०८

अष्टमः पटलः

" स्वच्छन्दोद्योतः "

यस्य बोधमहाम्भोधेर्ब्रह्माद्या भुवनेश्वराः ।

अंशा मिता बुद्बुदवत् तं स्तुमः परभैरवम् ॥

“अंशकांश्च निबोध मे” (७ । ३३०)

इति यत्पटलान्ते उपक्षिप्तम्, तद्विभक्तुं श्रीभैरव उवाच —-

अंशकं षड्वधं देवि कथयाम्यनुपूर्वशः ।

परस्य बोधभैरवस्य शक्तिभिर्ब्राह्मभ्यादिभिरधिष्ठिता
ब्रह्माद्यास्तथावभासिता अंशाः, ततस्तदनुग्राह्या अपि तदंशा
इत्युच्यन्ते । अत्ॐऽशानाराध्यत्वेन स्थितान् कायति, अयं
ब्रह्मांशोऽयं विष्ण्वम्श इत्यादिक्रमेण यो वक्ष्यमाणो
भावस्वभावादिः, सोऽंशक इत्युच्यते । स च साधकं प्रति
सिद्ध्यनुकूलत्वाद् अल्पांशोऽंशक इत्यभिधीयते ॥

तमुद्दिशति —-

भावांशकः स्वभावांशः पुष्पपाताम्श एव च ॥ ८-१ ॥

मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा ।

भावः सहजस्तत्तद्भक्तियुक्त आशयः । स्वभावस्तदनुगुणो व्यापारः
। यस्तु पूर्वयुक्त्या बद्धनेत्रस्य पुष्पपातानुसारं निश्चीयते,
तन्मन्त्रवाच्यदेवतात्मा अनुष्ठातुम्, स मन्त्रांशः ।
अंशकापादनमंशस्यानिरूपितस्यापि मन्त्रस्य वीरद्रव्यादिहोमेन
साधकदीक्षाक्रमेण वा आराधकं प्रति क्रियते, इति द्विरूपमिति
(षडं)१शकाः ॥

एषामाद्यस्य लक्षणमाह —-

देवानुस्मरणं भावः सहजं तं विजानता ॥ ८-२ ॥

अदत्तानुष्ठानस्यापि प्राग्जन्मवासनापरिपाकवशात्
तत्तन्नियतदेवतानुस्मरणं यत्सहजम्, स भावांशः ॥ २ ॥
द्वितीयमाह —-

स्वभावश्च भवेच्चेष्टा…

प्रोक्तभावानुगुण एवमेव लिङ्गार्चनाद्यात्मा व्यापारः ॥

तं च —-

…कथयाम्यनुपूर्वशः ।

ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥ ८-३ ॥

रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।

विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥ ८-४ ॥

सर्वदेवरतः शान्तो यक्षांशो धनसङ्ग्रही ।

लुब्धो गवीतमृष्टाशी वातांशश्चपलः स्मृतः ॥ ८-५ ॥

सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाय्यथ ।

दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥ ८-६ ॥

गान्धर्वो गायनो नित्यं शिवभक्तो वरानने ।

विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥ ८-७ ॥

कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः ।

रक्ष्ॐशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥ ८-८ ॥

पिशाचांशश्छलान्वेषी वासरे भीरुकातरः ।

अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥ ८-९ ॥

सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा ।

इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥ ८-१० ॥

पूतिवक्त्रो दुरामोदलालास्यः । विद्याधरांशस्य शिवभक्तत्वं
शिवशास्त्रोक्तविधानेन गुटिकाञ्जनादिसिद्धिरसिकत्वम् । क्रूरो
दारुणहृदयः । निस्त्रिंशो निर्घृणव्यापारः । परुषो वाचा ।
तीव्रः कर्मणा । पूर्तं वापीकूपादिकरणम् । इष्टं यज्ञः ।
स्पष्टमन्यत् ॥ १० ॥

ये च यदंशास्तेषामेते ब्रह्मादयः —-

स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः ।

यस्य यावदैश्वर्यम्, तावदेवासावाराधितः साधकेभ्यः प्रयच्छति ।
एवं चाभिदधदिदमाह यत् परिमितांशस्य तत्तत्पदप्रापक एव
मन्त्रोदया । स च (यः)१ येषां विशेषतः शास्त्रेषु नास्ति, तेषां
प्रणव एव तन्नामनमस्कारयुक्तः ॥

यदा तु —-

“यो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः ।

सिद्धिभाङ् मन्त्रसामर्थ्यात्… ॥”

इत्युक्तस्थित्या इहत्यमन्त्रैः कृतदीक्षस्य
साधकस्यैतन्मन्त्राराधनेनाराधितास्ते देवताविशेषाः तदा सर्वे
भैरवरूपा एवेति सर्वसिद्धिसाधका इत्याह —-

भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥ ८-११ ॥

भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः ।

भैरवाङ्गसमालब्धा इत्युक्त्येदमाह —- येषां
कपालीशादिमन्त्राणां वक्त्राणि नोक्तानि,
तेषामाराधकैर्नैष्कलवक्त्राङ्गानि प्रयोक्तव्यानि । कश्चिदत्र
सर्वशब्दस्य द्विःस्थितस्य वाक्यद्वयविषयां योजनामसहमानः
सर्वेदेवा इत्यत्र सर्वदैवेति सर्वसिद्धिफलप्रदा इत्यत्र च
सर्वकामसमन्विता इति पठित्वा एतन्मन्त्रदीक्षिताः
साधकास्तदाराधनाद् भैरवा एव पूर्णसिद्धिभाजनं भवन्तीति
व्याख्यातवान् । पुराणपुस्तकेषु त्वविगानेनाद्यः पाठो दृश्यते ॥

एवम् —-

स्वभावांशः समाख्यातः साधकानां हिताय वै ॥ ८-१२ ॥

साधकपदेन मुमुक्षूणां नायं नियम इत्यादिशति ॥ १२ ॥

पुष्पपातांशं लक्षयति —-

पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि ।

अनिश्चितभावस्वभावांशस्य बुभुक्षोर्बद्धनेत्रस्य पूजितसर्वावरणे
भगवन्मण्डले पूर्वोक्तस्थित्या एकं पुष्पं क्षिपतो यत्र तत्पतेत्,
तन्मन्त्रवाच्यदेवतानुसारेण नाम कार्यम् ॥

अतश्च ज्ञातांशकेनाचार्येणोपदिष्टतत्तत्त्वस्य —-

स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद् यदि ॥ ८-१३ ॥

शास्त्रोक्तविधानेनेत्यर्थात् ॥ १३ ॥

क्रमप्राप्तं मन्त्रांशकमधिकवक्तव्यत्वात् सम्प्रत्यनुक्त्वा,
अंशकापादनं प्रस्तौति —-

अंशकापादनं देवि कथयामि समासतः ।

कथमित्याह —-

वैहायसं ध्वजं चैव होमयेद् यस्तु साधकः ॥ ८-१४ ॥

स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते ।

वक्ष्यमाणस्थित्यार्यन्तोऽपि यो मन्त्रस्तदाराधनायैव वैहायसमिति
उद्बद्धनरमांसम्, ध्वजं च शूलारोपितनरमांसमष्टोत्तरशतं
सहस्रं वा यथासम्भवव्यवसायं यः साधक इत्याराधक
आचार्यस्तत्प्रयुक्तोऽन्योऽपि वा साधको होमयेद् जुहुयात्,
तस्यासावेवमाराधितः सिद्ध्यति साधनानुगुणो भवति ॥

यस्य तु प्रोक्तक्रमेणाविवेचितांशकोऽपि प्रभावातिशयश्रवणात्
कश्चिन्मन्त्र आरिराधयिषितो भवति, न च वीरद्रव्यक्रमे योग्यतास्ति,
तस्यारिराधयिषितं पूजहोमादिनादौ तर्पयित्वा
प्राक्प्रोक्तसाधकदीक्षाभिषेकविधानेनैव तन्मन्त्रांशकत्वापादनं
कर्तव्यमित्यभिदधद् द्वितीयमंशकापादनं लक्षयति —-

अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥ ८-१५ ॥

तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत् ।

प्रोक्तप्रकारैर्न परिच्छिन्न अंशक आराधकः शिष्यो
यस्यासावनंशकः । यागहोमौ तं शिष्यं प्रति तस्य
मन्त्रस्याभिमुखीकरणाय ॥

ततः —-

शिष्यस्य पूर्ववत् कर्म कृत्वा तु विधिपूर्वकम् ॥ ८-१६ ॥

पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे ।

कर्मेति भगवदर्चादिपूर्वं साधकाभिषेकान्तम् । योजयेदिति तमेव
शिष्यं मन्त्रेण सह शाश्वत इति परमशिवपदे, साधकाभिमते च
शाश्वतभोगप्रदे सदाशिवादिधाम्नि । शाश्वतपदयोजनादेव
चायमासादितवीर्योऽनंशकतामुत्सृज्य, सदंशकत्वमेति ॥

इत्थमासादितांशकोऽसौ —-

परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् ॥ ८-१७ ॥

एवमंशकापादनं द्विधोक्त्वा मन्त्रांशकमाह —-

मन्त्रांशं गणयित्वा तु गृह्णीयात् सुविचारितम् ।

मन्त्ररूपमंशमक्षरभेदक्रमेणांशीकृतं मन्त्रम् ॥

साधकस्य चानुरूपांशकरूपत्वादप्यंशेन —-

हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥ ८-१८ ॥

तत्र —-

हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणम् ।

सिद्धं चैव सुसिद्धं च उत्तमं परिकीतीतम् ॥ ८-१९ ॥

कथम् ? —- इत्याह —-

मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम् ।

आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेत् ॥ ८-२० ॥

“ॐ शिवाय नमः” इत्यादिके मन्त्रे ॐकारादि मन्त्राक्षरं
मात्राभिरकारोकारादिभिबीन्दुना च समन्वितं
विश्लेष्येत्यकारोकारादिमात्राबिन्दुं च मकारमात्राकल्पनयाऽस्य
पृथक्कृत्य, एवं शिकारवाकाराभ्यामिकारमाकारं च विश्लेषयेत् ।
अकारमात्रा तूच्चारणार्थम्, न कुतश्चिद्विश्लेषयेत् प्रत्युत यतो
वर्णान्मन्त्रान्तरं विश्लेषितम् तस्याकारमुच्चारणार्थं कल्पयेत्,
अन्यथा उच्चारायोगात् । एवमात्मनः शिष्यसम्बन्धि यन्नाम
विष्णुमित्रमित्यादिकम्, तत एकैकमक्षरं तद्वत् प्रोक्तमात्राभेदेन
विश्लेष्य, अस्येति विभक्तमन्त्रस्याधोभागे योजयेत् । तेन औमशैवाअयनम
इति दशानामक्षराणामधोविभक्तानि विष्णुमित्रनामाक्षराणि दद्यात्
। यत्र मन्त्राक्षराणि बहूनि भवन्ति, तत्र नामाक्षराणि पुनः
पुनर्योजयेदामन्त्राक्षरसमाप्तिं योजयेत् ॥ २० ॥

एवं स्थिते सति —-

आत्मवर्णात् समारभ्य यावन्मन्त्रार्णमागतम् ।

यस्मिन् स निपतेद् देवि तमायं परिकल्पयेत् ॥ ७-२१ ॥

शिष्यनामाक्षरमेकैकमवधिं कृत्वा मातृकावर्णपाठक्रमेण
गणनया एकैकनामाक्षरोर्ध्वस्थ एकैको मन्त्रवर्णो यावदागच्छति,
तावद्वक्ष्यमाणेन सिद्धसाध्यसुसिद्धारिभेदगणनेन यत्रैतदन्यतमे
स नामवर्णो निपतेत् संयुज्येत, तमायमिति शुभाशुभसूचकं
निश्चिनुयात् । यथोक्तं मयसङ्ग्रहे —-

“आयान्तीष्टेतरार्थाय भवन्त्यायास्तत” इति ॥ २१ ॥

अत्र गणनोपायप्रदर्शनपूर्वमायस्वरूपमादिशति —-

रेखाङ्गुलिगतं तं तु कथयामि समासतः ।

रेखोपलक्षिताङ्गुलीगतमङ्गुलिरेखासु कथितं तमायम् ॥

स च —-

पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥ ८-२२ ॥

तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके ।

अनेन क्रमेण नामाक्षराणि मन्त्राक्षरप्राप्तिं यावद् गणयित्वा आयं
परीक्षेत ॥

तत्र —-

अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥ ८-२३ ॥

सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रद,ह्१ ।

अरिसाध्योराद्यन्तस्थितयोर्बहलयोर्वा परित्यागः, सिद्धसुसिद्धयोस्तु
स्वीकारः, क्रमेण भुक्तिमुक्तिप्रदत्वात् । यथोक्तम् —-

शिद्धान्ते सिध्यतेऽवश्यं साध्यान्ते कृच्छ्रसाधनः ।

सुसिद्धः पूर्वसिद्धस्तु अर्यन्तो न प्रसिध्यति ॥" इति ।

तथा —-

“एवं शुद्धौ कृतायां तु सुसिद्धोऽभ्यधिको यदि ।

सिद्धौ न लभ्यते ग्राह्यमूतीः साध्येऽपि साधकः ॥” इति ।

शुद्धौ कृतायामित्यंशकविषये निश्चितायां साध्येऽप्यधिके
त्रिश्चतुर्वा आयाते सति मन्त्रमूतीराराध्यत्वेन ग्रहीतव्या,
इत्यत्रार्थः । इयं चांशकपरीक्षा एकाक्षरमालामन्त्रयोर्न
कर्तव्या । यथोक्तम् —-

“एकाक्षरेषु कूटेषु मालामन्त्रेषु भामिनि ।

अंशकं न परीक्षेत परीक्षेतान्यमन्त्रगम् ॥”

इति, कूटेष्वद्वैततत्त्वेषु । अत एव —-

“मायाम्१ नेत्रे च देवेशि तथा द्वात्रिंशदक्षरे ।

न च तत्रारिशङ्का स्यात्… ॥”

इत्यप्यन्यत्रोक्तम् ॥

तदित्थंविचारात् —-

यस्न्त्वंशकाविशुद्धः स्याद् भैरवोऽत्र वरानने ॥ ८-२४ ॥

तं मध्यमस्थं सम्पूज्य तत्स्थाने मध्यमं न्यसेत् ।

य इति कपालीशाद्यन्यतमः । मध्यमस्थमिति, आराधनायां
प्रधानीभूतत्वात् । तत्स्थान इति तस्यावरणकक्ष्यास्थस्य
कपालीशादेः पदे । मध्यममिति श्रीस्वच्छन्दमयं तुर्यादिरूपतया
परीक्ष्येति दशीतम् ॥

अथ कथं श्रीस्वच्छन्दनाथस्य परिवारं प्रति परिवारतया न्यासः
? —- इत्याशङ्कां शमयितुमाह —-

यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥ ८-२५ ॥

तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः ।

यः सर्वगतो व्यापको देवः क्रीडादिशीलश्चिदानन्दघनः
श्रीस्वच्छन्दभट्टारकः सर्वेषु कपालीशादिषु
प्रपञ्चव्याप्त्यावस्थितेष्वन्तर्गतः परमार्थरूपो यतः, तत्तस्मात् स
एव तत्तत्कपालीशाद्यात्मना स्मृतः, साधकस्यांशकशुद्ध्या
सिद्धिमभेदव्याप्त्या च मुक्तिं ददाति परमार्थतः, न तु
व्याप्तिज्ञानशून्या वर्णाः किञ्चित् कुर्वन्ति । उक्तं हि प्राक् —-

“अक्षरेषु कुतो मोक्षः” (७-२३८) इति ।

तेन स्वस्यावरणभेदस्यान्यथाकल्पनेऽपि न तत्त्वभूमेः काचिन्म्लानिः

तदिदमंशकविचारान्ते प्रसङ्गायातं वस्तु —-

कथितं सरहस्यं ते गुह्याद् गुह्यतरं परम् ॥ ८-२६ ॥

अथ यत् कथितमित्युक्तम्, तत्प्रमाणीकर्तुं परमशिवात् प्रभृति
गुरुपारम्पर्येणेदं रहस्यं तन्त्रमवतीर्णमिति दर्शयन् परादि
दिव्यान्तं सम्बन्धषट्कं प्रदर्शयति —-

अतस्तन्त्रावतारार्थं कथयामि समासतः ।

तत्र —-

अदृष्टविग्रहायातं शिवात् परमकारणात् ॥ ८-२७ ॥

ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् ।

तदेवापररूपेण शिवेन परमात्मना ॥ ८-२८ ॥

मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना ।

पुरुषार्थं विचार्याशु साधनानि पृथक् पृथक् ॥ ८-२९ ॥

लौकिकादिशिवान्तानि परापरविभूतये ।

तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥ ८-३० ॥

अनुष्टुप्छन्दसाऽऽबद्धं कोट्यर्बुदसहस्रधा ।

शिवात् परमाद्वयप्रथात्मकश्रेयोरूपात्, परमकारणात् शिवान्तानां
कारणानां सर्वेषां स्वभित्तावाभासकात्, अत एवादृष्टः
परद्रष्टेरकरूपो विग्रहः स्वरूपं यस्य तस्मात् । भिन्नमेतत्पदं
छान्दसेन पञ्चम्यात्वादेशेन । अथ च तस्मिंस्तद्रूपमेवायातं
प्रसरणस्फुरणं यस्य तद् ध्वनिरूपं नादामर्शात्मकं
सुसूक्ष्ममप्रमेयं विश्वव्यापकं च, अकारादिकलाकलितत्वाभावात्
सुशुद्धम्, सुप्रभान्वितं महाज्ञानरूपं
यत्तदेवापररूपेणेत्यनाश्रितभट्टारकाख्येन शिवेन
दण्डवक्त्रभङ्ग्यवस्थितसद्योजातपञ्चमहामन्त्रशरीरे पृथक्
पृथगनुग्राह्यानुसारं साधनान्यनुष्ठानानि लौकिकादिशिवान्तानि
विचार्य तत्तर्तासद्धिसाधनार्थमपररूपेणैव स्थूलेन
वेदादिरहस्यान्ततत्तत्स्रोतोभेदोद्भूतनानाशास्त्ररूपमनन्तग्रन्थसदर्ब्
हात्मकं निबद्धम् । मन्त्रसिंहासनस्थेन
सार्धत्रिकोटिमन्त्राधिपतिनेत्येनेनैव शास्त्रानन्त्यस्यावकाशो दत्तः ।
पञ्चमन्त्रमहात्मनेत्यनेन श्रीकण्ठीयसंहिताद्युक्तनानास्रोतोभेदः
सूचितः । तत्र —-

“अदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् ।

ज्ञानरूपं विनिष्क्रान्तमनवच्छ(ब्द)१ महत् ॥”

इत्यादिना नादस्वरूपं निरूप्य —-

“ततो जातमिदं सर्वं चतुर्वर्गफलप्रदम् ॥”

इत्युक्त्वा स्रोतोभेदेन नानाशास्त्रप्रपञ्चोदयः प्रदशीतः ।
तदेवेत्यादिना आबद्धमित्यन्तेन तत्तदनुग्राह्याशयानुसारेण
भिन्नभिन्नफलान्यपि शास्त्राणि वस्तुतो वाक्यैकवाक्यतया
परिपूर्णाभिन्नविमर्शस्फाराण्यासूत्रितसमस्तभेदाभेदप्रपञ्चानीति
तथाविधव्याप्तिज्ञं तत्वज्ञं
प्रत्यभिन्नचिदानन्दघनतत्त्वविश्रान्तिपरमार्थान्येवेति ध्वनति ।
तदुक्तम् —-

“यतः शिवोद्भवं सर्वं शिवधामफलप्रदम् ।”

इति ॥

एवं परसम्बन्धमूलतां शास्त्रप्रसरस्य प्रदर्श्य,
सम्बन्धान्तरगोचरतामपि प्रदर्शयिष्यामीत्याशयेन
परमशिवेनापीत्थमिदमुत्थाप्यत इत्याह —-

गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥ ७-३१ ॥

पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः ।

तज्ज्ञानमीश्वरेऽदात् तदीश्वरेण शिवेच्छया ॥ ७-३२ ॥

विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात् ।

देवः परवाक्शक्तिमयः शिवभट्टारक एव । सदाशिव इति
गृहीततत्तद्भूमिकः । स्वयं गुरुशिष्यपदे स्थित्वेति प्रतिभाभुवि
प्रष्टृप्रतिवक्तृभावासूत्रणेन
परममहापश्यन्तीवाक्शक्त्यासूत्रितपूर्वोत्तरपदात्मकैर्वाक्यैरुप-
लक्षितं तन्त्रमशेषशास्त्रसन्दर्भमयं तज्ज्ञानं चेश्वरेऽदादिति
सङ्क्रमितवान् । आधारभेदत इति ईश्वरात्मकमाधारभेदमाश्रित्य
स्वयं तदात्मना स्थित्वा इत्यर्थः । तज्ज्ञानमीश्वरे दत्तमिति तु
पाठः पूर्वश्लोकान्त आसूत्र्येति योजयित्वा तेन चेत्यनुषङ्गेण
व्याख्येयः । इयता महत्सम्बन्धो दशीतः । शिवेच्छया
सदाशिवेच्छया, इत्यनेनानायातशक्तिपातो नोपदेश्य इति ध्वनति ।
विद्याया इति —-

“अष्टवर्गविभिन्ना च विद्या सा (मातृकैव तु)” (१०-११४४)

इति वक्ष्यमाणमातृकावाच्याया देव्यास्तथा वेदनप्रधानत्वाद्
विद्याशब्दवाच्यस्याशेषस्य मन्त्रग्रामस्य, अनन्तभट्टारकादिभ्यश्च
विद्येशेभ्यो मन्त्रचक्रवतीभ्य ईश्वरेण तन्त्रं तज्ज्ञानं च कथितं
सङ्क्रमणयुक्त्या विमर्शपदं नीतम् । आदरादिति भक्त्युल्लासप्रकर्षात्
। यद्यपि भगवतो मातृका तदुत्थाश्च मन्त्राः
परमेशवदभेदेनावभासिता विद्यातत्त्वधाम्नि
तावदशेषविश्वाभेदव्याप्तिरत्र निमग्नेव स्थितेति
तामुन्मज्जयितुमीश्वरेण विश्वानुजिघृक्षया ज्ञानसङ्क्रान्तिरत्र
कर्तृमुपपन्नैव । इतः प्रभृत्यन्तरालसम्बन्धः आसूत्रितः —-

“मयापि तव देवेशि साधिकारं समपीतम्” (८-३६)

इत्येतावत्पर्यन्तो भविष्यति ॥

एवं पश्यन्तीप्रसरणपर्यन्तां शास्त्रस्थितिमुक्त्वा,
मध्यमाप्रसरणेनाह —-

मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तत् ॥ ८-३३ ॥

तस्मादिति विद्यातत्त्वचक्रवतीनोऽनन्तभट्टारकादित्यर्थात् ।
मायानियति पर्यन्तैरिति मण्डलप्रभृतिभिः कञ्चुकवासिभिश्च
रुद्रैरवापीति सङ्क्रमणयुक्त्यैव ॥ ३३ ॥

ततोऽनन्तरं तदेव ज्ञानं तथैव —-

श्रीकण्ठेनेश्वरात् प्राप्तं ज्ञानं परमदुर्लभम् ।

अहं हि भगवानीश्वरात्मनः शिवस्य शिष्यः
मण्डल्याद्यास्त्वनन्तशिष्याः । अत्र मध्ये पुंस्तत्त्वाधिष्ठातारो
रुद्रा बन्धहेतुतया स्थापिता इति तेषामेतज्ज्ञानशक्तिसङ्क्रान्तिर्न
कृता ॥

ततोऽपि तथैव —-

तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥ ८-३४ ॥

प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः ।

ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् ॥ ८-३५ ॥

श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम् ।

यद्यपि गुणतत्त्वे श्रीकण्ठनाथः स्थितः, तथाप्यसौ
शिवशिष्यत्वेन प्रभावातिशयवानिति स्वोर्ध्वस्थप्रकृतिवतीनः
क्रोधाद्यष्टस्य स्वाधारतत्त्वगतानां च शतरुद्रान्तानां
रुद्राणामनुग्रहीता । ममापीति कैलासवासिनस्तन्त्रप्रवक्तुर्भगवत
उमापतेरुक्तिः । तदित्थमनन्ताद्याः
श्रीकण्ठश्चेश्वरभट्टारकात्मनः शिवस्य शिष्याः,
मण्डलिनस्त्वनन्तशिष्याः, क्रोधादयः शतरुद्रान्ता उमापतिश्च
श्रीकण्ठशिष्या इत्यादिष्टं भगवता । तेन यत् खेटकनन्दनेन — -

“मण्डलिनः श्रीकण्ठः क्रोधाद्याः शतभवा सवीरेशाः ।

एते कलादियोगात् प्रकटीकृतदृक्क्रियाः परेशेन ॥” (तषम्। ३०)

इत्युक्तम्, तद्यथोक्तानुसारं क्वचित् साक्षात् क्वचित् पारम्पर्येणेति
व्याख्येयम्, नत्वविशेषेण । दीक्षयित्वेति, अभिषेचनं कृत्वेति च
शाक्तसमावेशसङ्क्रमणयुक्त्या पूर्वं शाम्भवसमावेशयुक्त्यैव ।
एवं च नादीक्षितस्य ज्ञानग्रहणे, नाप्यनभिषिक्तस्य
तद्दानेऽधिकार इत्यादिष्टं भवति ॥

अथैतत्तन्त्रं च तज्ज्ञानं च सङ्क्रमणयुक्त्यैव —-

मयापि तव देवेशि साधिकारं समपीतम् ॥ ८-३६ ॥

इतः प्रभृति वैखर्याः प्रसरः ॥ ३६ ॥

एवमियतान्तरालाख्यं सम्बन्धं प्रकटीकृत्य, दिव्यान्तमादिशति —-

त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम् ।

ब्रह्मविष्ण्वन्द्रदेवानां वसुमातृदिवाकृताम् ॥ ८-३७ ॥

लोके सङ्गृह्य नागानां यक्षाणां परमेश्वरि ।

विधिर्दीक्षाभिषेकरूपः ॥

दिव्यादिव्यसम्बन्धमाह —-

कथयस्व ऋषीणां च…

एवं च देव्या विश्वानुग्रहाधिकारार्पणेन भगवता महाकारुणिकत्वं
परिपोषितम् ॥

अदिव्यं सम्बन्धमाह —-

…ॠषिभ्यो मनुजेष्वपि ॥ ८-३८ ॥

कथयस्वेति स्थितम् । देवी एव हि पराशक्तिस्वभावा विश्वाधिष्ठात्री
अनुजिघृक्षारससरसहृदया तत्तदाचार्यदेहमाविश्यानुग्रहं करोति ।
एवं चादिव्यसम्बन्धपर्यन्तः पर एव सम्बन्धः सर्वत्र प्रपततीं
त्यभिहितं भवति । तदुक्तम् —-

“…षर्वः परकलामयः ।

महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥”

इति त्रिकहृदये ॥ ३८ ॥

उपसंहरति —-

एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम् ।

त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् ॥ ८-३९ ॥

यद्यपि पूर्वोक्ते सर्वतन्त्रे तवाधिकारो दत्तस्तथापि यदेवं
निर्णीतनिर्णेष्यमाणपटलगतरहस्यार्थपूर्णत्वाद्
वरमुत्कृष्टमिदं दक्षिणस्रोतःसमुद्भूतभैरवतन्त्रजातमध्ये
प्रधानभूतं दिव्यं सर्वभोगापवर्गप्रदं तन्त्रं तत्त्वया
गूहनीयं ज्येष्ठाशक्तिपातवतामेव प्रकाश्यं नेतरेषामिति शिवम्
॥ ३९ ॥

आ देवेभ्यः क्रमान्तं निखिलमिदमियच्छासनत्राणरूपं
विश्वं यत्सम्प्रसूतं परमशिवपदाल्लोकपर्यन्तमेतत् ।

शास्त्रं वाक्यैकवाक्यस्थितमिव विगलद्भेदविश्रान्तिलब्ध
स्वच्छस्वच्छन्दधामप्रथनपरमिदं स्तात्समग्रस्य जन्तोः ॥ ॥

इति श्रीस्वच्छन्दतन्त्रे
श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते
अंशकाधिकारः नाम अष्टमः पटलः ॥ ८ ॥