19 कुलचक्राधिकारः

अथ

एकोनविंशोऽधिकारः ।

अथैनं परमं योगविधिमाकर्ण्य शाङ्करी ।
पुनराह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् ॥ १ ॥

साध्यत्वेन श्रुता देव भिन्नयोनिस्तु मालिनी ।
विद्यात्रयं सविद्याङ्गं विधिवच्चावधारितम् ॥ २ ॥

अधुना श्रोतुमिच्छामि ह्यभिन्ना साध्यते कथम् ।
हिताय साधकेन्द्राणां प्रसादाद्वक्तुमर्हसि ॥ ३ ॥

एवमुक्तो महेशान्या जगतां पतिरादरात् ।
विकसद्वदनाम्भोजः प्रत्युवाच वचोऽमृतम् ॥ ४ ॥

आरिराधयिषुः शम्भुं कुलोक्तविधिना बुधः ।
कुलचक्रं यजेदादौ बुधो दीक्षोक्तवर्त्मना ॥ ५ ॥

ततो जपेत्परां शक्तिं लक्षमेकमखण्डितम् ।
पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम् ॥ ६ ॥

तद्वत्खण्डाष्टकं चास्या लक्षं लक्षमखण्डितम् ।
जपेत्कुलेश्वरस्यापि लक्षषट्कमनन्यधीः ॥ ७ ॥

होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः ।
नित्यानुस्मृतिशीलस्य वाक्सिद्धिः सम्प्रजायते ॥ ८ ॥

प्। १२७)

स्वकूले जपयुक्तस्य अशक्तस्यापि साधने ।
भवन्ति कन्यसा +++([ग्: कन्यका देवीति])+++ देवि संसारे भोगसम्पदः ॥ ९ ॥

शक्तस्तु साधयेत्सिद्धिं मध्यमामुत्तमामपि ।
कृतसेवाविधिः पृथ्वीं भ्रमेदुद्भ्रान्तपत्त्रिवत् +++([ग्: पत्रवदिति])+++ ॥ १०

नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै ।
ग्रामेऽपि चैकरात्रं तु स्थित्वैनं विधिमाचरेत् ॥ ११ ॥

यन्नामाद्यक्षरं यत्र वर्गे तत्तस्य +++([क्: वर्गतत्त्वस्येति])+++ वस्तुनः ।
कुलमुक्तं विधानज्ञैर्नगरादेर्न संशयः ॥ १२ ॥

या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता +++([क्: संव्यवस्थितिरिति])+++ ।
सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः ॥ १३ ॥

तस्य किञ्चित्समासाद्य नगरादिकमादरात् ।
स्वदिग्वर्गस्थितो [ग्: स्वदिशि संस्थित] भूत्वा चक्रं योज्य निजोदये
[नियोजयेत्] ॥ १४ ॥

अवा * * * समेकैक उदिते * * * * ।
देवता माहेश्वर * * * * * * * * * ॥ १५ ॥

क्रमेणैव यथा रात्रौ * * * * तथा दिवा ।
स्वदिशि स्वोदये वर्गं तमेवानुस्मरेद्बुधः ॥ १६ ॥

प्। १२८)

तिष्ठेदन्योदयं यावत्ततः स्वां दिशमाश्रयेत् ।
स्वकुलं चिन्तयन्यायात्तद्देशकुलमेव +++([क्: यावत्तद्देशेति])+++ वा ॥ १७ ॥

यावदन्यां दिशं मन्त्री ततस्तदनुचिन्तयेत् ।
एवं यावत्स्वकं स्थानं कुलचक्रोक्तवर्त्मना ॥ १८ ॥

भ्रमित्वा पुनरायाति पूर्वकालक्रमेण च ।
तावदागत्य देवेशि तद्देशकुलनायिका ॥ १९ ॥

ददेद्भक्ष्यादिकं किञ्चिद्दापयेद्वाथ केनचित् ।
अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः । २० ॥

योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति ।
दुष्करोऽयं विधिर्देवि सत्त्वहीनैर्नराधमैः ॥ २१ ॥

सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः ।
अथैकस्मिन्नपि ग्रामे पत्तने नगरेऽपि वा ॥ २२ ॥

तद्दिग्भागं समाश्रित्य तदेवं जपते कुलम् ।
त्रिभिरब्दैरनायासात्साधयेदुत्तमं फलम् ॥ २३ ॥

लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः ।
अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् ॥ २४ ॥

चेतसा भ्रमणं कुर्यात्सर्वकालक्रमेण तु ।
ततोऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् ॥ २५ ॥

प्। १२९)

आविर्भवत्यसन्देहात्स्वविज्ञानप्रकाशकम् ।
तेनाविर्भूतमात्रेण योगी योगिकुले कुली ॥ २६ ॥

भवेदपि पतिर्देवि योगिनां परमेश्वरि ।
अथवा चिन्तयेद्देवि यकारादिकमष्टकम् ॥ २७ ॥

स्वरूपेण प्रभाकारकरालाकुलविग्रहम् ।
तस्य मध्ये कुलेशानं स्वबोधकमनुस्मरन् ॥ २८ ॥

सर्वमेव च तत्पश्चाच्चक्रं दीपशिखाकृति ।
सम्भूतं चिन्तयेद्योगी योगिनीपदकाङ्क्षया ॥ २९ ॥

एतस्मिन्व्यक्तिमापन्ने पिण्डस्थं बुद्ध उच्यते ।
ततोऽस्याकस्मिकी देवि महामुद्रोपजायते ॥ ३० ॥

शृङ्गारवीरकारुण्यशोककोपादयस्तथा ।
प्रबुद्धमेतदुद्दिष्टं पिण्डस्थममरार्चिते ॥ ३१ ॥

दिवसैरभियुक्तस्य ततोऽस्य बहुभिर्दिनैः ।
धरादितत्त्वभावानां संवित्तिरुपजायते ॥ ३२ ॥

सुप्रबुद्धं तदिच्छन्ति पिण्डस्थं ज्ञानमुत्तमम् ।
चक्रं च त्रिगुणाष्टारमथवा तत्र चिन्तयेत् ॥ ३३ ॥

कादिहान्ताक्षराक्रान्तं पूर्वरूपं सविन्दुकम् ।
तत्रापि पूर्ववत्सर्वं कुर्वन्नेतत्फलं लभेत् ॥ ३४ ॥

आदिवर्णान्वितं वाथ षोडशारमनुस्मरन् ।
मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः ॥ ३५ ॥

प्। १३०)

द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके ।
यतः पिण्डत्वमायान्ति तेनासौ पिण्ड उच्यते ॥ ३६ ॥

तत्र स्थितं तु यज्ज्ञेयं पिण्डस्थं तदुदाहृतम् ।
अ * * मल * * त्केश * * * * * * कम् ॥
३७ ॥

विज्वरत्वमवाप्नोति वत्सरेण यदृच्छया ।
चक्रपञ्चकमेतद्धि पूर्ववद्धृदये स्थितम् ॥ ३८ ॥

पदस्थमिति शंसन्ति चतुर्भेदं विचक्षणाः ।
यत्रार्थावगतिर्देवि तत्स्थानं पदमुच्यते ॥ ३९ ॥

चतुष्कमत्र विज्ञेयं भेदं पञ्चदशात्मकम् ।
सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत् ॥ ४० ॥

जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः ।
व्याप्तावपि प्रसिद्धायां मायाधस्तत्त्वगोचरः ॥ ४१ ॥

वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति ।
पदस्थे किन्तु चन्द्राभं प्रदीपाभं न चिन्तयेत् ॥ ४२ ॥

एतदेवामृतौघेन देहमापूरयत्स्वकम् ।
चिन्तितं मृत्युनाशाय भवतीति किमद्भुतम् ॥ ४३ ॥

उपलक्षणमेतत्ते चन्द्रबिम्बाद्युदीरितम् ।
येन येनैव रूपेण चिन्त्यते परमेश्वरी ॥ ४४ ॥

पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा ।
रूपमैश्वरमिच्छन्ति शिवस्यासिवहारिणः ॥ ४५ ॥

प्। १३१)

यद्भ्रूमध्यस्थितं यस्मार्त्तेन तत्र व्यवस्थितम् ।
पञ्चकं सूर्यसङ्काशं रूपस्थमभिधीयते ॥ ४६ ॥

तत्रापि पूर्ववत्सिद्धिरीश्वरान्तपदोद्भवा ।
रूपातीतं तु देवेशि प्रागेवोक्तमनेकधा ॥ ४७ ॥

एत्येषा कुलचक्रस्य समासाद्व्याप्तिरुत्तमा ।
कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते ॥ ४८ ॥

सर्वदाथ विभेदेन पृथग्वर्णविभेदतः ।
विद्यादिसर्वसंसिद्ध्यै योगिनां योगमिच्छताम् ॥ ४९ ॥

भूयोऽपि सम्प्रदायेन वर्णभेदश्च कीर्त्यते ।
स्त्रीरूपां हृदि सञ्चिन्त्य सितवस्त्रादिभूषिताम् +++([क्: भूषणामिति])+++ ॥ ५० ॥

नाभिचक्रोपविष्टां तु चन्द्रकोटिसमप्रभाम् ।
बीजं यत्सर्वशास्त्राणां तत्तदा स्यादनारतम् ॥ ५१ ॥

स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत् ।
तारहारलताकारं विस्फुरत्किरणाकुलम् ॥ ५२ ॥

वर्णैस्तारकसङ्काशैरारब्धममितद्युति ।
मासार्धाच्छास्त्रसङ्घातमुद्गिरत्यनिवारितम् ॥ ५३ ॥

स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया ।
उच्छिन्नान्यपि शास्त्राणि ग्रन्थतश्चार्थतोऽपि वा ॥ ५४ ॥

प्। १३२)

जानाति वत्सराद्योगी यदि तन्मयतां +++([क्: चिन्मयतामिति])+++ गतः ।
अनुषङ्गफलं चैतत्समासादुपवर्णितम् ॥ ५५ ॥

विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः ।
प्रतिवर्णविभेदेन यथेदानीं तथोच्यते ॥ ५६ ॥

ध्यातव्या योगिभिर्नित्यं तत्तत्फलबुभुक्षुभिः ।
विन्यासक्रमयोगन त्रिविधेनापि वर्त्मना ॥ ५७ ॥

यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः ।
तं तत्रैव समाधाय स्वरूपेणैव योगवित् ॥ ५८ ॥

स्फुरत्प्रभास्ततिमिरं कुवन्नत्र मनः स्थिरम् ।
पूर्वकालक्रमादेव तत्त्वाभ्यासोक्तवर्त्मना ॥ ५९ ॥

तद्वर्णव्याप्तिजं सर्वं प्राप्नोति फलमुत्तमम् ।
अथवा योजयेत्कश्चिदेनां वश्यादिकर्मसु ॥ ६० ॥

तदा प्रसाधयत्याशु साधकस्य समीहितम् ।
उदितादित्यवर्णाभां समस्ताक्षरपद्धतिम् ॥ ६१ ॥

इच्छयैनां सुवर्णाभां स्रवन्तीं मदिरां मुहुः ।
सप्ताहं चिन्तयेद्यस्य सर्वाङ्गेषु यथाक्रमम् ॥ ६२ ॥

स वश्यो दासवद्भूत्वा नान्यं स्वामिनमिच्छति ।
त्रिसप्ताद्रूपसम्पन्नां पदविभ्रान्तलोचनाम् ॥ ६३ ॥

प्। १३३)

उर्वशीमप्यनायासादानयेत्किमु मानुषीम् ।
अनेनैव विधानेन वायुवह्निपुरान्तगाम् ॥ ६४ ॥

पिण्डाकृष्टीकरी ज्ञेया योजनानां [ ] शतैरपि ।
शरत्पूर्णनिशानाथवर्णाभैषानुसन्धिता ॥ ६५ ॥

विदधात्यतुलां शान्तिमात्मनोऽथ परस्य वा ।
द्रुतहेमप्रतीकाशा स्वस्थाने सम्प्रयोजिता ॥ ६६ ॥

महतीं पुष्टिमाधत्ते दशाहेनैव शाङ्करि ।
जम्बूफलरसाभासां वज्रकीलकसन्निभाम् ॥ ६७ ॥

कीलने चिन्तयेद्योगी मोहने शुकपिच्छवत् ।
वज्रनीलप्रतीकाशां प्रतिस्थाननिकृन्तनीम् ॥ ६८ ॥

कालानलसमस्पर्शां रिपुनाशाय चिन्तयेत् ।
मालायष्टरभीतानां +++([ग्: मालयिष्टरभीष्टानामिति])+++
कुलमद्रिसमोपमम् (?) ॥ ६९ ॥

चिन्तयेद्धूमसङ्काशामत्यन्तमनलाकुलाम् ।
शान्तिकर्मोक्तवत्कोपप्रशान्तावप्यनुस्मरन् ॥ ७० ॥

तापने तु तथा किन्तु स्वरूपं सूर्यवद्बुधः ।
विद्वेशे तु कपोताभां भञ्जने चाषसन्निभाम् ॥ ७१ ॥

उत्सादे नीलहरितपीतरक्तासितां स्मरेत् ।
प्रत्यङ्गव्याधिसम्भूतावेकमेव तदुद्भवम् ॥ ७२ ॥

प्। १३४)

वर्णं विचिन्तयेद्योगी मारणोक्तेन वर्त्मना ।
तद्वत्तु शान्तिकर्मोक्तवर्त्मना तत्प्रसान्तये ॥ ७३ ॥

चिन्तयेत्कृतके व्याधिसङ्घाते सहजेऽपि वा ।
अथवैतां जपन्कश्चिद्वाक्सिद्धिमभिवाञ्छति ॥ ७४ ॥

तदानेन विधानेन प्रकुर्यादक्षमालिकाम् ।
मणिमौक्तिकशङ्खादिपद्माक्षादिविनिर्मिताम् ॥ ७५ ॥

हेमादिधातुजां वाथ शतार्धप्रमितां +++([क्: शतार्धाक्षमितामिति])+++
बुधः ।
यथा स्वबाहुमात्रा स्याद्वलयाकृतितां गता ॥ ७६ ॥

तां गृहीत्वा समालभ्य गन्धधूपाधिवासिताम् ।
पूजयित्वा कुलेशानं तत्र शक्तिं निवेशयेत् ॥ ७७ ॥

प्रत्येकमुच्चरेद्बीजं पराबीजपुटान्तगम् +++([क्: बीजपुटं गर्तमिति])+++ ।
प्रस्फुरत्क्षान्तमेकस्मिन्नाद्यक्षे विनियोजयेत् ॥ ७८ ॥

आद्यर्णं व्यापकं भूयः सर्वाधिष्ठायकं स्मरेत् ।
द्विविधेऽपि हि वर्णानां भेदे विधिरयं मतः ॥ ७९ ॥

द्वितीयं व्यापकं वर्णं द्वितीयं पूर्ववन्न्यसेत् ।
तृतीयादिषु वर्णेषु फान्तेष्वप्येवमिष्यते ॥ ८० ॥

ततः शक्तिमनुस्मृत्य सूत्राभामेकमानसः ।
अक्षमध्यगतां कुर्यादक्षसूत्रप्रसिद्धये ॥ ८१ ॥

प्। १३५)

चक्रवद्भ्रामयेदेनां यदेवात्र प्रभाषते ।
तत्सर्वं मन्त्रसंसिद्ध्यै जपत्वेन प्रकल्पते ॥ ८२ ॥

होमः स्याद्दीक्षिते तद्वद्दह्यमानेऽत्र वस्तुनि ।
विपरीतप्रयोगेन सङ्क्रुद्धो भ्रामयेद्यदि ॥ ८३ ॥

नदा मारयते शत्रुं सभृत्यबलवाहनम् ।
अभिमन्त्र्य यदेवात्र चेतसा कर्म साधकः ॥ ८४ ॥

रात्रौ सौम्यादिभेदेऽत्र भ्रामयेदक्षसूत्रकम् ।
तदेव सिद्ध्यते देवि कृतसेवाविधेः +++([ग्: सेवाविधिरिति])+++ प्रिये ॥ ८५ ॥

सेवा चात्राक्षसूत्रस्य षण्मासं परिवर्तनम् ।
विधावत्र नियुक्तस्य योगिनो वत्सरत्रयात् ॥ ८६ ॥

वाक्सिद्धिर्जायते देवि सर्वलोकसुदुर्लभा ।
वाक्सिद्धेर्नापरा सिद्धिरुत्तमा भुवि जातुचित् ॥ ८७ ॥

वाचो वर्णात्मिका यस्माद्वर्णरूपा च मालिनी ।
अथवा चिन्तयेदेनामुल्काकारां विचक्षणः ॥ ८८ ॥

निर्गच्छन्तीं स्वकाद्देहाद्विस्फुरन्तीं ततोऽप्यतः ।
स्फुलिङ्गैः कोटिसङ्ख्यातैः सन्ततैः किरणाकुलैः ॥ ८९ ॥

ग्रामं वा पत्तनं वापि नगरं देशमेव वा ।
मण्डलं पृथिवी वापि ब्रह्माण्डं वा समस्तकम् ॥ ९० ॥

विस्तीर्णं वा जनानीकमेकैकमुत्तमोत्तमम् ।
स बाह्याभ्यन्तरं व्याप्य पुनः प्रतिनिवृत्त्य च ॥ ९१ ॥

प्। १३६)

प्रविशन्तीं स्वकं देहं पूर्वाकारामनुस्मरेत् ।
एवं दिने दिने कुर्यात्तद्गतेनान्तरात्मना ॥ ९२ ॥

ततोऽस्य मासमात्रेण जनास्तत्र निवासिनः ।
आगच्छन्ति यथा तीर्थं शक्तितेजोपबृंहिताः ॥ ९३ ॥

रूपिण्यो विविधाकारा ललनाद्यास्तथा पराः ।
भूचर्यः क्षोभमायान्ति षण्मासान्नात्र संशयः ॥ ९४ ॥

योनिजा द्वा मजा (?) क्षेत्रजाताः पीठसमुद्भवाः ।
नायिकाश्च महादेवि क्रमात्क्षुभ्यन्ति वत्सरात् ॥ ९५ ॥

अन्तरिक्षगता दिव्या ब्रह्मलोकगताश्च याः ।
ब्रह्माण्डान्तर्गताः सर्वाः क्षोभं यान्ति समात्रयात् ॥ ९६ ॥

स्वं स्वं ददति विज्ञानं साधकेन समीहितम् ।
यदि ता न प्रयच्छन्ति साधकेन समीहितम् ॥ ९७ ॥

नश्यते दिव्यविज्ञानं त्रुट्यते कुलसन्ततिः ।
दत्त्वा तु साधकेन्द्रेण प्रार्थितं फलमादरात् ॥ ९८ ॥

अनुपालितगुर्वाज्ञाः सिद्धिं प्राप्स्यन्त्यनुत्तमाम् ।
ताभ्यो विज्ञानमासाद्य योगी योगिकुले कुली ॥ ९९ ॥

भुक्त्वा यथेप्सितान्भोगान्यात्यन्ते परमं पदम् ।
इत्ययं कथितो लेशात्कौलिको विधिरुत्तमः ॥ १०० ॥

योगिनां सर्वसिद्ध्यर्थं कुलमार्गानुसारिणाम् ॥ १०१ ॥

इति श्रीमालिनीविजयोत्तरे तन्त्रे कुलचक्राधिकार एकोनविंशः ॥ १९ ॥