द्वितीयः पटलः
" स्वच्छन्दोद्योतः "
विगलति भवदौर्गत्यं मोक्षश्रीः श्रयति हृत्कजं कचति ।
प्रसरति परमानन्दो यत्र तदीशार्चनं जयति ॥
प्रश्नोद्देशक्रमेण प्राप्तावसरं कालस्वरूपं काम्यवन्नित्यविधौ
प्रायेण अनुपयोगात् बहुवक्तव्यत्वाच्च अनभिधाय, यत्रैषां
मन्त्राणां साधकतमत्वं येन च मन्त्राः फलदा भवन्ति,
तमर्थसङ्गत्या प्राप्तप्रतिपादनावकाशमर्चाजपहोमादिविधिं
प्रकाशयितुं द्वितीयपटलारम्भः । तत्र ङित्यपूर्वं नैमित्तिकम्" इति
नित्यमेव तावद्विधिं प्रदर्शयितुं
श्रीभैरव उवाच —-
अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः ।
अथेति मन्त्रप्रकाशानन्तरम्, स्नानन्यासावाहनादेर्जपहोमादेश्च
अर्चनाङ्गभूतत्वादङ्गिभूतमर्चनमेव, प्रकर्षेण इति वैतत्येन,
वक्ष्यामि । यथावदिति गर्भीकृतव्याप्तिंसतत्त्वतया, अनुपूर्वश
इति स्नानशौचादिक्रमेण । यत इयमर्चनक्रिया पाकक्रियावत्
अनेकावयवक्रियारम्भपूतीः, अतः
स्नानाद्यवयवक्रियाभिघातपुरःसरं तत्प्रतिपादनम्, न च
अकृतशुद्धेः स्नानाधिकार इति शौचपुरःसरमेव स्नानं दर्शयति — -
शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥ २-१ ॥
शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम् ।
प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥ २-२ ॥
अस्त्रेणेति श्थूले कर्मणि निष्कलस्य अनधिकरात्" सकलेन
तृणकेशपर्णकाष्ठादि, अस्त्रमन्त्रेण चोद्धरेत् ॥ २ ॥
भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि ।
तत इति = शोधितायाः मृदः ॥
भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥ २-३ ॥
क्षालयेत यथान्यायं त्रिरन्तरितयोगतः ।
भागार्धेनेति —- एकभागस्य सम्बन्धिना अर्धेन
श्रीपूर्वाद्युक्तनीत्या
संहारक्रमेण आदौ पादौ प्रक्षाल्य जङ्घोरुकटि क्षालयेत् इति
यथान्यायशब्दार्थः, त्रीन् वारांस्त्रिः मध्ये भवता हस्तक्षालनेन
अन्तरितो यो योगः क्षालनसम्बन्धस्ततः पादौ प्रक्षाल्य हस्तौ
क्षालयेत् ततो जङ्घे ततो हस्तौ तत ऊरू ततो हस्तौ ततः कटिं
ततोऽपि हस्तौ इति मध्ये त्रिरेव हस्तक्षालनम् इति “त्रिरन्तरितयोगतः”
शब्दस्यार्थः, उक्तं च श्रीमृत्युजिति —-
“पादौ जङ्घे करौ चोरू मृत्स्नाभिस्तिसृभिः क्रमात् ।
त्रिरन्तरितयोगेन सप्तभिः शोधयेत् पुनः ॥”
इति । पुनः पश्चात् सप्तभिर्हस्तौ क्षालयेदित्यर्थः । न तु
तिसृभिर्हस्ताविति व्याख्येयम्, द्रव्याभ्यावृत्तौ सुजभावात् । यत्तु
तिसृभिर्मात्राभिमृद्भागैरन्तरितो यतो योग इति केनचित्पठित्वा
व्याख्यातम्, तदत्यन्तासमन्वितत्वादुपेक्ष्यम् ॥ ३ ॥
अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् ॥ २-४ ॥
सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत् ।
अवशिष्टमिति एकस्माद्भागात् । अर्कदीप्तमिति कराभ्यां मृदित्वा ।
सूर्यस्पृष्टं तददर्शने प्राणस्पृष्टं वा कृत्वा ॥ ४ ॥
तेनैव —-
शिरःप्रभृति पादान्तमागुण्ठ्य स्नानमाचरेत् ॥ २-५ ॥
शुद्धतत्त्वसृष्टिव्याप्त्यैतत् । तदागुण्ठ्येति लिप्त्वा ॥ ५ ॥
उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम् ।
सन्ध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ २-६ ॥
उपस्पर्शनमाचमनम्, तत्र चान्तः सूक्ष्मदेहशुद्ध्यर्थं प्रणवेन
त्रिरपां पानम्, द्विःसृक्विमार्जनम्, चक्षुरादिद्वारस्पर्शनं चेति
यथाक्रमशब्दार्थः, शास्त्रद्रृष्टेन वेदादिसिद्धेन ॥ ६ ॥
मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे ।
भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥ २-७ ॥
वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात् ।
मलस्नानं चित्तदेहाशुद्धिः । भागार्धमिति, एकस्य भागस्य समस्तस्य
उपयुक्त्वाद् द्वितीयभागः सकलः मृदपेक्षया त्वर्धम् ॥ ७ ॥
पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् ॥ २-८ ॥
दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने ।
उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥ २-९ ॥
पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत् ।
उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् ॥ २-१० ॥
बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् ।
आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥ २-११ ॥
स्नायाद्राजोपचारेण सुगन्धामलकादिभिः ।
अत्रैव भैरवभट्टारको यथादर्शनं सकलो निष्कलो वा, एवमेव
अङ्गाद्यपि ज्ञेयम् । बाहुमात्रप्रमाणेनेतिस्वाभिमुखं शिवतीर्थं
हस्तमात्रं प्रकल्पयेदित्यर्थः । राजापचारेणेतिगृहस्थानां
सति सम्भवे सुगन्धामलकाद्यभ्यङ्गस्नानं विहितमेव, न तु
नैष्ठिकवन्निषिद्धमित्यर्थः ॥ ११ ॥
प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥ २-१२ ॥
प्राणायामं कुम्भकवृत्त्याऽवस्थानम्, अभिषेकः उन्मज्जनादनन्तरं
कलशमुद्रया शिरसि जलपातः ॥ १२ ॥
उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत् ।
उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥ २-१३ ॥
तीर्थं सङ्गृह्य देवेशि आत्मनोऽग्रे निधापयेत् ।
न्यासकरणं सङ्क्षेपेण मन्त्रैकादशिकया, तीर्थं
सङ्गृह्यतिअङ्कुशमुद्रया आकृष्य ॥ १३ ॥
तत्रस्थो वन्दयेत् सन्ध्यां मार्जनादिरनुक्रमात् ॥ २-१४ ॥
अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे ।
जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥ २-१५ ॥
मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह ।
सर्वेषां भूतसङ्घानां ततस्तीर्थं तु संहरेत् ॥ २-१६ ॥
मूलमन्त्रमनुस्मृत्य…
हृत्तालुद्वादशान्तविश्रान्तिपरया मूलमन्त्रपरामर्शात्
सन्ध्यावन्दनमिदं परमेश्वरमन्त्रक्रमेण, पूर्वं तु
वैदिकैर्मन्त्रैः तच्चापि अनिवृत्तप्राग्जातिवासनैः कार्यम्, इतरैस्तु
विधिस्नानानन्तरमेव शैवैर्मन्त्रैः, यथोक्तम् —-
“ब्राह्मीं कुर्यान्न वा कर्याच्छैवीमेव नियोगतः ।” इति ।
एवं भस्मस्नानेऽपि द्विः सन्ध्यावन्दनं योज्यम्, वामकरविप्रुषां
दक्षकरशाखाभिरस्त्रेणाधःक्षेपः, वक्त्राङ्गमन्त्रैस्तु उपरि,
इति मार्जनम्, आदिशब्दान्मन्त्रसंहिताजप्तदक्षकरवारिणः शिरसि
क्षेपः तच्चैतदनुक्रमात्, अनुक्रमश्च अघमर्षणादनन्तरं
मार्जनादि, तत उपस्थानमिति, ईदृशस्तत्रागमो दक्षिणपाणिस्थं
जलं सितरूपं प्रणवतेजसोद्दीपितं दक्षनासापुटेनैव
अन्तरनुप्रविष्टं वाङ्मनः कायमलक्षालनात् कृष्णरूपं
वामनासापुटात् बहिनीःसृतं ध्यात्वाधः क्षिपेत्, इति,
ईदृशमुपस्थानमिति परमेश्वरशक्त्यात्मसूर्यसम्मुखं
मन्त्रसंहितया अञ्जलिक्षेपः, ततो यथाशक्ति जपं कृत्वा हृत्स्थाय
श्रीभगवते पूरकेण निवेद्य
शरीरादिप्रह्वीभावोन्मग्नपरस्वरूपानुप्रवेशरूपं प्रणामम्,
स्वकल्पमन्त्राणां जलेन तर्पणं कृत्वा “देवेभ्यो नमः”
इत्यादिक्रमेण देवषीभूतसङ्घानां तर्पणं कृत्वा,
मूलमन्त्रमनुस्मृत्य, संहारमुद्रया शिवतीर्थं संहरेत् स्वात्मनि
अनुप्रविष्टं ध्यायेत् ॥ १६ ॥
एवं जलस्नानमुक्त्वा भस्मस्नानं नैष्ठिकस्यावश्यकम्, गृहस्थस्य
कामचाराद्वक्तुमाह —-
…भस्मस्नानमतः परम् ।
उच्यते इति शेषः, तन्त्रान्तरोक्तविधिसाधितम् अस्त्राभिमन्त्रितं
भस्म कृत्वा, आ काद्धृदयावधि, आ पादाच्छिरोन्तं हृदन्तं वा
संहारक्रमेण भस्म कृत्वा इति समुद्धूल्य ॥
मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥ २-१७ ॥
प्रसन्नेन चित्तेन ॥ १७ ॥
परिवृत्त्य ततो वासः सन्ध्यां प्रागिव वन्दयेत् ।
जलेनैव ॥
विधिस्नानं ततः कुर्याद् भैरवेशमनुस्मरन् ॥ २-१८ ॥
भैरवव्याप्तिमात्मनो विभावयन् ॥ १८ ॥
शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः ।
भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् ॥ २-१९ ॥
साङ्गेन मूलेन भस्म अभिमन्त्र्य शुद्धतत्त्वसृष्ट्यर्थं
मूर्धादिपादान्तमुद्धूलयेत् ॥ १९ ॥
ततोऽपि —-
अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् ।
निष्कलवीर्यमाविशन् ॥
सन्ध्याया वन्दनं कुर्याद्यथापूर्वं वरानने ॥ २-२० ॥
यथापूर्वमिति जलेनैव अघमर्षणादिकं कार्यमित्यर्थः । अभिषेको
मूलमन्त्रेण कलशमुद्रया भस्ममुष्टेः शिरसि क्षेपः, एवं
भस्मस्नानं गृहस्थेनापि कामतः कार्यम्, तन्त्रान्तरनिदीष्टनीत्या
त्रिपुण्ड्रकमात्रमेव वा गृहस्थेन कार्यम् ॥ २० ॥
एवं स्नानं विधाय अर्चाविधिं कर्तुमुपक्रमेत —-
ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत् ।
रथ्याधूलिलिप्तौ पादौ तत्स्पर्शाद्धस्तावपि क्षालयेत् ।
शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥ २-२१ ॥
उपस्पृश्य आचम्य, विधानतः एकाग्रचित्ततया, शिखां शिखामन्त्रं
स्मृत्वा, शिखां मध्यशक्तिम्, बद्ध्वा अवष्टभ्य ॥ २१ ॥
बाह्यपूजाधिकृतत्वमात्मनि जनयितुं सङ्क्षेपेण
मन्त्रैकादशिकास्मरणेन —-
सकलीकृतदेहस्तु पुष्पमादाय सुव्रते ।
दिङ्मातृभ्यो नमस्कृत्य द्वारं सम्प्रोक्ष्य यत्नतः ॥ २-२२ ॥
शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत् ।
शिवाम्भसा इति वदन् सामान्यार्घपात्रमादौ बाह्यपूजार्थं कुर्वीतेति
सूचयति ॥ २२ ॥
ततः —-
द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥ २-२३ ॥
सम्पूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमाद् ।
अर्घ्यपाद्योपहारैश्च…
“ॐ दिङ्मातृभ्यो नमः” इति कुसुमं क्षिप्त्वा, आयतने यागगृहे बाह्ये
वा व्योम्नि प्रभामण्डलवृषशूलसूर्यान्
बाह्यपरिवारनिष्ठोर्ध्वडम्भरे द्वारस्य दक्षिणाद्वामान्तं
गणेशं तथाशब्दसमुच्चितां वागीशीं श्रियं च प्रणवादिनमः
शब्दान्तेन मन्त्रेण पूजयेदिति क्रमः ॥ २३ ॥
…टतो द्वारस्य चोत्तरे ॥ २-२४ ॥
नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे ।
कालिन्दीं चैव सम्पूज्य यथानुक्रमयोगतः ॥ २-२५ ॥
कालिन्दीं यमुनाम्, दक्षिणस्रोतसः संहारप्राधान्यान्महाकालयमुने
द्वारस्य दक्षिणे एव पूज्ये । वामे तु नन्दिगङ्गे,
शाक्तस्फारसारत्वाच्चास्य नयस्य गुप्ते स्वगृहादौ द्वारवामात्
प्रभृति वामकरेण पूजयेदिति गुरवः । एष च द्वारदेवताक्रमः
श्रीत्रिशिरोभैरवस्रोतसि दृश्यते, केवलं तत्र
द्वारवामदक्षिणयोदीण्डिमहोदरावधिकौ पूज्यावुक्तौ । वामस्रोतोभेदे
पुनः सृष्टिप्रधाने द्वारस्य दक्षिणे नन्दि-गङ्ग-मेषास्याः, वामे
तु महाकाल-यमुना-च्छागलास्या इति क्रमः, सिद्धान्तेषु तु द्वारस्य
दक्षिणे नन्दि-गङ्गे वामे तु महाकाल-यमुने । प्रायश्च सिद्धान्तप्रियो
लोकः सिद्धान्तक्रममाश्रितः, इतीह लोकोत्तरे भैरवस्रोतसि
भगवदुक्त एव क्रमः आश्रयितव्यो न त्वन्यथा भ्रमितव्यम् । अतो
ये सिद्धान्तदर्शनभ्रान्ता भगवदुक्तं पूर्वपश्चिमद्वारापेक्षया
विपर्यासयन्ति ते विपर्यस्ता एव ॥ २५ ॥
ततः —-
भैरवास्त्रं समुच्चार्य पुष्पं सङ्गृह्य भावितः ।
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥ २-२६ ॥
नाराचास्त्रप्रयोगेण प्रविशेद् गृहमध्यतः ।
अत्रादौ देहल्यर्चां कुर्यात्, भैरवास्त्रमतिदीप्तं निष्कलास्त्रमेव,
ज्वलदित्यादि ध्यानम्,
नाराचास्त्रप्रयोगस्तर्जनीमध्यमाङ्गुष्ठप्रेरणात्, गृहमध्यत इति,
प्रक्षिपन्निति शेषः ॥ २६ ॥
निवारितं तेन सर्वं विघ्नजालमनन्तकम् ॥ २-२७ ॥
भावयेदिति शेषः ॥ २७ ॥
ततो रक्षार्थमस्त्रं च दशदिक्षु विनिक्षिपेत् ।
विघ्नानां प्रवेशावकाशनाशाय ॥
अथ —-
मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् ॥ २-२८ ॥
दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः ।
उपविश्यासनं बद्धवा स्वभ्यस्तं वै पुरःस्थितम् ॥ २-२९ ॥
ब्रह्माणं वास्त्वधिष्ठातारम् । दक्षिणायाम् इति
दक्षिणस्रोतोऽनुष्ठानप्रवृत्तौ,
समस्तभेदप्लोषकाघोरवक्त्रसम्मुखत्वस्यानुरूप्यात्;
मन्त्रोद्धारप्रारम्भे त्वनुष्ठानस्याप्रवृत्तेः “प्राङ्मुखोदङ्मुखो वा”
इत्युक्तम् । प्रणवासने वणीतव्याप्तिके सम्यग्भैरवाभेदाभिमाने
स्थितः ॥ २९ ॥
करन्यासमाह —-
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् ।
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥ २-३० ॥
परां शक्तिं तु सङ्क्षोभ्य…
गन्धेन अलक्तकादिना, दिग्धौ लिप्तौ, परिशोधयेत् क्रियाशक्तित्वं
प्रापयेत् । परां द्वादशान्तस्थशिवचन्द्रचन्द्रिकारूपां शक्तिं
सङ्क्षोभ्यानङ्गधेनवीयुक्त्या प्रसरोन्मुखीं कृत्वा, “अमृतेन”
परानन्दरसेन, “प्लावयेत्” आच्छुरयेत् । पश्चात् तथारूपतारक्षार्थं
कवचमन्त्रेणावगुण्ठ्य ॥ ३० ॥
…टतोऽनन्तं प्रकल्पयेत् ।
करशुद्धिविधाने तत्तन्मन्त्रैर्न्यास उचित एव कार्यः ।
तेनोपबाहुदण्डाग्रगग्रन्थिप्रान्तवतीविद्यापदोर्ध्वावस्थितानाश्रितप्रे
तान्तमनन्तासनं प्राङ्नर्णीततत्त्वं प्रणवेन कल्पयेत् ॥
मूतीं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् ॥ २-३१ ॥
मूतीब्रह्मकवाटकलावक्त्रन्यासादि प्रागेव निर्णीतम् । अतो यत्र
यत्रायाति तत्र तत्र प्रथमपटलनिर्णीतव्याप्तिरनुसर्तव्या ।
श्वच्छन्दम्"
इति सकलम् ॥ ३१ ॥
अनन्तरम् —-
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम् ।
उभयोरपि करयोः पद्ममुद्रामाविष्टयोः । “अस्त्रं नखेषु” इति गुरवः
॥
ततः —-
भैरवानपि सङ्कल्प्य परं तत्त्वमनुस्मरेत् ॥ २-३२ ॥
“भैरवान्” कपालीशादीनष्टौ वामतर्जनीतो दक्षिणतर्जन्यन्तम्,
परं तत्त्वं निष्कलनाथं साङ्गं सदेवीकम्, अर्थात्
स्फारिताङ्गुष्ठयोः, अनुस्मरेत् विश्वानुगामित्वेनानुसन्दध्यात् । यद्यपि
करयोः पिण्डावयवत्वात् भाविपिण्डन्यासेनैव न्यासः सम्पद्यते,
तथापि सर्वकर्मप्रवृत्तिप्रथमाङ्कुरकल्पयोर्
भग्वत्क्रियाशक्तिमयत्वप्रत्यभिज्ञानायतयोर्देहन्यासात् पूर्वं
सर्वागमेषु न्यास उच्यमान उपपन्न एव । शिवहस्तस्त्वन्यादृगेव
विशिष्टविधिविषयः ॥ ३२ ॥
एवं करन्यासमुक्त्वा देहन्यासे इतिकर्तव्यतामाह —-
प्राणायामत्रयं कार्यं देहसंशुद्धिकारणम् ।
इह चैतन्यविश्लेषपूवीकां देहदाहोत्प्लावनाप्यायनादिमयीं
शुद्धिमाधाय भैरवात्मतापत्तिः कार्या । चैतन्यस्य च —-
“प्राक्संवित्प्राणे परिणता ।”
इति नीत्या प्राणेनैव विशोधनं कार्यम् । न चाशुद्धेन तेन तत्कर्तुं
शक्यमिति प्रथमं तच्छुद्धिः । देहस्याशुद्धस्य पुर्यष्टकरूपस्य
संशुद्धिकारणम् ॥
तत्प्रदर्शयंश्चैतन्यविश्लेषं वक्तुमाह —-
अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् ॥ २-३३ ॥
कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत् ।
“अशुद्धः” इति बहिःप्रसरे हेवाकचाञ्चल्यप्राबल्योल्लासितविकल्पतया
जीवस्य पाशत्वेन स्थितः । “रेच्यः” इति स्वरसवाहप्रशमनेन
भोगद्वादशान्ते निवेश्यः । “शुद्धेन” इति
द्वादशान्तविश्रान्तिलब्धशाक्तबलेन । आ समन्तात् स्वरसवाहनिरोधेन
पूरयेत् तच्छाक्तस्पर्शेनाच्छुरयेत् । आपूर्यैवं कञ्चित्कालं
प्रवेशनिरोधेन बललाभाय हृदयान्मूलपीठान्तं
पूर्णकुम्भवदचलस्थित्या स्थापयेत् । ततः
कुम्भकप्रकर्षलब्धशाक्तबलेन तेन
वक्ष्यमाणदिव्यकरणानुसरणयुक्तयोर्ध्वरेचकं कृत्वा
प्राणाश्रयमात्मानं व्योम्नि मुण्डान्ते विश्रामयेत् । एष च
प्रणवोच्चारसगर्भः प्राणायामः कार्यः । अत्र च रेचनादौ
व्योमविश्रान्त्यन्ते पञ्चके धारणापञ्चकं मनसा
सूक्ष्मभुजयानुसन्धायाविकल्पविश्रान्त्या मनोऽहङ्कारबुद्धीः
परतत्त्वे विलाप्य विश्राम्येत् । एवं सूक्ष्मशरीरशुद्धिर्भवति,
इति गुरवः ॥ ३३ ॥
किंरूपमात्मानमित्याह —-
खद्योतैअनिभं सूक्ष्मं करणैस्तु विवजीतम् ॥ २-३४ ॥
कार्येणैव विहीनं च मायाप्रध्वस्तगोचरम् ।
खद्योतकनिभं प्रकाशमात्रतत्त्वम्, सूक्ष्मम् अवेद्यम्, करणैः
त्रयोदशभिरिन्द्रियैः कार्येण स्थूलसूक्ष्मात्मना दशविधेन,
प्रध्वस्तो मायागोचरः कालनियत्यादिर्यस्य, इति व्यत्ययः पूर्वनिपातस्य
॥ ३४ ॥
एवं शुद्धतामापादितोऽपि —-
शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥ २-३५ ॥
“शिवो भूत्वा शिवं यजेत् ।”
इति न्यायात् । शृणु अन्तः परामृश ॥ ३५ ॥
परं भावं तु सङ्गृह्य…
“अहमेव परो हंसः शिवः परमकारणम्” (४-३९९)
इत्यादौ वक्ष्यमाणं परं स्वभावम्, सम्यगिति अविकल्पावष्टम्भेन,
गृहीत्वा स्वीकृत्य ॥
अत एव सृष्टिसंहारकारिपरमेशस्वरूपसमावेशात् —-
…टतः शोष्या तनुः प्रिये ।
सूक्ष्मायाः शुद्धत्वात् स्थूला ॥
कथम् —-
संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥ २-३६ ॥
संहारः क्ष् ईशानस्फाररूपो यभिन्नो य इत्यनेन युक्तः, रुद्रबीजम्
ऊकारः, बिन्दुरर्थाक्षिप्तः । एवमन्यत्र । अत्र देहे पाथीका
धारणां कृत्वा तच्छोषणे वायवी धारणा स्मर्तव्या । तनोः
शोषोऽहन्ताभिमानरसतनूभावः ॥ ३६ ॥
तेनैव दहनं कार्यमूर्ध्वाधोऽग्नियुतेन च ।
तेनैवेदानीं निर्णीततत्त्वेन संहारेण, ऊर्ध्वाधोऽग्निना रेफेण
युक्तेन तेन र् क्ष् र् य् ऊÁ इति पिण्डीकृतबीजाक्षरेणाग्नेय्या धारणया
कालाग्निना आ पादान्मुण्डान्तं दहनम्, इति अहन्ताभिमानपाशस्य
प्लोषणं कार्यम् ॥
अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥ २-३७ ॥
उत्पूयनकरो ह्येष…
विष्णुरुकारः, वायुवर्णो य्, उत्पूयनमुत्प्लवनम्, प्लुष्टस्यापि
देहाभिमानस्य संस्कारशेषस्य वायव्या धारणयैव निर्धूननम् ॥ ३७
॥
…प्लावने वारुणः स्मृतः ।
बिन्दुमस्तकसम्भिन्नः…
वारुणो वकारः सबिन्दुको वारुणधारणया
ऊर्ध्वद्वादशान्तादधोमुखं प्रवृत्तैः
पूर्णचन्द्राकारबिन्दुप्रसरत्सितप्रकाशवारिपूरैरशेषप्लावकः
स्मृतः, स प्लावने भाविशुद्धसर्गभित्तिविरचने प्रभवतीत्यर्थः ।
सर्वाणि चैतानि बीजानि परस्वस्वभावप्रभावप्रभाश्रू(भू)तानि
विचिन्त्यानि । अत्र च विषस्येव मारकत्वं मन्त्रयुक्त्या
देहस्याहमभिमानात्मकपाशरूपत्वं दह्यते, प्रतिदिनं
तदभ्यासप्रकर्षेण च शिवाहन्तोज्जृम्भते, न तु साक्षाद् देहो दह्यते,
प्रत्यक्षबाधात् । अत एवानादिदेहाहङ्कारस्यापसार्यत्वात् प्रत्यहं
शुद्धात्मस्थितिग्रहणतदानयनामृतप्लावनभैरवतापादनादि
क्रियमाणं युक्तमेव ॥
एवमशुद्धदेहसंहारयुक्तिमुक्त्वा शुद्धदेहसृष्टिं वक्तुमाह —-
…शक्तिन्यासस्ततो भवेत् ॥ २-३८ ॥
ततो देहदाहाद्यनन्तरं विश्ववैचित्र्यं बिभ्रत्याः पारमेश्वर्या
मनोन्मनिकायाः शक्तेर्भाविमन्त्रमयशुद्धदेहनिर्माणभित्तिभूताया
न्यासो भवेत् ॥ ३८ ॥
तदनु —-
आनयेत्तं यथानीतं प्लावयेदमृतेन तु ।
यथेति मध्यमार्गोर्ध्वरेचकेण नीतं तम् आत्मानमूर्ध्वरेचकेणैव
आनयेत् शक्तिदेहस्य मध्यं हृदयं कल्पनया प्रापयेत्, अमृतेन
परभावसमावेशावष्टम्भरसेन, प्लावयेत् भेरेवाभेदपरामर्शमयं
कुर्यादित्यर्थः । तथाभूतमेव नीतं तमानयेत् ॥
कीदृशं च —-
मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् ॥ २-३९ ॥
रागेण रञ्जितात्मानं कालेन कलितं तथा ।
नियत्या यमितं भूयः पुम्भावेनोपबृंहितम् ॥ २-४० ॥
प्रधानाशयसम्पन्नं गुणत्रयसमन्वितम् ।
बुद्धितत्त्वसमासीनमहङ्कारसमावृतम् ॥ २-४१ ॥
मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः ।
युक्तमिति शेषः । नयनानयनपात्रत्वादेव सङ्कोचाभासरूपेण मलेन
प्रध्वस्तं गुणीभूतं चैतन्यं यस्य, अत एव
किञ्चित्कर्तृत्वज्ञातृत्वरूपाभ्यां कलाविद्याभ्यां समाश्रितम् ।
एवमन्यत् । अन्येषां च कलादीनां स्वरूपमुत्तरत्र स्वावसरे
निर्णेष्यामः ॥ ४१ ॥
यदेतन्मायादिक्षित्यन्तं तत्त्वजातम् —-
प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणम् ॥ २-४२ ॥
न्यसेत्क्रमेण देवेशि त्रिंशदेकं च सङ्ख्यया ।
शरीरोत्पत्तेः कारणं मायादिक्षित्यन्तं तत्त्वानि एकत्रिंशतं
प्रणवेन श्रीमन्निष्कलभट्टारकतुल्यव्याप्तिकेन
शुद्धदेहोत्पत्त्यर्थं न्यसेत् । प्रणवन्यासाच्चैतानि
प्राग्दशातोऽन्यादृंश्येव (भवन्ति) । तथाहि —- अख्यातिरूपा
माया भेदप्रागल्भ्याविमोहिनी अस्य, कला
पूजाध्यानादिकिञ्चित्कर्तृत्वोन्मीलिका, विद्या तात्त्विकविवेकप्रदा, रागो
भक्त्यभिष्वङ्गप्रदः, कालः उपदेशादिविषयकलनाप्रदः, नियतिः
भगवदाराधनादौ नियामिका, पुम्भावः “अहं शिव एव” इति
प्रथाप्ररोहकः । एवमन्यत् ॥ ४२ ॥
अस्यास्तत्त्वैकत्रिंशतो मध्यात् —-
षट्तत्त्वी त्वात्मसम्बद्धा ज्ञातव्यात्र वरानने ॥ २-४३ ॥
मायादिनियत्यन्ता कञ्चुकरूपा षट्तत्त्वी आत्मनः पुंस्तत्त्वस्य
तण्डुलकम्बुकवत् सम्यगालक्ष्य पृथक्तया बद्धा ज्ञातव्या, न
त्वस्यामात्माभेदो ग्राह्यः । एवमात्मनः परो देहः ॥ ४३ ॥
स्थूलसूक्ष्मौ युगपदाह —-
प्रधानावनिपर्यन्तं शरीरं च विनिमीतम् ।
ज्ञातव्यमिति लिङ्गविपरिणामात् । विनिमीतं कृत्त्रिमं न तु
तात्त्विकमित्यर्थः ॥
अत्र च —-
चतुवींशतितत्त्वानि चैतन्यरहितानि तु ॥ २-४४ ॥
द्रष्टव्यानि वरारोहे…
द्रष्टव्यानि वेद्यतयैव निश्चेयानि ॥ ४४ ॥
यद्येतान्यचेतनानि कथमेतानि दृश्यन्ते ? इत्याह —-
…पुरुषाधिष्ठितानि तु ।
सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥ २-४५ ॥
अधिष्ठितता कलोद्वलितस्वकर्तृताच्छुरणम्, ज्ञातव्यानि
अहन्तापहस्तनेन वेद्यरूपाणि बोद्धव्यानि, बुद्धेरपि वृत्तिद्वारेण
वेद्यत्वात् । वेद्यत्वादेवैतानि तण्डुलतुषवद् बहिरङ्गानि । षट्तत्त्वी
तु आत्मनोऽन्तरङ्गप्रधानस्य संवेद्यपर्वत्वमिति ॥ ४५ ॥
तेन सह —-
पञ्चविंशकमेतच्च प्राकृतं समुदाहृतम् ।
प्रकृतिरेव प्राकृतम्, प्रकृतेरायातं च प्राकृतं
गुणादिक्षित्यन्तमेव । “ॐ शुद्धदेहाय नमः” इति मन्त्रेण
युगपत्षट्तत्त्वीरूपं परम्, तन्मात्रान्तःकरणरूपं सूक्ष्मम्,
पृथिव्यादिरूपं च स्थूलं परामृतप्लावितस्यात्मनो देहं न्यसेत् ॥
तामेव शुद्धरूपतां स्फुटयितुमाह —-
ततो मूतीं न्यसेद् देवि मूलमन्त्रसुलक्षितम् ॥ २-४६ ॥
सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने ।
मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि ॥ २-४७ ॥
वक्त्राणि कल्पयेत् पश्चादूर्ध्वं पूर्वं च दक्षिणम् ।
उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥ २-४८ ॥
कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत् ।
नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् ॥ २-४९ ॥
वर्गातीतेन क्षुरिकामूर्ध्वाधोऽग्निप्रदीपिताम् ।
षोडशान्तर्गता सा तु रक्षिका विघ्ननाशिका ॥ २-५० ॥
नवकं कल्पयेत् पश्चात् र्मूध्नि वक्त्रे च कण्ठके ।
हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥ २-५१ ॥
पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम् ।
क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥ २-५२ ॥
विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः ।
सर्वमेतत्प्रथमपटल एव यथा निर्णीतसतत्त्वं तथेहोत्तरत्रापि
चानुसन्धेयम्, विषममतिरिक्तं च व्याक्रियते । मुखानीति क्षादीनि,
मूर्धादीति दण्डभङ्ग्या सहायमेव क्रमो युक्तो भैरवन्यासान्तं
सृष्टिक्रमस्य स्थितत्वादित्युक्तत्वात्; अतो न
नैष्ठिकाभिप्रायेणान्यथा
व्याख्येयम् । यथावत्प्रविभागश इति कवाटवक्त्रभङ्गिभ्याम् ।
शोध्याध्वानम् इति सकलन्यासान्ते कलाद्येकतममध्वानं भावियुक्त्या
गर्भीकृतेतराध्वपञ्चकन्यासादिवशेन शोधनीयं दीक्षायामेव
कल्पयेत् । यद्वक्ष्यति —-
“दीक्षाकाले तु देवेशि शोध्याध्वानं प्रकल्पयेत्” (२-२७३)
इति । विद्याङ्गा इति सशोऽत्र आ-आदेशः, विद्याङ्गानीत्यर्थः ।
क्षुरिकामन्त्रः कट्यां न्यस्यः, स पूर्वमनुक्तत्वादिहोक्तः ।
वर्गातीतः क्ष्, अग्निः र्, षोडशान्तः षोडशस्वराणामन्तः अः,
नवकम् इति श्रीस्वच्छन्देशकपालीशाद्यष्टकोपेतम् । अस्य र्मूध्नि
इत्यादिना निर्देशः । स्वस्था (ध्या) नादि समनन्तरं भविष्यति ।
क्रियेत्यादि पाठक्रमादर्थक्रमस्य बलीयस्त्वात् —-
“ज्येष्ठाज्ञाने तथा दक्षे क्रिया वामा तथोत्तरे” (७-१५२)
इति भाविग्रन्थेनैकार्थत्वात् प्राधान्याच्च दक्षिणे ज्ञानशक्तेर्वामे
क्रियाशक्तेर्न्यासः ॥ ५२ ॥
परन्यासमाह —-
निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् ॥ २-५३ ॥
न्यसेदित्येव । आ समन्तात् द्वादशान्ताद्वाहयित्वा अवतार्येत्यर्थः ।
एवमित्यावाह्य, अङ्गानि च सर्वज्ञत्वादिगुणषट्करूपाणीति
पूर्वमेवोक्तम् । तेनात्राङ्गत्राणरूपाण्यङ्गानीति
तन्त्रान्तरयोजनमसत् । अङ्गन्यासावसरे मुद्राषट्कबन्धः
कार्यः इति गुरवः । तत्र हृदि निलीनाङ्गुष्ठा मुष्टिः,
सैवोच्छिरताङ्गुष्ठा शिरसि, उच्छिरततर्जनीका शिखायाम्,
परस्परान्तरिताङ्गुलि पाणिद्वयं कवचे,
मध्यमातर्जन्यनामिकाभिर्नेत्रत्रयस्पर्शो नेत्रे,
तर्जन्यङ्गुष्ठच्छोटिकादर्शनमस्त्रे ॥ ५३ ॥
आवाहनानन्तरम् —-
गन्धैर्धूपैस्तथा पुष्पैवीविधैर्भक्ष्यभोजनैः ।
पूजयेद् देवदेवेशं मनसैव प्रकल्पितैः ॥ २-५४ ॥
एवं च —-
आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत् ।
पुर्यष्टकशरीरमपि भैरवीकर्तुमयं प्रक्रम आरब्धः ॥ ५४ ॥
तत्र याज्यस्य भैरवरूपस्यात्मन आसनन्यासं तावद्वितत्य निरूपयति
नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् ॥ २-५५ ॥
हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेत् ।
अष्टपत्रं महादीप्तं केसरालं सकणीकम् ॥ २-५६ ॥
कन्दं पद्मोत्पत्तिमूलम्, समारोप्य परिकल्प्य, मत्तगन्धपीडनयुक्त्या
च कन्दं नाभौ नाभिविषये समारोप्य उल्लास्य, नालं
प्राणशक्तिरूपम्, नाभिहृदयान्तरालस्य द्वादशाङ्गुलत्वात्
द्वादशाङ्गुलमित्युक्तम् ॥ ५५-५६ ॥
अत्र व्याप्तिमाह —-
कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये ।
भुवनानि च तान्येव रुद्राणां वरवणीनि ॥ २-५७ ॥
मायात्मको भवेद् ग्रन्थिरशुद्धाध्वव्यवस्थितः ।
विद्यापद्मं महादीप्तं कणीकाबीजराजितम् ॥ २-५८ ॥
पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः ।
एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् ॥ २-५९ ॥
कल्पयेदित्यनुवर्तते । शक्तिरिच्छात्मा पारमेश्वरी आधारभूता
यस्यां विश्वमिदमाधिरयते सा “व्योमाकाराम्” इति वक्ष्यमाणत्वात्
गर्भीकृतधरादितत्त्वचतुष्टया । यथोक्तं श्रीपूर्वशास्त्रे —-
“आदावाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ।
धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम् ॥” (८-५५)
इति । तत्र अप्तत्त्वव्याप्त्या सुरार्णवम्, तेजोव्याप्त्या ख्यातं (पोतम्),
प्राणप्रसूतिहेतुं व्यूहात्मकं वायुव्याप्त्या कन्दमित्येवंव्यक्तिका
शक्तिः प्रकृतं रूपं यस्य तत्सारमित्यर्थः । अत एव
अङ्कुरनालरूपाशेषाध्वव्यक्तेः तत्र
गन्धतन्मात्रादिकलातत्त्वान्तनालव्याप्तिः । रुद्राणामिति
तत्तत्तत्त्वाधिष्ठातृणाम् । महादीप्तमिति
शुद्धाध्ववर्त्यशेषमन्त्रतेजोमयत्वात् । पुष्कराणि बीजानि ।
विद्येश्वराः अनन्तभट्टारकाद्याः शिखण्ड्यन्ताः । एवं
कन्दनालग्रन्थिदलकणीकाबीजरूपं षडुत्थमासनं प्रसिद्धम् ॥ ५९
॥
आसनन्यासे क्रममाह —-
शक्तिन्यासो भवेत् पूर्वं कन्दं तु तदनन्तरम् ।
अङ्कुरं नालविन्यासमनन्तं परिकल्पयेत् ॥ २-६० ॥
तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम् ।
विश्वोल्लेखभित्तिभूतामिच्छाशक्तिमाविश्य तदवष्टम्भरूपं
कन्दमाक्रम्य तदुन्मेषतत्प्रसररूपाङ्कुरनालात्मकमशेषं
मायान्तमध्वानमासूत्र्य तदुपरि अनन्तं विद्येशं तेजोमयं
स्मरणमात्रेण कल्पयेदित्यर्थः ॥ ६० ॥
नालं विन्यस्य यदुक्तं “अनन्तं परिकल्पयेत्” इति, तन्मध्ये
ग्रन्थिस्थाने सिंहासनं तदुपरि च पद्म" क्रमेण कल्पयितुमाह —-
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमान्न्यसेत् ॥ २-६१ ॥
एते च —-
सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः ।
पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥ २-६२ ॥
पादका इति-एतद्वासनानुविद्धा हि संसरन्ति संसारे —-
इत्यशेषसंसारिणः अज्ञाताः पादाः पादकाः, एते सिंहरूपा इति
पराक्रममहिम्ना, अशेषविश्वा क्रमणात् । ईश्वरशक्त्यधिष्ठाने
एवैतदेषां घटते न तु साङ्ख्यनये जडबुद्धिधर्मरूपतायाम्
इतीश्वरशक्त्यधिष्ठानादेते त्रिनेत्राः, घोरसंसारघातहेतुत्वाच्च
भीमविक्रमाः ॥ ६२ ॥
एते च मुमुक्षुणा —-
शिवशक्तिमया मन्त्रा न्यस्तव्या वीरवन्दिते ।
वस्तुतः परमेश्वरशक्तिमया एव, तथा त्वपरिज्ञाता
अधरपदसञ्चारिणः । यदा तु यथा प्रत्यभिज्ञायन्ते, तदा
मननत्राणधर्मकाः प्रत्यभिज्ञातुः शिवस्य इच्छया मन्त्ररूपतां
प्रकटयन्तः शुद्धप्रसरणिसंसारिणो भवन्ति भक्तिभाज इति
परमार्थः, न त्वन्यथैषां मन्त्ररूपता काचित्,
अशुद्धाध्वव्यवस्थितेः ॥
सिंहासनेऽवयवान्तराण्याह —-
अधर्माज्ञानावैराग्यमनैश्वर्यं च प्राग्दिशः ॥ २-६३ ॥
उत्तरान्तं निवेश्यं तु…
एते हि —-
…गात्रकाः सितवर्णकाः ।
सिंहासनपट्टिकारूपाः । प्रायश्च
सर्वेऽख्यातिमयमायाच्छादितत्वादधर्मादिमयाः, अत एव धर्मादीन्
प्रति स्पृहयालव इत्यधर्मादय एषां मायापदे अज्ञातानि गात्राणि
गात्रकाणि, अज्ञातार्थे “कन्” ॥ ६३ ॥
अत्रैव —-
सन्धानकीलकाश्चैव अतसीपुष्पसन्निभाः ॥ २-६४ ॥
वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये ।
आग्नेय्यादिक्रमेण प्रतिकोणं पादकेन सह गात्रकद्वयस्य बन्धनार्थं
कीलकद्वयमिति । ऋगादयो वेदाः, कृतादयश्च युगास्तत्तद्भोगवासनाः
पुष्णन्तः संसारबन्धनहेतवो विचित्रशङ्काशङ्कुरूपाः
सन्धानकीलका इत्युक्ताः । बन्धकत्वादेव च कृष्णवर्णा
ज्ञातव्याः । पूर्वोक्तपारमेश्वरशक्तिरूपतया यथाऽज्ञाता
बन्धका भवन्ति । ननु एते बुद्धिधर्माः कथमियतीं भूमिं
प्राप्ताः? उच्यते —- सर्वेषां बुद्ध्यादिधर्माणां मायोत्पत्तिभूः,
बुद्ध्यादयस्तु विभवस्थानम्, उच्छेद्यास्तु मूलभूमित उच्छिन्ना न पुनः
प्ररोहन्तीत्युत्पत्तिपदादुच्छेत्तुमेतानीदृक्क्रमो दशीतः ॥ ६४ ॥
अत एव सत्त्वरजस्तमांसि मूलत एवोच्छेत्तुं सिंहासनोपरि गुणमयमेव
मायामसूरकं न्यसितुमाह —-
अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ २-६५ ॥
मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ।
ऊर्ध्वं शुद्धविद्यानिकटवतीत्वात् सितं सत्त्वरूपम् । अधस्तु
संसरणानुगुणत्वाद्रक्तं रजोमयम् । मध्ये तु
ख्यात्याच्छादनप्रकर्षात् तमोमयं कृष्णम् । प्राधानिकः प्रपञ्चो
मायायामसन्नित्यादि त्वसत्, अशेषमायाकार्यस्य मायायां
सूक्ष्मरूपतया भुवनाध्ववर्णयिष्यमाणस्थित्यावस्थित्यावस्थितत्वात्
। शक्तिपातपवित्रैस्तु सर्वमेतच्छिवशक्तिरूपं मन्त्रतयैव भवनीयम्
।
यद्वक्ष्यति —-
“यत्र यत्र” इत्युपक्रम्य, सर्वं शिवमयं यतः ॥ (४-३१०)
इति ॥
अथ सिंहासनमसूरकोपरि विद्यापद्मं न्यसितुमाह —-
सितं पद्मं विजानीयात् केसराणि विचिन्तयेत् ॥ २-६६ ॥
सितरक्तप्रपीतानि मूलमध्याग्रदेशतः ।
कणीका हेमसङ्काशा बीजानि हरितानि तु ॥ २-६७ ॥
ईदृग्वर्णमेव सितपद्मं भवति । सितत्वं चास्य शुद्धविद्यामयत्वात्
॥ ६७ ॥
अस्य दलेषु देवतान्यासमाह —-
वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम् ।
रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥ २-६८ ॥
कलविकरणीं देका विन्यस्येद् वारुणे दले ।
बलविकरणीं देका वायव्यदलमाश्रिताम् ॥ २-६९ ॥
बलप्रमथनी देवीमुत्तरे विनियोजयेत् ।
सर्वभूतदमनीं च एशान्यां विनियोजयेत् ॥ २-७० ॥
मध्ये मनोन्मनीं देका कणीकायां निवेशयेत् ।
स्पष्टमेतत् ॥ ७० ॥
एतच्च —-
शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् ॥ २-७१ ॥
ततोऽपि —-
मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम् ।
एता देव्यो भुवनाध्वनीत्या परेण रूपेण शक्तितत्त्वे स्थिताः, मध्ये
तु पदे परापरेण, इह तु विद्यायामपरेण रूपेणेति विभागः । तत्रैव
चासां नामानुसारि स्वरूपं दर्शयिष्यामः, सर्वं
प्रागुक्तशक्तित्रयमयमिति ॥
विद्यातत्त्वे मानमेयमातृरूपं ज्ञानक्रियेच्छाव्याप्तिसतत्त्वं
मण्डलत्रयं न्यसितुमाह —-
सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥ २-७२ ॥
वह्निमण्डलकं देवि कणीकायां निवेशयेत् ।
अत्र हि मेयरूपस्य सोमस्य वह्निसूर्यात्मकमातृमानमध्यवतीत्वम्,
न हि मातृप्रकाशभित्तिं विना मानप्रकाशाच्छुरणं विना वा
मेयप्रकाशः कश्चित् । प्रमात्रैव हि चिद्रसाश्यानीभावात्म
मेयमाभास्यते, आभास्यमानं च प्रमाणप्रकाशाच्छुरितमेव
भवतीत्यलमधिकेन; (विस्तृतं च) भविष्यत्येतत् सृष्टिसंहारपटले
॥ ७२ ॥
एतद्धामत्रयाधिष्ठातृदेवतात्रयं निरूपयति
तदधिष्ठातृविश्वान्तर्भावमत्र प्रकटयितुम् —-
ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥ २-७३ ॥
परापरया व्याप्त्या एषां ध्यानमाह —-
ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः ।
कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥ २-७४ ॥
कमण्डलुधरो देवि दण्डहस्तस्तथैव च ।
अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥ २-७५ ॥
ध्यात्वा पत्रेषु तं न्यस्येत् सर्वकिल्विषनाशनम् ।
अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरम् ॥ २-७६ ॥
पीताम्बरधरं देवं वनमालाविभूषितम् ।
स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् ॥ २-७७ ॥
दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् ।
ध्यात्वा विष्णुं महात्मानं केशरेषु निवेशयेत् ॥ २-७८ ॥
शङ्खेन पद्ममुपलक्ष्यते । मानमेययोर्लोलीभावान्मेयात्मनि
सोममण्डले सृष्टिप्रधानेऽपि स्थितिकारी विष्णुः, स्थित्यात्मनि च
प्रमाणरूपे सूर्यमण्डले सृष्टिकर्ता ब्रह्माधिष्ठाता, इति युज्यते
एवैतत् ॥ ७८ ॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् ।
दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् ॥ २-७९ ॥
सिंहचर्मपरीधानं शशाङ्ककृतभूषणम् ।
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥ २-८० ॥
निवेशयेत् कणीकायां महापातकनाशनम् ।
तदुपरि —-
महाप्रेतं न्यसेत् पश्चात् प्रहसन्तं सचेतनम् ॥ २-८१ ॥
रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् ।
प्रकर्षेण इतः स्फुटेदन्तानिमज्जनेन अहन्ताप्रधानां
स्थितिमनुप्रविष्ट; प्रकर्षेण च इतं गतं सम्बद्धं विश्वं यस्य
इति व्युत्पत्त्या प्रेत इह सदाशिवः, स च महदिति पदेन
अनाश्रितशिवरूपः । परमशिव एव च
भगवानेकश्चिद्रूपस्तदधररूपवर्ती, इत्यनाश्रितादिस्तदेकजीवितः,
स्वयं तु प्रेत इव प्रेतः, अधराध्वनोऽत्र स्तिमितत्वेनावस्थानाच्च
प्रेतः, स च अपरया व्याप्त्या स्थूलः सदाशिवः, मध्यमया स
एव नादरूपः, परया तु अनाश्रितः, इति तदनुसारेण सिंहासनं
पद्मं च योज्यम् । स च प्रेतः परमशिवोऽहन्तानुप्रवेशादेव
प्रहसन् नादामर्शरूपो महाविकासमयश्च, तेनैव परमशिवेन
नादात्मना सचेतनः । एवमपि तावन्मात्रेदन्तोन्मेषात्मकोपाधिरूपत्वात्
विश्वानुरञ्जकत्वाच्च रक्तवर्णः, बोधप्राधान्यात् सुतेजस्कः ।
वक्ष्यति च —-
शूर्यकोटिसमप्रभम् ।" (१०-१२१४)
इति भौवने पटले । इच्छाज्ञानक्रियाशक्त्यात्मना च
एषणीयज्ञेयकार्यात्म विश्वं नयता नेत्रत्रितयेन ऊर्ध्वदृशा
विशेषेण भूषितं राजमानम् । यथोक्तम् —-
“तिस्रो देव्यो यदा चैनं नित्यमेवाभ्युपासते ।
त्र्यम्बकस्तु तदा ज्ञेयः… ॥”
इति ॥ ८१ ॥
एवमियत्पर्यन्तम्
प्रणवेन न्यसेत् सर्वमासनं भैरवस्य तु ॥ २-८२ ॥
“ॐ आसनाय नमः” इति मन्त्रेण । एतत्सर्वमासनं चिद्भैरवाभेदेन
व्याप्तं शर्वं शिवमयम्" इति वक्ष्यमाणत्वात् शक्तिरूपम्, न
तु व्यतिरिक्तापररूपं प्रणवान्तर्गर्भीकारेण न्यसेत् । अत्र च —-
“आसनं विभजेन्मन्त्री क्रमशः पद्ममुद्रया ।”
इति श्रीरौरव उक्तत्वात् करद्वयं मुकुलीकृत्य पद्ममुद्रास्फालनीया
स्थापनीया ॥ ८२ ॥
गन्धैः पुष्पैः समभ्यर्च्य…
प्रणवेनैव ।
…टतो मूतीं प्रकल्पयेत् ।
कदम्बकुसुमाकारां तुषारविरणत्विषम् ॥ २-८३ ॥
प्रकाशाह्लादमयीमित्यर्थः ॥ ८३ ॥
अथ —-
मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत् ।
द्वात्रिंशद्वर्णखचितं स्फुरत्तडिदिवोज्ज्वलम् ॥ २-८४ ॥
हृत्तो द्वादशान्तं मन्त्रोच्चारं कृत्वा, तत्र क्षणं विश्रम्य
हृद्येव मन्त्रराजं पुर्यष्टकं भैरवीकर्तुं न्यसेदिति गुरवः । अत्र
च वक्ष्यमाणब्रह्मकवाटकलावक्त्रभङ्ग्यादि सर्वमासूत्रितमात्रं
प्रभापुञ्जन्यायेन चिन्तयेत्, इत्याशयेन श्फुरत्तडिदिवोज्ज्वलम्"
इत्युक्तम् ॥ ८४ ॥
अथ —-
वक्त्राणि कल्पयेद् देवि स्वध्यानेन महेश्वरि ।
मूर्धादिचरणं यावत् प्रणवादिनमोन्ततः ॥ २-८५ ॥
अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत् ।
नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् ॥ २-८६ ॥
विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत् ।
शक्तित्रयं ततो न्यस्येद् दक्षदिग्वामगोचरे ॥ २-८७ ॥
मध्यप्रदेशे देवेशि…
एतदविस्मरणार्थं पुनरपि पठितम् । तत्त्वन्यासेन
परमेश्वरसृष्टानि तच्छक्तिमयानि, भगवति तु प्रकाशानन्दघनानि
अत एव आसनासी (नात्म?) विश्वं शिवमयमित्युक्तम् ॥ ८७ ॥
ध्यानमाह —-
…टतो रूपमनुस्मरेत् ।
त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ॥ २-८८ ॥
चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् ।
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ॥ २-८९ ॥
वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ।
कपालमालाभरणं खड्गखेटकधारिणम् ॥ २-९० ॥
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ।
वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् ॥ २-९१ ॥
वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ।
वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ॥ २-९२ ॥
मुद्गरेण विचित्रेण वर्तुलेन विराजितम् ।
सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ॥ २-९३ ॥
अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ।
आरुरुक्षून् निष्कलधाम्नि प्रवेशयितुं भगवता स्वस्वातन्त्र्यात्
ईदृगाकार उन्मनाशक्तिभूमौ दशीतः । नहि भौवने क्वापि
ईदृग्देवोऽस्ति । शाक्तस्फारमयत्वादेव चायमष्टादशभुजो
दुर्गादेव्यास्तथात्वात् । अस्मिंश्च प्रतिमुद्रास्थानीयाकृतिग्रन्थे
चिद्भैरवव्याप्तिरखण्डितैवास्ति । तथाहि —- तिसृभिः
परादिशक्तिभिः स्थूलसूक्ष्मपरभेदान्मायान्तं व्याप्य स्थितानां
पञ्चानां नयनं येन तं त्रिपञ्चनयनम्,
जटाभिरुर्ध्वपदावस्थिताभिर्वामेश्वर्यादिशक्तिभिः, मुकुटेन च
स्वातन्त्र्यास्फारेण मण्डितम्, चन्द्रकोटिप्रतीकाशम् इति
प्रकाशानन्दघनम् । तदुक्तं श्रीलक्ष्मीकौलार्णवे —-
“अद्वैतत्वात् सुरेशानि भैरवो गीयते भुवि ।
न तु दंष्ट्राकरालत्वात्तस्मात् सौम्यं विचिन्तयेत् ॥” इति ।
चन्द्रार्धकृतशेखरम् इति विश्वाप्यायकृदमाख्यामृतकलासम्बद्धम्,
पञ्चवक्त्रम् इति चिदानन्देच्छाज्ञानक्रियाख्यानि पञ्च
परस्वरूपाभिव्यञ्जकानि संसारत्राणरूपाणि वक्त्राणि यस्य स तम्,
विशालाक्षम् इति ।
“अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः । "
इत्याम्नातपरभैरवस्फारावस्थितम्, सर्पेत्यादिना हारेण तु विराजितम्
इत्यन्तेन
बहिष्कृतमायीयकार्माणवाख्यपाशत्रयसंयोजनवियोजनक्रीडापरत्व
मुक्तम्, कपालमालाभरणम् इति अशेषविश्वशरीरम्, विश्वम्
कपालमालात्मनावयवप्रपञ्चरूपमाभरणं न तु आवरणं यस्य,
चिदानन्दघनस्य भगवतस्तिस्र इच्छाज्ञानक्रियाः करणरूपाः,
एकैकस्याश्च शक्तेस्त्रैरूप्यान्नवत्वम्, तत्रापि परापरभेदेन
द्वैविध्यादष्टादशभुजत्वम् । तत्र खड्गेन ज्ञानशक्त्यात्मना
पाशच्छेदनम्, खेटकेन क्रियाशक्तिरूपेण भक्तानां
संसारत्रासपरिहरणम्, पाशेन विश्वबन्धनेन स्वातन्त्र्यम्, अङ्कुशेन
तदाकर्षणम्, शरपिनाकाभ्यां कारणग्रन्थिमालाभेदनम्,
वरदाभयहस्तत्वेन भोगमोक्षप्रदत्वम् मुण्डधारणेन
अख्यात्यात्मकमायामुण्डापहर्तृत्वम्, अनाश्रितान्तस्य विश्वस्य
अस्थिकरङ्कस्थानीयस्य स्वचिद्भित्तिलग्नत्वं खट्वाङ्गधारणेन,
वीणाडमरुघण्टाभिर्मन्द्रतारमध्यध्वनिवैचित्र्याश्रयनादावमर्श
निभालनावहितशक्तित्वम्, इच्छाज्ञानक्रियायोगिस्वातन्त्र्यशक्तिदण्डेन
त्रिशूलेन पाशत्रयशातनम्, वज्रेण ऊर्ध्वस्थितेच्छादिशक्तित्रयेण
अधः स्थितैषणीयादित्रयेण च अशेषविश्वात्मकनिजशक्तित्वम्,
दण्डेन नियतिशक्त्यात्मना विश्वनियमनम्, परशुना हलाकृतिना
नादशक्त्यात्मना मुद्गरेण बिन्दुशक्तिरूपेण
अशेषभेदविदारणचूर्णीकरणम्, इति ध्वन्यते । सिंहो
विद्येश्वरसदाशिवशक्तिशिवात्मकपञ्चाननश्चित्स्फारः, तस्य चर्म
चरितम्, गजस्य च विततविततस्य मायात्मन उक्तस्वरूपसिंहनिर्भेद्यस्य
चर्म चरितं विलसितं स्वस्वरूपसंलग्नत्वात् परीधानं
बोधाभेदात्मकस्वस्वरूपोपरि परिवर्तमानं यस्य, देवं
क्रीडादिशीलम्, नीलकण्ठम् अख्यात्यात्मकमहाविषहरम्, सुतेजसं
चिदानन्दघनम् । एवमादि च भैरवानुकरणस्तोत्रेऽस्माभिवीतत्य
दशीतम् ॥ ९३ ॥
अस्य भगवतो वक्त्रध्यानमाह —-
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ॥ २-९४ ॥
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् ।
दक्षिणं तु विजानीयाद् वामं चैव विचिन्तयेत् ॥ २-९५ ॥
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् ।
चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् ॥ २-९६ ॥
वक्त्राणां दिग्रूपवैचित्र्यं तत्तदनुग्रहादिकृत्यवैचित्र्यात् ॥ ९६ ॥
एवमीदृशम् —-
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥ २-९७ ॥
युक्तात्मा एकचित्तः, सिद्ध्यति भुक्तिमुक्ती लभते । यथा पूर्वं
वाचकस्य सकृदुच्चारात् सर्वकिल्विषनाशित्वमुक्तम् तथा वाच्यस्यापि
ध्यानमात्रात् सर्वसिद्धिप्रदशीत्वमुक्तम्, इति महाप्रभावतास्योच्यते ॥
९७ ॥
परं न्यासमाह —-
ततः परमबीजेन परं परमकारणम् ।
सुशान्तं निष्कलं देवं सर्वव्यापि निरञ्जनम् ॥ २-९८ ॥
आवाहयेत् सुहृष्टात्मा तव देवि वदाम्यहम् ।
परं निरतिशयम्, सुहृष्टात्मा इति शाम्भवपदसमावेशं प्रति
उत्कण्ठातिशयात्, आवाहयेत् द्वादशान्तादवतारयेत्,
परशक्त्यवष्टम्भेन तत्स्वरूपमुन्मज्ज्य हृत्पर्यन्तं
तच्चमत्कारसारं कुर्वीतेत्यर्थः ॥ ९९ ॥
कीदृशम् —-
हृत्कण्ठतालुभ्रूमध्यनादान्तान्तसमाश्रितम् ॥ २-९९ ॥
निष्कम्पं कारणातीतम्…
नादान्तः शक्त्यन्तः, तस्यान्तः पर्यन्तो द्वादशान्तः, तेन
हृदादिद्वादशान्तं युगपद्व्याप्नुवन्तं निष्कम्पं स्वरूपादचलितम् ॥
एवम् —-
…आवाह्य परमेश्वरम् ।
संस्थाप्य विधिवद् देवमङ्गषट्कं ततो न्यसेत् ॥ २-१०० ॥
“उत्तानौ तु करौ कृत्वा अङ्गुष्ठौ तलमध्यगौ ।
आवाहनी त्वियम्… ॥”
इति आवाहनमुद्रया आवाहनम् ।
“बद्धाङ्गुष्ठौ स्थितौ मुष्टी उन्मुखौ स्थापनी भवेत् ।”
इति मुद्रया स्थापनम् ॥
अथ —-
पाद्यमाचमनं चार्घं स्वागतं तदनन्तरम् ।
सन्निधानं च देवेशि…
कल्पयेदिति शेषः । पादार्थमुदकं पाद्यम् । सुशोभनम्
अस्मदनुग्रहपरमागमनमस्त्विति स्वागतम्, योनिमुद्रया सन्निधानम् ॥
एवं कृत्वा
…णिष्ठुरया निरोधयेत् ॥ २-१०१ ॥
निष्ठुरा मुद्रा, तया निरोधयेत् अविचलं स्थापयेत् । सा तु —-
“अङ्गुष्ठगर्भगौ मुष्टी… । " इति ।
“…णिष्ठुरा तन्निरोधने । " इत्युक्ता ॥ १०१ ॥
ततः —-
गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेत् ।
सर्वमेतन्मानसं कुर्यात् ॥
अथ सन्निधानार्थं मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि
॥ १०२ ॥
मुदं हर्षं राति ददाति, परभैरवचैतन्यद्रविणं मुद्रयति,
परावेशेन मोदयति भक्तान्, द्रावयति पाशान् इति वा निरुक्तां
परस्वरूपप्रतिबिम्बरूपां मुद्रां वक्ष्यमाणाम् अष्टादशविधाम् ।
“एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् ।
आवाहने निरोधे च तथैव च विसर्जने ॥” (१४ । २०)
इति वक्ष्यमाणत्रैकाल्यकर्मणि । त्रिधेति —-
“मनोजा गुरुवक्त्रस्था वाग्भवा मन्त्रसम्भवा ।
देहोद्भवाङ्गविक्षेपैर्मुद्रेयं त्रिविधा स्मृता ॥”
इत्याम्नायनिदीष्टा ॥ १०२ ॥
विस्तरेणान्तर्यागं वक्तुमाह —-
ततः स्नादादिकं कर्म कृत्वा चैव वरानने ।
परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥ २-१०३ ॥
विलिप्यागुरुकर्पूरैर्मुकुटाद्यैवीभूषयेत् ।
विलिप्य परिधाप्य भूषयेदिति क्रमः ॥
पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत् पुनः ॥ २-१०४ ॥
अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत् ।
प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् ॥ २-१०५ ॥
अर्घं विशेषार्घम् । प्रणम्य इति समावेशेन तन्मयीभावमाश्रित्य ॥
१०५ ॥
ततो ह्याभरणं बाह्ये विनिवेश्य वरानने ।
परमेश्वरशक्तिरूपं तदभेदेन न्यस्तमपि वक्त्राङ्गादि
पुनस्तदिच्छयैव तदाभासितत्वात् प्रभापुञ्जवत् पृथगिव आवरणतया
स्थितं विनिवेश्यम् । एवं चाभिदधदेवं शिक्षयति यत् —- विश्वं
ग्राह्यग्राहकाभिमतं शिवरूपमपि शिवेन तथाभासितत्वात् पृथगिव
लक्ष्यते, न तु वास्तवमस्य पृथक्त्वं कदाचित् ॥
आवरणन्यासे विभागमाह —-
एशान्यां पूर्वतो याम्यां उत्तराप्यावसानकम् ॥ २-१०६ ॥
विन्यसेत् पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च ।
बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥ २-१०७ ॥
ध्यातव्यानि स्वरूपाणि वराभयकराणि तु ।
एकैकस्याः शक्तेः पञ्चशक्तिरूपत्वात् पञ्चवक्त्ररूपत्वमेकैकस्य
च शाक्तस्फारात्मकस्वरूपतो भेदेनाभासितत्वात्, तथापि च
मन्त्रनाडीसन्धानाभ्यां तदभेदसारत्वात् पृथगपि एषां
पूजनमुक्तम् । स्वं स्फटिकाभत्वादि पूर्वोक्तं रूपं येषां तानि
स्वरूपाणि । वराभयकरत्वं
खड्गखेटकपाशाङ्कुशशरपिनाकमुण्डखट्वाङ्गोपलक्षणपरम् ।
मन्त्राणां परपरापरापररूपत्वात् परादीनां च प्रत्येकं
त्रैविध्यान्महासामान्यरूपव्याप्तत्वाच्च दशरूपता, इति
तद्व्याप्तत्वाच्च दशबाहुत्वम् ॥ १०७ ॥
वक्त्रावरणानुषक्तान्यङ्गान्याह —-
अग्नीशरक्षोवायव्यचतुदीक्षु च तं न्यसेत् ॥ २-१०८ ॥
हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः ।
अग्नीशरक्षोवायव्यदिक्षु यथासङ्ख्यं हृच्छिरःशिखावर्माणि
अस्त्रं च चतुदीक्कम् इति विभागः । सकलाङ्गान्येव पृथगावरणतया
पूज्यानि न तु निष्कलाङ्गानि, तेषां सर्वज्ञताद्येकरूपाणां
निष्कलैकरूपत्वात् ॥ १०८ ॥
एषां रूपमाह —-
हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् ॥ २-१०९ ॥
तडिद्वलयसङ्काशां शिखां देका विचिन्तयेत् ।
आधूम्रं कवचं विद्यात् कपिशं चास्त्रमेव च ॥ २-११० ॥
नेत्ररूपस्थाननिर्देशं वक्तुमाह —-
ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम् ।
विन्यसेदित्येव । मध्ये इति कणीकायाम् वक्ष्यति हि —-
ङेत्रं तु कणीकायां वै । " (२-१७१)
इति ॥
एते च —-
पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥ २-१११ ॥
नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः ।
नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥ २-११२ ॥
रत्नमालावनद्धाश्च हारकेयूरभूषिताः ।
एते च —-
द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥ २-११३ ॥
भैरवाद्याः स्मृता मन्त्रा पीठेशाः पीठमर्दकाः ।
भैरवाद्या अङ्गान्ता मन्त्राः, पीठस्य
विद्यामन्त्रमण्डलमुद्रारूपस्य चतुवीधस्य, ईशाः स्वामिनः,
स्वात्मसात्करणेन मर्दकाश्च । ये तु
पीठक्षेत्रसन्दोहादिपल्लीपरमेतद्व्याचक्षते तेऽस्मिन्नन्तर्यागे
देवतान्यासस्य मध्येऽप्येवं कल्पयन्त उपहास्या एव ॥ ११३ ॥
अथ —-
या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥ २-११४ ॥
भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत् ।
तस्या ध्यानमाह —-
यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥ २-११५ ॥
तथा च —-
ईषत्करालवदनां गम्भीरविपुलस्वनाम् ।
प्रसन्नास्यां सदा ध्यायेद् भैरका विस्मितेक्षणाम् ॥ २-११६ ॥
करालत्वं भैरवानुकारतः पाशभक्षणात्, गम्भीरविपुलस्वनत्वं
विमर्शप्राधान्यात्, प्रसन्नास्यत्वं परभैरवानुरूप्येण
अनुग्रहप्रवणत्वात्, अत एव भैरवमुद्रानुप्रवेशादेव विस्मितेक्षणत्वम्
॥ ११६ ॥
ततः —-
द्वितीयावरणे देवि विन्यसेद् भैरवाष्टकम् ।
द्वितीयशब्देन अङ्गवक्त्राणि एकमेवावरणं समव्याप्तिकत्वाद्
भगवद्देहारम्भकत्वाच्च, इति दर्शयति ॥
कथं न्यसेदित्याह —-
कपालीशं तु पूर्वायामाग्नेय्यां शिखिवाहनम् ॥ २-११७ ॥
दक्षिणे क्रोधराजं तु विकरालं तु नैरृते ।
मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥ २-११८ ॥
वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे ।
विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥ २-११९ ॥
अष्टावपि —-
पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः ।
कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥ २-१२० ॥
एषां दिक्क्रमेण ध्यानमाह —-
पूर्वं पीतं स्मृतं देवि रक्तमाग्नेयगोचरे ।
दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् ॥ २-१२१ ॥
श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे ।
चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् ॥ २-१२२ ॥
अथ —-
तृतीये चैव लोकेशान् सास्त्रान् सम्परिकल्पयेत् ।
नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥ २-१२३ ॥
इन्द्राग्नियमनिरृतिवरुणाश्च समीरणः ।
सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥ २-१२४ ॥
शास्त्रान् इति वदन्नस्त्रावरणं न पृथङ्न्यास्यम् इति निरूपयति,
तृतीये इत्यभिधानाच्च ॥ १२४ ॥
ते च —-
भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने ।
परभैरवशक्तिपुञ्जात्मकभैरवाष्टकप्रसररूपत्वात् पूर्वं
पीतम् इत्याद्युक्तभैरवाष्टकरूपेणैव चिन्त्याः ॥
एवमेतदस्त्राण्यपि भैरवास्त्रव्याप्तिसाराणि यागरक्षापराणि नामत
उद्दिशति —-
वज्रं शक्तिस्तथा दण्डः खड्गपाशस्तथैव च ॥ २-१२५ ॥
ध्वजो गदा त्रिशूलं च लोकपालायुधानि वै ।
ध्यानमाह —-
वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् ॥ २-१२६ ॥
दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम् ।
किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् ॥ २-१२७ ॥
गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम् ।
एतानि चैषां करस्थानि ध्येयानि ॥ २-१२७ ॥
अथ —-
सम्पूज्यावरणं सर्वं सन्धानं मन्त्रनायके ॥ २-१२८ ॥
कर्तव्यमित्यनुषज्यते ॥ १२८ ॥
कथमित्याकाङ्क्षायाम् —-
अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ।
पञ्च ब्रह्माण्यथाङ्गानि एतान्यावरणानि तु ॥ २-१२९ ॥
क्रमेणोच्चारयेत् सर्वं यावत्तद्गर्भमैश्वरम् ।
अस्त्राणीत्यादिस्तृतीयपटलोक्तः प्रकारोऽनुसन्धेयः । इदं चात्र
पूजासतत्त्वम् —-
“उल्लङ्ध्याखिलमध्वजालममलां चिन्मूतीमाश्रित्य ता
मुन्मुज्जद्बहुरूपमूतीमभितः श्रित्वा धिया वाथ ताम् ।
उद्योगादिचतुष्कलद्युतिमहातत्त्वात्मिकां तन्मयी भाव्याशेषमिहार्पयेत
मनसा विश्वं परार्चापरः ॥”
इति ॥ १२९ ॥
अनन्तरम् —-
मूलमन्त्रेण कर्त्तव्यं नाडीसन्धानमेव च ॥ २-१३० ॥
अत्रापि —-
“आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् ।
कलशस्थस्य वामेन रेचयेत् पूरयेत्ततः ॥
मण्डलस्थस्य सव्येन पुनर्वामेन रेचयेत् ।” (४-४६-४७)
इति चतुर्थपटलनिरूपयिष्यमाणस्थित्या निष्कलनाथमुच्चारयेत्,
स्ववामेन निर्गत्य भैरवदक्षिणेन विशेत्, ततः क्रमेण
वक्त्राङ्गभैरवलोकपालान्तमेवमेव च कुर्वीत इति मूलमन्त्रेण
नाडीसन्धानम् । एवं ह्युपसंहारप्रसरक्रमाभ्यां सर्वं
देवताचक्रं भगवत्परभैरवमयमेव जायते । ये तु
तृतीयचतुर्थपटलग्रन्थमेतत् परामृश्य
मन्त्रसन्धाननाडीसन्धाने अन्यथा चान्यथा व्याचक्षते ते भ्रान्ता
एव, “अनागतावेक्षणं तन्त्रयुक्तिः” इति हि वाक्यविदां निश्चयः ॥ १३०
॥
अथ —-
परान्तं यावदाभाव्य नैवेद्यानि निवेदयेत् ।
परान्तं यावदाभाव्य इत्यनेन परमीकरणं कृत्वा नैवेद्यानि
निवेदयेत्, इत्यादिशति । वक्ष्यति हि तृतीये पटले —-
“मन्त्रसन्धानमेतद्धि… । "
इत्युक्त्वा
“…परमीकरणं शृणु ।
उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुप्तान्वितम् ॥
तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् ।” (३-२०-२१)
इत्यादि यावत्,
शर्वेष्वावरणेष्वेव देवि तद्व्यापकं न्यसेत् ।
तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः ॥” (३-२४)
इत्येवमीदृशेषु स्थानेषु पूर्वापरं विमृश्य अनुसन्धेयम् । अथ च
परान्तं यावदाभाव्य षट्त्रिंशत्तत्त्वमयत्वेन ध्यात्वा, नैवेद्यानि
निवेदयेत् ब्रह्मार्पणदृष्ट्या भगवति अर्पयेत्, निवेदयेत् शिवमयानि
जानीयादित्यर्थः ॥
मानसानि नैवेद्यानि उद्दिशति —-
घारिकां वटकाÁश्चैव शष्कुलीर्मोदकांस्तथा ॥ २-१३१ ॥
खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च ।
शाल्योदनं मुद्गसूपमाज्याक्तं सम्प्रकल्पयेत् ॥ २-१३२ ॥
कौशल्यां मण्डजापूपांस्तथा क्षौद्रशिरांसि च ।
घृताक्ताÁश्चिल्लकांश्चैव लवणं परिकल्पयेत् ॥ २-१३३ ॥
अवदंशान्यनेकानि कटूनि मधुराणि च ।
रसालां च दधि क्षीरमासवं विविधं तथा ॥ २-१३४ ॥
मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च ।
अग्रमापूरयेच्छम्भोवीत्तशाठ्यविवजीतः ॥ २-१३५ ॥
“यद्यत्किञ्चिन्मानसाह्लादि सर्वं तत्तद्युक्त्यैवानुसन्धाय पूर्वम् ।
विश्वाभेदाद्भैरवैकात्म तस्मिन् स्वस्मिन् सर्वं धाम्नि लीनं विदध्यात्
॥”
इति नैवेद्यरहस्यम् । वित्तशाठ्यविवजीत इति बाह्ययागे योज्यम्, नहि
मानसे यागे कृपणत्वं भवति कस्यचित् ॥ १३५ ॥
एवं कृत्वा भगवद्रूपस्य स्वात्मनः परमानन्दनिर्भरत्वमनुसन्धातुम्
पाश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया ॥
सुराया आनन्दहेतुत्वादेवमुक्तम् । ये तु
जात्युद्धारपरभैरवरूपत्वोन्मीलकेऽप्यस्मिन् भैरवनये सुराशब्दं
जलवाचिनमपि व्याचक्षते, ते जातिग्रहग्रस्ताः
“मद्यं मांसं तथा मत्स्यानन्यानि च वरानने ।
साचारांश्च निराचारांल्लिङ्गिनो न जुगुप्सयेत् ॥” (५-४८)
इति भाविसमयोल्लङ्घिनः पशव एव ॥
एवं च कृत्वा —-
मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि ॥ २-१३६ ॥
“त्रैकाल्यकर्मणि” इत्यनुवादः । व्याकृतं चैतत् प्राक् ॥ १३६ ॥
प्रणिपातं ततः कृत्वा जपं पश्चात् समाचरेत् ।
वासनामात्रशेषस्यापि देहादेश्चिदात्मनि परभैरवे समावेशः
प्रणिपातः, अन्यथा अन्तर्बहिश्च भैरवीभावे कृते कः कुत्र
कं प्रणिपतेत् । जपोऽत्र भूयोभूयः परभैरवस्वरूपे विमर्शः ॥
कथमित्याह —-
अक्षमालां तु सङ्गृह्य गन्धैः पुष्पैः समचीताम् ॥ २-१३७ ॥
वाङ्निरुद्धः सुचित्तात्मा राजीवासनसंस्थितः ।
मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् ॥ २-१३८ ॥
उन्मील्याक्षाणि सञ्चिन्त्य ततस्तु जपमारभेत् ।
समचीतामिति “ॐ अक्षमालायै नमः” इतिप्रयोगेण ।
राजीवासनसंस्थित इत्यनेन वक्ष्यमाणदिव्यकरणाधिरूढत्वं
लक्ष्यते । अत एव पश्यन्त्यादिरूपा वाक् निरुद्धा मन्त्रामर्शमयीकृता
येन, अत एव शोभनमविचालि चित्तं यस्य तादृगात्मा यस्य, मूलमन्त्रम्
इति सकलं निष्कलं वा, सम्यगिति अक्षराक्षरसन्तानम् इति क्रमेण,
उच्चार्य ऊर्ध्वं चारयित्वा नाद इति ।
ङास्योच्चारयिता कश्चित्” (०-५९)?
इति वक्ष्यमाणनित्योदितस्फुरत्तात्मनि लीनं तन्मयीभूतं विशेषेण
तदनुप्रवेशात्मना चिन्तयेत् । कथम् ? अक्षाणि इन्द्रियाणि, उन्मील्य
ऊर्ध्वं मीलितानि कृत्वा, सञ्चिन्त्य मन्त्रदेवतां सम्यगात्मैक्येन
चिन्तयित्वा, चिन्तयन्नेव जपमारभेत भूयोभूयो मन्त्रं विमृशेत् ।
उक्तं च —-
“भूयोभूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥”
इति श्रीवैज्ञानभैरवे (१४५ श्लो०) ॥ १३८ ॥
अत्र च —-
अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् ॥ २-१३९ ॥
जपः प्राणसमः कार्यः…
अक्षरादक्षरं सन्तानः प्रसरणं यत्र । तेन बीजाक्षराणां
ह्रस्वदीर्घादि मात्राः मालामन्त्राणामक्षराणि
चिच्छक्त्यात्ममन्त्रदेवतास्रगुम्भितानि विमृशेत् । यथोक्तम् —-
“मन्त्रं मणिवदालम्ब्य प्रभावन्मन्त्रदेवताम् ।
जपध्यानादिकं कुर्यान्न ताटस्थ्येन कुत्रचित् ॥”
इति । न द्रुतम् इति ग्रस्तक्रमविधिं परिहृत्येत्यर्थः । न विलम्बितम्
इति मध्ये मध्येऽत्यनुसन्धिशून्यमिति यावत् । “प्राणसमः” इति
मध्यवाहिना प्राणेनोल्लासप्रवेशात्मना समो मध्यवाही प्राणो
यथान्तर्मान्त्रं परामर्शं सहत इत्यर्थः । तेन मालामन्त्रान्
प्राणशक्तावंशांशिकात्वात्मक्रमेण क्रमात्क्रममधिकं
नियोजयंस्तावदभ्यसेत्, यावत् समस्तमालामन्त्रपरामर्शं
प्राणशक्तिरन्तः क्षमते । तथा सति हि
कलाग्रासात्मकसंवित्सतत्त्वासादनं भवति । चतुष्कलप्रणवादीनि तु
पिण्डाक्षराणि पञ्चप्रणवाधिकारवक्ष्यमाणव्याप्त्यनुसन्धानेनैव
मध्यमप्राणसाम्येन उच्चारयन् जपेत् । उक्तं च —-
ङ पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् । " इति ॥ १३९ ॥
एवमितिकर्तव्यतामुक्त्वा फलभेदं निरूपयति —-
…डिनस्थो मुक्तिकाङ्क्षिभिः ।
हृदयाद् द्वादशान्तं प्राणवाहः दिनम्, तत्र तिष्ठति, इति
निर्गर्भमपानवृत्त्या प्रविश्य मन्त्रगर्भमूर्ध्वं प्राणान्ते
विश्रान्तिपरो जपेदिति यावत् ॥
संहारः स तु विज्ञेयः…
समस्ताशेषसंहारात् ॥
अत एव —-
…शिवधामफलप्रदः ॥ २-१४० ॥
साधकाभिप्रायेण तु —-
व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते ।
शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥ २-१४१ ॥
सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया ।
व्योम्नि द्वादशान्ते, नाद इति तच्छेषीभूतो मन्त्रो निवर्तते इति
द्वादशान्तावस्थितिलब्धोन्मेषवशादपानक्रमेणान्तवीशेत् ।
सृष्टिरिति आप्यायकरत्वात्, सर्वेषामुत्तमादिसिद्धिफलानामुदयो यस्याम्
। तेनैवं साधकैनीर्गर्भमेव प्राणवृत्त्या मुक्तिप्रत्यूहपरिहाराय
मुण्डान्तमाश्रित्य तत उन्मिषदपानशक्त्याश्रयेण हृत्प्राप्तिपर्यन्तं
जपः कार्यः, उभयाथीना तु उभयथापि, इत्यर्थान्मन्तव्यम् । इत्थं
चास्य मन्त्रस्य अशुद्धतत्त्वसंहारशुद्धतत्त्वसृष्टिकारितया
मुक्तिभुक्तिप्रदमेकमेव पूर्णं वीर्यम्, आराधकाशयभेदात्तु
पृथग्विभज्य उपदिष्टम् ॥ १४१ ॥
एवं च कुर्वता —-
आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥ २-१४२ ॥
तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत् ।
सर्वदशासु परभैरवचैतन्यरूपमात्मानं भावयतो विमृशतो
विशेषेण घ्नन्ति मुक्तिसिद्धिप्राप्तीः, इति विघ्नाः पाशाः
प्रतिबन्धकाश्च नश्यन्ति, अत एव जपो भुक्तिमुक्तिभ्यां सफलो
भवेदेषां यथाभिप्रायम् ॥ १४२ ॥
जप्त्वा निवेदयेद् देवि भैरवाय वरानने ॥ २-१४३ ॥
पूरकेण प्रयोगेण…
हृदि स्थिताय भैरवाय द्वादशान्तात् प्रवेशरूपेण पूरकप्रयोगेण
मुमुक्षुस्तु फलानभिसन्धिसम्बन्धिना “भगवन् जपमेवंसङ्ख्याकं
गृहाण” इति निवेदयेत् ॥ १४३ ॥
कीदृशम् —-
…ट्रिस्थं च त्रितयान्वितम् ।
त्रिसिद्धिसिद्धिदं देवि…
त्रिषु उल्लासप्रवेशोभयात्मकेषु पदेषु तिष्ठति, इति यः (सः
त्रिस्थः), तथा वाङ्मनःप्राणात्मकेन त्रितयेनान्वितं युक्तम्,
उत्तममध्यमाधमभेदात्त्रिरूपा या सिद्धिः साधकेभ्यः, तथा
सिद्धिरेतद्विलक्षणा मुमुक्षोर्मुक्तिरूपा, तामुक्तवक्ष्यमाणयुक्त्या
ददाति यः । त्रिसिद्धिरिति सिद्धिश्चेति योजयित्वा व्याख्येयम् ॥
किं च —-
…षरहस्यमुदाहृतम् ॥ २-१४४ ॥
योजनिकायां पञ्चप्रणवाधिकारे च वक्ष्यमाणनीत्या
मुमुक्षुबुभुक्षूणामूर्ध्वं द्वादशान्तमाहृतं प्रापितम्,
ऊर्ध्वाच्चाहृतं हृदयान्तं प्रापितं सरहस्यं कैश्चिदेव
विकसितमध्यमार्र्गैर्लभ्यमित्यर्थः ॥ १४४ ॥
सिद्धिवैशिष्ट्येनास्य साधकं प्रति विशेषं वक्तुमाह —-
शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः ।
सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः ॥ २-१४५ ॥
एतद् व्याचष्टे —-
आत्मा न शृणुते यं तु मानसोऽसौ प्रकीतीतः ।
आत्मना श्रूयते यस्तु तमुपाÁशुं विजानते ॥ २-१४६ ॥
परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ।
मानसो मध्यमायां वाचि उपांशुसशब्दौ तु सूक्ष्मस्थूलप्रयत्नायां
वैखर्याम् । त्रयस्यास्य भोगहेतुत्वमन्यत्राप्युक्तम् —-
“मध्यमो भोगमोक्षाख्य उपांशुः सिद्धिदायकः ।
वाचिको भूतविषजित् सशब्दश्चाभिचारिकः ॥”
इति ।
एवं वदन् पश्यन्तीपरावाग्भ्यां मुक्तौ जीवन्मुक्तौ च जपः कार्यः,
इति सूचयति । उक्तं च —-
“जीवन्मुक्तौ परो ज्ञेयो मुक्तौ मुद्रितभेदकः । "
इति ॥ १४६ ॥
जपोपयोगिनीमक्षमालां निदर्शयति —-
अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥ २-१४७ ॥
रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः ।
स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥ २-१४८ ॥
एताश्च —-
दशाक्षमाला देवेशि गृहस्थानां प्रकीतीताः ।
अष्टाभिरुत्कृष्टेन अधिकेन शतेन । एवकारेण अधिकसङ्ख्याया
व्युदासः, सप्तविंशतिचतुष्पञ्चाशत्सङ्ख्याया अपि भावात् ॥
यथाक्रमम् —-
सूत्रं ध्यात्वा परां शक्तिमध्वभागांस्ततो मणीन् ॥ २-१४९ ॥
व्यक्तिस्थानं शिवस्याध्वा ततस्तस्तद्धमीणीं स्मरेत् ।
सप्तविंशतिभिः कुर्याद् द्विगुणैर्वा चतुर्गुणैः ॥ २-१५० ॥
समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे ।
न तं विलङ्घयेद् विद्वान् सृष्टिसंहारकारणम् ॥ २-१५१ ॥
अत्र च नवानाम् अष्टादशानां वा षट्त्रिंशतो वा तत्त्वानां
तत्त्वदीक्षायामिह मृत्युञ्जयादौ गणितानां
परशक्तिशिवात्मकस्थूलसूक्ष्मपरभेदत्रैविध्यादेवंसङ्ख्याकत्वमेव
भवति, इति तत्र व्याप्तिरस्ति ॥ १५१ ॥
नैष्ठिकानामाह —-
वीरस्थानरतानां हि वीराणां वरवणीनि ।
महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् ॥ २-१५२ ॥
वीरस्थानं श्मशानादि, महाशङ्खं नरास्थि, वीरा निष्कम्पाः ॥
१५२ ॥
एतत्तु —-
गृहस्थेन न कर्तव्यमुद्वेगजननं परम् ।
यत एवम् —-
तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥ २-१५३ ॥
साधकोत्तमैर्गृहस्थैः ॥ १५३ ॥
सा हि —-
साधयेद्विविधान् कामानधमान् मध्यमोत्तमान् ।
विविधसिद्धिखगतिविद्यातत्त्वाद्याप्तिरूपान् । मुमुक्षोस्तु
दशविधाक्षमाला उक्तैव ॥
उपसंहरति —-
एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥ २-१५४ ॥
सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ।
सह बाह्याभ्यन्तराभ्यां देहपुर्यष्टकभैरवत्वापादनाभ्यां
वर्तते यो याग एक एव, न तु करयोर्देहे अन्तश्च अन्यान्यरूपो
भैरवैक्यस्यैव प्राप्यत्वेन उपदेक्ष्यमाणत्वादिति । सबाह्याभ्यन्तरम
इत्यैक्येन य उपसंहृतो यागश्चिद्भैरवेऽशेषविश्वार्पणात्मा,तं
कृत्वा हृद्यागप्रतिबिम्बकरूपं च बाह्ययागम् अभिसन्धाय, इत्यपि च
सबाह्याभ्यन्तरं कृत्वा इत्यस्यार्थः । पश्चादिति जपानन्तरम् —-
महाशून्यालये वह्नौ भूताक्षविषयादिकम् ।
हूयते मनसा सार्धं स होमः स्रुक् च चेतना ॥ (१४९)
इति श्रीविज्ञानभैरवोक्तनीत्या द्वादशान्ते मन्त्रस्मरणपूर्वङ्कं
विश्वभावार्पणरूपं होमं विधाय अन्तर्यागप्रतिबिम्बरूपं
यजनमारभेत बाह्यमित्यर्थः ॥ १५४ ॥
आत्ममन्त्रार्घपात्रमण्डलभैरवकुसुमादिद्रव्याणां
कर्तृकरणापादानाधिकरण सम्प्रदानकर्मकारकरूपाणां
ब्रह्मार्पणदृष्ट्या
परमाद्वैतापादनरूपबाह्यपूजनाभ्यासपरिनिष्ठया
सर्वव्यवहारेषु सर्वकारकाणां चिद्भैरवैक्यं प्रत्यभिज्ञाप्यते,
इति यद् बहिर्यागसतत्त्वं तत्प्रस्तावनाय
कर्तृकरणसंस्कारात्मकान्तर्यागानन्तरं
कर्मादिसंस्काराधायकापाद नादिसंस्कारार्थमर्घपात्रविधिं
तावदाह —-
तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥ २-१५५ ॥
शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा ।
पद्मपत्रपलाशोत्थं गृहीत्वाऽऽक्षाल्य वारिणा ॥ २-१५६ ॥
अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः ।
मृष्टधूपेन सन्धूप्य वारिणा पूरयेत्ततः ॥ २-१५७ ॥
वस्त्रपूतेन शुद्धेन…
अर्घपात्रं रक्षाधाम । तत्र इत्यन्तर्यागाद्भैरवीभावे जाते सति ।
आदाविति कुसुमादिसंस्कारार्थम् । सौवर्णादि मुमुक्षोर्यथासम्भवम् ।
शम्बूकः सामुद्रः प्राणिविशेषः । पलाशो यज्ञियस्तरुः ।
आक्षालनं भेदशल्यापनयनम् । आपूरणम् अशेषविश्वमयीभावानाम्
॥ १५७ ॥
ततः —-
…टाडयेदस्त्रमुच्चरन् ।
वर्मावगुण्ठितं कृत्वा…
अत्रानुक्तमप्यनेन मन्त्रेणाप्यायनममृतमुद्रया कार्यम् ॥
अनन्तरम् —-
…यागं तत्रैव विन्यसेत् ॥ २-१५८ ॥
इज्यत इति याग मन्त्रगणः । अनेनैव चात्र पूजनमपि सूचितम् ॥ १५८ ॥
कथम् —-
पूर्वोक्तेन विधानेन…
अन्तर्यागोक्तासनादिपूर्वं
स्फुरत्तेजोरूपसकलमन्त्रैकादशिकानिष्कलतदङ्गन्यासयुक्त्येत्यर्थः ॥
ततोऽपि —-
…प्रोक्ष्यस्तेन समासतः ।
यागार्थो द्रव्यसङ्घातः…
परावृत्त्यवष्टम्भेनावलोक्येति शेषः । प्रोक्षणम् अत्र
तेजोमयत्वापादनम् ।
ततः पुष्पादिभिः शिरसि चिद्भैरवं पूजयित्वा —-
…टतो यजनमारभेत् ॥ २-१५९ ॥
अत्र भूमिकां रचयति —-
शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम् ।
सकलव्यापिकां सूक्ष्मां शिवाधारातु सर्वगाम् ॥ २-१६० ॥
ओङ्कारदीपितां देका नमस्कारावसानिकाम् ।
शिव आधार आश्रयो यस्यास्तां प्रथमोन्मेषरूपां
विन्यसनीयाशेषासनादिभित्तिभूताम्, चिन्मात्रमूतीत्वेन व्योमाकाराम्
अनुपाधिज्ञत्वरूपस्फुरत्तया सुजाज्वलाम्, गर्भीकृताशेषविश्वतया
सकलव्यापिकाम्, सर्वैरलक्ष्यत्वात् सूक्ष्माम्, आधारमासनपक्षम्
आधेयं च शिवं प्राप्यावस्थितत्वात् सर्वगां देका
विश्वक्रीडादिप्रदशीनीं पारमेश्वरीं शक्तिमाधाररूपां
परिकल्पनीयस्य अशेषस्य तदुत्थत्वेन शिवमयत्वमनुसन्धातुम्
उक्तवक्ष्यमाणव्याप्तिकेन ओङ्कारेण परभैरवरूपेणोत्तेजिताम् “ॐ
आधारशक्त्यै नमः” इति प्रयोगेण न्यस्य उत्तरं विधिमारभेतेत्यर्थः
। एष च शक्तिन्यासः पूर्वत्र अन्तर्यागादावपि स्मर्तव्यः ॥ १६० ॥
अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥ २-१६१ ॥
वैराग्यं च तथैश्वर्यमाग्नेय्यादिक्रमेण तु ।
अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् ॥ २-१६२ ॥
सन्धानकीलकांश्चैव अधश्छादनमूर्ध्वगम् ।
पद्मं सकेसरं देवि कणीकां पुष्कराणि च ॥ २-१६३ ॥
मण्डलत्रितयं देवान् शक्तिञ्चापि शिवान्तकम् ।
मूतीं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् ॥ २-१६४ ॥
भैरवाष्टकविद्याङ्गलोचनं क्षुरिकां तथा ।
शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् ॥ २-१६५ ॥
विन्यस्य भावयेद् देवि सततं विधिपूर्वकम् ।
विधिपूर्वकमिति पूर्वोक्तध्यानादियुक्त्येत्यर्थः । यदिहानुक्तं
तत्पूर्वतोऽनुसन्धेयम्, यच्च पूर्वत्र नोक्तं
तदितोऽनुसन्धेयमधिकारभेदेनान्तर्बहिर्यागयोः
पर्यायेण प्रकृतिविकृतिरूपत्वात्, सर्वं चैतत् पूर्वं निर्णीतम् ॥ १६५
॥
निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥ २-१६६ ॥
स्वागतं चार्घ्यपाद्यं च सन्निधानं तथैव च ।
रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् ॥ २-१६७ ॥
पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः ।
मुद्रां प्रदर्शयेत् पश्चात् त्रिधा त्रैकाल्यकर्मणि ॥ २-१६८ ॥
तत आवरणं बाह्ये विनिवेश्यं वरानने ।
ईशपूर्वयाम्यसौम्यवरुणान्तं प्रकल्पयेत् ॥ २-१६९ ॥
वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम् ।
आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥ २-१७० ॥
उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा ।
नेत्रं तु कणीकायां वै पूर्वस्यां दिशि संस्थितम् ॥ २-१७१ ॥
एतदपि पूर्वमेव व्याख्यातम् । प्रहृष्टेनान्तरात्मना इति भैरवाशेष
(वेश)मयेनेत्यर्थः । अत्र पूर्वं श्रीमदघोरेश्वरीन्यासः स्मर्तव्यः
। सामीरैन्द्रदिशोरपि उत्तरान्तम् इत्यत्रैन्द्रदिश उत्तरान्तं
चतुदीक्कमस्त्रं कल्पयेदिति योज्यम् । यथोक्तं पूर्वम् —-
“अग्नीशरक्षोवायव्यचतुदीक्षु च तं न्यसेत्” (२-१०८)
इत्यादि ॥ १७१ ॥
सर्वत्र व्यापकं विधिमाह —-
स्वमन्त्रेण तु सर्वेषामर्घ्यं पाद्यं समाहितः ।
दद्यादिति शेषः ॥
समाहितत्वं स्फुटयति —-
मन्त्रसङ्करपुष्पाणि न कुर्यात् साधकः सदा ॥ २-१७२ ॥
न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत् ।
परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत् क्वचित् ॥ २-१७३ ॥
मन्त्राणां सङ्करो यत्र तादृंशि पुष्पाणि न कुर्यात्,
नान्यमन्त्रेणान्यमर्चयेदित्यर्थः । तदित्येवं
कृते सति साधकः परसिद्धिपात्रं भवतीत्यर्थः ॥ १७३ ॥
एवं च —-
स्वमुद्रामन्त्रसंयुक्तान् युगपत् परिकल्पयेत् ।
ध्यानपूजादौ स्वमुद्राभिश्च मन्त्रैश्च संयुक्तान् देवान् परिकल्पयेत् ।
येषां विशिष्टमुद्रा नोक्तास्तेषाम् —-
“कपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत्” (१४-२०)
इति भाविनं विधिं स्मरेत् ॥
पूजा सुविपुला कार्या इत्युक्तम्, असम्भवद्वित्तस्तु किं कुर्यात् ?
इदित्याह —-
अर्घ्यं पाद्यं च धूपं च नित्यं तावत् समाचरेत् ॥ २-१७४ ॥
सर्वेषामेव मन्त्राणां विधिरेष प्रकीतीतः ।
वित्तशाठ्यवर्जं नित्यं पूजयेत्, सर्वथा वित्ताभावे
तूक्तशाम्बूकादिनापि वा मनसैवापि पूजयेदित्यर्थः ॥ १७४ ॥
एवमसम्भवद्वित्तविषयामर्घ्यपाद्यपुष्पादिसम्पाद्यां पूजां
प्रसङ्गादुक्त्वा प्रकृतमनुबध्नाति —-
भैरवाष्टकलोकेशान् सास्त्रान् सम्परिकल्पयेत् ॥ २-१७५ ॥
अथ —-
बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम् ।
पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥ २-१७६ ॥
आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम् ।
श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥ २-१७७ ॥
चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः ।
अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥ २-१७८ ॥
एकपादं तथा सौम्ये आग्नेय्यां त्रिपुरान्तकम् ।
नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् ॥ २-१७९ ॥
एशान्यां भीमवक्रं तु श्मशानेशाः प्रकीतीताः ।
एते च
श्रीकामरूपोज्जयिनीकाश्मीरकाञ्चीकरवीरदेवीकोट्टोड्डयानहिरण्य
पुरवासिनः, इत्याम्नायादेतदाधारपीठादिपूजाऽर्थसिद्धैव । अत्र
श्मशानैः सकबन्धैरित्यादि सर्वश्मशानसाधारणम् ।
इत्थम्भूतलक्षणे चैतास्तृतीयाः ॥ १७९ ॥
एतांश्च —-
तर्पयेन्मत्स्यमांसाद्यैरासवैवीविधैस्तथा ॥ २-१८० ॥
गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत् ।
श्मशानानि हृद्यागे नोक्तानि मा भूद् देहशोष इति, एवमुग्रत्वादादौ
मत्स्यादिभिस्तर्पणं ततः पूजा, एतानि यतिविषयाण्येव । अत्र च
पक्षे लोकपालास्त्रावरणे पृथक्कार्ये, यथा च पञ्चावरणा पूजा
भवति ॥ १८० ॥
अत्र च —-
प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥ २-१८१ ॥
रेचकेन प्रयोगेन निवेद्य विधिपूर्वकम् ।
हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् ॥ २-१८२ ॥
अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः ।
मन्त्रमिति मूलमङ्गसहितम्, रेचकेन विधिपूर्वकम् इति
द्वादशान्तारोहतद्विश्रान्तितदवरोहपूर्वं नासाग्रेण जप्तं मन्त्रं
शपुष्पं भगवञ्जपं गृहाण” इति प्रयोगेणार्पयेत् ।
भक्तिवैवश्योन्मिषन्नादामर्शमयो ध्वनिर्मुखवाद्यापरपर्यायो
हुडुङ्कारः ॥ १८२ ॥
कुण्डसंस्कारानाह —-
कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥ २-१८३ ॥
कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेत् ।
उद्धृत्य प्रोक्षयेत् पश्चादस्त्रमन्त्रेण भामिनि ॥ २-१८४ ॥
पूरणं तेन कर्तव्यं समीकरणमेव च ।
सेचनं कुट्टनं चैव लेपनं तेन कारयेत् ॥ २-१८५ ॥
प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत् ।
लक्षणोपेतं प्रतिष्ठाशास्त्रादिनिरूपितमानस्वरूपम् ।
परदृगवलोकनानन्तरं प्रोक्षणं शुद्ध्यर्थमवगुण्ठनं
रक्षार्थम् इति सर्वत्रानुमन्तव्यम्, प्रोक्षणविशेषात् सन्ताडनं
तेनैव सङ्गृहीतम् । एते च प्रोक्षणादयः शोषणान्तास्त्रयोदश
कुण्डनिष्पत्त्यवसरे निष्पन्नेऽपि वा तत्र
क्रियाशक्त्यात्मपरमेश्वररूपसम्पत्तये भावनया कर्तव्याः । उल्लिखेत्
खनेत् । उद्धरणम् अशुद्धमृदपासनम् सम्मार्जनं रजोनिवारणम् ॥ १८५
॥
अनन्तरम् —-
पूजनं गन्धपुष्पाद्यैः…
“ॐक्रियाशक्त्यात्मने कुण्डाय नमः” इति प्रयोगेण ।
अथात्र वागीश्वर्यवतारयोग्यतां
कर्तुमस्त्रेणाभिमन्त्रणवज्रीकरणगृहीकरणानि वक्तुमाह —-
…ऽसिना चाभिमन्त्रणम् ॥ २-१८६ ॥
वज्रीकरणमस्त्रेण…
तदेव व्याचष्टे —-
…ॠएखाः पूर्वापरास्त्रयः ।
याम्यसौम्यमुखी चैका वज्रमेतत् प्रकीतीतम् ॥ २-१८७ ॥
त्रय इति लिङ्गव्यत्ययात्, उल्लेखनव्यापारेणैतत्कार्यम् । यद्वा
पूर्वापरायतदर्भत्रयमध्ये दक्षिणोत्तरायतं दर्भकाण्डमेकं
क्षिप्त्वा वज्रसंस्थानेन कुण्डस्य दाढर्यं जनयेत् ॥ १८७ ॥
किं च —-
असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः ।
सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥ २-१८८ ॥
निवीघ्नं गृहं सम्पादयितुम् ॥ १८८ ॥
अथ वागीश्या महत्तरकस्यासनं निरूपयति —-
कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम् ।
दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् ॥ २-१८९ ॥
कुण्डान्तर्दक्षिणे गोमयासनोपरि दार्भं विष्टरं तदुपरि पुष्पं
ॐ ब्रह्मासनाय नमः इति दद्यात् ॥ १८९ ॥
एतदुपरि महत्तरमाह —-
स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम् ।
आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् ॥ २-१९० ॥
पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमम् ।
अत्र च ॐ ब्रह्मन् सन्निहितो भव नमस्ते” इति प्रयोगः ॥ १९० ॥
अत्र गृहमध्यलाभार्थमाह —-
चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥ २-१९१ ॥
पूर्वसौम्याग्रभागाभ्यां विष्टरं तस्य चोपरि ।
पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् ॥ २-१९२ ॥
वागीशीं च समाहूय प्रणवादिनमोन्तगाम् ।
हृदयेन नैष्कलेन, वागीशस्येयं वागीशी पराशक्तिः,
आह्वानामन्त्रणविभक्त्या पश्चाद् नमस्ते इति सर्वत्र प्रयोगः ॥ १९२ ॥
अस्या ध्यानपूर्वां पूजामाह —-
नीलोत्पलदलश्यामामृतुमच्चारुलोचनाम् ॥ २-१९३ ॥
सर्वलक्षणसम्पूर्णां सर्वावयवभूषिताम् ।
ध्यात्वा चैवंविधां देका स्थापयेत् कुण्डमध्यतः ॥ २-१९४ ॥
ऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम् ।
पूजयेद् गन्धपुष्पाद्यैर्भवमन्त्रमनुस्मरन् ॥ २-१९५ ॥
देका द्योतमानां वाक्शक्तिम्, कुण्डस्य क्रियाशक्त्यात्मनो मध्ये,
स्थापयेद् अवस्थितिं बन्धयेत् । उत्तानाम् ऊर्ध्वधाम्नि
प्रसारात्मकतननरूपाम्, अत एव चारु लोचनं प्रकाशो यस्याः ।
नीलोत्पलश्यामलत्वं तु मायीयरूपापेक्षमस्याः । ऋतुकालः
शुद्धविद्यात्मवह्न्यादिजननौन्मुख्यम्, शिरसा परारूपेण, एशाने
स्वातन्त्र्यभट्टारके, संस्थितां नित्यसम्बद्धामीशानदिशि
निष्ठशिरसं च । किं कुर्वन्, भवति तेन तेन
सकलब्रह्मभङ्ग्यादिरूपेण भवो निष्कलभट्टारकस्तस्य
मन्त्रमनुस्मरन् तत्सत्तासमाविष्टः ॥ १९५ ॥
किं च —-
ततो मुद्रां दर्शयेत सन्निधानाय मन्त्रवित् ।
मुद्रां योन्याख्याम् ॥
ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेत् ॥ २-१९६ ॥
कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत् ।
अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥ २-१९७ ॥
अग्निमित्युत्तरस्थं काकाक्षिवदिहापि सम्बन्ध्यम् ॥ १९७ ॥
अथ —-
अग्निं तु शुक्रवद् ध्यात्वा चैतन्यं प्रणवेन तु ।
कल्पयेदस्येति शेषः । नासापथेनाग्निं प्रवेश्य स्वचैतन्यैकीकारं
नीत्वा रेचयेदिति गुरवः ॥
ततोऽपि —-
षडङ्गेनैव सम्पूज्यं अमृतत्वं ध्रुवेण तु ॥ २-१९८ ॥
ध्रुवेण इति परचैतल्यमन्त्रेण श्रीनिष्कलेन षडङ्गेनैव
परामृतापादनरूपं पूजनमस्य कुर्यादित्यर्थः ॥ १९८ ॥
अथ —-
आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत् ।
ध्रुवेण कुण्डबाह्ये तु त्रिधा भ्राम्यावतारयेत् ॥ २-१९९ ॥
योनौ तु बीजवत् क्षिप्त्वा भैरवेण शिवाम्भसा ।
अस्त्रमुच्चार्य सम्प्रोक्ष्य योनिं प्रच्छादयेद् बुधः ॥ २-२०० ॥
दर्भेण ध्रुवमन्त्रेण…
त्रिधा भ्राम्य इति योन्याकारसम्पुटगृहीतं पात्रं
सव्यापसव्यक्रमेण त्रिधा योनिक्षोभार्थमाभ्राम्य अवतारयेद् योनिं
प्रापयेत् । भैरवेण तु श्रीनिष्कलेन । ध्रुवमन्त्रेण इति प्रणवेन
तदुच्चमेखलासंस्थैः प्रागग्रैरुदगग्रैर्हुतभुग्वेश्मनो
दर्भैरक्षवाटं । प्रकल्पयेत् । श्रीमन्त्रराजे इत्थमूर्ध्वमुखैः इति
चोपकल्पितमुपेक्ष्यम् । बुद्धः शिवसमावेशैकशाली । आत्मनो
हेतुकर्तृत्वं शिवस्य तु मुख्यकर्तृत्वम् इत्यादिव्याख्यानमसत्,
शिवीभूतस्यैव शिवयागेऽधिकृतत्वात् कैवात्र पशुभावशङ्का ?
पशुत्वे वा कथं मोचकता ? “मन्त्राः करणभूतास्तु पशुकार्यस्य
साधने ।
आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥” (३-१६०)
इत्यादिना च वक्ष्यमाणेन का सङ्गतिः ? इरित्यास्तामेतत् । अयं तत्र
रहस्यार्थोऽद्याप्यनुन्मुद्रितोऽस्मद्गुरुवक्त्रपारम्पर्यायातः प्रकाश्यते
परावाङ्माहेशी जगदजनयत् स्वाप्रथनतो
विशुद्धान्तर्धामा विकृतिकलनाग्रस्तविभवम् ।
श्रितज्येष्ठास्फारात्तनिततनुरेषा तदुचितं
शिशुं दृष्ट्या रौद्र्या प्रथयति शिवाभेदसरसम् ॥
अतः पूर्णाहन्तामृतरससमास्वादसुहितः
शिवावेशाद्वाचं शिवरसपरौन्सुख्यमुभगाम् ।
स्ववीर्येणाक्रम्य प्रवरगुरुरग्न्यादि निखिलं
शिवैकात्मस्वात्मद्युतिमयमयं सञ्जनयति ॥
इति ॥ २०० ॥
किं च —-
…ऽक्षवाटं ततो न्यसेत् ।
अस्त्रेणैव चतुदीक्षु दर्भैरेव प्रकल्पयेत् ॥ २-२०१ ॥
देव्या गुप्त्यर्थमक्षवाटं जवनिकास्थानीयं
रक्षार्थमूर्ध्वमुखैर्दर्भैर्न्यसेत् ॥ २०१ ॥
अथान्तर्वत्न्या देव्याः —-
सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम् ।
दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् ॥ २-२०२ ॥
रक्षार्थमग्निगर्भस्य…
“ॐ कङ्कणं बध्नामि नमः” इत्यूहमन्त्रोऽत्र । एवं सर्वत्र
कर्मौचित्येनोहमन्त्राः कर्तव्याः । दक्षहस्ते पुङ्गर्भार्थं
कङ्कणबन्धः ॥ २०२ ॥
एवं प्रोक्षणावगुण्ठनोल्लेखनोद्धरणप्रोक्षणादि-
शोषणान्तैस्त्रयोदशभिः संस्कारैः कुण्डं संस्कृत्य सम्पूज्य,
अस्त्राभिमन्त्रणवज्रीकरणकुण्डाच्छादनात्मसंस्कारत्रयं
गृहहेत्वर्थं कृत्वा, ब्रह्मण आसनावाहनपूजनानि विधाय,
गृहमध्यलाभाय चतुष्पथं कृत्वा,
वागीस्यावाहनासनपूजनशुक्रध्यानचैतन्यापादन (अमृती)
करणविशेषध्यानत्रिराभ्रमणयोनिप्रक्षेपान् नव संस्कारान्
प्रकल्प्य, पुनर्वागीश्याः प्रोक्षणयोनिप्रच्छादनाक्षवाट-
कल्पनकङ्कणबन्धांश्चतुःसंस्कारान् विधाय,
अग्नेर्दीक्षादिकर्मसम्पत्तिसमर्थं मान्त्रं देहं सम्पादयितुं
वक्त्राङ्गक्रमाद्गर्भाधानादिसंस्कारानाह —-
…गर्भाधानमतो भवेत् ।
अपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥ २-२०३ ॥
हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत् ।
प्रणवपूर्वं पश्चिमवक्त्रबीजं लकारमुच्चार्य “गर्भाधानं करोमि
स्वाहा” इति त्रिः कृत्वा हृदयेन नैष्कलेन “गर्भाधानं सम्पद्यतां
स्वाहा” इति त्रिर्जुहुयात् एवमुत्तरत्रानुसन्धेयम् । अत्र “पूजनं हृदयेन
तु” इति मध्यग्रन्थः पूर्वं योज्यः, तेनादावाङ्गमन्त्रेणाहुतित्रयम्,
उत्तरत्र ईदृश एव क्रमस्य भावात् ॥ २०३ ॥
पुंसवनमाह —-
हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् ॥ २-२०४ ॥
गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः ।
त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् ॥ २-२०५ ॥
पंसः कल्पनमेव हि न स्त्रीगर्भे तु जन्यते ।
जलबिन्दुं पुर्यष्टकरूपं जीवमभिसन्धातुं “पुमान् भव नमः”
इत्यन्तेन प्रयोगेण अत्रेत्याहिते गर्भे क्षिपेत् । शिखया नैष्कल्या,
उत्तरेणेति वकारेण । पुंस्त्वमुपचयः कार्ये शक्तत्वम्, अपचयः
स्त्रीत्वम् ॥ २०५ ॥
अथ —-
सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् ॥ २-२०६ ॥
ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत् ।
प्रत्यङ्गानि च सङ्कल्प्य सीमन्तोन्नयनं भवेत् ॥ २-२०७ ॥
पुर्यष्टकोपरि स्थूलदेहप्रविभागमात्रमिह सीमन्तः । दक्षिणास्यम्
अघोरवक्त्रमन्त्रः, प्रत्यङ्गानि करोदरचरणाङ्गुल्यादीनि ॥ २०७ ॥
अत्र च —-
गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात् ।
पूर्वमध्यापरान् वह्नौ त्रीन् भागान् परिकल्पयेत् ॥ २-२०८ ॥
मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम् ।
पूजेति कार्या, शिरसेति काकाक्षिवत् । आहुतित्रयाद्धोमादित्त्येकवाक्यता
। तच्चैतद्भागत्रयं शिवविद्यानराख्यतत्त्वत्रयरूपम् । मुखेन
मूर्धा, पादाभ्यां गुह्यमाक्षिप्तमित्येषैवात्र दण्डभङ्गिः ॥ २०८
॥
प्रत्यङ्गानीति यदुक्तं तद्विभक्तुं कवाटक्त्रादि न्य
सितुङ्कवाटन्यासं तावदाह —-
शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥ २-२०९ ॥
कल्पयेदिति शेषः । शिरांसि कवाटानि, ऊर्ध्वास्येन क्षकारेण । अत्र
च सुतारिण्याद्याः प्राग्वत् कला अनुसन्धेयाः ॥ २०९ ॥
अथैतदनूद्य वक्त्रकलाभिर्वक्त्रकल्पनामाह —-
पञ्चवक्त्रं तु सङ्कल्प्य मध्यप्राग्याम्यसौम्यकम् ।
अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसङ्ख्यया ॥ २-२१० ॥
वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसङ्ख्यया ।
“पञ्चमं यद् भवेद्वक्त्रं क्षकारेणैव” (१-४९)
इति पूर्वमुक्तत्वाद् आदौ मध्यममूर्ध्ववक्त्रं क्षकारेण
शान्त्यतीतानुसन्धानेन प्रकल्प्य, पश्चात् पूर्वास्येन यकारेण
वक्त्रचतुष्टयं शान्त्यादिकलानुसन्धिना प्रत्येकं तिसृभिराहुतिभिः
कल्प्यम्, मध्येत्यादावुक्तत्वाद् आदौ मध्यमवक्त्रन्यासः । एतच्च
सर्वत्रानुसन्धेयम् ॥ २१० ॥
किं च —-
नेत्रं नेत्रेण सङ्कल्प्य मुखेष्वेवं त्रयं त्रयम् ॥ २-२११ ॥
आहुतित्रितयेनैव…
नेत्रेण सकलनेत्रमन्त्रेण ॥ २११ ॥
एतच्च —-
…टिलैः सर्वं तु कारयेत् ।
सर्वमित्यग्निसंस्कारजातम्, आज्यं तु निष्पन्नस्य शिवाग्नेस्तर्पणाय,
निष्पत्तिश्चास्य भैरवरूपस्यैवेति ॥
ततः कलासमूहं च पञ्च चाथ चतुष्टयम् ॥ २-२१२ ॥
सीमन्तोन्नयनमध्य एव
तद्वक्त्रकलादिन्यासस्तन्त्रान्तरवैलक्षण्येनेहोक्तः ॥ २१२ ॥
एवमीशानपुरुषकलाभिः प्रत्यङ्गन्यासमुक्त्वा अघोरकलाभिराह —-
अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात् ।
शेषास्यैः सम्प्रकल्प्यैवं कलामूतीस्ततो भवेत् ॥ २-२१३ ॥
अङ्गानि “हृदि ग्रीवा” (स्व० तम्० १ । ५०) इत्यादिप्रागुक्तानि । एवमिति
प्रत्यङ्गम्, तत्तत्कलानुसन्धिनाहुतित्रयेण । कला मूतीर्यस्येति
बहुव्रीहिः ॥ २१३ ॥
अथात्रैव —-
अङ्गानि विन्यसेत् पश्चाद् हृदाद्यानि यथाक्रमम् ।
नेत्रस्योक्तत्वात् तद्वजीतानि सकलाङ्गानि तन्मन्त्रैर्न्यसेत् । एवं
“प्रत्यङ्गानि सङ्कल्प्य” इति यदुक्तम्, तदेव पूर्वमध्येत्यादिना
श्लोकषट्केन विभक्तम् ॥
एवमेतत्सर्वं कृत्वा —-
त्रिराहुतिं दक्षिणेन…
दक्षिणवक्त्रमन्त्रेण शीमन्तोन्नयनं करोमि” इत्यन्तेन दद्यात् ॥
अथ —-
…शिरसा चाहुतित्रयम् ॥ २-२१४ ॥
चकारोऽनेनैवादौ पूजां कुर्यात्, इति प्रस्तावपूरणं ध्वनति । यत्तु
“गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात्” (२ । २०८)
इति पूर्वोक्तम्, तद्भागत्रयकल्पनया त्रितत्त्वकल्पनार्थम् ॥ २१४ ॥
उपसंहरति —-
सीमान्तोन्नयनं ह्येवं…
एवं विभक्तावयवस्याग्नेः
…जातकर्म त्वथोच्यते ।
अस्त्रेण वीजयेदग्निमस्त्रेणैव तु पूजयेत् ॥ २-२१५ ॥
त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम् ।
एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् ॥ २-२१६ ॥
वीजनं प्रसवाभिमुखीकरणम्, पूर्वेण “य"कारेण ॥ २१६ ॥
एवं गर्भाधानसीमन्तोन्नयनजातकर्माणि कृत्वा —-
अस्त्रेण प्रोक्षयेत् कुण्ड सद्यः सूतकशुद्धये ।
आपादितशिवभावोऽपि दीक्षादिसम्पत्त्यर्थं यतोऽग्निः शरीरं
ग्राहितस्ततश्चिदात्मनो देहग्रहः सूतकरूपः
सर्वाशुद्धिप्रथमाङ्कुरः शोध्य एव ॥
जातस्याग्नेः —-
वक्त्राण्युद्घाटयेत् पश्चाद्वक्त्रेणैवाहुतित्रयात् ।
उद्घाटनं विकासः ।
यथा —-
वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥ २-२१७ ॥
प्रतिवक्त्रं स्वमन्त्रेण परामृश्य “शोधयामि” इत्यूहान्तेऽस्त्रमुच्चार्य
त्रिर्जुहुयात् ॥ २१७ ॥
तथा —-
वक्त्राभिधारौ वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम् ।
वक्त्रेष्वभिधारो दीप्तिः । त्रयं त्रयमिति आहुतीनां दद्यादिति
शेषः ॥
वह्नेः संरक्षणार्थं दिक्षु देवतान्यासं प्रस्तोतुमाह —-
प्रोक्षयेत् कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥ २-२१८ ॥
दर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान् ।
सौम्याग्रान् पूर्ववारुण्योः परिधीन् विष्टरांस्तथा ॥ २-२१९ ॥
हस्तमात्राः शाखाः परिधयः । समध्यग्रन्थि दार्भमासनं
विष्टरः ।
एवं क्रमात्क्रममन्तर्दर्भपरिधिविष्टराः —-
अस्त्रमन्त्रेण ते सर्वे…
न्यसनीयाः ।
तत्र —-
…ब्रह्माणं पूर्वविष्टरे ।
रुद्रं च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥ २-२२० ॥
सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितम् ।
आदौ ध्रुवं स्मरेद् देवि नमश्चान्ते प्रकल्पयेत् ॥ २-२२१ ॥
गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत् ।
स्पष्टम् ।
ततोऽप्यन्तः —-
मेखलोपरि लोकेशान् पूजयेत् प्रणवेन तु ॥ २-२२२ ॥
एवं च —-
रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये ।
ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् ॥ २-२२३ ॥
पुष्पं सङ्गृह्य देवेन शिवाग्नेर्नाम कल्पयेत् ।
गर्भस्य जातत्वाद्रक्षान्तरस्य च विहितत्वाद् गर्भरक्षाया अधिकारो
निवृत्त इति कङ्कणमोक्षः । देवेन मूलमन्त्रेण सप्रणवेन
“शिवाग्निर्भव नमः” इति नामकल्पनम् ॥ २२३ ॥
अथ —-
कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥ २-२२४ ॥
कवचेन नैष्कलेन “शिवाग्नये नमः” इत्यन्तेन उपचारं पूजां कुर्यात्
॥ २२४ ॥
अत्र —-
ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः ।
प्राग्वदूहमन्त्रेण दद्यात् । एवं
सूतकशुद्धिवक्त्रोद्घाटनवक्त्रशुद्धिवक्त्राभिघारविष्टरादिन्यास-
देवतास्थापनतदर्चनकङ्कणमोक्षणान्यष्टौ अवान्तरसंस्कारान्
कृत्वा नामकरणाख्यः पश्चिमः संस्कारः कृतः ॥
अथ —-
शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥ २-२२५ ॥
विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु ।
पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥ २-२२६ ॥
तुश्चार्थे भिन्नक्रमः । तेन सुरान् ब्रह्मादीन् सरस्वतीं च
प्रणवादिस्वनामभिरभ्यर्च्य प्रत्येकमाहुतित्रयेण सन्तर्प्य
“क्षम्यताम्” इत्युक्त्वा विसर्जयेत् ॥ २२६ ॥
अथ —-
धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः ।
चतुवीशतिसङ्ख्याताः शिवाग्नेस्तर्पणाय तु ॥ २-२२७ ॥
धाम्ना निष्कलेन । इध्मा अस्फुटिता ऋज्व्यः सत्वचः शखाः ॥ २२७ ॥
एवं तिलैः संस्कारानुक्त्वा आज्यकार्यान् संस्कारान्
प्रस्तोतुमाज्यप्रक्षेपकरणस्रुक्स्रुवसंस्कारार्थमाह —-
स्रुक्स्रुवौ सम्प्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेत् ।
कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत् त्रिधा ॥ २-२२८ ॥
अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेत् ।
पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥ २-२२९ ॥
दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेत् ।
शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् ॥ २-२३० ॥
स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ ।
दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः ॥ २-२३१ ॥
मार्जनं प्रोक्षणमेव, तापनं काष्ठादिभावनिवारणाय । यथोक्तम्
“…टापयेत्तेजसि त्रिधा ।
सञ्जातौ तेन सन्तप्तौ काष्ठभावपराङ्मुखौ ॥”
इति ॥
सृष्टिक्रमेणात्र दर्भस्याग्रमध्यमूलैस्तदग्रमध्यमूलस्पर्शेन
त्रिर्भ्रमणेन च इच्छादिशक्तित्रयमयत्वमनयोर्जायते ।
स्रुक्स्रुवाभ्यामिति स्रुक्स्रुवयोरित्यर्थः । संस्कारद्वादशकानन्तरं
पूज्यावधोमुखाविति सृष्ट्युन्मुखत्वाभिप्रायेण । अग्नेर्दक्षिणे
होतुर्वामे, इति दीप्त्याप्यायनाभ्यामनयोर्युगपत्
सम्बन्धेनाग्नीषोममयत्वापत्तिः ॥ २३१ ॥
अथ —-
आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकम् ।
अधिश्रयणं सम्प्रोक्षिते पात्रे प्रस्रुतस्य स्थापनम् ।
क्वचिदधिस्रवणमिति पाठः । तत्राधिकरणभाण्डे
तापनमित्ययमर्थः ॥
आदिशब्दसूचितान् संस्कारानाह —-
आज्यं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् ॥ २-२३२ ॥
शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु ।
कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् ॥ २-२३३ ॥
योनिसंस्थं चाज्यपात्रं…
तापनं दीप्त्यर्थमाग्नेय्यां दिशि । उद्वासनमग्नेरूर्ध्वधारर्णं
दीप्तेः स्फुटतार्थम् ॥ २३३ ॥
किं च —-
…उत्प्लवं सम्प्लवं ततः ।
तस्याज्यस्योत्प्लवं च कुर्यादिति शेषः ॥
केनेत्याह —-
दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् ॥ २-२३४ ॥
पवित्रमेतद्विहितमुत्प्लवं तेन सम्प्लवम् ।
प्रसारिताङ्गुष्ठतर्जनीमानं प्रादेशः ॥ २३४ ॥
कथमित्याह —-
अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत् पवित्रकम् ॥ २-२३५ ॥
पराङ्मुखं तु त्रीन् वारान् सम्मुखं त्रींस्तथैव च ।
अस्त्रेणैव तु मन्त्रेण…
असारभागापनयनायोत्प्लवं साराहरणाय सम्प्लवम् ॥
किं च —-
…ऽवद्योतः शिवाग्निना ॥ २-२३६ ॥
अस्त्रेणेत्येव कार्य इति शेषः ॥ २३६ ॥
तं व्याचष्टे —-
दर्भोल्मुकं तु सङ्गृह्य आज्यपात्रं निरीक्षयेत् ।
तेन प्रकाशयेत् । अत्र चावसरे स्वनेत्रतेजोनिरीक्षणेन परतेजोमयं
चाज्यं कुर्यादित्यर्थः ॥
नीराजनं ततः कुर्यात्…
निःशेषेण राजनं च ज्वलितेन दर्भेण सर्वतो भ्रामितेन
दीपनमस्त्रेणैव ।
…पर्यग्निकरणं ततः ॥ २-२३७ ॥
कथम् —-
धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् ।
धाम्ना मूलेन सह परितः समन्तादग्निकरणं तेजोमयत्वापत्तिः ॥
ततः —-
धाम्नैव विधिना मन्त्री प्रोक्षयेदस्रवारिणा ॥ २-२३८ ॥
विधिः शिवाभेदाभिसन्धिः ॥ २३८ ॥
किं च —-
अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु ।
निष्कलेन साङ्गेनाभिमन्त्रणमेवममृतत्वममृतमुद्रया ॥
एवमाज्यप्रोक्षणावगुण्ठनतापनोद्वासनभ्रामणोत्प्लवसम्प्लवावद्योत
ननीराजनपर्यग्निकरणप्रोक्षणामृताख्यसंस्कारान् द्वादश कृत्वा -
सकृदुच्चारयोगेन पूजयेद् भैरवेण तु ॥ २-२३९ ॥
निष्कलेन ॥ २३९ ॥
एवं कर्त्रपादानकरणाधिकरणकर्मणां
यष्ट्रर्घपात्रस्रुगादिस्थण्डिलाग्न्याज्यादीनां संस्कारैः
सम्प्रदानात्मकभैरवदेवतैक्यापादनं कृत्वा तदेव
द्रढयितुमग्निवक्त्राणां भैरववक्त्रमन्त्रैरभिसन्धिमाह —-
वक्त्रसन्धानकं वक्त्रैराहुतित्रितयेन तु ।
एतद्व्याचष्टे —-
अपरास्येन तद्वक्त्रसन्धानं तु समाचरेत् ॥ २-२४० ॥
एवं सौम्यस्य वक्त्रस्य सन्धानं तु कृतं भवेत् ।
त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥ २-२४१ ॥
पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितम् ।
त्रिराहुतिप्रयोगेण वक्त्रसन्धिः प्रकीतीतः ॥ २-२४२ ॥
अपरास्येनेति तन्मन्त्रेण, तद्वक्त्रसन्धानमिति तेनैवापरवक्त्रेण
सन्धानमिति अर्थादुत्तरवक्त्रबीजनामभ्यां विस्पष्टस्य उत्तरस्य ।
यदाह —- एवं सौम्यस्य वक्त्रस्य सन्धानं तु कृतं भवेदिति ।
अतश्च “ॐलं सद्योजातवक्त्रेण ॐवं वामदेवक्त्रमनुसन्दधे स्वाहा”
इति
प्रयोगः । एवम् “ॐवं वामदेववक्त्रेण ॐरं अघोरवक्त्रमनुसन्दधे
स्वाहा” इति प्रयोगः । एवमन्यत् । शिवान्वितमितीइशानविश्रान्तिसारम् ।
अत्र प्रतिवक्त्रानुसन्धिं त्रिस्तिलैर्जुहुयात्, न त्वाज्येन,
तत्संस्काराणामसमाप्तत्वात् । पश्चिमप्रमुखमूर्ध्वे विश्रान्तिः
कार्या ॥ २४२ ॥
मुमुक्षून् प्रति अस्यैव प्राधान्यादित्याह —-
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु ।
अथ कर्मौचित्यानुगुण्येन यन्मुख्यं वक्त्रं तदूर्ध्वं स्मर्तव्यम्,
इत्यत्राप्यर्थेऽनुसन्धिमुक्त्वा प्रसङ्गाद्वक्त्रभेदेन होममाह —-
मुक्तिकामस्य दीक्षायामूर्ध्ववक्त्रस्य मुख्यता ॥ २४३ ॥
एतन्नैमित्तिकविषये ॥ २४३ ॥
काम्ये तु विभागेनाह —-
पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः ।
सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् ॥ २-२४४ ॥
विविधा इति उत्तममध्यमाधमाः । होमयेदिति होमेन साधयेत् ॥ २४४ ॥
मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा ।
दक्षिणे चैव वक्त्रे तु होमात् सिद्धिः परा भवेत् ॥ २-२४५ ॥
शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च ।
सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत् सदा ॥ २-२४६ ॥
आकर्षणं परचित्तादेः ॥ २४६ ॥
नित्यविषयमप्याह —-
पश्चिमे नित्यकर्माणि…
सर्वैः कार्याणि, तस्य विधिपूर्वकत्वात् ॥
स एष —-
…विनियोगः प्रकीतीतः ।
एवं च यो यत्र वक्त्रे कर्म कर्तुं वाञ्छति, स तदूर्ध्वे न्यसेत्,
ऊर्ध्वं तु तत्स्थाने । यद्वक्ष्यति —-
“…येन यत्कर्म वाञ्छितम् ।
तन्मुख्यवक्त्रं सङ्कल्प्य … ॥” (स्व० २-२६४)
इति ॥
एवं प्रस्तुते नित्यकर्मणि —-
आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥ २-२४७ ॥
पश्चिमे सद्योजाते, ऊर्ध्ववक्त्रे ऊर्ध्ववक्त्रस्थाने प्रापित इत्यर्थः ॥
२४७ ॥
एवमस्य भैरवापत्तिपर्यन्तान् संस्कारान् कृत्वा
वह्नेर्भैरववक्त्रानुनुसन्धिना भैरवेणैकतां सम्पूर्य,
इदानीमाज्यवह्न्योः क्रमेण त्रिधामत्वापादनार्थमाह —-
आज्यपात्रस्य मध्ये तु दर्भे वै भैरवेण तु ।
न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥ २-२४८ ॥
तत इति मध्यस्थदर्भद्वयदानाद्वर्त्मनां त्रयाणां मार्गाणां
कल्पना कार्या । दर्भ इति जातावेकवचनम् ॥ २४८ ॥
कथमित्याह —-
उच्चार्य भैरवं पात्रे सम्पातं पात्य वर्त्मना ।
नाडीत्रयेण युगपत् पात्रे भागत्रयं न्यसेत् ॥ २-२४९ ॥
नाडीत्रयरूपेण वर्त्मना मार्गत्रयेण भैरवं निष्कलमुच्चार्य
आज्यगतभागत्रये त्रिष्ठया प्राणशक्त्या इच्छाज्ञानक्रियात्मना
समं पातं विश्रान्तिं कृत्वा वह्निसोमसूर्यात्मकधामत्रयमयं
भागत्रयं न्यसेद् अनुसन्दधीत ॥ २४९ ॥
अत्र विभागः —-
सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत् ।
इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् ॥ २-२५० ॥
एवमाज्यं त्रिधाममयीकृत्य तद्धोमाद्वह्निमपि तन्मयीकर्तुमाह —-
एवं त्रिभागं सङ्कल्प्य स्रुवमापूर्य होमयेत् ।
भैरवेणैव मन्त्रेणाग्नये स्वाहान्तमेव च ॥ २-२५१ ॥
अग्निभागात्तु सङ्गृह्य…
मध्यनाडिस्थं प्रकाशानन्दसारमग्नीषोमात्मकं धाम
पृथक्त्वमाभासयद् वामे सोमतां श्रयति दक्षिणे तु वह्निताम्, तत्र
सोमात्मनो हविषोऽन्तर्वतीनः प्रज्वालकस्याभावान्न न मध्यवद्
भेददाहकात्मत्वम्, इति तत्प्रकाशकत्वमात्रात् सूर्यरूपताप्युच्यते,
उपादानौचित्यात् त्वग्नितापीत्यग्निभागोऽत्र दक्षिणः, अत एवेह
पिङ्गलेत्यग्निनाम्ना दक्षनाडी व्यवहिता । तृतीयपटले तु —-
“पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु ।” (स्व०तम्० ३-२२)
इति,
“पिङ्गला मध्यमा नाडी” (स्व०तम्० ३-१४९)
इति च मध्यनाड्युक्तेति युज्यत एव, इति न कश्चित् पूर्वापरव्याघातोऽस्ति
। ततो विभागोऽत्रदक्षिणकृतनाडीसम्पातानुसारं स्वदक्षिणस्ततो
होमोऽग्नेर्दक्षिणे भागे । एवं वामेऽपि ज्ञेयम् ॥ २५१ ॥
अथ —-
…ष्रुवेणाज्याहुतिं क्षिपेत् ।
सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥ २-२५२ ॥
सप्रणवं निष्कलपूर्वोऽत्र मन्त्रः, इत्यादिकमादिशन्
पूर्वोक्तमनुवदति —-
धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत् ।
क्रियाविशेषणमेतत् ॥
ततोऽपि —-
अग्नीषोमेति सञ्ज्ञे द्वे स्वाहान्ते धाम चादितः ॥ २-२५३ ॥
प्रणवाद्याज्यमध्यात् तु स्रुवमापूर्य होमयेत् ।
शुक्लपक्षे विधिर्ह्येष…
अग्निषोमेत्यत्र अग्नीषोमाभ्यामिति प्रयोगः । अयं शुक्लपक्षे विधिः ।
अन्यत्र तु —-
…कृष्णपक्षेऽन्यथा भवेत् ॥ २५४ ॥
तमाह —-
सोमभागे भवेत् सूर्यो ह्यग्निसञ्ज्ञा तु पूर्ववत् ।
अग्नेः सूर्यस्य मध्याद् (वै) आहुतिं प्रतिपादयेत् ॥ २-२५५ ॥
यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी ।
शुक्लपक्षे सोमस्य पूर्णत्वात् सोमायेत्याहुतिः । कृष्णपक्षे तु
क्षीणस्येन्दोः सूर्यमण्डलाक्रमणात् सूर्यायेत्याहुतिः । मध्ये तु
अग्निसूर्याभ्यामिति । अन्यत्तु पूर्ववत् ॥ २५५ ॥
एवमग्नेरपि त्रिधाममयत्वं सम्पाद्य —-
प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥ २-२५६ ॥
कार्य इति शेषः । अत एव त्रिधाममयीकारादनन्तरं तेन प्रणवं
निष्कलं वक्त्रमन्त्रं चोच्चार्य “अग्नेः प्राशनं करोमि स्वाहा”
इत्यन्तोऽत्र प्रयोगः । प्राशनं च भाविपाशभक्षणाद्यौचित्याधानम्
॥
अन्यानपि संस्कारानेकप्रघट्टकेन शिवाग्नेः
पुष्कलतासम्पत्तिसतत्त्वानाह —-
चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः ।
प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् ॥ २-२५७ ॥
भैरवं तु समुच्चार्य…
आदिशब्दादुपनयनादयो बालस्य ब्रह्मचारिणोऽन्ते ये संस्थिता
उद्वाहादयः । अत्र च “अग्नेः चूडाद्याः सर्वे संस्काराः सन्तु
स्वाहा” इत्यन्तः प्रयोगः । पूर्णायामितिकर्तव्यता भविष्यति ॥ २५७ ॥
एवं कृते सति प्रवृद्धः —-
…शिवाग्निः सर्वसिद्धिदः ।
सर्वेषां समय्यादीनां सर्वाः सिद्धिर्ददातीति तन्त्रेणेत्यर्थः ।
एवं संस्कृताच्छिवाग्नेश्चर्वर्थं पुनः संस्कारं विना
नित्यकर्मार्थं च —-
“श्राप्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते ।
अनाहूते शिवे वह्नौ… ॥”
इत्यन्यत्रोक्तत्वादनाहूतपरमेश्वर एव ॥
अग्निं तु प्रोद्धरेत् पश्चात् पात्रे संस्थाप्य रक्षयेत् ॥ २-२५८ ॥
कवचावगुण्ठितं रक्षितं कुर्यात् ॥ २५८ ॥
अथ —-
कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः ।
प्रणीतं कल्पयेत्तत्र…
विष्टरस्येति रुद्राश्रयस्य ॥
प्रणीतं व्याचष्टे —-
…चमसं वारिपूरितम् ॥ २-२५९ ॥
चमसं दारुपात्रम् ॥ २५९ ॥
तत्र च यज्ञध्वंसनाशिनो विष्णोरासनार्थम् —-
पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत् ।
तस्मिंश्च —-
प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥ २-२६० ॥
आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत् ।
स्वागतासनपाद्यार्घैः…
अत्र प्राग्वत् प्रयोगतः
…टतो विज्ञापयेत्तु तम् ॥ २-२६१ ॥
पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः ।
भगवंस्त्वत्प्रसादेन यागे निश्छिद्रताऽस्तु नः ॥ २-२६२ ॥
पश्वर्थं नैमित्तिके, दीक्षाविधानार्थं नित्ये, भगवन् काम्ये
इति योज्यम् ॥
एवमितिकर्तव्यतां कृत्वा —-
ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत् ।
कथमित्याह —-
स्थण्डिलोक्तविधानेन अनन्तादीन् प्रकल्पयेत् ॥ २-२६३ ॥
अत्र विभागं तावदुक्त्वा कर्मौचित्येनाग्निवक्त्रजिह्वाकल्पनं कर्तुमाह -
ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम् ।
तन्मुख्यवक्त्रं सङ्कल्प्य मुखं कुण्डप्रमाणतः ॥ २-२६४ ॥
भावयेन्नव जिह्वास्तु वक्त्रे वक्त्रे प्रतिष्ठिताः ।
वक्त्राणां गुणमुख्यताकल्पनं पूर्वमेव सुविभक्तम् । मुखमित्यास्यम्
॥ २६४ ॥
जिह्वानां दिग्विभागमाह —-
प्रागाद्यष्टौ मध्य एका…
प्रागादि कृत्वा च एशान्तमष्टौ ॥
तासां च —-
…काम्यार्थे दिग्गतास्तु याः ॥ २-२६५ ॥
याः प्रागादिदिगष्टस्थास्ताः काम्ये कर्मणि इत्यर्थः ॥ २६५ ॥
ताः कर्मचोदितैर्नामभिरुद्दिशति —-
राज्यार्था दाहजननी मृत्युदा शत्रुकारिका ।
वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका ॥ २-२६६ ॥
नवम्याः कर्मोचितं नामाह —-
सर्वसिद्धिप्रदा मध्ये…
यत एवम् —-
…टस्मान्मध्ये तु होमयेत् ।
एवमुद्दिष्टानाम् —-
पूर्णा तु भैरवेणैव जिह्वानां कल्पनाय च ॥ २-२६७ ॥
पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत् ।
एकत्र मूलमन्त्रपूर्वम् “अग्निजिह्वाः कल्पयामि” इति प्रयोगः । अन्यत्र
“जिह्वासन्निधिरस्तु स्वाहा” इति ॥ २६७ ॥
अथ वह्नेः परमसंस्कारकरणपूर्वमनन्तादीन् प्रकल्पयेदिति
यदुपक्षिप्तं तन्निर्वाहयति —-
ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् ॥ २-२६८ ॥
आत्महृत्स्थं तु सङ्कल्प्य योगपीठं तु कल्पयेत् ।
मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् ॥ २-२६९ ॥
नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् ।
वह्निचैतन्यरूपतया कल्पितं भावितं ज्वालाग्रं हृदा हृन्मत्रेण
आगृह्य नासापथेन स्वीकृत्य हृद्गतचैतन्यानलैकीभावेन
भैरवीकृत्य बाह्यवह्नेः सूक्ष्मदेहस्यापि भैरवतां कर्तुं ।
“योगोऽस्य शक्तयः स्वाक्या विस्फूर्जन्ति समन्ततः” । (१-५-५)
इति मतङ्गोक्तनीत्या योगपीठम् अनन्तादिसदाशिवान्तं
शक्तिरूपमासनमस्य कल्पयेत् ॥ २६९ ॥
पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् ॥ २-२७० ॥
अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम् ।
ॐकारेण शिवान्तं च…
गतार्थमेतत् ॥ २७० ॥
ततः —-
…ऽग्निमूतीं प्रकल्पयेत् ॥ २-२७१ ॥
प्राग्वत् हंसाक्षरेणैव ॥ २७१ ॥
ततोऽपि —-
शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत् पुनः ।
रेचकेण क्षिपेद् वह्नौ सा मूतीर्भैरवात्मिका ॥ २-२७२ ॥
ध्रुवेण निष्कलेन, उत्कीलयेत् स्वचैतन्यभैरवेणैकीकृतामुद्धरेत्, ततो
दक्षनासापथेन बाह्यवह्निमूर्तौ क्षिपेत्, एवमेषा मूतीर्भैरवात्मिका
भवति ॥ २७२ ॥
अथ —-
मूतीभूतं प्रकल्प्यैवमष्टात्रिंशत्कलायुतम् ।
शोध्याध्वानं तु विन्यस्येद् दीक्षाकाले वरानने ॥ २-२७३ ॥
अष्टात्रिंशत्कलाः पूर्वोक्ता वक्त्रभङ्ग्याद्युपलक्षणपराः ।
शोध्याध्वानमिति येनाध्वना गुरुर्दीक्षां चिकीर्षति ॥ २७३ ॥
एवं कृत्वा —-
भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा ।
वक्त्रसन्धिश्च वक्त्राभ्यां शिववक्त्राग्निवक्त्रयोः ॥ २-२७४ ॥
शास्त्रदृष्टेनेति यथोक्तावरणान्तं मानसेनार्घादिक्रमेण ।
वक्त्राभ्यामिति बह्वर्थं द्विवचनम्, तेन वक्त्रमन्त्रैरित्यर्थः ।
शिववक्त्रे भैरववक्त्रम्, अत्र च “ॐ लं सद्योजाताख्यभैरववक्त्रं
शिवाग्निवक्त्रेऽनुसन्दधे स्वाहा” इत्यादिक्रमेण वक्त्रसन्धिश्च
पूर्वोक्तवक्त्रसन्धिविलक्षणः कर्तव्यः ॥ २७४ ॥
किं च —-
सन्धाय चैवं जिह्वाभ्यां…
अन्तर्बहिर्वह्निवक्त्राणां परमेशवक्त्रैर्मन्त्रपूर्वं
जिह्वानुसन्धानं कृत्वा
…णाडीसन्धिरतो भवेत् ।
तदाह —-
मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् ॥ २-२७५ ॥
स्थण्डिलस्थशिवालीनमेकार्थं चैव सन्धयेत् ।
अग्निहृदयाद्भावनया मूलमन्त्रमुच्चार्य तद्दक्षिणेन निर्गत्य
स्थण्डिलेशस्य वामेन प्रविश्य दक्षिणेन निर्यायात्, इति क्रमेण
सर्वावरणमन्त्रेष्वनुसन्धाय अग्नेर्वामेन विशेत् एकार्थमित्यभिन्नं
स्वच्छन्दभैरवात्मकं वाच्यदेवतारूपमित्यर्थः ॥ २७५ ॥
एवमनुसन्धाय —-
शुद्धाज्येनाहुतिशतमष्टोत्कृष्टं वरानने ॥ २-२७६ ॥
भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम् ।
भैरवाष्टकलोकेशान् दशमांशेन होमयेत् ॥ २-२७७ ॥
षटित्रशत्तत्त्वानि स्थूलसूक्ष्मपरभेदादष्टोत्तरशतमिति
(व्याप्त्या) (अधिश्रयणादिद्वादश)
संस्कारै१रापादिताशेषविश्वमयत्वेन आज्येन
अष्टोत्तरशतस्रुवहोमाद्भैरवमन्त्रदेवतां तर्पयेत्
अनुग्रहाभिमुखीकुर्यादित्यर्थः । वक्त्रादीनां दशांशत्वेऽभिप्रायो
जपप्रकरणे निर्णीतोऽङ्गवद्देव्या देववदित्यन्ये ॥ २७७ ॥
अथ —-
मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत् ।
सर्वमन्त्रचक्रतर्पणाय ॥
ततोऽपि प्रधानभूतमूलमन्त्रतृप्त्यर्थं द्वितीयां पूर्णां
दद्यादित्याह —-
भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् ॥ २-२७८ ॥
ततोऽपि —-
पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च ।
मूलेन पूर्णां पातयेदिति शेषः । न्यूनातिरिक्तनिवृत्त्यर्थमेव
निश्छिद्रकरणम् ॥
एवं नित्यहोमविधिं निर्वर्त्य —-
पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥ २-२७९ ॥
यथेच्छमिति नैमित्तिकः काम्यो वा ॥ २७९ ॥
अथैवं होमद्रव्यविभागं तत्तत्साधनाभिप्रायतो निदीशति —-
सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः ।
पृथक् तु —-
धान्यैर्धनार्थसिद्ध्यर्थं…
आज्याक्तैरिति सर्वत्रानुषङ्गः । धनमजाविकम्, अर्थो हिरण्यादिकम् ॥
…घृतगुग्गुलहोमतः ॥ २-२८० ॥
जायते विपुला सिद्धिरधमा मध्यमोत्तमा ।
तथा —-
श्वेतारविन्दैराज्याक्तैः…
होमः कार्यः ।
…बिल्वैश्च श्रियमाप्नुयात् ॥ २-२८१ ॥
क्षीराक्ततिलहोमेन शान्तिकर्म वरानने ।
प्रायश्च द्रव्याणि जातभेदेन चतुर्धा स्थितानीति तैर्होमार्हैः ।
सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् ॥ २८२ ॥
मारणं च वरारोहे क्रमेण परिकल्पयेत् ।
किं च —-
कुन्दपुष्पैः सुतार्थाय…
होमो भवति ॥
…ऽशोकैः प्रियसङ्गमः ॥ २-२८३ ॥
जातिकुड्मलकैः कन्या गान्धर्वी बकुलोद्भवैः ।
नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥ २-२८४ ॥
चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु ।
घृताक्तेन वरारोहे समन्त्रो सपुरोहितः ॥ २-२८५ ॥
राज्ञी पुत्रसमोपेता वशं याति वरानने ।
यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥ २-२८६ ॥
सर्वेष्वभिमतेषु तैरित्यनुषङ्गः कार्यः । नागैरिति पुन्नागैः,
सिद्धार्थैः पुष्पविशेषैः । अत्र यैः पुष्पैर्होमस्तत्र तैरेवार्चनं
कार्यम्, फल्गुषमिति नृमांसम् ॥ २८६ ॥
तथा विद्याधरीं कुय्यकैश्च साधयेन्नात्र संशयः । कुय्यकानि
कुटकाख्यानि । नात्र संशय इत्यनेन निश्चितप्रतिपत्तेः कर्म फलदं
भवति, इत्याह, अत एव शिष्यलक्षणे दृढव्रत इत्येतत्साधकविषये
योजितम् ॥
होमे हस्तसंस्थानमाह —-
मृगीं बद्ध्वा तिलैर्होमः…
प्रसृततर्जनीकनिष्ठाङ्गुलिरङ्गुष्ठमध्यमानामासन्दंशात्मा
मृगीबन्धः ॥
…पद्मबिल्वैरधिष्ठितम् ॥ २-२८७ ॥
अखण्डितैः कृत्वा जुहुयादिति शेषः ॥ २८७ ॥
भक्ष्यैर्ग्रासप्रमाणैस्तु धान्यैः प्रसृतिसम्मितैः ।
अत्र च हस्तसन्निवेशो यथोचितमनुमन्तव्यः ॥
उपसंहरति —-
एवं होमानुसारेण साधको विधिसंस्थितः ॥ २-२८८ ॥
पूजाहोमरतो नित्यं यान् यान् कामान् समीहते ।
तांस्तान् स साधयत्येव भैरवस्य वचो यथा ॥ २-२८९ ॥
विधौ शास्त्रनियन्त्रिते कर्मणि सम्यक् स्थितः कामान् काम्यमानानि
फलानि, यथा भैरवस्याज्ञा स ह्यागमात्माज्ञामात्रेणैव सर्वं
सम्पादयति । अथ च यथा येन सत्याभिसन्धिरूपेण भैरवस्य
सर्वशक्तेः, न तु परिमितस्य कस्यचिदिदं वचः, तथा तेन प्रकारेण
आश्वस्तानामेष विधिरनुष्ठीयमानः साधयत्येवाभीष्टमिति शिवम्
॥ २८९ ॥
गुरुचरणसरोजामोदमत्तं मनो मे
यदिह किमपि तत्त्वं व्याकरोच्छैवशास्त्रे ।
विविधविधिरहस्यं स्यात् तदासेव्यमानं
भवहरहरधामावेशि सद्भक्तिभाजाम् ॥ ॥
इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराज-
विरचितोद्द्योताख्यव्याख्योपेतेऽर्चाधिकारो नाम द्वितीयः पटलः ॥ २ ॥