06 देहमार्गाधिकारः

अथ

षष्ठोऽधिकारः ।

अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः ।
क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते ॥ १ ॥

पादाधः पञ्चभूतानी व्याप्त्या द्व्यङ्गुलया न्यसेत् ।
धरातत्त्वं च गुल्फान्तमवादीनि ततः क्रमात् ॥ २ ॥

तद्वत्तदुपरिष्टात्तु पर्वषट्कावसानकम् ।
पुंस्तत्त्वात्कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत् ॥ ३ ॥

ततो मायादितत्त्वानि चत्वारि सुसमाहितः ।
चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत् ॥ ४ ॥

शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् ।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ ५ ॥

षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः ।
अधुना पञ्चतत्त्वानि यथा देहे तथोच्यते ॥ ६ ॥

नाभेरूर्ध्वं तु यावत्स्यात्पर्वषट्कमनुक्रमात् [तन्त्रालो
पूर्वषट्कमिति] ।
धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना ॥ ७ ॥

द्वाविंशतिश्च पर्वाणि तदूर्ध्वं +++([तन्त्रालो ततोर्द्धमिति])+++
तेजसावृतम् ।
तस्माद्द्वादश पर्वाणि वायुव्याप्तिरुदाहृता ॥ ८ ॥

प्। ३२)

आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् ।
शक्त्यादिपञ्चखण्डाध्वविधिष्वप्येवमिष्यते ॥ ९ ॥

त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम् ।
विद्यातत्त्वमतोर्ध्वं तु शिवतत्त्वं तु पूर्ववत् ॥ १० ॥

एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते ।
कालाग्नेर्वीरभद्रान्तं पुरषोडशकं ततः ॥ ११ ॥

गुल्फान्तं विन्यसेद्ध्यात्वा यथावदनुपूर्वशः ।
तस्मादेकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात् ॥ १२ ॥

विन्यसेत्तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम् ।
ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक् ॥ १३ ॥

ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात् ।
चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयन् ॥ १४ ॥

उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये ।
काले प्रत्येकमुद्दिष्टमेकैक तु यथाक्रमम् ॥ १५ ॥

मण्डलाधिपतीनां तु व्याप्तिरर्धाङ्गुला मता ।
त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि ॥ १६ ॥

द्वितीयस्य तु सम्पूर्णा पञ्चकं समुदाहृतम् ।
अष्टकं पञ्चकं चान्यदेवमेव विलक्षयेत् ॥ १७ ॥

प्। ३३)

भुवनाध्वविधावत्र पूर्ववच्चिन्तयेच्छिवम् ।
पदानि द्विविधान्यत्र वर्गविद्याविभेदता ॥ १८ ॥

तेषां तन्मन्त्रवद्व्याप्तिर्यथेदानीं तथा शृणु ।
चतुरङ्गुलमाद्यं तु द्वे चान्यऽष्टाङ्गुले पृथक् ॥ १९ ॥

दशाङ्गुलानि त्री-एयस्मादेकं +++([क्: एवं पञ्चदशेति])+++
पञ्चदशाङ्गुलम् ।
चतुर्भिरधिकैरन्यन्नवमं व्यापकं महत् ॥ २० ॥

ऊनविंशतिके भेदे पदानां व्याप्तिरुच्यते ।
एकैकं द्व्यङ्गुलं ज्ञेयं ततः पूर्व पदत्रयम् ॥ २१ ॥

सप्ताङ्गुलानि +++([तन्त्रालो अष्टाङ्गुलानीति])+++ चत्वारि दशाङ्गुलमतः
परम् ।
द्व्यङ्गुलं द्वे पदे चान्ये षडङ्गुलमतः परम् ॥ २२ ॥

द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् ।
पदद्वयं चतुष्पर्व द्वे पूर्वे द्वे पृथक्ततः ॥ २३ ॥

व्यापकं पदमन्यच्च * * * तत्परिकीर्तितम् ।
अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु ॥ २४ ॥

पूर्ववत्पृथिवी तत्त्वं विज्ञेयं चतुरङ्गुलम् ।
सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत् ॥ २५ ॥

प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत् ।
परेऽपि पूर्ववत्पृथ्वी त्र्यङ्गुलान्यपराणि च ॥ २६ ॥

प्। ३४)

चतुष्पर्व +++([क्: चतुष्पथेति])+++ प्रधानं च शेषं पूर्ववदाश्रयेत् ।
द्विविधोऽपि +++([क्: द्विविधेऽपीति])+++ हि वर्णानां षड्विधो भेद उच्यते [क्:
इष्यत] ॥ २७ ॥

तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ।
पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः ॥ २८ ॥

त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ।
इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना ॥ २९ ॥

प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा ।

इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः ॥ ६ ॥