ।
अनेन विभाव्यमानार्थैकतानत्वमुपोद्बलितम् ॥ ३६३ ॥

एतदर्थानभिज्ञैः पुनरेतदन्यथा व्याख्यायि–इत्याह–

अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः ।
यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥ २८-३६४ ॥

भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् ।
व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥ २८-३६५ ॥

यत्तदोर्व्यत्ययमिति–यं यं भावमेति तं तं स्मरन्निति ।
अन्यादृशमिति–पाठत एव ।
भिन्नक्रमाविति–स्मरन्वापीति ।
सप्तमीति–अन्त्ये क्षणे कलेवरं त्यजति सतीति ॥ ३६५ ॥

ननु एवंविधं व्याख्यानमनूद्य, कस्मान्न दूषितम् ?–इत्याशङ्क्य आह–

न च तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् ।

ननु किमियता स्वोत्पेर्क्षितेन मृतिसतत्त्वपरीक्षणेन ?–इत्याशङ्क्य आह–

तदित्थम्प्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥ २८-३६६ ॥

अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति ।

ननु कथं मृतिसतत्त्ववचनमात्रेण तद्भीतिः शाम्येत् ?– इत्याशङ्क्य आह–

विदितमृतिसतत्त्वाः संविदम्भोनिधानाद्

दचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ।

अमृतमिति निगीर्णे कालकूटेऽत्र देवा

यदि पिबथ तदानीं निश्चितं वः शिवत्वम् ॥ २८-३६७ ॥

एवमियत्तया तुलितमरणसतत्त्वा देवा मायाध्वनि व्यवहरन्तः परिमिताः प्रमातारः, स्वभावभूतत्वात् नित्याव्यभिचारिणः पराहम्परामर्शात्मनो वीर्यस्य परधाराधिरोहितया आकर्षणेन यन्निष्पीडनम् सारतया स्वीकारः, स्तद्वशेन संविदब्धेरुत्थितं यदमृतम् परानन्दचमत्कारमयं पूर्णत्वम्, तद्बुद्ध्या कालस्तत्तत्कलनाकारी समनान्तः पाशप्रपञ्चः, स एव अख्यातिरूपतया सत्यविपर्ययात्मा कूटस्तस्मिन्निगीर्णे स्वात्मसंवित्सात्कारेण पूर्णख्यातिमयतामापादिते, यदि अत्रैव मुक्तात्मनि अमृते पिबथ पानक्रियामारभध्वे, तत् नूनं तदानीमेव वः पूर्णसंविन्मयत्वं स्यात् किमनेन पुनः पुनरमृतपानेन– इत्यर्थः ।
इदमत्र तात्पर्यम् –यदनवरतमेव संविदद्वैतमभ्यस्यतः प्रायणान्ते तदैकात्म्यापत्तिरेव स्यादिति को नाम महात्मनो मरणभयस्य अवकाश इति ।
अथ च मर्त्यभुवमवतीर्य वर्तमाना देवाः समुद्रान्मन्दरोदराकर्षणेन स्ववीर्यनिष्पीडनेन च उत्थितमिदममृतमेवेति सङ्कल्पेन कालकूटे भक्षिते यदि अमृतपानं कुरुध्वे, तन्निश्चितं तदानीं निगीर्णदुर्विषहविषेण शिवेनैव भगवता वस्तुल्यत्वं स्यादिति ॥३६७ ॥

एवं प्रसङ्गान्मरणस्वरूपमभिधाय, प्रकृतमेव आह–

उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि सम्मदम् ।
संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ २८-३६८ ॥

एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता ।
व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ २८-३६९ ॥

पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः ।
दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥ २८-३७० ॥

सम्मदं सूते इति–स्वात्मविश्रान्त्युत्पादात् ।

तदपीति–अपिशब्दस्य न केवलं मृतिदिनं पर्ववद्भवेत्, यावदिदमपि–इत्यर्थः ।
एतेनेति–सम्मदप्रसूतिलक्षणेन समानन्यायत्वेन हेतुना–इत्यर्थः ।
तल्लाभेति- तच्छब्देन संवित्स्वातन्त्र्यपरामर्शः ॥

इदानीं मृतिपरीक्षानन्तरोद्दिष्टं योगिनीमेलकादि निर्देष्टुमाह–

योगिनीमेलको द्वेधा हठतः प्रियतस्तथा ।
प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥ २८-३७१ ॥

स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते ।

प्राच्ये इति–हठमेलापे ।
उत्तरे इति–प्रियमेलापे ।
कामचारित्वं छिद्ररक्षणं वा न वेति, एतच्च हठप्रियशब्दाभ्यामेव गतार्थम् ।
द्वय इति–द्व्यवयवे–इत्यर्थः ।
मन्त्रोद्धृत्प्रसङ्गे इति–त्रिंशाह्निके ॥
ननु भवत्वेवम्, नैमित्तिकत्वं तु अस्य कुतस्त्यम् ?–इत्याशङ्क्य आह–

योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते ॥ २८-३७२ ॥

तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् ।

तेनेति–अवश्यम्भाविना ज्ञानलाभेन ।
तद्वदिति–योगिनीमेलकवत् ॥

ननु योगिनीमेलकादवश्यमेष ज्ञानमाप्नोतीति अवश्यतायां किं प्रमाणम्?–इत्याशङ्क्य आह–

संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥ २८-३७३ ॥

मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा ।

इह सर्वात्मकत्वेऽपि या संविद्देहभेदात् सङ्कोचप्राप्ता, सा मेलके सति अन्योन्यस्य सङ्घट्टेन प्रतिबिम्बात्परस्परं प्रतिसङ्क्रमणेन विकस्वरा सङ्कोचापहस्तनेन पूर्णा भवति–इत्यर्थः ॥

ननु कथमेतावतैव अस्यां विकस्वरत्वं स्यात् ?–इत्याशङ्क्य आह–

उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥ २८-३७४ ॥

बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः ।

यस्य कस्यचन बहिः प्रसरन्निन्द्रियमरीचिपुञ्जः तास्वेव अनेकदर्पणप्रख्यासु योगिन्यादिसम्बन्धिनीषु संवित्सु प्रतिबिम्बितत्वात् दीप्तः सर्वतो विकासमासादयन् यत्नं विनापि सर्वायेत सर्वाकारतां यायात्–इत्यर्थः ॥

सर्वाकारत्वमेव च अस्याः परानन्दनिर्भरं पूर्णं रूपम्–इत्याह–

अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥ २८-३७५ ॥

यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः ।

अत इति–सर्वाकारत्वादेव अस्याः ।
सर्वतन्मयीभाव इति–तावत्यंशे सर्वेषां भेदविगलनात् ॥

ननु

“प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।
"

इत्यादिनीत्या प्रत्येकमपि आनन्दनिर्भरैव संविदिति किं सर्वतन्मयीभावेन?–इत्याशङ्क्य आह–

आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥ २८-३७६ ॥

नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते ।

ननु एवमपि देहसङ्कोचाद्यविगलनात् कथमेषां पूर्णानन्दमयत्वं स्यात्?–इत्याशङ्क्य आह–

ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा ॥ २८-३७७ ॥

विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी ।

येषां पुनरीर्ष्यादिसङ्कोचाभावो नास्ति, तेषां किं संविन्मयीभावो भवेन्न वा?–इत्याशङ्क्य आह–

अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥ २८-३७८ ॥

स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते ।

अतन्मये इति–संविन्मयतामनापन्ने–इत्यर्थः ।
अत एव उक्तम्– विजातीयतया स्थिते इति ।
स्थपुटस्पर्शवदिति–यथाहि निम्नोन्नतवस्तुनि निम्ने स्पर्शस्य प्रतिघातो भवेत्, तथा अत्रापि संविदः–इत्यर्थः ॥

एवमेवंविधस्य मेलकादौ प्रवेश एव न दातव्यः–इत्याह–

अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥ २८-३७९ ॥

नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् ।

प्रवेशाभावे संवित्सङ्कोचनिबन्धनत्वं हेतुः ॥

एवं मेलकादावतन्मयस्य प्रवेशनिषेधात् तत्प्रवेशाभ्यनुज्ञानेऽपि विशेषावद्योतनाय तन्मया एव अत्र प्रवेशनीयाः–इत्याह–

यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥ २८-३८० ॥

एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् ।

शरीराणीत्यनेन शरीरिणामत्र वस्तुतः कश्चिद्भेदो नास्तीति सूचितम् ।
अत एव उक्तम्–एकां सुनिर्भरां संविदमाविश्येति स्वाङ्गवदिति च ॥

ननु यदि नाम मेलकादावतन्मयः कश्चित्प्रमादात् प्रविष्टः, तदा किं प्रतिपत्तव्यम् ?–इत्याशङ्क्य आह–

प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥ २८-३८१ ॥

प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् ।

एवमस्य कश्चिदुपकारः स्यान्न वा ?–इत्याशङ्क्य आह–

स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥ २८-३८२ ॥

वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि ।

तदिति–तत्रत्यं रहस्यचर्यादि ।
निन्देदिति–रिर्ष्यादिना ।
घातयेदिति– एवं समयस्य आम्नानात् ।
यदुक्तम्– शमयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् ।
"

इति ॥

न च एतदस्माभिः स्वोपज्ञमेवोक्तम्–इत्याह–

श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥ २८-३८३ ॥

प्रवेशं सम्प्रविष्टस्य न विचारं तु कारयेत् ।

एतच्च अतन्मयत्वेऽपि अधिकृतविषयं ज्ञेयम्, न अन्यथा–इत्याह–

लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥ २८-३८४ ॥

अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् ।

तादृशे इति–लोकाचारस्थिते ।
स इति–चक्राद्यर्चयिता ।
तमिति– मेलकादावाम्नातम् ।
पुनरिति–तस्मिन्निर्गते, परेऽहनि वा ॥

इदानीं क्रमप्राप्तं व्याख्याविधिं वक्तुं प्रतिजानीते–

अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥ २८-३८५ ॥

देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना ।

तदेवाह–

कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥ २८-३८६ ॥

सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते ।

तत्समूहेति–अनियता बहवः कल्पाः ।
शास्त्रं प्रतिनियतानेककल्पात्मकम् ।
संहिता–चतुष्पादा ।
सर्वशास्त्रेति– चतुर्दश विद्यास्थानानीति पञ्चधा भिन्नो गुरुरपदिश्यते श्रीदेव्यायामले कथ्यते–इत्यर्थः ।
यदुक्तं तत्र–

“आचार्यं सम्प्रवक्ष्यामि सर्वशास्त्रविशारदम् ।
चतुष्पात्संहिताभिज्ञः कल्पस्कन्धे विशारदः ॥

शास्त्रैकल्पैकदेशे वा आचारचरणक्षमः ।
"

इति ॥

ननु एवं व्याख्यायां कस्य अधिकारः ?–इत्याशङ्क्य आह–

यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥ २८-३८७ ॥

नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् ।

नान्य इति–अस्वभ्यस्तज्ञानः ।
अथ चेत्सर्वथा स्वभ्यस्तज्ञानो गुरुर्न स्यात्, तदा सोऽपि अस्वभ्यस्तज्ञानो व्याख्यां चरेत्, नैवं कश्चिद्दोष–इत्यर्थः ॥

न केवलमत्रैवोक्तं यावदन्यत्रापि–इत्याह–

श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥ २८-३८८ ॥

ननु एवमपि स्वभ्यस्तज्ञानतायामेव गुरोः सर्वत्र कस्माद्भरः ?– इत्याशङ्क्य आह–

गुरोर्लक्षणमेतावत्सम्पूर्णज्ञानतैव या ।
तत्रापि याऽस्य चिद्बृत्तिकर्मिभित् साप्यवान्तरा ॥ २८-३८९ ॥

ननु एवं तर्हि कर्मित्वमस्य न स्यात्?–इत्याशङ्क्य आह–तत्रेत्यादि ।
सम्पूर्णज्ञानतायामपि योऽस्य गुरोर्ज्ञानित्वकर्मित्वादिलक्षणो भेदः सोऽप्यवान्तररूपः–इत्यर्थः ।
एतच्च श्रीदेव्या यामले एव उक्तम्– इत्याह–

देव्यायामल उक्तं तद् द्वापञ्चाशह्व आह्निके ।

तदेव अर्थद्वारेण आह–

देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥ २८-३९० ॥

दशधात्वमेव दर्शयति–

उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः ।
क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥ २८-३९१ ॥

ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय ।
अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥ २८-३९२ ॥

सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः ।
अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥ २८-३९३ ॥

अन्तकः यमः ।
यदुक्तं तत्र–

“दश रुद्रा महाभागास्तन्त्रे गुरुवराः स्मृताः ।

इत्युपक्रम्य

“जटामुकुटधारी च लिङ्गार्चनरतः सदा ॥

मद्यमांसरतो नित्यं मन्त्रसेवादृढव्रतः ।
स्वशक्तिं रमयेच्चापि शास्त्राधीती च यत्नतः ॥

उच्छुष्मांशसमुद्भूतो दैशिकः शास्त्रपारगः ।
शवरांशसमुद्भूतस्तत्त्वमार्गावलम्बकः ॥

गुप्ताचारक्रियो नित्यं गुप्तदाराभिमैथुनी ।
क्रोधनोऽतिप्रचण्डश्च मद्यमांसरतः सदा ॥

चण्डांश्वंशो गुरुश्चैव दीक्षानुग्रहकृत्सदा ।
क्षमी आमिषलौली च यज्ञे पशुनिपातकः ॥

मतङ्गांशसमुद्भूतो गुरुः शास्त्रार्थवेदकः ।
अभिमानी क्रोधनश्च मैथुनाभिरतः सदा ॥

सुगूढोऽत्यन्तदक्षश्च घोरांशश्च गुरुः स्मृतः ।
जपहोमक्रियासक्तं लिङ्गाद्यभ्यर्चने रतम् ॥

यमांशं गुरवः प्राहुर्दीक्षाकर्मणि निष्ठुरम् ।
धातुवादरसादीनि ओषध्यादिरसायनम् ॥

नित्यं सेवेत्सदा योगी शिष्यानुग्रहतत्परः ।
उग्रांशो गुरुभिः प्रोक्तो योऽसौ हलहलः स्मृतः ॥

क्रोधः सर्वत्र जायेत मानी योगरतः सदा ।
मन्यते तृणवत्सर्वं मत्तुल्यं नास्ति मन्यते ॥

दुराराधो जनैः सर्वैः कष्टसेव्य उपासिभिः ।
शिष्यानुग्रहकृन्नित्यं क्रोधिन्ॐऽशः प्रकीर्तितः ॥

दीक्षाकर्मणि निष्णातो मद्यमांसाशनः सदा ।
कुले हुलहुले जातो दैशिकः परिकीर्तितः ॥

दशैते गुरवः प्रोक्ताः स्वतत्त्वज्ञानगर्विताः ।
ये तदंशसमुद्भूतास्तत्स्वभावानुचारिणः ॥

तैस्तु येऽनुगृहीतास्तु ते तदाचारवर्तिनः ।
"

इत्यादि बहुप्रकारम् ।
एतच्च ग्रन्थविस्तरभयात् यथोपयोगमुच्चित्य उच्चित्य लिखितमिति तत एव यथाशयमनुसर्तव्यम् ॥ ३९३ ॥

एवमेवंविधो गुरुर्व्याख्यार्थमभ्यर्थनीयः–इत्याह–

इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् ।
व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥ २८-३९४ ॥

सोऽपि स्वशासनीये परशिष्येऽपि वापि तादृशं शास्त्रम् ।
श्रोतुं योग्ये कुर्याद् व्याख्यानं वैष्णवाद्यधरे ॥ २८-३९५ ॥

करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् ।
अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ २८-३९६ ॥

अनेन व्याख्याविध्यनुषक्तः श्रुतविधिरपि आसूत्रितः ।
सोऽपीति– गुरुः करुणावशेन वैष्णवादावधमेऽपि व्याख्यां कुर्यात्, किन्तु मर्मस्थानं वर्जयित्वा यदसौ साक्षादनायातशक्तिपात इति ॥ ३९६ ॥

अत्रैव इतिकर्तव्यतामाह–

लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे ।
कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥ २८-३९७ ॥

मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च ।
अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥ २८-३९८ ॥

सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् ।
सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥ २८-३९९ ॥

कजगे इति–पीठविशेषणम्, तेन अधस्तनपीठान्तरस्थपद्मोपरिवर्तिनि–इत्यर्थः ।
यदुक्तम्-

“…पीठाधः पद्ममालिखेत् ।
"

इति ।
रसवह्नीति षट्त्रिंशत् ।
मध्ये इति मध्यपद्मे ।
अधरे इति पीठाधोवर्तिनि ।
यदुक्तं तत्र–

“…ंअध्ये वागीशिपूजनम् ।
"

दक्षिणे गुरवः पद्मे उत्तरे तु गणेश्वरः ।
पीठाधो यद्भवेत्पद्मं कल्पेशं तत्र पूजयेत् ॥
"

इति ॥ ३९९ ॥

सम्बन्धपूर्वकत्वमेव दर्शयन् व्याख्यानशैलीं शिक्षयति–

सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् ।
अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥ २८-४०० ॥

मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः ।
अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥ २८-४०१ ॥

तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः ।
वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥ २८-४०२ ॥

यद्यद् व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः ।
बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥ २८-४०३ ॥

पदेति–पदाद्यात्मा पदार्थः ।
ग्रन्थक्रमेति–विद्यादिपादरूपः ।
यदुक्तं तत्र–

“पादिकश्चात्र सम्बन्ध अन्यः पाटलिकः प्रिये ।
पादार्थः सौत्रवाक्यार्थ एतत्सम्बन्धपञ्चकम् ॥

चतुष्पात्संहिता यावत्तस्यां पादो यथोदितः ।
आदिमध्यावसानैश्च ग्राहयेदर्थसन्ततिम् ॥

परस्पराविभेदेन अविरुद्धा यथा भवेत् ।
एवं पादगतं ज्ञात्वा व्यावर्ण्यं कुरुते गुरुः ॥

यत्तत्पाटलिकं वस्तु पटलान्ते समर्पयेत् ।
अभिसन्ध्यान्यपटलमेतत्पाटलिकं स्मृतम् ॥

यः पदार्थोऽभिगम्येत तत्पादार्थेन निश्चितम् ।
अपरस्परभेदेन व्याख्यानं कुरुते गुरुः ॥

एष पादार्थिको नाम्ना अन्यत्सूत्रगतं शृणु ।
सूत्रे सङ्गृहीतं वस्तु सुपरीक्ष्यार्थसन्ततिः ॥

भेदभिन्ना तथात्रैव सूत्रेणान्येन सुन्दरि ।
एतत्सूत्रं विचार्येत वाक्येन परिनिष्ठितम् ॥

संस्कृतैः शब्दविषयैर्नदीस्रोतःप्रवाहकैः ।
वातोर्मिवेगभङ्गेन व्याख्यां द्विपगतिं च वा ॥

मण्डूकप्लुतिरेवात्र अथ सिंहावलोकितम् ।
ज्ञात्वा न्यायं तु शिष्यं हि तादृशेन प्रबोधयेत् ॥

स्वरूपेणार्थविषयं पादभेदेन वाऽथवा ।
दैशिकः कुरुते व्याख्यां यादृशं तेन पृच्छितम् ॥

तादृशं तस्य वक्तव्यं स्वाम्नायस्थितिपालनात् ।
"

इति ।
यागत्रयात्मकपौर्णमासाङ्गप्रयाजानुयाजवदेकमनेकसाधारणं तन्त्रम् ।
अवघातादेरिव यावद्द्रव्यमसकृत्प्रयुक्तिरावर्तनम् ।
चमसगोदोहनादिवदसक्तप्रतिषेधो बाधः ।
पशुपुरोडाशवत् परमध्यपातिनो निजतन्त्रनैरपेक्ष्येण परकीयेनैव तन्त्रेण सम्पादनं प्रसङ्गः ।
संशयनिर्णयान्तरालवर्ती भवितव्यतात्मकः प्रत्ययस्तर्कः ।
आदिशब्दादतिदेशादयः ।
सदिति– मण्डूकप्लवादिलौकिकन्यायविलक्षणैः–इत्यर्थः ।
वस्त्वन्तरतो विविक्ततां विदधत्–इत्यनेन असङ्कीर्णत्वमेव उपोद्बलितम् ।
दूष्यं भविष्यत्स्यादिति–भावि दूष्यभावं भजेत्–इत्यर्थः ॥ ४०३ ॥

ननु यदुत्तरकालं दूष्यं तस्य आदौ बलवत्त्वाधानेन कोऽर्थः?– इत्याशङ्क्य आह–

दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् ।
शिष्यमतावारोहति तदाशुसंशयविपर्ययैर्विकलम् ॥ २८-४०४ ॥

भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य ।
सम्बोधोपायत्वं तथैव गुरुराश्रयेद् व्याख्याम् ॥ २८-४०५ ॥

वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे ।
पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥ २८-४०६ ॥

व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले ।
शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥ २८-४०७ ॥

विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ ।

भाषा–संस्कृतादिरूपा षोढा भिन्ना ।
न्यायः–प्रागुक्तो लौकिकः शात्रीयो वा ।
वाद–तत्त्वनिश्चयफलरूपः पक्षप्रतिपक्षपरिग्रहः ।
लयः–व्याख्येयवस्तुनिष्ठतल्लीनतात्मा व्याख्यानाभ्यासः ।
क्रमः–पाठार्थपरिपाटीविशेषः ।
वाच्यं वस्त्विति –मूलसूत्रादि ।
अपरं वस्त्विति–सूत्रान्तरम् ।
यदुक्तम्–

“त्रीणि मूलानि सूत्राणि द्वे तदेकमथापि वा ।
व्याख्यायोपरमेदूर्ध्वं वदन्विघ्नैर्हि बाध्यते ॥
"

इति ।
न गच्छेत्पटलादूर्ध्वं… ।
"

इति च ।
समयेभ्यश्च निष्कृतावित्यनेन समयनिष्कृतिरिति प्रागुक्तं त्रयोविंशमपि नैमित्तिकं व्याख्यातुमुपक्रान्तमिति आवेदितम् ॥

ननु इदं कार्यमिदं न कार्यमिति शास्त्रीया नियन्त्रणा हि समयः ।
स च निर्विकल्पानां नास्तीति कथमेतदविशेषेण उक्तम् ?–इत्याशङ्क्य आह–

अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥ २८-४०८ ॥

तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् ।

नन्वेवमाचरणे किमस्य प्रमाणम्?–इत्याशङ्क्य आह–

श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥ २८-४०९ ॥

प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते ।
सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥ २८-४१० ॥

सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः ।
तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥ २८-४११ ॥

स्मृतेरिति–मन्त्रादेः ।
स्मृतितत्त्वकलाविदः–इत्यनेन ज्ञानित्वमेव उपोद्बलितम् ।
स्थितिरक्षार्थमिति–यदुक्तम्–

“यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
" (भ।
गी। ३।२१)

इति ॥४११ ॥

अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः ।
तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥ २८-४१२ ॥

एवं च यद्ययं निर्विकल्पत्वादेव न संवृतिपरस्तदा अतत्त्वविद्भिः सह समाचारमेव न कुर्यात् ।
अथ कुर्यात्, प्रायश्चित्तमप्याचरेत्– इत्याह–

तस्माद्विकल्परहितः संवृत्युपरतो यदि ।
शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥ २८-४१३ ॥

सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् ।
यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥ २८-४१४ ॥

संवृत्युपरत इति–संवृतिः गुप्तिः, तत उपरतः निवृत्तः इत्यर्थः।
शास्त्रचर्यासदायत्तैरिति–सर्वकालं शास्त्रीयनियन्त्रणापरवशैः–इत्यर्थः ।
तेषामिति–अतत्त्वविदाम् ॥ ४१४ ॥

समयनिष्कृतिमेव उदाहरणदिशा उपदर्शयति–

यत्स्वयं शिवहस्ताख्ये विधौ सञ्चोदितं पुरा ।
शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥ २८-४१५ ॥

शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ।
इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥ २८-४१६ ॥

कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी ।
श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥ २८-४१७ ॥

मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् ।
प्रतिष्ठितस्य तूरादेर्दर्शनेऽनधिकारिणा ॥ २८-४१८ ॥

प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले ।

यदिति–चोदनास्त्रम् ।
स्वयमिति–भगवता ।
पुरेति–द्वादशपटले, इदं हि तत्र चतुर्दशे पटले स्थितम् ।
एतच्च समनन्तराह्निके शिवहस्तप्रकरणे एव संवादयिष्यते इति नेह लिखितम् ।
स्त्रीवधादृते इति–यदुक्तम्–

…ष्त्रीवधे निष्कृतिः कुतः ।
"

इति ।
कुलजानामिति–अन्येषां हि

“अघोराष्टशतं जप्त्वा स्त्रीवधान्मुच्यते नरः ।
"

इत्यादि उक्तम् ।
समाख्यातेति–यदुक्तं तत्र–

“अथ कश्चिदजानानो लङ्घनं समयस्य तु ।
कुरुते कुलजो देवि तस्य वक्ष्यामि निष्कृतिम् ॥

शतं जप्त्वा महास्त्रस्य मुच्यते स्त्रीवधादृते ।
शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ॥
"

इति ।
लक्षत्रयान्तकमिति–समयोल्लङ्घनबलं विचार्य ।
यदुक्तं तत्र–

“प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् ।
भिन्ना वाप्यथवाभिन्नां व्यतिक्रमबलाबलात् ॥

सकृज्जापात्समारभ्य यावल्लक्षत्रयं प्रिये ।
"

इति ।
अनधिकारिणेति–अदीक्षितादिना, एतच्च आचार्यादिविषयम् ।
साधके हि अधिकारिणापि दृष्टे दोष एव ।
यदभिप्रायेण

श्वमन्त्रमक्षसूत्रं च गुरोरपि न दर्शयेत् ।
"

इत्यादि उक्तम् ॥
न केवलमेतदेव श्रीब्रह्मयामले कथितं यावदिदमपि–इत्याह–

ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥ २८-४१९ ॥

देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः ।
नित्यादिलोपकृद् भ्रष्टस्वकमात्रापरिच्छदः ॥ २८-४२० ॥

शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः ।
नैमित्तिकानां लक्षादिक्रमाद् द्विगुणं जपेत् ॥ २८-४२१ ॥

व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् ।
दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः ॥ २८-४२२ ॥

लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले ।

आकारेति–व्यक्तम् ।
मात्रापरिच्छद इति– व्रतोचिताक्षसूत्रयोगदण्डादिपरिकर इति यावत् ।
द्विद्विगुणमिति–तेन गुरुतल्पस्थे द्वे लक्षे, वीरद्रव्यहरे च चत्वारीत्यादिक्रमः ।
काममोहित इति–न तु रहस्यचर्यापरः ॥

इदानीं श्रुतविध्यनन्तरोद्दिष्टं गुरुपूजाविधिमभिधातुमाह–

दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥ २८-४२३ ॥

अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते ।
पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥ २८-४२४ ॥

स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि ।

कविरिति–सम्यग्वक्तेति यावत् ।
तत्स्थितमिति–तत्र त्रिकदर्शनादावेव स्थितं परिचितम्–इत्यर्थः ॥

कथं च अत्र गुरुपूजनं कार्यम्–इत्याह–

मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥ २८-४२५ ॥

कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् ।
ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ २८-४२६ ॥

स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः ।
समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥ २८-४२७ ॥

आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः ।
सर्वस्वमस्मै सन्दद्यादात्मानमपि भावितः ॥ २८-४२८ ॥

अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः ।
तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् ॥ २८-४२९ ॥

सकलः–सदाशिवः, एतदन्तश्च अनेन आसनपक्षन्यास उक्तः ।
तदधिष्ठितये इति–तच्छब्देन सकलान्तासनपक्षपरामर्शः ।
स्वैरिति–आरिराधयिषितैः ।
आशान्तमित्यनेन अस्य भैरवावेशोन्मुखत्वं प्रकाशितम् ।
अधिकारितामिति– मन्त्रमहेश्वरादिरूपत्वम् ॥४२९ ॥

किमत्र प्रमाणम् ?–इत्याशङ्क्य आह–

गुरुपूजामकुर्वाणः शतं जन्मानि जायते ।
अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥ २८-४३० ॥

तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः ।

ननु गुरोः

शोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रयूजयेत् ।
"

इत्यादिना प्राक् दक्षिणादिदानमुक्तं तत्किमिहि अस्य पुनर्वचनेन?– इत्याशङ्क्य आह–

पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥ २८-४३१ ॥

तज्जुष्टमथ तस्याज्ञा प्राप्याश्नीयात्स्वयं शिशुः ।
ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥ २८-४३२ ॥

तज्जुष्टमिति–तदासेवितम्–इत्यर्थः ॥४३२ ॥

एतदेव व्यतिरेकमुखेनापि द्रढयति–

अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः ।
तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥ २८-४३३ ॥

यथाबलमिति–वित्तशाठ्यादिवर्जम् ॥ ४३३ ॥

गुरुश्चेदसन्निहितः, तदा किं कार्यम् ?–इत्याशङ्क्य आह–

अतत्रस्थोऽपि हि गुरुः पूज्यः सङ्कल्प्य पूर्ववत् ।
तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥ २८-४३४ ॥

आह्निकार्थमेव उपसंहरति–

पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म ।

इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके पर्वपवित्रकादिप्रकाशनं नाम अष्टाविंशमाह्निकम् ॥२८ ॥

इदं कर्मेति–अर्थादुक्तमिति शिवम् ॥

नित्यनिमित्ताद्यर्चाचर्चाचातुर्यचारुचरितेन ।
विवृतमिहाष्टाविंशं किलाह्निकं जयरथेनैतत् ॥

इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते पर्वपवित्रकादिप्रकाशनं नाम अष्टाविंशमाह्निकं समाप्तम् ॥ २८ ॥