एकविंशोऽधिकारः
" नेत्रोद्योतः "
जयति स्वपरिस्पन्दानन्दान्दोलनलीलया ।
मन्त्रतत्त्वं त्रितत्त्वात्म तन्त्रयन्नेत्रमैश्वरम् ॥
सर्वमन्त्राश्च इति यदधिकारान्त उपक्षिप्तम्, तन्निर्णयाय
मन्त्रसतत्त्वं तावद् जिज्ञापयिषुः श्रीदेवी उवाच
मन्त्राः किमात्मका देव किंस्वरूपाश्च कीदृशाः ।
किम्प्रभावाः कथं शक्ताः केन वा सम्प्रचोदिताः ॥ २१-१ ॥
क आत्मा येषां शम्भुः, शक्तिरणुर्वा । किं च स्वरूपं निराकृति
साकृति वा येषाम् । किमिव दृश्यन्ते कीदृशाः, निराकाराः कर्तारो न
केऽपि केनचित् दृश्यन्ते, साकारा अपि कुम्भकृद्वन्न सर्वकर्तारो
दृश्यन्ते । कः प्रभावो भुक्तिमुक्तिदोषप्रशमको नित्यो येषाम् । कथं
केन प्रकारेण शक्ताः, यतो निराकारस्य व्योमवत् न शक्तता, अतश्च
तन्मूला अपि कर्तृता कथम् ? आकृतिमत्त्वेऽवच्छिन्नस्य
मलिनस्यास्वातन्त्र्यात् का शक्तिः ? अशरीरस्य च नानुग्रहादौ
कर्तृत्वम्, नापि परमशेवरप्रयोज्यत्वमुपपन्नम् । अत एवानाकृतेः
परमेश्वरस्यापि कथं शक्तत्वं प्रचोदकत्वं चेत्याशयेन केन वा
सम्प्रचोदिता इत्युक्तम्, केन प्रकारेण कर्त्रा चेत्यर्थः ॥ १ ॥
तदेतत् क्रमेण स्फुटयति
शिवात्मकास्तु चेद्देव व्यापकाः शून्यरूपिणः ।
क्रियाकरणहीनत्वात् कथं तेषां हि कर्तृता ॥ २१-२ ॥
अमूर्तत्वात् कथं तेषां कर्तृत्वं चोपपद्यते ।
विग्रहेण विना कार्यं कः करोति वद प्रभो ॥ २१-३ ॥
यदि शिवात्मका मन्त्राः, तदा तेषां शिववद् व्यापिनां
परिस्पन्दात्मनां क्रियया करणैश्च हीनत्वात् कथं कर्तृत्वं
शिववदमूर्तत्वादपि न तद् युज्यते, यतो विग्रहं विना न कश्चित् कार्यं
कुर्वन् दृष्टः । एवं शिवस्यापि यन्मन्त्रप्रचोदकत्वम्, तत्
कथमित्यनेनैवाक्षिप्तम् । एवम्प्रायं च श्रुत्यन्तविदां मतम् । ते हि
गुणवत एव कर्तृत्वमितीश्वरोपासामगुणब्रह्मोपासेति मत्वाऽकर्त्रेव
निस्तिमितं साङ्ख्यपुरुषकल्पमद्वयं ब्रह्म इच्छन्ति ॥ ३ ॥
यतः
न दृष्टो ह्यशरीरस्य व्यापारः परमेश्वर ।
कस्यापि ॥
एवं च
शरीरिणो यतो बन्धः…
ततः
…कथं बद्धस्य कर्तृता ॥ २१-४ ॥
किं च, शरीरित्वादेव शिवमन्त्रादिवर्गो मलिन इति मलिनत्वादस्वतन्त्रो
लुप्तशक्तिर्विभाव्यते । उक्तं हि “पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रिय”
(श्रीकिरणा। ) इति ॥ ४ ॥
अतश्च
शक्तिहीनस्य कर्तृत्वं विरुद्धं सर्ववस्तुषु ।
क्वचित् त्वंशे कुम्भकारपशोरिवास्तु, किं तेन । तदित्थं किमात्मकाः
किंस्वभावाः कीदृशाः कथं शक्ताः केन वा प्रचोदिता इति
शाम्भवत्वे प्रश्नपञ्चकं स्फुटीकृतम् ॥
किम्प्रभावा इति प्रश्नं स्फुटयति
एवं शिवात्मका मन्त्राः कथं सिध्यन्ति वस्तुतः ॥ २१-५ ॥
एवमुक्तदृशा वस्तुतो व्यापकनिराकारशिवस्वभावा
नित्यनिर्मुक्तशुद्धबोधमात्ररूपाः कथं सिध्यन्ति, कथं
सिद्धीर्वितरन्तीत्यर्थः ॥ ५ ॥
एवं शाम्भवत्वं मन्त्राणां विकल्प्य शाक्तत्वमपि विकल्पयति
अथ चेच्छक्तिरूपास्ते…
तर्हि यच्छक्तिरूपास्ते, सा
…कस्य शक्तिस्तु कीदृशी ।
किंसम्बन्धिनीं किंस्वभावा च । तमेव तत्स्वभावं विकल्पयति
शक्तिः किं कारणं देव कार्यं तस्याश्च कीदृशम् ॥ २१-६ ॥
किं स्वरूपसहकारिरूपा शक्तिराहोस्विदतीन्द्रिया कार्योन्नेया, कार्यमपि
तस्याः कीदृशम् ॥
न च स्वरूपसहकार्यात्मस्वतन्त्रवस्तुरूपा वक्तुं शक्यते शकनात्मा
शक्तिः, नाममात्रकरणेन तु न विमतिरित्याह
यावन्न शक्तिमान् कश्चित्…
तावत्
…कस्य शक्तिर्विधीयते ।
प्रतिपाद्यते ॥
यतः सा
स्वतन्त्रा न प्रसिध्येत्तु विना सिद्धेन केनचित् ॥ २१-७ ॥
असिद्धेन तु यत्साध्यं तदसिद्धं प्रचक्षते ।
वस्तुशून्या न चैवात्र शक्तिर्वै विद्यते क्वचित् ॥ २१-८ ॥
शक्तिरूपास्तु ते मन्त्राः केवलास्तु विपर्ययः ।
केवलाः शक्तिरूपा इत्यस्पष्टशाम्भवधामशक्तिमात्रात्मका मन्त्रा
इत्ययं विपर्ययो भ्रमः, यतः सिद्धेन केनचिद् वह्निना इव धर्मिणा
विना दाहकत्वादिधर्मरूपेव न काचित् स्वतन्त्रा शक्तिः प्रसिध्यति । न
च तयैव शकनरूपया शक्तिमानाश्रयभूतः कश्चित् साधयिष्यत इति
युक्तम् । यत आश्रयसिद्धिं विना न शक्तिसिद्धिः, शक्तिसिद्धिं विना न
आश्रयसिद्धिरित्यन्योन्याश्रयः । यदाहुः “तदसिद्धं यदसिद्धेन
साध्यते ।” इति ।न चातीन्द्रियाऽपि काचिदसौ शक्तिमद्वस्तु विनाऽस्तीति
न शाक्ता अपि मन्त्राः । आणवत्वमपि विकल्पयितुमाह
अथ चेदाणवा मन्त्रा विग्रहाकाररूपिणः ॥ २१-९ ॥
तर्हि ते
आत्मस्वरूपा विख्याता मलिना बलिनो नहि ।
एवं च
मलिनो मलिनस्येव प्रक्षालयति कस्य कः ॥ २१-१० ॥
निर्मला एव मलिनममलीकर्तुं क्षमाः, न तु मलिनाः । मन्त्राश्च
आणवत्वादात्मवन्मलिना एव ॥ १० ॥
एवं च
न सिद्धा ह्याणवा मन्त्रा केवलाः परमेश्वर ।
ये आणवास्ते न केवला न शुद्धाः । अतश्च कथमन्यान् केवलीकुर्युः
कथं वाऽसाध्यं साधयेयुरित्याशयशेषः ॥
तर्ह्यन्य एव केचिदेते भविष्यन्तीत्याह
तत्त्वत्रयं विनास्तित्त्वं विरुद्धं वस्तुसन्ततेः ॥ २१-११ ॥
आगमेषु न विना त्रितत्त्वं किञ्चिदस्तीत्युच्यते, नापि
परप्रमातृप्रमेयात्मतां विना किञ्चिदप्युपद्यते ॥ ११ ॥
अतश्च
युक्तिरेवात्र वक्तव्या प्राणिनां हितकाम्यया ।
कथमेतदुपपद्यत इति यतः सम्यग्विचाररूपा युक्तिरेव
सर्वहृदयप्रत्यायिका । यदुक्तं सौरभेये
“या चिद्व्यापाररूपैव युक्तिः सर्वत्र साधनम् ।
भोगे वाऽप्यथवा मोक्षे तस्मात्तत्रादृतो भवेत् ॥”
इति ॥
न च यद्युक्तविचारतो मन्त्रा नोपपद्यन्ते, मा उपापादिषतेति वाच्यम् ।
यतः
दृश्यन्ते बलिनो मन्त्रा अप्रधृष्याः सुरासुरैः ॥ २१-१२ ॥
सर्वानुग्राहकत्वेन सर्वदाः सर्वगाः शिवाः ।
चतुष्कलनाथादयो मन्त्रा आर्तिनिवारणसिद्धिमुक्तिप्रदा अनुभूयन्त एव
॥
तदित्थम्
सङ्क्षेपतो महादेव संशयं तु वद स्व मे ॥ २१-१३ ॥
त्वत्तः परतरो नान्यः कश्चिदस्ति जगत्पते ।
ब्रूहि सर्वं महेशान यदि तुष्टोऽसि मे प्रभो ॥ २१-१४ ॥
हे महादेव स्व आत्मन् सङ्क्षेपतः संशयमिमं वद संशयविषयं
निश्चिनु । यतो न त्वदन्यः प्रकृष्टो निर्णेता कोऽप्यस्ति, अतो
यथाप्रश्नितं सर्वं ब्रूहि ॥ १४ ॥
एवं श्रुत्वा श्रीभगवानुवाच
अहो प्रश्नो महागूढो न पृष्टोऽहं तु केनचित् ।
चोदितं तु मया सर्वं सर्वशास्त्रेषु सर्वदा ॥ २१-१५ ॥
न विन्दन्ति विमूढास्तु माययाच्छादिताः सदा ।
यस्त्वया प्रश्नः कृतः, सोऽत्यर्थं गूढः । तं चाहं न केनचित्
पृष्टः । मया तु यदत्र वक्तव्यम्, तत् सर्वं सर्वशास्त्रेषूक्तम् ।
सर्वकालं मायया आच्छादितास्तु जना उक्तमपि वैमुख्यान्न लभन्ते,
त्वं तु विदितशास्त्रसतत्त्वाऽपि विमूढजनानुकम्पयैव
प्रकाशयितुमिच्छसीत्याशयशेषः । न पृष्टोऽहं तु केनचित्
चोदितास्तु मया सर्व इति पाठेऽहं केनचित् (न) पृष्टः, अपि तु
कुमारब्रह्मविष्ण्वादिभिः सर्वैस्तदन्यत् पृष्टः, ते च मया तत्र
तत्र शास्त्रे चोदिता उद्बोधिता अपि न विन्दन्ति, त्वया तु तत्त्वज्ञतया
गूढोऽयं प्रश्नः कृत इत्यर्थः ॥
अथ प्रश्नितं निर्णयति
तत्त्वत्रयं विना वस्तु मन्त्रो वक्तुं न युज्यते ॥ २१-१६ ॥
मननत्राणधर्मका हि मन्त्रा
ज्ञानक्रियाशक्तिसतत्त्वशक्त्यणुपक्षनिष्ठा अपि शक्तेः
शक्तिमदव्यतिरेकात् शाम्भवा अपीत्यर्थः ॥ १६ ॥
अत्र दण्डापूपीयन्यायमाह
आस्तां तावत्…
प्रकृतो मन्त्रवर्गः ॥
…जगत्सर्वं तत्त्वहीनं न सिध्यति ।
तत्त्वं स्वच्छस्वच्छन्दचित्प्रकाशात्मा परमशिवः । तदेव च
विश्वस्य सिद्धिरप्रकाशात्मनः प्रकाशात्मकसिद्ध्ययोगात् ।
इत्थं परचित्प्रकाशात्मत्वादेव
त्रितत्त्वनिर्मितं सर्वं यत्किञ्चिदिह दृश्यते ॥ २१-१७ ॥
परो हि प्रकाशः
स्वाच्छ्यस्वाच्छन्द्याभ्यामिच्छाज्ञानक्रियाशक्तिसतत्त्वतत्त्वत्रयभूमौ
स्वानतिरिक्तमप्यतिरिक्तमिवैषणीयज्ञेयकार्यात्म जगदाभासयति
पश्यन्त्यादिपदेष्विव वाच्यवाचकक्रमं जीवः ॥ १७ ॥
एवमुक्तरीत्या
तत्त्वत्रयं विना देवि न पदार्थो हि विद्यते ।
तस्मात्तत्त्वत्रयं सर्वं परं चापरमेव च ॥ २१-१८ ॥
परं शुद्धोऽध्वा, अपरं त्वशुद्धः ॥ १८ ॥
एवं च
शिवात्मकाः शक्तिरूपा ज्ञेया मन्त्रास्तथाणवाः ।
तत्त्वत्रयविभागेन वर्तन्ते ह्यमितौजसः ॥ २१-१९ ॥
पारमेश्वरेच्छादिशक्तिनिविष्टाः शिवादिरूपाः, अतश्च अमितमोजः
सर्वत्रानुग्रहादावप्रतिहतं शक्तत्वं येषाम् ॥ १९ ॥
तदेतत् तत्त्वत्रयात्मत्वं जगतो वितत्य निरूपयितुमाह
परं सर्वात्मकं शुद्धमनाद्यं कारणं ध्रुवम् ।
अप्रमेयमनिर्देश्यमनौपम्यमनामयम् ॥ २१-२० ॥
निराभासं परं शान्तं सर्वावयववर्जितम् ।
व्यापकं सर्वतोभद्रं सार्वज्ञ्यादिगुणैर्युतम् ॥ २१-२१ ॥
विज्ञानघनसम्पूर्णं स्वानन्दानन्दनन्दितम् ।
निरानन्दं निर्विकल्पं निराचारं निरक्षरम् ॥ २१-२२ ॥
अद्वैतं कल्पनाहीनं चिद्घनं चिन्मलापहम् ।
चिदचिद्व्यापकं ज्ञेयं नित्योदितमनुत्तमम् ॥ २१-२३ ॥
निर्विकारं परं नित्यं निर्मलं निरुपप्लवम् ।
सर्वोपमानरहितं सर्वभावविवर्जितम् ॥ २१-२४ ॥
सर्वरूपकलातीतमचलं शाश्वतं विभुम् ।
सर्वगं सर्वभावस्थं सर्वभूतेषु संस्थितम् ॥ २१-२५ ॥
हृदिस्थं सर्वभूतानां प्रेरकं सर्ववस्तुषु ।
न तेन रहितं किञ्चिद् दृश्यते सुरवन्दिते ॥ २१-२६ ॥
तस्मात्सर्वगतं विश्वं स एकः परमेश्वरः ।
सर्वज्ञो नित्यतृप्तश्च तस्य बोधो ह्यनादिमान् ॥ २१-२७ ॥
स्वतन्त्रोऽलुप्तशक्तिश्चानन्तशक्तिर्महेश्वरः ।
तस्य चेच्छा महेशस्य न विकल्प्या कथञ्चन ॥ २१-२८ ॥
अमेयत्वादनादित्वात् कथं केनोपलभ्यते ।
कार्यतो ह्यनुमानेन वस्तुतः परिभाव्यते ॥ २१-२९ ॥
कार्यं तस्य परा शक्तिर्यथा सूर्यस्य रश्मयः ।
वह्नेरूष्मेव विज्ञेया ह्यविनाभाविनी स्थिता ॥ २१-३० ॥
सर्वानन्दकरी भद्रा शिवस्येच्छानुवर्तिनी ।
तद्धर्मधर्मिणी शान्ता नित्यानुग्रहशालिनी ॥ २१-३१ ॥
विवर्त एतत्सर्वं हि तच्छक्तेर्नान्यतो भवेत् ।
परं धाम सर्वात्मत्वादिविशेषणविशिष्टं ज्ञेयम्, तस्य चेच्छाख्या
शक्तिस्तादृश्येव कार्याद् जगदुदयादेरनुमेया, कार्यमपि तस्यैव
भगवतः पराऽद्वितीया शक्तिरभिन्नैव । तेन सर्वमेतत्
परमेशशक्तेर्विवर्तो विचित्रात्मतया वर्तनमितीदमत्र तात्पर्यम् ।
पदार्थस्तु परं यत् प्रकृष्टं प्रकृतं मृत्युजित्तत्त्वं चिद्घनम्,
तत् सर्वमात्मा स्वरूपं यस्य तादृक् । न तेन सर्वेण आच्छादितमिति
शुद्धम् । स्वभित्तौ चानतिरेकिणोऽप्यतिरेकिण इव शिवादेः क्षित्यन्तस्य
विश्वस्योन्मीलकत्वाद् ध्रुवं निश्चितं कृत्वाऽनाद्यं सर्वादिभूतं
कारणम् । नहि परममहसोऽस्य स्वस्वतन्त्रचित्प्रकाशातिरिक्तं किमपि
कारणं सिद्ध्यति । तदुक्तं प्रत्यभिज्ञायाम् “यदसत्तदसद्युक्ता
नासतः सत्स्वभावता । सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते ॥
कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ (२-४-३-४)
इति । विश्वकारणत्वादेवाप्रमेयम् । अतश्चेदमीदृगिति
निर्देष्टुमभिधातुमशक्यम् । एवं चानौपम्यं न विद्यते उपमाऽन्येन
सादृश्यं यस्य, तदतिरिक्तस्याभावादित्यर्थः ।
आभासादीषत्प्रकाशाद् निष्क्रान्तं न सङ्कुचितचिद्वदीषद्
भातीत्यर्थः । विश्वस्य तत्सामरस्येन स्थितेर्भेदोपशमात् परं
शान्तम् । न च सदाशिवेशदशावदवयवकल्पमपि तत्र विश्वमतः
सर्वावयववर्जितमित्युक्तम् । व्यापकं सर्वतोभद्रम् ।
“केन नाम न रूपेण कल्याणकारि व्यापकम्”
इति चिदचिद्व्यापकमित्यनेन स्फुटीकृतम्, सार्वज्ञ्यादीति सर्वज्ञो
नित्यतृप्तश्चेत्यादिना विज्ञानघनेति चिद्घनमित्यनेन । स्वानन्देति यथा
स्वप्रकाशः प्रकाश उच्यते, तथा स्वोऽनन्यापेक्ष
आनन्दश्चमत्कारात्मा विमर्शो यस्य तादृशा आनन्देन नन्दितं
समृद्धम्, न तु विषयसुखवद् ग्राहकविमृश्यम् । निष्क्रान्ता आनन्दा
अवच्छिन्नाश्चमत्कारा यतः, विकल्पेभ्य आचारेभ्य अक्षरेभ्यश्च
निष्क्रान्तम्; अक्षरं जीवो वाचकमन्त्रकलात्मा च । कल्पनया
हीनमद्वैतं प्रतिपक्षरहितमनुत्तमम्, चिद्घनमद्वैतम् । अतश्च
तेषां जीवानां यन्मलं मायाशक्त्युत्थितः स्वरूपगोपनात्मा
सङ्कोचः, तत्प्रशमकृत् । नित्योदितं सदा स्फुरत् । निष्क्रान्ता
विकाराः समग्रजगद्गतजन्मसत्ताविपरिणत्यादयो यस्मात् । परं
विश्वापूरकम् । नित्यमकालकलितम् निर्मलमस्पृष्टाणवमलम् ।
निरुपप्लवमागन्तुकमायीयकार्ममलहीनम् । यथाऽद्वितीयत्वादुपमा
साम्यमस्य न केनचित्, तथोपमानमपि न किञ्चिदस्ति ।
सर्वैर्भावैर्बुद्धिधर्मैर्विवर्जितम् । सर्वेषां पृथ्व्यादितत्त्वानां
या रूपकलाः कल्यमानानि स्वरूपाणि, ता अतिक्रम्य स्थितम् । अचलं
शाश्वतं च प्राग्वत् । विभुमीश्वरम्, सर्वं गच्छति
गमयत्युपसंहरतीति सर्वगम् । गमिरत्रान्तर्भावितणिच्कः । सर्वेषु
भवेषु जडेषु चाजडेषु स्थितं तद्विना तेषां स्थितेरयोगात् ।
एतदेव हृदिस्थमित्यादिना व्यक्तीकृतम् सर्वभूतानां हृदि
ग्राहकपदेऽन्तरनुप्राणकत्वेन स्थितं सत् सर्ववस्तुषु प्रेरकं
तत्तद्ग्राह्यकार्यनिष्ठं ग्रहीतृकर्तृताप्रदमित्यर्थः । अतश्च तेन
रहितं न किञ्चिद् दृश्यते प्रकाशमानस्य तत्प्रकाश्यैक्यात् । यत् एवम्,
तस्मात् सर्वगतं देवम्, यत् विश्वं तत् सर्वमेव परमेश्वर एकोऽद्वितीय
इत्युक्त्या परमाद्वैतरूपता निर्वाहिता । सर्वज्ञ इत्यादि प्रागेव
व्याकृतम् । एवमीदृशो नाथस्येच्छाख्या शक्तिरीदृशी एव । कार्यत
इति जगत्सर्गसंहारादिकार्यादेव कर्तुश्चिन्नाथस्य सामर्थ्यात्मा
साऽनुमीयते । यथोक्तं प्रत्यभिज्ञायाम्
“फलभेदादारोपितभेदः पदार्थात्मा शक्तिः ।”
इति । तस्यैव शक्तिमतस्तत् कार्यं पराऽद्वितीया
शक्तिराभास्यत्वादाभासनात्मज्ञानशक्तिमयमिति यावत्, अत एव
सूर्यरश्म्यादिवदभिन्नैव । एवंरूपतयैव हि स्फुरिताऽसौ
सर्वेषामानन्दकरी शिवावेशहेतुः । अतश्च भद्रा कल्याणिनी
प्रोक्तशिवेच्छानुगतत्वेन वर्तमाना । अतश्च तत्स्वभावत्वात् शान्ता
निर्विकारा अत एवंरूपत्वादेव नित्यमनुग्राहिका । सर्वं च
क्रियाशक्त्या निर्मितमेतज्जगत् तस्या एव विश्वाभासात्मनः शक्तेर्विवर्तो
विचित्ररूपतया वर्तनम्, अतश्च नान्यतो भवेत्, तच्छक्तिकृतत्वं
विनाऽन्यस्यैवाभावात् । यथोक्तं शिवसूत्रेषु
श्वशक्तिप्रचयोऽस्य विश्वम्” (३-३०)
इति । श्रीसर्वमङ्गलायामपि
“शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।”
इति ॥
तदित्थम्
सानन्दा तु परा शक्तिर्निरानन्दः परः शिवः ॥ २१-३२ ॥
सह आनन्देन उल्बणेन हर्षेण वर्तते सानन्दा । निःशेषेण
महासामरस्यविश्रान्त्यात्मा आन्दो यस्य, स निरानन्दः ॥ ३२ ॥
आनन्दोल्बणत्वादेव च शक्तिः समुल्लसन्ती
सर्वज्ञतादिगुणषट्काभासरूपेत्याह
सार्वज्ञादिगुणा ये च शिवस्य परमात्मनः ।
शाक्तास्ते नान्यतो दृष्टा ह्यन्यथानुपपत्तितः ॥ २१-३३ ॥
परशक्तेरिच्छाप्रमुखं ज्ञानरूपतापत्तौ सर्वज्ञत्वादिव्यक्तेः
शाक्ता एव एते गुणा इत्यर्थः ॥
तदित्थम्
एकः शिवस्तथैका तु शक्तिरेव हि शाश्वती ।
अभिन्नाद्वैतसंस्थाना सैवैका समुदायिनी ॥ २१-३४ ॥
अभिन्नं द्वैतप्रतियोगि यदद्वैतम्, तेन संस्था यस्याः । समुदायिनी
अशेषविश्वसामरस्यात्मा ॥
सर्वज्ञतादिगुणवैचित्र्येण वर्तमानाऽपि कथमभिन्नेत्याह
इच्छारूपा शिवस्यैषा ह्यभिन्ना सर्वतोमुखी ।
किञ्चिदुच्छूनतापत्तेः सार्वज्ञादिगुणास्ततः ॥ २१-३५ ॥
किञ्चिदुच्छूनतया ज्ञानक्रियाशक्तिरूपतापन्ना परा शक्तिरेव
सर्वज्ञतादिरूपतया स्थितेत्यर्थः ॥
अत एवाह
ज्ञानरूपा तु सैवैका यदा सम्बोधयत्यलम् ।
बोधो ह्यनादिरत्यन्तः परं ज्ञानं तु सा स्मृता ॥ २१-३६ ॥
ज्ञानशक्तिरिति ख्याता सार्वज्ञादिगुणास्पदम् ।
यदा स्वतन्त्रालुप्ता सा क्रिया करणरूपिणी ॥ २१-३७ ॥
वर्णरूपाष्टभेदेन स्फोटादिध्वनिरूपिणी ।
मातृका सा विनिर्दिष्टा क्रियाशक्तिर्महेश्वरि ॥ २१-३८ ॥
क्रियाख्या परमा सा तु सर्ववाङ्मयरूपिणी ।
सैवेति प्रक्रान्ता परा शक्तिः । यदा सम्बोधयतीत्येकैव हि
शक्तिस्तत्तत्कृत्योपाधिवशात् तत्तद्रूपा उच्यते । बोधो हीति यतो बोधो
दिक्कालाद्यनवच्छेदादाद्यन्तरहितस्तादृक् परं यद् ज्ञानम्, तत् सैव
परा शक्तिर्ज्ञानशक्तिरिति ख्याता प्रथिता, अतश्च
प्रोक्तसर्वज्ञत्वादिगुणास्पदं स्मृता, ज्ञानशक्त्यविनाभावित्वात्
सर्वज्ञतातृप्त्यनादिबोधानन्तशक्त्याख्यानां गुणानाम् । सैव च
परा शक्तिर्गृहीतज्ञानशक्तिभूमिका यदा विश्वसर्गादौ स्वतन्त्रा
(अत एव) सदैवालुप्तशक्तिर्भवति, तदा सैव करणरूपिणी
निर्माणरूपा सती क्रियाशक्तिरुच्यते । कथमक्रमाया अपि ज्ञानशक्तेः
सक्रमक्रियारूपता इत्याशङ्क्य आह वर्णरूपेत्यादि । बोधो हि
स्वातन्त्र्यसारस्फुरत्तात्मविमर्शशक्तिपरमार्थः, अन्यथाऽस्य च
मत्कर्तृत्वात्मबोधकत्वानुपपत्तावाकारधारित्वमात्रेण
जडस्फटिकादितुल्यतैव । आकारोन्मज्जनादेरपि
चानुपपत्तिर्बोधविविक्तस्य तद्धेतोरप्रकाशनेनासिद्धेरिति बोधः
स्फुरत्तात्मपरवाग्रूपाहंविमर्शात्मकर्तृत्वसतत्त्व एव । उक्तं च
प्रत्यभिज्ञायाम्
श्वभावमवभासस्य विमर्शं विदु ।" (९-५-११)
इति,
“चितिः प्रत्यवमर्शात्मा परा वाक् ।” (९-५-१३)
इत्यादि च । वाक्यपदीयेऽपि
“वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥” (१-१२५)
इति ।
तदित्थं बोधस्वातन्त्र्यात्मा परैव वाक्शक्तिः
पश्यन्त्यादिपर्यन्तसूक्ष्मस्थूलशब्दनात्मा ध्वनिरूपा
“घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ।
झाङ्कारो ध्वङ्कृतिश्चैव ह्यष्टौ शब्दाः प्रकीर्तिताः ॥”
(११-६-७)
इति श्रीस्वच्छन्दोक्तदृशा, “दीप्ताग्न्याभः प्रथमः
भेदितकांस्यप्रभोऽथ वंशनिभः । भ्रमरीरव इव
पञ्चमतन्त्रीसदृगखिलतन्त्रीगः ॥
घण्टासमोऽम्बुदसदृग्वाताहततन्त्रिकासमानश्च ।
श्रव्यो दशधा नादः क्रमेण सूक्ष्मतया ॥”
इत्यस्मद्गुरुनिरुक्तनीत्याऽष्टविधशब्दव्याप्तिरादिक्षान्तपञ्चाशद्वर्ण्
अभट्टारकरूपतया समस्तमन्त्रादिमयशुद्धाशुद्धजगज्जननी,
अज्ञाता माता मातृका प()रमेश्वरी क्रियाशक्तिः । एषैव
चाक्रमाऽपि समस्तवाच्यवाचकात्मवाङ्मयाभासरूपतया सक्रमा क्रिया
उच्यते । तदुक्तं प्रत्यभिज्ञायाम्
शक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते नैव शाश्वत्याः प्राभव्याः स्यात् प्रभोरिव ॥" (२-१-२)
इति ॥
तदित्थं स्वस्वातन्त्र्याभासितक्रमात्मा
एवं क्रियेति सा प्रोक्ता एकानन्यस्वभावजा ॥ २१-३९ ॥
स्वभावोत्था स्वभावार्था स्वा स्वतः स्वोदिता शिवा ।
एकाऽद्वयात्माऽपि, एवमित्युक्तदृशा क्रमारूषिता सती पारमेश्वरी
शक्तिः क्रियेत्युक्ता । सा च न केवलं नान्यस्मात् स्वभावाज्जायत
इत्यनन्यस्वभावजा, अपि तु स्वभावादेवोत्थानं विश्वरूपोच्छलत्ता
यस्यास्तादृशीति व्यतिरेकेणान्वयेन च स्वातन्त्र्यमस्या दर्शितम् ।
स्वयं विश्वात्मतयोच्छलितापि स्वत इति स्वत्र रूपे स्थिता । न च
विश्वेन आच्छादिता, अपि तु स्वोदिता स्वप्रकाशा, अत एव स्वे स्वानतिरिक्ता
भावा भवन्तोऽर्था विश्वे पदार्था यस्याः सा तथा । अतश्च स्वा
आत्मभूता विशेषाभासनाद् विश्वस्य । ततश्च शिवा
स्वच्छस्वच्छन्दप्रकाशात्मशिवरूपा । तदुक्तं प्रत्यभिज्ञायाम्
“या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥” (१-७-१)
इति ॥
एतत् स्फुटयति
व्यतिरिक्ता न चैवैषा कर्तृत्वं शक्तिरुच्यते ॥ २१-४० ॥
चो ह्यर्थे भिन्नक्रमः । यतः कर्तुः स्वतन्त्रस्य भावः स्वरूपमेव
धर्मान्तरप्रतिक्षेपेण कर्तृत्वम् । तदेव च शक्तिः शकनं
सामर्थ्यं समर्थादनतिरिक्तमुच्यते । अतो व्यतिरिक्ता एषा न भवति ।
तदुक्तं श्री विज्ञानभैरवे
“शक्तिशक्तिमतोर्यस्मादभेदः संव्यवस्थितः ।
अतस्तद्धर्मधर्मित्वात् परा शक्तिः परात्मनः ॥” (१८)
इति ॥ ४० ॥
ननु यदि शिवः शक्तिमान् जगद्रूपतया स्फुरति, तदयं विकारित्वाद्
मायातत्त्ववदुपादानं जात इति तदधिष्ठात्रा निमित्तकारणरूपेण
कर्त्रन्तरेण भवितव्यम्, तथा
“भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् ।
जगदुत्पादयामास मायां विक्षोभ्य(आविश्य)शक्तिभिः ॥” (१-२५)
इति श्रीपूर्वनिरूपितनीत्या तत्क्षोभकेन
केनचिदनन्तभट्टारककल्पेनापि भाव्यम् इत्याशङ्कयाह
शिवस्य परिपूर्णस्य स्वतन्त्रस्य विभोर्यतः ।
कः कर्ता क्षोभकः को वा तस्मादद्वैतता शिवे ॥ २१-४१ ॥
“शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ।” इति स्थित्या
विश्वात्मत्वात् परिपूर्णस्य शिवस्य चिदानन्दघनस्य भगवतो
मृत्युजितः पारिपूर्ण्येनान्यानपेक्षत्वात् स्वतन्त्रस्य विभोर्व्यापकस्य
कः कर्ता, कश्च क्षोभकः? न कश्चित्,
स्वतन्त्रचिद्भैरवतातिरिक्तस्यान्यस्याभावात् । यत एवम्, तस्मात् शिवे
शिवभट्टारकेऽद्वैतता परमाद्वयरूपत्वम्; न तु द्वैतस्य नामास्ति ।
तदुक्तं श्रीभगवता कात्येन श्रीपूर्ववार्तिके शिद्धे व्याप्तृत्वे
भेदविरोधात् तदभेदो विश्वस्य ।" इति । भगवतश्चिदात्मत्वेन
चेत्यधर्मदेशाद्यनवच्छेदाद् यावद् व्याप्तृत्वं सिद्धं तावत् । एतेनैव
परमाणोः परममहत आकाशादेरपि चान्तर्बहिश्च ओतप्रोतत्वात् कथं
भेद इति भेदविरोधात् तेनैव व्यापिना विश्वस्य चेतनाचेतनस्याभेदः ॥
४१ ॥
तदित्थं विश्वात्मत्वेन
यत्तस्य सर्वशक्तित्वं सा शक्तिरुपचर्यते ।
तया तु कुरुते सृष्टिं स्थितिं संहृतिमेव च ॥ २१-४२ ॥
करोति भगवान् सर्वं तिरोभावमनुग्रहम् ।
यत् सर्वशक्तित्वं भगवतः, सैवास्य शक्तिः स्वातन्त्र्यम्
स्वस्वातन्त्र्यादेव विश्वशक्तिर्भगवान् । यदुक्तं शिवसूत्रेषु
श्वशक्तिप्रचयोऽस्य विश्वम् ।" (३-३०)
इति । उपचर्यत इति भेदेन शिवात् परं व्यवह्रियते न तु तात्त्विको
जगतः शिवशक्तेरपि शिवात् कश्चिद् भेदो घटते । तदुक्तं
प्रत्यभिज्ञायाम्
“फलभेदादारोपितभेदः पदार्थात्मा शक्तिः ।”
इति तया च स्वाव्यतिरिक्तया शक्त्या भगवान् सर्वं करोति । एतदेव
सृष्ट्यादिपञ्चकं कुरुत इति विशेषोक्त्या स्फुटीकृतम् ॥
एतदेव विभागेन दर्शयति
क्रियाशक्त्या तु सृजति ज्ञानशक्त्या जगत्स्थितिम् ॥ २१-४३ ॥
संहारं रुद्रशक्त्या तु तिरोभावं तु वामया ।
अनुग्रहं ज्येष्ठया तु कुरुते नात्र संशयः ॥ २१-४४ ॥
एकैव शक्तिमतः शक्तिः कृत्यभेदाज्ज्येष्ठादिरूपतयोच्यते इत्याह
कृत्यं पञ्चविधं शम्भोर्जगतो दृश्यते यतः ।
क्रियमाणं विकल्प्यं तत् सर्वज्ञस्य विचेष्टितम् ॥ २१-४५ ॥
जगति कृत्यं कार्यं सृष्ट्यादिभेदेन पञ्चधा क्रियमाणं यतो
दृश्यते, तत् तस्मात् शम्भोर्विचेष्टितं स्पन्दितं विकल्प्यं
ज्येष्ठादिशक्तिभेदेनोच्यते ॥ ४५ ॥
तदित्थम्
यतस्ततः शक्तिरेषा शिवस्यैवानुमीयते ।
सर्वस्मादाभासमानादाभासनरूपा शक्तिराभासकस्य शिवनाथस्य
चिदात्मनः न त्वन्यस्य कस्यचिदनुमीयते निश्चीयते ॥
यतः सर्वस्य कार्यस्य पारमेश्वरी शक्तिरेव कारणम्, ततः
आत्माणवो ह्यनन्ताश्च मलेनैव निरोधिताः ॥ २१-४६ ॥
तेऽनुगृहीताः परया परमेशस्य चेच्छया ।
पूर्वनिर्णीतमायाशक्तिसङ्कोचात्मना मलेनाणवेन निरोधिता
ग्राहितापूर्णम्मन्यताभिमानाः, अत एवाऽनन्ता आत्माणवः । ते च
परया परमेशेच्छयाऽनुगृहीताः प्रापितपरमेश्वराभेदाः ॥
तदित्थम्
शिवः शक्तिस्तथात्मा च त्रितत्त्वं चेत्यनुत्तमम् ॥ २१-४७ ॥
शिवशक्त्योस्तावदुक्तदृशा परमोत्कृष्टत्वम्, आत्मनस्तु
सङ्कोचाभासवतोऽपि चित्प्रकाशात्मतयैव ग्राहकत्वादुत्तमत्वम् ॥ ४७ ॥
तदेवं परमशिवभट्टारकः शिवशक्त्यात्माख्यतत्त्वत्रयात्मना
स्फुरित्वा पुनरपि स्वातन्त्र्यात्
त्रिस्वरूपस्तथा देवो रुद्रो विष्णुः पितामहः ।
करोति षड्विधां सृष्टिं चतुर्भेदविभेदिताम् ॥ २१-४८ ॥
त्रिस्वरूप इत्येक एव त्रिमूर्तिः । सृष्टिमिति
स्थितिसंहृत्युपलक्षणपरम् ॥ ४८॥
षड्विधत्वं चतुर्भेदत्वं च दर्शयति
प्रेतनारकतिर्यञ्चसदेवमुनिमानुषम् ।
जरायुजाण्डजं देवि तथा संस्वेदजोद्भिजम् ॥ २१-४९ ॥
शक्त्या तु भगवान् सर्वं करोति हि विभुत्वतः ।
प्रेतनारकसृष्टिस्तामसी, किञ्चिदपचिततमस्का तु
पशुपक्षिसरीसृपात्मतिर्यक्सृष्टिः । दैवी सृष्टिः सात्त्विकी ।
मौनी रजःसत्त्वमयी । मानुषी रजस्तमोमयी । तदुक्तं श्रीस्वच्छन्दे
“प्रथमं तामसीं सृष्टिं करोति तमसोत्कटाम् ।
नरकान् विविधाकारान् पशून् वै स्थावरान्तकान् ॥
तमोरजःसमावेशान् मानवान् संसृजेत् पुनः ।
रजः सत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरान् ॥
गतनिद्रः प्रबुद्धस्तु सत्त्वाविष्टो जगत्पतिः ।
सृजेद्देवान् सलोकेशान् पूर्वयैव व्यवस्थया ॥”
इति जरायुजा मानुषाद्याः । अण्डजाः पक्ष्याद्याः । स्वेदजा
मशकाद्याः । उद्भिजानि स्थावराणि, मुनिदेवास्तु मनोजा बाहुल्येन ।
शक्त्या स्वातन्त्र्यात्मना यद् विभुत्वमैश्वर्यम्, ततः ॥
एतदेवोपपादयति
निमित्तकारणं देवो यथा सूर्यो मणेः क्रिया ॥ २१-५० ॥
उपादानं तु सा शक्तिः सङ्क्षुब्धा समवायतः ।
निमित्तं सन्निधिमात्रेणोपकारि, न तु व्यापारावेशेन, कार्यते
स्वशक्त्या आभास्यतेऽनेन विश्वमिति कारणं कर्ता देवो
द्योतनादिसतत्त्वः परमेश्वरः । तस्य च सम्बन्धिनी सैव परा
शक्तिरुपादानम् । सा च समवायतः शिवसामरस्यावस्थितेः
सङ्क्षुब्धा विश्वजगज्जननानुगुणा किञ्चिदुच्छूनताकल्पा
समनाभूमिमाश्रितवती । यथा सूर्यो निमित्तकारणम्, यथा मणेः
क्रिया उपादानमर्थाद् वह्निजनने इति दृष्टान्तः ।
शिवशक्तिसामरस्यमेव स्वानतिरिक्तमप्यतिरिक्तमेवेदम्
श्वशक्तिप्रचयोऽस्य विश्वम्" (३-३०)
इति शिवसूत्रादिष्टनीत्या जगदुन्मीलयति, न तु व्यतिरिक्तं
किमप्यपेक्षते, प्रयोजनाभिलापेन वा केनचित् प्रवर्तते । एतावतैव च
सूर्यकान्तादिना सह दृष्टान्तदार्ष्टान्तिकभावः, न तु
सर्वसर्विकया, येन सूर्यादिवद् भेदो जाड्यं वा शिवशक्त्योः स्यात् ॥
तदेव स्फुटयति
यथार्करश्मिसंयोगात् सूर्यकान्तो मणिर्महान् ॥ २१-५१ ॥
तेजः प्रकिरतेऽत्यर्थमुभयोर्नैव कामिता ।
अयस्कान्तमणिं दृष्ट्वा लोहः प्रकुरुते क्रियाम् ॥ २१-५२ ॥
उभयोर्नैव कामोऽस्ति निमित्तं तु तथा शिवः ।
उभयोरित्यर्कसूर्यकान्तयोः । क्रियामिति स्पन्दनात्मिकाम् ।
उभयोरित्ययोऽयस्कान्तयोः । निमित्तं सन्निधिमात्रेण स्वशक्तित एव
विश्वमुन्मीलयति ॥
नन्वहेतूनां देशकालप्रकृतिनियमायोगादवश्यं
सूर्यकान्तादेर्नियामकः कश्चिदस्ति ।
सत्यमस्ति, किन्त्वसौ
सूक्ष्मत्वान्नोपलभ्येत यस्तयोस्तु प्रचोदकः ॥ २१-५३ ॥
परमेश इत्यर्थः । सूक्ष्मत्वादित्यवेद्यत्वात् ॥ ५३ ॥
तादृक्सर्वस्य जगतो नानुभूतं तु कारणम् ।
युक्तं चैतत्, यतः यदि तु विश्वकारणं परमेशोऽनुभूयेत, स एव
सूर्यकान्तादेरपि प्रचोदको निरूप्येत न त्वसावनुभूयते,
अनुभवित्रेकरूपत्वात् ॥
ननु च
ङ हि ज्ञानादृते भावाः केनचिद्विषयीकृताः ।
ज्ञानं ज्ञेयात्मतां यातमेतस्मादवसीयते ॥"
इति कालिकाक्रमोक्तनीत्या चिच्छक्तिरेव विष्वस्यावभासने हेतुरनुभूयते,
क्रियाशक्तिरिव निर्माणे, तत् कथमुक्तं ङानुभूतं तु कारणम्" इति
सत्यम्, बहिः प्रसरन्ती शक्तिर्विश्वावभासकतयाऽनुभूयते, आन्तरं
तु विश्वकारणं शिवशक्तिसामरस्यमुक्तयुक्तेर्न परिच्छेत्तुं
शक्यमित्याह
उपादानं तु सा शक्तिः सर्वत्रैव विभाव्यते ॥ २१-५४ ॥
यथा सर्वं सुनिष्पन्नं क्रियाशक्त्या प्रदृश्यते ।
क्षोभ्यक्षोभकभावस्तु प्रत्यक्षो नैव कस्यचित् ॥ २१-५५ ॥
सङ्क्षुब्धं समवायात्तु कारणं तद्विदुर्बुधाः ।
विभाव्यते स्फुटमनुभूयते । अत्रैव यथेत्यनेन दृष्टान्तः ।
सर्वमिति घटपटादि । क्षोभ्यक्षोभकभावः शिवशक्त्योः
सर्गाद्याभासनोचित आद्यः स्पन्दः । तदेव च समवायादिति सामरस्यात्
सङ्क्षुब्धमिति सर्गाद्याभासनौचित्येन स्फुरत् । बुधाः
श्रीकण्ठानन्तेशसदाशिवाद्याः । कार्यते स्वशक्त्या आभास्यतेऽनेन
विश्वमिति कृत्वा कारणं कर्तृ विदुः समावेशेन साक्षात्कुर्वन्ति ।
तदुक्तं श्रीस्वच्छन्दे
“अकामात् स सृजेत् सर्वं जगत् स्थावरजङ्गमम् ।
स्वतेजसा वरारोहे व्योम सङ्क्षोभ्य लीलया ॥
उपादानं तु तत्प्रोक्तं सङ्क्षुब्धं समवायतः ।” (११-३-४)
इति । श्रीश्रीकण्ठ्यामपि
“प्रवर्तेतेश्वरात्सर्वम् ।”
इति ॥
इहाप्येतदेव
अकामतः सृजेत् शर्वः शक्त्या सर्वं चराचरम् ॥ २१-५६ ॥
परिपूर्णतया नास्य कामः फलाभिलाषः कश्चिदित्यकामात् शक्त्येति
स्वस्वातन्त्र्यादेव, न तु भेदेश्वरवदुपादानाद्यपेक्षया । यथोक्तम्
“उपादानं तु सा शक्तिः ।” (२१-५४)
इति । सर्वं चराचरमिति । अचरमिव चरमपि जीवजातं
रुद्रक्षेत्रज्ञरूपं सर्वं भगवान् सृजति स्वरूपगोपनावैचित्र्येण
भासयति, न त्वनादिसिद्धं तदित्याशयः ॥ ५६ ॥
एतत् प्रकृते योजयति
एवमुक्तेन विधिना मन्त्राः सर्वे त्रितत्त्वजाः ।
शिवाख्याः शक्तिरूपाश्च तथैवात्मस्वरूपकाः ॥ २१-५७ ॥
त्रिस्वभावाः समुद्दिष्टाः सर्वत्र बलशालिनः ।
भवन्ति सर्वदा सर्वे सर्वगाः सर्वरूपिणः ॥ २१-५८ ॥
यत उक्तदृशा परमशिव एव स्वभित्तौ स्वशक्त्या विश्वमाभासयति,
ततो मन्त्रास्त्रिषु शिवादितत्त्वेषु जायन्ते शिवाद्याख्याः
शिवादिस्वभावाश्च तथैव सर्वसामर्थ्यादियुक्ताः न तु यथा
मुग्धधियः
“एकः शिवोऽविकारी तच्छक्तिश्चाप्यतो न तौ शक्तौ ।
बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् ॥” (ना।
का। १६)
इति शिवस्वातन्त्र्यमपरामृश्याण्वपेक्षत्वमेव मन्त्राणामाहुः ॥ ५८ ॥
एतद् वितत्य स्फुटयति
शिवो ह्यनादिमान् धाम शाश्वतः प्रथमोऽचलः ।
एतत् प्रागेव व्याकृतप्रायम् ।
स च
इच्छया च यदा देवि प्रसरत्यविलम्बितः ॥ २१-५९ ॥
तदा चास्येच्छाख्या
सा शक्तिः परमा सूक्ष्मा उन्मना शिवरूपिणी ।
मन उत्क्रम्य गताऽनवच्छिन्नस्वप्रकाशस्फुरत्ता ॥
एषैव च
अस्तित्वमात्रमात्मानं क्षोभ्यं क्षोभयते यदा ॥ २१-६० ॥
समनासौ विनिर्दिष्टा शक्तिः सर्वाध्ववर्तिनी ।
क्रोडीकरोति या विश्वं संहृत्य सृजते पुनः ॥ २१-६१ ॥
अस्तित्वमात्रं प्रकाशात्ममहासत्तारूपम्, अतः क्षोभ्यं
समस्तसूत्रणासहिष्णुमात्मानं यदा शक्तिः क्षोभयते
शून्यातिशून्यादिधरान्तसमग्रजगदासूत्रणात्मना स्फुरति, तदा
परप्रमातृपदावरूढा आसूत्रिताशेषमन्तव्यमननमात्ररूपत्वात्
समनेत्युक्ता । अत एव सर्वाध्वनि वर्तते प्रथमोल्लेखकल्पतया स्फुरति,
अतश्च विश्वं क्रोडीकरोति । अयं चास्य क्रोडीकारो यदेतत् संहृत्य
स्वाभेदात्मना निमज्जनेन शून्याभासतया आभास्य सृजति, इदन्तया
प्रथयति,
गर्भीकृताशेषविश्वसृष्टिसंहारप्रपञ्चमहासृष्टिशक्तिरूपतया
स्फुरतीत्यर्थः । एतदेव पुनःशब्देन द्योतितं पुनः पुनः संहृत्य
सृजतीति यावत् । संहृत्येत्यनेन च शून्यातिशून्यात्मव्यापिनी
भूरुक्ता, सृजतीत्यनेन तु शक्तिभूमिः ॥ ६१ ॥
यदाह
कुण्डलाख्या महाशक्तिस्तृतीयाप्युपचर्यते ।
कुण्डलाख्येत्यनेनान्तःशून्यबहिष्कृतपारवश्यात्मताख्यापनेन
व्यापिन्यत्र क्रोडीकृतेति दर्शितम् । उपचर्यते सैवेत्थं व्यवह्रियते ॥
या चैषोन्मनाख्या शक्तिः समस्तभावाभावासूत्रणाद्
भावाभावसामान्यावभासात्मसमनाव्यापिनीशक्तिरूपतया स्फुरिता,
सैव वाच्यवाचकात्मशाक्तरूपं विश्वमवबिभासयिषुः
क्रोडीकृतवाच्यस्पन्दवाचकसामान्यनादरूपतया प्रथमं स्पन्दत
इत्याह ध्वनिरूपो यदा स्फोटस्त्वदृष्टाच्छिवविग्रहात् ॥ ६२ ॥
प्रसरत्यतिवेगेन ध्वनिनाऽऽपूरयन् जगत् ।
स नादो देवदेवेशः प्रोक्तश्चैव सदाशिवः ॥ २१-६३ ॥
स्फुटत्यभिव्यज्यतेऽस्माद् विश्वः शब्दग्राम इति स्फोटः शब्दब्रह्म,
अत एव ध्वनिरूपः शब्दनस्वभावः,
अदृष्टादित्यनाकृतेर्द्रष्टेर्करूपात् परनादामर्शात्मनः
प्रकाशानन्दघनात् शिवस्वरूपादतिवेगेनाव्युच्छिन्नद्रुतनदीघोषवत्
प्रसरति । कीदृक् ? ध्वनिना घण्टानुरणनरूपेण नादान्तेन जगद्
विश्वमापूरयन् आमर्शनेन आत्मसात्कुर्वन् । स एव
नादभट्टारकोऽकृतकाहन्तेदन्तासामानाधिकरण्यविमर्शात्मकपरचित्
प्रकाशरूप इति नादः, सदाशिव इति सामानाधिकरण्योक्तेराशयः ।
प्रसरतीत्युक्त्या परवाक्शक्तिरेव पारमेश्वरी इयं स्फुरतीत्यादिशति
। अत्र च नादान्तोऽप्यनुप्रविष्टः ॥ ६३ ॥
अथ
ध्वनिरध्वगतो यत्र विश्राम्यत्यनिरोधितः ।
निरोधिनीति विख्याता सर्वदेवनिरोधिका ॥ २१-६४ ॥
अध्वगतोऽशेषव्यापकोऽनिरोधितोऽनाहतो नादभट्टारको यत्र
विश्राम्यति स्वव्याप्तिनिमज्जनेनाधरव्याप्तिमुन्मज्जयति, सा निरोधिकाख्या
मन्त्रकला विख्याता । कीदृशी ? सर्वेषां ब्रह्मादिदेवानां निरोधिका
ऊर्ध्वव्याप्त्या धारिका यथोक्तं श्रीस्वच्छन्दे
ङिरोधयति या देवान् ब्रह्मादींश्च सुराधिपे ।
निरोधिकेति साख्याता ।" (१०-१२२३)
इति ॥ ६४ ॥
परमशिवाभेदाख्यातिरेव ब्रह्मादेर्निरोध इत्याह
निरुद्धस्य महेशत्वमहिमा न प्रवर्तते ।
अतश्चाभेदाख्यात्यैव तत्रस्थानां नानात्वमित्याह
असङ्ख्यातास्तु कोट्यो वै मन्त्राणां तत्र संस्थिताः ॥ २१-६५ ॥
किं च
लभन्ते तत्प्रविष्टा वै…
ये तद् निरोधिकापदं प्रविष्टा योगिनः, ते तदेव लभन्ते, न
ऊर्ध्वमभेदव्याप्तिम् । तदित्यावृत्त्या योज्यम् ॥
या चेयं ध्वनिमात्रात्मनादान्तव्याप्तिनिरोधिकाख्या मान्त्री कला
…ष बिन्दुश्चेश्वरः स्मृतः ।
परैव शक्तिरिच्छाशक्तिव्याप्त्या समनातः शक्त्यन्तं पदमुन्मील्य
ज्ञानशक्तिव्याप्त्या शक्तिप्राधान्यमुन्मीलयन्ती
समस्तवाचकाभेदिनादामर्शमयतां
ध्वनिमात्रात्मनादान्तव्याप्त्याभासितां निरुध्य
समग्रवाच्याभेदप्रकाशरूपां
स्फुटेदन्ताहन्तैक्यविमर्शात्मेश्वररूपबिन्द्वात्मतां
गृह्णाति ॥
न च निरोधिकापदाभासनसमनन्तरमेव बिन्द्वात्मतां गृह्णाति, अपि तु
मध्ये
यदा शिवामृतं मूर्ध्नि पतति सृष्टिकारणम् ॥ २१-६६ ॥
आप्यायस्तु भवेत्तेन सोऽर्धचन्द्र इति स्मृतः ।
विमर्शप्रवणनादकलावाच्यसंहारप्रधाना स्वसत्तानिरोधेन
निरोधिनीपदं श्रित्वा समस्तवाच्याभेदवेदनात्मबिन्दुदशां सिसृक्षुः
प्रथमं किञ्चिदुन्मज्जद्वाच्यप्रधानामर्धचन्द्रदशां श्रयतीति
तात्पर्यम् । पदार्थस्तु शिवस्य नादात्मनः सदाशिवनाथस्य सम्बन्धि
अमृतं स्फुटेदन्ताभासात्म सृष्टिवीर्यं स्रष्टव्यस्य
विश्वसत्तात्मनो विर्न्दोमूर्ध्नि पतति, बिन्दूदयात् प्रथममुन्मिषति यदा,
तदा स मन्त्रावयवोऽर्धचन्द्र इत्युच्यते, यतस्तेन आप्यायो भवेत्
तद्भूमिकारूढस्य पूर्णचन्द्राकारा स्रष्ट्री बिन्द्वात्मा
क्रियाशक्तिदशा उदयते ॥
एष(षाम्) चार्धेन्दुर्बिन्दुपदादूर्ध्वमारोहताम्
संहारः सर्वभूतानां…
नादादधोऽवरोहतां तु
…षृष्टिकारणमेव च ॥ २१-६७ ॥
तदित्थं बिन्द्बात्मक्रियाशक्तौ स्फुटीभूतायां
पृथग्भूतवाच्यवाचकमन्त्रदशादर्शनायाह
मकारो ह्यत्र वै रुद्रो वर्णसङ्घट्ट उत्तमः ।
एष बिन्दुः पृथग्भावमवभासयन् प्रथमं
मायाश्रयपुमामर्शिमकाररूपेण भवति । अत्र च रुद्रोऽधिष्ठातेति
शेषः । एष च मकारः प्रस्तुतप्रणवापेक्षयाऽकारोकाराभ्याम्,
मन्त्रान्तरापेक्षया तु वर्णान्तरेभ्योऽप्युत्तम उत्कृष्टोऽतिशयेन
उद्गत ऊर्ध्ववर्ती च वर्णानां सङ्घट्टो विश्रान्तिस्थानम्,
पिण्डाक्षरसम्बन्धिनो हि वर्णास्तत्तत्तत्त्ववाचकतां भजमाना
यावन्न मायाग्रन्थ्युद्भेदिप्लुतोच्चारमकारध्वनिरूपतामाविष्टाः,
तावन्न विश्ववेद्याविभेदिवेदनात्मबिन्दुव्याप्तिमाविशन्ति । प्लुतान्तं च
दीर्घह्रस्वतद्वर्णनीयवाच्यसत्ताऽस्तीत्यपि च वर्णसङ्घट्टः ॥
इत्थं च पूर्वोक्ता
शक्तिर्मायाग्रन्थ्याश्रयमकारात्ममन्त्रावयवरूपतामापन्ना
विश्वजगदात्मतया
यदा स्थितिं च लभते स्वोन्मुखं सृष्टिकारणम् ॥ २१-६८ ॥
प्रतिष्ठाख्य उकारस्तु विष्णुः साक्षाद् भवत्यसौ ।
स्वोन्मुखमिति स्वत्र संविद्रूपे उन्मुखं कृत्वा प्रमाणप्रधानत्वात्
स्थितिदशायाः प्रमाणस्य च ज्ञेयाच्छुरितसंविद्रूपत्वादेवमुक्तम्, अत
एव सृष्टेर्मेयप्रधानाया दशायाः कारणम् ।
प्रमाणरूपसंविदन्तर्वर्तिन एव ह्याभासाः पृथग्विमृश्यमानाः
प्रमेयतया सृज्यन्ते । अत्र च “मत्स्यवलनसंयोगाद् गलके मीनमाश्रिता
।” इति श्रीमीनकुलोक्तदृशा पूर्वापरकोट्योर्दोलनेन गलकोटरे
कृतपदा संविदुन्मिषन्मेयात्मकोकारामर्शरूपा उकाराख्यो मन्त्रावयव
उच्यते । स च प्रतिष्ठायां
गर्भीकृताबादिप्रकृत्यन्तत्रयोविंशतितत्त्वायां
प्रतिष्ठाकलाख्यायां सङ्ख्यानं प्रथा यस्य, अत एव
तत्पदाधिष्ठातृस्थितिसंविन्मयविष्णुभट्टारकामर्शित्वात् साक्षाद्
विष्णुः । एवं तां वदन् मकारकलायाः संहारदशाप्राधान्यं
गर्भीकृतपुमादिमायान्ततत्त्वसप्तकं
विद्याकलाव्याप्तिरित्याद्यनुमन्तव्यमिति शिक्षयति ॥
अथ कण्ठादवरुह्य हृत्पद्मप्राप्तायां संविदि
निवृत्तिस्तु यदा सर्वं निष्पन्नं प्रणवं विभुः ॥ २१-६९ ॥
अकाराख्यं परं धाम ब्रह्मा स कमलासनः ।
पृथ्व्यन्ततत्त्वसर्गनिवृत्तेर्निवृत्तिः । अतश्चावरोहक्रमेणैतदन्तत्वात्
प्रणवस्य अकार आ समन्तात् ख्यानं तस्य तदकाराख्यं परं धाम ।
प्रकर्षेण नूयते स्तूयतेऽभेदेन विमृश्यतेऽनेन परं धामेति कृत्वा
प्रणवैकदेशोऽप्यकारः “प्रदेशोऽपि ब्रह्मणः
सार्वरूप्यमनतिक्रान्तः ।” इति स्थित्या प्रणवपरधाम
सामानाधिकरण्येन निर्दिष्टम् । यच्चैतदकारात्मरूपम्, तद्
ब्रह्मरूपवाचित्वात् सृष्टिप्रधानसंविदामर्शित्वाद्
हृत्कमलकर्णिकारूढत्वाच्च ब्रह्मा कमलासन इति चोच्यते ।
द्वादशान्तवद् हृदोऽपि पूर्णसंवित्त्वात् परधामेत्युचितैवोक्तिः ॥
तदित्थम्
मन्त्रसृष्टिर्भवेदेषा शिवस्य परमात्मनः ॥ २१-७० ॥
“शिवो ह्यनादिमान् ।” (२१-५९)
इत्यतः प्रभृति “कुण्डलाख्या महाशक्ति ।” (२१-६२)
इत्यन्तं शिवतत्त्वरूपतया, नादान्ताद् बिन्द्वन्तं शक्तितत्त्वरूपतया,
मकारादकारान्तमात्मतत्त्वात्मत्वेन मन्त्रसृष्टिरुक्ता ॥ ७० ॥
एवं परोपक्रमपश्यन्तीवाक्प्रधानां
प्रणवात्ममहामन्त्रसृष्टिमुक्त्वा मध्यमाप्राधान्येन
मातृकासृष्टिमाह
ततोऽष्टविधभेदेन पञ्चाशद्वर्णरूपिणी ।
ज्ञानशक्तिः परा सूक्ष्मा मातृकां तां विदुर्बुधाः ॥ २१-७१
॥
वर्गभेदादष्टधात्वम्, वर्ग्यभेदात्तु पञ्चाशद्रूपत्वम्
भेदप्रधानतया चास्या वाक्प्रधानता मन्तव्या । एवमपि
समग्रवाच्यवाचकक्रोडीकारात् परा पूर्णा
वैखरीजन्यश्रोत्रग्राह्यवर्णवैलक्षण्यात् सूक्ष्मा
विश्ववाच्यवाचकसूतिहेतुत्वादज्ञाता माता मातृका । बुधाः
“मातृकाचक्रसम्बोधः ।” (२-७) इति शिवसूत्रस्थित्या
मातृकाज्ञानशालिनः ॥ ७१ ॥
किं चैषा भगवत्यभेदप्रधानतया परावाग्रूपा सती
सा योनिः सर्वमन्त्राणां सर्वत्रारणिवत् स्थिता ।
तदेवं सृष्टिक्रमस्य प्रस्तुतत्वाद् यद्यपि प्रणवस्य व्याप्तिः
प्रातिलोम्येनोक्ता, तथाप्यानुलोम्येन हृत्तो द्वादशान्तं
भेददशासंहारक्रमेण “गृह्णाति प्रणवः सर्वं
कलाभिः कलयेच्छिवम् ।” (२२-१४) इति,
“अकारश्च उकारश्च ।” (२२-२१)
इति वक्ष्यमाणस्थित्या तमुच्चार्य द्वादशान्ताद् हृदन्तमुक्तयुक्त्या
तत्तत्स्थानपरिशीलनेनावरोहेत्ः शिवामृतेन
विश्वमाप्लाव्याशेषक्रोडीकारिमातृकाप्रसरप्रथमाङ्कुरकल्पाकारविम्
अर्शादनुत्तरां भूमिं सृष्ट्वा परामृतसेकसंस्कारत
आपादितमहायज्ञाहुतियोग्यभावं तदेव विश्वं
द्वितीयबीजोच्चारामर्शेन परधाम्नि
हुत्वाऽग्नीषोमात्मन्यूर्ध्वाधरसमग्रसृष्टिसंहारसामरस्यसतत्त्वे
उन्मनापरमशिवाभेदमये प्रकाशानन्दस्वरूपे स्वधाम्नि तृतीयबीजे
स्थित्या विश्राम्येदित्याह जुहोति वीर्यमतुलममृतं सृष्टिसंयुतम् ॥ ७२
॥
पादद्वयेन बीजद्वयवीर्यमत्रासूत्रितम् ॥ २१-७२ ॥
यत एवम्
तेनासौ देवदेवेशो ह्यमृतेशः परापरः ।
असाविति इहत्यमन्त्रराजः । परश्च अपरश्च परापरश्चेति तन्त्रेण
वैश्वात्म्यमस्योक्तम् ॥
किं च
मृत्योरुत्तारयेद्यस्मान्मृत्युजित्तेन चोच्यते ॥ २१-७३ ॥
भरणात् प्रक्रियाण्डानां स भैरव इति स्मृतः ।
प्रक्रियायां पुरतत्त्वादिपरिपाट्यामण्डानि
ब्रह्मप्रकृतिमायाशक्त्यण्डानि, तेषां भरणात्
स्वात्मसात्कारात् । एवमिहत्यमन्त्रनाथस्यामृतेशादिरूपतां निरुच्य
प्रकृतानां सर्वमन्त्राणां त्रितत्त्वात्मतां प्रस्तुतां
निर्वाहयितुमुपक्रमते
एवमाद्याः स्मृता मन्त्राः सर्वे ह्यमिततेजसः ॥ २१-७४ ॥
अधिकारं प्रकुर्वन्ति सर्वस्य जगतः प्रिये ।
मोचयन्ति च संसाराद्योजयन्ति परे शिवे ॥ २१-७५ ॥
मननत्राणधर्मित्वात् तेन मन्त्रा इति स्मृताः ।
एवंशब्दः प्रोक्तमन्त्रनाथं तद्वीर्यं चामृशति । तेन प्रोक्ता
अमृतेशाद्याः प्राङ्निरूपितनीत्या च तद्वीर्यप्रधानाः सर्वे
मन्त्राः, अमृतमविनाशि परामृतसारं च तेजो येषाम्, अत एव
चित्प्रकाशात्मत्वादधिकारं सृष्ट्यादि जगतः कुर्वन्ति, मुख्यतस्तु
पाशमोचनशिवत्वव्यक्त्यात्मानुग्रहकृतोऽतश्च निरुक्तस्थित्या
मननत्राणधर्मयोगाद् मन्त्रा उच्यन्ते ॥
यत एवम्
तस्मात् सर्वगता मन्त्राः सर्वदास्ते त्रितत्त्वजाः ॥ २१-७६ ॥
शिवशक्त्यात्मरूपास्तु नित्यानुग्रहशालिनः ।
क्षेत्रज्ञवदवच्छेदाभावात् सर्वगता व्यापकाः, विज्ञानाकलवत्
कर्तृत्वातिरोभूतेः सर्वदाः, नित्यानुग्रहशालिनश्च
शिवशक्त्यात्मरूपत्वात् त्रिषु तत्त्वेषु जायन्तेऽभिव्यज्यन्ते ॥
किं च
शिवशक्तिप्रभावाश्च शिवदाशिवहारकाः ॥ २१-७७ ॥
निग्रहानुग्रहकृतः शिवदाशिवहारकाश्चेति विशेषणसमासः ॥ ७७ ॥
योगिज्ञानिनां तु
ज्ञातमात्रा हि फलदा भोगमोक्षप्रदायिनः ।
मन्त्राणां शिवशक्त्यात्मरूपत्वं विभागेन प्रथयति
यत्तेषां सर्ववेदित्वं सर्वशक्तित्वमेव च ॥ २१-७८ ॥
तच्छिवत्वं समाख्यातं…
सर्वशक्तित्वं वैश्वात्म्यात् ॥
…शक्तित्वं सर्वकर्तृता ।
शक्यते येनेति शक्तिः स्वातन्त्र्यम् ॥
तदेव स्फुरयति
सर्वानुग्रहकर्तृत्वं सर्वत्र फलदायकम् ॥ २१-७९ ॥
सर्वत्र तत्र तत्र तत्त्वादौ फलप्रदत्वमिति भावप्रधानो निर्देशः ॥
७९ ॥
आत्मत्वं तत्स्वरूपं तु त्रिविधं साधनं स्मृतम् ।
मन्त्रो ध्यानं तथा मुद्रा…
यत् स्वरूपं यस्य साधनस्य मन्त्रदेवताराधनस्य, तत्
प्राणबुद्धिदेहाश्रयमन्त्रोच्चारध्यानमुद्रोपायत्वात् त्रिविधं
मन्त्राणामात्मत्वमणुत्वम् । यथोक्तम् “उच्चारकरणध्यान ।” (मा। वि। २-
२१) इत्यादि श्रीपूर्वे ॥
तच्च एतत् त्रिविधम्
…षाधनं शास्त्रचोदितम् ॥ २१-८० ॥
एतच्च त्रयं प्रपञ्चतो दर्शयति
दीक्षामण्डलसंस्कारं यजनं जपनं तथा ।
होमक्रिया तथा लेख्यं ध्यानधारणयोः क्रिया ॥ २१-८१ ॥
मुद्राबन्धस्तथा योगो यजनं तु क्रियैकता ।
दीक्षा च, मण्डलं च, संस्कारश्चाधिवासाद्यात्मेति समाहारः ।
लेख्यं यन्त्रम् । एतदन्तो मन्त्रस्य प्रपञ्चः । धारणा
ध्यानप्रपञ्चः । मुद्राबन्धश्चित्तैकाग्र्यात्मयोगाय, योगो योजनायै
पर्यवस्यतीत्येतद् मुद्राप्रपञ्चत्वेन उक्तम् । क्रियैकता
मन्त्रसन्धाननाडीसन्धानपरमीकरणरूपा त्रितयस्यापि प्रपञ्चः
॥
इत्थं मन्त्राणां त्रितत्त्वमयत्वमुपपाद्योपसंहरति
एवं मन्त्राः समाख्याताः सर्वत्रैवाधिकारिणः ॥ २१-८२ ॥
तत्त्वत्रयानुसारेण भोगमोक्षयोर्भोगे चेति शिवम् ॥
समुच्चाराद् व्याप्तेः परमपदविश्रान्तिवशतो
ददद् भुक्तिं मुक्तिं द्वयमपि यदद्वैतमसमम् ।
जगत्त्राणान्नेत्रं निखिलमनुचक्रप्रभु परं त्रितत्त्वात्मैशं
तज्जयति परबोधामृतमयम् ॥ ॥
इति श्रीनेत्रतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचित-
नेत्रोद्योते एकविंशोऽधिकारः ॥ २१ ॥