चतुर्दशः पटलः
" स्वच्छन्दोद्योतः "
मोचयति पाशजालाद् द्रावयति भिदं मुदं राति ।
मुद्रयति विघ्नतस्करलुण्ठनतो मन्त्रसिद्धिसङ्घातम् ॥
तत्तत्संवित्स्फाराननुकृतिरूपान् व्यनक्ति या शम्भोः ।
आकृतिरूपा मुद्रा जयति विभोरर्चनादिनिर्वर्त्या ॥
त्रयोदशभिः पटलैः
समय्यादिचतुष्टयनिर्वर्त्यनित्यनैमित्तिककाम्यकर्म सम्पूर्णमुदितम् ।
तत्र रक्षासन्निधितदनुप्रवेशादिप्रयोजनं
“मुद्रां प्रदर्शयेत् पश्चात्त्रिधा त्रैकाल्यकर्मणि” (२-१०२)
इति यत् पूर्वं कायवाङ्मनोनिर्वर्त्यमुद्रास्वरूपमुक्तम्, तद् विवक्षुः
श्रीभैरव उवाच —-
मुद्राणां लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम् ।
अस्मिंस्तन्त्रे प्रोक्तप्रयोजना भगवदायुधानुकाररूपा या मुद्राः,
तासां लक्षणं तत्त्वव्यवस्थापकं रूपं वक्ष्यामीति प्रतिजानाति
॥
अत्र यद्यपि —-
“खड्गखेटकधारिणम्” (२-९०)
इति आयुधक्रम उक्तः, तथापि —-
“कपालं चैव खट्वाङ्गमनुक्तेषु प्रयोजयेत्” (१४-२१)
इति भाविनीत्या कपालखट्वाङ्गयोः
सर्वावरणगतदेवतासाधारणत्वात् श्रीकोटराक्षभट्टारकविषये
च तयोः प्राधान्यादादौ तन्मुद्रालक्षणमाह —-
उत्तानमञ्जलिं कृत्वा कपालं परिकीतीतम् ॥ १४-१ ॥
एषा च विश्वसमाहरणप्रवृत्तसंवित्स्वरूपानुकारिणी । यदुक्तं
मयैव श्रीभैरवानुकरणस्तोत्रे —-
“शाक्ताण्डखण्डमध्ये विश्वरसमेवमहं समाहरामि सदा ।
व्यञ्जयसि करकपालगरुधिरमिषादेतदिव मेऽन्तः ॥” इति ।
यद्यपि —-
“मुण्डखट्वाङ्गधारिणम्” (२-९१)
इति पूर्वं पठितम्, तथापीह कपालमुद्रोक्तेर्मुण्डस्थाने कदाचित्
कपालं भवतीत्यादिशति । मुण्डमुद्रापि खड्गवद् मुष्टिदर्शं
दर्शनीया ॥ १ ॥
तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम् ।
अङ्गुष्ठेनाक्रमेद् देवि ऋज्का कृत्वा प्रदेशिनीम् ॥ १४-२ ॥
पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत् ।
खट्वाङ्गं कीतीतं ह्येतत्…
वाममितिनिर्देशात् कपालमुद्रा दक्षिणेन निर्देश्येति ध्वनति । तथा
च श्रीमालिनीविजये —-
ङिम्नं पाणितलं दक्षमीषत्तत्कुञ्चिताङ्गुलि ।
कपालमिति विज्ञेयम्… ॥" (७-२३) इति ।
अङ्गुलित्रयमिति मुष्टिसन्निवेशेन स्थितमित्यर्थात् । पराङ्मुखमिति
स्कन्धापेक्षया । एतन्मुद्रासतत्त्वमपि तत्रैव स्तोत्रे प्रदशीतम् —-
ङिःशेषाहृतसारा मय्येव जगत्स्थितिस्तदेइअमये ।
इति खट्वाङ्गकरङ्कोद्वहनच्छलतो ददास्याज्ञाम् ॥" इति ॥
अथ —-
…खड्गमुद्रां निबोध मे ॥ ३ ॥
अङ्गुष्ठेनाक्रमेद् देवि सकनिष्ठामनामिकाम् ।
मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीतीता ॥ १४-४ ॥
स्कन्धक्षेत्रे पराङ्मुखदक्षकरप्रदर्शनीया एषा । कृत्वेति शेषः ।
यदुक्तं तत्रैव —-
“अन्तःशक्तिकृपाणीं व्यनक्षि संसृतिविभेदिनीमसिना ।
निजशक्तिमहिमस्वीकृतसमस्तविश्वा हि वीरवराः ॥”
इति ॥ ४ ॥
मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने ।
आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥ १४-५ ॥
कृत्वेति वामहस्तमित्यर्थात् । स्फर इति स्फर इत्युच्यमानम् । उक्तं च
तत्रैव —-
“भवभयहर्ता सोऽहं स्फराख्योऽवस्थितोऽस्मि मा भैष्ट ।
इत्यास्फोटितखेटकदर्शनतो दिशसि नः स्वामिन् ॥”
इति ॥ ५ ॥
मुष्टिं बद्ध्वा देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत् ।
अङ्कुशः कथितो ह्येष…
दक्षिणपाणिं निर्वर्त्य । उक्तं च तत्रैव —-
“भेदमयमखिलमेतन्निजशक्त्यैवाक्षिपामि संहर्तुम् ।
इत्यङ्कुशधारणतः स्फुटयति परभैरवोऽस्माकम् ॥”
इति ॥
अथ वामपाणिना प्रदर्श्याम् —-
…पाशमुद्रां निबोध मे ॥ १४-६ ॥
तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेत् ।
पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥ ७ ॥
अङ्गुष्ठस्येति तत्स्थाने मुष्ट्याकृतिवामसम्बन्धिनः । दुष्टजालं
विघ्नसमूहः । अस्यापि तत्रैव तत्त्वं प्रदशीतम् —-
ङिजशक्तिपाशवलितश्चिद्भस्मना कल्यते महाकालः ।
इति पाशधारणवशात् प्रथयानः कालकालस्त्वम् ॥" इति ॥ ७ ॥
मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम् ।
नाराचस्तु समाख्यातः समासात्तव भैरवि ॥ १४-८ ॥
सम्प्रसार्येति धनुरारूढनाराचवत् पार्श्वस्थित्येत्यर्थः । अस्यापि
समनन्तरवक्ष्यमाणपिनाकमुद्रासहितस्य तत्रैव स्वरूपं निर्णीतम् –
“कोदण्डारूढशरप्रदर्शनाद् ब्रह्माविष्णुरुद्रेशान् ।
ससदाशिवकारणहरिणान् शक्त्या भिनत्सि युगपत्त्वम् ॥”
इति ॥ १४-८ ॥
मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये ।
अग्रे निकुञ्चयेत् किञ्चित् पिनाकं परिकीतीतम् ॥ १४-९ ॥
पिनाकं धनुः । अग्रे किञ्चिदाकुञ्चनाद् धनुराकार एव सन्निवेशो
भवति । अस्यापि सतत्त्वमुक्तमेव ॥ ९ ॥
अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने ।
पराङ्मुखं तु तं कृत्वा त्वभयः परिकीतीतः ॥ १४-१० ॥
पताकहस्तो दक्षिणः स्वशरीरपराङ्मुख उत्थित इत्यर्थः । उक्तं च
तत्रैव —-
“अभयेन च भयान्युन्मूलतया प्रकाश्यते सततम् ।
विश्वानुग्रहकरणस्वभावता तव करण तेन ॥”
इति ॥ १० ॥
वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् ।
प्रसृतं दर्शयेद् देवि वरः सर्वार्थसाधकः ॥ १४-११ ॥
उक्तं च तत्र —-
“वरदेन पाणिना त्वं विश्वविभूतिप्रदत्वमभिनयसि ।
न खलु परतत्त्वनिष्ठो वित्तमलैः स्पृश्यते जातु ॥”
इति ॥ १४-११ ॥
घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम् ।
दक्षहस्तस्य तर्जन्या घृषेद् घण्टा प्रकीतीता ॥ १४-१२ ॥
अस्यापि वक्ष्यमाणवीणाडमरुमुद्राभ्यां सह तत्रैव सतत्त्वं
दशीतम् —-
“वीणाघण्टाडमरूनुड्डामरदर्शयन्निदं दिशसि ।
वृत्तित्रिभेदभिन्नं नादामर्शं निभालयन्नन्तः ॥”
इति ॥ १२ ॥
कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः ।
प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीतीतम् ॥ १४-१३ ॥
समाहित इति । तत्तत्संवित्स्फारात्मकवीर्यसारतां
सर्वमुद्राणामनुसन्दधीतेत्यनेनादिशति । वीर्यं चास्य तत्रैव
दशीतम् —-
“ज्वलदिच्छादिकशक्तित्रितयां तां सुन्दरां परां शक्तिम् ।
देवानुकरोषि बहिस्त्रिशूलधारणमिषेण नित्यमपि ॥” इति ।
एषा च पराङ्मुखी जन्माधारात् प्रोल्लसच्छिखिशिखारूपा
बिन्द्वन्तमेत्यारात्रयोल्लासेन द्वादशान्ते प्राप्तस्थितिनीबन्धनीयेति
गुरवः ॥ १३ ॥
दण्डो वै मुष्टिबन्धेन…
अनुकार्य इति शेषः । उक्तं च स्तोत्रे —-
“जगदखिलं मच्छक्त्या दमितं सर्वा व्यवस्थितीर्धत्ते ।
इति दण्डधारणवशाद् व्यनक्ति चिद्भैरवोऽस्माकम् ॥” इति ।
गुरवस्तु —-
“दण्डाख्यामृष्टसौषुम्ननाडीपथविराजिता ।” इति ॥
…वज्रमुद्रां निबोध मे ।
वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥ १४ ॥
दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकाम् ।
उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् ॥ १५ ॥
उत्तानमिति विरलं प्रसारिततर्जनीमध्यानामिकं दक्षं च
तादृशमेव तदुपरि पराङ्मुखं न्यस्तमुभयोः
परस्परमङ्गुष्ठकनिष्ठिकाबन्धनेन पार्श्वकृतकूर्परविन्यासेन
पार्श्वसन्निविष्टतामस्याः सूचयति । वीर्यं च तत्रैव दशीतम् —-
“इच्छादिकनिजशक्तिप्रकाशिताधःस्थगोचरत्रितयाम् ।
स्वामेव परां शक्तिं वज्रमयीं वहसि षडरां त्वम् ॥” इति ।
गुरवोऽपि —-
वज्रमुद्रा बन्धकत्रीं सुस्थितिः स्वस्तिकायते" इति ॥ १४-१५ ॥
डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते ।
सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥ १६ ॥
तत्त्वमस्याः प्रदशीतमेव ॥ १६ ॥
मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत् ।
मुद्गरः कथितो ह्येष…
सम्प्रसारयेदिति सम्मुखौ प्रसारयेत् परस्परसंलग्नावित्यर्थात् । अस्या
अपि परशुमुद्रया सह तत्रैव तत्त्वं दशीतम् —-
“मुद्गरपरशू बिभ्रद् बैन्दवनादानुकाररूपौ त्वम् ।
भेदविभेदनशकलनपरत्वमीशान निदीशसि ॥” इति ।
गुरवोऽपि —-
“गाढग्रन्थिगणास्फोटो मुद्गरेण प्रवर्तते ।” इति ।
श्रीपूर्वशास्त्रे तु मुद्गरमुद्रा त्रिशिखा दशीता । तथा च —-
“करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुलि ।
अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वतः ॥
मध्ये द्वे तु युते कार्ये कनिष्ठे परुषावधि ।
तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते ॥
मुद्गरस्त्रिशिखो ह्येष क्षणादेवोपकारकः ।” (७-२७-२९) इति
अथ —-
…वल्लकीं च निबोध मे ॥ १४-१७ ॥
वल्लकीं वीणाम् ॥ १७ ॥
हस्तौ प्रसारयेद् देवि उत्तानौ तु समाहितः ।
अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीतीता ॥ १४-१८ ॥
कुब्जावीणाविषया । एषा वामपार्श्वे प्रदर्शनीया । अस्याः सतत्त्वं
दशीतमेव ॥ १८ ॥
प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः ।
अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृतः ॥ १४-१९ ॥
स्वपराङ्मुखेन दक्षहस्तेन स्कन्धदेशे प्रदर्शनीयोऽयम् ।
तत्त्वमस्याः पूर्वमेव दशीतम् । एताश्च मुद्रा गुप्ताः
प्रदर्शनीयाः, अगुप्ते त्वायतनादौ वस्त्राच्छादिताः, अथवा स्मर्तव्या
एवेति गुरवः । केचिदत्र परशुमुद्रास्थाने —-
“भ्रामयेदङ्गुले द्वे तु चक्रं दुष्टनिकृन्तनम्”
इति पठन्ति । अन्यैस्त्वेतत्प्रसङ्गात् शङ्खपद्ममुद्रालक्षणमपि
क्षिप्तम्, अपरैस्तु परशुलक्षणम् —-
“राजावर्तनिभो देवि मुद्गरः परशुस्तथा ।”
इत्येतदनन्तरं पठितम् । तत्
सर्वमुपक्रमोपसंहारानुरूपत्वादुपेक्ष्यम् । एवं च प्रायशो
ग्रन्थान्तरप्रक्षेपो ग्रन्थविपर्यासः पाठविपर्यासश्चास्य ग्रन्थस्य
दुर्भेधोभिः परिकल्पितः शतशाखो दृश्यते । सोऽस्माभिः
पुरातनपुस्तकान्वेषणतो यावद्गति अपसारित इत्यास्तामेतत् ॥ १९ ॥
एतदुपसंहरन् प्रकृते योजयति —-
एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् ।
आवाहने निरोधे च तथा चैव विसर्जने ॥ १४-२० ॥
एता इत्युपसंहारात् कः परशुमुद्रायाः परो ग्रन्थेऽवसरो
भैरवस्योक्तः, कश्चक्रपद्मादिमुद्राणामवकाशो ध्यानग्रन्थे
तेषामनुद्देशादिति यथापठितमेव साधु । आवाहनेत्यादिना —-
“मुद्रां प्रदर्शयेत् पश्चात्त्रिधा त्रैकाल्यकर्मणि । " (२-१०२)
इति पूर्वोक्तमेव निर्वाहितम् ॥ २० ॥
अथ ये वक्त्राङ्गभैरवाद्या आवरणस्थाः, तेषां साधारणं
मुद्राबन्धं प्रदर्शयति —-
कपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत् ।
सर्वेषां ज्ञानक्रियाशक्तिस्फारसारत्वाद् मुद्राणां सन्निवेशमुक्त्वा
यथौचित्यमासां मानसं रूपमाह —-
कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥ १४-२१ ॥
त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः ।
स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीतीतम् ॥ १४-२२ ॥
घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः ।
पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः ॥ १४-२३ ॥
वरश्चित्तप्रसादेन ध्यातव्यो वरवणीनि ।
डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् ॥ १४-२४ ॥
दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेत् ।
राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥ १४-२५ ॥
चित्तप्रसादेनेति प्रसादश्चित्ततुल्योऽनुपाधिसंवित्प्रकाशरूप इति यावत्
॥ २५ ॥
उपसंहरति —-
मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम् ।
न केवलं पूर्वनिदीष्टनीत्येदं तन्त्रं
विद्यामन्त्रमण्डलपीठरूपं यावदिह मुद्राश्रयतया
मुद्रापीठरूपमपि । चतुर्वर्गस्य समय्यादिचतुष्टयस्य
रक्षासन्निधितत्त्वानुप्रवेशहेतुत्वात् फलोदयो यतः । एतत् —-
“चतुष्पीठं महातन्त्रं चतुर्वर्गफलोदयम्” (१-५)
इत्यस्य ग्रन्थस्य निगमनरूपम् ॥
एवं मुद्राणां कायीयं मानसं च रूपमुक्त्वा, वाचिकमप्याह —-
प्रणवासनमारूढा ॐकाराद्या वरानने ॥ १४-२६ ॥
स्वनामकृतविन्यासा नमस्कारावसानिकाः ।
भगवच्छक्तिरूपाणां मुद्राणां स्वरूपं विमृशेत् ॥
एवं सन्निवेशबन्धध्यानमन्त्रपरामर्शस्फुटीकृता एता
विघ्नत्राणभगवत्स्वरूपसन्निधानतदनुप्रवेशनादिरूपाणि —-
साधयन्ति महादेवि फलानि विविधानि तु ॥ १४-२७ ॥
देव्या महत्पदेन विशेषणेन मुद्रावीर्यज्ञतां प्रकाशयन्मुद्राणां
वीर्यमेव सारभूतमिति शिक्षयति ॥ २७ ॥
पाटलिकं प्रमेयमुपसंहरति —-
निवीघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये ।
वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥ १४-२८ ॥
यद्यपि भगवत्सन्निधानतदनुप्रवेशादौ विघ्नव्युदासार्थं
समय्यादिभिरप्येतन्मुद्रालक्षणं ज्ञातव्यम्, तथापि साधकेन
विशेषतो ज्ञातव्यम्, मुद्राबन्धरक्षितस्यैवास्य साध्यसिद्धेः ।
यथोक्तं पूर्वशास्त्रे —-
“याभिस्तु रक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात्” (७-१)
इति शिवम् ॥ २८ ॥
स्वावष्टम्भवशोन्मिषन्निजमहामन्त्रावमर्शस्फुरत्
स्वच्छन्दस्फुरणामयाः परतरस्फारामृतस्यन्दिनः ।
उद्यन्त्येव तनावकृत्रिमतया द्रागेव मुद्राक्रमा
यस्य त्रोटति पाशकुञ्जरभरः पायात् स एकः शिवः ॥ ॥
इति श्रीस्वच्छन्दतन्त्रे
श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते
मुद्राप्रकाशः नाम चतुर्दशः पटलः ॥ १४ ॥