अथ
एकादशोऽधिकारः
अथातः सम्प्रवक्ष्यामि दीक्षां परमदुर्लभाम् ।
भुक्तिमुक्तिकरीं सम्यक्सद्यः प्रत्ययकारिकाम् ॥ १ ॥
नास्यां मण्डलकुण्डादि किञ्चिदप्युपयुज्यते ।
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ॥ २ ॥
प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् ।
प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः ॥ ३ ॥
दीप्तां शक्तिमनुस्मृत्य पादाग्रान्मस्तकावधि ।
महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत्तनुम् ॥ ४ ॥
अनुलोमप्रयोगाच्च मालिनीममृतप्रभाम् ।
चिन्तयेत्तनुनिष्पत्त्यै तद्ध्यानगतमानसः ॥ ५ ॥
शोध्याध्वानं ततो देहे पूर्वोक्तमनुचिन्तयेत् ।
ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत् ॥ ६ ॥
परासम्पुटमध्यस्थां मालिनीं सर्वकर्मसु ।
योजयेत विधानज्ञः परां वा केवलाम्प्रिये ॥ ७ ॥
गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये ।
ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम् ॥ ८ ॥
प्। ७४)
गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम् ।
तत्पतीनां ततोऽर्धं च तत्रैव परिपूजयेत् ॥ ९ ॥
अन्त्याधः पूजयेद्विद्यां तद्वद्विद्यां महेश्वरीम् ।
मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत् ॥ १० ॥
पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् ।
इन्द्राणीपूर्वकं तद्वदैशादिदल अन्तगम् ॥ ११ ॥
तत्रोपरि न्यसेद्देवं कूटरूपाणुनामुना ।
जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम् ॥ १२ ॥
दक्षाङ्गुलि ततोऽधस्तात्ततो वामपयोधरम् ।
नाभिकण्ठौ ततोऽधस्ताद्वामस्कन्धविभूषणौ ॥ १३ ॥
शिवजिह्वान्वितः पश्चात्तदूर्ध्वोष्ठेन चोपरि ।
सर्वयोगिनीचक्राणामधिपोऽयमुदाहृतः ॥ १४ ॥
अस्याप्युच्चारणादेव संवित्तिः स्यात्परोदिता ।
ततो वीराष्टकं पश्चाच्छक्त्युक्तविधिना +++([क्: शक्त्याक्तेति])+++ यजेत् ॥ १५ ॥
प्रभूतैर्विविधैरिष्ट्वा गन्धधूपैः स्रगादिभिः ।
श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत् ॥ १६ ॥
ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् ।
रुद्रशक्त्या तु सम्प्रोक्ष्य देवाग्रे विनिवेशयेत् ॥ १७ ॥
प्। ७५)
भूजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् ।
तथैवाप्यर्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ १८ ॥
निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् ।
शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत् ॥ १९ ॥
ततः प्रक्षेपयेत्पुष्पं सा शक्तिस्तत्करस्थिता ।
यत्र +++([क्: तत्र तत्पतनेति])+++ तत्पतते पुष्पं तत्कुलं तस्य लक्षयेत् ॥ २० ॥
मुखमुद्घाट्य तं पश्चात्पादयोः [क्: मुखं बद्धा युतं
पश्चादिति] प्रतिपातयेत् ।
ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्य योगवित् ॥ २१ ॥
तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ ।
शिवहस्तविधिः प्रोक्तः सद्यः प्रत्ययकारकः ॥ २२ ॥
चरुकं दापयेत्पश्चात् खर्जूरादिफलोद्भवम् ।
शक्त्यालम्बां तनुं कृत्वा स्थापयेदग्रतः शिशोः ॥ २३ ॥
पुष्पक्षेपप्रयोगेन हस्तमाकृस्य दक्षिणम् ।
चरुकं ग्राहयेन्मन्त्री तद्ध्यानगतमानसः ॥ २४ ॥
शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् ।
अनेनैव विधानेन क्षीरवृक्षसमुद्भवम् ॥ २५ ॥
प्। ७६)
दन्तकाष्ठं ददेद्देवि षोडशाङ्गुलमायतम् ।
एतेषां चालनान्मन्त्री शक्तिपातं परीक्षयेत् ॥ २६ ॥
मन्दतीव्रादिभेदेन मन्दतीव्रादिकाद्बुधः ।
इत्ययं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना ॥ २७ ॥
चिकीर्षुश्च यदा दीक्षामस्यैवार्पितमानसः ।
तदिष्ट्वा पूर्ववद्योगी कुलेशं तमनुक्रमात् [क्:
सुकुलीनमनुक्रमादिति] ॥ २८ ॥
सम्पूज्य पूर्ववच्छिष्यमृजुदेहे विलोकयेत् ।
शक्तिं सञ्चिन्त्य पादाग्रान्मस्तकान्तं विचक्षणः ॥ २९ ॥
शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभावताम् ।
शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना ॥ ३० ॥
उपविश्य ततस्तस्य विधानमिदमाचरेत् ।
मूलशोध्यात्समारभ्य शक्तिं दीप्तानलप्रभाम् ॥ ३१ ॥
योजयेच्छोध्यसंशुद्धिभावनागतमानसः ।
एवं सर्वाणि शोध्यानि निर्दहन्तीमनामयाम् ॥ ३२ ॥
शिवे सञ्चिन्तयेल्लीनां निष्कले सकलेऽपि वा ।
योगिना योजिता मार्गे स्वजातीयस्य पोषणम् ॥ ३३ ॥
प्। ७७)
कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम् ।
अनया शोध्यमानस्य शिष्यस्यास्य महामतिः ॥ ३४ ॥
लक्षयेच्चिह्नसङ्घातमानन्दादिकमादरात् ।
आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी [क्: धूर्णिश्च
पञ्चकमिति] ॥ ३५ ॥
एवमाविष्ट्या शक्त्या मन्दतीव्रादिभेदतः ।
पाशस्तोभपशुग्राहौ प्रकुर्वीत यथेच्छया ॥ ३६ ॥
गृहीतस्य पुनः कुर्यान्नियोगं शेषभुक्तये ।
अथवा कस्यचिन्नायमावेशः +++([क्: कंस्यचिद्वायमिति])+++ सम्प्रजायते ॥ ३७ ॥
तदेनं युगपच्छक्त्या सबाह्याभ्यन्तरे +++([ग्: भ्यन्तरं दहोदिति])+++ दहेत् ।
तया सन्दह्यमानोऽसौ च्छिन्नमूल इव द्रुमः ॥ ३८ ॥
पतते काश्यपीपृष्ठे आक्षेपं वा करोत्यसौ ।
यस्य त्वेवमपि स्यान्न तं चैवोपलवत्त्यजेत् ॥ ३९ ॥
पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्तिनः ।
तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत् ॥ ४० ॥
इति सन्दीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् ।
कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥ ४१ ॥
प्। ७८)
बुहुक्षोस्तु प्रकुर्वीत सम्यग्योगाभिषेचनम् ।
तत्रेष्ट्वा पूर्ववद्देहं विस्तीर्णैर्विबुधैर्बुधैः (?) ॥ ४२ ॥
हेमादिदीपकानष्टौ घृतेनारुणवर्तिकान् ।
कुलाष्टकेन सम्बोध्य शिवं शङ्खे प्रपूजयेत् ॥ ४३ ॥
सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते ।
तेनाभिषेचयेत्तं तु शिवहस्तोक्तवर्त्मना ॥ ४४ ॥
आचार्यस्याभिषेकोऽयमधिकारपदान्वितः ।
कुर्यात्पिण्डादिभिस्तद्वच्चतुःषष्टिं प्रदीपकान् ॥ ४५ ॥
अभिषिक्तविधावेव सर्वयोगिगणेन तु ।
विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥ ४६ ॥
अनयोः कथयेज्ज्ञानं +++([क्: कथयोर्ज्ञानमिति])+++ त्रिविधं सर्वमप्यलम् ।
स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प्रति ॥ ४७ ॥
इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः ॥ ११ ॥