०२

द्वितीयमाह्निकम्

" विवेक "

जयतान्नतजनजयकृत्सजयो रुद्रो विनाभ्युपायं यः ।
पूरयति कं न कामं कामं कामेश्वरत्वेन ॥

इदानीम्-

“यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते ।
"

इतिस्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्वपूर्वमेवाभिधानमिष्यते इत्युपेयैकरूपत्वेन शाम्भवादप्यनुपायस्योत्कृष्टत्वम्, इति प्रथमं तत्स्वरूपमेवाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते-

यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं ।
तन्निर्णेतं प्रकरणमिदमारभेऽहं द्वितीयम् ॥ २-१ ॥

तन्निर्णयमेवाह-

अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै ।
सकृत्स्याद्देशना पश्चादनुपायत्वमुच्यते ॥ २-२ ॥

“वै” शब्दोऽवधारणे, तेन नैव कश्चिदर्थः – इत्यर्थः ।
अत्रैव समाधत्ते – शकृत्स्यात्” इत्यादिना, देशना इत्युपलक्षणम् – तेन सिद्धदर्शनाद्यपि ग्रह्यम्, यदुक्तम् –

शिद्धानां योगिनीनां च दर्शनं चरुभोजनम् ।
कथनं सङ्क्रमः शास्त्रे साधनं गुरुसेवनम् ॥

इत्याद्यो निरुपायस्य सङ्क्षेपोऽयं वरानने ।
"

इति ॥

सकृदिति – न पुनरुपायानुभवः पौनःपुन्येन – इत्यर्थः ।
अत एवाह – “पश्चादनुपायत्वमुच्यते” इति, आणवादौ असकृद्भाव्यमानो हि देशनादि उपेयप्राप्त्म्इ विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वम्, पर्युदासस्य “अनुदरा कन्या” इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः ।
प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारिभिर्भावनादिभिः इति भावः, यदुक्तम् –

“उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः ।
स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥

इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः ।
विना भूयोऽनुसन्धानं भान्ति संविन्मयाः स्थिताः ॥
"

इति ॥ २ ॥

नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानोपायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः? – इत्याशङ्क्याह –

अनुपायमिदं तत्त्वमित्युपायं विना कुतः ।
स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥ २-३ ॥

“इदमनुपायं तत्त्वम्” इत्याद्युपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्ध्येत्, इत्युक्तम् “इत्युपायं विना कुतः” तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् ।
ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद् दृश्यन्ते, इति किं सकृदुपदेशाद्यात्मना स्वल्पेनाव्युत्पन्नेन ? – इत्याशङ्क्याह – श्वयमित्यादिना” तदित्यनुपायं परप्रकाशात्मकं रूपम्, किं ब्रूम इति – नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भंवेत्- इति भावः, तदुक्तम्-

“तत्त्वज्ञस्य तृणं शास्त्रं… ।
इति ॥

यदभिप्रायेणैव-

संसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः

नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिरवान् ।
"

इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरुरुक्षुनायातशक्तिपातान्प्रत्येव किञ्चन ब्रूमः – तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्येवमुक्तम्, यद्वक्ष्यति –

नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।
"

इति ॥ ३ ॥

ननु यद्येवं तर्हि अल्प एव कश्चिदुपायांशः समुपदिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः ? इत्याशङ्क्याह –

यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ ।
स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ २-४ ॥

यच्चतुर्धा – अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेशवरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्ह्रासतारतम्यादियोगाद्विचित्रेणोपदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपायवैचित्र्यमप्याभासयेत् ।
नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत्? इत्याशङ्क्याह – स हीत्यादि” नित्योदित इति – अप्रच्युतप्राच्यस्वरूपः अत एव “विभुः” व्यापकः – तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः ॥ ४ ॥

अत एवाह –

एतावद्भिरसङ्ख्यातैः स्वभावैर्यत्प्रकाशते ।
केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ २-५ ॥

एतावद्भिरिति – चतुर्भिः, असङ्ख्यातैरिति – तत्तदवान्तरभेदात् तेनेति - अनेकेन स्वभावेन प्रकाशनात् ॥ ५ ॥

न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्ति – इत्याह –

तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः ।
उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ २-६ ॥

उपायस्यापीति – अपिशब्दो भिन्नक्रमः, तेन नो वार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम् इति- नेह पुनरायस्तम् ॥ ६ ॥

एवमेतत् प्रसङ्गादभिधाय प्रकृतमेवाह –

तत्र ये निर्मलात्मानो भैरवीयं स्वसंविदम् ।
निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ २-७ ॥

ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पकलङ्कान्मुक्ताः, भैरवीयां पूर्णम् अत एवानुपायाम् – अनपेक्षाम्, आत्मसंविदम्, आविष्टाः, तेषां विधिः – पूर्णासंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते – युक्तियुक्तत्वेन भण्यते – इत्यर्थः ॥ ७ ॥

तदेवाह-

तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।

उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्यमेव, इति सर्वेषामविवादः, न चात्रैवम्- क्रियादयो हि संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् ॥

अत एवाह –

स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ २-८ ॥

तस्मादित्यनुपायात्संवित्तत्त्वात् ॥ ८ ॥

अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह-

ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते ।
प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ २-९ ॥

इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न प्रकाशते, अपि तु परस्य, इति – पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति – न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशान्त्मत्वात् जाड्यं स्यात्, अत एवाह – श्वप्रकाशे तच्च तत्रान्यतः कथम्" इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्तत्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किञ्चिदपि प्रकाशेत, इति – सर्वमिदमन्धं स्यात् ॥ ९ ॥

तदाह-

संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्किं नु युक्तिभिः ।
तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ १० ॥

किं नु युक्तिभिरिति – बह्वीभिर्युक्तिभिर्न किञ्चित्प्रयोजनम् – इत्याह, एकैव हि युक्तिरियं सर्वातिशायिनी यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किञ्चिदपि प्रकाशेत इति ॥ १० ॥

ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रगल्भते तदा गुरुज्ञानादि उपायतं भजताम् ?

इत्याशङ्क्याह-

यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन ।
स सर्वस्तन्मुखपेर्क्षी तत्रोपायत्वभाक्कथम् ॥ २-११ ॥

यावानिति – नानाशास्त्रोपदिष्टः, सर्व इति – बाह्य आन्तरो वा, तन्मुखप्रक्षीति – संविदधीनसिद्धिरित्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः ॥ ११ ॥

अत एवाह-

त्यजावधानानि ननु क्व नाम

धत्सेऽवधानं विचिनु स्वयं तत् ।

पूर्णेऽवधानं न हि नाम युक्तं

नापूर्णमभ्येति च सत्यभावम् ॥ २-१२ ॥

इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु – प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च भेदप्रधानं न किञ्चित्फलमादातुं समर्थम् ॥ १२ ॥

तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणितस्य भावनादेः ? इत्याह –

तेनावधानप्राणस्य भावनादेः परे पथि ।
भैरवीये कथङ्कारं भवेत्साक्षादुपायता ॥ २-१३ ॥

भैरवीये इति – पूर्णे ॥ १३ ॥

ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह –

येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते ।
नूम्न ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ २-१४ ॥

तदुक्तम्-

“अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥
"

इति ॥ १४ ॥

अत्रैव निमित्तान्तरमप्याह –

किं च यावदिदं बाह्यमान्तरोपायसम्मतम् ।
तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ २-१५ ॥

इह खलु यत्किञ्चन उपायत्वेनाभीष्टं तदप्रकाशमानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न किञ्चिदपि रूपं स्यात्, इति किं नाम उपायतां भजताम्, प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः, नहि तदतिरिक्तमन्यत्किञ्चिदुपपद्यते, इति – कस्योपायभावः, उपायेन हि उपेयाद्व्यतिरिक्तेन भाव्यम्, तच्चात्र न युक्तम्, इति को नाम उपायोपेयभावार्थः ॥ १५ ॥

न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम्, यादवन्यदपि – इत्याह -

नीलं पीतं सुख्मिति प्रकाशः केवलः शिवः ।
अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥ २-१६ ॥

उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ २-१७ ॥

भावनादेः सुप्रसिद्धेऽपि उपायत्वे निरस्ते अन्यस्य कस्यचित्सम्भावनामात्रमपि मा भूत्, इत्येवमुक्तम् “कोऽपर” इति, यत्र उपायत्वसम्भावनापि स्यात् ॥ १७ ॥

ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्यवहारः कथमपह्नूयते? इत्याशङ्क्याह –

इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि ।
प्रकाशवपुरेवायं भासते परमेश्वरः ॥ २-१८ ॥

द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्यभिप्रायः, एतच्च बहूनां वादिनां मतम्- इति द्योतयितुम् “अयं भेद” इति पुनरुपादानमम्, यथा चाद्वैतप्रतिभासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् “इदमद्वैतमित्यपि” इत्युपात्तम् ॥ १८ ॥

ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्यास्ताम्, अन्योन्यं पुनरस्य भेदे किमायातम्, इत्यापतितमेव द्वैतम् ? – इत्याशङ्क्याह –

अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः ।
घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥ २-१९ ॥

अस्यां भूमाविति – परमाद्वयदशायाम् – इत्यर्थः, “एकार्था” इति – एकः प्रकाश एवार्थोऽभिधेयो येषं ते तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्रातिस्विकं नियतं किञ्चन रूपं यदि स्यात् तदैवं सम्भावनापि भवेत् – इति भावः, अत एव –

“घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना ।
"

इत्यादिरन्यैरुक्तम् ।
ननु यद्येवं तर्हि तदभिधायकत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह – “शब्दास्तेऽप्येकमेव च” इति, एकमिति – संवेद्यमानत्वात् संवेदनमेवेत्यर्थः ॥ १९ ॥

ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश एव तर्हि तत्केन रूपेण प्रकाशते ?

इत्याशङ्क्याह-

प्रकाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् ।
प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ २-२० ॥

अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते ।
न प्रकाशविशेषत्वमत एवोपपद्यते ॥ २-२१ ॥

अप्रकाशाम्श इति – सुखादिजडोऽर्थः, कथन्नामेति- केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रकाशते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात् – नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश एव शिष्येत इति यावत्, अथ अप्रकाशात्मना नियतेनैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एव न भवेत्, नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूपं दृष्टम् “अप्रकाशात्मना रूपेण प्रकाशते” इति वाचोयुक्तिश्च रिक्ता स्यात्, तदाह “अप्रकाश” इत्यादि ।
प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते, नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामात्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृम्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं स्फुरेत्, अत एवाह – न प्रकाशविशेषत्वमुपपद्यते” इति, अत इति – एकस्यैव अखण्डस्य प्रकाशस्य तत्तदाभासात्मना स्फुरणात् ।
ननु नीलप्रकाशोऽन्यः, पीतप्रकाशश्चान्य” इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं न प्रकाशविशेषत्वमुपपद्यते" इति ? नैतत् – औपाधिको ह्ययं भेदः, स च न वास्तवः – इत्युपपादितं बहुशः, नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येतदुक्तम् – न च प्रकाशैकरूपायां संविदि संविदन्तरमस्ति" एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेदप्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं स्यात्, ततश्च पुनरपि “एकैवाखण्डवित्” इत्येव पर्यवस्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथङ्कारं प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्युपगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधानेऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति – मतान्तरसिद्धिभिवाञ्छन्तः परे परं निरस्ताः ॥ २०-२१ ॥

तदाह –

अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते ।
दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ २-२२ ॥

ननु यदि ज्ञानानि विभिन्नानि न सम्भवन्ति, तत् एकशब्द किमपोहनायात्र प्रयुक्तः ? इत्याशङ्क्याह-

प्रकाशमात्रमुदितमप्रकाशनिषेधनात् ।
एकशब्दस्य न त्वर्थः सङ्ख्या चिद्व्यक्तिभेदभाक् ॥ २-२३॥

अप्रकाशः – प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्निषिद्धः, अतः “प्रकाशः केवलोऽस्ति” इत्येकशब्दस्यात्रासहायाद्वृत्तिः, तदुक्तं – “एकशब्दस्यार्थः प्रकाशमात्रमुदितम्” इति, न पुनः प्रकाशभेदभाक् इत्येकद्वित्र्यादिलक्षणः सङ्ख्यार्थो, येन – मतान्तराण्यप्यपोह्यतया सम्भवनीयानि स्युः ॥ २३ ॥

अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते, इत्याह –

नैष शक्तिर्महादेवी न परत्राश्रितो यतः ।
न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ २-२४ ॥

नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् ।
न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ २-२५ ॥

न मन्त्रो न च मनत्र्योऽसौ न च मन्त्रयिता प्रभुः ।
न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ २-२६ ॥

एष इति – व्याख्यातस्वरूपः परः प्रकाशः, शक्तिशक्तिमदादयो हि शब्दाः सम्बन्धिशब्दत्वान्नित्यसापेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं – व्यवहारमात्रतां कदाचिदपि स न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिमन्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छब्दव्यवहारोऽपि नायम्, सोऽपि हि परं शक्तिलक्षणमर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयम्, मन्त्र इति ।
मन्त्रस्य प्रणवादेर्वाच्यः मन्त्रयिता मन्त्रणां पाठकः, न दीक्षेति कर्तृकर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः ॥ २४-२६ ॥

अत एव यत्किञ्चन भेदाधायकं तदत्र नास्ति, इत्याह –

स्थानासननिरोधार्घसन्धानावाहनादिकम् ।
विसर्जनान्तं नास्तयत्र कर्तृकर्मक्रियोज्झिते ॥ २-२७ ॥

स्थानम् – स्थापनमुद्रया भगवतोऽवस्थानम्, आसनम् – सन्निधानमुद्रया पूजां प्रति औन्मुख्यम्, निरोधः – तत्रैवाविचलत्त्वेनास्थानम्, अर्धोऽष्टाङ्गः, सन्धानं मन्त्रादिविषयम्, आवाहनम् – अनभिमुखस्याभिमुखीकरणम्, विसर्जनम् – अभिमुखीभूतस्यानभिमुखीकरणम्, एषामावाहनादिविसर्जनान्तनामसत्त्वे हेतुगर्भं विशेषणम् – कर्तृ इत्यादि" कर्त्रादीनां हि विकल्पैकपरमार्थत्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्यत्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति नैष शक्तिः इत्याद्युक्तम् ॥ २७ ॥

न चैतद्युक्तिमात्रशरणम् अपि त्वागमेनापि सिद्धम् इति श्रीभर्गशिखां संवादयति –

न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ २-२८ ॥

अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः ।
स एव घटवल्लोके संस्तथा नैष भैरवः ॥ २-२९ ॥

लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः “अयमिति” पुरोवर्तित्वेनावभासते भावः, स एव शत्" इत्यभिधीयते, यथा – घट इति, समनन्तरव्याख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा – महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः – सच्छब्दव्यवहार्यो न भवति, इति यावत् ॥ २८-२९ ॥

एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? – इत्याशङ्क्याह –

असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता ।

प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं नामाप्रकाशत्वम् अकिञ्चिद्रूपत्वमुच्यते, यथा – शशविषाणादेः, अत एव च तन्न कुत्रापि कस्याञ्चिदपि अर्थक्रियायामुपयुक्तम् – न काञ्चिदप्यर्थक्रियां करोति, इति यावत् ।
प्रकाशः पुनर्न तथा – इत्याह –

विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ २-३० ॥

विश्वस्य – चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं जीवितम् – स्फुरत्तात्मकत्वेन अनुप्राणकम्, नहि तेन विना किञ्चिदपीदं प्रकाशते इत्युक्तम् “प्रकाशैकात्मकश्च” इति, एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि, न भवेत इति भावः ॥ ३० ॥

अत एव सदसदात्मापि न – इत्याह –

आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः ।
सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ २-३१ ॥

आभ्याम् – समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रकाशमानत्वलक्षणभ्याम्, ननु यद्येवं तर्हि सदसदात्मकरूपद्वयोत्तीर्णः स्यात् ? इत्याशङ्क्याह – न द्वयेत्यादि" भावाभावावभासकालेऽपि स एव हि परमवभासते, इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह शर्वात्मना हि भात्येषः" इति – एवमेतत्परप्रमात्रेकात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचिदपि विकल्पतां न यायात् इति – तात्पर्यार्थः, यदुक्तम् –

शतोऽवश्यं परमसत्सच्च तस्मात्परं विभो ।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥
"

इति ।
तथा –

न शान्तमुदितं वापि तव रूपं न मध्यमम् ।
रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥
"

इति ।
अतश्च केन तावत्कल्पितेन रूपेण एतदुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहतबुद्धीनां मायाप्रमातॄणां दुर्विज्ञेया – यथोक्तयुक्त्या ज्ञातुमशक्यैव – इत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामविकल्पवृत्तीनां पुनरेतत् स्वानुभूतिमात्ररूपपरानन्दचमत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तम् “किमप्येमदनुत्तरम्” इति ॥ ३१ ॥

न केवलमेतदत्रैवोक्तं यावदन्यत्रापि – इत्याह –

श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् ।
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं पदम् ॥ २-३२ ॥

“परं ज्ञानं कथं देव” इति देवीप्रश्ननिर्णयार्थं ह्येतदत्र परज्ञानरूपं भगवतोक्तम् – इत्याशयः, तदेव पठति – “शक्त्या” इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भम्, शक्तिरेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य तत्, सा च न तदतिरेकिणी – इत्याह – “शक्त्या गर्भान्तर्वर्तिन्या” इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन वर्तते तच्छीला- तया स्वस्वभावरूपयोपलक्षितम – इत्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात, यदुक्तम् –

श्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥
"

इति ।
अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव एव तिष्ठति – सदैव ताद्रूप्येण वर्तते इत्यर्थः, अत एव शक्तिगर्भ – स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थोपाधिवशान्नानात्वेन व्यवह्रियते – इति भावः ।
यदुक्तम् –

“तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्ता ॥
"

इति ।
तेन स्वतन्त्रो बोधः परमार्थः, इत्याद्युक्तनीत्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्रकाश एव परं तत्त्वम् – इति तात्पर्यम् ॥ ३२ ॥

अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विकल्प्यतां नैति – इत्याह –

न भावो नाप्यभावो न द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ २-३३ ॥

अगोचरादिति भावप्रधानो निर्देशः, तेन वाचामगोचरत्वादकथ्यपदवीरूढम् – इत्यर्थः ।
एतच्च सर्वमसकृत्त्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥ ३३ ॥

ये चातोऽवहितास्त एव परं कृतकृत्याः – इत्याह –

इति ये रूढसंवित्तिपरमार्थपवित्रिताः ।
अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥ २-३४ ॥

इति – उक्तेन गुरूपदेशादिना, रूढा – तदैकात्म्यलाभादापादितप्ररोहा, या संवित्तिः, तस्या यः परमार्थः – सर्वसर्वात्मत्वेन स्फुरणम्, तेन पवित्रिताः – भेदविकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाऽभ्युपायेन अनियन्त्रिताः – तन्निरपेक्षाः सन्तः, अनुत्तरपथे – पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विकासात्मवृत्तिमार्गे विश्रान्ताः- स्वरसावस्थानेनैव लब्धतत्सामरस्याः – इत्यर्थः, तदुक्तम् – ,

“यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् ।
केवलं चिद्विकासेन विकारनिकराञ्जहि ॥
"

इति ।
तथा –

“आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।
"

इति ।
तथा –

“उपायो नापरः कश्चित्स्वसत्तावगमादृते ।
तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥
"

इति ॥ ३४ ॥

ततश्च किम् ? इत्याह –

तेषामिदं समाभाति सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ २-३५ ॥

तेषाम् – अनुपायसमावेशशालिनाम्, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलम् –

“मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं च …”

इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते – इत्यर्थः, यदुक्तम् –

“यथा रुमायां पतिताः काष्ठपर्णोपलादयः ।
लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥
"

इति ॥ ३५ ॥

अत एवाह –

एतेषां सुखदुःखांशशङ्कातङ्कविकल्पनाः ।
निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ २-३६ ॥

एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना ।
न समय्यादिकाचार्य पर्यन्तः कोऽपि विभ्रमः ॥ २-३७ ॥

न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किञ्चित्, यावदलौकिक्योऽपि – इत्याह – “एषामित्यादि” कल्पना – स्थानादिका ॥ ३६-३७॥

ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? – इत्याशङ्क्याह –

समस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मिणः ।
नानुग्रहात्परं किञ्चिच्छेषवृत्तौ प्रयोजनम् ॥ २-३८ ॥

समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – इदं कार्यम् इदं न” इत्यादयो नियमाः, ता एव तन्यमानत्वात्तन्त्रम् – पटाद्यारम्भकं तन्तुजालम्, तस्य त्रोटनायां विच्छेदे, टङ्कधर्मिणः शस्त्रकल्पस्य – इत्यर्थः, यथा हि टङ्कस्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्सङ्कोचः – इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव नियामकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् – इत्याह – नानुग्रहादिति” किञ्चिदिति – समयपरिपालनादि ॥ ३८ ॥

तदाह-

स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो

पारार्थ्यं प्रति घटयते काञ्चन स्वप्रवृत्तिम् ।

यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः

कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ ३९ ॥

एषः-

लोकः, सङ्कुचितः – प्रमातृवर्गः तावत्

“…ऽभिलाषो मलोऽत्र तु ।
"

इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्णम्मन्यतया “किमपि” इति सामान्येन निर्देशात्सर्वमात्मीयं कर्तव्यम्, यत्नतः – आकाङ्क्षणीयत्वेन, कलयन् “तदसिद्धं यदसिद्धेन साध्यते ।
" इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं परार्थं प्रत्यपि काञ्चन स्वल्पामपि स्वप्रवृत्तिं घटयते, घटितापि वा तत्प्रवृत्तिर्न किञ्चित्कुर्यात् – इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृतनिखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञानापत्त्या स्वात्मनि कृतकृत्यत्वेन आकाङ्क्षणीयस्यैवाभावात्, पूर्णः – अनन्योन्मुखतया स्वात्मन्येव विश्रान्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनम्, तन्मात्रमेवेदं स्फुटम् – अपरिम्लानां कृत्यम् - लोकानुग्रह एवास्य कर्तव्यः – इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किञ्चित्करणीयमस्ति – इति भावः, यद्गीतं भगवता –

“यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते ॥
"

इति ।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥
"

इति च ॥ ३९ ॥

द्विविधाश्च परानुग्रहाः – निर्मलसंविदोऽनिर्मलसंविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरणमेवास्यानुग्रहकारित्वम् – इत्याह -

तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ ४० ॥

ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रशक्तिपातभाजो वा, तम् – समनन्तरोक्तस्वरूपम्, ताद्रूप्यक्रमेण पश्यन्ति निरुपायसमावेशभागयम्” इति ज्ञानपूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्संवित्सङ्क्रमात्

“…डीपाद्दीपमिवोदितम् ।
"

इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन तत्सदृक्षा एव भवन्ति इति शेषः, एवंरूपं सिद्धादिदर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव संवादितम्

शिद्धानां योगिनीनां च दर्शनम्…”

इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा – इत्यर्थः ॥ ४० ॥

ननु सर्वत्र दीक्षायाः

“…ंउक्तिश्च शिवदीक्षया ।
"

इत्याद्युत्क्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? – इत्याशङ्क्याह –

एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते ।
दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ ४१ ॥

एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या “यागहोमादि” श्रीसिद्धयोगीश्वरीमतादौ- सर्वत्रैवागमे “विभुना” कथ्यते इति सम्बन्धः, अत एव च बाह्यं यागादि गौणम् – इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम्-

नास्य मण्डलकुण्डादि किञ्चिदप्युपयुज्यते ।
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छेया ॥
"

इति ॥ ४१ ॥

तदेव पठति-

स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः ।
पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ २-४२ ॥

ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् ।
ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ २-४३ ॥

स्थण्डिलम् – यागार्थं गृहीतो भूप्रदेशः, तूरम् – पात्रादावुत्कीर्ण आकारविशेषः ।
ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह - “ज्ञानेन” इति, ज्ञानेन हि योगिनामपीश्वरः स्यात् – इत्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वरशब्दयोरपि प्रयोगः ॥ ४२-४३ ॥

अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम् – इत्याह -

सोऽपि स्वातन्त्र्यधाम्ना चे दप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ २-४४ ॥

स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया – तत्त्रोटनायाः समनन्तरमेवोक्तत्वत् ॥ ४४ ॥

भावी च विधिः कीदृक् ? – इत्याह –

अनुग्रह्यानुसारेण विचित्रः स च कथ्यते ।
परापराद्युपायौघसङ्कीर्णत्वविभेदतः ॥ २-४५ ॥

“परापर” इत्येकशेषः, तेन – परः शाम्भवः, अपरः आणवः, परापरः शाक्तः, सङ्कीर्णत्वम् – उपायान्तरसाहित्यात् ॥ ४५ ॥

न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयणमुपयुक्तम्, यावत्तदभिधायकं शास्त्राद्यपि – इत्याह-

तदर्थमेव चास्यापि परमेश्वररूपिणः ।
तदाभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ २-४६ ॥

न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्यापि, इति अपिशब्दार्थः, यदुक्तम् –

“शङ्काशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति ।
न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ॥
"

इति ॥ ४६ ॥

नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात् ?-

इत्याशङ्क्याह –

नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥ २-४७ ॥

नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वातन्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वादत्परार्थमस्य तत्स्वीकारः ।
यतः परेषामनिर्मलचित्त्वादुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति – भाविविध्याश्रयणाद्यप्युक्तम्, यद्गीतम्-

शक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥
"

इति ॥ ४७ ॥

न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति – निखिलस्य आह्निकार्थस्याविगीततां दर्शयितुमाह -

श्रीमदूर्मिमहाशास्त्रे सिद्धसन्तानरूपके ।
इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ २-४८ ॥

ऊर्मिमहाशास्त्र इति – श्रीमदूर्मिकौलसिद्धसन्तानरूपके, इत्यनेन पादोवल्ल्यां पारम्पर्येऽप्यम्लानत्वं र्दशितम् ।
तत्र हि –

“शून्यं न किञ्चित्तच्छून्यं त्वशून्यं शून्यता नहि ।
यदकिञ्चित्कथं तद्धि न किञ्चिच्छेत्तुमर्हति ॥
"

इति भगवत्या पृष्टो भगवान्

“आत्मा शून्य इह ज्ञेयः शिवधर्मैर्विनाकृतः ।
शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥
"

इत्याद्युपक्रम्य-

नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि ।
वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥

यदभावि न तद्भावि यद्भाविन तदन्यथा ।
एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥

तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।
"

इत्यादिपर्यन्तं बहूक्तवान् ।
श्रीमत्सोमानन्दादिदैशिकैः उक्तमिति – श्रीशिवदृष्ट्यादौ, यदुक्तं

तत्र-

“भावनाकरणाभ्यां किं शिवस्य सततोदितेः ।

इति ।

शकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥

ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥
"

इति च ॥ ४८ ॥

तदेव सर्वत्रावधातव्यम् – इत्याह –

गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्

समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् ।

विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः

प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥ २-४९ ॥

गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः “आत्मैवेश्वरः सर्वज्ञः सर्वकर्ता च” इत्यादिकानां युक्तीनां प्रचयस्य या रचना – परपक्षबाधनस्वपक्षसाधनाधायिका शास्त्रपरिपाटी, तया उन्मार्जनम् – बौद्धाज्ञानोत्पुंसनम्, तद्वशात् – बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्यात् – इत्यर्थः ।
शास्त्रम् – प्रभुसम्मितमद्वैतागमं प्रति समाश्वासात् प्रत्यायादिति, व्यस्तात् – गुरुतः शास्त्रः स्वतः तीव्रतीव्रशक्तिभाजाम्, यद्वा समुदितात्- समस्तात्कथितात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजाम्, शङ्काविकल्प एवावारकत्वादभ्रम्, तस्मिन्विलीने सति, हृदयम् – विमर्श एव अनवच्छिन्नत्वाद्गगनं तत्रोच्चैर्भासनशीलम् – ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव ध्वान्तस्यस्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्मकस्य अज्ञानस्य, जयिनः प्रभोः – विश्वात्मकत्वेन प्रभवनशीलस्य परमात्मनः, चरणान् – चरेर्गत्यर्थत्वादाणवादीनि ज्ञानानि, यूयम् – समनन्तरोद्दिष्टाः तीव्रतीव्रदिशक्तिपात भाजः, स्पृशत – यथोत्तरं स्वात्ममयतयैव भावयध्वम् – इत्यर्थः, अत एव चास्य सूर्येणौपम्यमुक्तम्, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥ ४९ ॥

इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति –

इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ २-५० ॥

इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्निकम् ॥ २ ॥

उपाय एवौपयिकमिति शिवम् ॥

तत्तद्ग्रन्थाधिगमोपायशतान्वेषणप्रसक्तेन ।
अनुपायाह्निकमेतद् व्याख्यातं जयरथेनाशु ॥

इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते अनुपायप्रकाशनं नाम द्वितीयमाह्निकं समाप्तम् ॥ २ ॥