पञ्चविंशमाह्निकम्
" विवेकः "
भीममधिष्ठाय वपुर्भवमभितो भावयन्निव यः ।
प्रभवति हृदि भक्तिमतां शिवप्रदोऽसौ शिवोऽस्तु सताम् ॥
इदानीं द्वितीयार्धेन श्राद्धविधिमभिधातुमाह–
अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥ २५-१ ॥
ननु त्रिकदर्शने कुत्र नाम असौ श्राद्धविधिरुक्तः ?–इत्याशङ्क्याह-
सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे ।
सूचित इति–न तु साक्षात् स्वकण्ठेनोक्तः ।
यदुक्तम्–तत्र
“मृतकस्य गृहे वाथ कर्तव्यं वीरभोजनम् ।
"
इति
“श्राद्धपक्षे तु दातव्यम्… ।
"
इति च ॥
कस्य कदा कैश्चायं कार्यः ?–इत्याशङ्क्याह–
अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥ २५-२ ॥
त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे ।
वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥ २५-३ ॥
तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा ।
अशुद्धानामिति–अन्त्येष्ट्यैव, न तु दीक्षादिना ।
तत्स्वैरिति–तस्य आत्मीयैः शिष्यपुत्रादिभिभिः–इत्यर्थः ।
स इति–श्राद्धविधिः ॥
अत्रैव विधिविशेषमाह–
ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥ २५-४ ॥
गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् ।
ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥ २५-५ ॥
ततोऽस्य यः पाशव्ॐऽशो भोग्यरूपस्तमर्पयेत् ।
भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ २५-६ ॥
तया समाविष्टमिति–तदेकमयतामापन्नम्–इत्यर्थः ।
तमिति– भोग्यरूपं पाशवमंशम् ।
इत्थमिति–पाशवरूपतापरित्यागात् भोक्त्रैकात्म्यापत्त्या–इत्यर्थः ॥६ ॥
एतदेव विभज्य दर्शयति–
भोग्यतान्या तनुर्देह इति पाशात्मका मताः ।
श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥ २५-७ ॥
अन्येति–वेद्यरूपतया भोक्तुरतिरिक्तेत्यर्थः ॥७ ॥
ननु दीक्षितः पिण्डपातादूर्ध्वं स्वरसत एव शिवीभवेदिति अस्य किमन्त्येष्ट्यादिभिः, तत्रापि समयलोपनिवृत्त्यर्थमेक एवास्तु विधिः, किमेभिर्बहुभिः ?–इत्याशङ्क्याह–
एकेनैव विधानेन यद्यपि स्यात्कृतार्थता ।
तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥ २५-८ ॥
चरेदिति–मुमुक्षोः ॥८ ॥
बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि ।
हेतू ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥ २५-९ ॥
उक्तं च–
“दीक्षाज्ञानविशुद्धानामन्त्येष्ट्याप्यमलात्मनाम् ।
तथापि कार्यमीशोक्तं श्राद्धं वै विधिपूरणम् ॥
"
इति ।
अनेन च श्राद्धादेः प्रयोजनमुक्तम् ॥ ९ ॥
ज्ञानिनस्तु एतन्न किञ्चिदपि उपादेयम्–इत्याह–
तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम् ।
अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥ २५-१० ॥
ननु अयमाचारो दृश्यते यज्ज्ञानिनामपि मृतिदिनादौ महाजनाश्चक्रार्चादि प्रकुर्वन्ति, तत्किमेतदुक्तम् ?–इत्याशङ्क्याह–
तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् ।
तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥ २५-११ ॥
गुर्विति–पर्वदिनविशेषणम् ।
तद्वर्गः–पत्नीपुत्रादिः ।
वर्ग्यः– पुत्रादीनामपि पुत्रादिः ।
एक्यदिनमिति–परमेशेन सायुज्यात् मृतिदिनम् ॥११ ॥
पर्वशब्दस्य अत्र प्रवृत्तौ निमित्तमाह–
यदा हि बोधस्योद्रेकस्तदा पर्वाह पूरणात् ।
आहेति–परमेश्वरः, तेन बोधं पूरयतीति पर्वेति ॥
अतश्च एक्यदिनवत् तदीयं जन्मदिनमपि तत्सन्तानजुषां पर्व एव– इत्याह–
जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ २५-१२ ॥
अत्रैव विशेषमाह–
पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः ।
तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥ २५-१३ ॥
नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् ।
अपिशब्दात् न केवलं गुरुः साधको वा ।
मातुः पितुरिति– गुरोस्तत्पत्न्या अपि ॥
न च एतत्स्वोपज्ञमेवोक्तम्–इत्याह–
श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥ २५-१४ ॥
नाडीप्रवाहणे च युक्तिमाह–
तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये ।
स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥ २५-१५ ॥
तासां वामादीनां नाडीनां
“विषुवद्वासरे प्रातर्दक्षा वहति नाडिका ।
सायमन्यान्तरा मध्या योगिनां तु निजेच्छया ॥
"
इत्याद्युक्तं स्वारसिकं वाहकालमपेक्ष्य, यद्वा स्वमहिम्नैव वक्ष्यमाणेन विधिना तत्सिद्धिं विधाय नाडीप्रवाहणं कुर्यात्– इति तात्पर्यार्थः ॥ १५ ॥
अत्र च समय्यादेः सर्वस्य स्वशास्त्रोक्त एव विधिर्न्याय्यः, न लौकिकः–इत्याह–
यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् ।
स चक्रेष्टिः भवेच्छ्रैतो न तु स्यात्पाशवो विधिः ॥ २५-१६ ॥
श्रौतविध्यभावे पाशवत्वं हेतुः ॥१६ ॥
एवमपि अत्र साधकं बाधकं च प्रमाणं दर्शयितुमाह–
श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः ।
प्रत्येति वैदिके भग्नघण्टावन्न स किञ्चन ॥ २५-१७ ॥
तथोक्तदेवपूजादिचक्रयागान्तकर्मणा ।
रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥ २५-१८ ॥
भग्नघण्टावदिति–भग्ना हि घण्टा न स्वं कार्यं कुर्यात्, नापि लौहमित्युभयभ्रष्टतामेव आसादयेत्–इत्यर्थः ।
अत एवोक्तम्–न स किञ्चनेति ॥ १८ ॥
भाविना विधिनेति यदुक्तं तदेव दर्शयति–
अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् ।
श्रीसिद्धयोगीश्वरीमतोक्तमेव ग्रन्थमर्थद्वारेण पठति–
या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥ २५-१९ ॥
भावनातन्मयीभावे सा नाडी वहति स्फुटम् ।
यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥ २५-२० ॥
आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् ।
येति–मात्राद्युद्देशानुसारं वामाद्यन्यतमा ।
भावयेदिति–वहन्तीम् ।
यद्वेति–अयोगिविषयतया ॥
एवं नाडीविधिमभिधाय, श्राद्धस्य भोगमोक्षदानहेतुत्वमस्ति–इत्याह–
एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥ २५-२१ ॥
कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना ।
ननु दीक्षैव भोगमोक्षसाधिकेत्युक्तं तत् कथं श्राद्धाद्यात्मनः चर्यामात्रादपि एतत्स्यात् ?–इत्याशङ्क्याह–
शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥ २५-२२ ॥
करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते ।
एतदेव उपपादयति–
उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥ २५-२३ ॥
उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् ।
न च इयमस्मदुपज्ञैव युक्तिः अपितु आगमोऽप्येवम्–इत्याह–
उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥ २५-२४ ॥
तत्र मुनिप्रश्नमेव तावदाह–
मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि ।
चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥ २५-२५ ॥
प्रहस्योचे विभुः कस्माद् भ्रन्तिस्ते परमेशितुः ।
सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥ २५-२६ ॥
तदुक्तं तत्र–
“मुक्तिर्विवेकात्तत्त्वानां क्ष्मादीनां प्रविचारतः ।
दीक्षातोऽन्या सुनिर्णीता क्रियापादकृतास्पदा ॥
योगपादोत्थिता सिद्धा तृतीया सापि शस्यते ।
चर्यामात्रेण संसिद्धा चतुर्थी सा कथं भवेत् ॥
प्रपत्तव्या शिवज्ञाने छिन्द्ध्यज्ञानाङ्कुरं मम ।
"
इति ।
अत इति–प्रश्नानन्तरम् ।
सममिति–अनुगुणम् ।
दृश्यतामिति–नात्र कस्यचिद्विप्रतिपत्तिः–इत्यर्थः ॥२६ ॥
एतदेव दृष्टान्तोपदर्शनेनोपपादयति–
प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् ।
अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥ २५-२७ ॥
मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु ।
इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥ २५-२८ ॥
इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् ॥
यथाहि आसन्नमरणस्य मृत्यौ विषादि अल्पं वा बहु वा कारणं साक्षादेतन्न कारणम् किन्तु भोगक्षय एव, तथा मुक्तावपि
“तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् ।
" (म।
भार।
)
इत्यादिदृष्ट्या शक्तिपातैकलक्षणा अनुध्या भक्तिः, एव मुख्यं कारणम् ।
अमूनि पुनः बाह्यलिङ्गानि दीक्षादीनि तथात्वादेव उपायमात्ररूपतया उपचरितानि–इत्यर्थः ।
अतश्च श्राद्धाद्यात्मनः चर्यामात्रादेव कथं मुक्तिः स्यादिति न संशयितव्यम् ।
किन्तु अत्र भक्तिरेव दार्ढ्येन आश्रयणीया येनैवं स्यात् ।
तदुक्तं तत्र–
“एतस्मिन्नन्तरे नाथः प्रहस्योवाच विश्वराट् ।
किमत्र कारणं भ्रन्तेरनुध्यानविदर्शनात् ॥
सर्वानुग्राहकत्वं हि संसिद्धं परमेष्ठिनः ।
प्राप्तकालस्य चिह्नानि दृश्यन्तेऽनेकधा यथा ॥
विषरुक्शस्त्रपूर्वाणि न च तान्यत्र कारणम् ।
मृत्योर्भोगक्षयाभावात्तद्वदत्रापि निश्चितम् ॥
अनुध्यानबलावेशाच्चर्याद्याः प्रकटीकृताः ।
मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु ॥
निपाताद्यत्स्फुटं चिह्नं भक्तिरव्यभिचारिणी ।
तया शिष्यस्य सततमनिवारितवीर्यया ॥
पुंसः प्रसन्नभावस्य शिवत्वं व्यक्तिमेति हि ।
"
इति ॥
एतदेव प्रथमार्धेनोपसंहरति–
उक्तः श्राद्धविधिर्भ्रन्तिगरातङ्कविमर्दनः ॥ २५-२९ ॥
इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके श्राद्धप्रकाशनं नाम पञ्चविंशमाह्निकम् ॥ २५ ॥
इति शिवम् ॥ २९ ॥
निखिलशिवशासनोदितविविधविधानैकनिष्ठया सुधिया ।
निरणायि पञ्चविंशं किलाह्निकं जयरथेनैतत् ॥
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते श्राद्धप्रकाशनं नाम पञ्चविंशमाह्निकं समाप्तम् ॥ २५ ॥