२६

षड्विंशमाह्निकम्

" विवेकः "

भवति यदिच्छावशतः शिवपूजा विश्वलाञ्छनं विष्वक् ।
विश्वं जयति स सुमनाः प्रपन्नजनमोचने सुमनाः ॥ १ ॥

इदानीं द्वितीयार्धेन दीक्षितविषयां शेषवृत्तिं वक्तुमाह–

अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥ २६-१ ॥

ननु इह

“दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।
"

इत्याद्युक्त्या दीक्षामात्रेणैव कार्तार्थ्यमिति किं शेषवृत्त्युपदेशेन ?–इत्याशङ्कां गर्भीकृत्य दीक्षाभेदोक्तिपुरःसरं तत्प्रयोजनं प्रदर्शयति–

दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता ।
सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥ २६-२ ॥

एतदेव प्रपञ्चयति–

तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी ।
अनुसन्धिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥ २६-३ ॥

तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् ।
वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥ २६-४ ॥

तत्र एवं प्रकारचतुष्टयमध्यात् या संस्कारनिमित्तमुक्ता दीक्षा बुभुक्षुमुमुक्षुतालक्षणादनुसन्धानविशेषात् साधकादेर्भोगस्य प्राधान्येन तद्व्यवहितत्वात् साक्षान्न मोचनी, या च पुत्रकादेर्भोगव्यवधानायोगात् साक्षान्मोक्त्री मोचिका–इत्यर्थः, सा च निर्बीजापि भवेदिति तद्व्यवच्छेदायोक्तम्–सबीजिकेति, नहि निर्बीजायां काचित् शेषवृत्तिरस्ति तस्यां सामयस्यापि पाशस्य शोधितत्वात् ।
वक्ष्यति च–

“तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये ।
" (१० श्लो।
)

इति ।
तया उक्तरूपया द्विप्रकारया दीक्षया ये पुत्रकादयो दीक्षितास्तेषामाजीवं वृत्तिर्वक्तव्या येनैषां निर्विघ्नमेव संविदैकात्म्यं सिद्ध्येत् ॥ ३-४ ॥

ननु इयं नाम शेषवृत्तिरुच्यते यद्भुक्तिमुक्तिनिमित्तं नित्यनैमित्तिकादेरनुष्ठानमिति, तदेतत्साधकः पुत्रको वा किमविशेषेणैव अनुतिष्ठेन्न वा ?–इत्याशङ्क्याह–

बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः ।
प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥ २६-५ ॥

ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने ।
तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥ २६-६ ॥

इह हि गुरुणा बुभुक्षोर्वा मुमुक्षोर्वा

“त्रिप्रत्ययमिदं ज्ञानं… ।
"

इत्याद्युक्त्या स्वसंविद्गुरुशास्त्रलक्षणं प्रमाणमधिकृत्य संस्कारसिद्ध्यै या दीक्षा कृता, ततो दीक्षातः स बुभुक्षुर्मुमुक्षुर्वा स्वमात्मानं संस्कृतत्वात् स्वशासने भुक्तौ मुक्तौ वा योग्यं च ज्ञात्वा स्वशासनोक्तस्य नित्यादेरनुष्ठानं सेवते अविशेषेणैव कुर्यात्–इत्यर्थः ॥५-६ ॥

ननु एवं स्वपरामर्शो यस्य नास्ति, तं प्रति किं शेषवृत्तिर्वाच्या न वा ?–इत्याशङ्क्याह–

आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् ।
तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ २६-७ ॥

एवं गुरुप्रत्ययवत् स्वप्रत्ययोऽपि यस्यास्ति, तस्यापि एषैव वार्त्ता– इत्याह–

स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि ।
शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥ २६-८ ॥

यः पुनरेकान्ततः परमेवापेक्षते नैव वा, तस्य किं शेषवृत्त्या– इत्याह–

यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् ।
प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥ २६-९ ॥

तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये ।

शेषवृत्तये इति–शेषवृत्तिं विधातुम्–इत्यर्थः ॥

ननु यद्येवम्, तत्किमनयोः काष्ठकुड्यादिवत् वर्तनमुत पामरवत्?– इत्याशङ्क्याह–

क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥ २६-१० ॥

तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे ।
काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥ २६-११ ॥

तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे ।
गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ २६-१२ ॥

नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः ।
विशेषवशतः किञ्च पवित्रकविधिक्रमः ॥ २६-१३ ॥

आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता ।
व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥ २६-१४ ॥

तत्रादौ शिशवे ब्रूयाद् गुरुर्नित्यविधिं स्फुटम् ।
तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥ २६-१५ ॥

मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् ।
दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥ २६-१६ ॥

तन्मयतोपायगुर्वर्चनरताविति–स्वसंविद्देवीपरामर्शनपरत्वात् स्वगुरुभक्तेश्च ।
यदुक्तं प्राक्–

“यस्य स्वतोऽयं सत्तर्कः स सर्वत्राधिकारवान् ।
अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः ॥
" (४।४३)

इति

शमयाचारपाशं तु निर्बीजायां विशोधयेत् ।
दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥
" (१५।३१)

इति च ।
कामानां चित्रत्वे चित्राभ्युपायत्वं हेतुः, अत एव नियतनिमित्तत्वाभावादेषामिह अनभिधानम् ।
अधिकमिति– पुत्रकादेस्तत्रानधिकारात् ।
तद्योग्यतां समालोक्येति ↓योग्ये हि शिष्ये विततो विधिरुपदेष्टव्यो मुख्यो वा मन्त्रः समर्प्यः, अन्यस्मिंस्तु अन्यथेति ॥१६ ॥

अत एव आह–

तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः ।
न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥ २६-१७ ॥

साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपि वा ।
पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥ २६-१८ ॥

वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः ।
ज्ञात्वाऽस्मै योग्यतां सारं सङ्क्षिप्तं विधिमाचरेत् ॥ २६-१९ ॥

तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः ।
लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥ २६-२० ॥

निर्यन्त्र इति–निर्विकल्पः ।
अन्य इति–अमुख्यस्य मन्त्रस्य ।
साधकस्येति– वृत्ततद्दीक्षस्य ।
साधकीभाविन इति–भावितद्दीक्षस्य ।
गुणभूत इति–अवितते ।
तत्रेति–एवं सारविध्याचरणे ।
ऊर्ध्वशासन इति– त्रिककुलादौ ॥ २० ॥

एतदेव उपपादयति–

मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः स च ।
गुरुसंविदभिन्नश्चेत्सङ्क्रामेत्सा ततः शिशौ ॥ २६-२१ ॥

लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ।
सङ्केतबलतो नास्य पुस्तकात्प्रथते महः ॥ २६-२२ ॥

स चेति–परामर्शः ।
सेति–परामर्शमयी गुरुसंवित् ।
तत इति– गुरुतः ।
निवीर्य इति–परामर्शकत्वाभावात् ।
स हि संविदभिन्न एव भवेत्–इति भावः ॥२२ ॥

ननु पुस्तकात् मन्त्रवीर्याकथने किं प्रमाणम्?–इत्याशङ्क्याह–

पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः ।

एवं मन्त्राणां वीर्य एव भरबन्धः कार्य इति अत्र तात्पर्यम् ॥

अत एव आह–

ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ॥ २६-२३ ॥

ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ।
इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥ २६-२४ ॥

तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् ।

तादृशे तादृशे धाम्नीति–योग्यशिष्योचिते इत्यर्थः ॥

गुप्तिपरेण च अत्र गुरुणा भाव्यम्–इत्याह–

यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥ २६-२५ ॥

तथा कुर्याद् गुरुर्गुप्तिहानिर्दोषवती यतः ।
देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥ २६-२६ ॥

देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् ।
तत्र मन्त्रं स्फुटं वक्त्राद् गुरुणोपांशु चोदितम् ॥ २६-२७ ॥

अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् ।
ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥ २६-२८ ॥

न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः ।

दोषवतीति–यदभिप्रायेणैव

“गोपनात्सिद्धिमायाति… ।
"

इत्यादि अन्यत्रोक्तम् ।
शुद्धम्–केवलम् ।
स्फुटं–सशब्दम् ।
यदुक्तम्–

“आत्मना श्रूयते यस्तु तमुपांशुं विजानते ।
परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ॥
" (स्व। २।१४७)

इति ।
आ प्रवृत्तेरिति–अनुष्ठानारम्भकालं यावत्–इत्यर्थः ।
सुशिक्षितामिति–पञ्चदशाह्निकोक्तयुक्त्या ॥

इदानीं नित्यविधिं शिक्षयति–

तत्र प्रभाते सम्बुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥ २६-२९ ॥

कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् ।
आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥ २६-३० ॥

शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् ।
मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ॥ २६-३१ ॥

देहासुधीव्योमभूषु मनसा तत्र चार्चनम् ।
जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥ २६-३२ ॥

तन्मयीभावसिद्धियर्थं प्रतिसन्ध्यं समाचरेत् ।
अन्ये तु प्रागुदक्पश्चाद्दश(क्ष)दिक्षु चतुष्टयीम् ॥ २६-३३ ॥

सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् ।

स्वमतेन पुनराह–

यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥ २६-३४ ॥

तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् ।
सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥ २६-३५ ॥

कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः ।

एकस्यामिति–अन्यथा हि अस्य स्वाध्यायादिविप्रलोपो भवेत्–इति भावः ॥

ननु कथं सन्ध्याचतुष्टयानुष्ठेयं कर्म एकस्यामेव सन्ध्यायां क्रियमाणं परिपूर्तिं यायात् ?–इत्याशङ्क्याह–

सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥ २६-३६ ॥

तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ ।
ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥ २६-३७ ॥

स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः ।
सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥ २६-३८ ॥

अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः ।
तेन स्थण्डिलपुष्पादि सर्वं सम्प्रोक्षयेद् बुधः ॥ २६-३९ ॥

ततस्तत्रैव सङ्कल्प्य द्वारासनगुरुक्रमम् ।
पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ २६-४० ॥

ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् ।
बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥ २६-४१ ॥

प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः ।
एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥ २६-४२ ॥

तत इति–सन्ध्याद्यनुष्ठानानन्तरम् ।
स्थण्डिलादावित्यनेन स्थाण्डिली नित्यार्चेति प्रक्रान्तम् ।
आन्तरेत्यनेन मनोयागमकृत्वा बाह्ययागादावधिकार एव न भवेत्- इति कटाक्षितम् ।
पुरेति– पञ्चदशाह्निकादौ ।
वीध्रम् विमलम् ।
तत्रेति–बोधात्मके स्थण्डिले ।
स्वमिति–आरिराधयिषितम् ।
बोध एव हि बहिः प्रतिफलितस्तथा तथा उच्छलित इत्युक्तम्–बिम्बत्वेनेति प्रतिबिम्बतयेति च ।
एतदिति प्रतिबिम्बभावात्मतया दर्शनम् ॥४२ ॥

दृष्टान्तमेव विभज्य दर्शयति–

सर्वगोऽपि मरुद्यद् व्यजनेनोपजीवितः (वीजितः) ।
अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥ २६-४३ ॥

चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते ।

रूढेरिति–स्थण्डिलादावेवम्प्ररोहात्–इत्यर्थः ।
तथेति–अर्थकृत् ।
चतुष्कपञ्चाशिकेति–सृष्ट्यादिप्रमेयचतुष्टयाभिधायिना एवम्परिमाणेन ग्रन्थविशेषेण–इत्यर्थः ॥

न केवलमेतदत्रैवोक्तं यावदन्यत्रापि–इत्याह–

श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥ २६-४४ ॥

तदेव अर्थद्वारेण आह–

देवः सर्वगतो देव निर्मर्यादः कथं शिवः ।
आवाह्यते क्षम्यते वेत्येवं पृष्टोऽब्रवीद्विभुः ॥ २६-४५ ॥

वासनावाह्यते देवि वासना च विसृज्यते ।
परमार्थेन देवस्य नावाहनविसर्जने ॥ २६-४६ ॥

निर्मर्याद इति–निर्यन्त्रणः स्वतन्त्र इति यावत् ॥

वासनात्मकत्वमेव अत्र दर्शयति–

आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः ।
पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥ २६-४७ ॥

प्राणिनामप्रबुद्धानां सन्तोषजननाय वै ।
आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥ २६-४८ ॥

कालेन तु विजानन्ति प्रवृत्ताः पतिशासने ।
अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥ २६-४९ ॥

ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः ।
कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः ॥ २६-५० ॥

स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः ।

भुवनपूर्विकामिति–

“…ंअते भुवनभर्तरि ।
" (मृटं।
)

इत्याद्युक्तयोजनिकाबलात् तत्तत्तत्त्वभुवनासादनप्रक्रियात्मिकाम्– इत्यर्थः ॥

आवाहनानन्तरकर्तव्यमुपदेष्टुमाह–

आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥ २६-५१ ॥

धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः ।
दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥ २६-५२ ॥

रक्तैः प्राक् तर्पणं पश्चात् पुष्पधूपादिविस्तरैः ।

ननु आवाहनानन्तर्येण तर्पणमेव कार्यमित्यत्र कि प्रमाणम्?– इत्याशङ्क्याह–

आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥ २६-५३ ॥

हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना ।

ननु इह तर्पणार्थं द्रव्यादि उद्दिष्टम्, पूजादि पुनः कतरेण कार्यम्?–इत्याशङ्क्याह–

यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥ २६-५४ ॥

तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः ।

ननु यद्येवं तत्कथं शान्तिपुष्ट्याह–

साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥ २६-५५ ॥

मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ।

ननु एवं विधिविशेषे अत्र किं निमित्तम्?–इत्याशङ्क्याह–

कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥ २६-५६ ॥

रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् ।
सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥ २६-५७ ॥

तुल्येति–रक्तमेव ॥ ५७ ॥

मोक्षे पुनः कश्चिद्विशेषो नास्ति–इत्याह–

देशकालानुसन्धानगुणद्रव्यक्रियादिभिः ।
स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥ २६-५८ ॥

बाह्यैः सङ्कल्पजैर्वापि कारकैः परिकल्पिता ।
मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ २६-५९ ॥

ननु कथं नाम अत्र स्वल्पा भूयसी वा क्रिया विशेषमाधातुं नोत्सहते?–इत्याशङ्क्याह–

नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः ।

ननु विचित्रैः कारणैः परिकल्प्यमानापि क्रिया यदि अत्र न विशेषमाधत्ते तत्किमेषां प्राधान्येन हृदयाह्लाददायित्वमुक्तम् ?– इत्याशङ्क्याह–

चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥ २६-६० ॥

क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः ।

तस्येति–स्वातन्त्र्यस्य ॥

अत एव एषां चिदानन्दघनमेव रूपं पूजायोग्यम्–इत्याह–

शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥ २६-६१ ॥

तमेव परमे धाम्नि पूजनायार्पयेद् बुधः ।

एतच्च मयैव अन्यत्र वितत्योक्तम्–इत्याह–

स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥ २६-६२ ॥

एतदेवोच्चित्य दर्शयति–

अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति ।
या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥ २६-६३ ॥

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिता- मात्तैर्मानसतःस्वभावकुसुमैः स्वामोदसन्दोहिभिः ।

आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ २६-६४ ॥

नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पिताम् ऊर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् ।

यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे सन्तर्पयेऽहर्निशम् ॥ २६-६५ ॥

इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् ।
येन केनापि भावेन तर्पयेद्देवतागणम् ॥ २६-६६ ॥

मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः ।
वचसा मन्त्रयोगेन वपुषा सन्निवेशतः ॥ २६-६७ ॥

कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् ।
तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥ २६-६८ ॥

ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः ।
कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥ २६-६९ ॥

द्वारपीठगुरुव्रातसमर्पितनिवेदनात् ।
ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥ २६-७० ॥

तयेति–परमामृतदृशा ।
आधारोऽत्र जन्माधारः ।
यन्त्रेत्यादिना– अत्र लौकिकश्चाक्रिकवृत्तान्तोऽपि कटाक्षितः ।
एतच्च प्राग्व्याख्ययैव गतार्थमिति नेह प्रातिपद्येन व्याख्यातम् ।
श्लोकत्रयोपात्तमर्थमिति–परसंविद्विश्रान्तिलक्षणम् ।
पुरेति– नवमत्रयोदशाह्निकादौ ।
अन्यदिति–मुख्यम् ॥ ७० ॥

अस्य अगाधाम्भःप्रक्षेपणकारणमाह–

प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् ।
विधिना भाविना श्रीमन्मीननाथावतारिणा ॥ २६-७१ ॥

भाविनेति–एकान्नत्रिंशाह्निकादौ वक्ष्यमाणेन ॥ ७१ ॥

अन्यभक्षणेन दोषः–इत्याह–

मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् ।
तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥ २६-७२ ॥

तदुक्तम्–

भुक्तोज्झितं हि यच्चान्नमुच्छिष्टं गुरुदेवयोः ।
रक्षेन्निक्षेपवन्नित्यं न देयं यस्य कस्यचित् ॥

गर्ते चाग्नौ जले कूपे प्रक्षिपेत्प्रयतात्मवान् ।
अदीक्षितैर्यदा भुक्तं मन्त्रसिद्धिर्विनश्यति ॥

अभक्तैस्तस्करभयं लौकिको यदि भक्षयेत् ।
वैकल्यं जायते तस्य दुःखितोऽन्यैश्च पक्षिभिः ॥

मकरैः पुत्रनाशः स्यान्मेषैस्तनयनाशनम् ।
वानरैर्बन्धनं देवि लीढं वा यदि वा भवेत् ॥

खरोष्ट्र्योरेव दारिद्यं शुकैः शोकविवर्धनम् ।
सुखसौभाग्यनाशः स्याल्लीढे मर्कटवाजिभिः ॥

बिडालेन विलीढं स्याद् व्याधिराशु प्रवर्तते ।
कलहः शारिकाभिश्च कलविङ्कैर्विशेषतः ॥

काकैर्विदेशगमनं चिल्लया मरणं भवेत् ।
आयुषोऽपि भवेद्धानिरुन्दुरो यदि भक्षयेत् ॥

सारमेयो यदा भुङ्क्ते तदा व्याधिसमुद्भवः ।
गोभिर्विद्वेषणं जायेज्जम्बुकेभ्यो ध्रुवं वधः ॥

व्यभिचारस्तु दाराणां वराहो यदि भक्षयेत् ।
चौरेभ्यस्तु भयं जायेन्नकुलस्तु यदा स्पृशेत् ॥

दुष्टमानुषयोषिद्भिर्नास्तिकैरुपयुज्यते ।
तदा दुःखानि सर्वाणि प्राप्नुवन्त्यपि साधकाः ॥
"

इति ॥७२ ॥

ननु अत्र दीक्षितादीक्षितविभागो नाम विकल्पः, स च निर्विकल्पानां ज्ञानिनां न न्याय्य इति कथमविशेषेणैवैतदुक्तम् ?–इत्याशङ्क्य आह–

अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः ।
प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥ २६-७३ ॥

अत इति–मार्जारादिभक्षणस्य एवं प्रत्यवायहेतुत्वात् ।
विदेति– ज्ञानम् ।
प्रकटमिति–यथा न कश्चिदपि एवं पश्येत्–इत्यर्थः ।
तथात्वे हि सविकल्पोऽपि लोक एवमादध्यादिति शास्त्रीयो विधिरुत्सीदेत् ।
यद्वा अयं ज्ञानिनं प्रति विचिकित्सते शास्त्रविरुद्धमनेन अनुष्ठितमिति ॥ ७३ ॥

न च एतन्निर्मूलमेव उक्तम्–इत्याह–

श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् ।

तदेव आह– स्वयं तु

शङ्कसङ्कोचनिष्कासनपरायणः ॥ २६-७४ ॥

भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् ।
मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥ २६-७५ ॥

पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् ।

तत इति नैवेद्यभक्षणाद्यनन्तरम् ॥

आह्निकार्थमेवोपसंहरति–

उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥ २६-७६ ॥

इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके स्थण्डिलपूजाप्रकाशनं नाम षड्विंशमाह्निकम् ॥ २६ ॥

इति शिवम् ॥ ७६ ॥

श्रीमद्गुरुप्रसादासादितपूजासतत्त्वसुहितमतिः ।
षड्विंशमाह्निकमिदं व्याचक्रे जयरथाभिख्यः ॥

इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते स्थण्डिलपूजाप्रकाशनं नाम षड्विंशमाह्निकं समाप्तम् ॥ २६ ॥