अथ
द्वितीयोऽधिकारः
अथैषाम् एव तत्त्वानां
धरादीनाम् अनुक्रमात् ।
प्रपञ्चः कथ्यते लेशाद्
योगिनां योगसिद्धये ॥ १ ॥
English
- Now the detailed description of these categories, from the earth etc., is given systematically in an abbroviated form for the sake of Yogis to enable thom to achieve succes in Yoga.
शक्तिमच्-छक्ति-भेदेन
धरा-तत्त्वं विभिद्यते ।
स्वरूप-सहितं तच् च
विज्ञेयं दश-पञ्च-धा ॥ २ ॥
English
- The earth (Tattva) is divided into two kinds, i.e., Saktiman (holder of power) and sakti (Power or energy), with the addition or its own form (individual existance), the Dhara Tattva should be known of fifteen kinds.
शिवादि-सकलात्मान्ताः
शक्तिमन्तः प्रकीर्तिताः ।
तच्-छक्तयश् च विज्ञेयास्
तद्-वदेव विचक्षणैः ॥ ३ ॥
English
- The Saktimans are seven, from siva to Sakala. Similarly the wise people should know the Sakti is of seven kinds as the Saktiman is never without its Sakti.
एवं जलादि-मूलान्तं
तत्त्व-व्रातम् इदं महत् ।
पृथग्-भेदैर् इमैर् भिन्नं
विज्ञेयं तत्-फलेप्सुभिः ॥ ४ ॥
English
- Thus, from water to the Prakrti tattva, all this group of the principles, should be known by people desiring to get their fruit, as divided by those fifteen kinds from one another.
अनेनैव विधानेन
पुंस्तत्त्वात् तु +++([तम्: पुंस्तत्त्वात्तत्कलान्तकमिति])+++ कलान्तिकम् ।
त्रयोदशविधं ज्ञेयं
रुद्रवत् प्रलयाकलाः ॥ ५ ॥
English
- According to this very method, the Purusa tattva to Kala, should be town of thirteen kinds. The Pralaya kalas should be known of eleven kinds like the Rudrus (eleven).
तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलाः ।
मन्त्राः सप्तविधास्तद्वत्पञ्चधा +++([तम्: पञ्च मन्त्रविनायका इति ।])+++
मन्त्रनायकाः ॥ ६ ॥
त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते ।
भेदः प्रकथितो लेशादनन्तो विस्तरादयम् ॥ ७ ॥
एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम् ।
विज्ञेया योगसिद्ध्यर्थं योगिभिर्योगपूजिता ॥ ८ ॥
प्। ८)
एतेषामेव तत्त्वानां भुवनानां च शाङ्करि ।
य एकमग्नि जानाति सोऽपि योगफलं लभेत् ॥ ९ ॥
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ।
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ १० ॥
स्पृष्टाः सम्भाषितास्तेन +++([ख्: सम्भाविता])+++ दृष्टाश्च प्रीतचेतसा ।
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ॥ ११ ॥
ये पुनर् दीक्षितास् तेन
प्राणिनः शिव-चोदिताः ।
ते यथेष्टं फलं प्राप्य
पदं गच्छन्त्य् अनामयम् +++([ख्: गच्छन्ति परमं पदमिति])+++ ॥ १२ ॥
रुद्र-शक्ति-समावेशस्
तत्र नित्यं प्रतिष्ठितः ।
सति तस्मिंश् च चिह्नानि
तस्यैतानि विलक्षयेत् +++(साधारण-स्थितेर् अपेक्षया ऽऽधिक्येन वर्तमानानि, नासीमानि)+++॥ १३ ॥
तत्रैतत् प्रथमं चिह्नं
रुद्रे भक्तिः सुनिश्चला ।
द्वितीयं मन्त्र-सिद्धिः स्यात्
सद्यः प्रत्यय-कारिका ॥ १४ ॥
सर्व-सत्त्व-वशित्वं च
तृतीयं लक्षणं स्मृतम् ।
प्रारब्ध-कार्य-निष्पत्तिश्
चिह्नम् आहुश् चतुर्थकम् ॥ १५ ॥
कवित्वं पञ्चमं ज्ञेयं
सालङ्कारं मनोहरम् ।
सर्व-शास्त्रार्थ-वेत्तृत्वम्
अकस्माच् चास्य जायते ॥ १६ ॥
विस्तारः (द्रष्टुं नोद्यम्)
रुद्र-शक्ति-समावेशः
पञ्च-धा परिपठ्यते ।
भूत-तत्त्वाऽऽत्म-मन्त्रेश-
शक्ति-भेदाद् वरानने ॥ १७ ॥
English
- O Fair-raced, one Rudra-Sakti Samavesa is said to be five kinds, according to the divisions of the five elements (bhuta), tattva (thirty tattvas), Atma (limited self), Mantra and Sakti.
विस्तारः (द्रष्टुं नोद्यम्)
जहाँ तक श्लो॰ १३ में कहे गये रुद्रशक्ति के समावेश का प्रश्न है, इसे पांच प्रकार से स्वाध्याय का विषय बनाते हैं । वे इस प्रकार हैं-१. भूत, २. तत्त्व, ३. आल्म, ४. मन्त्र और ५. ईशशक्ति।
प्। ९)
+++(पृथिव्य्-आदिभिश् चिदात्मकैर् इति क्रमेण)+++
पञ्च-धा भूत-सञ्ज्ञस् तु,
तथा त्रिंशति-धा परः +++(तत्त्वसमावेशः)+++ ।
आत्माख्यस् त्रि-विधः +++(अन्तरात्म-परमात्म-ज्ञानात्म-भेदेन)+++ प्रोक्तो,
दश-धा मन्त्र-सञ्ज्ञकः
+++(परा, अपरा, ८ मातृकाः - अघोरा, परमघोरा, घोररूपा, घोरवक्त्रा, भीमा, भीषणा, वमनी, पिबनी इति)+++ ॥ १८ ॥
English
- The bhuta Samavesa is of five kinds as bhutas (Gross elements) are five. The tattva Samarasa is of thirty kinds. The Atma Samavesa has three varieties. The Mantra Samavesa is of ten kinds.
द्वि-विधः +++(कथम्??)+++ शक्ति-सञ्ज्ञोऽपि
ज्ञातव्यः परमार्थतः ।
पञ्चाशद् भेद-भिन्नोऽयं
समावेशः प्रकीर्तितः ॥ १९ ॥
English
- As a matter of fact, the Sakt Samavesa should be known or two kinds. This Samavesa is said to be or fifty kinds.
विस्तारः (द्रष्टुं नोद्यम्)
ये पांच प्रकार के समावेश सभी साधकों की विभिन्न श्रेणियों में दृष्टिगोचर होते हैं । इनके अनेक प्रकार के भेद होते हैं । जैसे इस तालिका से व्यक्त होता है
- भूत - ५
- तत्त्व - ३०
- आत्म - ३
- मन्त्र - १०
- शक्ति - २
इस प्रकार पाँच प्रकार के भूत समावेश, ३० प्रकार के तत्त्व समावेश, तीन प्रकार आत्म समावेश, दश प्रकार के मन्त्र समावेश और दो प्रकार के शाक्त समावेशों को मिलाकर कुल ५० प्रकार के समावेश होते हैं ॥ १७-१९ ॥
आणवो ऽयं समाख्यातः
शाक्तो ऽप्य् एवं-विधः स्मृतः ।
एवं शाम्भवम् अप्य् एभिर्
भेदैर् भिन्नं विलक्षयेत् ॥ २० ॥
उच्चार-करण-ध्यान-
वर्ण-स्थान-प्रकल्पनैः +++([ग्: विकल्पनैरिति ।])+++ ।
यो भवेत् स समावेशः
सम्यग् आणव उच्यते ॥ २१ ॥
+++(उच्चार-करणयोर् विवरणं तन्त्रालोके साधु दत्तम्।)+++
उच्चार-रहितं वस्तु
चेतसैव विचिन्तयन् ।
यं समावेशम् आप्नोति
शाक्तः सोऽत्राभिधीयते ॥ २२ ॥
अकिञ्चिच् चिन्तकस्यैव
गुरुणा प्रतिबोधतः ।
जायते यः +++([वि० भै० उत्पद्यते य आवेश])+++ समावेशः
शाम्भवो ऽसाव् उदाहृतः +++([ग्: उदीरित])+++ ॥ २३ ॥
सार्धम् एतच् छतं प्रोक्तं
भेदानाम् अनुपूर्वशः ।
सङ्क्षेपाद्, विस्तराद् अस्य
परिसङ्ख्या न विद्यते ॥ २४ ॥
संवित्ति-फल-भेदोऽत्र
न प्रकल्प्यो मनीषिभिः ।
भेदोऽपरोऽपि सङ्क्षेपात्
कथ्यमानो ऽवधार्यताम् ॥ २५ ॥
जाग्रत्-स्वप्नादि-भेदेन
सर्वावेश-क्रमो बुधैः ।
पञ्चभिस् तु परिज्ञेयः
स्वव्यापारात् पृथक् +++([ख्: भेदैश्चान्यैः पृथगिति ।])+++ पृथक् ॥ २६ ॥
प्। १०)
तत्र स्वरूपं शक्तिश् च
सकलश् चेति तत् त्रयम् ।
इति जाग्रद्-अवस्थेयं
भेदे पञ्चदशात्मके ॥ २७ ॥
अकलौ द्वौ परिज्ञेयौ
सम्यक् स्वप्न-सुषुप्तयोः ।
मन्त्रादि-तत्-पतीशान-
वर्गस् तुर्य इति स्मृतः ॥ २८ ॥
शक्ति-शम्भू परिज्ञेयौ
तुर्यातीते वरानने ।
त्रयोदशात्मके भेदे
स्वरूपम् अकलाव् उभौ +++([ग्: स्वरूपमकलाविति])+++ ॥ २९ ॥
मन्त्र-मन्त्रेश्वरेशानाः
शक्ति-शम्भू च किर्तितौ ।
प्रलयाकल-भेदेऽपि
स्वं विज्ञान-कलाव् उभौ ॥ ३० ॥
मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत् ।
नवधा कीर्तिते भेदे स्वं मन्त्राः मन्त्रनायकाः ॥ ३१ ॥
तदीशाः शक्तिशम्भू च पञ्चावस्थाः प्रकीर्तिताः ।
पूर्ववत्सप्तभेदेऽपि स्वं मन्त्रेशेशशक्तयः ॥ ३२ ॥
शिवश्चेति परिज्ञेयाः पञ्चैव वरवर्णिनि ।
स्वं शक्तिः सनिजेशाना +++([क्: स्वनिजेति])+++ शक्तिशम्भू च पञ्चके ॥ ३३ ॥
त्रिके स्वं शक्तिशक्तीच्छाशिवभेदं विलक्षयेत् ।
सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः ॥ ३४ ॥
इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि +++([तम्: अभिन्नं चेति])+++ पञ्चधा ।
इति पञ्चात्मके +++([क्: पञ्चात्मभेदेनेति])+++ भेदे विज्ञेयं वस्तु कीर्तितम् ॥
३५ ॥
प्। ११)
भूयोऽप्यासामवस्थानां सञ्ज्ञाभेदः प्रकाश्यते ।
पिण्डस्थः सर्वतोभद्रो जाग्रन्नाम द्वयं मतम् ॥ ३६ ॥
द्विसञ्ज्ञं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि ।
रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् ॥ ३७ ॥
प्रचयं रूपातीतं च सम्यक् तुर्यमुदाहृतम् ।
महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः ॥ ३८ ॥
पृथक्तत्त्वप्रभेदेन भेदोऽयं समुदाहृतः ।
सर्वाण्येव हि तत्त्वानि पञ्चैतानि यथा शृणु ॥ ३९ ॥
भूततत्त्वाभिधानानां योगोऽधिष्ठेय इष्यते [ग्: उच्यते] ।
पिण्डस्थमिति तं प्राहुः पदस्थमपरं विदुः ॥ ४० ॥
मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते ।
रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥ ४१ ॥
निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः ।
सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ ४२ ॥
चतुर्विधं तु पिण्डस्थमषुद्धं बुद्धमेव च ।
प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् ॥ ४३ ॥
गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् ।
चतुर्धा रूपसञ्ज्ञं +++([तम्: संस्थमिति])+++ तु ज्ञातव्यं योगचिन्तकैः ॥
४४ ॥
प्। १२)
उदितं विपुलं शान्तं सुप्रसन्नमथापरम् ।
मनोन्मनमनन्तं च सर्वार्थं सततोदितम् ॥ ४५ ॥
प्रचये तत्र सञ्ज्ञेयमेकं तन्महति स्थितम् ।
इत्येवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते ॥ ४६ ॥
विज्ञानाकलपर्यन्तमात्मतत्त्वमुदाहृतम् ।
ईश्वरान्तं च विद्याह्नं शेषं शिवपदं विदुः ॥ ४७ ॥
एवं भेदैरिमैर्भिन्नस्तत्राध्वा परिकीर्तितः ।
युगपत्सर्वमार्गाणां प्रभेदः प्रोच्यतेऽधुना ॥ ४८ ॥
पार्थिवं प्राकृतं चैव मायीयं शाक्तमेव च ।
इति सङ्क्षेपतः प्रोक्तमेतदण्डचतुष्टयम् ॥ ४९ ॥
पृथग्द्वयमसङ्ख्यातमेकमेकं पृथक् पृथक् ।
आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते ॥ ५० ॥
एकमेकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् ।
कालाग्निभुवनाद्यावद्वीरभद्रपुरोत्तमम् ॥ ५१ ॥
पुरषोडशकं ज्ञेयं षड्विधोऽध्वा प्रकीर्तितः ।
आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् ॥ ५२ ॥
त्रयोविंशत्यवादीनि तद्वट्टाद्यक्षराणि च ।
पदानि पञ्च मन्त्राश्च षट्पञ्चाशत्पुराणि च ॥ ५३ ॥
प्। १३)
तत्त्वानि सप्त बोधिन्या तच्चतुर्था पुराणि च ।
तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम् ॥ ५४ ॥
उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः ।
वर्णत्रयं मन्त्रमेकं पदमेकं च लक्षयेत् ॥ ५५ ॥
अष्टादश विजानीयाद्भुवनानि समासतः ।
शिवतत्त्वं परं शान्तं कला तत्रावकाशदा ॥ ५६ ॥
स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् ।
इत्येवं षड्विधोऽप्यध्वा समासात्परिकीर्तितः ॥ ५७ ॥
शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः ।
तस्माच्छुद्धमिमैः शुद्धैर्ब्रह्माण्डैः सर्वमिष्यते ॥ ५८ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चेति सुव्रते ।
पृथगेतेषु बोद्धव्यं शान्तं पतिचतुष्टयम् ॥ ५९ ॥
यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते ।
एतत्ते कथितं सर्वं किमन्यत्परिपृच्छसि ॥ ६० ॥
इति श्रीमालिनीविजयोत्तरे तन्त्रे व्याप्त्यधिकारो द्वितीयः ॥ २ ॥
मूलम् ...{Loading}...
अथ द्वितीयोऽधिकारः
अथैषामेव तत्त्वानां धरादीनामनुक्रमात् ।
प्रपञ्चः कथ्यते लेशाद्योगिनां योगसिद्धये ॥ १ ॥
शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥ २ ॥
शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः ।
तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः ॥ ३ ॥
एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् ।
पृथग्भेदैरिमैर्भिन्नं विज्ञेयं तत्फलेप्सुभिः ॥ ४ ॥
अनेनैव विधानेन पुंस्तत्त्वात्तु +++([तम्: पुंस्तत्त्वात्तत्कलान्तकमिति])+++
कलान्तिकम् ।
त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकलाः ॥ ५ ॥
तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलाः ।
मन्त्राः सप्तविधास्तद्वत्पञ्चधा +++([तम्: पञ्च मन्त्रविनायका इति ।])+++
मन्त्रनायकाः ॥ ६ ॥
त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते ।
भेदः प्रकथितो लेशादनन्तो विस्तरादयम् ॥ ७ ॥
एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम् ।
विज्ञेया योगसिद्ध्यर्थं योगिभिर्योगपूजिता ॥ ८ ॥
प्। ८)
एतेषामेव तत्त्वानां भुवनानां च शाङ्करि ।
य एकमग्नि जानाति सोऽपि योगफलं लभेत् ॥ ९ ॥
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ।
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ १० ॥
स्पृष्टाः सम्भाषितास्तेन [ख्: सम्भाविता] दृष्टाश्च प्रीतचेतसा ।
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ॥ ११ ॥
ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ।
ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् [ख्: गच्छन्ति
परमं पदमिति] ॥ १२ ॥
रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः ।
सति तस्मिंश्च चिह्नानि तस्यैतानि विलक्षयेत् ॥ १३ ॥
तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला ।
द्वितीयं मन्त्रसिद्धिः स्यात्सद्यः प्रत्ययकारिका ॥ १४ ॥
सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् ।
प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्चतुर्थकम् ॥ १५ ॥
कवित्वं पञ्चमं ज्ञेयं सालङ्कारं मनोहरम् ।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ १६ ॥
रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते ।
भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥ १७ ॥
प्। ९)
पञ्चधा भूतसञ्ज्ञस्तु तथा त्रिंशतिधापरः ।
आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसञ्ज्ञकः ॥ १८ ॥
द्विविधः शक्तिसञ्ज्ञोऽपि ज्ञातव्यः परमार्थतः ।
पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥ १९ ॥
आणवोऽयं समाख्यातः शाक्तोऽप्येवंविधः स्मृतः ।
एवं शाम्भवमप्यैभिर्भेदैर्भिन्नं विलक्षयेत् ॥ २० ॥
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः +++([ग्: विकल्पनैरिति ।])+++ ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ २१ ॥
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।
यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ २२ ॥
अकिञ्चिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः ।
जायते [वि० भै० उत्पद्यते य आवेश] यः समावेशः
शाम्भवोऽसावुदाहृतः [ग्: उदीरित] ॥ २३ ॥
सार्धमेतच्छतं प्रोक्तं भेदानामनुपूर्वशः ।
सङ्क्षेपाद्विस्तरादस्य परिसङ्ख्या न विद्यते ॥ २४ ॥
संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।
भेदोऽपरोऽपि सङ्क्षेपात्कथ्यमानोऽवधार्यताम् ॥ २५ ॥
जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः ।
पञ्चभिस्तु परिज्ञेयः स्वव्यापारात्पृथक् [ख्: भेदैश्चान्यैः
पृथगिति ।] पृथक् ॥ २६ ॥
प्। १०)
तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् ।
इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥ २७ ॥
अकलौ द्वौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः ।
मन्त्रादितत्पतीशानवर्गस्तुर्य इति स्मृतः ॥ २८ ॥
शक्तिशम्भू परिज्ञेयौ तुर्यातीते वरानने ।
त्रयोदशात्मके भेदे स्वरूपमकलावुभौ +++([ग्: स्वरूपमकलाविति])+++ ॥ २९ ॥
मन्त्रमन्त्रेश्वरेशानाः शक्तिशम्भू च किर्तितौ ।
प्रलयाकलभेदेऽपि स्वं विज्ञानकलावुभौ ॥ ३० ॥