०४

चतुर्थमाह्निकम्

विस्तारः (द्रष्टुं नोद्यम्)

मूलम् अत्र

" विवेक "

यो दुर्विकल्पविघ्नविध्वंसे सद्विकल्पगणपतिताम् ।
वहति जयताज्जयन्तः स परं परमन्त्रवीर्यात्मा ॥

इदानीं शाम्भवोपायानन्तरं क्रमप्राप्तं शाक्तोपायं कथयितुमपरार्धेन प्रतिजानीते –

अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ ४-१ ॥

“उपायममण्डलम्” इति विकल्पसंस्क्रियादीनामानैक्यात् ॥ १ ॥

तत्र प्रथममनुजोद्देशोद्दिष्टां विकल्पसंस्क्रियां तावदभिधातुमुपक्रमते –

अनन्तराह्निकोक्तेऽस्मिन्स्वभावे पारमेश्वरे ।
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ ४-२ ॥

“अस्मिन्स्वभाव” इति निर्विकल्पैकरूपे, तेनास्य शाम्भवोपाय एव विश्रान्तिः, इत्यावेदितम् ।
संस्कारमिति – पौनःपुन्येन श्रुतचिन्तादिवशात् अस्फुटत्वादिक्रमेण स्फुटतमत्वाद्यापत्तिपर्यन्तं गुणान्तराधानम्, येन निर्विकल्पस्वरूपानुप्रवेशो भवेत् ।
अञ्जसेति शीघ्रम्, अन्यथा हि विरुद्धविकल्पान्तरोत्पादात् संस्कारस्य प्ररोहो न स्यात् ॥ २ ॥

ननु ज्ञानस्य क्षणिकत्वे सर्वेषामविवादः, तद्विकल्पस्यापि ज्ञानरूपत्वेन क्षणिकत्वात्, उत्पादसमनन्तरमेव अन्तर्हितस्वरूपस्य कथं नाम संस्कारः प्ररोहमियात्, स हि स्थिरे स्यात्, यथा – तिलादौ सुमनोभिः, तत् कथमेतदुक्तम् ? इत्याशङ्क्याह –

विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् ।
स्वतुल्यं सोऽपि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् ॥ ४-३ ॥

इह यथा नीलविकल्पान्नीलविकल्पस्यैव उत्पादो, न पीतविकल्पस्य, तथैव अस्फुटत्वेऽपि स्फुटीभावाय भाव्यमानत्वात् भ्रश्यदस्फुटत्वाद्यापत्तेः आहितसंस्कारो विकल्पः स्वात्मवत् संस्कृतमेव विकल्पान्तरं जनयेत्, कारणानुरूपेणैव हि प्रायः कार्यस्योत्पादो भवेत्, इति भावः ।
एवं विकल्पान्तरेष्वपि ज्ञेयम् ।
सोऽपि इति संस्कृताद्विकल्पाज्जातो द्वितीयः, सोऽप्यन्यमिति तृतीयः, पुनः सोऽप्यन्यमिति चतुर्थः ।
अत्र स्वतुल्यत्वस्य सम्बन्धसहिष्णुत्वेऽपि शदृशात्मकम्" इत्युक्त्या दूर दूरत्वेऽपि विकल्पमालायाः सादृश्यस्य न काचिद्धानिः, इत्यावेदितम् ॥ ३ ॥

ननु एकस्मात् संस्कृताद्विकल्पात् यदि तादृशस्यैव द्वितीयस्योत्पादः तदास्ताम्, तृतीयादेः पुनरेवमेवोत्पात्तावानर्थक्यं स्यात्, विशेषे वा सादृश्यस्य हानिः ? इत्याशङ्क।
याह –

चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ ।
अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ ४-४ ॥

स्फुटताभावीति स्फुटनयोग्यः, प्रस्फुटन्निति उद्गच्छत्स्फुटत्वः, स्फुटतात्मक इति सिद्धस्फुटत्वः, क्रमादिति अभ्यासातिशयतारतम्यात्, अत एव अत्र यथायथमतिशयदर्शनात् नानर्थक्यम्, नापि सादृश्यस्य हानिः – विसदृशस्य प्रत्ययान्तरस्यानुत्पादात्, आद्य एव हि संस्कारो यथायथमभ्यासातिशयात् प्ररोहमुपगत इत्येवमुक्तम् ॥ ४ ॥

न च इयानेव अस्य संस्कारः सम्भवेत् ।
इत्याह –

ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् ।

तत इति चतुर्भ्योऽनन्तरम् ॥

ननु अभ्यासातिशयतोऽपि अस्फुटत्वादिरूपो विकल्पः कथं शीघ्रमेव स्फुटताभाव्यादिरूपतामेति ? – इत्याशङ्क्याह-

अस्फुटादौ विकल्पे च भेदोऽप्यस्त्यान्तरालिकः ॥ ४-५ ॥

भेद इति विशेषः, आन्तरालिक इति मध्यवर्ती, तथाहि अस्फुटस्फुटताभाविनोरन्तराले भ्रश्यदस्फुटत्वः, एवमीषत्प्रस्फुटत्वः अङ्कुरितस्फुटितत्त्वः आसूत्रितस्फुटतरत्वः उद्गच्छत्स्फुटतमत्वश्चेति ॥ ५ ॥

ननु एवं-कृते सति किं स्यात् ? – इत्याशङ्क्याह –

ततः स्फुटतमोदारताद्रूप्यपरिबृंहिता ।
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ ४-६ ॥

ततो – यथोक्तात् संस्काराद्धेतोः, स्फुटतमम्, अत एव उदारं – निर्विल्पकसमानकक्ष्यतया महत्, यत्ताद्रूप्यं – विकल्पकत्वं तेन परिवृंहिता – संस्कारान्तरनिरपेक्षीकृता सती, विकल्परूपा संवित्, विमलां-सङ्कोचकलङ्कापहस्तनेन शुड्धामविकल्पस्वरूपतामभ्येति – पूर्णाविकल्पज्ञानमयतया परिस्फुरतीत्यर्थः ।
अतश्च “विकल्पमात्रे एव न विश्रान्तव्यम्” इत्यपि अनेन उक्तम् ।
यदाहुः –

“परमार्थविकल्पेऽपि नावलीयेत पण्डितः ।
को हि भेदो विकल्पस्य शुभे वाप्यथ वाऽशुभे ॥
"

इति ॥ ६ ॥

एतदेव प्रकृते योजयति –

अतश् च भैरवीयं यत् तेजः संवित्-स्वभावकम् ।
भूयो भूयो विमृशतां जायते तत्-स्फुटात्मता ॥ ४-७ ॥
+++(4)+++

मूलम्

अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् ।
भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ ४-७ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अतो – विकल्प-संविदा एव तत्-तत्-संस्कार-बलाद् अविकल्प-संविद्-रूपतया परिस्फुरणाद्+धेतोः, यद् भैरवीयं ज्ञानक्रियाख्यं संवित्स्वभावं तेजः “तद्-रूप एव अहमिति” भूयो भूयः अस्फुटत्वादि-क्रमेण +उद्गच्छत्-स्फुटतमत्वाद्य्-आपत्ति-पर्यन्तेन परामृशतां तीव्र-तीव्र-शक्ति-पातवतां महात्मनाम्, तस्य परामृश्यस्य संविदात्मकस्य भैरवीयस्य तेजसः स्फुटात्मता जायते – शाम्भवावेशवशेन तत्-साक्षात्कारो भवतीत्य् अर्थः ॥ ७ ॥

ननु संविदः प्रमात्रैक-रूपत्वात् परामर्शकत्वम् एव युज्यते, न परामृश्यत्वम्, तथात्वे हि नीलादिवत् अस्या जाड्य्ं प्रसज्येत् ? – इत्याशङ्कां दर्शयति –

ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः ।
परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ ४-८ ॥

ताथारूप्येति परामृश्यत्वस्येत्यर्थः ॥ ८ ॥

एतदेव समाधत्ते-

उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा ।
नास्यामपास्यं नाधेयं किञ्चिदित्युदितं पुरा ॥ ४-९ ॥

इह स्वात्मरूपा संवित् तावत् अतिरिक्तस्य अपेक्षणीयस्याभावात् स्वत एव निर्भरा नान्याकाङ्क्षेति, नित्योदितत्त्वात् अस्यां स्वात्मसंवित्तौ न किञ्चिदस्फुटत्वादि अपास्यम्, नापि स्फुटतमत्वादि आधेयमिति ।
पुरा – अनुपायाह्निके

“अत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।
"

इत्यादिनोक्तम् ।
यदभिप्रायेणैव अतो बाह्यैरपि

नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन ।
द्रष्टव्यं भूततोद्भूतं भूतदर्शी विमुच्यते ॥
"

इत्याद्युक्तम् ॥ ९ ॥

ननु यद्येवं तत् इयान् अस्फुटत्वादिरूपः संविदः कुतस्त्योऽयं स्फारः? इत्याशङ्क।
याह –

किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ ।
स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ ४-१० ॥

किं पुनः, असौ परमेश्वरः परः प्रकाशः – स्वरूपगोपनात्मकदुर्घटकारित्वलक्षणात् शुद्धात् स्वाच्छन्द्यात् हेतोः, परप्रमात्रेकस्वभावस्यापि स्वात्मनः प्रच्छादनं – ग्राह्यग्राहकाद्युल्लासात्तथात्वेनाभासनम्, सैव क्रीडा – प्रतिनियतफलाननुसन्धानेन प्रवृत्तिः, तत्र पण्डितः – प्रवीण इत्यर्थः ।
इयमेव हि तस्य स्वातन्त्र्यरूपा मायाख्या शक्तिः – यदनावृतमपि स्वं रूपमावृत्तवेनैव आभासयति, यतोऽयमियान् ग्राह्यग्राहकाद्यात्मा भेदावभासः ॥ १० ॥

तदाह-

अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः ।
सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ ४-११ ॥

एवमस्य विश्वरूपतयावभासनमेव द्वैतमुच्यते, यद्वशादयं दुरन्तः संसारबन्धः, तदपासनायैव च अयं परामर्शो – यत् संविदेव पुनः पुनः परामृश्यमाना स्फुटतामियात् इति ॥ ११ ॥

तदाह –

तथाभासनमेवास्य द्वैतमुक्तं महेशितुः ।
तद्द्वयापासनेनायं परामर्शोऽभिधीयते ॥ ४-१२ ॥

तद्द्वयापासनेति – कार्यकारणयोरभेदोपचारात् ॥ १२ ॥

ननु इह नहि भातमभातं भवति” इति सर्वेषामविवादः, देहनीलादि चेदं भेदेनावभासते, तत् कथमुक्तं “तदपासनेन संविद एव अवभासो भवेत्”? इत्याशङ्कंअपाकर्तुं विकल्पसंस्क्रियानन्तर्येण अनुजोद्देशोद्दिष्टं तर्कतत्त्वमवतारयति –

दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः ।
धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥ ४-१३ ॥

बन्धैककारणत्वात् दुष्टो योऽसौ ग्राह्यग्राहकाद्यात्मा भेदः, स एव दुरुन्मूल्यत्वात् पादपः तस्य अस्य अनुभूयमानस्य, कोविदाः प्रत्यभिज्ञातस्वात्मानः, सन् – साक्षात्तत्त्वनिष्ठः, अत एव तर्कान्तरविलक्षणो योऽसौ परां कोटिं प्राप्तस्तर्कः – शुद्धविद्यांशस्पर्शपवित्रिताया बुद्धेरुदीयमानः स्वात्मप्रत्यभिज्ञापनपररूपः, स एव समुत्तेजिधारः कुठारः, तेन मूलम् – अख्यातिलक्षणं कारणमेव कृन्तन्ति, यथास्य पूर्णपरसंविन्मात्रख्यातेः पुनरुत्थानमेव न भवेत्, इत्ययं निर्णयः, स एव हि महात्मनां देहाद्यालोचनेन यथायथमभ्यासातिशयात् विकल्पशुद्धिमादधानः, परां काष्ठामुपागतः सन्, भावनात्मकतां यायात्, येन अस्फुटमपि संविद्रूपं स्फुटतामासादयेत् ॥ १३ ॥

अत आह-

तामेनां भावनामाहुः सर्वकामदुघां बुधाः ।
स्फुटयेद्वस्तु यापेतं मनोरथपदादपि ॥ ४-१४ ॥

यस्तर्कः, तां भावनामाहुः, इति विधीयमानलिङ्गानुवेधः तर्क एव हि परां काष्ठामुपगतो भावनेत्युच्यते, तदुक्तम् –

“तदेव परम ज्ञानं भावनामयमिष्यते ।
"

इति ।
अत एव एनामित्यन्वादेशेनास्य कथनम्, तस्यां च परिनिष्पन्नायामभीप्सितफलावाप्तिर्भवेत् इत्युक्तं – सर्वकामदुघामिति, तदुक्तम् –

“मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते ।
तत्रापि च सुनिष्पन्नो फलं प्राप्नोत्यभीप्सितम् ॥
"

इति ।
या भावनैव हि मनोरथादपि अपेतं- स्वतन्त्रविकल्पानामपि अविकल्प्यत्वादगोचरम्, वस्तु – पारमार्थिकं परप्रमात्रेकलक्षणं संविद्रूपम्, स्फुटयेत् – अविकल्पवृत्त्या साक्षात्कुर्यात्, यन्महिम्ना किं नाम न योगिनः सिद्ध्येत् ॥ १४ ॥

अतश्च “इदमेव उत्तमं योगस्याङ्गम्” इत्यस्मद्दर्शने उच्यते, इत्याह-

श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गंउत्तमम् ।
हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ ४-१५ ॥

मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया ।
प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ ४-१६ ॥

यद्यपि

“प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥
"

इत्यादिनीत्या तर्कस्य प्राणायामादिभिर्योगाङ्ग।
गत्वे साम्यम्, तथापि हेयाद्यालोचनात् असौ उत्तममन्तरङ्गं योगस्याङ्गम्, तर्केण हि “इदं हेयम् इदमुपादेयम्” इति विचारयन् योगी झटित्येव तत्त्वज्ञो भवेत्, तदुक्तम् –

“ऊहोऽन्तरङ्गं योगस्य तेन चाध्वन्यवस्थितेः ।
साधारणोऽप्यसौ मुक्तेर्भूयसोपकरोति हि ॥
"

इति ।
तथा

श्वसिद्धान्ताविरुद्धेन यस्तर्केण विचारयेत् ।
धर्मज्ञानापवर्गार्थं स तत्त्वं वेद नापरः ॥
"

इति, अतश्च-अत्रैव मुख्यया वृत्त्या यतितव्यम् इत्युक्तं “तस्मात्तत्र यत्नः प्रशस्यते” इति, तत्र हि कृतप्रयत्नो योगी साङ्ख्यादिशास्त्रान्तरोदिते हेये मोक्षोपायलक्षणे मार्गे “ममेदमेव आकाङ्क्षणीयं तत्त्वम्” इत्याद्यभिमानोदयात् स्थिरीभूतमपि चेतः, तेन तर्केण प्रेर्य-ततो हेयान्मार्गात् पराङ्मुखीकृत्य, तावन्नयेत्- उपादेये मार्गे विश्रामयेत्, यावत् पदमनामयम्- सर्वोत्तीर्णपरप्रकाशात्मतया प्रस्फुरेदित्यर्थः ॥ १५-१६ ॥

अत्र च विषमत्वात् स्वयमेव पदचतुष्टयं व्याचष्टे –

मार्गोऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः ।
विषिणोति निबध्नाति येच्छा नियतिसङ्गतम् ॥ १७ ॥

रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते ।

शास्त्रान्तरोदितस्य मार्गस्य हेयत्वं प्रागेवोपपादितम्, इति नेह पुनरायस्तम् “षिञ् बन्धने” इत्यस्य विपूर्वस्य अचि विषयशब्दः, तेन बिषयरूपा बन्धयित्री येयमिच्छा – “इदमेव मे स्यात्” इत्यादिरभिमानविशेषः, तया नियतिसङ्गतं रागतत्त्वमुक्तं सामान्येन, सर्वविषयमभिलाषमात्रं हि रागतत्त्वस्य रूपम्, तदेव नियतविषयतयोद्यत् नियतितत्त्वस्य, इति तद्युक्तं रागतत्त्वमस्य अभिधेयम्, यत् यस्माद्धेतोः तत्र नियतेः हेये मार्गे तेन रागेण चेतोऽनुरज्यते – स्थिरीभवेत् इत्यर्थः ।
ननु सर्वत्रैव अन्यत्र

“गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ।
असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः ॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ॥
"

इति ।
तथा

“हेतुशास्त्रं च यल्लोकेनित्यानित्यविडम्बकम् ।
वादजल्पवितण्डाभिर्विवदन्ते ह्यनिश्चिताः ॥

हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ।
ज्ञानयोगविहीनानि देवतारहितानि तु ॥

धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ।
अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः ॥

निरयं ते प्रयच्छन्ति ये तत्राभिरता जनाः ।
"

इत्यादिना भगवतास्य तर्कस्य निन्दां विदधता अधमत्वमवद्योतितम्, यदभिप्रायेणैव तद्वेदकस्य गुरोरपि परिहार्यत्वमुक्तम्, यदुक्तम् –

“तार्किकं न गुरुं कुर्यात्…”

इति ।
तथा

“…टार्किकेवधबन्धनम् ।
"

इति ।
एतदनुवेधेनैव अभियुक्तैरपि –

“वस्तुनिर्णयशून्याभिर्बोधिताभिः परस्परम् ।
अभिमानैकसाराभिर्जिह्रीमस्तर्कबुद्धिभिः ॥
"

इत्याद्युक्तम्, तत् कथमस्य इहोत्तमत्वमुक्तम्, एवं हि श्रुतिविरोधः स्यात्, न च उभयत्रापि एकस्यैव प्रामाण्यकारणस्य सद्भावात् एकत्रापि अप्रामाण्यमुद्भावयितं शक्यम्, इति किमत्र प्रतिपत्तव्यम् ? विषयभेदोऽत्र प्रतिपत्तव्यो, येन सर्वं स्वस्थं स्यात्, द्विविधो हि तर्कः – कश्चिद्धि वस्तुनिर्णयशून्यश्छलादिप्रधानः परपराजयमात्रपर्यवसानो जल्पप्रायः, कश्चित् हेयोपादेयविवेककारितया वस्तुनिर्णयफलः छलादिशून्यो वादप्रायः, तत्राद्यस्य वस्तुनिर्णयशून्यत्वात् गर्हणीयत्वम्, अत एव

“…वस्तुशून्यानि…”

इति ।
तथा

“…णिश्चयो नैव जायते ।
"

इत्याद्युक्तम्, अत एव तद्वेदकानामपि वस्तुज्ञत्वाभावात् परिहार्यत्वमभिहितम्, यस्तु हेयाद्यालोचनेन वस्तुपरिशुद्धिमादधानो हेयमपहाय उपायदेये विश्रामयेत् स परमुत्तमं योगस्याङ्गम्, इति न कश्चिद्दोषः, तत् आस्माकः सत्तर्को, दर्शनान्तरीयस्त्वसत्तर्कः – इति विभागः ॥ १७ ॥

ननु स्वार्थतत्परो लोकः स्वयमेव अनपेक्षितशास्त्रो हेयमपहातुमुपादेयं च उपादातुं प्रवर्तते, नहि बुभुक्षितस्याशने मलिनस्य वा स्नाने शास्त्रमुपयुज्यते, तत्किम् अत्र तर्केण ? – इत्याशङ्क्याह –

यथा साम्रज्यसम्भोगं दृष्ट्वाष्दृष्ट्वथवाधमे ॥ ४-१८ ॥

भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेऽपि रागतः ।

यथा खलु अज्ञः कश्चन – हेयोपादेयविवेकमजानानः, साम्रज्य सम्भोगं सम्यगुपभोगयोग्यतया परिज्ञाय अपरिज्ञाय वा, अधमे – दुर्गतजनोपभोग्ये, भोगे रागतो रज्येत – चिरतरप्ररूढप्राक्संस्कारपरिपाकवशात् आसक्तो भवेत्, तथैव साक्षान्मोक्षमपहाय असन्मोक्षेऽपि, इति वाक्यार्थः, तेन हेयहानाय उपादेयोपादानाय च अवश्यं तर्कस्योपयोगः, इति युक्तमुक्तम् “तर्को योगाङ्गमुत्तमम्” इति ॥ १८ ॥

ननु स्वभावत एवायं सर्वो जनस्तत्तद्दर्शनासक्तः स्यात् यदभिप्रायेण –

“रिक्तस्य जन्तोर्जातस्य कार्याकार्यमपश्यतः ।
विलब्धा वत केनामी सिद्धान्तविषमग्रहाः ॥
"

इत्यादि अन्यत्रोक्तम्, तत् तदुचित एव मोक्षोऽपि अस्य भवेत्, इति कोऽयं रागो नाम ? – इत्याशङ्क्याह –

स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ ४-१९ ॥

सिद्ध्यङ्गगमिति मोक्षाय प्रत्यूह इति कोविदाः ।

स – राग एव हि श्वाभावाख्योऽंशक” इत्यागमेषूक्तम्, तथाहि श्रीस्वच्छन्दशास्त्रे –

“अंशकं षड्वधं देवि कथयाम्यनुपूर्वशः ।
"

इत्युपक्रम्य

“भावांशकः स्वभावाख्यः पुष्पपाताम्श एव च ।
"

इत्युद्दिश्य

श्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ।
ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥

रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।
"

इत्यादिना असौ लक्षितः ।
ननु यद्येवं तत् सर्वोऽयं जनः स्वभाववशादेव स्वोचितं मोक्षमासादयेत्, इति को नाम अस्य हेयोपादेयविभागः ? – इत्याशङ्क्याह – स तु इत्यादि, स – एवंविधःस्वभावः पुनः स्फुटम्

“पौरुषं चैव साङ्ख्यानाम्…”

इत्याद्यागमप्रमाणसिद्धत्वेन अपरिम्लानतया तत्तत्त्वोचितभोगात्मिकायाः सिद्धेरङ्गमपि

श्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रङ्गात् ।
" (योषू। ३-५१)

इत्याद्युक्तिवन्मोक्तुं विघ्न इत्यागमज्ञाः, एवंस्वभावो हि तत्तत्त्वावाप्ति लक्षणां सिद्धिमेव मुक्तिमभिमन्यते, इति मुक्त्याभासरूपायां हेयायां तस्यामेव विश्रान्तः ॥ १९ ॥

एवमेवंस्वभावत्वादेव साक्षान्मोक्षोपायमपहाय अन्यत्रासक्तो भवेत्, इत्याह –

शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ ४-२० ॥

वैष्णवाद्येषु रज्येत मूढो रागेण रञ्जितः ।

ननु असौ साक्षान्मोक्षोपायतया शिवशासनस्य प्रभावातिशयं चेज्जानीते किमित्यन्यत्र आसक्तो भवेत् ? – इत्याशङ्क्याह –

यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ ४-२१ ॥

पाञ्चरात्रिकवैरिञ्च सौगतादेर्विजृम्भते ।

तावतीति – तत्तन्नियतसिद्धिमात्राप्रदे, वामाख्येति

“वामा संसारवमनात् …”

इत्याद्युक्त्या संसाराविर्भाविका तिरोधानशक्तिरित्यर्थः, वैरिञ्चाः – ब्रह्मवादिनः ॥ २१ ॥

ननु शिवशासनमाहात्म्यमजानन् चेदन्यत्र आसक्तो भवेत् तत् भवतु नाम, को दोषो, जानन् पुनः कथमेवम् ? – इत्याशङ्क्याह –

दृष्टाः साम्रज्यसम्भोगं निन्दन्तः केऽपि बालिशाः ॥ ४-२२ ॥

न तु सन्तोषतः स्वेषु भोगेष्वाशीः प्रवर्तनात् ।

इह खलु केऽपि बालिशप्राया अत्युत्कृष्टतया स्पृहणीयत्वेन परिज्ञायापि साम्रज्यसम्भोगं बालिशत्वादेव निन्दन्तो दृष्टाः, न पुनः सन्तुष्टत्वात्, तेषां हि भोगाभिलाषस्य दूरापास्तत्त्वात् तन्निन्दायामौचित्यमित्याशयः, बालिशानाम् पुनः सन्तोषस्तावन्नास्ति, यतः – स्वेषु अधमेषु भोगेष्वपि “पुनः पुनरेतत् स्यात्” – इत्येवंरूपमाशीर्वादं प्रवर्तयन्ते – भोगाभिलाषस्यानपास्तत्त्वात्, एवं विदन्तोऽपि शिवशासनमाहात्म्यं मूढाः तन्निन्दामारभमाणा अन्यत्रासक्ता दृश्यन्ते, यद्वशात् तेषां वामाधिष्ठितत्त्वात् पुनः पुनः संसारे एव निमज्जनं भवेत् ॥ २२ ॥

तदाह-

एवं चिद्भैरवावेशनिन्दातत्परमानसाः ॥ ४-२३ ॥

भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः ।

अति सुघोराभिरिति

“विषयेष्वेव संलीनानधोधः पातयन्त्यणून् ।
"

इत्यादिलक्षिताभिः घोरतर्यभिधानाभिरपराभिरित्यर्थः ॥ २३ ॥

अत एव च अस्य मूढजनस्य संसारादुन्मज्जनमेव नास्ति, इत्याह –

तेन शाम्भवमाहात्म्यं जानन्यः शासनान्तरे ॥ ४-२४ ॥

आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् ।

आश्वस्तहृदयत्वात् तन्निष्ठो, न पुनः

“अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः ।
"

इत्यादिनीत्या लोकसङ्ग्रहरक्षापरत्वेन उत्तानतया, इति नास्य संसारार्णवादुत्तारः स्यात्- तदन्तरेव उन्मज्जननिमज्जानानुभवस्याविच्छेदात् ॥ २४ ॥

न च एतदस्माभिः स्वोपज्ञमेवोक्तमित्याह –

श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ ४-२५ ॥

तदेव पठति-

वेदसाङ्ख्यपुराणज्ञाः पाञ्चरात्रपरायणाः ।
ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ ४-२६ ॥

बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः ।
मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ ४-२७ ॥

धीराः – वेदादिविषय एव स्थिरप्रज्ञाः, शास्त्रान्तरं वेदान्तादि, विद्या च रागश्चेति समाहारे द्वन्द्वः, विद्या चात्र रागशब्दसन्निधेरशुद्धविद्योच्यते, अत एव वेदादिशास्त्रनिष्ठा मायान्तःपातात् तदुत्तीर्णं शैवं ज्ञानं न लभन्ते, इत्युक्तम् –

“मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ।
"

इति ॥२६-२७॥

पूर्वं च यदस्माभिः श्रीपूर्वशास्त्रीये संवादग्रन्थे विषयेच्छाशब्देन वेदादिशास्त्रान्तरोदिते मोक्षोपाये अभिष्वङ्गप्रदं नियतितत्त्वोपेतं रागतत्त्वं व्याख्यातम्, तत् न निर्मूलम्, इत्यभिद्योतयितुम् अत्रत्यमपि रागशब्दं व्याचष्टे –

रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् ।
मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ ४-२८ ॥

अत्र च रागशब्देनेति – वक्ष्यमाणेन हेतुना, नियामकं रागतत्त्वमुक्तमिति समन्वयः, नियामकमिति नियत एव कस्म्मिश्चिद्विषयेऽभिष्वङ्गदमित्यर्थः, यतस्तद्रागतत्त्वं तस्मिन्नियते मायीये शास्त्रे वेदादौ, तं मूढं जनं नियमयेत् “इदमेव ममाकाङ्क्षणीयम्” इति सङ्कुचितत्त्वेनावस्थापयेत्, यद्यपि सामान्येन सर्वविषयाभिलाषमात्रमयत्वं नाम रागतत्त्वस्य स्वरूपम्, तथापि नियतविषयोपारोहमन्तरेण तत् नाभिव्यक्तिमियात्, इत्यवश्यमेव तन्नियतितत्त्वामाक्षिपेत्, इति युक्तमुक्तं “रागतत्त्वं नियामकम्” इति ॥ २८ ॥

ननु प्राप्तेऽपि वैष्णवादिशास्त्रान्तरोदिते मोक्षे किमिति नाम अयं जनः संसारात् नोन्मज्जति ? – इत्याशङ्क्याह-

मोक्षेऽपि वैष्णवादेर्यः स्वसङ्कल्पेन भावितः ।
परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ ४-२९ ॥

विशुद्धचित्तमात्रं वा दीपवत्सन्ततिक्षयः ।
स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ ४-३० ॥

यः खलु वैष्णवादीनां मते मोक्षः, सोऽपि अस्मद्दर्शने प्रलयाकलतामयः – इति सम्बन्धः, तत्र वैष्णवानां “परप्रकृतिसायुज्यं मोक्षः” तन्मते हि भगवद्वासुदेवाभिधानस्य महाविभूतेश्चेतनाचेतनविधातृत्वात् परप्रकृतिरूपस्य परस्य ब्रह्मणः स्वस्वभावात् क्रमविचित्रतया तथा तथा भावनात् विश्वरूपतयानेकात्मनोऽपि

“एकमेवाद्वितीयं ब्रह्म ।
"

इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासात् परिशुद्धसंविद्रूपैकतत्त्वाव्यभिचारात् अनैक्यस्यापारमार्थिकत्वात् उपशान्तविकारग्रन्थेरैक्यात्मावगमो मोक्षः, यत् श्रुतिः –

“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।
"

इति

“…टतः सर्गो बुद्बुदत्वेनाभिव्यज्यते ।
"

इति च ।
ब्रह्मवादिनाम् “आनन्दरूपता मोक्षः” तन्मते हि संसारदशायामविद्यावरणवशेन अनुभूयमानस्य आत्मनः

“आत्मा श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
"

इत्यादिश्रुतेः तत्त्वज्ञानाभ्यासादविद्यावरणापगमे निरवधिकनिरतिशयस्वप्रकाशनैसर्गिकानन्दसुन्दरतया संवेदनं मोक्षः ।
यत् श्रुतिः

“विज्ञानमानन्दं ब्रह्म ।
"

इति ।
“विशुद्धचित्तमात्रं मोक्षः” तन्मते हि स्वभावतः प्रभास्वरस्वरूपस्य चित्तसन्तानस्यानाद्यविद्याबलात् रागादिभिरागन्तुकैर्मलैरावृतत्त्वेऽपि नैरात्म्यादिभावनाभ्यासात् तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्तिबलादविनश्वरज्योतीरूपस्वस्वरूपसाक्षत्कारो मोक्षः, यदाहुः –

“प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥
"

इति ।
वैभाषिकाणां “दीपवत् सन्ततिक्षयो मोक्षः” ।
तन्मते हि क्लेशकर्मादिहेतुसमुत्थं तत्फलरूपं रूपादिस्कन्धपञ्चकम्, इति तदुभयात्मायं संसारः, यदाहुः –

“हेतुफले संसारः ।
"

इति मोक्षः; पुनर्दीपस्य यथा स्नेहादिकारणक्षयात् पुनरुत्पादायोगात् निरोधः, तथैव नैरात्म्यादिभावनाभ्यासात् क्लेशकर्मादिप्रहाणेन रूपादीनां पञ्चानामपि स्कन्धानाम् इति, यदाहुः –

“दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
देशं न कञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात्केवलमेति शान्तिम् ॥

योगी तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
देशं न कञ्चिद्विदिशं न कञ्चित् क्लेशक्षयात्केवलमेति शान्तिम् ॥
"

इति ।
प्रलयाकलानां शवेद्यापवेद्यात्मेति” विशेषणोपादाने च अयमभिप्रायः – अत्राद्ये पक्षद्वये ब्रह्मण आनन्दमयत्वात् स्वात्मपरामर्शकतया सवेद्यप्रलयाकलप्रायत्वम्, इतरत्र पुनरेकस्य नित्यस्य कस्यचिद्वेदकस्य अनभ्युपगमात् अपवेद्यप्रलयाकलप्रायत्वम्, पक्षचतुष्टयस्य अस्य पक्षान्तरोपलक्षणत्वात् अक्षपादमतादावात्मनः सर्वगुणोच्छेदात्मनि अपवर्गेऽपि अपवेद्यप्रलयाकलप्रायत्वमेवावसेयम्, प्रलयाकलानां च मलद्वयावशेषात् संसारकारणस्याप्रक्षयात् संसारित्वमेव, इति- एतत्प्रायस्य मोक्षस्यापि हेयत्वमुक्तम्, एवं च व्यर्थ एव तैस्तत्तत्तत्त्वप्रलयात् स्वारसिक्यामपि प्रलयाकलतायां यत्नः कृतः इति भावः, अत एव श्वसङ्कल्पेन भावितः” इत्यनेन च अस्य पक्षचतुष्टयस्य काल्पनिकत्वात् अवास्तवत्वं प्रकाशितम् ॥ २९-३० ॥

ननु इह “बन्धप्रक्षयो नाम मोक्षः” स च

“…ऽन्धात्तैमिरिको वरः ।
"

इतिन्यायेन त्रिमलबद्धं सकलमपेक्ष्य द्विमलबद्धस्य प्रलयाकलस्य वृत्तः – इति किमिति नामास्य तत्प्रायस्यापि मोक्षस्य एकान्ततो हेयत्वम् ? - इत्याशङ्क्याह –

तं प्राप्यापि चिरं कालं तद्भोगाभोगभुक्ततः ।
तत्तत्त्वप्रलयान्ते तु तदूध्वार्म्ं सृष्टिमागतः ॥ ४-३१ ॥

मन्त्रत्वमेति सम्बोधादनन्तेशेन कल्पितात् ।

वैष्णवादिः खलु अयं जनः, तं – प्रलयाकलप्रायं मोक्षं चिरं कालमासाद्यापि प्रलयाकलसम्बन्धिमोहादिरूपभोगाभोगभुक् सन्, समनन्तरं तस्य प्रलयाकलभोगभूमेर्मायादेस्तत्त्वस्य प्रलयान्ते, पुनः सृष्टिप्रारम्भे

“…प्रबुध्यन्ते मन्त्रत्वाय भवाय ।
"

इत्यादिनीत्या आयातशक्तिपातत्त्वे सति अनन्तेशेन कृतात् ज्ञानक्रियोत्तेजनलक्षणात् सम्बोधात्, तदूर्ध्वां – मायोपरिवर्तिनीं शुद्धां सृष्टिं प्राप्तः सन् मन्त्रत्वमेति, अन्यथा पुनः संसारित्वम्- इति सिद्धम्, अत एव प्राप्तायामपि वैष्णवादिदर्शनान्तरोक्तायां मुक्तौ संसारस्य प्रक्षयो न जायते, इति तत्र हेयत्वमुक्तम् ॥ ३१ ॥

ननु समानेऽपि प्रलयाकलत्वे केषाञ्चिन्मन्त्रत्वं केषाञ्चित् संसारित्वम्, इत्यत्र किं निमित्तम् ? – इत्याशङ्क्याह-

एतच्चागेर् तनिष्याम इत्यास्तां तावदत्र तत् ॥ ४-३२ ॥

अग्र इति – नवमाह्निकादौ, यद्वक्ष्यति –

“एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः ।
स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥

ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः ।
ब्रह्मादिस्थावरान्तेऽस्मिन्संसरन्ति पुनः पुनः ॥

ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः ।
भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥

महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् ।
मन्त्रत्वं प्रतिपद्यन्ते चित्रं चित्राच्च कर्मतः ॥
"

इति ।
“इत्यास्ताम्” इति, प्रकृते तर्कतत्त्वेऽस्यानुपयोगात् ॥ ३२ ॥

ननु यदि नाम दर्शनान्तरोक्तया मुक्त्या संसारस्य प्रक्षयो न जायते, तत् कस्मादयं वैष्णवादिर्जनस्तत्र अनुरज्यते ? – इत्याशङ्क्याह –

तेनाज्ञजनताकॢप्तप्रवादैर्यो विडम्बितः ।
असद्गुरौ रूढचित् स मायापाशेन रञ्जितः ॥ ४-३३ ॥

यः खलु वैष्णवादिर्जनोऽज्ञजनतया ↓ कपिलादिना उपदेष्टृसमूहेन, कल्पितैः – प्रकृतिपुरुषविवेकादिभिः प्रवादैः मोहितः, स यतस्तेन सकललोकप्रसिद्धेन भगवता परमेश्वरेण, मायापाशेन- वामाख्यया शक्त्या, तत्रैव गाढानुरक्तीकृतः, अत एवासद्गुरौ तत्त्वोपदेष्टरि आचार्यविशेषे रूढचित् – आश्वस्तो, न तु जिज्ञासामात्रवान्, सद्गुरौ पुनराश्वस्तस्य साक्षादेव मोक्षो भवेदित्यर्थसिद्धो व्यतिरेकः, अत एव चानेन तर्कतत्त्वानन्तर्येण अनुजोद्देशोद्दिष्टं तदनुषक्तमेव गुरुसतत्त्वमपि प्रतिपादयितुमुपक्रमः कृतः ॥ ३३ ॥

ननु यद्येवं तर्हि अस्य वैष्णवादेर्वामाधिष्ठितत्त्वात् सद्गुरावेवाश्वासो न जायते, इति का कथा साक्षान्मोक्षावाप्तौ ? – इत्याशङ्क्याह –

सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति ।
सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ ४-३४ ॥

सोऽपीति – असद्गुरौ रूढचित् वैष्णवादिः, ननु युक्तियुक्ते वस्तुनि तर्केण प्ररोहः क्रियते शिवशक्त्या च सद्गुरुप्राप्तिः, इति सर्वत्रैवोक्तम् –

“यत्र रूढिः प्रजायेत युक्तियुक्ते विनिश्चयात् ।
शुद्धविद्याप्रसादोऽसावित्याह भगवाञ्छिवः ॥
"

इति, सेति शुद्धविद्या, इच्छेति सद्गुरुप्राप्तिपर्यवसायिनी अनुग्रहरूपा ॥ ३४ ॥

न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह –

श्रीपूर्वशास्त्रे तेनोक्तं स यियायुः शिवेच्छया ।
भुक्तिमुक्तिप्रसिर्द्ध्य्थं नीयते सद्गुरुं प्रति ॥ ४-३५ ॥

सः – रुद्रशक्तिसमाविष्टः, स्वस्वरूपं प्राप्तुमिच्छुः, ज्येष्ठाख्यशक्तिरूपया शिवेच्छया सद्गुरुं प्रति नीयते – सद्गुर्वाभिमुख्येन प्रवर्त्यते, येनास्य भुक्तिमुक्ती सिद्ध्यतः, तेन सत्तर्कशिवशक्त्योरभेदात् यत् सत्तर्केण सद्गुर्वाभिमुख्येन प्रवर्तनं तत् शिवशक्त्यैव, इति सिद्धम् ॥ ३५ ॥

ननु शर्वस्य शिवेच्छयैव असद्गुरौ सद्गुरौ वा आभिमुख्यमभिजायते” इत्युक्तम्, तत् सद्गुरावेव तदस्तु, किं क्रमेण ? – इत्याशङ्क्याह –

शक्तिपातस्तु तत्रैष क्रमिकः सम्प्रवर्तते ।
स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥ ४-३६ ॥

शास्त्रान्तरे इति – अर्थादसत्पथे वैष्णवाद्ये, सत्पथं शैवगुरुशास्त्रलक्षणम्, तत्रेति – असद्गुर्वाद्याश्रयानन्तरं सद्गुर्वाद्याश्रिते ॥ ३६ ॥

ननु अयं लोकश्चेत् सद्रूपमसद्रूपं वा गुरुं शास्त्रं च शक्तिपातवशादाश्रयेत् तदस्तु, को नाम दोषः, तयोरेव पुनरसत्त्वे सत्त्वे वा किं निमित्तम् ? – इत्याशङ्क्याह –

गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम् ।
शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविञ्च्यते ॥ ४-३७ ॥

अत्रेति – समनन्तरोक्ते, पुरास्तादिति – शक्तिपाताह्मिकादौ, विभेदकं – विशेषे हेतुः, एवं वामाख्यया मायाशक्त्या अधिष्ठिता दर्शनान्तरीया गुर्वाद्याः, ज्येष्ठाशत्तया पुनरास्माकाः, तेन तच्छक्त्यैवाधिष्ठितोऽयं लोकः तत्रश्वस्तः स्यात् ॥३७॥

न च एतदप्रमाणकम्, इत्याह –

उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः ।
सर्वान्भ्रमयते माया सामोक्षे मोक्षेलिप्सया ॥ ४-३८ ॥

भ्रमयते इति अतस्म्मिस्तद्ग्रहात्, तदाह “अमोक्षे मोक्षलिप्सया” इति, अत्र चार्थद्वारेण पाठे अयमाशयो – यत् तत्र बहुधोक्तमिति, तदुक्तं –

“अतः परं भवेन्माया सर्वजन्तुविमोहिनी ।
निर्वैरपरिपन्थिन्या यया भ्रमितबुद्धयः ॥

इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ।
सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् ॥

गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ।
असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः ॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।
"

इति ।
तथा

शङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविनिश्चये ।
न तांल्लङ्घ।
यितं शक्ता यदान्ये मोक्षवादिनः ॥

क्लिश्यन्ते मायया भ्रन्ता अमोक्षे मोक्षलिप्सया ।
"

इति ॥ ३८ ॥

ननु यदि वैष्णवादिरयं जनो मायया भ्रमितः तत् तस्य तत्रैव संस्कारप्ररोहात् असन्मार्गादवरोहो न स्यात्, इत्यस्य कदाचिदपि सन्मार्गारोहो न भवेत् ? – इत्याशङ्क्याह –

यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः ।
स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ ४-३९ ॥

आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः ।

यः पुनस्तत्र वैष्णवादौ संस्कारदार्ढ्यात् जातप्ररोहोऽपि उद्यन्योऽसौ सत्तर्कात्मा परामर्शः तेन विशारदः – सारेतरविभागकुशलः, अत एव स सत्तर्कात्मशुद्धविद्यामाहात्म्यात् ज्येष्ठाशक्त्यधिष्ठानपवित्रीभूतः सन् निर्विघ्नमेव सन्मार्गमारोहति – अस्मद्दर्शननिष्ठो भवेत्, येनास्य साक्षात् मोक्षः स्यात् ॥ ३९ ॥

ननु अस्य परामर्शोदये किं निमित्तम् ? – इत्याशङ्क्याह –

स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ ४-४० ॥

स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः ।

स्वत एव – लोकप्रसिद्धगुरूपदेशादिनिमित्तानपेक्षम्, न तु सर्वसर्विकया निर्निमित्तमेव, वस्तुतः पारमेश्वरशक्तिपातादेर्निमित्तान्तरस्यापि सम्भवात्, अत एव चास्य यौगिकमपि नाम अस्मद्दर्शनेऽभिहितम्, इत्याह स च” इत्यादि ।
स इति – स्वयं प्रवृत्ततर्कः, सांसिद्धिक इति – तर्केण सह संसिद्ध्या जन्मनागत इत्यर्थः ।
उक्तं च

“गुरुशास्त्रानपेक्षं च यस्यैतत्स्वयमुद्भवेत् ।
स संसिद्धिक इत्युक्तस्तत्त्वनिष्ठो महामुनिः ॥
"

इति ।
अत एव स्व आत्मीयो, न तु गुर्वादिपरापेक्षः, इदमेवेति सुनिश्चितं ज्ञानमात्मा स्वभावो यस्य स तथोक्तः ॥ ४० ॥

ननु अन्यत्र परतत्त्वाधिगमे गुर्वाद्यन्यदपि कारणतयोक्तम्, इह पुनः कथं स्वत एव इति “एकमेव” – इत्याशङ्क्याह –

किरणायां यदप्युक्तं गुरुतः शास्त्रः स्वतः ॥ ४-४१ ॥

तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः ।

यदपि किरणाख्यायां संहितायां मायाधर्मैः शून्यं परं तत्त्वं ज्ञातुम् –

“शून्यमेवंविधं ज्ञेयं गुरुतः शास्त्रः स्वतः ।
"

इत्यादिना कारणत्रयमुक्तम्, तत्र उत्तरोत्तरं मुख्यं विवक्षितम्, यथा – गुरुतः शास्त्रम्, ततोऽपि स्वपरामर्शः, यतः पूर्वः पूर्वो यथा गुरुः शास्त्रे उपायः, तदपि स्वपरामर्शे ।
एवम्

“उपादायापि ये हेयास्तानुपायान्प्रचक्षते ।
"

इत्याद्युक्तयुक्त्या गुरुशास्त्रयोरुपायत्वादमुख्यत्वम्, इति स्वपरामर्शस्यैव प्राधान्यम्, येन अत्रास्यैव उपादानम् ॥ ४१ ॥

तेन यस्य स्वत एव परामर्श उद्भवेत् स एव सर्वत्र अधिकृतः, इत्याह –

यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥ ४-४२ ॥

अभ्षिक्तः स्वस्ंवित्तिदेवीभिर्दीक्षितश्च सः ।

यस्य स्वतो – गुर्वादिनैरपेक्ष्येण, अयं समनन्तरोक्तः सत्तर्क उदेति, स सर्वत्रैव – योगज्ञानादावधिकारवान्भवेत् ।

ननु

न चाधिकारिता दीक्षं विना योगेऽस्ति शाङ्करे ।
"

इत्याद्युक्त्या दीक्षादिकमपहाय कथमस्य सर्वत्रैवाघिकारः ? – इत्याशङ्क्योक्तं – श्वसंवित्तिदेवीभिर्दीक्षितोऽभिषिक्तश्चेति ↓ स्वा आत्मीया याः संवित्तय इन्द्रियवृत्तयः ता एव

“बहिर्मुखस्य मन्त्रस्य वृत्तयो या प्रकीर्तिताः ।
ता एवान्तर्मुखस्यास्य शक्तयः परिकीर्तिताः ॥
"

इत्याद्युक्त्या प्रमात्रैकात्म्यमभिद्योतयन्त्यो देव्यः, ताभिर्ज्ञानक्रियोत्तेजनेन सर्वत्रैव स्वातन्त्र्यमापादितः, इत्यर्थः ॥ ४२ ॥

अतश्च स एव परमुत्कृष्ट इत्याह –

स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ ४-४३ ॥

तत्सन्निधानेनान्येषु कल्पितेष्वधिकारिता ॥

सर्वाचार्याणां वक्ष्यमाणानामकल्पितकल्पकादीनां मुख्यत्वादेव च तत्सन्निधावन्येषां न परानुग्रहादावधिकारः, इत्युक्तं “तत्सन्निधाने न” इत्यादि, यद्वक्ष्यति –

“यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ।
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः ॥

तत्सन्निधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ।
किन्तु तूष्णीं स्थितिर्यद्वा कृत्यं तदनुवर्तनम् ॥
"

इति ॥ ४३ ॥

ननु गुरुतः शास्त्राधिगमः – इत्यत्र सर्वेषामविवादः, तद्यस्य गुरुरेव नास्ति तस्य शास्त्राधिगमे का वार्ता ? इत्ययं स्वयं प्रवृत्ततर्कोऽपि दीक्षाद्यारभमाणः

“शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ।
"

इत्याद्युक्त्या कां नाम सिद्धिमासादयेत् ? – इत्याशङ्क्याह –

स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ ४-४४ ॥

मन्यते, इत्यवबुद्ध्येते ॥ ४४ ॥

ननु गुर्वादिनैरपेक्ष्येण कथमेतावतैव समस्तशास्त्रावबोधो भवेत्? इत्याशङ्क्याह –

शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् ।

न च एतद्युक्तिमात्रेणैव सिद्धम्, अपि त्वागमेनापि इत्याह –

सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ ४-४५ ॥

इति श्रीपूर्ववाक्ये तद् अकस्मादिति-शब्दतः ।

तत् – सत्तर्कनिमित्तकं समस्तशास्त्रावबोधलक्षणं वस्तु, “अकस्मादितिशब्दात्” उक्तमिति सम्बन्धः ॥
ननु “अकस्मात् इति” शब्दमात्रादेव कथमेतदुक्तं स्यात् ? – इत्याशङ्क्याह – लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते ॥ ४६ ॥

स चैष परमेशानशुद्धविद्याविजृम्भितम् ।

अकस्मादिति हि निर्निमित्तत्वमुच्यते, न चैतद्युज्यते, तथात्वे हि – नित्यसतत्त्वमतत्त्वं वा स्यात् ॥ ४६ ॥

तदत्र केनचित् हेतुना अवश्यभाव्यम्, स च न लोकप्रसिद्धो – गुरूपदेशादेः साक्षाददृष्टत्वात्, तेन पारिशेष्याल्लोकाप्रसिद्धः, स चैष फलानुमेयः पारमेश्वरः शुद्धविद्यासमुल्लासो, यद्वशादेव अस्य गुरुशास्त्रानपेक्षं सर्वविषयं प्रातिभं महाज्ञानमुदियात्, यद्वक्ष्यति –

“मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ।
अयमेव यतो याति बन्धमोक्षतथात्मताम् ॥

तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत् ।
"

इति ॥

उपाधिभेदाच्च अस्य नानात्वम्, इत्याह –

अस्य भेदाश्च बहवो निर्भित्तः सहभित्तिकः ॥ ४-४७ ॥

सर्वग्ॐऽशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः ।
भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ ४-४८ ॥

भित्तेर्निष्क्रान्तो निर्भित्तिः, सह भित्त्या वर्तते इति सहभित्तिकः इत्यस्य सांसिद्धिकस्य मुख्यं भेदद्वयम्, सहभित्तिश्च सर्वामेव भित्तिं गतः स्यात् अंशेन वा, इत्युक्तं शर्वग्ॐऽशगतश्च” इति, सोऽपि अंशगतः मुख्यांशनिष्ठितः स्यात् अन्यथा वा इति सहभित्तिकस्य त्रयो भेदाः, निर्भित्तिना सह अस्य चत्वारः, बहुत्वं च भित्तेस्तदंशानां च नानात्वात्, अत्र यद्भावाभावाभ्यां भेदोल्लासः तं भित्तिशब्दं व्याचष्टे “भित्तिः” इत्यादिना, परोपजीवित्वमिति – उपजीव्यमानः परो भित्तिरित्यर्थः, कः परः ? इत्याशङ्क्योक्तं “परः प्रज्ञाथ तत्कृतिः” इति, प्रज्ञा स्वविमर्शः, तत्कृतिः – तत्तत्कर्माभिधायकं परकृतं शास्त्रम् ।
ननु अस्य स्वत एव ज्ञानोदयादुपजीव्यमानतया परो नास्ति, इत्यतोऽस्तु नाम निर्भित्तिकत्वम्, को दोषः, सहभित्तिकत्वे पुनरस्य उच्यमाने संसिद्धिकत्वमेव न स्यात् ↓ परोपजीवित्वेन कल्पितत्त्वापत्तेः, न च असम्भवत्तत्सामान्यः तद्विशेषो नाम, इति कथमस्य सहभित्तिकत्वमुक्तम् ? उच्यते – इह खलु स्वत एव सत्तर्कोदयात् खिलीकृतनिखिलबन्धनस्य भैरवीभावपूर्णस्य संसिद्धिकस्य गुरोः स्वात्मनि कृतकृत्यत्वात् शेषवृत्तौ परानुग्रह एव परं प्रयोजनम्, यदुक्तं

प्राक् –

शमस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मणः ।
नानुग्रहादृते किञ्चिच्छेषवृत्तौ प्रयोजनम् ॥
"

इति ।
तथा

श्वं कर्त्तव्यं किमपि कलयंल्लोक एष प्रयत्नात्

नो पारक्यं प्रति घटयते काञ्चन स्वात्मवृत्तिम् ।

यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः

कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥
"

इति च ।
तत्रास्य निर्मलसंविदोऽनुग्राह्यान् प्रति निरुपकरणमेव अनुग्रहकारित्वम् – इत्यसौ निरनुसन्धानदर्शनमात्रेणैव स्वसंवित्सङ्क्रान्तेः स्वसाम्यापादनेन ताननुगृह्णाति, यदुक्तं प्राक् –

“तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥
"

इति, यदभिप्रायेणैव परानुग्रहेऽपि परानपेक्षित्वात् निर्भित्तिकः” इत्ययमुच्यते ।
अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम् – इति “असावित्थं मयायमनुग्राह्यः” इत्याद्यनुसन्धानेन अत्र प्रवृत्तेः सर्वमेव बाह्यमुपकरणजातमपेक्षते, येनास्य परानुग्रहः सिद्ध्येत्, यदुक्तं प्राक् –

शोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥
"

इति ।

“तदर्थमेव चास्यापि परमेश्वररूपिणः ।
तदभ्युपायशास्त्रादौ श्रवणाध्ययनादरः ॥
"

इति च ।
अनिर्मलचित्त्वेऽपि अनुग्राह्याणां वैचित्र्यात् तत्तदाशयानुसारेण उपकरणानामपि आनन्त्यम् – इति तदभिधायकं शास्त्रमपि सर्वेषामेवापेक्षणीयम्, अन्यथा हि परानुग्रहो न सिद्ध्येत्, यदुक्तम् –

“चित्तभेदान्मनुष्याणां शास्त्रभेदो वरानने ।
व्याधिभेदाद्यथा भेदो भेषजानां महौजसाम् ॥

यथैकं भेषजं ज्ञात्वा न सर्वत्र भिषज्यति ।
तथैकं हेतुमालम्ब्य न सर्वत्र गुरुर्भवेत् ॥
"

इति ।
यदभिप्रायेणैवास्य सर्वगतत्त्वमुक्तम् ।
कश्चिदपि असावेकमेव नियतं शास्त्रमधिकृत्य तदुचितानेव अनुग्राह्याननुगृह्णाति – इत्यंशगतत्त्वम् अस्योक्तम्, यद्वक्ष्यति –

“कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ।
सर्वशास्त्रर्थविच्च… ॥
"

इति ।

“यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ।
नान्यथा… ॥
"

इति च ।
तत्तच्छास्त्रात्मनामंशानामपि –

“वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥
"

इत्याद्युक्त्या यथोत्तरं मुख्यत्वम्, इतरेषां चामुख्यत्वम् ↓ इति मुख्यामुख्यरूपत्वमुक्तम् ।
न च अस्य एवमपि परमुखप्रेक्षित्वात् सांसिद्धिकत्वं खण्ड्यते – स्वात्मनि स्वत एव कृतकृत्यत्वात् परार्थमेतदपेक्षणात्, यदुक्तं प्राक् –

नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥
"

इति, तेनास्य स्वात्मन्यन्यानपेक्षणात् सांसिद्धिकत्वमेव ↓ इति यथोक्तमेव युक्तम् ॥ ४७-४८ ॥

न च एतत् स्वोपज्ञमेवोक्तम्, इत्याह –

अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ।
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ ४-४९ ॥

एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ ४-५० ॥

परशक्तिपातानुगृहीतत्त्वात् गुर्वाद्यनपेक्षणेन, अदृष्टम्- बाह्यदीक्षोपकरणोपलक्षणभूतम्, मण्डलं-यागादि येन सः, तथाविधोऽपि, अत एव तिलाज्याहुतिवर्जिताम्, असन्दिग्धां निर्वाणगामिनीं दीक्षां भजमानो, यः कश्चित् एवमेव – स्वत एव तात्त्विकेन रूपेण विशेषानुपादानात् स्वात्मानं वेत्ति, स दीक्षितः – स्वसंवित्तिदेवीभिरेव पाशक्षपणपुरःसरं स्वात्मज्ञानपात्रतामापादितः, अत एव स नित्यं योगी – व्युत्थानकालेऽपि परमेश्वरैकात्म्यवान्, अत एव स सिद्धिभाक् ↓ जीवन्नेव मोक्षलक्षणां सिद्धिं भजमानः – इत्येतत् श्रीत्रिंशिकाशास्त्रे प्रोक्तं – नैतन्निष्प्रमाणकमित्यर्थः ।
तत्र च

“अदृष्टमण्डलोऽप्येवम्… ।
"

इत्यादिश्लोकानन्तरम्

“अनेन ज्ञातमात्रेण… ।
"

इत्यादिग्रन्थान्तरं सम्भवदपि प्रकृतानुपयोगात् न पठितम्, अदृष्टमण्डलत्वादेव च “तिलाज्याहुतिवर्जितत्त्वादि” अवसीयते, इति – तदपि न पठितम् ॥ ४९-५०॥

अस्य च व्यपदेशान्तरमपि अस्ति, इत्याह –

अकल्पितो गुरुर्ज्ञेयः सांसिद्धिक इति स्मृतः ।

य एष गुरुः शंसिद्धिकः” इत्यस्मच्छास्त्रे स्मृतः, स आचार्यान्तरेण अनिष्पादितत्त्वात् “अकल्पितो” ज्ञेयः – अकल्पितशब्दव्यपदेश्योऽपि भवेदित्यर्थः ।

एवमकल्पितं गुरुमुक्त्त्वा तत्सम्बन्धतया गुर्वन्तरमपि आह –

यस्तु तद्रूपभागात्मभावनातः परं विना ॥ ४-५१ ॥

शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः ।

यः पुनः सांसिद्धिकरूपभागपि स्वयमुदिते ज्ञाने तावता परिपूर्ण्यस्याभावात्

“अहमेव परो हंसः… ।
"

इत्याद्युक्तेरात्मभावनाबलात्, परं गुर्वादिकमनपेक्ष्य शास्त्रवित्, स गुरुर्ज्ञानस्य सांसिद्धिकत्वेनाकल्पितत्त्वात् आत्मभावनातः शास्त्रवेदनक्रमेण कल्पनाच्च “अकल्पितकल्पकः” इत्यस्मच्छास्त्रे प्रोक्तः ॥ ५१ ॥

सांसिद्धिकवदस्यापि बहवो भेदाः, इत्याह –

तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ ४-५२ ॥

उपायः – शक्तिपातः ॥ ५२ ॥

ननु अस्य स्वयं प्रवृत्तज्ञानपारिपूर्ण्याय किमात्मभावनैव निमितम्, उतान्यदपि किञ्चित् ? – इत्याशङ्क्याह –

भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद् व्रताद्धुतेः ।
प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ ४-५३ ॥

अयं खलु महाज्ञानी भावनाद्यनन्तोपायमाहात्म्यात् गुर्वादिना परेणाकृतत्त्वात् अकल्पितम्, अत एवोदारं – महान्तम्, अभिषेकं प्राप्नोति शास्त्रज्ञानादावधिकारवान्भवति, इत्यर्थः ॥ ५३ ॥

ननु एवं ज्ञानावाप्तौ भावनादिनिमित्तानन्त्ये किं प्रमाणम् ? – इत्याशङ्क्याह –

श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले ।
श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ ४-५४ ॥

इदमिति – भावनादीनां निमित्तानामानन्त्यम् ॥ ५४ ॥

एवमनेकागमोक्तावपि निदर्शनार्थं प्रथमं श्रीसर्ववीरग्रन्थं पठति –

तस्य स्वेच्छाप्रवृत्तत्वात् कारणानन्ततेष्यते ।
कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ ४-५५ ॥

ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा ।
एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ ४-५६ ॥

संसारिणोऽनुगृह्माति विश्वस्य जगतः पतिः ।

तत्र हि

“अनादिमति संसारे कारणं परमेश्वरः ।
स्वभावेनैव जन्तूनामनुग्रहपरः सदा ॥
"

इत्यादिना परमेश्वरस्य स्वस्वातन्त्र्यादेव अनुग्रहकारित्वमुपक्रम्य

“तया बद्धाञ्छिवो जन्तून्स्वेच्छया मोचयत्यतः ।
"

इत्यादिना तदेव निर्वाह्य,अनेन ग्रन्थेन भगवतः स्वातन्त्र्येऽपि परानुग्रहे निमित्तान्तरोपलक्षितत्त्वमुक्तम्, तथाहि ↓ तस्य परमेश्वरस्यैव भगवतः

“इच्छैव कारणं तस्य… ।
"

इत्याद्युक्त्या स्वेच्छाया एवानुग्रहादिप्रवृत्तौ कारणत्वेऽपि अनुग्राह्यभेदात् तस्या अपि वैचित्र्यात् कारणानामानन्त्यमुच्यते, वस्तुतस्तु तदतिरेक्यन्यत् अस्यापेक्षणीयं नास्ति – इति बहुशः प्रागुक्तम्, तेन निखिलस्य जन्मवतो जन्तुचक्रस्य पालनादियोगात् “पतिः” परमेश्वरोऽसौ तत्तदाशयानुसारेण कदाचिद्भक्त्या कदाचिद्योगेन – इत्येवमाद्यैरनेकैः कारणप्रकारैः संसारिणः – सङ्कुचितं प्रमातृवर्गमनुगृह्णाति, सङ्कोचापहस्तनेन पूर्णज्ञानरूपतया प्रथयतीत्यर्थः ।
“एवमाद्यैः” इत्यनेन तपोजपादेर्ग्रहणम्, एवं पूर्णज्ञानावाप्तावनेकेउपायाः सम्भवन्ति, इति तात्पर्यार्थः ॥ ५५- ५६ ॥

एवमुपदर्शितेऽपि निमित्तानन्त्यसाधनाय प्रमाणेऽधिकावापं कर्तुं श्रीब्रह्मयामलग्रन्थं पठति –

मातृमण्डलसम्बोधात् संस्कारात्तपसः प्रिये ॥ ४-५७ ॥

ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनतो व्रतात् ।
सम्प्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ ४-५८ ॥

मातॄणां – चक्षुरादिकरणेश्वरीणम्, मण्डलस्य सम्यक् वृत्तिरूपतापरिहारेण शक्तिरूपतया परिज्ञानान्मातृमण्डलकर्तृकात् प्रियमेलापादिक्रमेण सम्बोधनाद्वा - इत्येवमाद्यैरनन्तैर्निमित्तैः

“…कुलमुत्पत्तिगोचरम् ।
"

इत्याद्युक्त्या कुले – स्वस्वरूपादतिरेकायमाणतया उत्पत्स्यमाने प्रमातृप्रमेयात्मनि विश्वत्र, सामान्यम् – अनुगामितया वर्तमानम्, अन्यथा हि अस्य भानमेव न भवेदिति भावः, अत एव कुले – आत्मनि, भवा येयं सिद्धिः, तां ददाति ↓ स्वात्ममात्ररूपतया प्रस्फुरत्परप्रमात्रात्म ज्ञानमवश्यं प्राप्यते इत्यर्थः, संस्कारात् - दीक्षादेः ॥ ५७-५८ ॥

ननु यद्येवम्, तर्हि अकल्पितकल्पकस्य गुरोः भावनादिहेतुजालनिष्ठत्वं नाम मुख्यं लक्षणम् ? इत्याशङ्कां ग्रन्थकृदेव स्वयं निराकर्तुमाह –

तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते ।
स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ ४-५९ ॥

यत् खलु स्वात्मलक्षणं सिसाधयिषितं परतत्त्वात्मकं पूर्णं ज्ञानं तदेव नाम यत्र क्वापि दृश्यते स एव अकल्पितकल्पको गुरुर्ज्ञेयो न पुनर्भावनादिहेतुजालमात्रनिष्ठः, एवं हि

नावश्यं कारणानि कार्यवन्ति भवन्ति ।
"

इतिन्यायेन भावनादौ हेतुजाले कृतप्रयत्नोऽपि कश्चित् कदाचित् पूर्णं ज्ञानं नासादयेत्, – इति कथमिव अस्य अकल्पितकल्पकत्वं स्यात्, एवंरूपस्य ज्ञानस्य कादाचित्कत्वात् केनचित् कारणेन भाव्यम्, इत्युक्तं “तत्र हेतुजालं प्रकल्प्यताम्” इति, तेनेह फलभूतं पूर्णज्ञानवत्त्वमेवास्य मुख्यं लक्षणम् – इति तात्पर्यार्थः ॥ ५९ ॥

न च एतदस्मदुपज्ञमेव, इत्यर्थद्वारेण संवादयति –

तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले ।

“भावितः सुप्रसन्नात्मा जपहोमरतः सदा ।
"

इत्यादि अन्यत् शास्त्रन्तरोक्तं लक्षणमपहाय, तत्त्वज्ञानमेव मुख्यं लक्षणं श्रीब्रह्मयामले गुरोरुक्तम्, इति वाक्यार्थः, यदभिप्रायेणैव

शर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।
"

इत्यादि अन्यत्रोक्तम् ॥

ननु भावनादौ कृतप्रयत्नस्यापि न किचित्फलं जायते इत्येतदागमेन विरुद्ध्यते ? इत्याशङ्कां गर्भीकृत्य पुनरपि अर्थद्वारेण संवादयति –

तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ ४-६० ॥

साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते ।
आत्मीयमस्य सञ्ज्ञानक्रमेण स्वात्मदीक्षणम् ॥ ४-६१ ॥

सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति ।

तत्र – श्रीब्रह्मयामले एव च – अविकल्पतः,

“…षंशयानो न सिद्ध्यति ।
"

इत्याद्युक्त्या, विकल्पः – संशयः, तदभावात् – स्वपक्षदार्ढ्येन स्वकल्पाम्नातायां लक्षजपादिरूपायां सेवायां कृतायामपि, साधकस्य केनापि वैगुण्येन, तत्फलभूता मनीषितार्थसम्पत्तिलक्षणा सिद्धिः, न चेत्स्यात्, तदा किं तेन कार्यम्, इति भगवत्या चोदिते – प्रश्निते सति, आत्मीयम् – आत्मसम्बन्धि, सं सम्यक् – संशयविपर्यासरहितम् “आत्मैवेदं सर्वम्” इत्येवमात्म, यत ज्ञानम्, तस्य क्रमो – यथायथमभ्यासातिशयात् पराधाराधिरोहः, तेन सस्फुरत्वप्रसिद्ध्यर्थम्, अर्थात् ↓ जप्यस्य मन्त्रादेः स्वरूपोत्तेजनाय निमित्तान्तरभूतम्, स्वात्मनो दीक्षणम्परसंविद्रूपतया प्रत्यवमर्शनं नाम, भगवतोत्तरमुक्तम्, येन सिसाधयिषितं वस्तु साधकस्य प्रसिद्ध्यतिफलपर्यन्तां निष्पत्तिं यायादित्यर्थः ॥ ६०-६१ ॥

अत्रैव तात्पर्यार्थं व्याचष्टे –

अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ ४-६२ ॥

उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः ।

अनेन-श्रीब्रह्मयामलग्रन्थेन, साधकस्य स्वात्मीयमेव विज्ञानं जप्यस्य मन्त्रादेः सस्फुरत्वे निमित्तमुक्तम्, यदि नाम मुख्यत्वेनाचार्यः परमेश्वरैकात्म्यायोगात् सस्फुरो न स्यात्, तेन सस्फुरे पुनराचार्ये सति तमेव स्वात्मनि दीक्षां कारयेत्, येनास्य मन्त्रोऽपि सस्फुरः स्यात् ॥ ६२ ॥

ननु आचार्यः सस्फुरो भवतु अस्फुरो वा, किमनेन नः प्रयोजनम्, तमन्तरेण पुनः स्वयमेव दीक्षा न भवेत्, एवं हि आगमविरोध आपतेत्, तदपव्याख्यानमेतत् ? – इत्याशङ्क्याह –

तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ ४-६३ ॥

विधिं प्रोक्तं सदा कुर्वन् मासेनाचार्य उच्यते ।
पक्षेण साधकोऽर्धार्धात् पुत्रकः समयी तथा ॥ ४-६४ ॥

तत्रैव – श्रीब्रह्मयामले, पुनः – समनन्तरोक्तप्रश्नोत्तरानन्तरम्, श्रीमद्रक्तायाः – श्रीचण्डिकाया विधाने, प्रकर्षेण – गुर्वादिनैरपेक्ष्येण, उक्तं विधिं – तन्मन्त्रग्रहणजपध्यानादिरूपम्, सदा – प्रत्यहम्, साधकः कुर्वन्, मासेन अभिषेकादि परिहारेण “आचार्यः” उच्यते – तदुचितमधिकारमारभमाणो न प्रत्यवैतीत्यर्थः ।
एवं पक्षेण शाधकः” सार्धेन-दिनसप्तकेन “पुत्रकः” पादोनेन दिनचतुष्टयेन शमयी” इति ॥ ६३-६४ ॥

ननु दीक्षामन्तरेण कथं समय्यादिरूपत्वं स्यात् ? – इत्याशङ्क्याह -

दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः ।
गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ ४-६५ ॥

दीक्षयेदित्यनेन सर्वमेव गुरुकर्तृकं कर्मोपलक्षितम्, यदुक्तम् –

“जुहोति जपति प्रेद्धे सर्वत्रैवात्र चण्डिका ॥
"

इति ।
क्रमादिति-समय्यादिरूपात् ।
ननु यद्येवं तर्हि गुरुप्रशंसाभिधायिनो निखिलस्यैव आगमस्यानर्थक्यमापतेत् ? इत्याशङ्क्याह – “गुरोरलाभे” इत्यादि, प्रोक्तस्य – अकल्पितकल्पकादेः सस्फारस्य गुरोलाभे सति, एतं – समनन्तरोक्तम्, स्वयमेव मन्त्रग्रहणादिरूपं विधिं समाचरेत् – अनुतिष्ठेत्, अन्यथा पुनराचार्यमेव सर्वं कारयेत्, इति भावः ॥ ६५ ॥

ननु यद्येवं श्वयं गृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः ।
" इत्यादिना पुस्तकाधीतविद्यानं क्लेशभागित्वाद्यात्मा दोषः कस्मादन्यत्रोक्तः? इत्याशङ्क्याह –

मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः ।
उक्तो यस्तेन तद्दोषाभावेऽसौ न निषिद्धता ॥ ४-६६ ॥

मते इति – श्रीसिद्धामते, यद्वक्ष्यति –

“पुस्तकाधीताविद्याश्चेत्युक्तं सिद्धामते यतः ।
"

इति ।
तेनेति – भगवता, ईदृश इति – समन्तरोक्तः सस्फुरत्वाभावलक्षणः, पुस्तकावस्थिता हि मन्त्रा निर्वीर्या इति ततो गृहीतानां तेषाम्, न स्वसिद्धिसाधनाय निजं तेजः प्रस्फुरेत्, इति – पुस्तकाधीतविद्यानां सिद्ध्यभावात् क्लेशमात्रभागित्वमुक्तम्, यद्वक्ष्यति –

“लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ।
सङ्केतबलतो नास्य पुस्तकात्प्रथते महः ॥
"

इति ।
स एव चेद्यदा दोषो न स्यात् तदा नायं कश्चिन्निषेधः, “पुस्तकान्मन्त्रा नाध्येयाः” इति, पुस्तकाधीतानां हि मन्त्राणां समनन्तरोक्तया युक्त्या केषाञ्चन निजं तेजः प्रस्फुरेत्, यद्वक्ष्यति –

“ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ।
ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ॥
" इति ॥ ६६ ॥

एतदभिप्रायावेदकं च तत्रत्यमेव ग्रन्थं पठति –

मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते ।
पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ ४-६७ ॥

तामसाः परहिंसादि वश्यादि च चरन्त्यलम् ।
न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ ४-६८ ॥

इह खलु

“कथितं गोपितं तेभ्यस्तस्माल्लेख्यं न पुस्तके ।
गुरुवक्त्रात्तु लभ्येत अन्यथा न कदाचन ॥
"

इति ।
तथा

श्वमन्त्ररक्षणं यत्नात्सर्वदा कारयेत्सुधीः ।
"

इत्यादि भगवदुक्तं बहुशेऽवधार्य, मन्त्रादीनां पुस्तकाद्यलिखनेन “गोपने किं प्रयोजनम्” ? इति देव्या प्रश्निते, भगवता “पुस्तकाधीतविद्या” इत्यादिनोत्तरं दत्तम्, मन्त्राणां हि पुस्तकादौ लिखने केचन “दीक्षासमयवर्जिताः” अत एव “तामसाः” तमो – बौद्धपौंस्नत्वेन द्विप्रकारमज्ञानम्, तत्र भवा ज्ञानशून्याः, ततस्तानधीत्य “परहिंसाद्यर्थं चरन्ति” न पुनस्तत् सिद्ध्येत्, यतस्ते मन्त्रादीनां तत्त्वं न जानते गुरुमुखाभावात्, ततश्च स्फुटमेव तेषां निरयपातादिदोषभागित्वं स्यात्, यतस्ते पुस्तकाधीतत्त्वेन मन्त्रणां निर्वीर्यत्वात्, तत्तद्वश्याद्यारभमाणास्तत्सिध्द्यभावात्, शास्त्रे स्वयं शिथिलितास्थाः सन्तः, परेषामपि तत्र अनादरमुत्पादयन्ति – इति शास्त्रप्रक्रियोत्सादे निमित्तत्वमासादयेयुः ॥ ६७-६८ ॥

अत्रैव वैषम्यात् पदयुगं व्याचष्टे –

पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् ।

अन्योन्यमिति – यतः पुस्तकाधीतविद्या अतो दीक्षासमयवर्जिताः, यतश्च दीक्षासमयवर्जिताः अतश्च पुस्तकाधीतविद्या इति ॥

एवमकल्पितकल्पकं गुरुमभिधाय कल्पितमपि अभिधातुमुपक्रमते

यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ ४-६९ ॥

गुरोः स शास्त्रम्मन्विच्छुस्तदुक्तं क्रममाचरेत् ।

यः कश्चित् पुनः शास्त्रपरामर्शमन्तरेण सत्तर्कात्मिकां शुद्धविद्याख्यां संविदं नाभ्येति – यस्य स्वत एव सत्तर्को नोदियात्, स कस्यापि अकल्पितादेर्गुरोः सकाशात् शुश्रूषादिना शास्त्रमन्वेष्टुमिच्छुः सन् वृद्धव्यवहारद्यधिगतं शास्त्रोक्तमेव “इदं कृत्वा इदं कुर्यात्” इत्येवमात्मकं क्रममाचरेत्, येनास्य गुर्वाराधनक्रमेण शुद्धविद्योदयः स्यादिति ॥ ६९ ॥

तदाह येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ ४-७० ॥

तद्दीक्षाक्रमयोगेन शास्त्रार्थ वेत्त्यसौ ततः ।
अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ ४-७१ ॥

सन्नप्यशेषपाशौघविनिवर्तनकोविदः ।

इह खलु

“तमराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् ।
"

इत्यादिशास्त्रोक्तक्रमेण प्रथमं गुरोरेव तावदाराधनं कार्यम्, तच्च नोपायमन्तरेण भवेत् – इतितराम् तत्स्वीकारे यतितव्यम्, स च नैकः – आराधनीयानामानैक्यात्, कश्चिद्धि शुश्रूषया, कश्चिद्धनेन, कश्चिच्च प्रतिविद्यादिना आराध्यते, इति “येन केनाप्युपायेन” इति सामान्येनोक्तं – यस्य हि यथाराधनं सिध्द्यति तस्य तथा कार्यमिति भावः, तच्च न दृष्टवत्कार्यार्थमेव कार्यम्, इत्युक्तं “भक्तित” इति, आराधिताच्च तस्माद्दीक्षाक्रमसम्बन्धो भवेत् – येनास्य शास्त्राधिगमः सिद्ध्येत्, अन्यथा हि शास्त्रश्रवणमात्रेऽपि अधिकारो न स्यात्, तदधिगमे पुनः का नाम सम्भावनेति भावः, यदुक्तम् –

“अदीक्षितानां पुरतो नोच्चरेच्छिवसंहिताम् ।
"

इति ।
तदनन्तरं च

शंहितापारगस्येह सेकः कार्योऽन्यथा नहि ।
"

इत्याद्युक्तदृशा “अभिषेकम्” अर्थात् तस्मादेव गुरोः सम्यक् पूर्णज्ञानादिरूपत्वेनासाद्य, यः सर्वत्रैव परानुग्रहादावधिकृतो भवेत्, स पुनराचार्यान्तरेण निष्पादितत्त्वात् कल्पितोऽपि सन्, अशेषस्य पाशौघस्य, विशेषण – निःसंस्कारम्, निवर्तने कोविदः – प्रगल्भते इत्यर्थः ।
अनेन कल्पितत्त्वेऽपि अस्य फलतः कश्चिदकल्पितान्न विशेषः – इत्यावेदितम् ।
परमेश्वर एव हि आचार्यमूर्तिमाश्रित्य अशेषपाशौघविनिवर्तनं कुर्यात्, तदुक्तम् –

“यस्मान्महेश्वरः साक्षात्कृत्वा मानुषविग्रहम् ।
कृपया गुरुरूपेण मग्नाः प्रोद्धरति प्रजाः ॥
"

इति ।
तदत्र किं वस्तुतः कल्पिताकल्पितविभागेन इति भावः ॥ ७०-७१ ॥

एवमकल्पितत्त्वेऽपि कस्यचिद्यथा स्वात्मज्ञानपारिपूर्ण्याय भावनादिना कल्पितत्त्वमपि सम्भवेदिति “अकल्पितकल्पकः” उक्तः, तथा कल्पितस्यापि गुर्वाद्यनपेक्षमेव स्वप्रतिभाबलात् क्वचिच्छास्त्रेऽधिगमो जायते – इत्यकल्पितत्त्वं भवेत्, इति कल्पिताकल्पिताख्यं गुरुमप्यभिधातुमाह –

यो यथाक्रमयोगेन कस्म्मिश्चिच्छास्त्रवस्तुनि ॥ ४-७२ ॥

आकस्मिकं व्रजेद्बोधं कल्पिताकल्पितो हि सः ।

यः कश्चित्कल्पितो गुरुः, कस्म्मिश्चित् – लोकोत्तरे शास्त्रीये पारर्माथिकप्रमेयरूपे वस्तुनि, आकस्मिकं – गुर्वाद्यनपेक्षमेव, यथाक्रमयोगेन – यथावस्तु, बोधमासादयेत्, स कल्पितत्त्वेऽपि स्वयमेव बोधप्रवृत्तेरकल्पितः ॥ ७२ ॥

ननु कल्पितस्य गुरोः क्वचिदंशे यद्यकल्पितत्त्वं भवेत् तावता किम् ? इत्याशङ्क्याह –

तस्य योऽकल्पितो भागः स तु श्रेष्ठतमः स्मृतः ॥ ४-७३ ॥

उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः ।

श्रेष्ठतमत्वे शुद्धविद्यातारतम्यकृत उत्कर्षो हेतुः – शुद्धविद्याया एव तरतमभावो हि अकल्पितत्त्वादौ निमित्तमिति भावः ॥ ७३ ॥

ननु “कल्पितस्याकल्पितस्य वा गुरोः फले न कश्चिद्विशेषः” इति समनन्तरमेवोक्तम्, तदकल्पितस्य कल्पितापेक्षया श्रेष्ठतमत्वे किं निमित्तम्? इत्याशङ्क्याह –

यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ ४-७४ ॥

तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः ।
तत्सन्निधौ नाधिकारस्तेषं मुक्तशिवात्मवत् ॥ ४-७५ ॥

किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् ।

यद्यपि भेदेश्वरवादे

“…परेह शिवसमता ।
"

इत्याद्युक्तेः अणूनां सर्वज्ञत्वसर्वकर्तृत्वाद्यभिव्यक्तेरविशेषात् “शिवसाम्यं नाम मुक्तिरिष्यते” तथापि मुक्ताणुभ्योऽस्यास्ति विशेषो – यदयमनादिसिद्ध इति, तेषं पुनःसर्वज्ञत्वादि तदुपाधिकम्, इति यथा सर्वज्ञत्वाद्यविशेषेऽपि तस्मान्मुक्तशिवा न्यूनाः, तथैव अकल्पितादपि गुरोः कल्पितादयः, अस्य हि स्वत एव प्रवृत्तेरनुपाधिकं ज्ञानम्, एषां पुनः परोपाधिकमिति, अत एव यथा परशिवसन्निधौ मुक्तशिवानां सृष्ट्याद्यधिकारित्वे नाघिकारः, तथैव सांसिद्धिकस्य गुरोः सन्निधाने कल्पितादीनां दीक्षादौ, इति युक्तमुक्तम् अकल्पितः श्रेष्ठतमः” इति ।
ननु यद्येवं तत् किं तत्सन्निधौ मुक्ताणुवत् कल्पितादयोऽपि किञ्चित् कुर्वन्ति न वा ? इत्याशङ्क्योक्तं “किं तु तूष्णींस्थितिः” इत्यादि ॥ ७४-७५ ॥

ननु इह स्वतः प्रवृत्ततर्कस्यापि अकल्पितस्य यन्नाम शास्त्रादिसापेक्षत्वं प्रागुक्तम्, तत् किमस्य, दूषणमुत भूषणम् ? इत्याशङ्क्याह –

यस्त्वकल्पितरूपोऽपि संवाददृढताकृते ॥ ४-७६ ॥

अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः ।

यः पुनरकल्पितरूपोऽपि गुरुः स्वानुभवमात्रगोचरस्य स्वयम्प्रवृत्तस्य ज्ञानस्य परत्रापि तथोपलभ्यमानत्वात्मना संवादनेन “एवमेतत् नान्यथा” इत्येवं रूपं दार्ढ्यं कर्तुम्” अन्यतो - गुरुशास्त्रादेः समस्तात्, गुरुतः शास्त्रतो वा व्यस्तात्, प्राप्तातिशयः स स्वात्मनि नैराकाङ्क्ष्येण शाक्षाद्भैरवः” पूर्णपरसंविदाविष्ट इत्यर्थः ॥ ७६ ॥

ननु कथं संवादमात्रादेव एतत्स्यात् ? – इत्याशङ्क्याह –

यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ ४-७७ ॥

आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते ।

यतः शास्त्राधिगमक्रमेण शास्त्रज्ञगुरुप्रज्ञाया अनुशीलनाच्च “इत्थमिदम्, नानित्थम्” इत्येवं रूपात् पर्यालोचनात् ससंवादं सत् ज्ञानम् आत्मनि सञ्जातप्रत्ययम् “एवमेवैतत्, नान्यथा” इत्येवन्निश्चयोत्पादात् दार्ढ्यं प्राप्तम्, अत एव नैराकाङ्क्ष्यात् पूर्णं सत् भैरवायते – निराशंसानुत्तरपरज्ञानरूपतया प्रस्फुरति, इत्यर्थः ॥ ७७ ॥

अत एवागमोऽप्येवम्, इत्याह –

तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ ४-७८ ॥

त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने ।
तत्सङ्घातविपर्यासविग्रहैर्भासते तथा ॥ ४-७९ ॥

त्रिप्रत्ययमिति, यदुक्तं तत्र –

“त्रिप्रत्ययमिदं ज्ञानमात्मा शास्त्रं गुरोर्मुखम् ।
"

इति, तेनाकल्पितस्यापि गुर्वाद्यपेक्षणेन हेतुना, श्रीकिरणादौ यत् परतत्त्वज्ञाने गुर्वादि कारणत्रयमुक्तं तत् सङ्घातादिरूपत्वेन, तथा – उक्तेन प्रकारेण, भासते – सर्वस्यैव अनुभवसिद्धतया प्रस्फुरतीत्यर्थः, सङ्घातः – समस्तत्त्वम्, विपर्यासः – उक्तक्रमान्यथाभावः, कस्यचित् स्वतः प्रवृत्तेऽपि ज्ञाने गुरुशास्त्राभ्यां पूर्णता भवेत्, इति भावः, विग्रहो – व्यस्तत्त्वम्, – कस्यचिद्धि गुर्वादिभिरेककैरेव ज्ञानं जायते, इत्याशयः ॥ ७८-७९ ॥

ननु यदि नाम परतत्त्वज्ञाने गुर्वादीनां समस्तानामेव कारणत्वम्, तत् कथं व्यस्तानामप्युक्तम्, व्यस्तत्त्वेऽपि वा एकस्मादेव कार्यसिद्धेः किमन्येन ? इत्याशङ्क्याह –

करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् ।
कर्तुं वासी च टङ्कं च क्रकचं चापि गृह्मते ॥ ४-८० ॥

तावच्च छेदनं ह्येकं तथैवाद्याभिसन्धितः ।

तक्षादयो हि करणस्य छिदिक्रियायां साधकतमस्य वास्यादेर्विचित्रत्वात् तथाविधामेव तां छिदं – द्वैधीभावं कर्तुं समस्तमसमस्तं वा तदुपाददते, इति वाक्यार्थः ।
लोकेहि सरले यथा महति दारुणि वास्यादिभिर्व्यस्तैरवच्छेदः क्रियते वक्रकोटरादौ च समस्तैरित्याशयः ।
ननु करणवैचित्र्यात् कार्यवैचित्र्ये नास्ति विवादः, तत् वास्यादेः करणस्य भेदाच्छिदिक्रियापि भिन्नभिन्नैव, इति - व्यस्तैः समस्तैर्वा कथमेभिरेकमेव कार्यं क्रियते? इत्याशङ्क्याह - “तावच्च” इत्यादि, तावत् – तत्तद्वास्यादिकरणनिर्वर्त्यमियत् यच्छेदनं तद्ध्येकम्, न भिन्नभिन्नम्, तथैव च्च्छिदिषात्मन एकस्यैव आद्यस्याभिसन्धानस्य भावात् – परामर्शभेदादेव हि परामृश्यभेदो भवेदिति भावः, एवमेकस्यामपि छिदिक्रियायां वास्यादीनां समस्तानां व्यस्तानां च करणत्वे न कश्चिद्दोषः ॥ ८० ॥

एतदेव प्रकृते योजयति –

इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ ४-८१ ॥

न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् ।
प्रमात्राश्वासपर्यन्तो यतोऽधिगम उच्यते ॥ ४-८२ ॥

आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा ।
प्रमितेऽपि प्रमाणानामवकाशोऽस्त्यतः स्फुटः ॥ ४-८३ ॥

करणस्य – गुर्वादेः, स्वकम् – अनन्यसाधारणम्, वपुः – स्वरुपम्, तर्कज्ञानात्मिकायां मितौ, इत्थम् – उक्तेन व्यस्तसमस्तात्मना प्रकारेणैव वाच्यम्, यद्यपि गुर्वादेरेकैकस्यापि तत्त्वाधिगमेऽस्ति साधकतमत्वम्, तथापि यावता प्रमातुराकाङ्क्षा विरमेत्, तावदेव एषां व्यस्तानां समस्तानां वा विनियोगः, इत्याकूतम्, अत एव न मानं नाम मानत्वात्स्वतन्त्रम् इत्येव बलात्कारेण प्रमात्रपेक्षां विनां अधिगमं विदध्यात्, अधिगमो हि नाम “ज्ञातोऽयं मयार्थः” इत्येवम्पर्यवासनः प्रमातुराश्वासः, स एव चेन्नोत्पन्नः को नाम अधिगमार्थः, स च आश्वासः शक्तिपातस्य तीव्रतमत्वादिभेदात् तथा तीव्रतमत्वादिनैव क्रमेण विचित्रो, येन – गुर्वादेर्व्यस्तात् समस्ताद्वा उत्पद्यते इत्याशयः, अत एव बहिः प्रमितेऽपि अर्थे प्रमातुराश्वासानुत्पादात् प्रमाणान्तराणामस्ति निर्बाध उपयोगः ॥ ८१-८३ ॥

ननु अर्थालोकादिरूपा सामग्री चेन्न सङ्घटिता, तत् ज्ञानमेव नोत्पद्यते, इति कस्तत्र अधिगमार्थः अथ चेत् सङ्घटिता, तत् प्रथमाक्षसन्निपात एव प्रत्ययान्तरानपेक्षिणः प्रमातुरनधिगतार्थविषयोऽधिगमः स्यात्, एवमपि उत्तरकालं धारावाहीनि विज्ञानानि तत्र चेत्प्रवर्तन्ते, तत् प्रवर्तन्तां नाम, को दोषः, तेषां पुनस्तत्रैव प्रमाणत्वं न भवेत् ↓ आद्येनैव ज्ञानक्षणेन अपूर्वस्यार्थस्य प्रकाशनात्, अपूर्वार्थप्रकाशत्वमेव हि नाम प्रमाणत्वम्, यदाहुः –

“अनधिगतविषयं प्रमाणम्, अज्ञातार्थप्रकाशो वा ।
"

इति, प्रमातुरपि एतावतैव फलवत्त्वं “ज्ञातोऽयं मयार्थः” इत्येवंसन्तोषाभिमानात्, न च एतत् औत्तरकालिकानां धारावाहिनां विज्ञानानां सम्भवति, इति कथमुक्तं “प्रमितेऽपि प्रमाणानामवकाशः” इति ? – इत्याशङ्क्याह –

दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं सञ्चर्व्य चेतसा ।
प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ ४-८४ ॥

दृष्ट्वा दृष्ट्वेति – आभीक्ष्ण्येनाश्लेषसञ्चर्वणयोरपि असौ अर्थाल्लभ्यते, चिरशब्दाद्वा तेन रूपज्ञानात्मकैः स्पर्शज्ञानात्मकैस्तत्पृष्ठभाविविकल्पज्ञानात्मकैश्च शतशः प्रवृत्तैः प्रमाणैः प्रमितायां प्रियायां येषामाश्वासलक्षणः परितोषो जायते, तान् प्रति किं ब्रूमः – प्रमात्राश्वासपर्यन्तस्याधिगमस्य आद्येनेव ज्ञानक्षणेन उत्पादेऽनुभवविरोधान्न किञ्चित्, इति यावत्, अतश्च

“एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ॥
"

इत्याद्युक्तमयुक्तमेव, इति भावः, तेन

“यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥
"

इत्याद्युक्तयुक्त्या पूर्वप्रमाणानधिगतः कश्चिदपूर्व एवांशः प्रमाणान्तरैरवश्यमधिगम्यते, येन पर्यन्ते प्रमातुः समाश्वासोत्पादः स्यात् ।
यत् पुनरन्यैः

नैवाधिकपरिच्छेदः प्रमाणैरुत्तरैर्ध्रुवम् ।
धारावाहिषु बोधेषु कोऽधिकोऽर्थः प्रकाशते ॥
"

इत्याद्युक्त्या गृहीतग्राहिणामपि धारावाहिनां विज्ञानानां प्रामाण्यमुक्तम्, तन्न युक्तं – व्यर्थत्वादिदूषणशतोपनिपातात्, तस्मादेकस्मिन्नपि अर्थेऽनेकप्रमाणप्रवृत्त्यात्मनि सम्प्लवेऽपि नाधिगतस्यैव अर्थस्याधिगमः, इति – न प्रमाणान्तराणां निष्प्रयोजनत्वम्, तैरपि – अपूर्वस्यार्थस्य प्रकाशनात्, यद्येवं तदौत्तरकालिकानां धारावाहिनां विज्ञानानां स्वारसिक्यां प्रवृत्तावपूर्वार्थ प्रकाशो न कदाचिदपि विरमेत्, इत्यनवस्थापि न स्यात् – प्रमात्राश्वासलक्षणस्य अनुलङ्घनीयस्यावधेर्भावात् ।
एवमपि एकस्मिन्नेवार्थे प्रमातुरनेकैः प्रमाणैः प्रवृत्तैः सम्भूयापूर्वतया प्रकाशो जायते, – इत्येषां पूर्वापेक्षमुत्तरेषां प्रामाण्यम्, उत्तरापेक्षं च पूर्वेषाम् – इत्यन्योन्याश्रयतापि न स्यात्, अत्रान्योन्यापेक्षस्यैव प्रामाण्यस्याभावात्, अपूर्वार्थप्रकाशाधीनं हि ज्ञानानां प्रामाण्यम्, स चापूर्वार्थविषयः प्रकाशः सर्वेषामेव पृथक्पृथगवस्थितः, इति को नाम अन्योन्याश्रयताया अवकाशः, सम्प्लवो हि धर्म्यभिप्रायेणोच्यते “एकस्मिन्नेवार्थेऽनेकप्रमाणप्रवृत्तिः” इति, वस्तुतः पुनरनेकधर्मविशेषिते धर्मिणि केनचित् कश्चिद्धर्मविशेषोऽपूर्वतया प्रकाशते, यद्वशात् – तत्तद्धर्माधिगतिपुरःसरीकारेण पूर्णेन रूपेण धर्मिणमधिगम्य प्रमातुः पर्यन्ते समाश्वासो जायते इति ॥ ८४ ॥

तदेतदाह –

इत्थं च मानसम्प्लुत्यामपि नाधिगते गतिः ।
न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ ४-८५ ॥

इदानीं तर्कतत्त्वानुषक्तं गुरुसतत्त्वमुपसंहारन् तदानन्तर्येणानुजोद्देशोद्दिष्टं योगाङ्गानुपयोगित्वमपि वक्तुमुपक्रमते -

एवं योगाङ्गमियति तर्क एव न चापरम् ।
अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ ४-८६ ॥

एवमियति – गुरुसतत्त्वात्मनि प्रमेये प्रतिपादिते, तर्क एव उत्तमं योगाङ्गम्, न पुनरपरं यमादि किञ्चित्, इति पर्यवसितम्, यतः स एवान्तरन्तर् – यथायथं संवित्सन्निकर्षेण शुद्धविद्यात्मनः परामर्शस्य पाटवातिशयं जनयेत्, येन अन्ते योगिनः परसंवित्साक्षात्कारः स्यात्, तदुक्तं –

“लब्धभूमेर्विरक्तस्य तज्जयोपायपेशलः ।
ऊहो नाम वितर्कोक्तिः प्रविचारेक्षणात्मकः ॥

यद्यत्सातिशयं स्थानं भोगेन समधिष्ठितम् ।
विनश्वरेण सन्देहमूलेन सुमलीमसम् ॥

किमनेन विकल्पोक्तिव्यवहारात्मना त्वलम् ।
अस्मदन्यद्विशिष्टेन भोगेन परिपूरितम् ॥
"

इत्यादि ।

“पदं पदवतां श्रेष्ठं स्वतेजोगूढलोचनम् ।
तदेकं निर्वितर्कं स्यात्प्रभोः स्थानमनातुरम् ॥

शेषाणि सवितर्काणि सन्त्याज्यानि मुमुक्षुभिः ।
न वितर्कं विना तानि त्यक्तं योगप्रयोक्तृभिः ॥

शक्यन्ते मुनिशार्दूल तस्मात्तर्कोऽपि युज्यते ।
योगिनोऽङ्गत्वमापन्नः स्वोपकाराय चेष्टते ॥
"

इत्यन्तम् ॥ ८६ ॥

ननु समानेऽपि योगाङ्गत्वे तर्कस्यैवोत्तमं योगाङ्गत्वम्, न पुनर्यमादीनामित्यत्र किं निमित्तम् ? – इत्याशङ्क्याह –

अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ ४-८७ ॥

तपः प्रभृतयो ये च नियमा यत्तथासनम् ।
प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ ४-८८ ॥

प्रभृतिना शौचादय उक्ताः, यदुक्तम् –

“शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।
" (पातं।
योषू। २३२)

इति, एवमादयः सर्वे संवित्तौ साक्षान्नोपयोगिनः इति सम्बन्धः, साक्षाद्ग्रहणेन पारम्पर्येण पुनर्येषामुपयोगित्वं भवेदपि नाम – इति सूचितम्, एषां साक्षादनुपयोगित्वे हेतुः –

शर्वमेतद्बाह्यविजृम्भितम्”

इति ॥ ८७-८८ ॥

न चैतद्युक्तिमात्रेणैव सिद्धम्, यावदागमेनापि, इत्याह –

श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके ।
चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ ४-८९ ॥

प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके ।
मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ ४-९० ॥

प्राणायामो न कर्तव्यः शरीरं येन पीड्यते ।
रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः॥ ४-९१ ॥

चित्तस्य चेत्यग्रासीकरणक्रमेण चेतयितरि यः प्रलयो – विश्रान्तिः, स एव अनन्यगमनात्मा बन्धः, तेन शशिसहिते भास्करे – प्राणापानप्रवाहे प्रलीने, मध्यधामलयादुच्छिन्नस्ववाहे, अत एव जीवः – उदान एव आदित्यः तत्तत्प्रमेयादिदाह्यवस्तूपादानात् अग्निः, तस्मिन् मध्योर्ध्ववाहक्रमेण द्वादशान्तं प्राप्ते सति – प्रमाणप्रमेव्यवहारोच्छेदेन प्रमातर्येव पराङ्काष्ठामधिरूढे, निःश्रेयसात्मपरश्रेयोरूपे स्वबोधकेस्वप्रकाशे बोधमात्रे अर्थादुदिते, यः कश्चिदनुभवविशेषः स एव मोक्षः कथितः,

“शशिभास्करसंयोगाज्जीवस्तन्मात्रतां व्रजेत् ।
अत्र ब्रह्मादयो लीना मुक्तये मोक्षकाङ्क्षिणः ॥
"

इत्यादिना तत्रैव प्रागुपदिष्टो, न तु दर्शनान्तरवन्निमित्तान्तरसमधिगम्यः, अत एव रेचकादिरूपः प्राणायामो निरर्थकः – तेन न कश्चिन्मोक्षलक्षणोऽर्थः सिद्ध्यति इत्यर्थः ।
एवं भगवता प्रश्निते भगवतीप्रश्नार्थमेव सिद्धान्तीकर्तुम्

शत्यमेतन्महाप्राज्ञ प्राणायामो न कारणम् ।
"

इत्युपक्रम्य

“प्राणायामो न कर्तव्यः शरीरं येन पीड्यते ।
"

इत्यादिना परपक्षे बाधकं प्रमाणमुपन्यस्य स्वपक्षे साधकं प्रमाणं दर्शयति “रहस्यं वेत्ति यो यत्र” इत्यादि, रहस्यं – प्रमाणाद्यप्रवृत्तेः सर्वजनागोचरं प्रमातृमात्रसतत्त्वं परं तत्त्वम्, योऽभिजानाति – साक्षात्कुर्यात्, स स्वयं मुक्तः सन्, अन्येषामपि मोचकः, प्राणायामस्य आनर्थक्याभिधाने यमादीनामपि दण्डापूपीयन्यायेन तत् अर्थसिद्धम्, इति पृथक् नोक्तम्, “बोधमात्रे शिवात्मके” इत्यनेन पुनः प्राक् पटलद्वयोक्तमर्थजातं सङ्क्षिप्योपक्षिप्तम् ॥ ८९-९१ ॥

ननु यमादि यदि बाह्यविजृम्भितत्त्वात् न संवित्तावुपयोगि, तदस्तु, को दोषः, प्रत्याहारादि पुनर्बाह्यात्प्रत्यावृत्तं सत्, अन्तरेव लब्धप्ररोहम्, इति तदपि कथं न तत्रोपयुक्तम् ? – इत्याशङ्क्याह –

प्रत्याहारश्व नामायमर्थीभ्योऽक्षधियां हि यः ।
अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ ४-९२ ॥

चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् ।
तत्सदृग्ज्ञानसन्तानो ध्यानमस्तमिता परम् ॥ ४-९३ ॥

यदा तु ज्ञेयतादात्म्यमेव संविदि जायते ।
ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ ४-९४ ॥

अयं हि नाम प्रत्याहारो – यदर्थेभ्यो रूपादिभ्यः प्रत्याहृतानां चक्षुरादीन्द्रियज्ञानानाम् अन्तः कीलनं – चित्तस्वरूपानुकारायमाणतया स्वात्मायत्ततासादनम्, यदुक्तम् –

श्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।
" (योषू। २-५४) इति, तदेव च अनिबद्धस्य

संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का ।
"

इत्यादिन्यायेन अलब्धप्ररोहस्यापि बन्धस्य, कीलनं – दार्ढ्यापादनम् “परस्या हि संविदः स्वस्वातन्त्र्यात् गृहीतसङ्कोचाया देशाद्यवच्छिन्नत्वं नाम बन्धः” स एव चात्र कुतश्चित् प्रत्याहृतानामिन्द्रियाणां कुत्रचिदवस्थापनादुपोद्वलीकृतः, इति कथं नाम प्रत्याहारादेः संवित्साक्षात्कारायोपयोगः – व्यापिका हि संविदः कथं नाम कुत्रचिदेवोपलम्भो भवेत् इति भावः, यदुक्तम् –

“यत्र यत्र मनो याति तत्र तत्रैव धारयेत् ।
चलित्वा कुत्र गन्तासि सर्वं शिवमयं यतः ॥
"

इति ।
एवं धारणादावपि अवसेयम्, तत्र हि कन्दादौ नियत एव देशे “चित्तस्य बन्धो रूपम्” यदुक्तम् –

“देशबन्धश्चित्तस्य धारणा ।
" (यो।
सू। ३-१)

इति ।
ध्यानेऽपि सजातीयानामेव ज्ञानानां प्रवहद्रूपत्वं नाम रूपम्, न विजातीयानाम्, इत्यत्र नियताकारावच्छिन्नत्वम् ।
यदुक्तम् –

“तत्र प्रत्ययैकतानता ध्यानम् ।
" (यो।
सू। ३-२)

इति, अत एव “अस्तमिता परम्” इत्युक्तम् ।
समाधावपि ज्ञानज्ञेयाख्यरूपद्वयतिरस्कारेण ध्येयात्मज्ञेयमात्रप्रतिभास एव रूपम्, इत्यत्र नियत एवाकारोऽवच्छेदकः, यदुक्तम् –

“तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
" (यो।
सू। ३-३)

इति ॥ ९२-९४ ॥

ननु यमादीनां पञ्चानामपि बहिरङ्गत्वात् यदि संवित्तौ नोपयोगः, तत् तावदास्ताम्

“त्रयमन्तरङ्गं पूर्वेभ्यः ।
" (योषू। ३-७)

इति तेषां किमिति नाम न तत्रोपयोगः ? – इत्याशङ्क्याह ↓

तदेषा धारणाध्यानसमाधित्रितयी पराम् ।
संविदं प्रति नो कञ्चिदुपयोगं समश्नुते ॥ ४-९५ ॥

“अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम्” इत्याद्युक्त्या बन्धकत्वादेर्हेतोः ॥ ९५ ॥

ननु यद्येवं तद्यमादीनामष्टानामपि योगाङ्गानां किमर्थमभिधानम्? इत्याशङ्क्याह –

योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते ।
स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ ९६ ॥

अन्त्येति – अन्ते साधुः, अष्टानां यमादीनामङ्गानामुपेयत्वेन योग्य इति, यमा नियमानामुपायो, नियमाश्च आसनस्य – इत्यादिक्रमेण यमादीनामष्टानामपि पूर्वपूर्वोपायत्वेन योगाङ्गत्वं वर्णितम्, यथैषामुपेयरूपत्वात् पार्यन्तिकेतर्के द्वारद्वारिभावेनोपयोगः स्यात्, यस्मादष्टाभिरपि एतैरङ्गैरुपस्कृतमतेर्योगिन एवं स्वपरामर्शो जायते, येनास्य झटित्येव स्वसंवित्तिसाक्षात्कारो भवेत्, यन्नाम अत्र योगस्य स्वदर्शनोक्तानि षडङ्गान्यपहाय पातञ्जलीयं यमाद्यङ्गाष्टकमुक्तम्, तत्रायमाशयो यत् क्वचिदपि एतदङ्गाष्टकातिरिक्तम् अन्यदङ्गान्तरं नास्ति, इति सर्वत्र तर्कस्यैवाङ्गान्तराण्युपायः, स च स्वसंवित्साक्षात्कारस्येति ॥ ९६ ॥

एतदेवोपपादयति –

अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः ।
बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ ४-९७ ॥

यतः खलु संविदि, अन्तर् – अभेदेन, जातप्ररोहं संवेद्यमानं सत् तद्यमादि, तद्द्वारा – संविन्मुखेनैव, नहि असंविदितिं किञ्चिदपि वस्तु व्यवहारयोग्यं भवेत्, इति भावः, अभ्यासात् – पौनःपुन्येन सेवनात्, देहादावर्प्यं – देहादि यथा शनैः शनैः संस्कारपाटवेन तथैव प्ररोहमियादित्यर्थः, तद्यथा आसनादि देहे, प्राणायामादि प्राणे, प्रत्याहारादि बुद्धाविति ।
संविदि पुनरेष देहादौ प्ररूढस्य यमादेः तद्द्वारेण अभ्यासबलात् प्ररोहोत्पादनात् स न्यायो न भवेत्, संविदि हि यमादेः प्ररोहः पटीयस्त्वमुच्यते, स एव च नाम संस्कारः, न च संवित् संस्कार्या, संस्कारो हि अतिशयः, स च नास्यां सम्भवेत् – असंविद्रूपतापत्तेः, तेन पराद्वयरूपायां नित्योदितायामस्यां यमादेर्न किञ्चित्प्रयोजनम् – इति तात्पर्यम्, यदुक्तम् –

“अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे

सञ्चार्येत कथं तथेति घटते तत्राभ्युपायक्रमः ।

ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यता

स्ते किं कुत्र कथं नु वा विदधतामित्यत्र सन्दिद्महे ॥
"

इति ॥ ९७ ॥

अथ वा देहादिद्वारेण संविद्यभिव्यक्तिलक्षणोऽतिशयो भवेत् इत्याह –

अथ वास्मद्द्वशिप्राणधीदेहादेरपि स्फुटम् ।
सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् ॥ ४-९८ ॥

यद्वा पराद्वयदर्शने

“प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।
"

इत्यादिनीत्या देहादेरपि संविद्रूपत्वेन सर्वात्मकत्वात्, तत्र प्राणादाववस्थितोऽपि यमादीनामभ्यासः, अन्येषां भेदनिष्ठानामयमादिरूपाणां हिंसादीनामपोहनम्, एवं हि यथात्मनि हिंसा न कार्या, तथा परत्रापि – इति स्वपरयोरात्मरूपतयावभावसनेन भेदविगलनात् संविद एवाभिव्यक्तिर्भवेत्, इति भावः ॥ ९८ ॥

ननु यद्यत्र अभ्यस्यते तच्चेत् तत्र संस्कारदार्ढ्यात् पाटवातिशयं यायात्, इत्यस्तु को दोषः, तत् पुनरन्यव्यपोहनमाधातुं कथमुत्सहते – येन कार्यान्तरमपि उत्पद्येत ? इत्याशङ्का शमयितुं दृष्टान्तयति –

देह उत्प्लुतिसम्पात धर्मोज्जिगमिषारसात् ।
उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ ४-९९ ॥

उत्प्लुतिः – ऊर्ध्वं प्लवनम्, तस्याः पौनःपुन्येन सम्भवात् यः सम्पातस्तद्धर्मा येयमुद्गन्तुमिच्छा तस्या रसः – पुनः पुनरभ्यासादादरातिशयः ततो हतोः,यथा देहः तस्योज्जिगमिषारसस्य विपक्षभूतो यस्तिर्यगधश्च पातः तदाशङ्काया व्यपोहनमधिकृत्य, उत्प्लाव्यते – अङ्गश्रमादिनोर्ध्वप्लवने योग्यः क्रियते इत्यर्थः, – तेन ऊर्ध्वं प्लवनाभ्यासेन अधःपातादि देहे व्यपोह्यते – इत्यन्यदभ्यस्यतोऽपि अन्यनिवृत्तिर्भवेदिति भावः ॥ ९९ ॥

एतदेव प्रकृते योजयति –

गुरुवाक्यपरामर्शसदृशे स्वविमर्शने ।
प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ ४-१०० ॥

एवं शिष्यस्य पाठचिन्तनादौ विषये पुनः पुनरभ्यासातिशयात्, गुरुवाक्यपरामर्शानुगुणे स्वपरामर्शे, उदितस्य स्वपरामर्शस्य, विपक्षभूतानां मौढ्यादीनामपि व्युदासः… ॥ १०० ॥

ननु गुरुवाक्यबलादेवास्य मौढ्यादीनामपि व्युदासः सिध्येदि अन्तर्गडुप्रायेण स्वविमर्शेनापि कोऽर्थः ? – इत्याशङ्क्याह –

नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा ।
धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ ४-१०१ ॥

नहि नामास्य शिष्यस्य स्वबलादेव गुरुणा चिन्ताद्यात्म स्वं ज्ञानम्, पाठ्यमानो वा स्वः शब्दः तद्बुद्धौ प्ररूढं कर्तुं शक्यम्, यावदस्य स्वपरामर्शो न स्यात्, यतः स्वविमर्शं विना हि असौ गुरुवाक्यामवधारयितुमपि नालम्, का पुनर्मौढ्यादिनिवृतौ सम्भावनापि भवेत्, तस्मान्निश्चितमेव स्वस्यात्मीयस्य शुद्धविद्यारूपत्वात् प्रकृष्टस्य परामर्शात्मनः बोधस्य क्रमोऽस्तीति शेषः ॥ १०१ ॥

यन्माहात्म्यादवधानशालिनां स्वप्नानुभूतमपि वस्तु अर्थक्रियापर्यन्तां साक्षात्काररूपतामेति, इत्याह –

अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि ।
तादात्म्यभावनायोगो न फलाय न भण्यते ॥ ४-१०२ ॥

अतः – स्वपरामर्शस्य सद्भावादेव, तत्र असदर्थोपलम्भात्मन्यपि स्वप्नसमये कस्म्मिश्चित् श्रुतेऽपि वस्तुनि विषये स्त्र्यादाविव ताद्रूप्येण पुनःपुनरभ्यासात्मा भावनायोगः क्रियमाणः फलाय न न भण्यते - जागरोचितार्थक्रियाकारितया साक्षात्क्रियते इत्यर्थः ॥ १०२ ॥

ननु यद्विषयोऽयं नाम स्वपरामर्श इष्यते, तयोः पाठचिन्तनयोरेव किं स्वरूपम् ? – इत्याशङ्क्याह –

सङ्केतानादरे शब्दनिष्ठमामर्शनं पठिः ।
तदादरे तदार्थस्तु चिन्तेति परिचर्च्यताम् ॥ ४-१०३ ॥

सङ्ङ्केतस्य – सङ्केतिकस्यार्थस्यः अनादरः – उपेक्षा, अत एव “शब्दनिष्ठम्” इत्युक्तम्, न पुनरर्थनिष्ठमपि, तदादरे शब्दापेक्षायां शब्दप्रतीतिपुरःसरीकारेण हि अर्थप्रतीतिरिति भावः ॥ १०३ ॥

एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवानुसरति –

तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान् ।
केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ ४-१०४ ॥

तदिति-उक्ताद्धेतोः, अभ्यास इति यमादीनाम् ।
ननु यदि नामायमनुपयुक्तः तत्किमर्थमुक्तः ? – इत्याशङ्क्याह – केवलमित्यादि ॥१०४ ॥

ननु यद्येवं तत्कथं स्वपरामर्शात्मनस्तर्कस्य द्वैतशङ्कानिर्मूलत्वं प्रागुक्तम् ? इत्याशङ्क्याह –

द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् ।
तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ ४-१०५ ॥

वर्णितमिति तर्कतत्त्वचर्चावसरे, उक्तं च

“अनेन लक्षयेद्योगी योगसिद्धिप्रवर्तकम् ।
निवर्तकं च यद्वस्तु बहुधा संव्यवस्थितम् ॥
"

इति, तस्मात् यमादीनां यद्द्वैतशङ्कानिर्मूलकत्वमुक्तं तत् तर्कोपायत्वात्पारम्पर्येण, इत्येषां तदेव मुख्यतयाभिधानीयम्, इत्याह – “तत्तर्केत्यादि” तेन तर्कस्यैव संवितौ साक्षादुपायत्वम्, नेतरेषाम् इत्युक्तं भवेत् ॥ १०५ ॥

न चैतत् निष्प्रमाणकमित्याह –

उक्तं श्रीपूर्वशास्त्रे च न द्वैतं नापि चाद्वयम् ।
लिङ्ङ्गापूजादिकं सर्वमित्युपक्रम्य शम्भुना ॥ ४-१०६ ॥

विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा ।
प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्रिमा यतः ॥ ४-१०७ ॥

तत्तेनाकृतकस्यास्य कलां नार्हन्ति षोडशीम् ।

श्रीपूर्वशास्त्र इत्युपक्रम्य शम्भुनोक्तम्, इति सम्बन्धः न द्वैतं नापि चाद्वैतम्” इत्येवं-वृत्तानुरोधान्न पठितम्, “लिङ्गपूजादिकं सर्वम्” इत्यत्रापि नञा सम्बन्धः, यदुक्तं तत्र

“…ऌइङ्गपूजादिकं न च ।
"

इति ।
सर्वमित्यनेन लिङ्गपूजाद्यपरित्यागादेः स्वीकारः, यदुक्तं तत्र -

न चापि तत्परित्यागो निष्परिग्रहतापि वा ।
सपरिग्रहता वापि जटाभस्मादिसङ्ग्रहः ॥

तत्त्यागो वा व्रतादीनं चरणाचरणं च यत् ।
क्षेत्रादिसम्प्रवेशश्च समयादिप्रपालनम् ॥

परलिङ्गस्वरूपादि नामगोत्रादिकं च यत् ।
नास्मिन्विधीयते किञ्चिन्न चापि प्रतिषिध्यते ॥
"

इति ।
एवं हि तूष्णीम्भाव आपतेत्, इत्याशङ्क्य “विहितम्” इत्याद्युक्तम्, सर्वमिति विधीयमानं प्रतिषिध्यमानं च किञ्चिन्निषिद्धम्, किञ्चिद्विधीयमानं हि भेदमेवाविर्भावयेत् तेन – संविदद्वैतशालिनो योगिनः कार्याकार्यविभागो नास्ति, इत्युक्तं स्यात्, अत एव प्राणायामाद्यङ्गकरणकतया कृत्रिमत्वात् स्वरससिद्धसंविदद्वयात्मनो योगस्य स्वल्पेनापि अंशेन दर्शनान्तरीया योगाः साम्यमात्रमप्यधिगन्तुं नोत्सहन्ते इत्युक्तं – प्राणायामादिकैरित्यादि ॥ १०७ ॥

ननु यद्येवं तत् अकृतकत्वेन निमित्तानपेक्षणादस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ? – इत्याशङ्क्याह –

किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ ४-१०८ ॥

तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथ्।
स्त्विति ।

किं पुनरेतत् अत्र नियमेन विधातव्यम्, यत् – “तत्त्वे स्थिरं चेतः स्यात्” इति, चेतसोऽपि अत्र स्थैर्यमाकस्मिकमेव न स्यात्, इत्यत्र केनापि निमित्तेनावश्यं भाव्यम् ? – इत्याशङ्क्य उक्तं “तच्च यस्य यथास्त्विति” तच्च – स्थिरं चेतो, यस्य कस्यचन योगिनो, यथा नियतनिमित्तानपेक्षित्वेन स्यादित्यर्थः, यदुक्तं तत्र –

“तच्च यस्य यथैव स्यात्स तथैव समाचरेत् ।
"

इति, अत एव नियमाभावात् सर्वमेव विहितं प्रतिषिद्धं चेत्युक्तम् ।
अष्टादशस्य पटलस्यैकवाक्यतां दर्शयितुमालूनविशीर्णतया अयं ग्रन्थः संवादितः ॥ १०८ ॥

तदेवोपसंहरति –

एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ ४-१०९ ॥

क्वचित्स्वभावममलमामृशन्ननिशं स्थितः ।

ननु शुद्धसंविन्मात्रात्मैव पारमेश्वरःस्वभावो यस्य “अहमेव सर्वम्” इत्येवंरूपः परामर्शः, न च अस्य क्वचित् कदाचित् कश्चिद्विशेषः सम्भवेत् इति कथमुक्तं – क्वचिदमलं स्वभावमामृशन् स्थितः ? इति, इत्याशङ्क्याह –

यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ ४-११० ॥

विनैव तन्मुखोऽन्यो वा स्वतन्त्र्यात्तद्विकल्पनम् ।

इह खलु इन्द्रियार्थाद्युपायनैरपेक्ष्येण अन्तरुल्लखिताकारमात्रनिष्ठः, तन्मुखः ↓ इन्द्रियार्थाद्युपायको निर्विकल्पपृष्ठभावी अन्यो वा यः स्वभावपरामर्शः तदुभयरूपमपि क्षेत्रज्ञस्वातन्त्र्योल्लासितं विकल्पनं विकल्प इत्यर्थः ॥ ११० ॥

तच्च द्विधा, इत्याह –

तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ ४-१११ ॥

भावौघे भेदसन्धातृ स्वात्मनो नैशमुच्यते ।
तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ ४-११२ ॥

शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् ।

तच्च – विकल्पनम्, परानवभास्यत्वात् स्वच्छः, अत एवानन्यापेक्षत्वात् स्वतन्त्रो, योऽसावात्मा प्रमात्रेकरूपः परः प्रकाशः, स एव प्रतिबिम्बग्रहणसहिष्णुत्वात् स्फटिकम्, तत्राभेदेन निर्भासनशीलेऽपि प्रमातृप्रमेयात्मनि भावौघे, स्फुटं कृत्वा, स्वात्मनः सकाशादन्यापोहरूपत्वेन भेदसन्धायकत्वात् नैशं – मायीयमुच्यते, इति सामान्येनोक्तेः सर्वैरेवाभिधीयते इत्यर्थः, तदेव विकल्पनं पुनः शर्वमिदमहमेव” इत्येवंरूपम्, अत एव समस्तार्थपरिपूर्णस्वात्मैकनिष्ठम्, अत एवालं – पर्याप्तं सत् शुद्धविद्यात्मकमुच्यते, इति प्राच्येन सम्बन्धः ॥ १११-११२ ॥

ननु

शर्वो विकल्पः संसारः… ।
"

इत्यादिनीत्या विकल्पस्तावत् सर्व एव हेयः, तदनेनापि विभागेनाभिहितेन कोऽर्थः ? – इत्याशङ्क्याह –

इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ ११३ ॥

प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् ।

स्फुटात्मकमिति – प्रागुक्तविकल्पसंस्क्रियाक्रमणेन साक्षात्कारतां प्राप्तमित्यर्थः, मायीयस्य विकल्पस्य प्रतीघाते भेदभावकत्वं हेतुः, अत एवाभेदभावकत्वादिदमुपादेयम्, इत्युक्तं स्यात् ॥ ११३ ॥

तच्च परामृश्यभेदादनेकप्रकारम्, इत्याह –

शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ ४-११४ ॥

स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः ।

ननु अयं शुद्धविद्यात्मा परामर्शः कथं नाम भेदनिष्ठं मायीयमेव विकल्पं प्रतिहन्यात्, यत्प्रयोजकीकाराय अस्यापि प्रकारान्तरासूत्रणम् ? – इत्याशङ्क्याह –

विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ ४-११५ ॥

आविश्य शुद्धो निखिलं तर्पयेदध्वमण्डलम् ।

इह खलु एवम्परामर्शवान् योगी वक्ष्यमाणक्रमेण स्वात्मचमत्कारपूर्णतया आदरातिशयात् विश्वमिदमाविश्य, अत एव परप्रमात्रेकरूपत्वात् शुद्धो निखिलमध्वमण्डलं तर्पयेत् – स्वात्मसंवित्तिरसनिर्भरतया साक्षात्कुर्यादित्यर्थः ।
अनेन च प्रतिनियतकल्पितबाह्यार्चनीयाद्यभावं कटाक्षयता योगाङ्गानुपयोगित्वानन्तर्येण उद्दिष्टस्य कल्पितार्चाद्यनादरस्य अवकाशो दत्तः ॥ ११५ ॥

ननु स्नानादेरपि भेदसन्धायकत्वान्मायीयामर्शरूपत्वमेव युक्तं कथमस्य शुद्धविद्यापरामर्शकत्वमुक्तम् ? – इत्याशङ्क्याह –

उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ ११६ ॥

सितभस्मनि देहस्य मज्जनं स्नानमुच्यते ।

बाह्योन्मुखत्वादुल्लसनशीलः प्रमाणात्मा योऽसौ बोधः स एव प्रकाशत्वादग्निः, तेन दग्धं – स्वात्मसात्कृतं यन्नीलसुखादिरूपं विश्वं तदेव दाह्यत्वादिन्धनम्, तत उदितेतदुभयसङ्घट्टनेन लब्धप्रतिष्ठाने, सिते – निरुपाधिनि, भस्मनि – अपरिमितप्रमात्रेकरूपे परे तत्त्वे, देहादेः, – परिमितस्य प्रमातुर्यन्मज्जनं – स्वगुणीभावेन तत्रैव मुख्यतया समावेशः, तन्नाम स्नानमुच्यते, न पुनर्बाह्यजलादिरूपम्, इति अर्थसामर्थ्यलभ्यो व्यतिरेकः, यदभिप्रायेणैव

“यदि मुक्तिर्जलस्नानान्मत्स्यानां सा न किं भवेत् ।
"

इत्यादि अन्यत्रोक्तम् ॥ ११६ ॥

ननु बाह्येन स्नानेन नित्यादौ कर्मण्यधिकारो देहादौ च शुद्धिर्भवेत्, अस्य पुनरेवं विधस्य किं फलम् ? – इत्याशङ्क्याह –

इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ ११७ ॥

ततोऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् ।

ननु शर्वं खल्विदं ब्रह्म” इत्यादिनीत्या सर्वमिदं – देहादि परब्रह्मात्मकशिवस्वभावमेव, इति का नाम तत्र शुद्धिरशुद्धिर्वा ? – इत्याशङ्क्याह –

शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ ४-११८ ॥

सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् ।

व्यतिरेकिणी – भेदात्मा, तद्धीः-व्यतिरेकिणीबुद्धिः, यदुक्तम् –

“अशुद्धं नास्ति तत्किचित्सर्वं तत्र व्यवस्थितम् ।
यत्तेन रहितं किञ्चिदशुद्धं तेन जायते ॥
"

इति ॥ ११८ ॥

ततश्च किम्, – इत्याह ↓

एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ ४-११९ ॥

पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः ।

एवम् ↓ उक्तेन प्रकारेण अनात्मन्यात्माभिमानन्यक्कारेण, आत्मनि स्वतन्त्रतादिधर्मप्रयोजकीकारेण, संविन्मात्ररूपतां साक्षात्कुर्यादित्यर्थः ॥ ११९ ॥

एव स्नानादेरकल्पितत्त्वमभिधायेतरेषामपि अर्चनाङ्गानां दर्शयति –

यत्किञ्चिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ ४-१२० ॥

योज्यते ब्रह्यसद्धाम्नि पूजोपकरणं हि तत् ।

यस्यं कस्याञ्चिदिन्द्रियवृत्तौ, किञ्चित् अनियतम्, मानसाह्लादि वस्तु, ब्रह्मरूपे शोभने सूर्याचन्द्रादिविलक्षणे तेजसि, योज्यते – बहीरूपतापरित्यागेन संविन्मात्रात्मना साक्षात्क्रियते, तन्नाम पूजोपकरणं – तावतैव पूजायाः परिपूर्तिर्भवेदित्यर्थः ॥ १२० ॥

ननु अश्रुतपूर्वमिदं पूजालक्षणम् ? – इत्याशङ्क्याह –

पूजा नाम विभिन्नस्य भावौघस्यापि सङ्गतिः ॥ ४-१२१ ॥
स्वतन्त्र-विमलानन्त- भैरवीय-चिद्-आत्मना ।

मूलम्

पूजा नाम विभिन्नस्य भावौघस्यापि सङ्गतिः ॥ ४-१२१ ॥
स्वतन्त्रविमलानन्तभैरवीयचिदात्मना ।

विस्तारः (द्रष्टुं नोद्यम्)

विभिन्नस्यापि रूप-रसादेर् भावौघस्य, देश-कालाद्य्-अनवच्छिन्न-निरुपाधि-पूर्ण-पर-संविद्-आत्मना, या सङ्गतिः - एकीकारः, सा पूजेति सम्भाव्यते।
नैतद् अस्मद्-उपज्ञम् एवेत्य् अर्थः।

यदुक्तम् –

पूजा नाम न पुष्पाद्यैर् > या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि > सा पूजा ह्य् आदराल् लयः ॥
"

इति ।

एवं होमादीनाम् अपि पूजोपकरणत्वाद् एव ईदृक् रूपम् अर्थसिद्धम्, इति न साक्षादुक्तम्, तच् च प्राक् बहूक्तम्, वक्ष्यते च, इति – तत एवावधार्यम् ॥ १२१ ॥

“ननु कथम् अन्यस्य अन्येनैकीकार एव भवेत् यद् अपि पूजादेर् लक्षणतयोच्येत?” इत्य् आशङ्क्याह –

तथाहि संविद् एवेयम् +++(पूजा)+++ अन्तर्-बाह्योभयात्मना ॥ ४-१२२ ॥
स्वातन्त्र्याद् वर्तमानैव परामर्श-स्वरूपिणी ।
+++(4)+++

मूलम्

तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ ४-१२२ ॥
स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी ।

विस्तारः (द्रष्टुं नोद्यम्)

इयम् - उक्तस्वरूपा, संविद् एव हि स्वस्वातन्त्र्याद् अन्तर्-बही-रूपतया परिस्फुरति, इति – तद्-अतिरिक्तम् अन्यत् नाम न किञ्चिद् वस्तुतो ऽस्ति, इति युक्तम् उक्तं – “विभिन्नस्यापि भावौघस्य चिद्-आत्मनैकीकार” इति।

ननु कथं नामास्या बही-रूपतावभासने ऽपि अहम्-परामर्शात्मकं स्वं रूपं स्यात्? इत्याशङ्क्येक्तं “परामर्श-स्वरूपिण्येव” +इति, एवम् अप्य् अस्या न स्वरूपात् प्रच्याव इत्य् अर्थः ॥ १२२ ॥

इयद् एव हि नामास्याः परामर्श-रूपत्वं – यद् विश्व-रूपतया प्रस्फुरति, इत्यत आह –

+++(पर-प्रमातृ-रूपः परामर्शः)+++ स च +++(बुद्धीन्द्रियाद्य्-आत्मना)+++ द्वादशधा तत्र सर्वम् अन्तर् भवेद् यतः ॥ ४-१२३ ॥

+++(प्रमाण-दशाम् अधिशयानः)+++ सूर्य एव हि सोमात्मा +++(मेयी-भूतः)+++ स च विश्व-मयः स्थितः ।
कला-द्वादशकात्मैव तत्-संवित् परमार्थतः ॥ ४-१२४ ॥

मूलम्

स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ ४-१२३ ॥

सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः ।
कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ ४-१२४ ॥

विस्तारः (द्रष्टुं नोद्यम्)

सः – परप्रमातृरूपः परामर्शश् च द्वादशधा विश्व-रूपतयोल्लसेद् इत्यर्थः, अनेन कल्पितार्चाद्य्-अनादरानन्तर्येण +अनुजोद्देशोद्दिष्टः संविच्-चक्रोदयो ऽप्य् उपक्रान्तः +++(??)+++ ।

ननु विश्वस्य प्रमातृ-प्रमेयादि-रूपत्वेनापि बहुधात्वम् अस्ति, इति कथं द्वादश-कलात्म-सूर्यरूपेण प्रमाण-मात्रेणैवोपात्तेन तत्-सङ्ग्रहः सिद्ध्येत् ? इत्य् आशङ्क्याह – “तत्रेत्यादि"।

सर्वम् इति – प्रमातृप्रमेयादि, इह खलु

“योऽयं वह्निः परं तत्त्वं > प्रमातुर् इदम् एव तत् ।
"

इत्य्-आद्य्-उक्त्या पर-संविदात्मा प्रमाता तावत् भेदेन्धन-दाहकत्वाद् अग्निः, स एव च अहम्-प्रतीति-मात्र-स्वरूपः स्व-स्वातन्त्र्यात् बुद्धीन्द्रियाद्य्-आत्मना द्वादशधा प्रस्फुरन् प्रमाण-दशाम् अधिशयानः “सूर्य” इत्य् उच्यते।
प्रमाणं च प्रमातुर् एव बहिर्-मुखं रूपम्+++(5)+++, इति – तत्र प्रमाता तावद् अन्तर्-भावम् इयात्, प्रमाणं नाम च ज्ञानम्, तच् चोपाश्रय-शून्यं न क्वचिद् अपि सम्भवति +++(4)+++ – इत्य् अवश्यम् एव मेयाक्षेपेण वर्तते +++(4)+++, इति, तद् अपि अत्रान्तर्-भूतम् एव।

तद् आह “सूर्य एव” इत्यादि, “सोमः” प्रमेयम्, यद् उक्तं प्राक्

सूर्यं प्रमाणम् इत्य् आहुः > सोमं मेयं प्रचक्षते ।
अन्योन्यम् अवियुक्तौ तौ > स्वतन्त्राव् अप्य् उभौ स्थितौ ॥

इति ।
विश्वमय इति विश्वस्य मेयात्मकत्वात्, अतश् च सर्वस्यैव +अत्रान्तर्भावात् विश्व-रूपतया प्रस्फुरन्त्याः परस्याः संविदो द्वादशात्मकत्वम् एव वस्तुतः सम्भवति, इति युक्तम् उक्तं - स च द्वादशधा इति।
अत एवाह – “कलाद्वादशकेत्यादि"।
कलाः – प्रमात्रादिरूपाः अंशाः ॥ १२३-१२४ ॥

ननु अस्यास् त्रयोदशात्मकत्वम् अपि अन्यैर् उक्तम्, तत् कथम् इह द्वादशात्मकत्वम् एवोच्यते ? – इत्याशङ्क्याह ↓

सा +++(पारमार्थिकी संवित्)+++ च मातरि, विज्ञाने माने, करण-गोचरे ।
मेये +++(सृष्टि-स्थिति-संहारानाख्यत्वेन)+++ चतुर्-विधं भाति - रूपम् आश्रित्य सर्वदा ॥ ४-१२५ ॥

मूलम्

सा च मातरि विज्ञाने माने करणगोचरे ।
मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ ४-१२५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

विज्ञाने इति मान-विशेषणम्, अन्येषां हि बोधाबोध-रूपम् अपि प्रमाण-लक्षणं विवक्षितम्।
करण-गोचरे इति – प्रमाणविषयतां प्राप्ते इत्यर्थः, अन्यथा हि मेयं नाम स्वात्मनि न किञ्चिद् एवेति भावः।
चो हेतौ, यतः, सा – पारमार्थिकी संवित् सृष्टि-स्थिति-संहारानाख्यत्वेन चतुर्विधं रूपम् आश्रित्य प्रमातरि प्रमाणे प्रमेये च सर्वदा भाति – अविच्छिन्नत्वेन एकैकत्र चातुर्-आत्म्ये द्वादश-धा प्रस्फुरतीत्य् अर्थः।

यदुक्तम् –

सोमार्कानल-दीप्तीनां > रूपं यः सर्वगोऽमितः ।
सृष्ट्यादि-क्रम-योगेन > व्यक्तां नयति स्फुटम् ॥

इति ।
तथा

“यस्यां यस्यां बोध- > भूमौ समाविशति तत्त्ववित् ।
तस्यां तन्मयतां प्राप्य > चातुरात्म्यं प्रपद्यते ॥
"

इति ।

——- ननु अस्याः परस्याः संविदो ऽन्यैर् अनयैव भङ्ग्या त्रयोदशात्मकत्वम् उक्तम् - यद् उक्तम् –

एकं स्वरूप-रूपं हि > मान-मेय-प्रमातृताः ।
सर्गावतार-संहार- > मयीर् आक्रम्य वर्तते ॥

स्व-स्वरूपानुगुण्येन > प्रत्येकं कलना-वशात्
सृष्टि-स्थित्य्-आदिभिर् भेदैश् > चतुर्धा ता अपि स्थिताः ॥
काल-ग्रासान्तम् उदयाच् > चतुर्धा विभवो हि यः ।
तस्य विश्रान्तिर् एकैव > ततो देव्यस् त्रयोदश
अनाख्य-चक्रे प्राधान्यात् > पूजनीयतया स्थिताः ।

इति ।
इह च द्वादशात्मकत्वम् उच्यते इति किम् एतद् इति न जानीमः।
अत्रोच्यते - इह खलु परैव संवित् स्वस्वातन्त्र्यात् यथोक्त-युक्त्या द्वादशधा प्रस्फुरिता - इति तावद् अविवादः।
तत्र यद्य् असौ परैव संवित्, तेभ्यो द्वादशभ्यो रूपेभ्यः पृथग् अवभासेत, तद् अस्या भवेत् त्रयोदशत्वम्
अन्यथा तत् कस्यान्यस्य त्रयोदशत्वं स्यात्? संविदो हि +अतिरेके द्वादश-रूपाणि +असंविद्-रूपत्वात् न चकास्युर् एव, इति – निराभासा संविद् एकैव अवशिष्येत, इति को नाम त्रयोदश-रूपत्वस्यावकाशः ।

अथातिरेके ऽपि संवित् सामान्य-न्यायेन द्वादशापि रूपाण्य् अनुयन्ती स्वरूपेणापि +अवभासते, इति स्थितम् एव +अस्यास् त्रयोदशत्वम् इति चेत् - असदेतत्, सामान्यं हि विशेषेभ्यो भिन्नं सत् तान् अनुगच्छति, येन गौर् गौर् इति +अभिन्नस् तद्-अनुगतः प्रत्ययः स्यात्, संविदि पुनस् तानि तान्य् अपि रूपाणि प्रस्फुरन्ति, नातिरिच्यन्ते।
तथात्वे हि तेषाम् अवभास एव न स्यात्।
तेन यन् नाम तानि तानि रूपाणि प्रस्फुरन्ति तद् एवोच्यते “संविद् अवभासते” इति।
तत् किं केनानुगम्यते – दृष्टान्तस्य वैषम्यात्? यत् किञ्चिद् एतत्, यद्-अभिप्रायेणैव –

“भावा भान्तीति संवित्ताव् > आत्मा भातीति भासते ।
आत्मा भातीति संवित्तौ > भावा भान्तीति भासते ॥
"

इत्यादि +अन्यत्रोक्तम् ।


अथ परैवेयं संवित् द्वादशकात्मनारूषितेन+++(=अचिक्कणीकृतेन)+++ रूपेण प्रस्फुरेत्, शुद्ध-संविन्-मात्रात्मना त्रयोदशेन चानारूषितेन ? इति चेत्, नैतत्, इह हि – “निरुपाधिर् अनारूषिता निराभासा परैव शुद्धा संविद् अस्ति” इति नः सिद्धान्तः।
सा च स्व-स्वातन्त्र्य-माहात्म्यात् स्वं रूपं गोपयित्वा, विश्व-रूपताम् अवभासयन्ती द्वादशकात्मना, ऽऽरूषितेनैव रूपेण प्रस्फुरेत्।
नहि तदानीं तद्-अतिरिक्तम् अनारूषितम् अपि अस्या रूपं भायात् - तथात्वे हि +आरूषितम् एव रूपं न चकास्याद् इत्य् उक्तं बहुशः ।


ननु विश्वमयत्वेऽप्य् अस्या विश्वोत्तीर्णम् अनारूषितं रूपं सम्भवेत्, अन्यथा हि अस्या जाड्यम् आपतेत्? नन्व् अस्य प्रश्नस्य क इवाशयः – किं विश्वमयत्वे ऽप्य् अस्या गोशृङ्ग-न्यायेन तद्-अरिक्तिम् अनारूषितं रूपं सम्भवेदिति, उत स्वस्वातन्त्र्याद् विश्वरूपताम् अवभासयन्त्या +अप्यस्याः संविद्-अद्वयात्मनः स्वस्वरूपात् प्रच्यावो न जायते इति ?

तत्राद्यः पक्षो दूषितप्रायः – नहि वैश्व-रूप्यम् अतिक्रम्य अस्याः स्फुरत्तैव स्याद् इत्य् उक्तमसकृत्, वक्ष्यति च –

न खल्वेष शिवः शान्तो > नाम कश्चिद् विभेदवान् ।
सर्वेतराध्व-व्यावृत्तो > घट-तुल्योऽस्ति कुत्रचित् ॥

महा-प्रकाश-रूपा हि > येयं संविद् विजृम्भते ।
स शिवः शिवतैवास्य > वैश्व-रूप्यावभासिता ॥
तथाऽऽभास-नयो-गोऽतः > स्वरसेनाऽस्य जृम्भते ।
"

इति ।
अनेनैवाभिप्रायेण श्रीतपस्विनापि

“परतरतयादिरूपं > यद् यत् कलयामि तत् तद् अधरं ते ।
अधरतरापि न कलना > सा काचिद् यत्र न स्थितास्य् अभितः ॥
"

इत्य्-आद्य् उक्तम् ।

द्वितीयस्मिन् पक्षे पुनर् वस्तुतो ऽनारूषितत्त्वेऽपि स्वस्वातन्त्र्योल्लासितेन तेन तेनारूषितेनैव रूपेण अस्या अवभासः +++(4)+++, इति पुनरपि नास्यास् त्रयोदश-रूपत्वम्।
तद्धि अयः-शलाका-कल्पतया स्पर्धा-बन्धेन परिस्फुरतोरनयोः स्यात्, यथाहि – नटस्तत्तद्भूमिकावलम्बनवेलायां वस्तुतो नटत्वेऽपि तत्तद्रूपतयैवावभासते, न पुनः नटत्वेनापि, तथैव च संविदपि वस्तुतः शुद्धसंविन्मात्रत्वेऽपि विश्वमयतायां द्वादशकात्मनैव रूपेणावभासते, न पुनः शुद्धसंविन्मात्रात्मना त्रयोदशेनापि रूपेणावभासते, इति यथोक्तमेव युक्तम्, तस्माद्विश्वरूपतामवभासयन्ती संवित् द्वादशधैव प्रस्फुरेत्, अन्यथा पुनरेकैवेति पर्यवसितम् ।
यदागमः –

“पृथक्पृथक्स्वकार्यस्था यावत्तिष्ठन्ति देवताः ।
तावत्क्रमकृता सञ्ज्ञा विद्यते नान्यथा पुनः ॥

एकीभावतया सर्वमनाख्यायां यदा स्थितम् ।
अक्रमस्तु तदा ज्ञेयः प्रोत्तीर्णः सर्वतो यतः ॥
"

इति ।
एवं चैकत्वमपि द्वयप्रतिपक्षभूतम्, इति तद्विशेषणत्वमपि न सहते, इति संविदेवेति स्यात्, एवकारश्च अन्ययोगव्यवच्छेदकः, अन्यश्च कश्चिदपीह नास्ति, इति किं व्यवच्छिन्द्यात्, इति तद्योगमप्यसहमाना संविदित्येव स्यात्, संविच्च संवेद्यनिष्ठा, संवेद्यं नाम च स्वात्मातिरिक्तं न किञ्चिदप्यस्ति इति, तथा व्यपदेशमप्यलभमाना सर्वत्रैवाव्यपदेश्येति अनामकेति अनाख्येति चोद्धोष्यते, इत्यलं बहुना ।
ननु यद्येवं तत् कथमन्यत्र अस्यास्त्रयोदशरूपत्वमुक्तं युज्यते, नहि तन्नोपपद्यते इति वक्तुं शक्यम् – आगमात्मनो निर्बाधस्य प्रमाणस्य भावात्, तत् कथमेतत् प्रतिसमाधीयते इत्युच्यताम् ? उच्यते ↓ इह भेदाधिवासिता मायाप्रमातारस्तावदुपदेश्याः, इति समानार्थचर्यावत् तदानुगुण्येन अत्र प्रवृत्त उपदेशः सुखेन प्ररोहमियात् इति विकल्पबलोपनतं भेदमाश्रित्य संविदस्त्रयोदशरूपत्वमुक्तम्, इह पुनर्वास्तवमभेदमेवावलम्ब्य एवमुपदेशः, इति सर्वमेव प्रतिसमाहितम् ।
ननु अस्याः परस्याः संविदः

“तस्य शक्तय एताश्च तिस्रो भान्ति परादिकाः ।
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥
"

इत्याद्युक्त्या प्रागन्यथा द्वादशधोदय उक्तः, इह चान्यथा, इति पूर्वापरव्याहतत्त्वमापतेत्, इति किमेतत् ? अत्रोच्यते – इह यावता हि परस्याः संविदो द्वादशधोदयो विवक्षितः स चैवमस्तु, अनेवं वा – प्रक्रियाया विशेषे तस्याविशेषात्, एतदभिप्रायगर्भीकारेणैव च अन्यत्राप्यनेनैव “ता एताश्चतस्रः शक्तयः स्वातन्त्र्यात्प्रत्येकं त्रिधैव वर्तन्ते – सृष्टौ स्थितौ संहारे च इति द्वादश भवन्ति ।
" इत्याद्युक्त्या प्रक्रियान्तरेण अस्या द्वादशधोदय उक्तः, इति सर्वं निरवद्यम् ॥ १२५ ॥

नन्वेवंरूपत्वेनावभासमानाया अस्या वैशिष्ट्यमवश्याश्रयणीयम्, अन्यथानैक्यमेव न स्यात् तत् पुनः कुत्र कीदृक् ? – इत्याशङ्क्याह –

शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी ।
करणे ग्रहणाकारा यतः श्रीयोगसञ्चरे ॥ ४-१२६ ॥

इयं खलु परा संवित् प्राच्ये – प्रमातरि कथञ्चित्सङ्कोचोल्लासेऽपि प्रमातृरूपत्वात् शुद्धा, न पुनः प्रमाणादिवदशुद्धैव येयं संवित् सङ्कुचितमविकल्पकं ज्ञानं तत्स्वभावा, बुद्धीन्द्रियाद्यात्मकरणलक्षणे प्रमाणे च शब्दनं – विकल्पस्तद्रूपिणी भेदामर्शमयीत्यर्थः, अत एव “ग्रहणाकारा” इत्युक्तम्, ग्रहणं हि ग्राह्यग्राहकोभयापेक्षकम् ।
ननु प्रमाणदशायामपि परैव संवित् ग्रहणाकारा वर्तते, इत्यत्र किं प्रमाणम् ? इत्याशङ्क्याह – यत इत्यादि “यतः श्रीयोगसञ्चरे” इति वक्ष्यमाणमुक्तमिति शेषः ॥ १२६ ॥

तदेवाह –

ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि ।
षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ ४-१२७ ॥

ये इति द्विवचनं गोलकद्वयापेक्षया, एवमुत्तरत्रापि ज्ञेयम्, ये श्वेते चक्षुर्मण्डले दृश्येते दृश्यमाने न तु रक्तमण्डलवद्गुप्ते तत्र विश्वक्रोडीकारादुत्तमं प्रमेयप्रमाणप्रमातृप्रमाणां सर्वसर्वात्मकत्वात् षोडशारं चक्रं तिष्ठति ↓ तद्रूपतया प्रस्फुरतीत्यर्थः, यदभिप्रायेणैव श्रीक्रमसद्भावभट्टारके"अनाख्यचक्रे षोडशैव देव्यः पूज्यत्वेनोक्ताः”, यदुक्तं तत्र

“षोडशातः समासेन शृणुष्वेकमना हर ।
"

इत्यादि ।
शा सत्ता लीयते यस्याः काली द्व्यष्टकला स्मृता ॥
"

इत्यन्तम् ।
अत्र चानाख्यत्वेऽपि सृष्ट्यात्मनः प्रमेयस्य प्राधान्येनावस्थितेः सोमरूपत्वात् श्वेतत्वम् ॥ १२७ ॥

ननु यद्यत्र षोडशारं चक्रमवस्थितम्, तत् कथं द्वादशारमपि ? इत्याशङ्क्याह –

प्रतिवारणवद् रक्ते तद्-बहिर् ये तद् उच्यते ।
द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ ४-१२८ ॥

तद्-अन्तर्ये स्थिते शुद्धे भिन्नाञ्जन-सम-प्रभे ।
चतुर्-दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ ४-१२९ ॥

मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि ।
सम्मिलनोन्मीलनं ते +++(सन्धिः??)+++ अन्योन्यं विदधातके ॥ ४-१३० ॥

मूलम्

प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते ।
द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ ४-१२८ ॥

तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे ।
चतुर्दले तु ते ज्ञेये अग्नीषोमात्मकेप्रिये ॥ ४-१२९ ॥

मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि ।
सम्मिलनोन्मीलनं ते अन्योन्यं विदधातके ॥ ४-१३० ॥

तद्बहिः – श्वेतमण्डलबाह्ये, प्रतिवारणवत् – प्रतिमण्डलन्यायेन, रक्ते ये मण्डले स्थिते, तत् द्वितीयं – श्रीसृष्टिकाल्यादिरूपं द्वादशारं चक्रमुच्यते, अनाख्यत्वेऽपि अत्र स्थित्यात्मनः प्रमाणस्य प्राधान्याद्रक्तत्वम्, तद्धि प्रमेयोपरञ्जितमेव भवेत्, अतश्च प्रमेयस्य तदभेदेनैवावस्थानात् तद्गतस्य रूपचतुष्कस्य पृथगभावात् द्वादशारत्वम्, अत एवास्य प्रमेयान्तःकाराद्बहिरप्यवस्थानम्, मध्यगे - श्वेतकृष्णमण्डलान्तर्गते, अत एव अन्तर्वर्तिना कृष्णेन मण्डलेन बहिष्ठेन च श्वेतेनाच्छुरणात् श्वेतकष्णे धूसरप्राये ये पुनर्मण्डले तत्प्रमाणस्य प्रमातरि विश्रान्तेः तद्गतस्यापि रूपचतुष्कस्य पृथगभावात् संहारात्मप्रमातृप्रधानं “भैरवत्रयम्, देवीत्रयम्, कुलेश्वरः, कुलेश्वरी” चेत्यष्टारं चक्रमुच्यते – इत्यर्थावसेयम्, यद्वक्ष्यति –

“षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः ।

इति, तस्य – श्वेतस्यापि मण्डलस्यान्तर् अतीव कृष्णे – कुमारिकाशब्दव्यपदेश्ये, ये मण्डले स्थिते ते पुनः प्रमातुरपि प्रमायां विश्रान्तेः चतुर्दले ज्ञेये – देवीत्रयं श्रीमातृसद्भावश्चेति, प्रमामात्रसतत्त्वानाख्यचक्ररूपतया प्रस्फुरत इत्यर्थः, अत एव चात्र सर्वसंहारकत्वात् निर्विभागतया तमोरूपत्वात् कार्ष्ण्यम्, तदेवं चक्षुषि प्रतिनियतावयवरूपत्वेन सृष्ट्यादिक्रमचतुष्टयमवस्थितमित्युक्तम्, तत्रापि अस्य यथासम्भवं स्वरूपं निरूपयति “अग्नीषोम” इत्यादिना, एतच्चक्रचतुष्टयस्य मघ्यादग्नीषोमात्मकेप्रमातृप्रमेयमये षोडशाराष्टारे भोक्तृभोग्योभयात्मकतया मिथुनरूपे ये द्वे चक्रे स्थिते ते परस्परं सम्मीलनोन्मीलने विदधाते एव – विदधातके, सङ्कोचविकासौ कुर्वाते इत्यर्थः, प्रमाता हि स्वात्मनि सम्मीलनमादधानः प्रमेयमुन्मीलयेत् प्रमेयं च सम्मीलयन् स्वात्मानमुन्मीलयेत्, एवं प्रमेयमपीत्यन्योन्यशब्दार्थः, एतदेव च सृष्टिसंहाररूपत्वमुच्यते, प्रमेयं च नाम प्रमाणोपारोहमन्तरेण प्रमातरि विश्रान्तिमेव न यायात्, इत्यत्र स्थितेरपि अर्थाक्षिप्तत्वम्, प्रमातापि प्रमेयौन्मुख्येन “ज्ञातोऽयं मयार्थः” इति सन्तोषोत्पादान्निराकाड्क्षः सन् स्वात्मनि विश्रान्तिमासादयेत् – इति प्रमातृप्रमेयसङ्घट्टादपि पूर्णायाः परस्याः संविदः समुल्लासः स्यात् ॥ १२८-१३० ॥

अत आह –

यथा योनिश्च लिङ्गं च संयोगात्स्रवतोऽमृतम् ।
तथामृताग्निसंयोगाद् द्रवतस्ते न संशयः ॥ ४-१३१ ॥

“भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् ।
जगदुत्पादयामास मायामाविश्य शक्तिभिः ॥
"

इत्यादिनीत्या परस्परावेशलक्षणं संयोगमासाद्य योनिः – माया, लिङ्गं च –

“लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् ।
लयादागमनाच्चाहुर्भावानां पदमव्ययम् ॥
"

इत्याद्युक्त्या सृष्ट्यादिपञ्चविधकृत्यकारी परमेश्वरः, तौ यथा स्रवतः – सृष्टिं कुरुतः, तथा ते – षोडशाराष्टारे, निःसंशयममृतस्य सोमात्मनः प्रमेयस्य, अग्नेश्च प्रमातुः परस्परौन्मुख्यलक्षणात् संयोगादमृतम् ↓ अकालकलितत्वात् अनादिनिधनं परं संवित्तत्वं द्रवतः – तद्रूपतया प्रसरत इत्यर्थः, संविदेव हि आश्यानीभूता नीलादिरूपतामधिशयाना प्रमाणोपारोहद्वारेण तद्रूपतां विलाप्य प्रमातरि विश्रान्तिमुपगच्छन्ती स्वेन प्रमात्रेकात्मना रूपेण प्रस्फुरतीत्याशयः ॥ १३१ ॥

ननु मातृमेयाद्यात्मा मायीयोऽयं व्यवहारः, तत् कथं तस्मिन् सत्यप्येवं भवेत् ? – इत्याशङ्क्याह –

तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् ।
तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ ४-१३२ ॥

तयोः – प्रमातृप्रमेयात्मकयोः षोडशाराष्टारयोश्चक्रयोः, पीडनात् – सारार्थाकर्षणलक्षणान्निष्पीडनात्, रात्रौ – मायायामपि सत्याम्, अर्कसोमगं प्रमाणप्रमेयाभ्यामप्यतिक्रान्तम्, प्रमातृलक्षणं ज्योतिरवभासत एव, यत् प्रमाणाद्यपेक्षया परमं विश्वाप्यायकारित्वादिना ज्योत्स्नाशब्दव्यपदेश्यम्, दषृट्वा ↓ स्वात्मरूपतया निभाल्य

“भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् ।
"

इत्यादिनीत्या सृष्ट्याद्यात्मनो विश्वस्य कलनात्कालः – परप्रमात्रेकरूपः पूर्णः प्रकाशः, तस्य ज्ञानं प्रवर्तते – स एव तद्रूपतयावभासत इत्यर्थः ॥ १३२ ॥

ननु यद्येवं तत्, विश्वस्यावभास एव न स्यात् ? – इत्याशङ्क्याह –

सहस्रारं भवेच्चकम्र ताभ्यामुपरि संस्थितम् ।

ताभ्यां – षोडशाराष्टराभ्यामेव चक्राभ्यां सकाशात् सहस्रारं चक्रं – भूतभावभुवनादिरूपतयानन्तभेदं विश्वम्, उपरि संस्थितं भवेत् – व्यतिरिक्तायमानत्वेऽपि स्वसंलग्नमेव प्रस्फुरेदित्यर्थः ॥

ततोऽपि विश्वलक्षणाच्चक्रादवान्तराणि चक्राणि उद्भूतानि, इत्याह –

ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ ४-१३३ ॥

ब्रह्माण्डमिति – प्रकृत्यण्डादीनामप्युपलक्षणम् ॥ १३३ ॥

ननु कथमनेकप्रकारमियदविच्छेदेनैव विश्वं प्रस्फुरेत् ? – इत्याशङ्क्याह –

तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः ।

यतः क्रियाशक्त्यात्मा सोमः परप्रमात्रेकरूपेणाग्निना स्वस्वातन्त्र्यात् प्रदीपितो – बाह्यौन्मुख्ये समुत्तेजितः सन्, तत्रस्थां – विश्वत्र वर्तमानाम्, धारां मुञ्चति – प्रमातृप्रमेयादिरूपत्वेनाविच्छिन्नेन प्रवाहेण परिस्फुरति, येनायम् इयान्विश्वस्फारः ॥

न केवलमयं साधारणमेव विश्वं सृजति, यावदसाधारणमपि, इत्याह –

सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ ४-१३४ ॥

आत्मन्यात्मनि इति वीप्सायाम्प्रत्यात्ममित्यर्थः ॥ १३४ ॥

तच्च कथम् ? इत्याह –

षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः ।
एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ ४-१३५ ॥

सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः ।

अष्टारेष्विति बहुवचनादाद्यर्थो लभ्यते, इति चतुरारस्यापि आक्षेपात् षोडशद्वादशाराभ्यां सह सर्वत्र सर्वेषु चतुर्ष्वप्येतेषु, चक्रेषु, एवम् – उक्तयुक्त्या अवरोहात्मना क्रमेण, सर्वशः – सर्वप्रकारम्, उत्तमममृतं – बहीरूपतात्मकं निजं सारम्, क्रियाशक्त्यात्मा सोमः, अर्थात् तावत् स्रवति यावत् पञ्चप्रकारा बुद्धीन्द्रियादीनां चतुर्णां चक्राणां पद्धतिः – परिपाटी, पृथ्वीतत्त्वपर्यन्तं प्रमेयप्रकृतिना स्थूलेन रूपेण प्रस्फुरेदित्यर्थः ।
परमेश्वरो हि स्वस्वातन्त्र्याद्विश्वरूपतामवबिभासयिषुः सङ्कुचितप्रमातृत्वाद्याभासनक्रमेण प्रमाणप्रमेयादिरूपतामधिशयानः कार्यकारणात्मपाञ्चभौतिकशरीरादिरूपतामवभासयति, इति भावः ॥ १३५ ॥

न केवलमयं जगत् सृजत्येव यावत्संहरत्यपि, इत्याह –

तत्पुनः पिबति प्रीत्या हंसो हम्स इति स्फुरन् ॥ ४-१३६ ॥

सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते ।

अहं परप्रमातृरूपोऽपि सविश्वस्फारः, सविश्वस्फारोऽपि वा अहमेव, इत्यकृत्रिमेण सृष्टिसंहारकारिणा स्वभावभूतेन विमर्शेन सातत्येन प्रवृत्तत्वादविच्छिन्नतया प्रस्फुरन्

“परमात्मा शिवो हंसः…”

इत्याद्युक्त्या “हंसो” हानसमादानधर्मा अग्निशब्दव्यपदिष्टः परप्रमाता, तत् – प्रमातृप्रमेयाद्यात्मकं विश्वम्, पुनः – सृष्ट्याद्युत्तरकालम्, प्रीतिः – आनन्दः स्वातन्त्र्यम्, तया पिबति ↓ स्वात्मसात्करोति संहरतीत्यर्थः, यस्य परमात्मनो हंसस्य, सकृत – एकवारमपि, संश्रुत्या – साक्षात्कारेण, अर्थात् सर्वो जनः पुण्यपापैर्न लिप्यते – स्वकृतैरपि शुभाशुभैः कर्मभिर्भोगं दातुं न स्पृश्यते, अपि तु अपवृज्यत एवेत्यर्थः, तेन एतत्साक्षात्कारभाज एव जनस्य कार्तार्थ्यम्, नेतरस्य, इत्युक्तं स्यात्, यदुक्तम् –

“अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति ।
"

इति ॥ १३६ ॥

एवमस्य प्रसङ्गापतितं संहारकारित्वमभिधाय प्रकृतमेवानुबध्नाति –

पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् ॥ ४-१३७ ॥

धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः ।

अथासौ – हंसशब्दव्यपदेश्यो, विभुः – परमात्मा शिवः स्वस्वातन्त्र्याद् गृहीतसङ्कोचः, पञ्चारे – पाञ्चभौतिकेशरीरे, समनन्तरोक्तयुक्त्या सोमस्रुतेनामृतेनाप्यायितत्वात् सविकारो भूत्वा, जन्मादिविकारयोगाद्वर्धमानः सन्, त्रिरसाराणि

“अम्बुवाहा वहेद्वामा मध्यमा शुक्रवाहिनी ।
दक्षस्था रक्तवाहा च… ॥
"

इत्याद्युक्त्या त्रयोऽम्बुप्रभृतयो रसाः, तत्सङ्ख्या नाडिरूपाश्चारा येषां तथाविधानि, यद्वा वियुतत्त्वे त्र्यराणि, यामलत्वे षडराणि, अप्रकाशत्वाद् गुह्यानि, अत एव रहस्यरूपाणि जन्मस्थानप्रभृतीनि चक्राणि, धावति – जगत्सिसृक्षया तदौन्मुख्येन प्रवर्तते इत्यर्थः ॥ १३७ ॥

ननु यदि नामायं जगत्सिसृक्षुः, तत्तदौन्मुख्येन प्रवृत्त्यास्य कोऽर्थः ? इत्याशङ्क्याह –

यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ ४-१३८ ॥

यतो – येभ्यो गुह्यचक्रेभ्य एव, स्वकलीलया – स्वस्वातन्त्र्यात्, जगज्जातम् – अतिरेकायमाणतयोल्लसितम्, तथात्वेऽपि अवभासनान्यथानुपपत्त्या तदनतिरिक्तमेवेत्युक्तम् – “यत्रैव च लीनमिति” एवमेतदेव जगत्सिसृक्षोः परमात्मनः परमेश्वरस्य परं कारणम्, इति तात्पर्यार्थः ॥ १३८ ॥

न केवलमेषां बाह्यौन्मुख्य एव साधकतमत्वम्, यावत् स्वात्मविश्रान्तावपि, इत्याह –

तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः ।
तत्र सिद्धिश्च मुक्तिश्च समं सम्प्राप्यते द्वयम् ॥ ४-१३९ ॥

सर्वस्येतिम्पामरादेरपीत्यर्थः, तत्परः – तदेकपरायणः, पुनः ज्ञानी योगी वा ब्रह्मचारी

“आनन्दो ब्रह्मणो रूपम् …”

इत्याद्युक्त्या आनन्दरूपं ब्रह्माचरति ↓ परब्रह्मैकात्म्येन प्रस्फुरतीत्यर्थः, अत एव सिद्धिः – एहिक्यानन्दरूपा, मुक्तिः – ब्रह्मचारित्वरूपा, सममिति आनन्दस्यैव ब्रह्मरूपत्वात् ॥ १३९ ॥

ननु एवं विश्वसृष्टिरेकस्मादेव अस्माज्जन्मस्थानाख्याद् गुह्यचक्रात् अस्य सिद्ध्येत्, इति किमर्थं “गुह्यचक्राणि” इति वहुवचनेनायं निर्देशः? इत्याशङ्क्याह –

अत ऊर्ध्वं पुनर्याति यावद् ब्रह्मात्मकं पदम् ।
अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ १४० ॥

अतो – यथोक्ताज्जन्मस्थानाख्याद्गह्यचक्रात्, पुनरूर्ध्वं – ब्रह्यात्मकं परं पदं द्वादशान्तावस्थितम्, शक्तिव्यापिनीसमनात्मकारात्रययोगि विसर्गशब्दव्यपदेश्यं गुह्यचक्रं यावत्, याति तदौन्मुख्येन प्रर्वतते इत्यर्थः, चो हेतौ, तत्र हि आत्मना हंसशब्दव्यपदेश्येन परमेश्वरेणात्मनि – स्वभित्तौ, अहन्तेदन्तास्वभावौ प्रमातृप्रमेयात्मानावग्नीषोमौ समौ सृज्येते,

शामानधिकरण्यं हि सद्विद्याहमिदन्धियोः ॥
"

इत्यादिन्यायेन तुल्यकक्ष्यतयावभास्येते इत्यर्थः ॥ १४० ॥

यदा पुनः सोमात्मनः प्रमेयस्योद्रेकस्तदा विश्वोल्लास इत्याह –

तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः ।

तत्र – साम्यावस्थायामवस्थितः, प्रमेयात्मा सोमो, द्वेधा भासितो – भेदेन समुत्तेजितः सन्, जङ्घे व्यवस्थितः – पृथ्वीतत्त्वपर्यन्तेन विश्वात्मना स्थूलेन रूपेणोल्लसित इत्यर्थः ॥

कथं चैतत् ? इत्याह –

अधस्तं पादयेदग्निरमृतं स्रवति क्षणात् ॥ ४-१४१ ॥

गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता ।
सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ ४-१४२ ॥

अध इति – बहीरूपतायाम्, तमिति – सोमम्, अमृतं स्रवतीति – अर्थादग्नितापितः सोमो, यतः सा प्राणकुण्डलिनीरूपत्वात् कुटिला सोमात्मिका क्रियारूपा शक्तिः, अर्केण प्रमात्रैव प्रमाणदशामधिशयानेन, प्रदीपिता बहिरुल्लिलासयिषया प्रबोधिता, अत एव भूयः – पुनस्तापिता बहीरूपत्वेनैवोत्तेजिता सती, पञ्चारादिक्रमं सृजेत् – पञ्चभूतात्म विश्वमवभासयेदित्यर्थः ॥ १४२ ॥

एतदिन्द्रियान्तरेष्वपि अतिदिशति –

एवं श्रोत्रेऽपि विज्ञेयं यावत्पादान्तगोचरम् ।

पादान्तगोचरमित्यनेन कर्मेन्द्रियाणामप्येवंरूपत्वम्, इत्युक्तम् ॥

न केवलं प्रमाणरूपेष्विन्द्रियेष्वेवंरूपत्वमस्ति यावत्प्रमेयात्मसु पञ्चभूतेष्वपि, इत्याह –

पादाङ्गुष्ठात्समारभ्य यावद् ब्रह्माण्डदर्शनम् ॥ १४३ ॥

पादाङ्गुष्ठादारभ्य ब्रह्मरन्ध्रन्तं पञ्चभूतात्मकेशरीरेऽप्येवं विज्ञेयम्, इति प्राच्येन सम्बन्धः ।
एवं मेयदशायामपि परैव संविद् ग्राह्याकारा वर्तते इत्यत्रापि एतदेव प्रमाणम् इत्यर्थसिद्धम्, अत एवोत्तरत्र संवादयिष्यते ॥ १४३ ॥

नन्विन्द्रियादीनामेवंरूपत्वेनाभिहितेन कोऽर्थः ? – इत्याशङ्क्याह –

इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् ।
ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ ४-१४४ ॥

ब्रह्माद्यैरिति – एतत्स्फार एव हि सर्वलोक इति भावः, अत्र चान्तरान्तरावस्थितोऽपि चर्याक्रमः सुस्पष्टत्वात् रहस्यत्वाच्च न तथा वितानितः – इति स्वयमेवावधार्यम् ॥ १४४ ॥

एवं संवादिते आगमे तात्पर्यार्थं व्याचष्टे –

अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् ।
एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ ४-१४५ ॥

एकैकत्राक्षे इति – समस्तेष्विन्द्रियेषु इति यावत्, तेन सृष्ट्यादिक्रमचतुष्टयस्य मातृमानमेयगतत्त्वेन प्रत्येकमवस्थानेन हेतुना, यतो – यस्मात्, एकैकत्राक्षे द्वादशात्मकतोदिता ↓ एक मेकमिन्द्रियं द्वादशमरीचिरूपमित्यर्थः ॥ १४५ ॥

ननु तात्पर्यार्थव्याख्यानमेव कस्मात्कृतम् ? – इत्याशङ्क्याह –

न व्याख्यातं तु निर्भज्य यतोऽतिसरहस्यकम् ।

न केवलं परैव संवित् प्रमाणदशायां ग्रहणाकारा यावत्प्रमेयदशायामपि ग्राह्याकारा, इत्याह –

मेयेऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ ४-१४६ ॥

आदिशब्देन द्वादशसङ्ख्यावच्छिन्नानां स्वरादीनां ग्रहणम्, यदुक्तम् –

“द्वादशैव स्वराः प्रोक्ता नपंसकविवर्जिताः ।
आदित्या द्वादश प्रोक्ता द्वादशारव्यवस्थिताः ॥

मासा द्वादश इत्युक्ताः कला द्वादशसञ्ज्ञिताः ।
"

इति, तन्मेयदशायामपि अस्या द्वादशात्मकत्वमेव, इति भावः ॥ १४६ ॥

एवमेकैवेयं परा संवित् तत्तद्रूपतया सर्वत्रावभासते, इत्याह –

अत एषा स्थिता संविदन्तर्बाह्योभयात्मना ।
स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ ४-१४७ ॥

अतो – यथोपपादितात् सर्वत्रैव अवस्थानाद्धेतोः, एषा – प्रत्यवमर्शात्मा परा संवित्, स्वमाहात्म्यादन्तर्बाह्योभयात्मना प्रमातृप्रमेयादिरूपतया स्वात्मानमवभास्य स्थितापि तत्र अन्यद्व्यतिरिक्तमिवावभासयन्ती, भासते – सर्वस्यानुभवसिद्धोऽयमर्थ इत्यर्थः, यद्यपि वस्तुतः परा संविदेवावभासते तदतिरेकेहि न किञ्चिद्भायात् तथाप्यामुखे तत्स्वातन्त्र्यादेव तदतिरिक्तमिव प्रमात्रादि अवभासते येनास्या द्वादशधात्वमुल्लसितम् ॥ १४७ ॥

तदेव चेदानीं विभज्य दर्शयन्, क्रमनयसोदरतामस्य दर्शनस्यावेदयति –

ततश् च प्राग् इयं शुद्धा +++(परा संवित्)+++ तथाऽऽभासन-सोत्सुका ।
सृष्टिं कलयते देवी तन्-नाम्ना ऽऽगम उच्यते ॥ ४-१४८ ॥

मूलम्

ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका ।
सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ ४-१४८ ॥

विस्तारः (द्रष्टुं नोद्यम्)

ततः – परस्या एव संविदस् तत्-तत्-प्रमात्रादि-रूपत्वेन परिस्फुरणाद् +धेतोः, – तथात्वेन स्फुरणात् प्राक्, शुद्धा – प्रमात्रादि-नियत-रूपाऽनारूषिता +इयं “श्रीकाल-सङ्कर्षिणी”-शब्द-व्यपदेश्या परा संविद् देवी काल-कलना-कलङ्क-ग्रसिष्णुतया द्योतमाना, तथा स्वात्माऽनतिरेकेऽपि +अतिरेकायमाणतया यत् स्वातन्त्र्याद् भासनम्, तत्र सोत्सुका सिसृक्षा-योगिनी सती, सृष्टिं कलयते – बहिर् आसूत्रित-प्रायं भाव-जातं विमृशति, अत एव तन्-नाम्ना +अन्व्-अर्थेन “श्री-सृष्टि-काली”-शब्देन, आगमे – श्रीपञ्चशतिकादौ, उच्यते – अभिधीयते इत्यर्थः।

यदुक्तं तत्र

“मन्त्रोदया व्योम-रूपा > व्योम-स्था व्योम-वर्जिता ।
सर्वा सर्व-विनिर्मुक्ता > विश्वस्मिन् सृष्टि-नाशिनी ॥

या कला विश्व-विभवा > सृष्ट्यर्थ-करण-क्षमा ।
यद्-अन्तः शान्तिम् आयाति > सृष्टि-कालीति सा स्मृता ॥
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

कौलार्णवानन्द-घनोर्मि-रूपाम् > उन्मेष-मेषोभय-भाजम् अन्तः ।
निलीयते नील-कुलालये या > तां सृष्टि-कालीं सततं नमामि ॥

इति ॥ १४८ ॥

एवं प्रमेय-गतं सृष्टि-स्वरूपम् अभिधाय, स्थिति-स्वरूपम् अप्य् अभिधातुम् आह ↓

तथा भासित-वस्त्व्-अंश- रञ्जनां सा +++(परा संविद्)+++ बहिर्-मुखी ।
स्व-वृत्ति-चक्रेण समं ततोऽपि कलयन्त्य् अलम् ॥ ४-१४९ ॥

स्थितिर् एषैव भावस्य +++(तन्नाम्ना +आगम उच्यते)+++… ।

मूलम्

तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी ।
स्ववृत्तिचक्रेण समं ततोऽपि कलयन्त्यलम् ॥ ४-१४९ ॥

स्थितिरेषैव भावस्य… ।

विस्तारः (द्रष्टुं नोद्यम्)

ततः – श्रीसृष्टिकाल्य्-उदयानन्तरम् अपि, सा – परैव प्रमात्रैकरूपा संवित्, बहिर्मुखी - स्व-स्वातन्त्र्यात् प्रमाण-दशाम् अधिशयाना, स्वम् आत्मीयं यच्-चक्षुर्-आदीन्द्रिय-सम्बन्धि रूपाद्य्-आलोचनात्मकं वृत्तिचक्रम्, तेन समं तथातिरेकायमाणतया भासितं यद् विश्वलक्षणं वस्तु, तस्य ये

“रूपादि-पञ्च-वर्गोऽयं > विश्वम् एतावद् एव हि ।
"

इत्याद्य्-उक्त्या रूपाद्या अंशाः तत्-कर्तृकां रञ्जनाम्, अलम् - अत्यर्थम्, आत्म-विषयतया ऽपि कलयन्ती, अ-विकल्प-वृत्त्या जानाना सती -

“मानं हि नाम मेयोपरञ्जितम् एव भवेत्” इत्य् अविवादः।
मानात्मना च बहिर्-मुखेन रूपेण मातैव स्फुरेद् इति, तस्यापि तद्-द्वारेणैव मेयोपरञ्जनम्, न पुनः – साक्षाद् इति भावः।

एषैव रूपादेर् भावजातस्य स्थितिः – अवभासनात्मिका व्यक्तिर् इत्यर्थः।
मेयं हि नाम स्वात्मनि न किञ्चिद् इति, प्रमाणोपारोहेणैव +अस्य स्थितिः स्यात् इति – एव-काराशयः।

एवंविधा चेयं मेये एवाऽऽसक्त्या रक्त-काली-शब्द-व्यपदेश्या+++(5)+++, इति अत्रापि तन्नाम्ना +आगम उच्यते, इति प्राच्येन सम्बन्धः, तदुक्तं श्रीपञ्चशतिके –

न चैषा चक्षुषा ग्राह्या न च सर्वेन्द्रियस्थिता ।
निर्गुणा निरहङ्कारा रञ्जयेद्विश्वमण्डलम् ॥

सा कला तु यदुत्पन्ना सा ज्ञेया रक्तकालिका ।
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

“महाविनोदार्पितमातृचक्रवीरेन्द्रकासृग्रसपानसक्ताम् ।
रक्तीकृतां च प्रलयात्यये तां नमामि विश्वाकृतिरक्तकालीम् ॥
"

इति ।

ननु सर्वत्रैवान्यत्र श्रीसृष्टिकाल्यनन्तरं श्रीस्थितिकाल्या अभिधानम्, यदुक्तं

श्रीसार्धशतिके “द्वादशारं महाचक्रं रश्मिरूपं प्रकीर्तितम् ।
नाम चैव प्रवक्ष्यामि रश्मीनां तु यदास्थितम् ॥

सृष्टिः स्थितिश्च संहारो रक्तकाली तथैव च ।
स्वकाली यमकाली च मृत्युकाली तथैव च ॥

रुद्रश्च परमार्कश्च मार्तण्डश्च ततः परः ।
कालाग्निरुद्रकाली च महाकाल्यभिधा पुनः ॥

महाभैरवशब्दश्च घोराशब्दस्ततः परः ।
चण्डकालीपदं चान्ते त्रयोदश उदाहृताः ॥
"

इति, तत्कथमिह तदनन्तरं श्रीरक्तकाल्यादिनिर्देशः कृतः, एवं हि आगमविरोधः स्यात् ? सत्यं – किं तु आगमे संवित्क्रमगोपनार्थम् आलूनविशीर्णतयैवमभिधानम्, यथा श्रीपञ्चशतिकेस्थितिक्रमेऽपि, यदेव चानुसृत्य महागुरुभिः पूजाक्रमः प्रक्रान्तः, इह तु पूजाक्रमगोपनाय स्वशय्ययैव स्थापनम्, यदधिकृत्य संवित्क्रमः परिनिष्ठितिमियात्, अत एवागमैकशरणतया प्रवृत्तेऽपि श्रीक्रमस्तोत्रे ग्रन्थकृतां संवित्क्रममेव प्रदर्शयितुं तद्विवृतौ श्रीसृष्टिकाल्यादिस्तुतिश्लोकव्याख्यानानन्तरं श्रीरक्तकाल्या भगवत्याः अतः परं स्थितिः सम्भाव्यते इत्याद्युक्तम्, इह पुनः संवित्क्रमाभिप्रायेणैव मुक्तकण्ठमेवमभिधानम्, इति न कश्चिद्दोषः ॥ १४९ ॥

एवं प्रमेय-गतं स्थिति-स्वरूपम् अभिधाय संहार-स्वरूपम् अप्य् अभिधातुमाह –

… +++(परा संवित्)+++ ताम् +++(प्रमाण-रूपां स्थितिं)+++ अन्तर्मुख-तारसात् ।
+++(“ज्ञातो मयार्थः” इति तृप्ता)+++ सञ्जिहीर्षुः स्थितेर् नाशं कलयन्ती निरुच्यते +++(स्थिति-नाश-काली)+++॥ ४-१५० ॥

मूलम्

…तामन्तर्मुखतारसात् ।
सञ्जिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ ४-१५० ॥

विस्तारः (द्रष्टुं नोद्यम्)

सैव परा संविद् देवी, तां – प्रमाण-रूपां रक्त्य्-अपर-पर्यायां स्थितिम्, अन्तः प्रमात्रैकात्मतायाम् औन्मुख्ये “ज्ञातो मयार्थः” इति स्वात्म-विश्रान्ति-चमत्कारात्मनो रसात्, (सञ्जिहीर्षुः) संहर्तुम् इच्छुः – आत्मसाच् चिकीर्षुः, अत एव स्थितेर् नाशं कलयन्ती निरुच्यते श्री-क्रम-भट्टारकादौ स्थिति-नाश-काली-शब्द-व्यपदेश्येत्यर्थः।

यदुक्तं तत्र –

“वाजिद्वयस्वीकृतवातचक्र प्रकान्तसङ्घट्टगमागमस्थाम् ।

शुचिर्ययास्तं गमितोऽर्चिषा तां शान्तां नमामि स्थितिनाशकालीम् ॥
"

इति ।
श्रीपञ्चशतिकेऽपि –

“हासिनी पौद्गली येयं बालाग्रशतकल्पना ।
कल्पते सर्वदेहस्था स्थितिः सर्गस्य कारिणी ॥

यदुत्पन्ना तु सा देवी पुनस्तत्रैव लीयते ।
तां विद्धि देवदेवेश स्थितिकालीं महेश्वर ॥
"

इति ॥ १५० ॥

एवं प्रमेय-गतं संहार-स्वरूपं निरूप्य, अनाख्य-स्वरूपम् अप्य् आह –

ततोऽपि संहार-रसे पूर्णे विघ्न-करीं स्वयम् ।
शङ्कां यमात्मिकां भागे सूते संहरतेऽपि च ॥ ४-१५१ ॥

मूलम्

ततोऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् ।
शङ्कां यमात्मिकां भागे सूते संहरतेऽपि च ॥ ४-१५१ ॥

विस्तारः (द्रष्टुं नोद्यम्)

ततः – श्री-स्थिति-नाश-काल्य्-उदयानन्तरम् अपि, एवम्-उक्त-रूपस्य संहारस्य प्रमातृतात्मनि रसे, पूर्णे – परां धाराम् अधिरूढे, सैव परि-गृहीत-परिमित-प्रमातृ-भूमिका संवित्, स्वयं – स्व-स्वातन्त्र्य-महिम्ना, बहिर्-औन्मुख्यात्मन्य् एकस्मिन् भागे, यमयति - “इदं कार्यम् इदं न” इति नियताव् अवस्थापयति + इति यमो – विकल्पः, तद्-अनुप्राणिता येयं शङ्का – शास्त्राणाम् आनन्त्यात् कार्याकार्य-विभागस्य विपर्ययेणापि दर्शनात् किङ्कर्तव्यतया मूढतात्मा विचिकित्सा, अत एव

“…शङ्काया विघ्नभाजनम् ।
"

इत्य्-आद्य्-उक्त्या स्व-स्वरूपानुप्रवेशे विघ्नकरी, तां सूते – प्रमेय-कक्ष्या-पर्यन्तम् उल्लासयति, अन्तर् – औन्मुख्यात्मनि द्वितीयस्मिन् भागे च, संहरते – विगलित-नियति-सङ्कोच-विधि-निषेधाविषय-पर-संविद्-आत्मना स्वेनैव विकस्वरेण+++(=विकासशीलेन)+++ रूपेण परिस्फुरति

“रासभ्या मूत्रकाले तु योनिः प्रस्पन्दते यथा ।
"

इत्याद्युक्त-वदन-वर-तमेव सङ्कोच-विकास-मयतया +अनियतेन रूपेणाख्यातुम् अशक्या, इत्येवं यमं कलयन्ती “यम-कालीति” निरुच्यते, इति पूर्ववदाक्षेपः, तदुक्तं श्रीपञ्चशतिके –

“यमरूप-स्वरूपस्था > रूपातीत-स्वरूप-गा ।
सा कला लीयते यस्यां > यमकाली तु सा स्मृता ॥
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

सर्वार्थ-सङ्कर्षण-संयमस्य यमस्य यन्तुर् जगतो यमाय ।
वपुर् महाग्रास-विलास-रागात् सङ्कर्षयन्तीं प्रणमामि कालीम् ॥
"

इति ।

एवं प्रमेयांश-ग्रास-रसिकं सृष्ट्य्-आदि-देवी-चतुष्टयं निरूपितम् ॥ १५१ ॥

इदानीं तु प्रमाणांश-भक्षण-प्रवणं संहारादि-देवी-चतुष्कं निरूपयति –

संहृत्य शङ्कां शङ्क्यार्थ- वर्जं वा भाव-मण्डले ।
संहृतिं कलयत्य् एव स्वात्म-वह्नौ विलापनात् +++(तन्नाम्ना आगम उच्यते संहारकाली)+++ ॥ ४-१५२ ॥

मूलम्

संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले ।
संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ ४-१५२ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवं यमात्मिकां शङ्कां संहृत्य शङ्का-स्थानं वा शङ्क्यान् कार्याकार्य-रूपान् अर्थान्, परिहृत्य – उपसंहृत्य, तन्-नान्तरीयक-वृत्त्या सा परैव संविद् देवी स्वात्म-वह्नि-सात्कार-लक्षणाद् विलापनाद् +धेतोः, निखिले भाव-मण्डले, संहृतिं कलयत्य् एव, येन – श्रीपञ्चशतिकादौ संहार-काली-शब्द-व्यपदेश्या, इति तन्नाम्ना आगम उच्यते, इति दूरेण सम्बन्धः।
तदुक्तं तत्र –

“चण्ड-काली शुद्ध-वर्णा > यामृत-ग्रसनोद्यता ।
भावाभाव-विनिर्मुक्ता > विश्वसंहार-रूपिणी ॥
यत्र सा याति विलयं > सा च संहारकालिका ।
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

“उन्मन्यनन्ता निखिलार्थ-गर्भा > या भाव-संहार-निमेषम् एति ।
सदोदिता सत्य् उदयाय शून्यां > संहारकाली मुदितां नमामि ॥
"

इति ॥ १५२ ॥

कीदृक् चात्रोपसंह्रिय-माणानां भावानां कलनम् ? – इत्याशङ्क्याह -

विलापनात्मिकां तां च भाव-संहृतिम् आत्मनि ।
आमृशत्य् एव येनैषा मया ग्रस्तम् इति स्फुरेत् ॥ ४-१५३ ॥

मूलम्

विलापनात्मिकां तां च भावसंहृतिमात्मनि ।
आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ ४-१५३ ॥

विस्तारः (द्रष्टुं नोद्यम्)

स्वयम् एव हि नाम भावानां संविद्-विलीनतोत्पादनात्मा संहारो, यद् बहीरूपता-विलापनेन प्रमाण-दशाम् अधिशयानायां संवित्ताव् अभेदेन परामर्शनम्, यत एवेयं संवित् - “मयैतदर्थजातम् आत्मनि +अभेदेनावभासितम्” इत्येवं स्फुरत्तारूपा भवेत्, इत्युक्तं – “येनैषा मया ग्रस्तमिति स्फुरेदिति"।
इयम् एव हि संविदः प्रमाण-रूपतायां सृष्टिः – यत् तत्-तद्-अर्थारूषिता चकास्याद् इति ॥ १५३ ॥

एवं प्रमाणगतं सृष्टि-स्वरूपम् अभिधाय, स्थिति-स्वरूपम् अप्य् अभिधातुम् आह –

संहार्योपाधिर् एतस्याः स्वस्वभावो हि संविदः ।
निरुपाधिनि संशुद्धे संविद्-रूपेऽस्तम् ईयते ॥ ४-१५४ ॥

मूलम्

संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः ।
निरुपाधिनि संशुद्धे संविद्रूपेऽस्तमीयते ॥ ४-१५४ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवं संहरणीये संहृतेऽपि, एतस्याः – प्रमाणमय्या निखिलार्थ-संहर्तृत्वात् मृत्यु-रूपायाः संविदः, संहारणीय-कार्याकार्याद्य्-अर्थ-विच्छिन्नो, यः स्वः सर्वत एवासाधारणः स्वभावः, स स्वांश-संविद्-विश्रान्तिम् अन्तरेण स्थितिम् एव न यायात्, इति प्रमेयम् इव प्रमाणे निरुपाधिनि – तत्-तद्-अर्थानारूषिते, अत एवं संशुद्धे – प्रमात्रात्मनि, संविद्-रूपेअस्तमीयते” – तत्रैव रक्तिरूपां विश्रान्तिं गच्छेत् येनास्याः संहर्तृत्वम् एव व्यवतिष्ठते, इत्येवं मृत्युरूपाया अपि संविदः कलनात् “मृत्यु-कालिति” सर्वत्रेयम् उद्घोष्यते, इत्यर्थत एतल्लब्धम्, तदुक्तं श्रीपञ्चशतिके –

“ओम् इत्य् एषा कुलेशानी > मृत्यकालान्तपातिनी ।
मृत्युकालकला यस्याः > प्रविशेद् विग्रहं शिव ॥

तदा सा मृत्युकालीति > ज्ञेया गिरिसुताधव ।
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

“ममेत्यहङ्कारकलाकलापविस्फारहर्षोद्धतगर्वमृत्युः ।
ग्रस्तो यया घस्मरसंविदं तां नमाम्यकालोदितमृत्युकालीम् ॥
"

इति ॥ १५४ ॥

एवं प्रमाणगतं स्थिति-स्वरूपम् अभिधाय संहार-स्वरूपम् अप्य् आह –

विलापितेऽपि भावौघे कञ्चिद् भावं तदैव सा ।
आश्यानयेद्+++(=घनीकुर्यात्)+++ य एवास्ते शङ्का-संस्कार-रूपकः ॥ ४-१५५ ॥

शुभाशुभतया सोऽयं सोष्यते+++(←षुञ् अभिषवे)+++ फलसम्पदम् ।

मूलम्

विलापितेऽपि भावौघे कञ्चिद्भावं तदैव सा ।
आश्यानयेद्य एवास्ते शङ्कासंस्काररूपकः ॥ ४-१५५ ॥

शुभाशुभतया सोऽयं सोष्यते फलसम्पदम् ।

विस्तारः (द्रष्टुं नोद्यम्)

एवं हि निरुपाधि-शुद्ध-प्रमातृ-संविद्-विश्रान्त्या संहृतेऽपि कार्यरूपे भावौघे, सा परा संवित् तद्-विलाप-समनन्तरम् एव कञ्चित् प्रतिनियतरूपं भावम् आश्यानयेत् – विलापितत्वेऽपि कथञ्चिद् भेदावभासात्मतया घनताम् आपादयेत्, य एवाश्यानीभूतः संस्कार-रूपतया वर्तमानः “शङ्का आस्ते” - तन्-निमित्ततया +अवतिष्ठते इत्यर्थः, यद्-वशाद् एव विचित्राचार-प्रदर्शकेष्व् अनन्तेषु शास्त्रेषु कार्याकार्य-विभाग-निश्चयम् अलभमानस्य प्रमातुः

“अधर्मं धर्मम् इति या बुद्ध्यते तमसा वृता ।
"

इत्यादिदृशा यदेव यथा हृदये प्ररोहति तदेव तस्य तथा फलेत् – इति स एवायं शङ्का-निमित्तं कार्याकार्य-लक्षण-प्रतिनियत-भावाहितः संस्कारः प्रबुद्धः सन् शुभाशुभरूपां फलसम्पदं जनयिष्यते, येनायं लोकः स्वर्-निरयादि-पात्रतया सुखदुःखादिभोक्तृताम् इयात् ॥ १५५॥

नन्वेवं शङ्कमानः प्रमाता कार्याकार्ययोर् निश्चयानुत्पादात् न किञ्चिद् अप्य् अनुतिष्ठेत्, इति किम् अस्य शुभाशुभतया फलेत् ? – इत्याशङ्क्याह –

पूर्वं हि भोगात् पश्चाद् वा शङ्केयं व्यवतिष्ठते ॥ ४-१५६ ॥

मूलम्

पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ ४-१५६ ॥

विस्तारः (द्रष्टुं नोद्यम्)

इह सर्वस्य लोकस्य नानात्वेन कार्याकार्ययोः श्रुतेः सुखदुःखाद्यनुभवात् पूर्वम् एव तावच् छङ्का जायते - “किमनुष्ठेयं मया” इति, स्वसंस्कारप्रबोधतारतम्यात्तु कुत्रचिदेव कस्यचित्तन्निश्चयः समुत्पद्यते, तदनुष्ठानादस्य शुभाशुभफलभागितया सुखदुःखादौ भोक्तृता स्यात्, तदनन्तरं च दुःखाद्युपघातादेवमस्य शङ्का सम्प्रजायते “यदकार्यमेव नूनं मया कार्यतयानुष्ठितम्, येनैवमस्मि दुःखपराभूतो जातः” इति, ततश्च पूर्वं कृतमपि ब्रह्मणालम्भनादि तत्कालमेवेयं शङ्का शिथिलयति, येन तदनुशयवशाच्छुभमशुभं वा फलं दातुं न शक्नुयात् ॥ १५६ ॥

तदेवाह –

अन्यद् आश्यानितम्+++(=घनीकृतम्)+++ अपि तदैव द्रावयेद् इयम् ।
प्रायश्चित्तादि-कर्मभ्यो ब्रह्माहत्यादिकर्मवत् ॥ ४-१५७ ॥

मूलम्

अन्यदाश्यानितमपि तदैव द्रावयेदियम् ।
प्रायश्चित्तादिकर्मभ्यो ब्रह्माहत्यादिकर्मवत् ॥ ४-१५७ ॥

विस्तारः (द्रष्टुं नोद्यम्)

न च मितः प्रमाता तदीयो वा चैतसिकः शङ्काख्यो धर्म एवं विधातुम् उत्सहते, इत्याह –

रोधनाद् द्रावणाद् रूपम् इत्थं कलयते चितिः ।

मूलम्

रोधनाद् द्रावणाद्रूपमित्थं कलयते चितिः ।

विस्तारः (द्रष्टुं नोद्यम्)

एवं संस्कारात्मना ऽवस्थितस्यापि +अर्थस्य, रोधनाद् द्रावणाच्च +इयं परा संविद् उक्तेन प्रकारेण रूपं कलयन्ती श्रीक्रमसद्भावट्टारके “रुद्रकालीति” व्यपदिष्टेत्य् अर्थः।
तदुक्तं तत्र –

“इदं सर्वमसर्वं यत्संहारान्तं तु नित्यशः ।
कुटिलेक्षणरेखान्तग्रस्तमस्तमितं च यत् ॥

ततो बोधरसाविष्टा स्पन्दमाना निराकुला ।
दीधितीनां सहस्रं यद्वमेच्च पिबते भृशम् ॥

सा कला लीयते यस्यं रुद्रकालीति सा स्मृता ।
"

इति, श्रीपञ्चशतिकादौ पुनरियं “भद्रकाली” इत्युक्ता, इति नाम्नि भेदेऽपि वस्तुनि न कश्चिद्भेदो, यद्रुद्धं वार्थं द्रावयेद्भिन्नं वा, इत्युभयथापि अर्थानुगम इति, तदुक्तं तत्र –

“गमागमसुगम्यस्था महाबोधावलोकिनी ।
मायामलविनिर्मुक्ता विज्ञानामृतनन्दिनी ॥

सर्वलोकस्य कल्याणी रुद्रा रुद्र सुखप्रदा ।
यत्रैव शाम्यति कला रुद्रकालीति सा स्मृता ॥

भेदस्य द्रावणाद्भद्रा भद्रसिद्धिकरीति या ।

इति ।
श्रीक्रमस्तोत्रेऽपि –

“विश्वं महाकल्पविरामकल्पभवान्तभीमभ्रुकुटिभ्रमन्त्या ।
याश्नात्यनन्तप्रभवार्चिषा तां नमामि भद्रां शुभभद्रकालीम् ॥
"

इति ॥

न केवलमियमाश्यानीभावेन रुद्धमेवार्थं द्रावयेत्, यावद् द्रावितमपि रोधयेत्, इत्याह –

तद् अपि द्रावयेद् एव तद् अप्य् आश्यानयेद् अथ ॥ ४-१५८ ॥

मूलम्

तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ ४-१५८ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवं चात्र प्रमाणरूपत्वेऽपि तत्-तद्-अर्थ-संहार-कारिणः प्रमातुर् एव प्राधान्यम्, येन ग्रन्थकृतो रुद्रशब्दे भरः ॥ १५८ ॥

एवं प्रमाणगतं संहार-स्वरूपं निरूप्य, अनाख्य-स्वरूपम् अपि निरूपयितुम् आह –

इत्थं भोग्येऽपि सम्भुक्ते सति तत्-करणान्य् अपि ।
संहरन्ती कलयते द्वादशैवाहम्-आत्मनि ॥ ४-१५९ ॥

मूलम्

इत्थं भोग्येऽपि सम्भुक्ते सति तत्करणान्यपि ।
संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ ४-१५९ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवम् उपसंहृतेऽपि +अर्थे तत्-परिच्छेद-कारीणि द्वादशापि करणानि संहरन्ती संवित् अहमात्मन्य् अहङ्कारे, कलयते – तत्रैव लीनतां नयेद् इत्य् अर्थः ॥ १५९ ॥

ननु कान्य् एतानि द्वादश करणानि, किं चैषां करणत्वम् ? – इत्याशङ्क्याह –

कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः ।
प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ ४-१६० ॥

विस्तारः (द्रष्टुं नोद्यम्)

बुद्ध्यन्त इति – मनसा सह, प्रकाशकत्वादिति – अर्थालोचनात्मनः, सूर्यात्मेति –

सूर्यं प्रमाणम् इत्य् आहुः…

इत्य्-आद्य्-उक्त्या प्रमाणरूप इत्यर्थः, भिन्नं प्रमेयं परिच्छिन्दच्च प्रमाणमुच्यते इत्युक्तं “भिन्ने वस्तुनि जृम्भते” इति ॥ १६० ॥

नन्वहङ्कारस्यापि अन्तःकरणान्तःपातः समस्ति, इति कथं “द्वादशैव करणानि” इत्युक्तम् ? – इत्याशङ्क्याह –

अहङ्कारस् तु करणम् अभिमानैकसाधनम् ।
अविच्छिन्न-परामर्शी लीयते तेन तत्र सः ॥ ४-१६१ ॥

मूलम्

अहङ्कारस्तु करणमभिमानैकसाधनम् ।
अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ ४-१६१ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अहङ्कारः पुनः “अहं शृणोम्य् अहं पश्यामि” इत्याद्य् अभिमानैक-साधनत्वाद् अविच्छिन्नतया प्रमात्रभेदेन विशेषानुपादानात् सर्वस्यार्थस्य परामर्शनशीलः करणम्, इत्य् असौ द्वादश-विधोऽपि करण-वर्गः तत्राहङ्कारे लीयते – तदेकविश्रान्तो भवेद् इत्य् अर्थः ॥ १६१ ॥

ननु करणत्वाविशेषेऽपि बुद्ध्यादिरेव करणवर्गः कथङ्कारमहङ्कारे लीयते ? इत्याशङ्कां दृष्टान्तोपदर्शनेनोपशमयति –

यथाहि खड्ग-पाशादेः +++(प्रेर्यस्य)+++ करणस्य विभेदिनः ।
अभेदिनि स्वहस्तादौ +++(प्रेरके)+++ लयस् तद्वद् अयं विधिः ॥ ४-१६२ ॥

मूलम्

यथाहि खङ्गपाशादेः करणस्य विभेदिनः ।
अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ ४-१६२ ॥

विस्तारः (द्रष्टुं नोद्यम्)

इह करणस्य व्यतिरिक्तत्वे किं प्रेयत्वं सर्वस्यापि तथा प्रसङ्ङ्गः, प्रेर्यत्वे च पेर्रणक्रियायां कर्मत्वं स्यात्, न करणत्वम्, न च अकरणिका क्रिया भवेत्, इति तत्रापि करणान्तरेण भाव्यम्, इत्यनवस्था स्यात्, तद्व्यतिरिक्तस्यापि खड्गादेः करणस्य यथा कर्त्रभिन्नहस्ताद्यभेदभावनया करणत्वं घटते, तथा अहमंशस्पर्शितया प्रमात्रभेदिन्यहङ्कारेऽपि बुद्ध्यादेर्लयात्, इति युक्तमुक्तम् – अहङ्कारे बुद्धिर्लीयते इति ॥ १६२ ॥

एतदेव प्रकृते विश्रमयति –

तेनेन्द्रियौघ-मार्तण्ड- मण्डलं कलयेत् स्वयम् ।
संविद्-देवी स्वतन्त्रत्वात् कल्पिते ऽहङ्कृतात्मनि ॥ ४-१६३ ॥

मूलम्

तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् ।
संविद्देवी स्वतन्त्रत्वात्कल्पितेऽहङ्कृतात्मनि ॥ ४-१६३ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तेन – उक्तेन क्रमेण, स्वस्वातन्त्र्यात् स्वयम्, न तु परिमितप्रमात्रादिव्यवधानेन, संविद्देवी द्वादशसङ्ख्यावच्छिन्नं बुद्ध्यादीन्द्रियमार्तण्डमण्डलं देहादावभिनिवेशात्कल्पितेऽहङ्कृतात्मनि कलयेत् – तदेकमयतामापादयेत्, येन श्रीक्रमस्तोत्रादौ इयं “मार्तण्डकाली” इत्युच्यते, तदुक्तं तत्र –

“मार्तण्डमापीतपतङ्गचक्रं पतङ्गवत्कालकलेन्धनाय ।
करोति या विश्वरसान्तकां तां मार्तण्डकालीं सततं प्रणौमि ॥
"

इति ।
श्रीपञ्चशतिकेऽपि –

“शब्दब्रह्मपदातीता षटित्रशान्तनवान्तगा ।
ब्रह्माण्डखण्डादुत्तीर्णा मार्तण्डी मूर्तिरव्यया ॥

सा कला लीयते यस्यां मार्तण्डी कालिकोच्यते ।
"

इति ॥१६३॥

एवं प्रमाणांशभक्षणप्रवणं देवीचतुष्टयं निरूपितम्, इदानीं प्रमात्रंशचर्वणाचतुरं देवीचतुष्टयं निरूपयति –

स एव परमादित्यः पूर्ण-कल्पस् त्रयोदशः ।
करणत्वात् प्रयात्य् एव कर्तरि प्रलयं स्फुटम् ॥ ४-१६४ ॥

मूलम्

स एव परमादित्यः पूर्णकल्पस्त्रयोदशः ।
करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ ४-१६४ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवमहङ्कारनाम्नि परमादित्ये संहृतेषु बुद्ध्यादिषु द्वादशसु करणेषु स एवाहङ्कारनामा त्रयोदशः प्रमातृतोन्मुखीभावात् पूर्णकल्पः परमादित्यः करणत्वात् कर्तर्येव स्फुटं प्रलयं प्रयाति – तदेकरूपतामासादयेदित्यर्थः ॥ १६४ ॥

ननु द्विविधः कर्ता – सङ्कुचितश्चसङ्कुचितश्च, तदयं कुत्र तावत् प्रलयं प्रयाति ? – इत्याशङ्क्याह –

कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः ।
कल्पितो देह-बुद्ध्यादि- व्यवच्छेदेन चर्चितः ॥ ४-१६५ ॥

कालाग्नि-रुद्र-सञ्ज्ञास्य शास्त्रेषु परिभाषिता ।
कालो व्यवच्छित् तद्-युक्तो वह्निर् भोक्ता यतः स्मृतः ॥ ४-१६६ ॥

संसाराकॢप्ति-कॢप्तिभ्यां रोधनाद् द्रावणात् प्रभुः +++(रुद्रः)+++ ।

अनिवृत्त-पशू-भावस् तत्राहङ्कृत् प्रलीयते ॥ ४-१६७ ॥

मूलम्

कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः ।
कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ ४-१६५ ॥

कालाग्निरुद्रसञ्ज्ञास्य शास्त्रेषु परिभाषिता ।
कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ ४-१६६ ॥

संसाराकॢप्तिकॢप्तिभ्यांरोधनाद् द्रावणात्प्रभुः ।
अनिवृत्तपशूभावस्तत्राहङ्कृत्प्रलीयते ॥ ४-१६७ ॥

विस्तारः (द्रष्टुं नोद्यम्)

अस्येति – देहबुद्ध्यादिव्यवच्छेदभाजः कल्पितस्य प्रमातुः।

किं च अस्याः सञ्ज्ञायाः प्रवृत्ताव् अत्र निमित्तम् ? – इत्याशङ्क्याह – “काल” इत्यादि, व्यवच्छित् – व्यवच्छेदः, तेन कालेन तद्व्यवच्छेदेन युक्तो ऽग्निर् भोक्ता, स एव च किञ्चिद् भोग्य-संस्कारस्याप्रबोधात् “ममैतन् मा भूत्” इति रुणद्धि, प्रबोधाच्च किञ्चिद् द्रावयति, भोगेन स्वात्मसात्करोति रुद्रः

अत एव भोग्यौन्मुख्यात् अनिवृत्तपशूभावः – प्रोन्मिषद्-अभिलाषात्मकाणव-मल-योग इत्य् अर्थः, तत्रेति – कालाग्नि-रुद्र-सञ्ज्ञे सङ्कुचिते प्रमातरि, एवम् अहङ्कार-नाम्नः परमार्कस्य परिमिते कालाग्नि-रुद्रसञ्ज्ञे प्रमातरि,

एवङ्कलनात् श्रीक्रमस्तोत्रादावियं “परमार्ककाली” इत्युच्यते, तदुक्तं तत्र –

“अस्तोदितद्वादशभानुभाजि यस्यां गता भर्गशिखा शिखेव ।
प्रशान्तधाम्नि द्युतिनाशमेति तां नौम्यनन्तं परमार्ककालीम् ॥
"

इति ।
श्रीपञ्चशतिकेऽपि –

“एकाकिनी चैकवीरा सुसूक्ष्मा सूक्ष्मवर्जिता ।
परमात्मपदावस्था परापरस्वरूपिणी ॥

सा कला पररूपेण यत्र संलीयते शिव ।
सा कला परमार्केति ज्ञेया भस्माङ्गभूषण ॥
"

इति ॥ १६५-१६७ ॥

एवं प्रमातृगतं सृष्टिस्वरूपमभिधाय स्थिति-स्वरूपमप्याह –

सोऽपि +++(कालाग्निरुद्रः)+++ कल्पित-वृत्तित्वाद् विश्वाभेदैकशालिनि ।
विकासिनि महाकाले लीयते ऽहम्-इदम्-मये ॥ ४-१६८ ॥

मूलम्

सोऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि ।
विकासिनि महाकाले लीयतेऽहमिदम्मये ॥ ४-१६८ ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवम् अहङ्कारे ग्रस्ते, तद्-ग्रसितुः – कालाग्निरुद्र-शब्द-व्यपदेश्यस्य कल्पितस्यापि प्रमातुर् ग्रासेन भाव्यम्, इति सोऽपि कल्पितः प्रमाता, कल्पितत्वाद् एव +अहमिदम्-मये, अत एवाहन्तायाम् इदन्ताया विश्रान्तेः विश्वाभेदैक-शालिनि, अत एव विकासिनि

“भैरवरूपी कालः सृजति जगत्-कारणादि कीटान्तम् ॥
"

इत्याद्य्-उक्त-स्वरूपे महाकाले लीयते

परस्मिन्न् अकल्पिते पूर्णाहं-विमर्शमये प्रमातरि विश्रान्तो भवेद् इत्य् एवं परिमित-प्रमात्रात्मनः कालाग्निरुद्रस्य कलनात् “कालाग्निरुद्रकालीति” श्रीपञ्चशतिकादावियम् उच्यते, यदुक्तं -

“वरदा विश्वरूपा च > गुणातीता परा कला ।
अघोषा सास्वरारावा > कालाग्निग्रसनोद्यता ॥

निरामया निराकारा > यस्यां सा शाम्यति स्फुटम् ।
कालाग्निरुद्रकालीति > सा ज्ञेयामरवन्दित ॥
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

“कालक्रमाक्रान्त-दिनेश-चक्र- > क्रोडीकृतान्ताग्नि-कलाप उग्रः ।
कालाग्निरुद्रो लयम् एति यस्यां > तां नौमि कालानलरुद्रकालीम् ॥
"

इति ॥ १६८ ॥

एवं प्रमातृ-गतं स्थिति-स्वरूपम् अभिधाय संहार-स्वरूपम् अप्य् आह –

हिन्दी (द्रष्टुं नोद्यम्)

इस तरह प्रमातृ-गत सृष्टि के स्वरूप का कथन कर अब स्थिति स्वरूप का कथन कर रहे हैं -

अहंकार को ग्रास बनाने वाले कालाग्निरुद्र को भी ग्रास बनाने वाला कोई महाकाल है - क्योंकि यह कालाग्निरुद्र भी कल्पित प्रमाता ही है।
महाकाल “अहम् इदमात्मक” है।
अहन्ता में इदन्ता की विश्रान्ति होने की दशा में विश्व की अभेद भाव से वहाँ स्थिति हो जाती है।
“भैरव रूपी काल कारण से कीट पर्यन्त जगत की सृष्टि करता है।
" इस उक्ति के अनुसार वह महाकाल है ।
उसी में अर्थात् अकल्पित पूर्णाहं-विमर्श-मय प्रमाता में विश्रान्ति सम्भव है।

परिमित-प्रमाता कालाग्निरुद्र के इस आकलन को करने वाली शक्ति ही कालाग्निरुद्र काली है।

श्री पञ्चशतिक शास्त्र में कहा गया है-“वरदायिनी, विश्वरूपिणी, गुणातीता, अघोषा सस्वर अथवा अस्वर आराव में समर्थ, कालाग्नि को भी ग्रास बनाने को तय्यार, आमय रहित, आकार रहित यह संविद्देवी जिसमें विश्रान्ति का मन बना लेती है, वही हे देववन्द्य शिव ! कालाग्निरुद्रकाली है।
"

श्रीक्रम स्तोत्र में भी “काल क्रम से आक्रान्त सूर्य चक्र को अपने अङ्क में भरलेने वाले कृतान्त और अग्नि समान उग्र कालाग्निरुद्र जिसमें विश्रान्ति प्राप्त करते हैं- वही कालानलरुद्रकाली है ।
मैं उसे प्रणाम कर रहा हूँ।
" यही बात स्पष्ट की गयी है ।
। १६८॥

एतस्यां स्वात्म-संवित्ताव् “इदं सर्वम् अहं विभुः” ।
इति प्रविकसद्-रूपा संवित्तिर् अवभासते ॥ ४-१६९ ॥

ततोऽन्तःस्थित-सर्वात्म- भाव-भोगोपरागिणी ।
परिपूर्णापि संवित्तिर् अकुले धाम्नि लीयते ॥ ४-१७० ॥

मूलम्

एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः ।
इति प्रविकसद्रूपा संवित्तिरवभासते ॥ ४-१६९ ॥

ततोऽन्तः स्थितसर्वात्मभावभोगोपरागिणी ।
परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ ४-१७० ॥

विस्तारः (द्रष्टुं नोद्यम्)

एवं कालाग्निरुद्र-रूपे परिमिते प्रमातरि ग्रस्ते परिपूर्णाहम्-भावमयस्य पर-प्रमातुर् महाकालस्यापि स्वविमर्श-विश्रान्त्यात्मना ग्रासेन भवितव्यम्,

इत्य् एतस्याम् उक्त-स्वरूपायां स्वात्मनो महाकालस्य सम्बन्धिन्यां संवित्तौ

“सर्वो ममायं विभवः …”

इत्याद्य्-उक्तवत् सर्वम् इदम् अहम् एवेति विभुः – विश्वाभेदैकशालिनी, अत एव प्रविकसद्-रूपा या परिमित-प्रमातृ-चर्वणा-चतुरा संवित्तिः – अनुभवविशेषो ऽवभासते, सापि ततः एवम् अवभासानन्तरम्, अन्तः-प्रमात्रैकात्म्येन वर्तमानानाम्, अत एव सर्व-सर्वात्मकत्वेन सर्वात्म-रूपाणां भावानां यो भोगो – हठ-पाक-क्रमेणालङ्ग्रास-युक्त्या स्वात्मसात्-कारः, तेनोपरागिणी – संहर्त्रैकस्वभावा, अत एव परिपूर्णा, अत एव कञ्चिद् अपि प्रति भोग्यत्वागमनाद् विदि-क्रिया-कर्तृता-रूपा वित्तिः,

“अव्ययम् अकुलम् अमेयं > विगलित-सद्-असद्-विवेक-कल्लोलम् ।
जयति प्रकाश-विभव- > स्फीतं काल्याः परं धाम ॥
"

इत्याद्य्-उक्त-स्वरूप-शालिन्य् अकुले धाम्नि लीयते – स्वात्म-विश्रान्ति-चमत्-कार-रूपा ऽहम्-परामर्श-दशाऽधिशायिताम् इयाद् इति,

एवं महाकालस्य कलनात् “महाकाल-कालीति” श्रीक्रमस्तोत्रादावुच्यते, तदुक्तं तत्र –

नक्तं महाभूतलये श्मशाने दिक्खेचरीचक्रग्रणेन साकम् ।
कालीं महाकालमलङ्ग्रसन्तीं वन्दे ह्यचिन्त्यामनिलानलाभाम् ॥
"

इति ।
श्रीपञ्चशतिकेऽपि

“ऋतोज्ज्वला महादीप्ता सूर्यकोटिसमप्रभा ।
कलाकलङ्करहिता कालस्य कलनोद्यता ॥

यत्र सा लयमाप्नोति कालकालीति सा स्मृता ।
"

इति ॥ १६९-१७० ॥

एवं प्रमातृगतं संहारस्वरूपं निरूप्यानाख्यास्वरूपमपि निरूपयति –

प्रमातृ-वर्गो मानौघः प्रमाश् च बहुधा स्थिताः ।
मेयौघ इति यत् सर्वम् अत्र चिन्मात्रम् एव तत् ॥ ४-१७१ ॥

इयतीं रूप-वैचित्रीम् आश्रयन्त्याः स्वसंविदः ।
स्वाच्छन्द्यम् अनपेक्षं यत् सा परा परमेश्वरी ॥ ४-१७२ ॥

मूलम्

प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः ।
मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ ४-१७१ ॥

इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः ।
स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ ४-१७२ ॥

विस्तारः (द्रष्टुं नोद्यम्)

तद् एवम् अत्र – अहम्-परामर्शात् मन्यकुले धाम्नि, प्रमेयं प्रमाणं प्रमाता प्रमा च +इत्येतत् सर्वं नाना-रूपतयोज्जृम्भमाणं चिन्मात्रम् एव - तद्-एक-रसतया ऽवभासते इत्यर्थः, तत् – तस्माद् इयतीं प्रामात्राद्यवच्छिन्नां रूपवैचित्रीम् आश्रयन्त्याः स्व-प्रकाशायाः परस्याः संविदो यद् अनपेक्षं

“तस्य देवातिदेवस्य > परबोध-स्वरूपिणः ।
विमर्शः परमा शक्तिः > सर्वज्ञज्ञानशालिनी ॥
"

इत्याद्य्-उक्त-स्वरूपम् अहम्-परामर्शमये स्वाच्छन्द्यम्, सा प्रमेय-प्रक्रियया - प्रमातृ-पदेन महा-भैरव-शब्दस्य, मेय-पदेन चण्ड-शब्दस्य, प्रमा-पदेनोग्र-शब्दस्य, मान-पदेन घोर-शब्दस्य, चाक्षेपात् “महा-भैरव-चण्डोग्र-घोर-काली” या अस्मद्-दर्शने पूर्णतया परा +इति परमेश्वर्य् उक्ता, यद् उक्तं श्री-पञ्च-शतिके –

“दश-सप्त-विसर्गस्था महाभैरव-भीषणा ।
संहरेद् भैरवान् सर्वान् विश्वं च सुरपूजित ॥

सान्तः शाम्यति यस्यां च सा स्याद् भरित-भैरवी ।
महाभैरव-चण्डोग्र- घोरकाली परा च सा ॥
"

इति ।
श्रीक्रमस्तोत्रेऽपि –

“क्रमत्रयत्वाष्ट्रमरीचिचक्रसञ्चारचातुर्यतुरीयसत्ताम् ।
वन्दे महाभैरवघोरचण्डकालीं कलाकाशशशाङ्ककान्तिम् ॥
"

इति ॥ १७१-१७२ ॥

ननु किं नामास्याः परत्वम् ? – इत्याशङ्क्याह –

इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः ।

अतस्तद्विजृम्भात्मकत्वादेवासां सर्वसर्वात्मकतया एकैकस्यामपि संविदि सर्वा एव संविदोऽनन्तरत्वेन वर्तन्ते, येनैकैकस्यामपि द्वादशात्मकत्वात् सञ्चारक्रमपूजायां चतुश्चत्वारिंशदधिकं शतं पूज्यत्वेनोक्तम्, यदागमः –

“द्वादशारावियोगेन देवीं द्वादशधा यजेत् ।
"

इति, अत एव च त्रयोदशं रूपमभिधातुमवकाशलेशोऽपि नास्ति इति युक्तमुक्तं “परमार्थतः संविद्द्वादशात्मैव” इति ॥

ननु क्रमदर्शने सर्वत्रैव श्रीसृष्ट्यादिदेवीनां मध्ये श्रीसुकाल्या भगवत्या अभिधानम्, येनानाख्यचक्रे त्रयोदश देव्यः, अत एव श्रीमहाभैरवचण्डोग्रघोरकालीभट्टारिकायाश्च त्रयोदशत्वम्, तदुक्तं श्रीपञ्चशतिके –

“डकला भीषणा रौद्रा कुलकालिनिराकुला ।
अलक्ष्या लक्ष्यनिर्लक्ष्या सुकाली नाम सिद्धिदा ॥
"

इति ।
श्रीतन्त्रराजभट्टारकेऽपि –

शृष्टिकाली च संहारे सृष्टौ सा परमेश्वरी ।
स्थितिकाली तथा घोरा ततः संहारकालिका ॥

रक्तकाली चर्वयन्ती रक्तौघमविभेदतः ।
सुकाली यमकाली च मृत्युकाली भयावहा ॥

भद्रकाली तथा चान्यापरमादित्यकालिका ।
मार्तण्डकाली कालाग्निरुद्रकालमहोल्बणा ॥

महाकालकुले काली महाभैरवकालिका ।
त्रयोदशविधा काली विज्ञेया नामभेदतः ॥
"

इति, श्रीसार्धशतिकं तु समनन्तरमेव संवादितम्, तदत्र क्रमनयसमानकक्ष्यत्वविवक्षायामपि कथमेतद्विरुद्धमभिहितं “द्वादशैव देव्यः” इति ? अट्रोच्यते, इह – क्रमदर्शने सर्वसर्विकया अनाख्यचक्रे त्रयोदशैव देव्यः पूज्यत्वेनाभिमताः, इति तावन्नास्ति नियमः, यतः श्रीक्रमसद्भावभट्टारकेअनाख्यचक्रे सप्तदश देव्यः पूज्यत्वेनोक्ताः, यदुक्तं तत्र –

“कालोत्थिता महादेव सानन्दा नन्दिनी शिवा ।
चिद्घना युग्ममध्यस्था अक्षरा क्षरगोचरा ॥

अकुला कलयेन्नित्या कालकाली निराकुला ।
सा कला लीयते यस्यां सृष्टिकाली तु सा स्मृता ॥
"

इत्याद्युपक्रम्य

“क्रमत्रयाणां यच्चक्रं घोरघोरतरं महत् ।
कालरूपं मरीच्याद्यं त्वाष्टम्र कल्पान्तकान्तगम् ॥

आचरेत्तु महाचारचातुर्येणैव तत्र च ।
या कला घोरघोरोग्रा तस्याः सा तुर्यगा शिवा ॥

महाभैरवघोरस्य चण्डरूपस्य सर्वतः ।
ग्रसते या महाकाली द्व्यष्टका कालनाशिनी ॥

सप्तदशी तु सा काली विद्धि सर्वार्थकारिणी ।
"

इति, अत एव च “एतदाशयेन श्रीस्तोत्रकारस्य पूजाक्रमः, इति न ग्राह्यम्, यदाहुः –

“श्रीक्रमसद्भावादिकशास्त्राशयतश्च पत्रिका अत्र ।
श्रीस्तोत्रकारभास्करकुलधरपूर्वासु सन्ततिषु ॥
"

इति, अस्य हि अनाख्यचक्रे त्रयोदश देव्यः पूज्यतया अभिमता द्वादश वा, यदधिकारेण अयं विचारः प्रक्रान्तः, एवमिह श्रीसुकालीं विना द्वादशैव देव्यः पूज्यतया यद्युक्ताः, तत्को दोषः, यदागमः –

“यत्सृष्टिस्थितिसंहाररक्तैश्च यममृत्युभिः ।
रुद्रमार्तण्डपरमादित्यकालाग्निरुद्रकैः ॥

पदैश्च समहाकालैः कालीशब्दान्तयोजितैः ।
महाभैरवचण्डोग्रघोरकालीपदं नयेत् ॥
"

इति ।
एवं क्रमकेलावप्येतद्गर्भीकारेण यदनेन ग्रन्थकृता व्याख्यातं तत्रापि अन्यथा न किञ्चित्सम्भाव्यम्, यतोऽत्रास्य “श्रीगोविन्दराज-श्रीभानुकादिक्रमेण” बहुशाखमेवं गुरूपदेशः समस्तीति, योऽद्यापि महात्मनां महागुरूणां हृदयपथे शतशः परिपोस्फुरीति, यदुक्तं तत्रैवानेन – यथैकः श्रीमान् वीरवरः सुगृहीतनामधेयो “गोविन्दराजाभिधानः” “श्रीभानुकाभिधानो” द्वितीयः श्रीमान् “एरकसमाख्यः” तृतीयः सममेवोपदेशं पीठेश्वरीभ्य उत्तरपीठलब्धोपदेशात् श्रीशिवानन्दनाथाल्लब्धनुग्रहाभ्यः “श्रीकेयूरवती-श्रीमदनिका- श्रीकल्याणिकाभ्यः प्राप्नुवन्तः ।
तत्राद्यः प्राप्तोपदेश एवैवं मनस्यकार्षीत् – एतावत्यधिगते किमिदानीं कृत्यमस्तीति, इत्थं च निष्ठितमना यावज्जीवमुपनतभोगातिवाहनमात्रव्यापार एतद्विज्ञानोपदेशपात्रशिष्टोपदेशप्रवणः शरीरान्तं प्रत्यैक्षिष्ट, स चेदं रहस्यं “श्रीसोमानन्दाभिधानाय” गुरवे सञ्चारयाम्बभूव ।
द्वितीयोऽपि एवमेवास्त, तस्यैव चैषा “श्रीमदुज्जटोद्भट्टादिनानागुरुपरिपाटीसन्ततिः, यत्प्रसादासादितमहिमभिरस्माभिरेतत् प्रदर्शितम् ।
“श्रीमानेरकस्तु” सिद्ध्ये प्रायतत, यावत्सिद्धः सन् एव मनसा समर्थयते स्म – किं भोगैः, यत – अयं महान् क्लेशो मयानुभूतः, कथमहं सब्रह्मचारिवद्यावज्जीवं प्रपन्नलोकोद्धरणमात्रपर एव नाभवम्, यतः

“श्रीमत्सदाशिवपदेऽपि महोग्रकाली

भीमोत्कटभ्रकुटिरेष्यति भङ्गभूमिः ।

इत्याकलय्य परमां स्थितिमेत्यकाल

सङ्कर्षिणीं भगवतीं हठतोऽधितिष्ठत् ॥
"

तदिदानीमपि निजभावगतरहस्योपदेशं स्तोत्रमुखेनापि तावत्प्रसारयंल्लोकाननुगृह्णीयाम् इति, अतश्चास्य एवं गुरुक्रममजानानैरद्यतनैः

“श्रीभूतिराजनामाप्याचार्यश्चक्रभानुशिष्योऽन्यः ।
अभिनवगुप्तस्य गुरोर्यस्य हि कालीनये गुरुता ॥
"

इत्यादि यदुक्तं तत् स्वोत्प्रक्षितमेव – इत्युपेक्ष्यम् ।
नहि श्रीचक्रभानुना प्रायः कस्यचिदपि एवमुपदिष्टं – तन्मूलतयैव इदानीमस्योपदेशस्य शतशो दर्शनात्, तत्रापि चात्र श्रीभूतिराजस्यान्यथा पूजाक्रम इति

“देवीपञ्चशताशयमाश्रित्य च भूतिराजपूर्वाणाम् ।
"

इत्यभिदधद्भिर्भवद्भिरेवोक्तम्, अथात्र “द्वादशैव देव्यः पूज्यतया स्थिताः” इत्यभिप्रेतं भवतस्तर्हि श्रीपञ्चशतिकार्थमपि न जानीषे - तद्गच्छ, स्वगुरुं पृच्छ, किमस्मदाविष्कृतेन, श्रीदेवीपञ्चशतिकेऽपि अस्य श्रीसोमानन्दभट्टपादेभ्यः प्रभृति त्रिकदर्शनवदेव गुरवः, इति न तत्राप्यस्य श्रीभूतिराजो गुरुत्वेन स्थितः, न च “असावस्य न गुरुः” यद्वक्ष्यति –

“अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी ।
शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥
"

इति,

“एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ।
यः साक्षादभजच्छ्रीमाञ्छ्रीकण्ठो मानुषीं तनुम् ॥
"

इति च, किं त्वत्र नेति निश्चयः, किं च श्रीमदवतारकनाथेन श्रीककारदेवीवत् श्रीमदनिकाश्रीकल्याणिकेचानुगृहीते, इत्यपि अतोऽवसितम्, तदेष

“क्रमकुलचतुष्टयाश्रयभेदाभेदोपदेशतो नाथः ।
सप्तदशैव शिष्यानित्थं चक्रे सवंशनिर्वंशान् ॥
"

इति नियमो न न्याय्यः – शिष्यद्वयस्यास्यापरिगणनात् अन्यस्यापि कस्यचिच्छिष्यस्य सम्भाव्यमानत्वात्, एवं

“श्रीकेयूरवतीतः प्रभृति श्रीचक्रभानुशिष्यान्तम् ।
सन्ततयोऽतिनयस्य प्रथिता इह षोडशैवेत्थम् ॥
"

इत्यादावपि ज्ञेयम्, तथाहि – अत्र श्रीककारदेव्यास्तस्याः

“प्रकृतमहानयशिष्याः प्रथितास्त्रयः सवंशास्तु ।
"

इति त्रय एव शिष्याः इति न वाच्यं – श्रीगोविन्दराजश्रीभानुकयोरपि एतच्छिश्यत्वात् नवेरकनाथश्चास्या अपि शिष्यः, यदाहुः ↓

“यस्याः सदा खेचरिदृष्टिरोधात्सार्वात्मिकी भाति निरन्तरोक्ता ।
तामस्मि केयूरवतीं प्रसिद्धां नमामि देवीमनिकेतसंस्थाम् ॥
"

“वन्दे ध्वस्तसमस्तभावविभवं श्रीमन्नवेराभिधं

तं यो यत्किरणौघपातविलसत्स्पर्शोदयो जृम्भते ।
"

इति, श्रीह्रस्वनाथस्यापि

“श्रीवीरनाथपादैः पञ्च च देवीनये कृताः श्ष्यिः ।
"

इति न पञ्चैव शिष्याः – श्रीभोजराजनाम्नः षष्ठस्यापि सम्भवात्, तदुक्तं स्वपारम्पर्यं व्याचक्षाणेन श्रीसोमराजेन –

“श्रीमद्वामनभानुः क्रमकमलविकासने चतुरः ।
जयति षडध्वप्रोज्झितपरनभसि निबद्धसन्तानः ॥
"

“येन ध्वस्तः समस्तो गहनतरमहामोहघोरान्धकारो

दत्तःसम्यक्प्रकाशः क्रमकमलवनोल्लासविश्रान्तिरूपः ।

प्राप्ता येनैव संविन्निरुपमसरसास्वादसंयोगभोगा

वन्दे श्रीभोजराजं गुरुवरमहितं पूज्यमर्हद्भिरन्तः ॥
"

इति ।
एवमत्र अनेकप्रकारमासमञ्जस्यं सम्भवदपि अनङ्गत्वान्न प्रदर्शितम् ।
ननु एवं गुरुक्रमेऽप्यस्य कथङ्कारमिदं सङ्गच्छताम्, यदत्र – द्वादशैव एता देव्य इति, यतः श्रीमदवतारकनाथस्यापि अत्र त्रयोदशैव विवक्षिताः यः श्रीगोविन्दराजादीनामपि परमगुरुत्वेन स्थितः, यदाह ↓

“एकं स्वरूपरूपं प्रसारस्थितिविलयभेदतस्त्रिविधम् ।
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि ॥

इति वसुपञ्चकसङ्ख्यं विधाय सहजस्वरूपमात्मीयम् ।
“विश्वविवर्तावर्तप्रवर्तकं जयति ते रूपम् ॥
"

इति ? सत्यमेतत् – को नामात्र विप्रतिपद्यते, किं तु “अस्य द्वादशापि अभिप्रेताः” इत्यभिदध्मः, यदधिकारेण श्रीगोविन्दराजादीनामुपदेशः प्रवृत्तो योऽस्मत्पर्यन्तमपि प्राप्तः, यदाह –

“कालस्य कालि देहं विभज्य मुनिपञ्चसङ्ख्यया भिन्नम् ।
स्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ॥
"

इति, अयमत्रार्थः – त्वमेवमुक्तस्वरूपे भगवति कालि ! परप्रकाशैकस्वभावस्वात्मा विभेदिनो

“भैरवरूपी कालः सृजति जगत्कारणादि कीटान्तम् ।
"

इत्याद्युक्त्या विश्वकलनाहेतोः कालस्य रूपम्, एवं उक्तयुक्त्या, मुनिपञ्चसङ्ख्यया द्वादशधा विभज्य – बहिरेवं समुल्लास्य, पुनरपि अतिरिक्तमेव तद्रूपं स्वस्मिन् प्रकाशैकघने रूपे, विराजमानं कुर्वती - दर्पणप्रतिबिम्बवदनतिरिक्ततयैव अवभासयन्ती, जयसि – अतिदुर्घटकारिणैकेनैव अनाख्येन रूपेण सर्वकालं परिस्फुरसीति ।
नन्वेवमेतत्

“एकं स्वरूपरूपम् …”

इत्यादिना विरुद्ध्येत् – यत्कथमेकत्रैव परस्याः संविदो द्वादशधोदयमभिधाय त्रयोदशधापि अभिदध्यादिति, तदत्र कर्तृतयावस्थिताया भगवत्या एव त्रयोदशरूपत्वमभिधातव्यं येनानयोरेकवाक्यत्वं स्यात् ? नैतत् – यदेवमभिधित्सितमपि उत्तरवाक्ये चतुर्दशं रूपमापतेत्, यदत्राप्यस्त्येव भगवत्याः कर्तृतयाऽवस्थानमिति, वस्तुतस्त्वेतत् उभयत्रापि विकल्पस्यैव दौरात्म्यं यत् “राहोः शिरः” इति वदभिन्नमपि वस्तु भेदेनामृशतीति, तस्मात् द्वादशधात्वमेवात्र वक्तुमभिप्रेतं सिद्धपादानाम् – इत्यवगन्तव्यम्, विरोधस्तु उत्थानोपहत एव, यदत्र – “तेन तेन क्रमेम्ण त्वमेव परिस्फुरसि” इत्येवं व्याप्तिपरमेतदभिधानमिति, तथा च –

शदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥
"

इत्यादिना श्रीहस्तनयाभ्युदितेन जयाद्येनापि रूपेण त्वमेव परिस्फुरिता – इत्युक्तम्, अत्र पुनराद्यवर्णकलाचतुष्टयात्मना जयाद्येन रूपेणोदिता त्वं जयसि, इति – स्वक्रमोचितं व्याख्यानं युक्तम्, यदागमः –

“अथ ब्रह्य परं शुद्धमादिवर्णत्वमागतम् ।
"

इत्याद्युपक्रम्य

“अम्बिकाधस्ततस्तिस्रो युगपच्छक्तयः पुनः ।
ज्येष्ठा रौद्री तथा वामा सुप्तनागेन्द्रसन्निभा ॥

रौद्री शृङ्गाटकाकारा ऋजुरेखा तथा परा ।
इत्येताः कारणं ज्ञेयाः सर्वमाभ्यः प्रवर्तते ॥

परापरपदप्राप्तौ शान्त्याद्याः परिकीर्तिताः ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चापरा स्मृता ॥

व्योमपञ्चकमाविष्टाः परमात्मपदास्पदाः ।
ता एवापररूपेण जयाद्या गुह्यशक्तयः ॥

इति, अयं च प्रथममेताभिरेव कामरूपे चरुकप्रधानेनानुगृहीतः इति गुरवः, जयनशीला त्वम्, आद्येन – पूर्वकोटिभाविना रूपेणोदिता जयसि इति तु पापात्पापीयः, एवं

“ऋतुमुनिसङ्ख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् ।
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी ॥
"

इत्यादावपि ज्ञेयम् ।
तदेवम् एवंविधस्य गुरुक्रमस्य भावात् तात्त्विक एवायमस्योपदेशः इति स्थितम्, तत्रापि च मूलभूतं शास्त्रं स्वविमर्शात्मा युक्तिश्च, इत्युभयमपि समनन्तरमेव प्रदर्शितम्, इत्येवम्प्रत्ययात्म अत्र परं निर्बाधं प्रमाणमुज्जृम्भते ।
ननु एतदस्तु, किं तु श्रीक्रमस्तोत्रमेवं व्याख्यां न सहते, यत् – तत्र संविदस्त्रयोदशधैवोदयो विवक्षितः, यतस्तत्र एकैकां देवीं प्रति एकैकेन श्लोकेन प्रक्रान्तायां स्तुतौ श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन स्तुतौ क इवाशयः, तत् स्वकालीमित्यपास्य भवानीमित्यपपाठ एव, इत्यत्र विवरणकारान्तरसम्मत एव पाठ इति ? अत्रोच्यते – इह तावदेकैकां देवीं प्रति एकैकेन श्लोकेन स्तुतिः प्रक्रान्ता – इति केनोक्तम्, यत् श्रीरुद्रकालाग्रिरुद्रकालीभट्टारिकाया अपि

“या सा जगद् ध्वंसयते समग्रं मृत्योर्वपुर्ग्रासयतीति विष्वक् ।
धामाग्निरूपीयसहस्रदीप्तां तां नौमि कालानलरुद्रकालीम् ॥
"

इति द्वितीयेन श्लोकेन स्तुतिः समस्ति, इति श्रीयमकालीभट्टारिकायाः श्लोकयुगलेन स्तुतौ क इवायं संरम्भ इति, अथायमपि भवत्कल्पित एव श्लोकः, इति चेत् नैतत् – श्रीह्रस्वनाथेनापि स्वलिपिविवरणेऽस्य श्लोकस्य दृष्टत्वात्, सर्वेषामेव च विवरणकृतामत्र प्रतिपदं पाठानां श्लोकानां व्यत्यासो दृश्यते, इत्यस्मद्दृष्ट एव पाठे क इवायं प्रद्वेषः, नन्वेवं तर्हि “अयं पाठः साधुरयमसाधुः” इति विचारः किं नाश्रीयते – यद्य एव समूलः पाठः स एव साधुरितरस्तु इतरथेति, मूलं चात्रोभयत्रापि प्रदर्शितेन क्रमेण समानमुत्पश्यामः – इत्येकतरपरिग्रहे यथास्वं गुरूपदेश एव निबन्धनम् ।
यथोक्तमस्मत्परमगुरुभिः –

“यो यस्य गुर्वादेशः स तस्य मोचकः ।
"

इति, तस्माददृष्टगुरुभिरपरिशीलितशास्त्रसम्प्रदायैः स्वविमर्शशून्यैर्देवानम्प्रियैर्यत् किञ्चिदत्रोच्यते तदुपेक्ष्यमेव, इत्यलमतिरहस्यप्रकटनमहासाहसेन ॥

किञ्चात्र कलनमुच्यते ? – इत्याशङ्क्याह –

क्षेपो ज्ञानं च सङ्ख्यानं गतिर् नाद इति क्रमात् ॥ ४-१७३ ॥

स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् ।
ज्ञानं विकल्पः सङ्ख्यानम् अन्यतो व्यतिभेदनात् ॥ ४-१७४ ॥

गतिः स्वरूपारोहित्वं प्रतिबिम्बवद् एव यत् ।
नादः स्वात्म-परामर्श- शेषता तद्-विलोपनात् ॥ ४-१७५ ॥

मूलम्

क्षेपो ज्ञानं च सङ्ख्यानं गतिर्नाद इति क्रमात् ॥ ४-१७३ ॥

स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् ।
ज्ञानं विकल्पः सङ्ख्यानमन्यतो व्यतिभेदनात् ॥ ४-१७४ ॥

गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् ।
नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ ४-१७५ ॥

विस्तारः (द्रष्टुं नोद्यम्)

“कल किल बिल क्षेपे” “कल गतौ” “कल सङ्ख्याने” “कल शब्दे” इति धातुचतुष्टयस्य पञ्चधायमर्थो – यद्गतिर्ज्ञाने प्राप्तौ च वर्तते इति, एतदेव क्रमेण व्याचष्टे – क्रमादित्यादिना, भेदनमिति – बहिरुल्लासनम्, अविकल्पनमिति – स्वात्माभेदेन परामर्शः भेदितस्यैव प्रमातृप्रमेयादेरर्थस्य परस्परापोहनात् “इदमिदं नानिदम्, इति प्रतिनियततयावस्थापनात् सङ्ख्यानं विकल्पः, गतिश्चात्र गत्युपसर्जना प्राप्तिस्तेन भेदितोऽर्थः – संविल्लक्षणं स्वरूपमारोहति प्राप्नोतीति स्वरूपारोही, तस्य भावस्तत्त्वम्, न चैतत् कट इव देवदत्तस्येत्युक्तं – प्रतिबिम्बवत् इति, प्रतिबिम्बस्य हि तदव्यतिरिक्तत्वेऽपि तद्व्यतिरिक्त्यैवावभासो भवेदिति भावः, स्वात्मपरामर्शशेषतेति नदनमात्ररूपत्वात्, तद्विलोपनादिति – तेषामविकल्पज्ञानादीनां विलोपनात्, अपहस्तनादित्यर्थः, एतद्धि भिन्नस्यैव भवेदिति भावः ॥ १७४-१७५ ॥

एतदेव प्रकृते विश्रमयति –

इति पञ्चविधाम् एनां कलनां कुर्वती परा ।
देवी काली तथा काल- कर्षिणी चेति कथ्यते ॥ ४-१७६ ॥

मूलम्

इति पञ्चविधामेनां कलनां कुर्वती परा ।
देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ ४-१७६ ॥

परादेव्या एवैतदर्थानुगमादेवं व्यपदेशः, इत्याशयः ॥ १७६ ॥

विस्तारः (द्रष्टुं नोद्यम्)

परा-देव्या एवैतद् अर्थानुगमाद् एवं व्यपदेशः, इत्याशयः ॥ १७६ ॥

न केवलम् अस्या एते एव व्यपदेशा यावद् अन्येऽपि, इत्याह –

मातृसद्भावसञ्ज्ञास्यास्तेनोक्ता यत्प्रमातृषु ।
एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ ४-१७७ ॥

वामेश्वरीतिशब्देन प्रोक्तं श्रीनिशिसञ्चरे ।

तेनास्याः – काल्यादिशब्दव्यपदेश्यायाः पराभट्टारिकायाः “मातृसद्भाव” इति सञ्ज्ञोक्ता, यत् एतावदन्तं – द्वादशदेवीपर्यन्तं यथायथमुद्रेकमासादयन्त्यां संवित्तौ, सकलादिषु प्रमातृषु प्रमितिक्रियाकर्तृत्वलक्षणं प्रमातृत्वं स्फुटीभवेत् – स्वतन्त्रस्वप्रकाशपरसंविदेकरूपता स्यात् तन्मातॄणां इति, यदुक्तं –

शद्भावः परमो ह्येष मातॄणां परिपठ्यते ।
"

इति, श्रीनिशिसञ्चरे इति – श्रीनिशाटने, यदुक्तं तत्र –

“एषा तु कौलिकी विद्या सर्वसिद्धिप्रदायिका ।
सकाशाद्देवदेवस्य निर्याता शक्तिवर्त्मनि ॥

वामेश्वर्यवतारे तु प्रकाशत्वमुपागता ।
"

इति ॥ १७७ ॥

ननु सृष्ट्यादिरूपोपग्रहेणावभासभेदात् क्रमिकतया वैचित्र्यातिशयादस्याः कथमेकत्वं तात्त्विकं भेवत्, येन “श्रीकालसङ्कर्षिणीति, श्रीमातृसद्भाव, इत्याद्येकतर एव परामर्शः स्यादिति कथमेतदुक्तम् ? – इत्याशङ्क्याह –

इत्थं द्वादशधा संवित् तिष्ठन्ती विश्व-मातृषु ॥ ४-१७८ ॥

एकैवेति न कोऽप्य् अस्याः क्रमस्य नियमः क्वचित् ।
क्रमाभावान् न युगपत् तद्-अभावात् क्रमोऽपि न ॥ ४-१७९ ॥

क्रमाक्रम-कथातीतं संवित्-तत्त्वं सुनिर्मलम् ।

मूलम्

इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ ४-१७८ ॥

एकैवेति न कोऽप्यस्याः क्रमस्य नियमः क्वचित् ।
क्रमाभावान्न युगपत्तदभावात् क्रमोऽपि न ॥ ४-१७९ ॥

क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् ।

इत्थम् – उक्तेन प्रकारेण, परैव संविद्देवी, विश्वमातृष्विति बहुवचनादाद्यर्थो लभ्यते, इति प्रमाणादेरपि आक्षेपात् प्रमातृप्रमाणादिविषयतया द्वादशधात्वेन अवभासमानापि, एकैव – अद्वितीयेत्यर्थः – विश्वात्मत्वेन परिस्फुरन्त्या अप्यस्या न स्वस्वरूपात्प्रच्याव इत्याशयः, अत एवास्या न नियतः कश्चित् क्रमः, येन द्वादशधात्वेनैव परिस्फुरेदिति स्यात्, परस्याः संविदो हि सृष्ट्याद्युपाधिसम्भेदेन परिस्फुरणेऽपि

शकृद्विभातोऽयमात्मा…”

इत्यादिनीत्या स्वस्वरूपावभासाविच्छेदात् विद्युदादिवदन्तरान्तरा प्रकाशनायोगात् स्वात्मनि कालावच्छेद एव नास्ति इति को नाम तदात्मभूतस्य क्रमस्याप्यवकाशः, अत एव च नास्या यौगपद्यम्, तद्धि स्पर्धाबन्धेन परिस्फुरतोरयःशलाकाकल्पयोर्द्वयोः सम्भवति, न चैतदपेक्षया अन्यः कश्चित् स्पर्धावानस्ति, इति कस्य नाम युगपद्भावः, अत एवास्याः क्रमाक्रमाभ्यामपि न योगः, तदाह – क्रमाभावादित्यादि, ननु इहावश्यं क्रमाक्रमाभ्यां पदार्थानां योगः सम्भवेदिति कथमुक्तं शंवित्तत्त्वं तदतीतम्” ? – इत्याह – सुनिर्मलमिति, अनिर्मल एव हि शून्यादिर्मायाप्रमाता जन्मादिक्रियावभासभेदादवस्थाभेदावभासक्रमेण कालावच्छेदवान् स्वात्मानं पूर्वावस्थाविनाशावभासापेक्षया अतीतोचितेनावभासेन पश्यन् तदतीतत्त्वानुरोधेन वर्तमानतयावभासयति, वर्तमानावभासापेक्षया च परिणामावभासादिरूपं भविष्यदवस्थान्तरं व्यवस्थापयति, स्वसत्ताकालभाविनं च नीलाद्यर्थविशेषं स्वापेक्षया युगपद्भावेनाभिमन्यते, इति तस्यैव क्रमयौगपद्यावभासः, यदुक्तम् –

शर्वत्राभासभेदो हि भवेत्कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥
"

इति ॥ १७८-१७९ ॥

ननु यद्येवं तदस्याः परस्याः संविदः कथं नामावाहनविसर्जनाद्यात्मकत्वात् क्रमानुप्राणिता पूजा भवेत् ? – इत्याशङ्क्याह –

तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ ४-१८० ॥

तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते ।

यत्र क्वचन संविदवष्टम्भेनावस्थानं नाम मुख्या पूजा, न पुनरावाहनादिरूपेति तात्पर्यार्थः, यथोक्तम् –

“यस्मिन्यस्म्मिश्चक्रवरे तत्स्पर्शाह्लादनिर्वृतिः ।
तदवष्टम्भयोगो यः स हि पूजाविधिः स्मृतः ॥
"

इति ॥ १८० ॥

ननु “अमन्त्रका तावत्पूजा न स्यात्” इति सर्वत्रैवोक्तम्, मन्त्राश्च यदि संविदोऽतिरिक्ताः तत् संविदैकात्म्येनावस्थानं पूजा” इत्युक्तं हीयेत, अनतिरेकेच तेषां पृथगुपदेश एव न कार्यः ? इत्याशङ्कागर्भीकारेण प्राप्तावसरं संविच्चक्रोदयानुस्यूतत्वेन अनुजोद्देशोद्दिष्टं मन्त्रवीर्यं प्रकाशयितुमाह –

परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ ४-१८१ ॥

सदोदितः स एवोक्तः परमं हृदयं महत् ।

यः खलु परावाग्रूपः स्वरसोदितो ध्वनिः – अहम्परामर्शात्मा नादः

नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते देवः प्राणिनामुरसि स्थितः ॥
"

इत्याद्युक्त्या, स्वयम् – अनन्यापेक्षत्वेन, अत एव सदा ↓ नित्याविरतेन रूपेण, उदितः – उच्चरन्नास्ते, स एवैतस्याः परस्याः संविदः, परमं – सारभूतम्, महत् – सर्वदा चाव्यभिचरितस्वरूपत्वाद् व्यापकम्, हृदयं – तथ्यं रूपम्, सर्वशास्त्रेषूक्तम्, यस्मादैश्वर्यात्मा अहम्परामर्श एवास्याः स्वभावो, यन्माहात्म्याद्विश्वात्मना इयं परिस्फुरेत्, यदाहुः –

“चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥

सा स्फुरत्ता महासत्ता देशकालाविशेषिणी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥
"

इति ॥ १८१ ॥

न केवलमयहम्परामर्शः शास्त्रे हृदयतयेव उक्तो, यावत् स्पन्दादिरूपतयापि, इत्याह –

हृदये स्वविमर्शोऽसौ द्राविताशेषविश्वकः ॥ ४-१८२ ॥

भावग्रहादिपर्यन्तभावी सामान्यसञ्ज्ञकः ।
स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ ४-१८३ ॥

हृदये

“हृदयं बोधपर्यायः…”

इत्युक्त्या बोधे – स्वात्मभूते योऽसौ विमर्शः, स द्रावितं – बहीरूपतया प्रसारितम्, अथ च गालितम् – अन्तःशान्तीकृतमशेषं विश्वं येनासौ, अत एव भावग्रहस्य – विश्वात्मतास्वीकारस्या, आदौ – निर्मित्सावसरे, पर्यन्ते – सञ्जिहीर्षासमये च भवनशीलः, अत एव स्वात्मविकाससङ्कोचमयतयोच्छलत्तारूपः, अत एव विशेषरूपताया अनुल्लासात् प्रशमाच्च सामान्यशब्दवाच्यः स्पन्दशास्त्रादौ श्पन्दः” कथ्यते – किञ्चिच्चलनात्मकोच्छलत्तारूपानुगमात् स्पन्दशब्दाभिधेयतयोच्यते इत्यर्थः ॥ १८२-१८३ ॥

ननु यद्येवं तद्बोधस्य किञ्चिच्चलनेन स्वस्वरूपप्रच्यावान्नित्यताहानिः स्यात्? इत्याशङ्क्याह –

किञ्चिच्चलनमेतावदनन्यस्फुरणं हि यत् ।
ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ ४-१८४ ॥

किञ्चिच्चलनं हि नामैतदुच्यते – यद्बोधस्यानन्यापेक्षं स्फुरणं प्रकाशनम्, परतोऽस्य न प्रकाशः अपि तु स्वप्रकाश एवेत्यर्थः, इदमेव हि नामास्य जडेभ्यो वैलक्षण्यं – यत् स्वयमेव तथा तथा प्रकाशते इति, एवमयमहम्परामर्शः स्पन्दशास्त्रादौ यथा स्पन्दत्वेनोक्तः तथैव श्रीमदूर्मिकीलावूर्मित्वेनापि इत्युक्तम् “ऊर्मिरेषा विबोधाब्धेः” इति ।
ननु सर्वेषु शास्त्रेषु अत्रैव कस्माद्भरः ? इत्याशङ्क्याह – न संविदनया विना” इति, इदमेव हि संविदः संवित्त्वम्, यत् – सर्वमामृशतीति, अन्यथा हि अस्यास्तत्तदर्थोपरागेऽपि स्फटिकादिभ्यो वैलक्षण्यं न स्यात्, यदुक्तम् -

श्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥
"

इति ।
एवं संविदः शुद्धत्वेऽपि तत्तदर्थोपरक्ततया परिस्फुरणं नाम मुख्यं रूपमित्युक्तं स्यात् ॥ १८४ ॥

ननु कथमेतद्युज्यते ? इत्याशङ्क्य दृष्टान्तयति –

निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता ।

एतदेवोपसंहरति –

सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ ४-१८५ ॥

तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् ।

एतद्विमर्शलक्षणं वस्तु, समस्तस्य – चेतनाचेतनात्मनो विश्वस्य, सारं – जीवस्थानीयम्, यतः

शंविन्निष्ठा हि विषयव्यवस्थितयः ।
"

इत्यादिनीत्या रूपाद्यात्मनो जडस्य जगतस्तावत् संवेद्यत्वान्यथानुपपत्त्या संविदेव प्रतिष्ठास्थानमित्यविवादः, तस्याश्च चितः समनन्तरोक्तस्वरूपं हृदयमेव स्वात्मचमत्कृतिनिबन्धनत्वात् महत्सारम्, यतः – तदधीनमेव अस्याः स्वात्मनि प्रतिष्ठानम्, अन्यथा हि जाड्यमेवापतेत्, इत्युक्तं बहुशः ॥ १८५ ॥

एतदेव प्रमेयान्तरगर्भीकारेणापि उपपादयति –

तथा हि सदिदं ब्रह्ममूलं मायाण्डसञ्ज्ञितम् ॥ ४-१८६ ॥

इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते ।
तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ ४-१८७ ॥

विसृज्यते हि तत्तस्माद्वहिर्वाथ विसृज्यते ।

इदं हि ब्रह्ममूलं ब्रह्माण्डारम्भकम् अर्थाद्गर्भीकृतप्रकृत्यण्डेन मायाण्डेन प्राप्तसञ्ज्ञं मायीयं विश्वं प्रतिभासमानत्वात् सत् विद्यमानमपि

“प्रतिभातोऽप्यर्थः परामर्शमन्तरेण अप्रतिभात एव प्रमातर्यविश्रान्तेः ॥

इत्याद्युक्तयुक्त्या जिज्ञासादिक्रमेण स्वातन्त्र्यात्मनो विमर्शशक्तेः पल्लवप्रायास्विच्छाज्ञानक्रियासु यावन्नारूढं तावत् तथात्वदार्ढ्याभावान्नैव सदुच्यते, इदमेतदिति व्यवहरणीयतां नैतीत्यर्थः ।
यतस्तद्विश्वमिच्छादिशक्तित्रयात्मनि विमर्शे लब्धप्ररोहं सत् परप्रमात्रात्मनि भैरवीये रूपे विसृज्यते तत्र विश्रान्तिं यायात्, – इति संहारक्रमः ।
अथवा सृष्टिक्रमेण ↓ तस्माद्भैरवीयाद्रूपात् तद्विश्वं बहिर्विसृज्यते शक्तित्रयसोपानावरोहक्रमेण कलादिक्षितिपर्यन्तेन स्थूलेन रूपेणावभास्यत इत्यर्थः ।
अनेन संवित्क्रमानतिवर्तितामभिद्योतयितुं श्रीपराबीजस्यापि उभयथा व्याप्तिगर्भीकारेणोदय उक्तः ।
तथाहि – “ब्रह्ममूलं सत्” इत्यनेन सकारस्योद्धारः, यदाशयेनागमे

“तृतीयं ब्रह्म सुश्रोणि…” (परात्री। १० श्लो।
)

इत्याद्युक्तम् ।
तस्यैव च “मायाण्डसञ्ज्ञितम्” इत्यनेन व्याप्तेः प्रदर्शनम् ।
स च स्वरं विनोच्चारयितुं न शक्यः, इति

“अस्म्मिश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ।
"

इत्याद्युक्तेः इच्छादिनौकारस्योद्धारः, तस्य चेच्छादीनां शक्तित्वात्तदण्डव्याप्तेरपि प्रदर्शनम् ।
“विसृज्यते” इत्यनेन विसर्गस्योद्धारः, तस्यैव च “भैरवीये चिदात्मनि” इत्यनेन व्याप्तिः ।
यदुक्तम् –

शार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् ।
सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ॥
"

इति ॥ १८७ ॥

एतदेवोपसंहरति –

एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ ४-१८८ ॥

विसर्गः परबोधेन समाक्षिप्यैव वर्तते ।

एवं यथोक्तयुक्त्या, एषां ब्रह्माण्डादीनाम्, सतां विश्वरूपतया प्रतिभासमानानामेव, सद्रूपता परबोधेन सह शक्तित्रयात्मतां विसर्गं च समाक्षिप्यैव वर्तते, विसर्गोपारोहक्रमेण परप्रमात्रैकात्म्येन प्रस्फुरतीत्यर्थः ।
अनेन च सकारस्यैव औकारविसर्गक्रोडीकारेणाभिधानात् प्राधान्येनोक्तेः श्रीपराबीजस्य संहारक्रमेणोदयेऽपि सृष्टिप्राधान्यं दर्शितम् ।
यद्वक्ष्यति –

“…प्राच्यं सृष्टौ च हृन्मतम् ।
"

इति ॥ १८८ ॥

एवं संवित्क्रमेण श्रीपराबीजस्योदयमभिधाय एतत्समानस्कन्धताभिधित्सया श्रीपिण्डनाथस्यापि उदयमभिधत्ते –

तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ ४-१८९ ॥

अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम् ।
खात्मत्वमेव सम्प्राप्तं शक्तित्रितयगोचरात् ॥ ४-१९० ॥

वेदनात्मकतामेत्य संहारात्मनि लीयते ।

तत् विश्वं प्राग्बहीरूपतया प्रतिभासमानत्वेन सत् विद्यमानमेव, प्रतिभासमानत्वान्यथानुपपत्त्या बोधः प्रमाणात्मा सङ्कुचितः प्रतिभासः, स एवाग्निः तेन विलापितं बहीरूपताया भस्मसात्कारेण स्वात्ममात्रपरमार्थतामापादितं सत्, अन्तः प्रमात्रैकात्म्येन नदन् इदन्तापरामर्शतिरस्कारेणोल्लसन् योऽसावहम्परामर्शः, तच्छेषीभूतं स्वस्वरूपपरिहारेण तदेकात्मतामापन्नमपि, अनन्तरमलं मानमेयाद्यात्मभेदसंस्कारस्यापि शून्यतापादनेन अत्यर्थम्, खात्मत्वमेव सम्प्राप्तं परप्रमात्रात्मप्रकाशमात्ररूपतया प्रस्फुरितं सत्, क्रमात्क्रमं क्रियादिशक्तित्रयसोपानारोहेण वेदनात्मकतां विदिक्रियाकर्तृत्वात्मकस्वातन्त्र्यशक्तिरूपतामासाद्य, संहारात्मनि

शर्वसंहारसंहारसंहारमपि संहरेत् ।
सा शक्तिर्देवदेवस्याभिन्नरूपा शिवात्मिका ॥
"

इत्याद्युक्तस्वरूपे श्रीकालसङ्कर्षिणीधाम्नि लीयते तदैकात्म्येन प्रस्फुरतीत्यर्थः ।
अत्र च संवित्क्रमेणैव श्रीपिण्डनाथस्य व्याप्तिः, – इति तदनुसारेणैव तस्योद्धारः कृतः ।
तथा च – विश्वेन्धनदाहकत्वात् “बोधाग्निना” इत्यनेन अग्निबीजस्य प्रमाणात्मनः सङ्कुचितस्यापि बोधस्य मायाप्रमातरि लयः इति, नाद” इत्यादिना संहारकुण्डलिन्यात्मकस्यैतद्रूपलिपेः कूटवर्णस्य परप्रमातरि च मायाप्रमातृत्वस्याप्यभावः इति, “खात्मत्वम्” इत्यादिना व्योमात्मनः, खवर्णस्य परस्यापि प्रमातुरिच्छाद्याः शक्तयः सतत्त्वम् इति, “शक्तित्रितय” इत्यनेन तदात्मनो योनिबीजस्येच्छादीनां च शक्तीनां स्वातन्त्र्यशक्तौ पिण्डीभावः इति, “वेदनात्मकताम्” इत्यनेन बिन्दोश्चोद्धारः ।
एवं च रेफादिबिन्द्वन्तवर्णपञ्चकरूपतया श्रीपञ्चपिण्डनाथोऽयम् – इत्यागमज्ञाः ।
अन्यत्र पुनरस्य

“शिवनभसि विगलिताक्षः कौण्डिल्युन्मेषविकसितानन्दः ।
प्रज्वलितसकलरन्ध्रः कामिन्या हृदयकुहरमधिरूढः ॥

योगी शून्य इवास्ते तस्य स्वयमेव योगिनीहृदयम् ।
हृदयनभोमण्डलगं समुच्चरत्यनलकोटिशतदीप्तम् ॥
"

इत्यादिना भङ्ग्यन्तरेणोदय उक्तः ॥ १९० ॥

एतदेवोपसंहरति –

इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ ४-१९१ ॥

इदमित्यनेन श्रीपिण्डनाथपरामर्शः ।
अस्य च श्रीपराबीजवत् सृष्टिक्रमेण सम्भवत्यपि उदये रेफादीनां वर्णानां भेदसंहारकत्वात् तत्प्राधान्येन निर्देशः शंहारहृदयम्” इति ।
अत एव श्रीस्तोत्रभट्टारकेऽपि –

“कालानलाद् व्योमकलावसानं चिन्त्यं जगद्ग्रासकलालयेन ।
चक्रं महासंहृतिरूपमुग्रं गतं चिदाकाशपदस्थमित्थम् ॥
"

इत्यादिना संहारक्रमेणैव अस्योदय उक्तः ।
प्राच्यमिति प्रागुपात्तं जीवपराबीजम् ।
अस्य च संहारक्रमेणोदयेऽपि

“तत एव सकारेऽस्मिन् स्फुटं विश्वं प्रकाशते ।
अमृतं च परं धाम योगिनस्तत्प्रचक्षते ॥
"

इत्यादिपूर्वोक्तयुक्त्या विश्वाप्यायकारितया सृष्ट्यात्मनोऽमृतबीजस्य प्राधान्यात् तथा निर्देशः शृष्टौ हृत्” इति ॥ १९१ ॥

एतदेवान्यत्रापि अतिदिशति –

एतद्रूपपरामर्शमकृत्रिममनाविलम् ।
अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ ४-१९२ ॥

एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् ।
विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ ४-१९३ ॥

एतद्रूपः – श्रीपराबीजादिविषयतया सृष्ट्यादिक्रमेणोदयमानः समनन्तरोक्तस्वभावो यः परामर्शस्तं स्वरसोदितत्वादकृत्रिमम्, अत एवेदन्तापरामर्शप्रतिपक्षभावात्मककालुष्याकलङ्कितत्वात् अनाविलम् “अहमित्याहुः” – अहम्परामर्शात्मत्वेन कथयन्तीत्यर्थः, अहम्परामर्शोऽपि हि – अनुत्तराद्धान्तं सृष्टिक्रमेण ततोऽपि अनुत्तरान्तं संहारक्रमेणोदेतीति भावः, यदुक्तं प्राक् –

“अनुत्तराद्या प्रसृतिर्हान्ता विश्वस्वरूपिणी ।
प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते ॥
"

इति, एवं चास्य “श्रीपराबीजपिण्डनाथाभ्यां समानकक्ष्यत्वम्” इत्युक्तं स्यात्, परस्याः हि संविदोऽनन्तविश्ववैचित्र्यलयोदयरूपतया परिस्फुरणं नाम परमार्थः, स चैषामविशिष्टः, इति किं नाम भिन्नकक्ष्यत्वे निमित्तं स्यात् ? ननु परा संवित् तत्तद्रूपतया किमिति परिस्फुरति ? इत्याशङ्क्योक्तम् – “एषैव प्रकाशस्य प्रकाशता” इति, अन्यथा हि अस्य परस्य प्रकाशस्य जडाद् घटादेर्वैलक्षण्यं न स्यात्, यदुक्तं प्राक् –

“अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ।
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् ॥

इति ।
ननु मन्त्राणां वीर्यमभिधातुमुपक्रान्तं तत् किमिति अकाण्ड एव परस्याः संविदः स्वरूपमुक्तम् ? इत्याशङ्क्याह – “एतदित्यादि”, एतदिति – अहम्परामर्शानुस्यूतं संवित्तत्त्वम्, सर्वेषामिति – न केवलं श्रीपराबीजपिण्डनाथयोरेवेति भावः, अनेनेति – अहम्परामर्शात्मना वीर्येण, जडा इति – स्फुरत्ताशून्यत्वादप्रयोजका इत्यर्थः, यदुक्तम् –

“आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ।
"

इति ॥ १९२-१९३ ॥

न केवलमनेन वीर्येण मन्त्र एव वीर्यवन्तो, यावत्तदितरदपीत्याह –

अकृत्रिमैतद्धृदयारूढो यत्किञ्चिदाचरेत् ।
प्राण्याद्वा मृशते वापि स सर्वोऽस्य जपो मतः ॥ ४-१९४ ॥

अकृतकाहम्परामर्शविश्रान्तो हि योगी तदनुवेधेन यत्किञ्चिद्बाह्यव्यवहारयोग्यं व्याहरेत् सोऽस्य सर्वो जपः – सर्वमेवास्य स्वात्मदेवताविमर्शानवरतावर्तनात्मत्वेन मन्त्ररूपतया परिस्फुरेदित्यर्थः, यदुक्तम् –

“श्लोकगाथादि यत्किञ्चिदादिमान्त्ययुतं यतः ।
तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥
"

इति, अत एव

“कथा जप"ः (शिवषू। ३-२७)

इत्याद्यन्यत्रोक्तम्, यदभिप्रायेणैव इतो बाह्यैरपि –

“यो जल्पः स जपः …”

इत्याद्युक्तम्, अनेन च मन्त्रवीर्यानन्तर्येणानुजोद्देशोद्दिष्टं वास्तवं जपाद्युपक्रान्तम् ॥ १९४ ॥

तत्र जपस्य वास्तवं स्वरूपं तावदुक्तम्, इदानीमादिशब्देन स्वीकृतं वास्तवध्यानाद्यभिधातुमाह ↓

यदेव स्वेच्छया सृष्टिस्वाभाव्याद् बहिन्तरा ।
निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ ४-१९५ ॥

एवंविधः खलु योगी सृष्ट्यादिपञ्चविधकृत्यकारित्वलक्षणात् स्वभावाद्धेतोः, यदेव स्वेच्छया बहिरन्तर्वा नीलसुखादि अवभासयति, तदेव नामास्य संविन्मात्ररूपत्वात् पारमार्थिकं ध्यानम्, न तु नियतं दशभुजादि अन्यत्किचिदित्यर्थः ॥ १९५ ॥

ननु यद्येवं तद्दशभुजादि नियताकारं ध्यानादि किमिति उक्तम् ? इत्याशङ्क्याह –

निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति ।
फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ ४-१९६ ॥

निराकार इति – नियताकाररहिते, इत्यर्थः ॥ १९६ ॥

ननु विश्वाकृतिचेच्चिद्धाम, तत् कथम् अस्याकारान्तराभासपरिहारेण नियताकारतयाभासः स्यात् ? – इत्याशङ्क्याह ↓

यथा ह्यभेदात्पूर्णेऽपि भावे जलमुपाहरन् ।
अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ ४-१९७ ॥

तथैव परमेशाननियतिप्रविजृम्भणात् ।
काचिदेवाकृतिः काञ्चित् सूते फलविकल्पनाम् ॥ ४-१९८ ॥

यथाहि – अभेदात् – परस्पराविभागेनावभासात्, मृत्त्वकाञ्चनत्वघटत्वादिभिराभासैः, पूर्णे, अनेकाभाससम्भिन्ने घटादौ भावे, जलमुपाहरन् – उदकाहरणात्मनियतार्थक्रियार्थी प्रमाता, काञ्चनत्वाद्याकारान्तराभासमपहाय अर्थितातारतम्यात्मकाद्रसात्, तत्तदर्थक्रियाक्षमं घटमर्थयते ↓ तत्त्वेनास्य अवभासो जायते इत्यर्थः, तथैव विश्वकृतित्त्वेऽपि चिद्धाम्नः पारमेश्वरनियतिशक्तिमाहात्म्यादाकृत्यन्तरपरिहारेण काचिदेवाकृतिः – अर्थात् कस्यचित् एव काञ्चिदेव फलविकल्पनां सूते, इति युक्तमुक्तं “फलार्थिनां काचिदेवाकृतिः ध्येयत्वेन स्थिता” इति ॥ १९७-१९८ ॥

यस्तु न नियतार्थक्रियार्थी तस्यानवच्छिन्नमेव रूपमवभासते, इत्याह -

यस्तु सम्पूर्णहृदयो न फलं नाम वाञ्छति ।
तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ ४-१९९ ॥

तेन बुभुक्षोर्नियताकारं ध्यानम्, मुमुक्षोस्तु अनियताकारमिति विषयविभागः, यद्वक्ष्यति –

शाधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ।
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥
"

इति ॥ १९९ ॥

एवं ध्यानस्य वास्तवं स्वरूपमभिधाय, मुद्राया अप्यभिधत्ते –

कुले योगिन उद्रिक्तभैरवीयपरासवात् ।
घूर्णितस्य स्थ्तिर्देहे मुद्रा या काचिदेव सा ॥ ४-२०० ॥

कुले – शरीरे सत्यपि, प्राप्तपरमेश्वरैकात्म्यस्य योगिनः, अत एव तत्रैव दार्ढ्याद्विस्मृतदेहभावस्य, या काचन – उत्थितत्वादिरूपा, देहे स्थितिः सैव चिच्छक्तिप्रतिकृतिरूपा वास्तवी मुद्रा, न तु नियतकरादिनिर्वर्त्यसन्निवेशादिरूपा इत्यर्थः ।
यदुक्तम् –

नादो मन्त्रः स्थितिर्मुद्रा…”

इति, यदभिप्रायेणैवेतो बाह्यैरपि

“…ंउद्राया काचिदास्थितिः ।
"

इत्याद्युक्तम् ॥ २०० ॥

इदानीं होममपि वास्तवेन रूपेणाभिधातुमाह –

अन्तरिन्धनसम्भारमनपेक्ष्यैव नित्यशः ।
जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ ४-२०१ ॥

बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः ।
उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ ४-२०२ ॥

यदुक्तम् –

शप्तेन्द्रियशिखाजालजटिले जातवेदसि ।
बोधाख्ये भाववर्गस्य भस्मीभावोऽग्नितर्पणम् ॥
"

इति ।
यदभिप्रायेणैव अस्मद्गुरुभिरपि –

“शश्वद्विश्वमनश्वर्रपकृतयो विश्वस्तचित्ता भृशं

ये विज्ञानतनूनपाति विततोन्मेषा वषट् कुर्वते ।

तेषां सन्ततसर्वमेययजनक्रीडामहायज्वनां

नो मन्येऽवभृथक्षणः क्षणमपि क्षीणस्थितिर्लक्ष्यते ॥
"

इत्याद्युक्तम् ॥ २०२ ॥

न केवलमेतत् परस्वरूपावेशकारित्वादात्मन्येवोपयोगि, यावत्परत्रापि, इत्याह –

यं कञ्चित्परमेशानशक्तिपातपवित्रितम् ।
पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ ४-२०३ ॥

यं कञ्चित् –

न मे प्रियश्चतुर्वेदो मद्भक्तः श्वपचोऽपि वा ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥
"

इत्याद्युक्तेरनियतं पारमेश्वरेणैव शक्तिपातेन पवित्रीकृतम्, अनुग्राह्यतया अग्रे भावयित्वा, उक्तवत् यथोक्तवास्तवजप्यादिनिष्ठतया, स्वयं – स्वस्वरूप एव तिष्ठेत्, येनासौ दीक्ष्यः –

“…भुजङ्गवद्गरलसङ्क्रामः ।
"

इत्याद्युक्तया तत्स्वरूपसङ्क्रमात्

“…डीपाद्दीपमिवोदितम् ।
"

इतिन्यायेन दीक्षितः, – पशुवासनाक्षैण्येन लब्धपरतत्त्वाधिगमो भवेदित्यर्थः ॥ २०३ ॥

नन्वकैकस्मादेव वास्तवाज्जप्यादेः स्वरूपविश्रान्तिः सिद्ध्येत् इति किं जप्यादिभिर्बहुभिरेवमुपदिष्टैः ? – इत्याशङ्क्याह –

जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि ।
उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥ ४-२०४ ॥

इत्थमिति – जप्यादीनां बहुधात्वेन ॥ २०४ ॥

ननु जप्यादीनां बहूनां कस्मान्निरूपणं कृतम्, इति प्रश्निते तदेवोत्तरीकृतम्, इति किमेतत् ? – इत्याशङ्क्याह ↓

यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु ।
चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ ४-२०५ ॥

तथा संविद्विचित्राभिः शान्तघोरतरादिभिः ।
भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ ४-२०६ ॥

यथाहि तत्र तत्र समनिम्नोन्नतादिषु भूभागेषु वाहकेल्यात्मनि कर्कशपांसुलादौ चित्रे देशे कटकमण्डलादिना वाह्यमानोऽश्वो वाहकस्येच्छामात्रकल्पिताम् – इच्छामात्रविधेयतां याति, तथा संविदपि शान्तघोरतरात्मभिः – अघोर घोरघोरतरात्मकपरादिशक्तित्रयैकात्म्येन निरूप्यमाणाभिः अत एव विचित्राभिर्जप्यादिभिर्भङ्गीभिरभितः समन्ततः, तत् – द्वैतं त्याजिता, भैरवायते – भेदापहस्तनपूर्वमनुत्तरपरसंविद्रूपतया परिस्फुरतीत्यर्थः ॥ २०५-२०६ ॥

एतदेव हृदयङ्गमीकर्तुं दृष्टान्तान्तरप्रदर्शनेनाप्युपपादयितुमाह –

यथा पुरःस्थे मुकुरे निजं वक्रतं विभावयन् ।
भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ ४-२०७ ॥

तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि ।
आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ ४-२०८ ॥

यथाहि कश्चिन्निजं वक्त्रं पुरोवर्तिनि मुकुरे, भूयो भूयो विभावयन् – यत्नेन निरीक्षमाणो, निजात्मनः सम्बन्धि बिम्बभूतं तद्वक्त्रं तदेकात्म वेत्ति – मामकमेवेदं वक्त्रमिति निश्चयोत्पादात् प्रतिबिम्बाभेदेनैव मन्यते, तथैव पूजाद्यात्मन्यनेकस्मिन् विकल्पमुकुरे बहुशः स्वात्मानं भैरवतया पश्यन्, अचिरेणैव कालेन तन्मयीभवेत् - तदैवैकात्म्यं प्राप्नुयादित्यर्थः ॥ २०७-२०८ ॥

तन्मयीभावो नाम किंस्वरूपः ? इत्याह –

तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि ।

अनुत्तरात्मनि प्राप्त्यापि किं भवेत् ? – इत्याशङ्क्याह –

पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥ ४-२०९ ॥

सा – अनुत्तरात्मनि प्राप्तिः, सर्वतो नैराकाङ्क्ष्यात् “पूर्णत्वस्य परा काष्ठा” इति, नात्र अन्यत् किञ्चित् फलं सम्भवेत्, नहि अत्र साकाङ्क्षत्वस्य नामाप्यवशिष्यते येन फलान्तरमपि मृग्यं भवेदिति भावः, साकाङ्क्षो हि प्रमाता तत्फलमर्थयमानः प्रथमं तावत्साधनमन्विष्यति, यथोदकाहरणार्थी घटं तत्साधनं च प्राप्य तत्तत्फलमासादयेत्, इति नैराकाङ्क्ष्यस्योत्पादात् औदासीन्यमवलम्बमानः स्वात्मन्येव तिष्ठेत्, किं तु न तत् पूर्णं नैराकाङ्क्ष्यं – क्षणान्तरेणाकाङ्क्षान्तरस्यापि उल्लासात्, अत एव न तत् पारमार्थिकं – साकाङ्क्षत्वेऽपि तस्य तथाकल्पनात्, अतश्च तत्रोत्पन्नेऽपि फले फलान्तरं सम्भाव्यम् – आकाङ्क्षान्तरस्यापि भावात्, यत्पुनः पारमार्थिकं पूर्णत्वम्, तत्र न फलान्तरं सम्भवेत् – सर्वत एव साकाङ्क्षत्वस्य सङ्क्षयात् ॥ २०९ ॥

तदाह –

फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् ।
अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ ४-२१० ॥

पूर्णत्व इति – पूर्णत्वनिमित्तम्, तत्रेति – सर्वस्मिन् फले ॥ २१० ॥

एतदेव सप्रशंसमुपसंहरति –

एष यागविधिः कोऽपि कस्यापि हृदि वर्तते ।
यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ ४-२११ ॥

नन्वेवंविधस्य यागविधेरधिगममात्रादेव किं नामानन्यसामान्यत्वमस्य भवेत् यदेवमुक्तम् ? – इत्याशङ्क्याह –

अत्र यागे गतो रूढिं कैवल्यमधिगच्छति ।
लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ ४-२१२ ॥

अत्र – एवंविधे यागे, लब्धप्ररोहः कश्चिदपश्चिजन्मा देहबन्धविधौ स्थितोऽपि – जीवन्नपि, लोकैः – बद्धात्मभिरन्यैः

“ग्राह्यग्राहकभावो हि सामान्यः सर्वदेहिनाम् ।
"

इत्याद्युक्त्या समानकक्ष्यतयैव व्यवहरन्नालोक्यमानः, कैवल्यमधिगच्छति ↓ ग्राह्यग्राहकभावाद्यात्मकभेदापहस्तनेन प्रत्यभिज्ञातशिवस्वभावस्वात्ममात्ररूपतया प्रस्फुरतीत्यर्थः, अयमेव हि समानेऽपि व्यवहारे बद्धमुक्तयोर्विशेषो – यन्मुक्तस्य स्वाङ्गरूपतया भावा अवभासन्ते, बद्धस्य तु स्वरूपतः परस्परतश्चात्यन्तं भेदेनेति, यदुक्तम् –

“मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥

इति ॥ २१२ ॥

अत एव जीवन्मुक्तविषयतया भगवानपि एवमभ्यधात्, इत्याह ↓

अत्र नाथः समाचारं पटलेऽष्टादशेऽभ्यधात् ।

अष्टादशे पटले – प्रकृतत्वात् श्रीमालिनीविजयसत्के॥

अत्रत्यमेव ग्रन्थं पठति –

नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ ४-२१३ ॥

न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च ।
न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ ४-२१४ ॥

सपरिग्रहता वापि जटाभस्मादिसङ्ग्रहः ।
तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ ४-२१५ ॥

क्षेत्रादिसम्प्रवेशश्च समयादिप्रपालनम् ।
परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ ४-२१६ ॥

नास्मिन्विधीयते किञ्चिन्न चापि प्रतिषिध्यते ।
विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ ४-२१७ ॥

किं त्वेतदत्र देवेशि नियमेन विधीयते ।
तत्त्वे चेतः स्थिरीकायर्म्ं सुप्रसन्नेन योगिना ॥ ४-२१८ ॥

तच्च यस्य यथैव स्यात्स तथैव समाचरेत् ।
तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ ४-२१९ ॥

न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा ।
विषापहारिमन्त्रादिसन्नद्धो भक्षयन्नपि ॥ ४-२२० ॥

विषं न मुह्यते तेन तद्वद्योगी महामतिः ।

अनेन च वास्तवजप्यादिसामनन्तर्येण अनुजोद्देशोद्दिष्टस्य विधिनिषेधतुल्यत्वस्याप्युपक्षेपः कृत् ॥ २१३-२२० ॥

एतच्च बहुक्षोदक्षमत्वेन वैषम्यात् स्वयमेव व्याचष्टे –

अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥ ४-२२१ ॥

प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः ।

यन्नाम हि पाञ्चभौतिकं देहाद्यं

“रूपादिपञ्चवर्गोऽयं विश्वमेतावदेव हि ।
"

इत्याद्युक्तयुक्त्या निखिलमेव जगदुदरवर्ति पदार्थजातम्, तत् कथमिवाशुद्धम् अर्थात् शुद्धं वा, यतः – किं शुद्ध्यशुद्धी प्रकाशतातिरिक्ते बहिः सत्यपि वस्तुनि नीलानीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् वस्तुधर्मतया न भवत इत्यर्थः, अतश्च यस्य यो न धर्मः स तथा न भवेदिति “इदं शुद्धमिदमशुद्धम्” इति विभागो दुष्येत्, ननु अनुभवापह्नवोऽयं – लोकेनिर्बाधस्य शुद्ध्यशुद्धिव्यवहारस्य दर्शनात् ? नैतत् – नहि वयं शुद्ध्यशुद्धिव्यवहारमपह्नुमहे, किं तु “ते वस्तुधर्मतया न भवतः” इत्युच्यते, प्रमाता हि व्यवस्यति – इदं शुद्धमिदमशुद्धमिति, वस्तुधर्मत्वे हि अनयोरशुद्धं न कदाचिदपि शुद्ध्येत् शुद्धमपि वा नाशुद्धं स्यात्, नहि नीलमनीलमपि कदाचिद्भवेत् – स्वभावस्यान्यथाकर्तुमशक्यत्वात्, तथात्वे च

“तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥
"

इत्यादिश्रुतीनां युक्तिबाधितत्त्वं स्यात् ॥ २२१ ॥

एवं प्रमातृधर्मत्वेऽशुद्धं चेद्वस्त्वन्तरेण शोध्यते, तत् किं शुद्धेनाशुद्धेन वा ? इत्याह –

अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ ४-२२२ ॥

अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि ।

तत्राशुद्धस्य पृथिव्यादेर्भावस्य तादृशेनैवाशुद्धेन जलादिना भावान्तरेण शुद्धिः स्यात् – नैष पक्षो युज्यते इत्यर्थः, अत्र हि इत्थं – वक्ष्यमाणेन प्रकारेण अन्योन्याश्रयतादिदूषणजालमापतेत् ॥ २२२ ॥

तदाह –

पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ ४-२२३ ॥

अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः ।
अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ ४-२२४ ॥

वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः ।

अशुद्धादेव हि जलादेरशुद्धस्य पृथिव्यादेः शुद्धावुभयोरविशेषात् परस्परमपि स्यात् – इतीदमन्योन्याश्रयत्वम्, एवमशुद्धस्यापि अशुद्धेनैवाशुद्धिश्चेत् क्रियते तदुभयोरप्यविशेषात् अन्योन्याश्रयत्वम् इत्युक्तम् “अशुद्धत्वेऽप्ययं क्रम” इति, एवं वैयर्थ्याद्यपि योज्यम्, अथाशुद्धस्य पृथिव्यादंरशुद्धादेव जलादेः शुद्धिः तत्तस्याशुद्धत्वाविशेषात् स्वयमेवास्तु, किमन्येनापि अशुद्धेन जलादिना - इति वैयर्थ्यम्, अथ पृथिवी जलाच्छुद्धयेत्, जलमपि वायोः, सोऽपि तेजसः, तदप्यन्यस्मादाकाशादेः, तदप्यन्यतः – इत्यनवस्थानम्, एवमशुद्धस्य पृथिव्यादेर्भावस्य अशुद्धादन्यतो जलादेः शुद्धिर्वा न घटते, इत्युक्तं स्यात् ॥ २२३-२२४ ॥

एवं तर्हि अन्यस्माच्छुद्धादेव शुद्धिः स्यात्, इत्याह –

बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ ४-२२५ ॥

पावनादिति – अर्थात् स्वभावतः ॥ २२५ ॥

नन्वाकाशादिभूतपञ्चकगुणभूतशब्दात्मका मन्त्रा यदि स्वभावत एव शुद्धाः, तत् किमिति स्वयमेव पृथिव्यादयोऽपि स्वभावत एव शुद्धा न स्युः ? इत्याह –

मन्त्राः स्वभावतः शुद्धा यदि तेऽपि न किं तथा ।

ननु मन्त्राणां पावनत्वे शिवात्मतालक्षणं निमित्तान्तरमस्ति ? इत्याशङ्क्याह –

शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ ४-२२६ ॥

ननु यदि नाम मन्त्राणं शिवात्मता पावनत्वे निमित्तं तत् तत्रापि भूतपञ्चकेसा न किं भवेत्, शिवात्मता हि प्रकाशरूपत्वमुच्यते, तेन विना च न किञ्चिदपि स्फुरति, इति प्रकाशमानत्वान्यथानुपपत्त्या अस्त्येवैषां तदात्मत्वम् ॥ २२६ ॥

अथ समानेऽपि शिवात्मत्वे मन्त्राणां मननत्राणधर्मकतया तथात्वेन परिज्ञानमस्ति, न धरादीनाम्, इति तद्वैलक्षण्येन मन्त्राणामेव शुद्धत्वमिति मतम्, इत्याह –

शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् ।
ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ ४-२२७ ॥

एवं तर्हि शिवात्मत्वेन ज्ञप्तिर्नाम शुद्धतोच्यते, इत्याह – “तज्ज्ञप्तिः” इति ॥ २२७ ॥

सा च धरादिष्वपि समाना – इत्याह –

योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता ।

पशुप्रायाणां हि मन्त्रेष्वपि शिवात्मत्वेन परिज्ञानं नास्ति, – इति तान् प्रति तेषां स्वकार्यकारित्वाभावात् सम्भावनीयमपि अशुद्धत्वम् ।
धरादीनां च योगिनं प्रति तत्परिज्ञानमस्ति, – इति तेषामपि विशुद्धत्वम् ।
एतदेव हि नाम योगिनो योगित्वं यत् निखिलमिदं विश्वं शिवात्मतया परिजानाति इति ।
यथोक्तम् –

“यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ।
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥
"

इति ।
अतश्च यथोक्तयुक्तिबलाद्भावानां स्वात्मनि शुद्ध्यशुद्धिविभागो न सिद्ध्येत् – इत्युक्तं स्यात् ॥
ननु केनोक्तं यद्भावानां युक्तिबलेन शुद्ध्यशुद्धिविभाग – इति, स हि शास्त्रेण व्यवस्थाप्यते, इत्याह –

ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ २२८ ॥

चोदना विधायकं वाक्यम्, यदाहुः –

“चोदनेति क्रियायाः प्रवर्तकं वचनम् ।
"

इति ।
तया यच्छुद्धतया विहितं तच्छुद्धम्, अन्यथा त्वन्यत् ।
यत् स्मृतिः –

“ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।
यान्यधःस्थान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥
"

इति ।
आदि ग्रहणेन भक्ष्याभक्ष्यादि ॥ २२८ ॥

ननु यदि नाम शुद्ध्यशुद्धिविभागे चोदनैव निमित्तम्, तदस्तु को दोषः, किन्तु तदविभागेऽपि एषा शिवोदिता चोदनैव निमित्तं नात्र शुद्धिर्न चाशुद्धिः” इति, तदाह –

इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता ।

नन्वेवमुभयोरपि चोदनात्वाविशेषे का नाम तावत् प्रमाणभूता भवेत्, यदाश्रयणेन शुद्ध्यशुद्ध्यादिविनिश्चयं विधास्यामः ? इत्याशङ्क्याह –

का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ ४-२२९ ॥

अन्यत्रेति, इह पुनर्ग्रन्थविस्तरभयान्न प्रवितानितमिति भावः ।
इह खलु समयोपस्कृतस्य शब्दस्यार्थावबोधमात्रे स्वातन्त्र्यम्, अर्थतथात्वेतरपरिनिश्चये पुरुषमुखप्रेक्षित्वात् पारतन्त्र्यमपरिहार्यम्; तेनाप्तोक्तत्वादेव असौ प्रमाणीभवति, अन्यथा पुनरप्रमाणमेव, – इति निश्चयः ।
ततश्च वैदिक्यामस्यां वा चोदनायां साक्षात्कृतनिखिलधर्मा सकलजगदुद्दिधीर्षापर एक एव परमेश्वरः प्रामाण्यनिबन्धनम्, तदुपदिष्टत्वात् सर्वशास्त्रणाम् ।
न च वैदिक्यां चोदनायामकर्तृत्वं वक्तं (शक्यं), रचनावत्त्वात्, सर्वरचनानां कर्तृपूर्वकत्वात्; अतश्चोभयोरपि चोदनयोः सत्त्वमविशिष्टम्, – इति किमाश्रयणेन तावच्छुद्ध्यादिविवेकं कुर्मः, - इति न जानीमः ।
न च अनयोः परस्परं बाध्यबाधकभावो युक्तः तुल्यबलत्वात्, एकतरत्र च दौर्बल्यनिमित्तानुलम्भात् ।
ननु अस्त्येव एकतरत्र दौर्बल्यनिमित्तं यद्वेदबाह्यत्वं नाम श्रुत्यन्तराणाम्, यदाहुः –

“वेदवर्त्मानुवर्ती च प्रायेण सकलो जनः ।

वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा ।
"

इति ।
अतश्च वेदकर्तृक एवागमान्तराणां बोधः – इति तदाश्रयेणैव युक्तः शुद्ध्यादिविभागः ॥ २२९ ॥

ननु यद्येवं तदितो बाह्यत्वाद्वैदिकीनां चोदनानामनयापि बाधः किं न भवेत् समानन्यायत्वात्, नहि एकतरत्र बलवत् किञ्चित्कारणमुत्पश्यामो, येन अन्यत्र नियमेन बाधः स्यात् ? तदाह –

वैदिक्या बाधितेयं चेद्विपरीन्तं न किं भवेत् ।

ननु यद्येवं तत्परस्परव्याहतत्वादुभयमपीदमप्रमाणम्, – इति न किञ्चित् सिद्ध्येत् ? नैतत् ईश्वरप्रणीतत्वाख्यस्य बलवतः प्रामाण्यकारणस्योभयत्रापि सद्भावात् ।
तर्हि सुतरामिदमप्रामाण्यकारणं – यदेकस्मिन्नपि उपदेष्टरि परस्परव्याहतत्वं नामेति ? नैतत् – अधिकारिभेदेन तथोपदेशात् ।
भगवता हि शुद्ध्यादि सामान्येन सर्वपुरुषविषयतया चोदितम्, विशिष्टविषयतया त्विदम्, इति न कश्चिदनयोरप्रामाण्यपर्यवसायी दोषः, तत् उभयोरपि चोदनयोर्भिन्नविषयत्वेनावस्थितेः सत्त्वमविशिष्टमेव – इति सिद्धम् ॥

ननु कथमनयोरविशिष्ट सत्त्वं शुद्ध्यादिविधेः सर्वपुरुषविषयतया प्रवृत्तावपि क्वचिद्विषये बाधात् ? इत्याशङ्क्याह –

सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ ४-२३० ॥

अपवादेन कर्तव्यः सामान्यविहिते विधौ ।

यदि नाम बाधावृत्तं सम्यगवबुद्ध्यसे, तन्न कस्या अपि चोदनायाः सत्त्वहानिः ।
तथा हि निरवकाशत्वाद्विशेषात्मा अपवादविधिः सर्वत्र लब्धावकाशं सामान्यात्मकमुत्सर्गविधिं बाधते, इति वाक्यविदः ।
सर्वविषयावष्टम्भेन लब्धप्रतिष्ठोऽपि हि उत्सर्गविधिरपवादविधेर्विशिष्टं विषयं परिकल्प्य विषयान्तरे निर्वाधमभिनिविष्टो भवेत् ।
यदाह चूर्णिकाकारः –

“प्रकल्प्यापवादविषयं तत उत्सर्गोऽभिनिविशते ।
"

इति ।
अत एवास्य क्वचिद्बाध्यत्वेऽपि अप्रामाण्यं नाशङ्कनीयं विषयान्तरे प्रमाणरूपत्वेन प्रतिष्ठानात् ।
स च द्विधा बाधः समानकार्यकारित्वाद्विरोधाद्वा तत्र ।

“चमसेनापः प्रणयेत् ।
"

इति चमसेनापां प्रणयनं सामान्येन विहितम् ।

“गोदोहनेन पशुकामस्य प्रणयेत् ।
"

इति पशुकामात्मविशिष्टविषयत्वेन अपवादात्मा गोदोहनविधिः अप्प्रणयनलक्षणसमानकार्यकारित्वाद्बाधते ।

“अष्टाश्रिर्यूपो भवति ।
"

इति सामान्येन सर्वक्रतुकविषयतया विहितोऽपि अष्टाश्रिर्यूपः

“वाजपेयस्य चतुरश्रः ।
"

इत्यनेन अपवादविधिना विरोधाद्बाध्यते ॥ २३० ॥

ननु एवमपि प्रकृते किम् ? – इत्याशङ्क्याह –

शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ ४-२३१ ॥

पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् ।

वैदिक्या चोदनया सामान्येन सर्वपुरुषविषयतया विहिते अपि ते शुद्ध्यशुद्धी तत्त्वज्ञविषये अर्थाद्विरोधेन बाधिते एव, न न बाधिते भवत इत्यर्थः ।
अत्र हेतुः “तथा चात्रेति वर्णितम्” इति,

नात्र शुद्धिर्न चाशुद्धिः… ।
"

इत्यपवादात्म तत्त्वज्ञविषयं विधिवाक्यमुक्तमित्यर्थः ॥ २३१ ॥

ननु नात्र विधिवाक्यत्वं वक्तुं युक्तं निर्बाधस्य शुद्ध्यशुद्धिविभागस्य लोक दर्शनात्, प्रत्यक्षादिप्रमाणान्तरविरुद्धत्वात्, तेनावश्यमनेन अर्थवादेन भाव्यम्, तद्धि भूम्ना विध्येकवाक्यतयोच्यते; अतश्च तदर्थेनैव अस्यार्थवत्त्वं न स्वतः; अत एवास्य स्वरूपपरत्वाभावान्न प्रमाणान्तरविरोधः ।
अर्थवादवाक्याद्धि विधौ श्रद्धातिशयो जायते, येन तत्र सादरं प्रवर्तते लोकः ।
यदाहुः –

“विधिशक्तिरवसीदति तां प्राशस्त्यज्ञानं समुत्तभ्नाति ।
"

इति ।
तेन

“मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् ।
यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् ॥
"

इत्यादेः श्रूयमाणस्य सर्वनिर्विकल्पेन योगिना भाव्यम्, – इत्यादेः परिकल्प्यमानस्य वा विधेः प्ररोचनाकारितया शेषभूतोऽयमर्थवाद एव ? – इत्याशङ्क्याह –

नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ ४-२३२ ॥

यदुक्तम् –

“विधिवाक्यमिदं तन्त्रं नार्थवादः कदाचन ।
झटिति प्रत्यवायेषु सत्क्रियाणां फलेष्वपि ॥
"

इति ।
तथा

“…णार्थवादः शिवागमः ।
"

इति ।
माहेश्वर इति विशेषणद्वारेण महेश्वरप्रणीतत्वं हेतुरुक्तः; यन्नाम हि बुद्धिमान् प्रयुङ्क्ते तन्न कदाचिद्व्यर्थं भवेदिति भावः ॥ २३२ ॥

यत् पुनर्बद्धिमता न प्रयुक्तं तत्रैवं सम्भावना भवेत्, – इत्याह –

अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् ।
व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ ४-२३३ ॥

इह खलु निगमे वेदशास्त्रे, सततं विधिवाक्यानामर्थवादवाक्यानां वा श्रुतिकाले, मिथ्यार्थतां प्रति असदर्थत्वविषये प्रेक्षापूर्वकारिणां शङ्का भवति – इति सम्भाव्यम्; यतः स परमते घनगर्जितवदबुद्धिपूर्वम् अबुद्धिमत्कर्तृकत्वेन तथा विध्यर्थवादरूपतया संस्थितः; अत एवानर्थक्येन शून्यप्रायत्वात् “व्योमादिरूपे” इत्युक्तम् ।
यदभिप्रायेणैव –

“आप्तं तमेव भगवन्तमनादिमी
शमाश्रित्य विश्वसिति वेदवचस्तु लोकः ।

तेषामकर्तृकतया तु न कश्चिदेव
विस्रम्भमेति मतिमानिति वर्णितं प्राक् ॥
"

इत्याद्यन्यत्रोक्तम् ॥ २३३ ॥

यत्र पुनरवच्छिन्नविज्ञानात्मा परमेश्वर एव शास्त्ररूपेणावस्थितः, तत्र का नाम मिथ्यार्थत्वं प्रति शङ्का भवेत् ? – इत्याह –

अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः ।
शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ ४-२३४ ॥

“मिथ्यात्वं क्वापि नार्हति” इत्यत्र पूवार्धं हेतुः ॥ २३४ ॥

नन्वीश्वरः सर्वशास्त्राणां प्रणेता – इत्यधिगतमस्माभिः, न तु स एव तदात्मनावस्थितः, – इत्यपूर्वमिदं किमुच्यते ? – इत्याशङ्क्याह –

इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः ।
तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ ४-२३५ ॥

यथा खलु परमेश्वरः स्वेच्छामाहात्म्याद्वाच्यात्मप्रमातृप्रमेयादिभावरूपेण स्थातुमिच्छुः सन्, तथा वाच्यात्मविश्वरूपतया स्थितः; तथाशब्दस्यावृत्त्या तथा तद्वदेव तस्य प्रमातृप्रमेयात्मनो वाच्यस्य विश्वस्य यत् स्वम् अन्यापोढं रूपं तस्याभिधानेन वाचकतया स्थातुमिच्छुः सन् तथा वाचकात्मशास्त्ररूपतया स्थितः इत्यर्थः ॥ २३५ ॥

एवमपि यद्यस्य क्वचिन्मिथ्यार्थत्वं स्यात् तदापि न कश्चिद्दोषः, इत्याह -

अर्थवादोऽपि यत्रान्यविध्यादिमुखमीक्षते ।
तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ ४-२३६ ॥

यत्र खलु स्तुतिनिन्दादिरूपोऽर्थवादोऽन्यस्य विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावमियात् तत्र स्वरूपपरत्वाभावादसावसत्योऽस्तु न कश्चिद्दोषः; नहि अस्य यथाश्रुतोऽर्थः प्रतिपाद्यः, किन्तु विधेयो निषेध्यो वा, यदस्याङ्गभावेन प्रतिष्ठानम्; अत एव विधिवाक्यैकवाक्यतयैव अस्य प्रामाण्यम् – इति वाक्यविदः ।
यदाहुः –

“इत्यर्थवादा विधिनैकवाक्यभावात्प्रमाणत्वममी भजन्ते ॥
"

इति ।
तथाहि –

“बर्हिषि रजतं न देयम् ।
"

इत्यस्य विधेः शेषभूतस्य

शोऽरोदीद्यदरोदीत् तद्रुद्रस्य रुद्रत्वम् ।
"

इत्यादेरर्थवादस्य न रुद्ररोदनादि प्रतिपाद्यम्, किन्तु

“बर्हिषि यो रजतं ददाति पुरास्य संवत्सराद् गृहे रोदनं भवति ।
"

इति “बर्हिषि रजतं न देयम्” इति ।
स एव पुनरर्थवादो यद्यन्याङ्गभावं यायात् तदा विधायको यथाश्रुतार्थप्रतिपादको भवेदित्यर्थः ।
शोऽरोदीत्” इत्यादावर्थवादवाक्ये हि

“रुद्रो रुरोद तस्य यदश्रु अशीर्यत तद्रजतमभवत् ।
"

इति-वृत्तप्रतिपादनं सत्यार्थमेवेदम्, एवं प्रायाणां बहूनामितिवृत्तानां सत्यत्वेनेष्टेः ।
तदुक्तम् –

“यद्वा स्वरूपपरतामपि संस्पृशन्तः प्रमाण्यवर्त्मन इमे न परिच्यवन्ते ।

नैयायिका हि पुरुषातिशयं वदन्तो
वृत्तान्तवर्णनमपीह यथार्थमाहुः ॥
"

इति ॥ २३६ ॥

न केवलमस्य स्वातन्त्र्य एव सत्यार्थत्वं यावत्पारतन्त्र्येऽपि – इत्याह -

विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा ।
न निरर्थक एवायं सन्निधेर्गजडादिवत् ॥ ४-२३७ ॥

यद्वा विधिनिषेधात्मनो विधिवाक्यस्याङ्गभावं गच्छन्नपि अयमर्थवादः सन्निहितत्वान्ननिर्थक एव भवेत् अत्र दृष्टान्तः “गजडादिवत्” इति ।
यथाहि पदाद्यङ्गत्वेन सन्निहिता वर्णा न निरर्थकाः तथायमपीति वर्णानामानर्थक्ये हि वर्णव्यत्ययेऽर्थान्तरगमनं न स्यात्, यथा गजः जडः षोडः (?) इति ।
सङ्घातस्यापि अर्थवत्त्वं न स्यात् – अवयवानामानर्थक्ये हि समुदायोऽप्यनर्थक एव भवेत्, यथा एकस्या अपि सिकतायास्तैलदानासामर्थ्ये तत्समुदायो राशिरप्यसमर्थः – इति ।
एवमर्थवादस्यापि आनर्थक्ये तत्सन्निधानेन विधीयमाने निषिध्यमाने वार्थे सादरं प्रवृत्तिर्निवृत्तिर्वा न स्यात् ।
शोऽरोदीत्” इत्यादौ हि रोदनप्रभवं रजतं निन्दितुमेवमुक्तं येन बर्हिषि तद्दानात् सादरं निवृत्तिर्भवेत् ।
लोकेऽपि खलु “इयं गौः क्रेतव्या” इत्यतो न तथा क्रेतारः प्रवर्तन्ते, यथा “एषा बहुस्निग्धक्षीरा सुशीला स्त्र्यपत्यानघप्रजा च” इत्येवमादिभ्यः स्तुतिपदेभ्यः, – इति स्वानुभवसाक्षिकोऽयमर्थः ॥ २३७ ॥

अत आह –

स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते ।
तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ २३८ ॥

अथ यद्येतत् बलात्कारेणापह्नूयते तत् विधिनिषेधात्मनो विधिवाक्यस्यापि अर्थापह्नवः कर्तुं शक्यः, – इत्याह “तदपह्नवनम्” इत्यादि ॥ २३८ ॥

न केवलमत्र स्वसंवित्तिरेव साधकं प्रमाणमस्ति, यावद्युक्तिरपि – इत्याह –

युक्तश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता ।
या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ ४-२३९ ॥

युक्तिरिति समनन्तरोक्ता ॥ २३९ ॥

ननु भवतु नामेदमर्थवादवाक्यं विधिवाक्यं वा किमनया नश्चिन्तया, तत्रापि वेदशास्त्रोक्तः शुद्ध्यादिविभागस्तावत् यथोक्तयुक्त्या बाधितः, अनेन च न किञ्चिच्छुद्धं विहितं नाप्यशुद्धं तृतीयश्च राशिर्नास्ति, – इति शुद्ध्यशुद्धिविधानमेव न सिद्ध्येत् ? – इत्याशङ्क्याह –

मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता ।
अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ ४-२४० ॥

संवित्तदात्म्यमापन्नं सवर्म्ं शुद्धमतः स्थितम् ।

वेदशास्त्रे हि मृतदेहे देहाच्च्युते मलादौ च यदशुद्धिरुक्ता अन्यत्र जीवद्देहे देहस्थ एव मलादौ च न, – इत्यतः संवित्सहभावासहभावनिबन्धनाद्धेतोः संविदः सकाशात् यत् च्युतं भिन्नं तदाशुद्धं बुद्ध्यन्तां विशेषानुपादानात् सर्व एवावगच्छन्त्वित्यर्थः ।
अत एव च यत्किञ्चित् संविदैक्यमापन्नं तत् सर्वं शुद्धमिति; तेन संविदैकात्म्यानैकात्म्याभ्यां सर्वत्र शुद्ध्यशुद्धिविभागः, – इति स्थितं सिद्धम् ॥ २४० ॥

न च एतद्युक्तिमात्रेणैव सिद्धं यावदागमेनापि, – इत्याह –

श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ ४-२४१ ॥

तदेव शब्दद्वारेण पठति –

सर्वेषां वाहको जीवो नास्ति किञ्चिदजीवकम् ।
यत्किञ्चिज्जीवरहितमशुद्धं तद्विजानत ॥ ४-२४२ ॥

जीवयति निखिलमिदं भूतजातं ज्ञानक्रियोत्तेजनेन प्राणयति – इति जीवः परप्रकाशः, स सर्वेषां प्रमातृप्रमेयात्मनो विश्वस्य वाहयति सन्धारयति – इति वाहकः स्वात्मसंलग्नतयावभासक इत्यर्थः ।
अत्र हेतुः नास्ति किञ्चिदजीवकम्” इति, नहि प्रकाशातिरिक्तं किञ्चिदपि भायादिति भावः ।
यत् पुनः किञ्चिज्जीवरहितं तदैकात्म्येनासंवेद्यमानम्, तदशुद्धं विजानत अनुपपत्त्यवस्करदूषितत्त्वात् परिहरणीयतयावगच्छतेत्यर्थः ।
एवं संविदतिरिक्तस्याशुद्धत्वेनाभिधानात् इतरत् पुनः शुद्धमेव – इत्यर्थसिद्धम् ॥ २४२ ॥

तदाह –

तस्माद्यत्संविदो नातिदूरे तच्छुद्धिमावहेत् ।

तदुक्तं तत्रैव –

“अशुद्धं नास्ति तत्किञ्चित्सर्वं तत्र व्यवस्थितम् ।
यत्तेन रहितं किञ्चिदशुद्धं तेन जायते ॥
"

इति ॥

नन्वेवं शुद्ध्यशुद्धिविभागो न कैश्चिन्महात्मभिः परिगृहीतः – इति कथमत्र सतां समाश्वासः स्यात् ? – इत्याशङ्क्याह –

अविकल्पेन भावेन मुनयोऽपि तथाभवन् ॥ ४-२४३ ॥

तथेति संविदैकात्म्यानैकात्म्याभ्यां शुद्ध्यशुद्धिविभागभाज इत्यर्थः ।
तदुक्तं तत्र

“ऋष्भिर्भक्षितं पूर्वं गोमांसं च नरोद्भवम् ।
"

इति ।
यदि नाम हि ते – द्रव्याणां संविदैकात्म्यमेव शुद्धिः – इति न जानीयुः, तत् कथं शास्त्रबहिष्कृतं लोकविरुद्धं गोमांसादि भक्षयेयुः; अत एव हि बाह्यचर्यायाम्

“यद्द्रव्यं लोकविद्विष्टं यच्च शास्त्रबहिष्कृतम् ।
यज्जुगुप्स्यं च निन्द्यं च वीरैराहार्यमेव तत् ॥
"

इत्याद्युक्त्या विकल्पप्रहाणाय लोकशास्त्रविरुद्धं द्रव्यजातमभिहितम् ।
यन्नाम सर्वद्रव्याणां लोकविरुद्धत्वादि न वास्तवं रूपम्, किन्तु परा संविदेव, – इति किं नाम जुगुप्स्यं निन्द्यं वा, सर्वत्रैव संविद्रूपत्वाविशेषात्; अत एव तत्र चित्तप्रत्यवेक्षामात्रमेव प्रयोजनं – किं संविदेकाग्रीभूतं चित्तं न वा – इति ।
यदुक्तम् –

न चर्या भोगतः प्रोक्ता या ख्याता भीमरूपिणी ।
स्वचित्तप्रत्यवेक्षातः स्थिरं किं वा चलं मनः ॥
"

इति ॥ २४३ ॥

ननु यद्येवं तन्मुनिभिर्गेमांसादि कथमभक्ष्यतयोपदिष्टम् ? – इत्याशङ्क्याह –

लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् ।

एवमुपदिष्टे हि अलब्धसंविदैकात्म्योऽपि लोको लोभलौल्याभ्यां यत्तत् कुर्वाणो लोकयात्रामुच्छिन्द्यात् – इति, तत् तत्त्वं संविदद्वैतात्म पारमार्थिकं रूपं तैः प्रकर्षेण तत्तद्द्रव्यदूषणादिद्वारेण गोपितं न प्रकाशितमित्यर्थः ।
यदुक्तं तत्रैव –

“ज्ञात्वा समरसं सर्वं दूषणादि पुनः कृतम् ।
"

इति ।
यदभिप्रायेणैव “यत्ते कुर्युर्न तत्कुर्याद्यद्ब्रूयुस्तत्समाचरेत ।
" इत्यादि अन्यत्रोक्तम् ।
नन्विदं भावजातं बहीरूपतया चेन्न सम्भवति तत् कस्य शुद्ध्यशुद्धी स्याताम्, यदधिकारेणापि अयं विचार आरभ्यते; अथ यदि सम्भवति, तद्यथैव सम्भवति तथैव भवेत्, किं तस्य प्रमातृसम्बन्धिना परिज्ञानेन ? – इत्याशङ्क्याह –

बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ ४-२४४ ॥

प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् ।

बहीरूपतयाभ्युपगम्यमानेष्वपि भावेषु नीलादिन्यायेन प्रतिभासविकारकारित्वाभावात् शुद्ध्यशुद्धी न वस्तुनो धर्मः, किन्तु प्रमातुः; प्रमाता हि चिदैक्यानैक्यवेदकतया सातिशस्यः संस्तथा व्यवस्यति “इदं शुद्धमिदमशुद्धम्” इति; अत एव शुद्ध्यशुद्धी न नियते, कस्यचिद्धि यदशुद्धं तन्नान्यस्येति ।
वस्तुधर्मत्वे हि भवेन्नाम अयं नियमो – यदिदं शुद्धमिदमशुद्धम् – इति, नहि कस्यचित् नीलमप्यनीलं भवेत् ॥ २४४ ॥

ननु प्रमातुस्तत्तद्वस्तुदर्शनेनैव हि मनः प्रसीदेद्विचिकित्स्याच्च, – इति कथं न शुद्ध्यशुद्धी वस्तुनो धर्मः? – इत्याशङ्क्याह –

यदि वा वस्तुधर्मोऽपि मात्रपेक्षानिबन्धनः ॥ ४-२४५ ॥

सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः ।

यदि नाम शुद्ध्यशुद्ध्योर्वस्तुधर्मत्वमभ्युपेयते, तदपि प्रमातृपारतन्त्र्यमेव अत्र निबन्धनं भवेत् ।
यथाहि – यमेव प्रमातारमपेक्ष्य द्वित्वबुद्धिरुपजायते तस्यैव तद्ग्रहो भवेत् नेतरस्य, तत्र तस्यैकत्वादिबुद्ध्युपजननस्यापि सम्भाव्यमानत्वात्; एवं येनैव प्रमात्रा यच्छुद्धतया गृहीतं तस्यैव तच्छुद्धं नापरस्य ।
तथाहि – एकैव सुरा सौत्रामण्यां होतुर्याजकस्य शुद्धा अवघ्रणभक्षणादौ योग्येत्यर्थः ।

शुराया अवघ्रणः कर्तव्यः ।
"

इति ।
अन्यस्य सौत्रामण्यामयाजकस्य पुनरशुद्धा अवघ्रणादावयोग्येत्यर्थः ।
यत्स्मृतिः –

“ब्रह्मणस्य रुजः कृत्या घ्रतिरघ्रेयमद्ययोः ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥
"

इति ।
तस्मात् वस्तुधर्मत्वेऽपि अनयोर्मात्रपेक्षानिबन्धनत्वं यदि न स्यात्, तत् सर्वानेव प्रति सुरायाः शुद्धत्वमेव भवेदशुद्धत्वमेव वेति ।
एवं सुरायाः सामान्येनाशुद्धत्वं विहितम्, सौत्रामणीहोतृविषयत्वेन विशेषश्रुत्या विरोधाद्बाधितमित्यवगन्तव्यम् ॥ २४५ ॥

ननु उक्तवच्छैव्या चोदनया यदि वैदिकीचोदना बाधिता तद्यावदास्ताम्, वैदिक्या पुनश्चोदनया स्वेनैव सर्वं बाध्यते – इत्येतन्न यौक्तिकमिव नः प्रतिभासते ? इत्याशङ्क्याह –

अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ ४-२४६ ॥

क्वचित्सन्दर्शितं ब्रह्महत्याविधिनिषेधवत् ।

श्ववाक्यैः” इति अपवादरूपैः ।
“क्वचित्” इति उत्सर्गविषये ।
शन्दर्शितम्” इत्यनेन यथोक्तयुक्त्या नैवमयौक्तिकत्वपर्यवसायी कश्चिद्दोषः – इति प्रकाशितम् ।
अपिशब्देन न केवलं शास्त्रन्तरीयैर्वाक्यैः, – इत्युक्तम् ।
अतश्च नास्माभिरपूर्वं किञ्चिदुत्प्रेक्षितं – यन्नामोक्तं “शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाधिता” इति ।
न च एतत् प्रामादिकम् अपितु भूम्ना, – इति दर्शयितुं “ब्रह्महत्याविधिनिषेधवत्” इति दृष्टान्तितम् ।
एवं यथा –

“ब्रह्मणो न हन्तव्यः ।
"

इति सामान्येन ब्रह्महत्यानिषेधो विहितः

“ब्रह्मणो ब्रह्मणमालभेत ।
"

इति विशेषश्रुत्या बाधितः, तथा सुराया अपि अशुद्धत्वमित्यर्थः ॥ २४६ ॥

एवं शुद्ध्यशुद्धिविषये कृतं विचारमन्यत्रापि अतिदिशति –

भक्ष्यादिविधयोऽप्येनं न्यायमाश्रित्य चर्चिताः ॥ ४-२४७ ॥

न भक्ष्यादिविचारणम्” इत्यत्र नात्र भक्ष्यं न चाभक्ष्यम्” इत्यादयोऽर्थसामर्थ्यलभ्या विधयोऽपि अनेनैव न्यायेन गतार्थाः, – इत्यर्थः ॥ २४७ ॥

ननु यथा शैव्या विशेषचोदनया सामान्यात्मिका वैदिकी चोदना बाध्यते, तथा वैदिक्यापि शैवी चोदना किं न वा ? इत्याशङ्कां गर्भीकृत्य आगमार्थमेव दर्शयितुमुपक्रमते –

सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः ।

तदेवार्थद्वारेण पठति –

नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ ४-२४८ ॥

उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् ।

नरोक्तस्य ऋष्युक्तं बाधकम्, यावद्विष्णूक्तस्य रुद्रोक्तम्, तदाह – पूर्वपूर्वप्रबाधकम्” इति ।
अत्र उत्तरोत्तरवैशिष्ट्यं हेतुः ।
सामान्यस्य हि विशेषेण बाधो न्याय्यः, इति भावः ॥ २४८ ॥

अत एव विपर्ययेण बाधो न भवेदित्याह –

न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ ४-२४९ ॥

वैष्णवं ब्रह्मसम्भूतैर्नेत्यादि परिचर्चयेत् ।

“ब्रह्मसम्भूतैः” वेदवाक्यैरित्यर्थः ।
यच्छ्रुतिः –

“प्रजापतिना चत्वारो वेदा असृज्यन्त ।
"

इति ।
यत्र च वैष्णवं वेदवाक्यैर्न बाध्यते तत्र शैवबाधने का वार्ता, – इत्यर्थसिद्धम् ।
आदिशब्दाद् ब्रह्मसम्भूतानामपि देववाक्यैर्न बाधः, – इत्यादि ग्राह्यम् ।
यदुक्त्ं तत्र –

न पुम्भिरार्षवाक्यं च वैदिकं चर्षिभिस्तथा ।
न देर्वैब्रह्मणो वाक्यं वैष्णवं पद्मजन्मजैः ॥

न शैवं विष्णुवचनैर्बाध्यते तु कदाचन ।
"

इति ॥ २४९ ॥

ननु विपर्ययेणापि बाधे को दोषः ? – इत्याशङ्क्याह –

बाधते यो वैपरीत्यात्स मूढः पापभाग्भवेत् ॥ ४-२५० ॥

वैपरीत्यं पूर्वेणोत्तरस्य बाधः ।
यदुक्तं तत्र –

“यो हि बाधयते पापः स मूढो नष्टचेतनः ।
उत्तरोत्तरवैशिष्ट्यं सर्वेषं परिकीर्तितम् ॥
"

इति ॥ २५० ॥

एवं सर्वोत्कृष्टत्वाच्छैव एव शास्त्रे मुख्यया वृत्त्या निष्ठा कार्या, नान्यत्रेत्याह –

तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् ।

निष्ठाशून्यतया तु गौण्या वृत्त्या लोकसंरक्षणार्थं लोकधर्मानाचरतो न कश्चिद्दोषः, – इति भावः ।
तदुक्तं तत्र –

“ये तु वर्णाश्रमाचाराः प्रायश्चित्ताश्च लौकिकाः ।
सम्बन्धान्देशधर्मांश्च प्रसिद्धान्न विचारयेत् ॥

गर्भाधानादितः कृत्वा यावदुद्वाहमेव च ।

तावत्तु वैदिकं कर्म पश्चाच्छैवे ह्यनन्यभाक् ।
न मुख्यवृत्त्या वै स्कन्द लोकधर्मान्समाचरेत् ॥
"

इति ।
अत एव

“अन्तः कौलो बहिः शैवो लोकाचारे तु वैदिकः ।
सारमादाय तिष्ठेत नारिकेलफलं यथा ॥
"

इत्यादि अन्यत्रोक्तम् ॥

ननु मुख्यया वृत्त्या यदि लोकधर्मान्नानुतिष्ठेत् तच्छैवशास्त्राङ्गभावेन किं न वा ? – इत्याशङ्क्याह –

नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ ४-२५१ ॥

निजे स्रोतसि – आत्मीये शास्त्रे

“आ कण्ठतः पिबेन्मद्यम् … ।
"

इत्याद्युक्तमेवार्थं “चरेत्” अनुतिष्ठेत्, न पुनस्तमपास्य

शुरा न पेया ।
"

इत्यादि शास्त्रान्तरोद्दिष्टम् ।
भगवता हि पृथगधिकारिभेदेन परस्परविलक्षणानि शास्त्राण्युपदिष्टानि, – इत्यन्यं प्रति उपदिष्टं कथमन्यस्यानुष्ठेयं स्यात् ।
तदुक्तं तत्र

नान्यशास्त्रसमुद्दिष्टं न चान्यां देवतां स्मरेत् ।
विशुद्धभावनायुक्तः शिवैकगतमानसः ॥
"

इति ।
एतच्च समानतन्त्रापेक्षयापि योज्यम्; यतस्तान्यपि क्रियादिभेदाद्भिन्नान्येव, – इत्यागमविदः ।
यदाहुः –

“क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः ।
तस्माद्यत्र यदेवोक्तं तत्कार्यं नान्यतन्त्रतः ॥

इति ।
अपेक्षायां पुनरुत्पन्नायां शास्त्रान्तरादपेक्षणीयम्, अन्यथा हि तत्तदितिकर्त्तव्यताकलापस्यापरिपूर्तिः स्यात् ।
तथाहि श्रीपूर्वशास्त्रे –

“तत्र द्वारपतीनिष्ट्वा महास्त्रेणाभिमन्त्रितम् ।
पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रकाशान्तये ॥
"

इत्यादौ द्वारपतीनां कथमिष्टिः? – इत्यपेक्षायां समानतन्त्रात् श्रीत्रिशिरोभैरवात्

“ततो मूले उत्तरते नन्दिरुद्रर्ं च जाह्नवीम् ।
महाकालं सदंष्टम्र च यमुनां चैव दक्षिणे ॥
"

इत्याद्यपेक्षणीयम् ।
अत्रैव च “ज्वलत्पुष्पं कथं विनिक्षिपेत्” इत्यपेक्षायां समानतन्त्रे तत्क्षेपस्य सुस्पष्टमनभिधानात् समानकल्पाच्छ्रीस्वच्छन्दशास्त्रात् –

“भैरवास्त्रं समुच्चार्य पुष्पं सङ्गृह्य भावितः ।
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥

नाराचास्त्रप्रयोगेण प्रविशेद् गृहमध्यतः ।
"

इत्याद्यपेक्षणीयम् ।
नाराचास्त्रस्य च प्रयोगः कीदृक् ? ↓ इत्यपेक्षायां समानकल्पेऽपि शास्त्रे तदनुपलम्भात् अत्यन्तमसमानात् अनन्तविजयाख्यात् सिद्धान्तशास्त्रात् –

“उत्तानं तु करं कृत्वा तिस्रोऽङ्गुल्यः प्रसारयेत् ।
मध्यमाङ्गुष्ठकौ लग्नौ चालयेत मुहुर्मुहुः ॥

नाराचः कीर्तितो ह्येवम् … ।
"

इत्याद्यपेक्षणीयम् ।
अपेक्षानिवृत्तिर्हि नः फलम्, सा च यत एव भवेत् तदेवापेक्षणायम्, किं समानत्वासमानत्वदुर्ग्रहेण ।
एवमपेक्षायां सत्यां समानादसमानाद्वा शास्त्रान्तरात् तावदपेक्षणीयं यावदपेक्षाया निवृत्तिः स्यात्, तदभावे पुनर्निर्निबन्धनमेव शास्त्रान्तरोक्तस्यापेक्षणीयत्वे सर्वस्यैव तत्प्रसङ्गादनवस्थितमेव शास्त्रार्थानुष्ठानं स्यात् ।
यदाहुः –

शापेक्षत्वेऽप्यपेक्षैव मानं यावदपेक्षते ।
तावदेवान्यतः कार्यं नान्यत्स्यादनवस्थितेः ॥
"

इति ॥ २५१ ॥

ननु निखिलमिदं शास्त्रजातं भगवतैव सकलजगदुद्दिधीर्षयोपदिष्टम्, तत्तदुक्तार्थानुष्ठानमवश्यकार्यं येन संसारमोहः शाम्येत्, – इति तद्यथास्तु, किमनेन विचारेण ? – इत्याशङ्क्याह –

यतो यद्यपि देवेन वेदाद्यपि निरूपितम् ।
तथापि किल सङ्कोचभावाभावविकल्पतः ॥ ४-२५२ ॥

वेदादीनां सर्वशास्त्राणां परमेश्वर एवोपदेष्टा, – इति नास्ति विवादः; किन्तु तेन सङ्कोचभावाभेदेन द्विधा शास्त्राण्युपदिष्टानि - कानिचिद्भेदप्रधानानि कानिचिदभेदप्रधानानि – इति ।
तत्र भेदप्रधानानि वेदादीनि शास्त्राणि, अभेदप्रधानानि च शैवादीनि ॥ २५२ ॥

तदाह –

सङ्कोचतारतम्येन पाशवं ज्ञानमीरितम् ।
विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ ४-२५३ ॥

शङ्कोचो” भेदप्रथा ।
पशूनामिदं “पाशवम्” वेदादि ।
“विकासः” सङ्कोचाभावादभेदप्रथा, अत एव भेदप्रथाया बाध्यत्वादिदं बाधकम् ।
भेदो हि संसारः, स च सर्वेषामेवोच्छेद्यः, – इत्यविवादः ।
एवं च बाध्यबाधकयोः साङ्कर्येणानुष्ठानं दुष्येत्, – इति यथोक्तमेव युक्तम् ।
अत एवान्यत्र –

“पाशवं ज्ञानमुज्झित्वा पतिशास्त्रं समाश्रयेत् ।
"

इत्याद्युक्तम् ॥ २५३ ॥

इदानीं न द्वैतं नापि चाद्वैतम्” इति व्याचष्टे –

इदं द्वैतमिदं नेति परस्परनिषेधतः ।
मायीयभेदकॢप्तं तत्स्यादकाल्पनिकेकथम् ॥ ४-२५४ ॥

यन्नाम किञ्चनेदं द्वैतं नानारूपत्वं तदपास्य एकात्म्यलक्षणमद्वैतमाश्रयेत्, – इत्यादि यदन्यत्रोक्तम्, तदकाल्पनिकेकवलीकृततत्तत्कल्पनाकलापे स्वात्ममात्रस्फुरत्तारूपे परे तत्त्वे कथं स्यात्, न युज्यते इत्यर्थः ।
यतस्तत् अन्यापोहरूपत्वेन परस्परप्रतिक्षेपात् “माया” स्वरूपगोपनात्मिका पारमेश्वरी इच्छाशक्तिः, तत आगतो योऽसौ “भेदः” तेन “कॢप्तम्” अनुप्राणितं कल्पनामात्रसतत्त्वमित्यर्थः ॥ २५४ ॥

किं चात्र प्रमाणम् ? – इत्याशङ्क्याह –

उक्तं भर्गशिखायां च मृत्युकालकलादिकम् ।
द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ ४-२५५ ॥

इह खलु अविकल्पकपरसंविदावेशवशात् कृतार्था “धीः” ज्ञानं यस्यासौ प्राप्तपरसंविदैकात्म्यो योगी, “द्वैताद्वैतविकल्पात्” उत्थितं भेदानुप्राणनयोल्लसितम्, नात्र काचिज्जन्ममरणादिका मानमेयादिरूपा च कल्पनास्तीत्यर्थः ।
यदुक्तं तत्र –

“मृत्युं च कालं च कलाकलापं विकारजातं प्रतिपत्तिजालम् ।
एकात्म्यनानात्मवितर्कजातं तदा स सर्वं कवलीकरोति ॥
"

इति ॥ २५५ ॥

अथ “लिङ्गपूजादिकं न च” इति व्याकुरुते –

सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे ।
कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ ४-२५६ ॥

इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने ।

“विश्वः” षटित्रशत्तत्त्वात्मको” योऽसौ “अध्वा” तद्रूपतां वेत्तं शिद्धान्ते” भेददर्शने लिङ्गपूजाविधिर्विहितः ।
पारमेश्वरं हि लिङ्गं गर्भीकृतनिखिलाध्वाप्रपञ्चम्, – इति तत्पूजनेन समग्रमेवेदं जगत्साक्षात्कृतं भवेदिति भावः ।
यदाहुः –

“लिङ्गे परमशिवान्तां व्याप्तिं पीठे सदाशिवप्रान्ताम् ।
ब्रह्मशिलायां मायापर्यन्तां भावयद्भिरिमैः ॥
"

इति,

“इष्टेन शिवलिङ्गेन विश्वं सन्तर्पितं भवेत् ।
"

इति च ।
“कुलादौ” अद्वयदर्शने पुनरसौ लिङ्गपूजा निषिद्धा” यतो देह एव सर्वाध्वमयः, – इति तत्रैव तत्साक्षात्कारः सुलभः, – इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् ।
यदुक्तम् –

“यजेदाध्यात्मिकं लिङ्गं बाह्यं लिङ्गं न पूजयेत् ।
"

इति ।
तथा

“हृदयगुहागे गतं सर्वज्ञं सर्वगं परित्यज्य ।
प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् ॥
"

इति ।
इह पुनः परमाद्वयरूपे त्रिकदर्शने तद्विधिना तन्निषेधेन वा न किञ्चित्प्रयोजनम्, – इत्युक्तं नात्र लिङ्गपूजा नापि तत्परित्यागः” इति ।
यत इदं सर्वात्मकम्, यावता हि पारमेश्वरपरसंवित्स्फाररूपतया इदं जगत्परिज्ञेयम्, तच्च सर्वस्यैव संवित्स्फाररूपत्वात् देहनिष्ठतया अस्तु, अन्यथा वा, किं नाम सार्वात्म्यप्रतिपत्तिविघ्नभूतेन देहबाह्याद्यभिमानेन भवेत्, – इति भावः ।
यदाहुः –

न क्वापि गत्वा हित्वा वा न किञ्चिदिदमेव ये ।
भव त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥
"

इति ॥ १५६ ॥

इदानीं जटाभस्मादिसङ्ग्रहादि आचष्टे –

नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ ४-२५७ ॥

जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः ।

नियमाः”

“जटी मुण्डी शिखी दण्डी पञ्चमुद्राविभूषितः ।
प्रमादान्मैथुनं कृत्वा मम द्रोही महेश्वरि ॥
"

इत्याद्युक्त्या वैराग्यादयः, तत्र “अनुप्रवेशोऽभ्यासः, तेन या “तादात्म्यप्रतिपत्तिः” पारमेश्वरस्वरूपसमावेशः, तन्निमित्तं सिद्धान्ते बहुक्लेशसाध्यं जटाभस्मादि विहितम् ।
यदुक्तम् –

“कलातत्त्वपवित्राणुशक्तिमन्त्रेशसङ्ख्यया ।
विभज्य केशान्सम्पात्य प्रत्यंशं संहिताणुभिः ॥

व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा ।
"

इति ।
तथा

“व्रतिनो जटिनो मुण्डास्तेष्वग्र्या भस्मपाण्डुराः ।
तिलकैः पुण्ड्रकैः पट्टैर्भूषिता भूमिपादयः ॥
"

इति ।
“कौले” कुलदर्शने पुनः “अस्य” जटाभस्मादेः “त्यागो” निषेधो विहितः, – इत्यर्थः ।
यदुक्तम् –

“जटाभस्मादिचिह्नं च ध्वजं कापालिकं व्रतम् ।
शूलं खट्वाङ्गमत्युग्रं धारयेद्यस्तु भूतले ॥

न तस्य सङ्गमं कुर्यात्कर्मणा मनसा गिरा ।
"

इति ।
यतोऽत्र “यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते ।
" इत्युक्त्या विषयासङ्गेऽपि पारमेश्वरस्वरूपापत्तेः, शुखेन” अयत्नेन “उपायस्योपदेशः” यदुक्तम् –

“पूर्वैर्निरोधः कथितो वैराग्याभ्यासयोगतः ।
अस्माभिस्तु निरोधोऽयमयत्नेनोपदिश्यते ॥
"

इति ।
निष्परिग्रहतादि पुनः पृथङ् न व्याख्यातम् अनेनैव गतार्थत्वात्, प्रथमतुर्यपादाभ्यामेव हि एतदर्थोऽभिहितः, – इति भावः ।
इह पुनः सार्वात्म्यात् तद्विधिप्रतिषेधने न भवतः, – इति प्राच्येन सम्बन्धः ।
इह हि संविदैकात्म्यं नामोपेयम्, तत्र च यदेव यदा सन्निकृष्टं तदेव तदा ग्राह्यम्, इतरत् तु त्याज्यम्, – इति जटादेर्विधिरस्तु निषेधो वा किमनेन नः प्रयोजनम् ।
यद्वक्ष्यति –

“परतत्त्वप्रवेशे तु यमेव निकटं यदा ।
उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥
" (४।२७९)

इति ॥ २५७ ॥

अथ व्रतादीनां चरणाचरणं व्याचष्टे –

व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ ४-२५८ ॥

तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये ।

च शब्दात् सिद्धान्ते उक्ता, – इत्यनुवर्तनीयम् “मन्त्रार्थो नियतो वाच्यदेवतादिः, “तन्निषेधः” अर्थात्कौले ।
शार्वात्म्यम्” विश्वाभेदः ।
इह पुनस्तस्या न विधिर्निषेधो वा, – इत्येतत् सर्वं

पूर्वमेव व्याख्यातम्, इति न पुनरायस्तम् ॥ २५८ ॥

अथ क्षेत्रादिसम्प्रवेशं व्याख्यातुमाह –

क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ ४-२५९ ॥

मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते ।

“क्षेत्रम्” मेलापस्थानम्, “पीठम्” कामरूपादि “उपपीठम्” देवीकोट्टादि ।
“तल्लाभाय” इति तस्य मन्त्रादेः प्रियमेलापादिक्रमेण सिद्धादेर्लाभः, तन्निमित्तं वा ।
यदुक्तम् –

“क्षेत्रोपक्षेत्रसन्दोहाद्याश्रयान्निर्मलो भवेत् ॥
"

इति ॥ २५९ ॥

अन्यत्र चात्र निषेधः कृतः – इत्याह –

क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ ४-२६० ॥

वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् ।

आदिशब्दात् पीठादेर्ग्रहणम् ।
“तथा” इति प्रागुक्तेन प्रकारेण ।
तदुक्तम् –

नातः किञ्चिदपास्यं प्रक्षेप्तव्यं च नात्र किञ्चिदपि ।
परिपूर्णे सत्यात्मनि किं नु क्षेत्रादिपर्यटनैः ॥
"

इति ।
इह पुनरेतदुभयमपि नास्तीति प्रागेवोक्तम्, इत्याह – “इत्यपि वर्णितम्” इति ।
तदुक्तम् –

“इह सर्वात्मकेकस्मात्तद्विधिप्रतिषेधने ।
" (४।२५७)

इति ॥ २६० ॥

अथ समयादिप्रपालनमाचष्टे –

समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ ४-२६१ ॥

भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये ।
समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ ४-२६२ ॥

निर्मर्यादं स्वसम्बोधं सम्पूर्णं बुद्ध्यतामिति ।

इदं कुर्यादिदं न कुर्यात्, – इत्येवमात्मा समयाचारः ।
“भेदप्राणतया” इति किञ्चित् हि त्यक्त्वा किञ्चिदुपादीयते इत्येवमात्मा भेदः, यथा शास्त्रान्तरत्यागेन स्वशास्त्रे प्ररोहः ।
यद्वक्ष्यति –

“अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ।
अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् ॥
" (२५।५६३)

इति ।
समविषमलक्षणेषु “मतशास्त्रेषु” पुनः शमयादेर्निषेधो” विहितः ।
तथा च तत्रत्यो ग्रन्थः इत्याह – निर्मर्यादमित्यादि” ।
तद्धि परं तत्त्वं श्वसम्बोधम्” स्वप्रकाशम्, अत एवानन्यापेक्षत्वात् शम्पूर्णम्,” अत एव चानियत रूपत्वात् निर्मर्यादम्” निर्यन्त्रणं “बुध्यताम्” अनुभूयतामित्यर्थः ।
तदेवम् एवंविधे परे तत्त्वे कथं नाम हानोपादानाद्यपेक्षासहस्रसम्भिन्नः समयाचारः शुद्धिनिमित्तम्, इति भावः ॥ २६२ ॥

अथ “परस्वरूपलिङ्गादि नामगोत्रादिकं च यत्” इति व्याख्यातुकामः क्रमेण परकीयं स्वकीयं च रूपाद्याचष्टे –

परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ ४-२६३ ॥

ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् ।

“एतत्” इति ध्यातृस्वभावम् ।
“ज्वालादि” इति बाह्यैषणादिसमुत्थत्वात् परकीयम् ।
निजम्” इति स्वशरीरावस्थितम् ॥ २६३ ॥

“लिङ्गादि” इत्यादिशब्दार्थमाह –

आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ ४-२६४ ॥

“तपः” चान्द्रायणादि, “चर्या” चर्यापादोक्त आचारः, “वेला” मध्याह्नार्धरात्रादिरूपा, “तिथिः” प्रतिपदारूपा ॥ २६४ ॥

नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा ।

“एतस्य” सैद्धान्तिकस्य साधकस्य, व्रतपरिग्रहादौ पुष्पपातादिक्रमेण क्रियमाणं नाम शक्तिशिवाद्यन्तं स्यात् ।
तेन शिखाशक्तिः, ईशानशिवः; आदिशब्दाद्गणाद्यन्तम्, यथा कवचगणः ।
तदुक्तम् –

श्रजं विमोचयेन्नाम दीक्षितानां तदादिकम् ।
शिवान्तकं द्विजेन्द्राणामितरेषां गणान्तकम् ॥
"

इति ।
तथा

“शिशुना क्षिप्तमकामान्निपतेद्यत्र नाम तत्पूर्वम् ।
शक्त्यन्तं नारीणां शिवशब्दान्तं नृणां कुर्यात् ॥

एवं विप्रक्षत्रियविशां शूद्राणां तु भवेद्गणप्रान्तम् ॥
"

इति ।
“अन्यथा” इति बोध्याद्यन्तम्, स्वस्वसन्ततिक्रमेणौवल्ल्यन्तं हि पूजा नाम भवेत्, – इति रहस्यशास्त्रविदः, तदुक्तम् –

“बोधिः प्रभुस्तथा योगी आनन्दः पाद आवलिः ।
वीराणां वीरपत्नीनां कल्प्यं नामैतदन्तकम् ॥
"

इति ।
तेन सत्यबोधिः विश्वप्रभुरित्यादि ॥

गोत्रं च गुरुसन्तानो मठिकाकुलशब्दितः ॥ ४-२६५ ॥

तस्य मठिकेति कुलमिति चाभिधानद्वयम् ॥ २६५ ॥

तत्र का मठिका ? – इत्याह –

श्रीसन्ततिस्त्र्यम्बकाख्या तदर्धामर्दसञ्ज्ञिता ।
इत्थमर्धचतस्रोऽत्र मठिकाः शाङ्करे क्रमे ॥ ४-२६६ ॥

युगक्रमेण कूर्माद्या मीनान्ता सिद्धसन्ततिः ।

न केवलमर्धचतस्र एव मठिका यावदन्या अपीत्याह – “युगेत्यादि” ।
आद्यशब्दस्तन्त्रेण व्याख्येयः; तेन कूर्मस्य त्रेतायुगावतारकस्य श्रीकूर्मनाथस्याद्यः कृतयुगावतारकः श्रीखगेन्द्रनाथः स आद्यो यस्याः सा तथेति ।
कुलशब्दस्य गुरुकुलमित्यादौ लोकप्रसिद्धेः पृथग्व्याख्यानं कृतम् ॥ २६६ ॥

“गोत्रादि” इत्यादिशब्दार्थमाह –

आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ ४-२६७ ॥

मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् ।

“घरम्” इति षण्णां साधिकाराणां राजपुत्राणां भिन्नं भिन्नमाश्रमस्थानम् ।
“पल्ली” भिक्षास्थानम् ।
यद्वक्ष्यति –

“एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।
सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥

आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता ।
एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥

दक्षाङ्गुष्ठादिकनिष्ठान्तमथ सा कनीयसी वामात् ।
द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छुम्माः ॥

शवराडबिल्लखट्टिल्लाः करबिल्लाम्बिलशरबिल्लाः ।
अडवी-डोम्बी-दक्षिणपल्ली कुम्भारभिल्लिकाक्षरपल्ली ॥

देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च ।
दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥
" (२९।३९)

इति ।
श्वपरस्थितम्” इति स्वस्वसन्ततिक्रमेण भिन्नं भिन्नमित्यर्थः ॥ २६७ ॥

ननु गुरुसन्तानादेरेवमुपदेशे किं प्रयोजनम् ? – इत्याशङ्क्याह –

तादात्म्यप्रतिपत्त्यै हि स्वं सन्तानं समाश्रयेत् ॥ ४-२६८ ॥

भुञ्जीत पूजयेच्चक्रं परसन्तानिना नहि ।

श्वं सन्तानम्” इति श्रीमदमरनाथादिक्रमेण यस्य यथा सम्भवेत् ।
“परः” श्रीवरदेवादिः शन्तानो” ऽस्यास्तीति ॥ २६८ ॥

एतच्च अन्यत्र निषिद्धमित्याह –

एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ ४-२६९ ॥

अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते ।

“अनेन” इति समनन्तरोक्तेन हेयोपादेयरूपेण स्वपरसन्तानादिनेत्यर्थः ।
नहि अखण्डे परे तत्त्वे काचन एवंविधा हेयोपादेयरूपा खण्डना युज्यते – इत्याशयः ॥ २६९ ॥

एवमर्थमुखेन ग्रन्थं व्याख्याय समन्वयसङ्गत्यापि योजयति –

एवं क्षेत्रप्रवेशादि सन्ताननियमान्ततः ॥ ४-२७० ॥

नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे ।

“एवम्” पूर्वोक्तनीत्या “क्षेत्रप्रवेशादि” गोत्रशब्दोक्तसन्ताननियमान्तम् “अस्मिन्” प्रस्तुते शास्त्रे न किचिद्विधीयते” क्षेत्रादि प्रवेष्टव्यमित्यादिविधिर्न क्रियते – इत्यर्थः ।
यतस्तत् न शिवे साक्षादुपायः ।
एतच्च बहुशः प्राङ्नर्णीतम् – इति न पुनरायस्तम् ॥

ननु यदि नामात्र क्षेत्रप्रवेशादेर्न विधिः तर्हि तस्य निषेध एव पर्यवस्येत्? इत्याशङ्क्याह –

न तस्य च निषेधो यन्न तत्तत्त्वस्य खण्डनम् ॥ ४-२७१ ॥

“यत्” यस्मात्, “तत्” क्षेत्रप्रवेशादि, विश्वात्मनः परस्य “तत्त्वस्य न खण्डनम्” तदपेक्षया हि बहिः क्षेत्राद्येव नास्ति, – इति कुत्र प्रवेशाद्यपि भवेत्, इति तद्विषयोऽयं विधिर्निषेधो वा क्रियमाणो विकल्पमात्रवृत्तित्वात् नास्य स्वरूपखण्डनायालम् – इति भावः ॥ २७१ ॥

अत आह ↓

विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ ।
विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ ४-२७२ ॥

अत एव चात्र सर्वमेव विहितं प्रतिषिद्धं च, – इत्यर्थगर्भीकारात् नैकत्रैव ग्रहः कार्यः, – इति तात्पर्यार्थः ॥ २७२ ॥

ननु यद्येवं तत् परतत्त्वविविक्षायाम् “इदमुपादेयमिदं हेयम्” इत्यवश्याश्रयणीयो विभागः कथं सिद्ध्येत् ? – इत्याशङ्क्याह –

परतत्त्वप्रवेशे तु यमेव निकटं यदा ।
उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥ ४-२७३ ॥

न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने ।

इह परं प्रविविक्षुणा योगिना तत्र तावच्चेतः स्थिरीकार्यम्, – इति नास्ति विमतिः ।
तत्र पुनर्य एव यदा क्वचित् निकटो” हठपाकक्रमेण सहसैव परस्वरूपापत्तिनिमित्ततया सन्निकृष्ट उपायः परिज्ञायते, स एव तदा ग्राह्योऽथवा अन्यथा त्याज्यो; न पुनर् इदमुपादेयमेव इदं त्याज्यमेव, – इत्येवमात्मा यन्त्रणा अत्र कार्या ।
तेन विषयासङ्गेऽपि कदाचित् परतत्त्वानुप्रवेशो भवेत् ।
क्वचिदित्यनेन च शन्निकृष्टत्वमसन्निकृष्टत्वं च उपायानां न प्रतिनियतम्” इति प्रकाशितम् ।
अनेन च “किन्त्वेतत्” इत्यादिको ग्रन्थस्तात्पर्यतो व्याख्यातः ।
नन्वेवमपूर्वार्थकथने किं प्रमाणम्? इत्याशङ्क्योक्तम् – “इति प्रोक्तं श्रीत्रिकशासने” इति ॥ २७३ ॥

तत्रत्यमेव ग्रन्थं पठति –

समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ ४-२७४ ॥

आगमानां गतीनां च सर्वं शिवमयं यतः ।

“ओवल्ल्यो” बोध्यादयः षट् ज्येष्ठादिभेदभिन्ना ज्ञानसन्ततयः ।
“गतीनाम्” भाववृत्तिद्रव्यभूमिकादिरूपाणां प्रकाराणामित्यर्थः ।
अत्र हेतुः शर्वं शिवमयं यतः” इति ।
यदुक्तम् –

शमता सर्वभावानां वृत्तीनां चैव सर्वशः ।
समता सर्वदृष्टीनां द्रव्याणां चैव सर्वशः ॥

भूमिकानां च सर्वासामोवल्लीनां तथैव च ।
समता सर्वदेवीनां वर्णानां चैव सर्वशः ॥
"

इति ॥ २७४ ॥

ननु को नाम सर्वं शिवमयं जानाति, यस्यैवमुपदेशः प्ररोहमियात् ? इत्याशङ्क्याह –

स ह्यख्ण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ ४-२७५ ॥

यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते ।

आत्मज्ञानमेव शिवतत्त्वसाक्षात्कारे निमित्तम्, – इत्यभिदधता नात्र दर्शनान्तरवत् व्यतिरिक्तोपायान्वेषणाद्यायाससाध्यत्वम्, – इत्यावेदितम् ॥ २७५ ॥

न च अत्र सर्व एव पात्रम्, किं तु कश्चिदेव तीव्रतमशक्तिपातपवित्रितः, – इत्याह –

केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका ।
भैरवीयपरमाद्वयार्चने कोऽपि रज्यति महेशचोदितः ॥ ४-२७६ ॥

नन्वत्रासक्त्या किं स्यात् ? – इत्याशङ्क्याह –

अस्म्मिश्च यागे विश्रान्न्तिं कुर्वतां भवडम्बरः ।
हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ ४-२७७ ॥

अत्र च सामान्येनोपक्रान्तमधिकारिणमुपसंहारभङ्ग्या विशेषेण निर्देष्टुमाह –

अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते ।
योग्योऽभिनवगुप्तोऽस्मिन्कोऽपि यागविधौ बुधः ॥ २७८ ॥

अथ वा याज्ययाजकादावेवं बहुशाखम् “अतिप्रपञ्चिते” पौनःपुन्यपरीक्षणलक्षणेन “अतिप्रसङ्गेनालम्”; यतोऽस्मिन्” समनन्तरोक्तस्वरूपे “यागविधौ” अभितो ग्राह्यग्राहकाद्यनन्तभेदसम्भिन्ने जडाजडवर्गे, यो नवः” अनवच्छिन्नज्ञत्वकर्तृत्वात्मकगुणपरामर्शनरूपः स्वात्मस्तवः, तेन “गुप्तो” मायाव्यामोहमुषितत्त्वेऽपि परिरक्षितसार्वात्म्यमयनिजवैभवः, अत एव च “कोऽपि” अलौकिकः; अथ च एवंविधोऽयमेव ग्रन्थकारोऽत्र योग्य इत्यर्थः ॥ २७८ ॥

एतदेव श्लोकस्य प्रथमार्धेनोपसंहरति –

इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥

इति श्रामदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके शाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकम् ॥ ४ ॥

“अद्य” इत्यनेन आह्निकशब्दार्थस्तात्त्विकः, – इति प्रकाशितम्, इति शिवम् ॥

शाक्तसमावेशवशप्रोन्मीलितसद्विकल्पविभवेन ।
निरणायि जयरथेन प्रस्फुटमिदमाह्निकं तुर्यम् ॥

इति श्रामदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रकाशाख्यव्याख्योपेते श्रीतन्त्रालोकेशाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकम् ॥ ४ ॥