त्वत्तो नैशतमः प्रशाम्यति जगज्जातप्रबोधं सदा
साफल्यं दधते दृशः सदसती सम्यग् व्यवस्थापिते ।
यत्त्वं सूकरघूकचर्मचटकप्रायैस्तु नो मन्यसे
भास्वद्द्योत स दोष एष विषमस्तेषां दृशस्तादृशः ॥ १ ॥
संसाररिपुनिर्माथशूरः शूरसमाश्रयः ।
श्रीरामादिगुरुग्रामस्तथान्तेवासिनोऽपरे ॥ २ ॥
भट्टरक्तिकगर्भेशकेशवाद्या इहार्थनाम् ।
अकार्षुर्मे ततः किञ्चिदिदमुद्योतितं मया ॥ ३ ॥
गतानुगतिकप्रोक्तभेदव्याख्यातमोऽपनुत् ।
पराद्वैतामृतस्फीतो नेत्रोद्योतोऽयमुत्थितः ॥ ४ ॥
अभिनवगुरुवाणीसन्मधूनां सुपूर्णां
परिणतिमसमां स्वां क्षेमराजो विमृश्य ।
विकसितसुमनःश्रीश्रीमदुच्चोत्पलान्तः-
परिमलसरसानां व्याकरोच्छास्त्रमेतत् ॥ ५ ॥
ग्रस्तोऽयं सकलो भवो विगलिताः कर्माणुमायामलाः
प्राप्तानन्दघना स्थितिः किमपरं लब्धः प्रकाशः परः ।
श्रीमन्नेत्रमहेश्वरस्तुतिरसास्वादेन लब्धोदयैर्
अस्माभिर्विमले हृदम्बरतले निर्यन्त्रणं स्फी(स्थी)यते ॥ ६ ॥
यत्तत्प्राहुः प्रथयदखिलं वर्तनीं संविधत्ते
यच्चोल्लेखाद्विलिखदखिलं सूत्रसंस्थाः करोति ।
नेत्रद्वन्द्वं तदिह कलयच्छाङ्करं तच्चिदात्म
ज्योतिर्नेत्रं जयति परमानन्दपूर्णं तृतीयम् ॥ ७ ॥
अ समाप्तोऽयं नेत्रोद्द्योताख्यो ग्रन्थः अ ॥
कृतिर् महामाहेश्वर-श्रीमदभिनवगुप्तपाद-पद्म-परागास्वाद-तत्पर-श्रीक्षेमराजस्येति शिवम् ॥