१०

अथ

श्रीविद्यार्णवतन्त्र्

॥ दशमः श्वासः ॥

अथात्मपूजा - तत्र स्वपुरतस्त्रिकोणमण्डले साधारं पात्रं संस्थाप्य
कलशोदकेनापूर्य विशेषार्घ्यबिन्दुं दत्त्वा स्वदेहं
चन्दनादिभिरलङ्कृत्यात्मानमिष्टदेवतारूपं ध्यायन्
गुरुगणपतिपरदेवताः प्रणम्य मूलाधारादिब्रह्मरन्ध्रपर्यन्तं
प्राग्वत् कुण्डलिनीं ध्यात्वा तद्रूपिणीं मूलविद्यां परिभाव्य तत्तेजसा
परिणतं स्वेष्टदेवतारूपं स्वदेहं भावयन् आत्मपूजां कुर्यात् ।
प्रागुक्तयोगपीठन्यासरीत्या स्वदेहं योगपीठत्वेन विभाव्य
हृत्कमलकर्णिकायां श्रीचक्राधिरूढां श्रीपरदेवतां विभाव्य
वक्ष्यमाणक्रमेण षोडशोपचारैराराध्य पुष्पाञ्जलिपञ्चकं स्वदेहे
समर्प्यं धूपदीपौ निवेद्यान्तर्हवनं कुर्यात् । तत्र मूलाधारे त्र्यस्रं
कुण्डं विभाव्य तन्मध्ये कालाग्निमेव कामाग्निं
वासनारूपेन्धनप्रज्वलितं प्राणादिपञ्चवायुभिः सन्धुक्षितं
कुण्डलिनीरूपपरदेवाधिष्ठितं चिदग्निमण्डलं विभाव्य
प्रणवत्रितारादिमूलविद्यान्ते धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा
स्रुचा । षुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् इदं जुहोमि स्वाहा इति
पुण्यपापकृत्याकृत्यसङ्कल्पविकल्पधर्मात्मकं हविःसप्तकं
सप्तावृत्त्या हुत्वा ततः प्रणवत्रितारादिमूलविद्यान्ते
प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् । धर्माधर्मकलास्नेहं
पूर्णवह्नौ जुहोम्यहम् ॥ अधर्मं जुहोमि स्वाहेति पूर्णाहुतिं दत्त्वा
निरस्तनिखिलप्रपञ्चो निष्कलब्रह्मरूपं साधकः कियत्क्षणं तिष्ठेत् । ततो
देवीरूपमात्मानं ध्यात्वा श्रीगुरुपादुकां प्रणम्य
शिरस्यन्नपूर्णां ध्यात्वा तद्विद्यां यथाशक्ति जपित्वा समर्प्य
प्राणायामर्ष्यादिकरषडङ्गन्यासपूर्वकं
मूलविद्यामष्टोत्तरशतवारं जपित्वा जपं समर्प्यं स्तुत्वा
प्रणमेदित्यात्मपूजा ॥ अथ शक्तिशोधनम् । तदुक्तं भावचूडामणौ :

अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ।
बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥ १ ॥

आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् ।
नमःशब्दं समुच्चार्यम् इमां शक्तिं ततो वदेत् ॥ २ ॥

पवित्रं कुरु शब्दान्ते मम शक्तिं कुरु प्रिये ।
वह्निजायां समुच्चार्य शुद्धिमन्त्रः सुरेश्वरि ॥ ३ ॥

तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुच्चरेत् । इति शक्तिशोधनम् ॥ ततः
शोधितद्रव्यं तु अर्घ्ये निःक्षिपेत् । तथा श्रीचक्रक्रमे पूर्वशोधितद्रव्यं
तु गुप्तेनैव च सङ्क्षिपेत् । इति स्वतन्त्रे :

अर्घ्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः ।
कुण्डगोलोद्भवं द्रव्यं स्वयम्भूकुसुमं तथा ॥ १ ॥

अर्घ्यं दत्वा महेशानि सर्वसिद्धीश्वरो भवेत् ।
सुधया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ॥ २ ॥

महायोगी भवेद् देवी पीठप्रक्षालितैर्जलैः ।

इति । भैरवतन्त्रे -

पञ्चमात्तु परं नास्ति शाक्तानां सुखमोक्षयोः ।
केवलैः पञ्चमैर्वापि सिद्धो भवति साधकः ॥ १ ॥

इति । तथा -

पूजयेदथ पर्यङ्कमध्ये मण्डुकमप्यतः ।
कालाग्निरुद्रमाधारशक्तिं कूर्ममनन्तकम् ॥ १ ॥

वराहं पृथिवीं कन्दं सुनालं केसराण्यपि ।
पद्मं च कर्णिकां चैव मण्डलं समर्चयेत् ॥ २ ॥

धर्मं वैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च ।
अनैश्वर्यमवैराग्यमधर्ममपि पूजयेत् ॥ ३ ॥

प्। १७९) ज्ञानविद्यात्मकं चैवमात्मनश्चापि पूजयेत् ।
गन्धपुष्पाक्षतादीनि दत्त्वा तत्र निधापयेत् ॥ ४ ॥

तत्रोपरि कुलं स्थाप्य पूजानुष्ठानमेव च ।
पूजयेच्च ततस्तस्यां पञ्च कामान् समाहितः ॥ ५ ॥

ओङ्कारादिनमोन्तैश्च कुसुमैर्गन्धसंयुतैः ।
अर्चयित्वा चतुर्दिक्षु पूजयेत् कुलनायकम् ॥ ६ ॥

वाग्भवं कामराजं च स्त्रीबीजं कामराजकम् ।
ब्लूमात्मकं ततो दत्त्वा आधारशक्तिमुद्धरेत् ॥ ७ ॥

त्रिकोणं तत्र संलिख्य सिन्दूराद्यैर्वरानने ।

इति उत्तरतन्त्रे -

तस्या मूर्ध्नि त्रिकोणं च मन्त्रमालिख्य साधकः ।
महाप्रेतासनं मध्ये बालां च पूजयेत्ततः ॥ १ ॥

ह्सौं सदाशिवमहाप्रेतपद्मासनाय नमः - इति पूजयेत् । कुलार्णवे -

गणेशं च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् ।
त्रिकोणेषु तु सम्पूज्य बसन्तं मदनं प्रिये ॥ १ ॥

स्तनयोः पूजयेत् पश्चान्मुखे तस्याः सुधाकरम् ।

इति । उत्तरतन्त्रे -

मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके ।
दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् ॥ १ ॥

इति ज्ञानार्णवे -

दक्षपादादिमूर्धान्तं वाममूर्धादि सुन्दरि ।
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ॥ १ ॥

श्रद्धा प्रीती रतिश्चैवेत्यादि मातृकाश्वासे द्रष्टव्याः ।
उत्तरतन्त्रे स्वरैरेवं प्रपूज्या हि सर्वकार्यार्थसिद्धये । इति । ललितातन्त्रे :

भगे तदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः ।
एका तु वाहिका चान्द्री सौरी चान्या तु वाहिका ॥ १ ॥

आग्नेयी चापरा ज्ञेया पूजयेत् तास्तु साधकः ।
अम्बु स्रवति चान्द्री सा पुष्पं स्रवति भानवी ॥ २ ॥

बीजं स्रवति चाग्नेयी तासु नामभिरर्चयेत् ।
वाग्भवाद्यैर्नमोयुक्तैः पूजयेत् सुप्रसन्नधीः ॥ ३ ॥

इति । उत्तरतन्त्रे -

पूजयेन्मदनागारे रक्तचन्दनचर्चिते ।
भगमालामनुं प्रोच्य त्रितारानन्तरं तथा ॥ १ ॥

ऐं ह्रीं श्रीम् ऐं जूं ब्लूं चैव क्लिन्ने चैव ततः परम् (?) ।
सर्वाणीति भगानीति वशमानय मे ततः ॥ २ ॥

स्त्रीं ह्रीं क्लीं ब्लूं भगमालिन्यै नमः ।

ऐं ह्रीं श्रीमिति मन्त्रेण गन्धाद्यैस्तां समर्चयेत् ।
इहाप्यावाहनं नास्ति जीवन्यासो महेश्वरि ॥ ३ ॥

अथैवं च विधानेन तां षोडशोपचारकैः ।
इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् ॥ ४ ॥

अर्चयेद् गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् ।
मूलमन्त्रं ततः ॐ नमो शिवाय ततः परम् ॥ ५ ॥

यजेत् तत्पुरुषाघोरसद्योजातादिसञ्ज्ञकैः ।
तारं च शान्त्यतीतां च तदङ्गे तदनन्तरम् ॥ ६ ॥

समग्रविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् ।

इति । ऊत्तरतन्त्रे -

अवधूतेश्वरीं कुब्जां कामाख्यां समयामपि ।
वज्रेश्वरीं कालिकां च तथा दिक्चरवासिनीम् ॥ १ ॥

महाचण्डेश्वरीं तारां पूजयेत्तत्र साधकः ।
तदनुज्ञां ततो लब्ध्वा दत्त्वा ताम्बूलमेव च ॥ २ ॥

शिवं च तत्र निःक्षिप्य गजतुण्डाख्यमुद्रया ।
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ॥ ३ ॥

सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः ॥ ४ ॥

ततो जपेत् स्त्रियं गच्छन् विद्यां त्रिर्भुवनेश्वरीम् ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा ॥ ५ ॥

प्। १८०) धर्माधर्मकलास्नेहपूर्णामग्नौ जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ॥ ६ ॥

इति । ज्ञानार्णवे -

शिवशक्तिसमायोगो योग एव न संशयः ।
सीत्कारो मन्त्ररूपं च वचनं स्तवनं भवेत् ॥ १ ॥

आलिङ्गनं तु कस्तूरीकर्पूरं चुम्बनं भवेत् ।
नखदन्तक्षतादीनि पुष्पाणि विविधानि च ॥ २ ॥

मैहुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् ।

इति । कुलार्णवे -

आलिङ्गनं चुम्बनं च स्तनयोर्मर्दनं तथा ।
दर्शनस्पर्शने योनेर्विकारं (सो) लिङ्गघर्षणम् ॥ १ ॥

प्रवेशः स्थापनं शक्तेर्नव पुष्पाणि पूजयेत् ।

इति । यामले -

संयोगाज्जायते सौख्यं परमानन्दलक्षणम् ।
कुलामृतं प्रयत्नेन गृह्णीयाद्दुर्लभं नरः ॥ १ ॥

तेनामृतेन दिव्येन सर्वे तुष्टा भवन्ति हि ।
यत्कामं कुरुते मन्त्री तत् क्षणादेव सिद्ध्यति ॥ २ ॥

इति ज्ञानार्णवे -

कुलद्रव्यं च संशोध्य शिवशक्तिमयं प्रिये ।
बीजामृतं परं ब्रह्म जपन्निक्षिप्य सुन्दरि ॥ १ ॥

अर्घ्यपात्रामृतैर्यत्नान्निर्विकल्पः सदानघः ।
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् ॥ २ ॥

इति ते कथितं ज्ञानं सारं रम्यं वरानने ।
सविकल्पस्तु सततं पापभाग्जायते नरः ॥ ३ ॥

विचिकित्सापरो मन्त्री जायते गुरुतल्पगः ।
अत एव वरारोहे निर्विकल्पः सदा भवेत् ॥ ४ ॥

इति । कुलार्णवे -

कुलामृतं समादाय तदर्घ्ये निक्षिपेद्बुधः ।
तदर्घ्येण समाराध्य पूजाशेषं समापयेत् ॥ १ ॥

शोधितस्य कुलामृतसञ्ज्ञा । शोधनमन्त्रस्तु श्रीक्रमे -

ॐ अमृते-अमृतोद्भवे अमृतवर्षिणि प्रिये ।
देवि पदं शुक्रशापं प्रमोचय पदद्वयम् ॥ १ ॥

अमृतं स्रावयद्वन्द्वममृतं कुरुयोग्मकम् ।
स्वाहापदं ततो देवि शुक्रशुद्धिर्भवेत् प्रिये ॥ २ ॥

शुक्लैरक्षततण्डुलैः सुगन्धिकुसुमैर्युतैः ।
अर्घ्यद्रव्यैश्च देवेशि योनौ देवीं प्रपूजयेत् ॥ ३ ॥

इति । उत्तरतन्त्रे -

धूपैर्दीपैश्च नैवेद्यैर्विविधैः कुलसाधकः ।
विधाय वन्दितां तां च तदुच्छिष्टं स्वयं चरेत् ॥ १ ॥

इति । शिवागमे च -

अविचारं शक्त्युच्छिष्टं पिबेच्चक्रपुरो यदि ।
घोरं च नरकं याति कुलमार्गात् पतेद्ध्रुवम् ॥ १ ॥

तस्माद्विर्चार्य यत्नेन शक्त्युच्छिष्टं पिबेत् सुधीः ।
आनन्दं कारयेद्वीरस्तत्त्वं निर्भ्रान्तितः पिबेत् ॥ २ ॥

इति सङ्क्षेपतः शक्तिशोधनं विशेषस्त्वग्रे प्रयोगविधौ वक्ष्यते ॥ अथ
पीठपूजा प्रयोगरूपे तत्रार्घ्योदकेन श्रीचक्रमभ्युक्ष्य स्ववामतः
पीठोपरि ४ गुरुपादुकाविद्यामुच्चार्य श्री-अमुकानन्दनाथश्रीपादुकां
पूजयामिति सम्पूज्य दक्षिणे गङ्गणपतिश्री० इति सम्पूज्य
सर्वाधस्तादारभ्यातलादिसप्तपातालादिभावनयोपर्युपरि ४ मण्डूकाय
नमः ४ कालाग्निरुद्राय नमः ४ मूलप्रकृत्यै नमः आधारशक्तये० ४
कूर्माय० ४ वराहाय० ४ अनन्ताय० ४ पृथिव्यै० ४ अमृताम्भोनिधये० ४
रत्नद्वीपाय० ४ नानावृक्षमहोद्यानाय० ४ कल्पवृक्षवाटिकायै० ४
हरिचन्दनवाटिकायै० ४ मन्दारवाटिकायै ४ पारिजातवाटिकायै० ४
पुष्परागरत्नप्राकाराय० ४ पद्मरागरत्नप्राकाराय० ४
गोमेदरत्नप्राकाराय० ४ इन्द्रनीलरत्नप्राकाराय० ४ वज्ररत्नप्राकाराय० ४
वैदूर्यरत्नप्राकाराय० ४ माणिक्यमण्डपाय० ४
सहस्रस्तम्भमण्डपायनमः ४ अमृतवापिकायै० ४ आनन्दवापिकायै० ४
विमर्शवापिकायै० ४ बालातपोद्गाराय० ४ चन्द्रिकोद्गाराय० ४
महाशृङ्गारपरिखायै० ४ महापद्माटव्यै० ४ चिन्तामणिगृहराजाय० ४
पूर्वाम्नायपूर्वद्वाराय० ४ दक्षिणाम्नायदक्षिणद्वाराय०

प्। १८१) ४ पश्चिमाम्नायपश्चिमद्वाराय० ४ उत्तराम्नायोत्तरद्वाराय ४
रत्नद्वीपवलयाय ४ महासिंहासनाय नमः । ततो महासिंहासनं
पञ्चप्रेतमयं ध्यात्वा तस्य
वायव्यादिकोणचतुष्टयगतपादचतुष्टयत्वेन स्थितान्
ब्रह्मविष्णुरुद्रेश्वरान्
पीतश्यामरक्तसितार्कप्रभांश्चतुर्भुजानुपविष्टांस्तेषां स्कन्धेषु
सुलग्नमुत्तानशायिनमुदक्शीर्षं सदाशिवमिन्दुप्रभं ध्यात्वा पूजयेत् ।
तद्यथा - वायव्ये ४ लां पृथिव्याधिपतये ब्रह्मणे नमः
ब्रह्मप्रेतासनश्री० ईशाने ४ वामपामधिपतये विष्णवे नमः
विष्णुप्रेतासनश्री० आग्नेये ४ रां तेजोऽधिपतये रुद्राय नमः
रुद्रप्रेतासनश्री० नैर्-ऋते ४ यां वायव्यधिपतये ईश्वराय नमः
ईश्वरप्रेतासनश्री० मध्ये ४ ह्सौः वियदधिपतये सदाशिवाय नमः
सदाशिवमहाप्रेतासनश्री० -इति पञ्चप्रेतासनं सम्पूज्य तस्य
वायव्यादिकोणचतुष्टये धर्मादिचतुष्टयं तस्य
पश्चिमादिचतुर्दिक्ष्वधर्मादिचतुष्टयं च प्रादक्षिण्येन सम्पूज्य
तन्मध्ये मायाविद्ये सम्पूज्य तदुपरि पञ्चशत फणविराजितायानन्ताय
नम इति सम्पूज्य तन्मध्ये मौलावष्टदलकमलं कामेश्वरीपीठं
ध्यात्वा पद्माय नमः इत्यादिपरतत्त्वान्तं सम्पूज्याष्टदलकेसरेषु
मध्ये च मोहिन्यादिनवशक्तीर्योगपीठन्यासोक्ताः सम्पूज्य
न्यासोक्तपीठमन्त्रेण समस्तं पीठं सम्पूज्य तदुपरि श्रीचक्रं
विभाव्य ४ समस्तप्रकटेत्यादिसमष्टियोगिनीमन्त्रेण समस्तचक्रं सम्पूज्य
बिन्दुचक्रे ४ मूलं ॐ ह्रौं क्लीम् ऐं भगवति ब्लूं नित्याकामेश्वरि
स्त्रीं सर्वसत्त्ववशङ्करि सः त्रिपुरभैरवि फ्रेंविच्चेह्रींश्रीं
श्रीमहात्रिपुरसुन्दर्यम्बाश्री० इति पूर्णविद्यया त्रिः सम्पूज्य पुनर्मूलेन
त्रिः सपूज्य श्रीचक्रं पुरत्रयात्मकं ध्यात्वा
चतुरस्रत्रयषोडशदलाष्टदलात्मके प्रथमचक्रे ४ प्रथमकूटमुच्चार्य
शरीरात्मने नमः चतुर्दशारदशारद्वयात्मके मध्यचक्रे ४ द्वितीयं
बुद्ध्यात्मने नमः अष्टारत्रिकोणबिन्द्वात्मकान्तश्चक्रे ४ तृतीयं
प्राणात्मने नमः इति सम्पूज्य पुनर्बाह्यतृतीये बाह्यमध्यान्तरभेदेन
प्रोक्तक्रमेण कूटत्रयेण सम्पूज्य तथा मध्यचक्रत्रये अभ्यन्तरत्रये च
सम्पूज्य त्रिकोणचक्रस्य कोणत्रये मध्ये च पीठचतुष्टयं सम्पूज्य
बिन्दुचक्रे महोड्यानपीठे हिरण्यमयसहस्रदलकमलाय नमः इति सम्पूज्य
चतुरस्रपद्मद्वये चतुर्दशारदशारद्वयाष्टारत्रिकोणबिन्दुचक्रेषु
षडासनानि सम्पूज्य चतुरस्रे ४ नादशक्तिश्री० षोडशदले बिन्दुशक्तिश्री०
अष्टदले ४ कलशाशक्तिश्री० चतुर्दशारे ४ ज्येष्ठाशक्तिश्री० बाह्मदशारे ४
रौद्रीशक्तिश्री० अन्तर्दशारे ४ वामशक्तिश्री० अष्टकोणे ४ विबध्नीशक्तिश्री०
त्रिकोणे ४ दूतरीशक्तिश्री बिन्दौ ४ सर्वानन्दाशक्तिश्री० इति नव शक्तीः
सम्पूज्य षट्त्रिंशत्तत्त्वात्मकं श्रीचक्रं ध्यात्वा ४ अं ५०
शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्यारागकालनियतिपुरुष-
प्रकृत्यहङ्कारबुद्धिमनःश्रोत्रत्वक्चक्षुर्जिह्वा
घ्राणवाक्पाणिपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवाय्वग्नि-
सलिलपृथिव्यात्मने श्रीमहात्रिपुरसुन्दर्याः योगपीठाय नमः इति समस्तं
पीठं पुष्पाञ्जलिना सम्पूज्य ततस्तदुपरि मध्ये प्रसूनतूलिकां
कल्पयामीति पुष्पं निःक्षिप्य तदुपरि ४ ह्रींश्रीं महात्रिपुरसुन्दर्याः
सकलचैतन्यानन्दमयीम् ओङ्कामेश्वरकामेश्वरीमूर्ति कल्पयामीति
पुष्पादिप्रक्षेपेण ध्यानोक्तां मूर्तिं भावयन् शक्त्युत्थापनमुद्रां
प्रदर्श्य मूलमुच्चार्य परस्यै कामेश्वरकामेश्वरीमूर्त्यै नमः इति
कल्पितमूर्ति पूजयेदिति योगपीठपूजा ॥

अथ श्रीचक्रपूजा -

तत्र प्रथमं स्वहृत्कमले श्रीचक्रं ध्यात्वा तन्मध्ये देवीं ध्यायेत् ।

ततो ध्यानं प्रवक्ष्यामि त्रिदशैः सेवनीयकम् ।
ततः पद्मनिभां देवीं बालार्ककिरणारुणाम् ॥ १ ॥

जपाकुसुमसङ्काशां दाडिमीकुसुमोपमाम् ।
पद्मरागप्रतिकाशां कुङ्कुमोदरसन्निभाम् ॥ २ ॥

स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ।
कालालिकुलसङ्काशकुटिलालकपल्लवाम् ॥ ३ ॥

प्रत्यग्रारुणसङ्काशवदनाम्भोजमण्डलाम् ।
किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् ॥ ४ ॥

पिनाकधनुराकारभ्रूलतां परमेश्वरीम् ।
आनन्दमुदितोल्लोललीलान्दोलितलोचनाम् ॥ ५ ॥

स्फुरन्मयूखसङ्घातविलसद्धेमकुण्डलाम् ।
सुगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् ॥ ६ ॥

विश्वकर्माविनिर्माणसूत्रसुस्पष्टनासिकाम् ।
ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपपाम् ॥ ७ ॥

दाडिमीबीजवज्राभदन्तपङ्क्तिविराजिताम् ।
रत्नद्वि(दी)पसमुद्भासिजिह्वां मधुरभाषिणीम् ॥ ८ ॥

स्मितमाधूर्यविजितमाधुर्यरससागराम् ।
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् ॥ ९ ॥

कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ।
मणिकङ्कणकेयुरभारखिन्नैः प्रशोभिताम् ॥ १० ॥

प्। १८२) रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ।
कराम्बुजनखज्योतिर्वितानितनभस्तलाम् ॥ ११ ॥

मुक्ताहारलतोपेतसमुन्नतपयोधराम् ।
त्रिवलीवलयायुक्तमध्यदेशसुशोभिताम् ॥ १२ ॥

लावण्यसरिदावर्ताकारनाभिविभूषिताम् ।
अनर्घरत्नघटितकाञ्चीयुक्तनितम्बिनीम् ॥ १३ ॥

नितम्बबिम्बद्विरदरोमराजीवराङ्कुशाम् ।
कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ॥ १४ ॥

लावण्यकदलीतुल्यजङ्घायुगलमण्डिताम् ।
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ॥ १५ ॥

नूपुरैर्विलसत्पादपङ्कजातिमनोहराम् ।
ब्रह्मविष्णुशिरोरत्ननिर्घृष्टचरणाम्बुजाम् ॥ १६ ॥

तनुदीर्घाङ्गुलीभास्वन्नखचन्द्रविराजिताम् ।
शीतांशुशतसङ्काशकान्तिसन्तानहासिनीम् ॥ १७ ॥

लौहित्यजितसिन्दूरजपादाडिमरागिणीम् ।
रक्तवस्त्रपरीधानां पाशाङ्कुशकरोद्यताम् ॥ १८ ॥

रत्नपुष्पनिविष्टां च रक्ताभरणमण्डिताम् ।
चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥ १९ ॥

कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ।
महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ॥ २० ॥

सर्वशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ।
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ २१ ॥

जगदाकर्षणकरीं जगत्कारणरूपिणीम् ।
सर्वमन्त्रमयीं देवीं सर्वसौभाग्यसुन्दरीम् ॥ २२ ॥

सर्वलक्ष्मीमयीं नित्यां परमानन्दनन्दिताम् ।
एवं ध्यायेत् परेशानीं महात्रिपुरसुन्दरीम् ॥ २२ ॥

इत्येवं स्वैक्येन ध्यात्वा मूलविद्यया शिरसि पुष्पाञ्जलिं दत्त्वा
पुनर्हृदयकमले यथोक्तरूपां भगवतीं साङ्गां सावरणां
ध्यात्वा देवीं मानसैरुपचारैः सम्पूज्य नैवेद्यं दत्त्वा
भोजनावसरेऽन्तर्वैश्वदेवं कुर्यात् ॥ तद्यथा तत्र मूलाधारे
आत्मान्तरात्मपरमात्मज्ञानात्मेत्यादिचतुष्टयकॢप्तं चतुरस्रं
कुण्डल्यग्निसमुज्ज्वलं कुण्डं ध्यात्वा तत्र श्रीदेवतां ध्यात्वा तन्मुखे
मूलविद्यान्ते अहन्तां जुहोमि स्वाहा
इत्याद्यहन्तासत्यपैशुन्यकामक्रोधलोभमोहमदमात्सर्याणि सुषुम्ना
स्रुग्युक्तमनःस्रुवेण प्रत्येकं हुत्वा पुनर्हृदयकमले भुक्तवतीं
ध्यात्वा उत्तरापोशानादिसर्वोपचारैराराध्य मूलविद्यां यथाशक्ति
जपित्वा जपं समर्प्यं मूलविद्यया व्यापकं विन्यस्य कराभ्यां
पुष्पाञ्जलिमादाय मातृकाम्भोजत्वेन कल्पयित्वा त्रिखण्डां मुद्रां
बद्ध्वा हृदि श्रीचक्रराजे देवीं यथोक्तरूपां सपरिवारां ध्यात्वा
तेजोरूपतामापाद्यान्तर्मुद्राप्रयोगेण मूलाधारात् कुण्डलिनीमुत्थाप्य
तथा सह षट्चक्रमेदक्रमेण हृदयान्तः स्फुरन्तीं तां तेजोमयीं
षुषुम्नामार्गेण ब्रह्मरन्ध्रं नीत्वा
परतेजःसङ्गमेनामृतमहाम्बुधौ क्षणं विश्रम्य
शिवशक्तिसामरस्यसुखमनुभूय ४ हस्रैं हसकलह्रीं हस्रौः नमः
श्रीमहात्रिपुरसुन्दरि ।

महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि
परमेश्वरि । एह्येहि देवदेवेशि त्रिपुरे देवपूजिते । परामृतप्रिये शीघ्रं
सान्निध्यं कुरु सिद्धये ॥ देवेशि भक्तसुलभे परिवारसमन्विते । यावत् त्वां
पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥

इत्यावाहनमन्त्रमुच्चार्य वहन्नासापुटाध्वना
त्रिखण्डामुद्रामुद्रितकरस्थपुष्पाञ्जलौ तत्तेजः समानीय
श्रीपीठान्तःकल्पितमूर्तेः शिरसि ब्रह्मरन्ध्रस्थाने सन्निवेश्य
कामेश्वराङ्कस्थां सावरणां श्रीमहात्रिपुरसुन्दरीं
सर्वावयवभावेन ध्यायन् मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरि इह तिष्ठ
तिष्ठेति स्थापिन्या मुद्रया संस्थाप्य तथैव इह सन्निधेहि सन्निधेहीति
सन्निधापनीयमुद्रया सन्निधाप्य पुनस्तथैव सन्निरुध्यस्व २ इति
सन्निरोधिन्या सन्निरुध्य तथैव सम्मुखीभव २ इति तन्मुद्रया सम्मुखीकृत्य
तथैवावगुण्ठिता भव २ इति तन्मुद्रयावगुण्ठ्य देव्यङ्गे
षडङ्गविन्यासेन सकलीकृत्य तथैव
धुनेमुद्रयामृतधारयाभिषेचनेनामृतीकृत्य तथैव महामुद्रया
परमीकृत्य एता आवाहन्यादिनवमुद्राः प्रदर्श्य ततो मूलविद्यां
पूर्वोक्तदीपिनीविद्यामकारादिक्षकारान्तां मातृकां चोच्चार्य मूलेन
देवीं त्रिः सम्प्रोक्ष्य ४ श्रींह्रीङ्क्लींहङ्गणपकालिके सौः
सकलह्रीङ्क्लींह्रीङ्क्रींश्रीम् इति जीवन्यासविद्यया देव्या हृदयकमले
जीवं संस्थाप्य प्राणप्रतिष्ठां कुर्यात् । तत्र
पूर्वोक्तप्राणप्रतिष्ठामन्त्रेण देवीं हृदये स्पृशन् तन्मन्त्रं त्रिः
सकृद्वा पठेदित्येवं प्राणप्रतिष्ठां विधाय ततः
सङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाखेचरीबीजयोन्याख्या
नवमुद्राः द्रान्द्रीङ्क्लीम्ब्लूंसःक्रों हसखफ्रें ह्सौम् ऐम्
इत्येकैकबीजोच्चारण पूर्वकमेकैकां मुद्रां प्रदर्श्य आं ह्रीम् इति

प्। १८३) पाशमुद्रां क्रोङ्क्रोम् इत्यङ्कुशमुद्रां घङ्घम् इति
धनुर्मुद्रां द्रान्द्रीङ्क्लीम्ब्लूंसःयांरांलांवांसाम् इति
दशभिर्बीजैर्बाणमुद्रां च प्रदर्श्य ४ मूलं
श्रीमहात्रिपुरसुन्दरीपादुकां पूजयामीति देवीं सम्पूज्य पुनः ४
मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकां तर्पयामीति
सव्यहस्ताङ्गुष्ठानामिकाभ्यां
विशेषार्घ्यबिन्दुभिस्त्रिवारादन्यूनमष्टोत्तरसहस्रावधि यथाशक्ति
श्रीपरदेवताया मुखकमले तर्पयित्वा आसनादिषोडशोपचारान् कुर्यात् । ततो
मूलविद्यामुच्चार्य भगवति श्रीमहात्रिपुरसुन्दरि तुभ्यमिदमासनं
कल्पयामि अत्र आस्यतां भवत्येति
वार्क्षपौष्पचार्मवास्त्रतैजसाद्यन्यतममासनं कल्पयित्वा देव्या
वामभागे निवेश्य सिंहासनपद्ममुद्रे प्रदर्श्य प्रणम्य हंहंहम्
इदमिदं गृहाण स्याहेति प्रार्थनमुद्रया निवेद्य मूलेन पुष्पाञ्जलिं
दद्यात् । ततो मूलविद्यामुच्चार्य श्रीमहात्रिपुरसुन्दरि स्वागमितिं
कुशलप्रश्नं कृत्वा स्वागतकुशलमुद्रे प्रदर्श्य मूलेन पुष्पाञ्जलिं
दद्यात् । ततो मूलं० श्रीमहात्रिपुरसुन्दरीपादुकायै अर्घ्यं कल्पयामि
स्वाहेति देव्याः शिरसि सामान्यार्घ्यात् किञ्चिज्जलमुद्धृत्य दद्यात् । ततो
निवेदनमन्त्रेण निवेद्यार्घ्यमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् । ततः
पाद्यपात्राज्जलमुद्धृत्य ४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै पाद्यं
परिकल्पयामि नमः इति देव्याः पादयोः पाद्यं दत्त्वा प्राग्वन्निवेद्य
पाद्यमुद्रां प्रदर्श्य पुष्पाञ्जलिं दद्यात् । एवमाचमनीयं
परिकल्पयामि सुधेति मुखे मधुपर्कं कल्पयामि सुधा इति मुखे दत्त्वा
तन्मुद्रे प्रदर्श्य ततः पुनराचमनीयपात्रस्थशुद्धजलेन
पूर्ववदाचमनीयं मुखे दत्त्वा ततो रत्नपादुके उपनीय ॥

पादुके परिधायाम्ब त्रिपुरे रत्ननिर्मिते । स्नानमण्डपमायाहि स्नानार्थं
शक्रदिग्गतम् ॥

इति प्रार्थ्य रत्नपादुके परिधाप्य स्नानमण्डपं नीत्वा स्नानवस्त्रं
परिधाप्य कनकासने समुपवेश्य प्रग्वदर्घ्यपाद्याचमनीयानि दत्त्वा ४
मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीपादुकायै स्नानीयं कल्पयामि नमः
इति सुगन्धितैलामलकादिस्नानीयद्रव्याणि परिकल्प्य प्राग्वन्निवेद्य
महाराजोपचारवदभ्यङ्गाद्वर्तनकेशप्रसाधनानि विधायोष्णोदकेन
निर्मलस्नाननं कारयित्वा वैदिकपौराणिकमन्त्रैः पञ्चगव्यैः
पञ्चामृतेन च स्नपयित्वा पुनः शुद्धजलेन स्नपयित्वा
इक्षुरसनारिकेलसलिलपनसाम्रादिविविधफलरसैः कर्पूरादिसुवासितैः
स्नपयित्वा पुनर्जलेनाभिषिच्य देवाङ्गनाभिः
सुवर्णादिघटैर्नानातीर्थोपहृतैः सलिलैः स्नपयित्वा प्राग्वत्पष्पाँजलिं
मूलेन दत्त्वा स्नानमुद्रां प्रदर्श्याचमनीयं कल्पयित्वा
केशाङ्गमार्जनार्थं वस्त्रं दत्त्वा जलप्रच्यवनं कारयित्वा
नानारत्नखचितं रत्नदुकूलद्वयं वमिति प्रोक्ष्य मूलेनाभिमन्त्र्य
बृहस्पतिदेवताभ्यां वासोभ्यां नमः इति सम्पूज्य ४ मूलं
श्रीमहात्रिपुरसुन्दरीपादुकायै वाससी परिकल्पयामि नमः इति परिधाप्य
वस्त्रमुद्रां प्रदर्श्य पुनराचमनीयनिवेदनं पुष्पाञ्जलिदानं च
कृत्वा पट्टसूत्रभवं स्वर्णादिरचितं वा कण्ठसूत्रं विष्णुदैवत्याय
कण्ठसूत्राय नमः इति पूजितं देव्यै समर्प्योपवीतमुद्रां प्रदर्श्य
मू० श्रीमहात्रिपुरसुन्दरि ॥

पादुके परिधायाम्ब त्रिपुरे रत्ननिर्मिते । आगच्छ निर्मलं
याम्यमलङ्कारस्य मण्डपम् ॥

इति प्रार्थ्यालङ्कारमण्डपं नीत्वा सिंहासने समुपवेश्यालङ्कारान्
पुरतो निधाय वमिति प्रोक्ष्य मूलेनाभिमन्त्र्य विष्णुदैवतेभ्योऽलङ्कारेभ्यो
नमः इति सम्पूज्य मूलं श्रिमहात्रिपुरसुन्दरीपादुकायै
मुकुटाद्यलङ्कारान् परिकल्पयामि नमः इति सामान्यत उत्सृज्य विशेषता
मुकुटं परिकल्पयामि नमः इत्यादि मुकुट ललाटाभरण कर्णपूर हार
ग्रैवेय काङ्गुलीयक प्रालम्बिका रत्नसूत्राक्षरावली कर्णोत्तंस
पार्श्वभूषण नखद्योताङ्गुलीयककण्ठलम्बार्धहार
मृदुभारललन्तिकाङ्गद केयूर वलय बाहुवेष्टन सीमन्तिक
गण्डभूषण भ्रूभूषण नाभिभूषण रत्नमाला मणिमेखला
शृङ्खला दन्तरत्न कर्णक नीवीरत्न जानुभूषण पादाङ्गुलीयक
नुपूरगुच्छक पादकटक हंसक क्षुद्रघण्टिका मुखपत्रकमिति
चत्वारिंशद्भिरन्यैश्च चूडारत्नताटङ्कादिनानाविधैः
स्त्र्यलङ्करणैरलङ्कृत्य पूर्ववन्निवेदनमन्त्रेण निवेद्य पुष्पाञ्जलिं
दत्त्वाभरणमुद्रां प्रदर्श्य रत्नपादुके उपनीय ४ मू०
श्रीमहात्रिपुरसुन्दरि ॥

पादुकायुगमारुह्य पञ्चवाद्यपुरःसरम् । यागमण्डपमायाहि
परिवारगणैः सह ।

इति प्रार्थ्य च्छत्रचामरादिनानोपकरणहस्ताभिः शक्तिभिः सह
यागमण्डपं नीत्वा कामेश्वराङ्के भगवतीं समुपवेश्य
परिवारदेवताश्च यथास्थानं समुपवेशयेत् ॥ ततः श्रीचक्रमारूढां
ध्यायेत् त्रिपुरसुन्दरी मित्यादिप्रागुक्तरीत्या ध्यात्वा मूलेन पुष्पाञ्जलिं

प्। १८४) दत्वा चन्दनागरुकस्तूर्यादिगन्धपञ्चकं
चूर्णघृष्टदाहजसमर्दजप्राण्यङ्गजमिति पञ्चविधं गन्धं
तदन्यतमं वा प्राग्वत् प्रोक्ष्य विष्णुदेवताय गन्धाय नमः इति सम्पूज्य
४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै गन्धं परिकल्पयामीति गन्धं
समर्प्य प्राग्वन्निवेद्य गन्धमुद्रां प्रदर्श्यं पुष्पाञ्जलिं दत्त्वा
सुगन्धरूपाणि नानाविधपुष्पाण्यानीय प्रोक्ष्य वनस्पतिदेवताभ्यः
पुष्पेभ्यो नमः इति सम्पूज्य ४ मू० श्रीमहात्रिपुरसुन्दरीपादुकायै
पुष्पाणि परिकल्पयामि वौषडिति पुष्पाणि निवेद्य पुष्पमुद्रां प्रदर्श्य
पुष्पाञ्जलिं दत्त्वा धूपग्राहिण्यां धूपमानीय प्रोक्ष्य
धेनुमुद्रयामृतीकृत्य क्लीं सुरभितेजसे स्वाहा इति मन्त्रेण दशाङ्ग
शर्कराघृतमिश्रितं गुग्गुलं वा निःक्षिप्य गन्धर्वदैवत्याय धूपाय
नमः इति धूपं सम्पूज्य ४ मूलम् ।

वनस्पतिरसोत्पन्नो गन्धाध्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां
धूपोऽयं प्रतिगृह्यताम् ॥

श्रीमहात्रिपुरसुदरीपादुकायै धूपं परिकल्पयामि नमः इति
धूपमुत्सृज्य धूपमुद्रां प्रदर्श्यं वामभागे घण्टां
निधायास्त्रेण प्रोक्ष्य धेनुमुद्रयामृतीकृत्य पुनरस्त्रेण गन्धादिभिः
सम्पूज्य ॐ जगत् ध्वनिमन्त्रमातः स्वाहा इति घण्टामन्त्रेणाभिमन्त्र्य
वामहस्तेन वादयन् दक्षिणहस्तेन धूपपात्रं चालयन् नीचैर्धूपं
निवेद्य तत्पात्रं देव्या वामभागे निधाय दीपपात्रं गोघृतेनापूर्यं
तस्मिन् कर्पूरगर्भिणीं वर्ति निःक्षिप्य ह्रीमिति प्रज्वाल्य
धेनुमुद्रयामृतीकृत्य विष्णुदैवत्याय दीपाय नमः इति सम्पूज्य ४ मूलं
स्वप्रकाशो महादीपः सर्वत्र तिमिरापहः । सबाह्यभ्यन्तरं
ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ श्रीत्रिपुरसुन्दरीपादुकायै दीपं
परिकल्पयामि नमः इति दीपमुत्सृज्य दीपमुद्रां प्रदर्श्य प्राग्वन्निवेद्य
घण्टावादनपूर्वकमुच्चैर्दीपं प्रदर्श्यं तत्पात्रं देव्या
दक्षिणभागे निवेश्य देव्यग्रे चतुरस्रमण्डलं जलेन निर्माय
स्वर्णादिपात्रं नानाव्यञ्जनभरितं षड्रसोपेतं
पञ्चविधनैवेद्योपेतं तस्मिन् मण्डले साधारं निधाय मूलेन
निरीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशैस्त्रिः सन्ताड्य कवचेनाभ्युक्ष्य ॐ
जूंसः वौषट् इत्यनेन सप्ताभिमन्त्रितेन जलेन पुनः प्रोक्ष्यास्त्रमन्त्रेण
चक्रमुद्रां प्रदर्श्याधोमुखवामकरेण नैवेद्यं स्पृशन् यमिति बीजेन
सप्तधा जपन् तद्गतदोषान् संशोष्य अधोमुखदक्षकरेण स्पृशन् रमिति
वह्निबीजं सप्तवारं जपन् तद्गतदोषान् सन्दह्य अधोमुखवामकरेण
स्पृशन् वमिति बीजेन सप्तधाभिमन्त्रेण तदमृतीकृत्य मूलेन
विशेषार्घ्यबिन्दुभिः प्रोक्ष्य विष्णुदैवत्याय नैवेद्याय नमः इति
सम्प्रज्यास्त्रेण संरक्ष्य मूलेन सप्तवारमभिमन्त्र्य ॐ क्लीङ्कामदुघे
अमोघे वरदे विच्चे स्फुर स्फुर श्रींश्रींश्रीम् इति कामधेनुंविद्यया
धेनुमुद्रयामृतोकृत्य (महामुद्रया परमीकृत्य) देव्यै प्राग्वत्
पाद्याचमनीये दत्त्वा मूलविद्यया देवीं सम्पूज्य पात्रान्तरे
जलममृतीकृत्य चुलुकेनादाय वामाङ्गुष्ठेन नैवेद्यपात्रं स्पृशन्
मूलमुच्चार्य साङ्गायै सायुधायै सपरिवारायै सर्वात्मिकायै भगवत्यै
श्रीमहात्रिपुरसुन्दरीपादुकायै नैवेद्यं कल्पयामि नमः इति नैवेद्योपरि
चुलुकोदकं समर्पयेत् । ततः कृताञ्जलिर्मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरि

हेमपात्रमतं दिव्यं परमान्नं सुसंस्कृतम् । पञ्चधा षड्रसोपेतं
गृहाण परमेश्वरि ॥

इत्यन्ते प्रागुक्तमनुना निवेद्य पात्रान्तरे जलममृतीकृत्य देव्या दक्षिणहस्ते
तज्जलं किञ्चिद् दत्त्वा क्रोम् अमृतोपस्तरणमसि स्वाहा इति देवीं प्राशयित्वा
वामकरेण ग्रासमुद्रां विकचोत्पलसन्निभां दर्शयन् दक्षिणहस्तेन
प्राणादिपञ्चमुद्राः प्रदर्शयेत् । तद्यथा - ४ ऐं ॐ प्राणाय स्वाहा
इत्यङ्गुष्ठेन कनिष्ठानामिके स्पृशेत् । ४ क्लीं ॐ अपानाय स्वाहा
इत्यङ्गुष्ठेन तर्जनीमध्यमे स्पृशेत् । ४ सौःओं व्यानाय स्वाहा
इत्यङ्गुष्ठेनानामिकामध्यमे स्पृशेत् । ४ ऐङ्क्लीम् उदानाय स्वाहा
इत्यङ्गुष्ठेनानामिकामध्यमातर्जनीः स्पृशेत् । ४ ऐङ्क्लींसौः समानाय
स्वाहा इत्यङ्गुष्ठेन सर्वाः स्पृशेत् - इति प्राणादिपञ्चमुद्राः प्रदर्शयन्
पञ्च ग्रासान् ग्राहयित्वा कृताञ्जलिर्मूलविद्यामुच्चार्य ऐम्
आत्मतत्त्वव्यापिकाश्रीमहात्रिपुरसुन्दरी तृप्यतु । पुनः मूलं क्लीं
विद्यातत्त्व० । ३ मूलंसौः शिवतत्त्व० । मूलम् ऐङ्क्लींसौः सर्वतत्त्व० इति
तत्त्वैर्ग्रासचतुष्टयं ग्राहयित्वा कृताञ्जलिर्मूलविद्यामुच्चार्य
नैवेद्यमुद्रां करद्वयेन प्रदर्शयन् ४ मू० श्रीमहात्रिपुरसुन्दरि

प्।१८५) चित्पात्रे सद्धविः सौख्यविविधानेकभक्ष्ययुक् । निवेदयामि ते देवि
सानुगायै जुषाण तत् ॥

इत्यनेन मन्त्रेण पुष्पाञ्जलिं समर्प्य नैवेद्यजातं तादात्म्येन
सपरिवारायै देव्यै निवेदयेत् । ततः स्वर्णादिपात्रस्थं कर्पूरादिसुवासितं
जलं धेनुमुद्रयामृतीकृत्य ४ मूल० श्रीमहात्रिपुरसुन्दरि

नमस्ते देवदेवेशि सर्वतृप्तिकरं परम् । अन्यानिवेदितं शुद्धं प्रकृतिस्थं
शुशीतलम् ॥ अमृतानन्दसम्पूर्णं गृहाण जलमुत्तमम् ॥ इति देव्यै जलं
निवेद्यास्त्रमन्त्रेण जवनिकया भोजनस्थलं संवेष्ट्य घण्टां वादयन्
भुञ्जानां परदेवतां ध्यायेत् । तद्यथा :

ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समेता
शिञ्जद्वालव्यजननिकरैर्बीज्माना सखीभिः ।
नर्मक्रीडाप्रहसनपरा पङ्क्तिभोक्तॄन् हसन्ती भुङ्क्ते पात्रे कनकघटिते
षड्रसान् चिद्विलासा ॥

इति ध्यात्वा मूलविद्यां दशधा जपित्वा जपं समर्प्य भुक्तवतीं
सन्तृप्तां देवीं विभाव्य धेनुमुद्रया पात्रान्तरे जलेनमृतीकृत्य ॐ
अमृतापिधानमसि स्वाहा इति देव्या हस्ते उत्तरापाशानजलं दत्त्वा तथा
तत्प्राशितं विभाव्य गतसारं नैवेद्यं समुद्धृत्य नैर्-ऋत्यां दिशि
स्थापयेत् । ततोऽस्त्रमन्त्रेण तत्स्थानं प्रोक्षिण्यद्भिः संशोध्य
हस्तमुखप्रक्षालनार्थं देव्यै जलं दत्वा करोद्वर्तनार्थे
सुगन्धचूर्णं च दत्वा गण्डूषाणि कारयित्वा
कर्पूरशकलैर्दन्तधावनं कारयित्वा पुनर्गण्डूषाणि कारयित्वा
चरणप्रक्षालनमाचमनीयं च दत्वा कर्पूरादिना सुगन्धमिश्रितं
ताम्बूलमानीय प्रोक्ष्य वनस्पतिदैवत्याय ताम्बूलाय नमः इति सम्पूज्य
मू० श्रीमहात्रिपुरसुन्दरीपादुकायै ताम्बूलं कल्पयामि नमः इत्युत्सृज्य
४ मूलं श्रीमहात्रिपुरसुन्दरि

तमालदलकर्पूरपूगभारतरङ्गितम् । संशोधितं सुगन्धं च
ताम्बूलम्परिगृह्यताम् ॥

इत्यन्ते ॐ हंहंहम् इदमिदमिदं गृहाण स्वाहा इति देव्यै ताम्बूलं
निवेद्य योनिमुद्रया प्रणम्य मूलं श्रीमहात्रिपुरसुन्दरीश्रीपादुकां
पूजयामि इति सम्पूज्य वक्ष्यमाणप्रकारेण पूजां विधाय क्लीमिति
नमस्कारमुद्रां बद्ध्वा मूलेन प्रदर्श्य प्रणम्य हूमिति त्यजेत् ।
शाक्तश्चेदनुलोमविलोमेन मूलविद्यया सम्पुटितैर्मातृकाक्षरैः
शुद्धमातृकास्थानेषु देव्या देहे गन्धपुष्पाक्षतैः सम्पूजयेत् ।
षडङ्गपूजामपि देव्या देहे कुर्यात् - इति लयाङ्गपूजा विद्याय
सङ्क्षोभण्यादि मुद्राः प्रदर्श्य विशेषार्घ्यबिन्दुभिस्त्रिर्वामहस्तेन
सन्तर्प्यावरणपूजां कुर्यात् ॥

अथ लयाङ्गपूजा तु तन्त्रान्तरे -

समूलैर्मातृकावर्णैरनुलोमविलोमगैः ।
तत्तत्स्थानेषु देव्यङ्गे गन्धाम्भोभ्यक्तपुष्पकैः ॥ १ ॥

पूजयित्वा प्रथमतः षडङ्गैः पूजयेत् सुधीः ।
लयाङ्गमेतत् सम्प्रोक्तं देवताभावसिद्धिदम् ॥ २ ॥

षडङ्गावरणं चक्रे कल्पोक्तविधिना यजेत् ।
भोगाङ्गं तत्समुद्दिष्टं देवताप्रीतिकारकम् ॥ ३ ॥

इति । अत्र लयाङ्गभोगाङ्गपूजा त्वावश्यकी लयाङ्गं कल्पयेद्देहे देव्यास्तु
परमेश्वरि इति ज्ञानार्णवोक्तत्वात् अत्र लयाङ्गभोगाङ्गे मतद्वयसम्मते ।
देवशुद्धौ विशेषमाह कुलार्णवे :

मूलमन्त्रेण दीपिन्या मालिन्यार्घ्योदकेन च ।
त्रिवारं प्रोक्षयेदेवं देवशुद्धिरितीरिता ॥ १ ॥

इदं तु कालीमते । कादिमते तु -

मूलमन्त्रेण दीपिन्या मधु(पर्का ? मत्या)र्घ्याबिन्दुभिः ।
त्रिवारं प्रोक्षयेदेवं देवशुद्धिरितीरिता ॥ १ ॥

इति त्रिपुरार्णवोक्तत्वात् । अत्र समष्टिपूजा व्यष्टिपूजा च कर्तव्या । तदुक्तं
स्वच्छन्दसङ्ग्रहे -

समष्टिपूजा प्रारम्भे व्यष्टिपूजावसानके ।
कर्तव्या सिद्धिमिच्छद्भिर्देवताप्रीतिकारिणी ॥ १ ॥

रश्मिरूपा महादेव्याः सर्वावरणदेवताः ।
स्वच्छादर्शे यथा यन्त्रे तथैव प्रतिबिम्बिताः ॥ २ ॥

प्रतिबिम्बितदेवानां पूजा शास्त्रोक्तमार्गतः ।
समष्टिपूजा सा प्रोक्ता व्यष्टिपूजा तथोच्यते ॥ ३ ॥

प्। १८६) रश्मिपूजा महादेव्या अत्र पूजितदेवताः ।
श्रीसुन्दर्यङ्गलीनास्ताः सन्तु सर्वसुखावहाः ॥ ४ ॥

एवमुक्त्वा तु देव्यङ्गे विलीना यन्त्रदेवताः ।
बिम्बीभूता विभाव्यैवं तत्तत्स्थानेषु देशिकः ॥ ५ ॥

देव्यङ्गेषु यजेत् पुष्पैर्व्यष्टिपूजा समीरिता ।

इति । आवरणपूजाप्रारम्भे तु ४ मूलं संविन्मये परे देवि
परामृतचरुप्रिये । अनुज्ञां देहि देवेशि परिवारार्चनाय मे ॥ इति
पुष्पाञ्जलिं दत्त्वावरणपूजामारभेदिति सम्प्रदायः ।

तारत्रयं ध्रुवो माया हंसःसोहं शुचिप्रिया ।
सर्वसौभाग्यजनीपादुकां पूजयामि च ॥ १ ॥

नत्यन्तमनुना देव्यै दद्यात् पुष्पाञ्जलित्रयम् ।
प्रदर्शयेद्योनिमुद्रां ततः सम्प्राथयेद् बुधः ॥ २ ॥

सर्वमन्त्रमये देवि सर्वदेवनमस्कृते ।
अनुज्ञां देहि देवेशि परिवारार्चनाय मे ॥ ३ ॥

इति सम्प्रार्थ्य देव्यङ्गान्निर्याता विस्फुलिङ्गवत् ।
वह्नेः समस्तावरणदेवता रश्मिरूपिणः ॥ ४ ॥

देव्याज्ञया स्थिताः स्वस्वस्थानेषु परिचिन्तयेत् ।
मनुश्चन्द्रः कुबेरश्च लोपामुद्रा च कामराट् ॥ ५ ॥

अगस्त्यनन्दिसूर्याश्च विष्णुस्कन्दशिवास्तथा ।
दूर्वासाश्च तथा शक्रः उन्मनी वरुणस्तथा ॥ ६ ॥

धर्मराजोऽनलो नागराजो वायुर्बुधस्तथा ।
ईशानश्च रतिश्चैव तथा नारायणस्तथा ॥ ७ ॥

ब्रह्मा जीवो महादेव्युपासकाः पञ्चविंशतिः ।
एतैरुपासिता विद्या जाग्रत्स्वप्नसुषुप्तिकाः ॥ ८ ॥

तुरीया बिन्दुचक्रेऽस्मिन् विशेषार्घ्यामृतेन च ।
पूजनीयाः प्रयत्नेन तारत्रयपुटाः क्रमात् ॥ ९ ॥

अमुकोपासिता श्री च विद्या श्रीपादुकां ततः ।
पूजयामि नमश्चोक्त्वा यजेत् पञ्चोपचारकैः ॥ १० ॥

पाशाङ्कुशधनुर्बाणधारिण्यो रक्तविग्रहाः ।
चिन्तनीयाः प्रयत्नेन सर्वसौभाग्यदा बुधैः ॥ ११ ॥

दर्शयेद्योनिमुद्रां वै सर्वसौभाग्यवाक्प्रदाम् ।
अनेन क्रमयोगेन विद्यावृन्दं प्रपूजयेत् ॥ १२ ॥

विद्यावृन्दमयीं पूजां पुष्पाञ्जलिविधानतः ।
निवेदयेन्महादेव्यै तर्पणादि समाचरेत् ॥ १३ ॥

एतस्मिन् समये देवि तिथिनित्याः समर्चयेत् ।
विभाव्य च महात्र्यस्रं दक्षपूर्वोत्तरक्रमात् ॥ १४ ॥

रेखासु तिसृषु देवि पञ्च पञ्च विभागतः ।
प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ॥ १५ ॥

एकैकां पूजयेन्नित्यां महासौभाग्यभाग्भवेत् ।
कृष्णपक्षे विचित्रादिकामेश्वर्यन्तमेव हि ॥ १६ ॥

एकैकवृद्ध्या हान्या च दर्शान्तं क्रमतो यजेत् ।
कामेश्वर्यादिका नित्या विचित्रान्ताः क्रमाद्यजेत् ॥ १७ ॥

पञ्चोपचारैर्गन्धाद्यै श्रीपात्रामृतबिन्दुभिः ।
तत्तद्विद्यां समुच्चार्य तारत्रितयसम्पुटाम् ॥ १८ ॥

उच्चार्यामुकनित्याश्रीपादुकां पूजयामि च ।
नमःपदं महादेवि सर्वत्रायं क्रमः स्मृतः ॥ १९ ॥

कामेश्वरी महानित्या ततो वै भगमालिनी ।
नित्यक्लिन्ना महानित्या भेरुण्डा वह्निवासिनी ॥ २० ॥

महावज्रेश्वरी नित्या शिवदूती तथैव च ।
त्वरिता च महादेवि ततो वै कुलसुन्दरी ॥ २१ ॥

नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामालिन्यथ ततश्चित्रा त्रिपुरसुन्दरी ॥ २२ ॥

रक्तां रक्तदुकूलाङ्गलेपनां रक्तभूषणाम् ।
पाशाङ्कुशौ धनुर्बाणान् पुस्तकं चाक्षमालिकाम् ॥ २३ ॥

वराभीति च दधतीं त्रैलोक्यवशकारिणीम् ।
एवं कामेश्वरीं ध्यायेद् वश्यसौभाग्यवाक्प्रदाम् ॥ २४ ॥

कदम्बवनमध्यस्थामुद्यत्सूर्यसमद्युतिम् ।
नानाभूषणसम्पन्नां त्रैलोक्याकर्षणक्षमाम् ॥ २५ ॥

पाशाङ्कुशौ पुस्तकं च तौलिकागतलेखिनीम् ।
वरदं चाभयं चैव दधती विश्वमातरम् ॥ २६ ॥

एवं ध्यायेन्महादेवीं भगमालां विचक्षणः ।
रक्तां रक्ताङ्गवसनां चन्द्रचूडां त्रिलोचनाम् ॥ २७ ॥

स्विद्यद्वक्त्रां मदाघूर्णलोचनां रत्नमूर्च्छिताम् ।
पाशाङ्कुशौ कपालं च महाभीतिहरं तथा ॥ २८ ॥

दधतीं संस्मरेन्नित्यक्लिन्नां पद्मासनस्थिताम् ।
चन्द्रकोटिप्रतीकाशां स्रवन्तीममृतद्रवम् ॥ २९ ॥

नीलकण्ठां त्रिनेत्रां च नानाभरणभूषिताम् ।
इन्द्रनीलस्फुरत्कान्तिं शिखिवाहनशोभिताम् ॥ ३० ॥

पाशाङ्कुशौ कपालं च च्छुरिकां वरदाभये ।
दधतीं चिन्तयेद् देवीं भेरुण्डां विषनाशिनीम् ॥ ३१ ॥

प्। १८७) धायेत् तप्तसुवर्णाभां नानालङ्कारभूषिताम् ।
पाशाङ्कुशौ स्वस्तिकं च शक्तिं च वरदाभये ॥ ३२ ॥

दधतीं रत्नमुकुटां देवीं वै वह्निवासिनीम् ।
जपाकुसुमसङ्काशां रक्तांशुकविराजिताम् ॥ ३३ ॥

माणिक्यभूषणां नित्यां नानाभूषाविभूषिताम् ।
पाशाङ्कुशौ कपालस्थसुधापानविघूर्णिताम् ॥ ३४ ॥

अभयं दधतीं ध्यायेन्महावज्रेश्वरी पराम् ।
दूर्वावर्णा त्रिनेत्रां च महासिंहासनासनाम् ॥ ३५ ॥

शङ्खारिचापबाणांश्च सृणिपाशौ वराभये ।
दधतीं चिन्तयेन्नित्यां शिवदूतीं परां शिवाम् ॥ ३६ ॥

श्यामाङ्गीं रक्तसत्पाणिचरणाम्बुजशोभिताम् ।
वृषलाहिसुमञ्जिरां फटारत्नविभूषिताम् ॥ ३७ ॥

पर्णांशुकां पर्णभूषां वैश्याहिद्वन्द्वमेखलाम् ।
तनुमध्यां पीनवृत्तकुचयुग्मां वराभये ॥ ३८ ॥

दधतीं शिखिपिच्छाभां वलयाङ्गदशोभिताम् ।
गुञ्जारुणां नृपाहीन्द्रकेयूरां रत्नभूषिताम् ॥ ३९ ॥

द्विजनागस्फुरत्कर्णभूषां मत्तारुणेक्षणाम् ।
नीलकुञ्चितधमिल्लवरपुष्पां कपालिनीम् ॥ ४० ॥

कैरातीं शिखिपिच्छाढ्यनिकेतनविराजिताम् ।
स्फुरत्सिंहासनप्रौढां संस्मरेत् त्वरितां बुधः ॥ ४१ ॥

ध्यायेद्देवीं महेशानीं कदम्बवनमध्यगाम् ।
रत्नमण्डपमध्ये तु महाकल्पवनान्तरे ॥ ४२ ॥

मुक्तातपत्रच्छायायां रत्नसिंहासने स्थिताम् ।
अनर्घरत्नघटितमुकुटां रत्नकुण्डलाम् ॥ ४३ ॥

हारग्रैवेयसद्रत्नचित्रितां कङ्कणोज्ज्वलाम् ।
हीरमुक्तालसद्भूषां शुक्लक्षौमविराजिताम् ॥ ४४ ॥

हीरमञ्जीरसुभगारक्तोत्पलपदाम्बुजाम् ।
शुभाङ्गरागसुभगां कर्पुरशकलोज्ज्वलाम् ॥ ४५ ॥

पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ।
वरदानरतां दिव्यां महासारस्वतप्रदाम् ॥ ४६ ॥

एवं धायेन्महानित्यां देवेशीं कुलसुन्दरीम् ।
——————————————————————(?) ॥ ४७ ॥

एवं नित्यां महादेवी चिन्तयेद्देशिकोत्तमः ।
शुभ्रवस्त्रासनां रम्यां चन्द्रकुन्दसमद्युतिम् ॥ ४८ ॥

सुप्रसन्नां शशिमुखीं नानारत्नविभूषिताम् ।
अनन्तमुक्ताभरणां स्रवन्तीममृतद्रवम् ॥ ४९ ॥

वरदाभयशोभाढ्यां स्मरेन्नीलपताकिकाम् ।
————————————————————–(?) ॥ ५० ॥

ध्यायेद्देवीं महानित्या स्वर्णाभरणभूषिताम् ।
उद्यद्विद्युल्लताकान्तिस्वर्णांशुकविराजितान् ॥ ५१ ॥

महासिंहासनप्रौढां ज्वालामालां करालिनीम् ।
अरिशङ्खौ खड्गखेटौ त्रिशूलं डमरुं तथा ॥ ५२ ॥

पानपात्रं च वरदं दधतीं शत्रुनाशिनीम् ।
शुभ्राङ्गी ज्ञानदा नित्यां विचित्रवसनां सदा ॥ ५३ ॥

विचित्रतिलकां नित्यां विचित्रा कुङ्कुमोज्ज्वलाम् ।
वरदाभयशोभाढ्यां नानाशस्त्रधरां क्वचित् ॥ ५४ ॥

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशौ शरांश्चापं धारयन्तीं शिवां श्रिये ॥ ५५ ॥

इति षोडशनित्याध्यानानि ।

एतस्मिन् समये देवि गुरून् सम्पूजयेद्बुधः ।
प्राङ्मध्ययोन्यन्तराले गुरुपङ्क्तित्रयं यजेत् ॥ १ ॥

गुरुमन्त्रेण नाम्नापि निजं सम्पूजयेद्गुरुम् ।
अङ्गुष्ठमध्यमाभ्यां च गुरून् सम्यक् प्रतर्पयेत् ॥ २ ॥

आनन्दनाथशब्दान्ता अम्बान्ताः शक्तयः क्रमात् ।
गुरून् सम्पुजयेद्देवि परमादिगुरूंस्तथा ॥ ३ ॥

परापरगुरूंश्चैव परमेष्ठिगुरूंस्तथा ।
गुरुशक्तीर्यजेद् देवि ततः श्रीगुरुपादुकाः ॥ ४ ॥

इति सामान्यतो देवि गुरुपात्रोदकैर्यजेत् ।
अथादिशिवनाथश्च ज्ञानाम्बा च सदाशिवः ॥ ५ ॥

इच्छाम्बा ईश्वरश्चैव अम्बिका रुद्र एव च ।
रौद्री विष्णुस्तथा ज्येष्ठा ब्रह्मा वामा पराभिधाः ॥ ६ ॥

रुद्रसङ्ख्याश्च दिव्यौघाः सनकश्च सनन्दनः ।
सनातनश्चापि सनत्कुकारस्तु तथैव च ॥ ७ ॥

सनत्सुजातश्च विभुर्दत्तात्रेयोऽथ रोचनः ।
वामदेवस्तथा व्यासः शुकः सिद्धौघसञ्ज्ञकाः ॥ ८ ॥

परापराख्या गुरवो नृसिंहश्च महेश्वरः ।
भास्करश्च महादेवि ततस्तस्मान्महाशिवः ॥ ९ ॥

सदाशिवो मानवौघा अपराख्या महेश्वरि ।
एते सामान्यगुरवः श्रीनाथादीन् यजेत्ततः ॥ १० ॥

परप्रकाशाभिशश्च ततः परशिवस्तथा ।
परशक्तिश्च कौलेशः शुक्लदेवी कुलेश्वरः ॥ ११ ॥

प्। १८८) कामेश्वरी च दिव्यौघाः पराख्या गुरवः क्रमात् ।
भोगः क्लिन्नस्तु समयः सहजो वेदसङ्ख्यकाः ॥ १२ ॥

परापराख्याः सिद्धौघा गगनो विश्व एव च ।
विमलो मदनश्चैव भुवनो लील एव च ॥ १३ ॥

आत्मा प्रियो मानवौघा अपराख्या निजास्तथा ।
कामराजाख्यविद्याया गुरवोऽत्र प्रकीर्तिताः ॥ १४ ॥

अज्ञातगुरुशिष्याणां कथ्यन्ते गुरवः क्रमात् ।
गुरुभ्यो नम इत्युक्त्वा पादुकाभ्यो नमो वदेत् ॥ १५ ॥

तथैव परमेशानि परमाश्च परापराः ।
परमेष्ठिन आचार्यास्ततो निजगुरून् यजेत् ॥ १६ ॥

परमादिशिवश्चैव कामेश्वर्यम्बिका तथा ।
दिव्यौघश्च महौघश्च सर्वाख्यस्तदनन्तरम् ॥ १७ ॥

प्रज्ञादेवी प्रकाशश्च दिव्यौघाः सम्प्रकीर्तिताः ।
लोपामुद्रा प्रभा माया दिव्यश्चित्रस्तथैव च ॥ १८ ॥

कैवल्यानन्दनाथश्च देव्यात्मानन्दनाथकः ।
महोदयश्च सिद्धौघाश्चिदानन्दस्तथैव च ॥ १९ ॥

ऋद्ध्यम्बा च तथा विश्वः शक्त्यम्बा च रमा तथा ।
कमलश्च परश्चैव मनोहर इति क्रमात् ॥ २० ॥

आत्मा च प्रमितश्चैव मानवौघाः प्रकीर्तिताः ।
लोपामुद्राख्यविद्याया गुरवश्च निजास्ततः ॥ २१ ॥

परप्रकाशश्च तथा विमर्शस्तु परादिकः ।
कामेश्वरी च मोक्षश्चाप्यमृतः पुरुषस्ततः ॥ २२ ॥

अघोरश्चैव दिव्यौघाः प्रकामः सद्गुरुस्तथा ।
सिद्धौघ उत्तमश्चैते चत्वारः परिकीर्तिताः ॥ २३ ॥

सिद्धौघाश्च महेशानि तत उत्तमसञ्ज्ञकः ।
परमाख्यश्च सर्वज्ञः सर्वसञ्ज्ञश्च सिद्धकः ॥ २४ ॥

गोविन्दः शङ्करश्चैते मानवौघाः प्रकीर्तिताः ।
श्रीविद्यामात्रगुरवस्ततो निजगुरुक्रमात् ॥ २५ ॥

एते तुरीयाविषये गुरवः सर्व एव हि ।
ज्ञानमुद्रासुधापूर्णकपालाढ्यकरद्वयाः ॥ २६ ॥

गुरवो रक्तवर्णाः स्युर्जटाभारशिरोधराः ।
एतान् पञ्चोपचारैस्तु यजेत् सङ्घट्टमुद्रया ॥ २७ ॥

गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः ।
वसुकोणे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ २८ ॥

पूर्वाम्नायेश्वरीं देवीमुन्मनीं पूर्वदिग्गताम् ।
दक्षिणाम्नायेश्वरीं च भोगिनीं दक्षिणे यजेत् ॥ २९ ॥

पश्चिमाम्नायेश्वरीं च कुब्जिकां पश्चिमे यजेत् ।
उत्तराम्नायेश्वरीं च कालिकामुत्तरे यजेत् ॥ ३० ॥

ऊर्ध्वाम्नायेश्वरीं देवीं महात्रिपुरसुन्दरीम् ।
वराभयकरा रक्ताः पाशाङ्कुशधराः शुभाः ॥ ३१ ॥

पञ्चोपचारैः सम्पूज्य योनिमुद्रां च दर्शयेत् ।
आम्नायं तु प्रपूज्याथ सम्यगायतनं यजेत् ॥ ३२ ॥

अन्तर्दशारे पूर्वादि गुरुपात्रामृतेन च ।
ब्राह्म्यदर्शनगायत्रीं पूर्वायतनदेवताम् ॥ ३३ ॥

नारायणं वैष्णवाख्यं याम्यायतनदेवताम् ।
सौरदर्शनसूर्यं च पश्चिमायतनाधिपम् ॥ ३४ ॥

बौद्धदर्शनबुद्धं च उत्तरायतनाधिपम् ।
ऊर्ध्वायतनशैवाख्यदर्शनेशं शिवं यजेत् ॥ ३५ ॥

ऊर्ध्वायतनशाक्ताख्यदर्शनेशीं पराभिधाम् ।
शक्तिं यजेद्बिन्दुचक्रे देवताः परिचिन्तयेत् ॥ ३६ ॥

वराभयकरा रक्ताः स्वस्वायुधकरद्वयाः ।
पञ्चोपचारैराराध्य लिङ्गमुद्रां प्रदर्शयेत् ॥ ३७ ॥

प्रपूज्यायतनं पश्चात् पञ्चरत्नं प्रपूजयेत् ।
बहिर्दशारे पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ३८ ॥

श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ।
वाराहीति महेशानि पञ्चरत्नं प्रकीर्तितम् ॥ ३९ ॥

श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि ।
महारत्नेश्वरीवृन्दमण्डितासनसंस्थिता ॥ ४० ॥

सर्वसौभाग्यजननीपादुकां पूजयामि च ।
इत्युच्चार्य यजेत्तत्र योनिमुद्रां प्रदर्शयेत् ॥ ४१ ॥

पाशाङ्कुशकरा रक्ता निजायुधकरद्वयाः ।
पञ्चरत्नं प्रपूज्याथ पञ्च कल्पलता यजेत् ॥ ४२ ॥

चतुर्दशारे पूर्वादि श्रीपात्रामृतबिन्दुभिः ।
श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा ॥ ४३ ॥

त्रिकूटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः ।
पाशाङ्कुशकरा रक्ता निजायुधकरद्वयाः ॥ ४४ ॥

लतानां पूजनान्ते च पञ्चसिंहासनं यजेत् ।
अष्टपत्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ४५ ॥

बाला सम्पत्प्रदा च चैतन्या तदनन्तरम् ।
द्वितीया चैतन्यरूपा कामेशी तदनन्तरम् ॥ ४६ ॥

(उन्मनी च यजेदेताः पूर्वस्यां च दिशि क्रमात् ।
सिंहासनं च ब्रह्माख्यं यजेच्च तदनन्तरम् ॥ ४७ ॥

प्। १८९) अघोरभैरवी चैव भैरवी च महादिका) ।
ललिताभैरवी चैव कामेशी भैरवी तथा ॥ ४८ ॥

रक्तनेत्रा भोगिनी च विष्णुसिंहासनं ततः ।
दक्षिणे संस्थिताश्चैव यजेत् सौभाग्यहेतवे ॥ ४९ ॥

षट्कूटाभैरवी नित्याभैरवी तदनन्तरम् ।
मृतसञ्जीविनी चैव मृत्युञ्जयपरा तथा ॥ ५० ॥

वज्रप्रस्तारिणी चैव कुब्जिका रौद्रमेव च ।
सिंहासनं यजेद्देवि पश्चिमायां दिशि क्रमात् ॥ ५१ ॥

सिंहासने तूत्तरे तु प्रयजेद्भुवनेश्वरीम् ।
कमलेशीभैरवीं च सिद्धकौलेशभैरवीम् ॥ ५२ ॥

डामराख्यां भैरवीं च कामिनीभैरवीं तथा ।
कालिकामीश्वराख्यं च यजेत् सिंहासनं बुधः ॥ ५३ ॥

बिन्दुमध्ये महेशानि ऊर्ध्वसिंहासनस्थिताः ।
प्रथमा सुन्दरी चैव द्वितीया सुन्दरी तथा ॥ ५४ ॥

तृतीया सुन्दरी चैव चतुर्थी सुन्दरी तथा ।
पञ्चमी सुन्दरी चैव महात्रिपुरसुन्दरी ॥ ५५ ॥

सदाशिवाख्यं देवेशि यजेत् सिंहासनं ततः ।
वराभयकरा रक्ताः पाशाङ्कुशकराः शुभाः ॥ ५६ ॥

सिंहासनाभ्यर्चनान्ते पञ्चकोशार्चनं भवेत् ।
षोडशारे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ५७ ॥

श्रीविद्या च परज्योतिः परनिष्कलशाम्भवी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ ५८ ॥

कोशान्ते पूजयेल्लक्ष्मीः पञ्च सर्वसमृद्धये ।
चतुरस्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ५९ ॥

श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ।
त्रिशक्तिः सर्वसाम्राज्या लक्ष्म्यः पञ्च प्रकीर्तिताः ॥ ६० ॥

पाशाङ्कुशकरा रक्ता निजायुधकरद्वयाः ।
पञ्च लक्ष्मीः पूजयित्वा पञ्च कामदुघा यजेत् ॥ ६१ ॥

सृष्टिचक्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ।
श्रीविद्यामृतपीठेशी सुधासूरमृतेश्वरी ॥ ६२ ॥

अन्नपूर्णेति विख्याताः पञ्च कामदुघाः क्रमात् ।
पाशाङ्कुशसुधापात्रकलशा रक्तविग्रहाः ॥ ६३ ॥

पूजयित्वा कामदुघाः समयाः पञ्च पूजयेत् ।
स्थितिचक्रे तु पूर्वादि श्रीपात्रामृतबिन्दुभिः ॥ ६४ ॥

बगला कालरात्रिश्च जयदुर्गा तथैव च ।
वज्रवैरोचनी देवी समयाः पञ्च प्रकीर्तिताः ॥ ६५ ॥

पाशाङ्कुशकरा रक्ता निजायुधकरद्वयाः ।
समया पूजनान्ते तु षडङ्गावरणं यजेत् ॥ ६६ ॥

संहारचक्रे अग्नीशासुरवायव्यकोणके ।
बिन्दुमध्ये चतुर्दिक्षु श्रीपात्रामृतबिन्दुभिः ॥ ६७ ॥

मध्ये दिक्षु क्रमेणैव यजेत् सर्वार्थसिद्धये ।
सर्वज्ञा नित्यतृप्ता च तथानादिप्रबोधिनी ॥ ६८ ॥

स्वतन्त्रा च महाशक्तिर्नित्यालुप्ता तथैव च ।
नित्यानन्ता च कथिता तथा भोगषडङ्गके ॥ ६९ ॥

तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ।
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥ ७० ॥

एतानि तु महादेवि विशेषावरणानि वै ।
तुरीयोपासकानां च एतान्यावश्यकानि वै ॥ ७१ ॥

कूटविद्यासु वै तत्तद्गुरवस्तत्तदङ्गकम् ।
अत्र मध्यविधानीशे नवावृत्तिरथाम्बिके ॥ ७२ ॥

देवि मध्यविधानीहावरणानि शृणु प्रिये ।
तुरीयोपासकानां च एतान्यावश्यकानि वै ॥ ७३ ॥

अष्टारपार्श्वयोरग्रे सामान्यामृतबिन्दुभिः ।
उदीच्यां प्रयजेद् देवि क्षोभणद्रावणौ ततः ॥ ७४ ॥

आकर्षवश्यबाणौ च दक्षिणे तु समर्चयेत् ।
अग्रे सम्मोहनं यष्ट्वा चिन्तयेद् बाणदेवताः ॥ ७५ ॥

वराभयकरा रक्ताः सृणिबाणधनुर्धराः ।
अन्तर्दशारे देवेशि पार्श्वयोरग्रयोस्तथा ॥ ७६ ॥

बाणवद् यजनं कुर्यात्पञ्चकामान् वरानने ।
काममन्मथकन्दर्पमकरध्वजसञ्ज्ञकाः ॥ ७७ ॥

मीनकेतुर्महेशानि पञ्च कामाः प्रकीर्तिताः ।
वराभयकरा रक्ताः पञ्चबाणधनुर्धराः ॥ ७८ ॥

बहिर्दशारे षड्वाचः कामवत् पूजयेत् प्रिये ।
सामान्यपात्रसुधया लीना वागपरा परा ॥ ७९ ॥

मध्यमा वाक् च पश्यन्ती वैखरीति प्रकीर्तिताः ।
ज्ञानमुद्राभयाः शुक्ला वीणापुस्तकपाणयः ॥ ८० ॥

चतुर्दशारचक्रे च पार्श्वयोरुभयोस्तथा ।
अग्रे च बिन्दुमध्ये च सामान्यामृतबिन्दुभिः ॥ ८१ ॥

वेदसङ्ख्या अवस्थाश्च यजेत् सर्वार्थसिद्धये ।
जाग्रत्स्वप्नसुषुप्त्यश्च तुरीया च प्रकीर्तिताः ॥ ८२ ॥

प्। १९०) वराभयकरा रक्ता धृतपाशाङ्कुशाः शुभाः ।
अथाष्टदलमूले च वृत्ते वेष्टनाथ शिवे ॥ ८३ ॥

सामान्यपात्रसुधया यजेद्वामादिदेवताः ।
वामा ज्येष्ठा तथा रौद्री अम्बिकेच्छा तथैव च ॥ ८४ ॥

ज्ञाना क्रिया कुब्जिका च बिभ्वी चित्रा विषघ्निका ।
भूचरी खेचरी चैव जया च विजया तथा ॥ ८५ ॥

नन्दा सुन्दन्दा देवेशि शक्तयः परिकीर्तिताः ।
दलाष्टमूलवृत्ते तु वामाद्या दिव्यभूषणाः ॥ ८६ ॥

पाशाङ्कुशधरा रक्ता वरदानरतास्तथा ।
मुक्ताच्छत्रं शरच्चन्द्रचन्द्रिकारम्याचमरैः ॥ ८७ ॥

उशीरक्षिप्तचन्द्रार्ककॢप्तव्यजनयुग्मकम् ।
प्रान्तमुक्तावलीराजत्स्वर्णादर्शं च पीठिकाम् ॥ ८८ ॥

अलङ्कारमयीं पेटीं करण्डं शशिपूरितम् ।
नवरत्नस्फुरद्दीप्तिं ताम्बूलस्य करण्डकम् ॥ ८९ ॥

कर्पूरमृगनाभ्याढ्यकुङ्कुमक्षोदभाजनम् ।
चषकं स्वर्णरचितं सुधाकुम्भं कमण्डलुम् ॥ ९० ॥

मल्लिकामालतीजातीशतपत्राढ्यदामभिः ।
पूर्णं रत्नमयं भाण्डं कङ्कतीं गजदन्तजाम् ॥ ९१ ॥

कज्जलस्य शलाकां च दधाना निजशक्तयः ।
ततः षोडशपत्राब्जमूलवृत्ते महेश्वरि ॥ ९२ ॥

वेष्टनत्वेन सामान्यसुधया रश्मिपूजनम् ।
विदध्याद्भावचिन्मायानाथेच्छातुष्टिपुष्टयः ॥ ९३ ॥

स्थितिमुक्ती भुक्तिश (?) सदसत्सदसदात्मिकाः ।
क्रियात्मज्ञानलोकाश्च देववेदौ तथैव च ॥ ९४ ॥

संविज्जन्मस्पन्दसञ्ज्ञानिस्पन्दाः कुण्डली तथा ।
शब्दवर्णस्वराश्चैव वर्गसंयोगमन्त्रकाः ॥ ९५ ॥

भैरवो भूतरश्मिश्च रश्मिवृन्दं प्रकीर्तितम् ।
षोडशारमूलवृत्ते रक्ता भावादिरश्मयः ॥ ९६ ॥

पाशाङ्कुशसुधाकुम्भपानपात्रधराः शुभाः ।
ततः षोडशपत्राब्जबाह्ये प्रथमवृत्तके ॥ ९७ ॥

वेष्टनत्वेन सामान्यसुधया योगिनीर्यजेत् ।
डाकिनी राकिणी चैव लाकिनी काकिनी तथा ॥ ९८ ॥

शाकिनी हाकिनी चैव याकिनी योगिनी तथा ।
षोडशारबाह्यवृत्ते योगिन्यो डाकिनीमुखाः ॥ ९९ ॥

पाशाङ्कुशकपालासिधारिण्यः शववाहनाः ।
मुण्डमालासमायुक्ता दंष्ट्राभीममुखाम्बुजाः ॥ १०० ॥

चतुर्वक्त्रा रक्तवर्णा भीमरूपा मदोद्धताः ।
मध्यवृत्ते वेष्टनत्वे सामान्यसुधया शिवे ॥ १ ॥

भैरवीः पूजयेद् देवि भैरवी तदनन्तरम् ।
महाभैरव्यथ सिंहभैरवी धूम्रभैरवी ॥ २ ॥

भीमाद्योन्मनभैरव्यो वशीकरणभैरवी ।
मोहनाख्या भैरवीति भैरव्यः कथिताः प्रिये ॥ ३ ॥

षोडशारबहिर्मध्यवृत्ते तु भैरवीमुखाः ।
पाशाङ्कुशकरा भीमाः कपालशूलपाणयः ॥ ४ ॥

मुण्डमालाधरा रक्ता भीमदंष्ट्राः शवासनाः ।
ततः सामान्यसुधया भैरवान् दश पूजयेत् ॥ ५ ॥

हेरुकं चैव वेतालं त्रिपुरान्तकमेव च ।
अग्निजिह्व च कालान्तं करालं चैकपादकम् ॥ ६ ॥

भीमरूपं महादेवि अचलं हाटकेश्वरम् ।
षोडशारान्त्यवृत्ते तु हेरुकाद्या दश स्थिताः ॥ ७ ॥

भैरवा भीमदंष्ट्रास्यास्त्रिशूलटङ्कधारिणः ।
मेघश्यामाः शवारूढाः कपालदण्डधारिणः ॥ ८ ॥

पूजनं कथितं मध्यविधावरणसञ्ज्ञकम् ।
शृणु वक्ष्ये महादेवि नवावरणपूजनम् ॥ ९ ॥

एतच्चक्रं महेशानि मध्ये बिन्दुविराजितम् ।
ततस्त्रिकोणं चाष्टारं दशारं च दशारकम् ॥ १० ॥

मनुकोणं महेशानि मध्यचक्रमिदं प्रिये ।
बैन्दवादष्टकोणान्तं सर्वमध्यमिदं भवेत् ॥ ११ ॥

चत्वारिंशद्भगैर्युक्तं त्रिभगैरपि पार्वति ।
वसुपत्रं कलापत्रं चतुरस्रं क्रमात् प्रिये ॥ १२ ॥

भगात्कमिदं सर्वं नवयोन्यङ्कितं भवेत् ।
चतुष्षष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ॥ १३ ॥

चक्रेऽस्मिन् सविशेषास्ताः साधकं मानयन्ति हि ।
विना गुरूपदेशेन साधकं भक्षयन्ति हि ॥ १४ ॥

त्रैलोक्यमोहने चक्रे बाह्यरेखां समाश्रिताः ।
सामान्यपात्रसुधया पूजयेत् सिद्धिदेवताः ॥ १५ ॥

चतुरस्रान्तरेखायां पश्चिमादिषु वै क्रमात् ।
द्वारेषु वायुकोणादिकोणेषु ह्यध ऊर्ध्वतः ॥ १६ ॥

दक्षिणावर्तयोगेन यजेत् सर्वार्थसिद्धये ।
अणिमा महिमा चैव लघिमा गरिमा तथा ॥ १७ ॥

ईशित्वं च वशित्वं च प्राकाम्यं भुक्तिरेव च ।
इच्छा प्राप्तिः सर्वकामा मोक्षसिद्धिः क्रमात् प्रिये ॥ १८ ॥

प्। १९१) सद्यःसन्तप्तहेमाभाः पाशाङ्कुशधरा शुभाः ।
महाभरणरत्नानि ससुवर्णानि वै निधीन् ॥ १९ ॥

प्रयच्छन्त्यः साधकेभ्यः पद्मयुग्मधरास्तथा ।
त्रैलोक्यमोहने चक्रे मध्यरेखासमाश्रिताः ॥ २० ॥

तप्तजाम्बूनदाभासाः पञ्चाशत् पीठदेवताः ।
पाशाङ्कुशाभयवरकराः प्रकटरूपकाः ॥ २१ ॥

ताः पूजयित्वा च ततो ब्राह्म्याद्याः सिद्धिवद्यजेत् ।
पूर्वद्वारादिद्वारेषु शुचिकोणादिषु क्रमात् ॥ २२ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डा महालक्ष्मीः क्रमात् प्रिये ॥ २३ ॥

असिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तसञ्ज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥ २४ ॥

कामरूपं च मलयं कौह्लाख्यं च कुलान्तकम् ।
चोहारपीठं देवेशि जालन्धरमतः परम् ॥ २५ ॥

उड्यानं देविकोट्टं च पीठाष्टकमुदाहृतम् ।
मातरो भैरवाङ्कस्थाः स्मेरवक्त्राः मदालसाः ॥ २६ ॥

ब्राह्मीप्रभृतयो दिव्या योगिन्यः प्रकटाः शुभाः ।
पाशाङ्कुशधराः सर्वाः क्रमेण दधतींः स्मरेत् ॥ २७ ॥

विद्यां शूलं च शक्तिं च चक्रं चैव गदां ततः ।
वज्रवैदूर्यमालां च पद्मं च वरदं तथा ॥ २८ ॥

भैरवास्त्वसिताङ्गाद्याः पीठाष्टकनिवासिनः ।
शूलं कपालं प्रेतं च बिभ्राणाः क्षुद्रदुन्दुभिम् ॥ २९ ॥

गजत्वगम्बरा भीमाः कुटिलालकशोभिनः ।
पाशाङ्कुशवराभीतिकराः पीठाष्टदेवताः ॥ ३० ॥

तत्र जाम्बूनदप्रख्या योगिन्यः प्रकटाः शुभाः ।
एवं तृतीयरेखायां सिद्धिवत् पूजयेत् प्रिये ॥ ३१ ॥

मुद्रादेवीः प्रयत्नेन सर्वसङ्क्षोभणादिका तथा ।
सर्वसङ्क्षोभिणी चैव सर्वविद्राविणी तथा ॥ ३२ ॥

सर्वाकर्षणिका सर्ववशीकारिणिका तथा ।
सर्वोन्मादिनिका चैव ततः सर्वमहाङ्कुशा ॥ ३३ ॥

सर्वखेचरिका सर्वबीजमुद्रा तथैव च ।
सर्वयोनिस्ततः सर्वत्रिखण्डा परिकीर्तिता ॥ ३४ ॥

सर्वसङ्क्षोभिणीमुख्या मुद्रास्ताः सौम्यविग्रहाः ।
घृतपाशाङ्कुशाः सर्वाः स्वस्वमुद्राकरास्तथा ॥ ३५ ॥

तप्तचामीकराभासा योगिन्यः प्रकटाः शुभाः ।
पाशाङ्कुशोत्पलाभीतिपाणयो रक्तविग्रहाः ॥ ३६ ॥

प्रकटाः कामरूपादिचतुष्पीठादिदेवताः ।
अणिमासिद्धिपुरतश्चक्रेशीं त्रिपुरां यजेत् ॥ ३७ ॥

पञ्चोपचारैराराध्य मुद्रामाद्यां च दर्शयेत् ।
एताः प्रकटयोगिन्यश्चतुरस्रे व्यवस्थिताः ॥ ३८ ॥

त्रैलोक्यमोहिनीचक्रे समुद्राः सायुधास्तथा ।
सवाहनाश्च सपरिवाराश्चैव ससिद्धयः ॥ ३९ ॥

साङ्गोपाङ्गाश्च सर्वोपचारैः सम्पूजितास्तथा ।
तर्पिताः सन्त्विति वदेज्जलं तत्र विनिःक्षिपेत् ॥ ४० ॥

अभीष्टसिद्धिं मे देहि त्रिपुरे देवपूजिते ।
भक्त्या समर्पये तुभ्यं प्रथमावरणर्चनम् ॥ ४१ ॥

इत्युच्चार्य महादेव्यै दद्यात् पुष्पाञ्जलिं ततः ।
इति ते कथितं भद्रे प्रथमावरणार्चनम् ॥ ४२ ॥

अथ वक्ष्ये महेशानि द्वितीयावरणार्चनम् ।
ततः षोडशपत्रेषु कामाकर्षिणिकां यजेत् ॥ ४३ ॥

सामान्यपात्रसुधया पश्चिमादिक्रमेण तु ।
कामाकर्षिणिका चैव बुद्ध्याकर्षिणिका तथा ॥ ४४ ॥

अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा ।
स्पर्शाकर्षिणिका चैव रूपाकर्षिणिका तथा ॥ ४५ ॥

रसाकर्षिणिका चैव गन्धाकर्षिणिका तथा ।
चित्ताकर्षिणिका चैव धैर्याकर्षिणिका तथा ॥ ४६ ॥

स्मृत्याकर्षिणिका चैव नामाकर्षिणिका तथा ।
बीजाकर्षिणिका चैवामृताकर्षिणिका तथा ॥ ४७ ॥

आत्माकर्षिणिका चैव शरीराकर्षिणी तथा ।
सर्वाशापूरके चक्रे दलषोडशके स्थिताः ॥ ४८ ॥

कामाकर्षिणिकाद्याश्च योगिन्यो गुप्तसञ्ज्ञकाः ।
कलाषोडशरूपाश्च चन्द्रमण्डलमध्यगाः ॥ ४९ ॥

स्वरवर्णा रक्तवर्णाः स्रवत्पीयूषविग्रहाः ।
पाशाङ्कुश(धराः)सुधापूर्णकाश्मरीघटदानन्दाः (?) ॥ ५० ॥

चक्रेशीं त्रिपुरेशीं च कामाकर्षिणिकाग्रतः ।
यजेद्विद्राविणीं मुद्रां दर्शयेद्भाग्यहेतवे ॥ ५१ ॥

एतास्तु गुप्तयोगिन्यः सर्वाशापूरके तथा ।
चक्रे समुद्रा इत्यादि देव्यै पुष्पाञ्जलिं क्षिपेत् ॥ ५२ ॥

अभीष्टसिद्धिं मे देहि त्रिपुरे देवपूजिते ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ ५३ ॥

प्। १९२) इत्युच्चार्य च देवेश्यै दद्यात्पुष्पाञ्जलिं ततः ।
सर्वसङ्क्षोभणे चक्रे दलाष्टकविजृम्भिते ॥ ५४ ॥

यजेत् सामान्यसुधया अनङ्गकुसुमादिकाः ।
पूर्वादिदिक्षु पत्रेषु आग्नेयादिविदिक्षु च ॥ ५५ ॥

अनङ्गकुसुमानङ्गमेखला तदनन्तरम् ।
अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ ५६ ॥

अनङ्गरेखानङ्गवेगिन्यथानङ्गाङ्कुशा ततः ।
अनङ्गमालिनी ह्येता बन्धूककुसुमप्रभाः ॥ ५७ ॥

पाशाङ्कुशस्फुरत्कुन्दनीलोत्पलकराः शुभाः ।
अनङ्गकुसुमाग्रे तु यजेत् त्रिपुरसुन्दरीम् ॥ ५८ ॥

चक्रेशीं दर्शयेन्मुद्रां सर्वाकर्षिणिकां ततः ।
एतागुप्ततराश्चैव योगिन्यः सर्वसं ततः ॥ ५९ ॥

क्षोभणे च तथा चक्रे समुद्रेत्यादिना ततः ।
देव्यै पुष्पाञ्जलिं दद्यादभीष्ठेति च मन्त्रवित् ॥ ६० ॥

चतुर्दशारके चक्रे सर्वसौभाग्यदाभिधे ।
सामान्याद्भिः पश्चिमादिवामावर्तक्रमेण च ॥ ६१ ॥

सर्वसङ्क्षोभिणीमुख्याः शक्तीर्वै पूजयेत् प्रिये ।
सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ ६२ ॥

सर्वाकर्षिण्यथ ततः सर्वाह्लादिन्यनन्तरम् ।
सर्वसम्मोहिनी सर्वस्तम्भिनी सर्वजृम्भिणी ॥ ६३ ॥

सर्ववशङ्करी शक्तिः तथा सर्वार्थरञ्जिनी ।
ततः सर्वोन्मादिनी च तथा सर्वार्थसाधिनी ॥ ६४ ॥

ततो वै सर्वसम्पत्तिपूरणी शक्तिरेव च ।
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ६५ ॥

सर्वसौभाग्यदे चक्रे सर्वसङ्क्षोभिणीमुखाः ।
सम्प्रदायाख्ययोगिन्यः सर्वाभरणभूषिताः ॥ ६६ ॥

इन्द्रगोपनिभाः सर्वाः सगर्वोन्मत्तयौवनाः ।
पाशाङ्कुशौ दर्पणं च पानपात्रं सुधामयम् ॥ ६७ ॥

बिभ्रत्यः सर्वसुभगाः साधकाभीष्टदायिकाः ।
सर्वसङ्क्षोभिणीपूर्वे यजेत् त्रिपुरवासिनीम् ॥ ६८ ॥

सर्ववश्यकरीं मुद्रां दर्शयित्वा विचक्षणः ।
तत एताः सम्प्रदाययोगिन्य इति वै क्रमात् ॥ ६९ ॥

देव्यै पुष्पाञ्जलिं दद्यात् ततः सर्वार्थसाधके ।
बहिर्दशारके चक्रे सामान्यसुधया शिवे ॥ ७० ॥

पूर्ववत् पूजयेद् देवि सर्वसिद्धिप्रदामुखाः ।
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ ७१ ॥

सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ७२ ॥

सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ७३ ॥

सर्वार्थसाधके चक्रे कुलकौलाभिधाः पराः ।
सर्वसिद्धिप्रदाद्याश्च योगिन्यः सर्वकामदाः ॥ ७४ ॥

जपाकुसुमसङ्काशाः स्फुरन्मणिविभूषिताः ।
महासौभाग्यगम्भीराः पीनवृत्तघनस्तनाः ॥ ७५ ॥

रत्नपेटीविनिःक्षिप्तसाधकेप्सितभूषणाः ।
नानारत्नमयान् दीपान् दधत्यो हसिताननाः ॥ ७६ ॥

पाशाङ्कुशधराः सर्वा रत्नदानपरास्तथा ।
सर्वसिद्धिप्रदाग्रे तु चक्रेशीं त्रिपुरां यजेत् ॥ ७७ ॥

ततः सर्वोन्मादिनीं च मुद्रां सन्दर्शयेद्बुधः ।
एताश्च कुलकौलाख्ययोगिन्य इति पूर्ववत् ॥ ७८ ॥

देव्यै पुष्पाञ्जलिं दद्यात्ततः षष्ठावृतिं यजेत् ।
सर्वरक्षाकरे चक्रेऽन्तर्दशारे महेश्वरि ॥ ७९ ॥

सामान्यपात्रसुधया पश्चिमादिक्रमेण तु ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ८० ॥

सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ८१ ॥

सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
पूजनीया प्रयत्नेन सर्वेप्सितफलप्रदा ॥ ८२ ॥

सर्वरक्षाकरे चक्रे निगर्भाख्याः शुभप्रदाः ।
सर्वज्ञाद्याश्च योगिन्यो ज्वलत्पावकतेजसः ॥ ८३ ॥

उद्यत्सूर्यसहस्राभा मुक्तालङ्कारभूषिताः ।
पाशटङ्कायुधज्ञानमुद्रावरदसत्कराः ॥ ८४ ॥

सर्वज्ञापुरतो देवि यजेत् त्रिपुरमालिनीम् ।
देव्यै सन्दर्शयेद् देवि मुद्रां सर्वमहाङ्कुशाम् ॥ ८५ ॥

एता निगर्भयोगिन्यः सर्वरक्षाकराभिधे ।
चक्रे समुद्रा इत्यादि दद्यात् पुष्पाञ्जलिं ततः ॥ ८६ ॥

सर्वरोगहराष्टारचक्रे सामान्यबिन्दुभिः ।
पश्चिमादि क्रमेणैव वशिन्याद्या यजेत् क्रमात् ॥ ८७ ॥

वशिनी कामेश्वरी च मोदिनी विमलारुणा ।
जयिनी सर्वेश्वरी च कौलिनी वागघीश्वरी ॥ ८८ ॥

प्। १९३) सर्वरोगहरे चक्रे रहस्याख्याः शुभप्रदाः ।
योगिन्यः कामदायिन्यौ दाडिमीकुसुमप्रभाः ॥ ८९ ॥

रक्तवस्त्रपरिधाना रक्तगन्धानुलेपनाः ।
नानाभरणसम्पन्नाः पञ्चबाणधनुर्धराः ॥ ९० ॥

पुस्तकं वरदानं च दधाना वाक्प्रदा इमाः ।
यजेत् त्रिपुरसिद्धां च चक्रेशीं वशिनीपुरः ॥ ९१ ॥

मुद्रां प्रदर्शयेत् सर्वखेचरीं भाग्यहेतवे ।
एता रहस्ययोगिन्य इत्यादि च महेश्वरि ॥ ९२ ॥

अभीष्टसिद्धिमिति च देव्यै पुष्पाञ्जलिं क्षिपेत् ।
अन्तराले महाचक्रे सर्वसिद्धिप्रदाभिधे ॥ ९३ ॥

सामान्यपात्रसुधया यजेदायुधदेवताः ।
कामेश्वरस्य कामेश्या जृम्भका बाणदेवताः ॥ ९४ ॥

मोहकाश्चापदेव्यश्च पाशदेव्यो वशङ्कराः ।
स्तम्भकाख्या महादेवि तथैवाङ्कुशदेवताः ॥ ९५ ॥

ततः श्रीपात्रसुधया निजाग्रादित्रिकोणके ।
वाग्भवाख्ये सूर्यचक्रे कामरूपे च पीठके ९६ ॥

मित्रेशनाथात्मिका च तथा जाग्रदधिष्ठिता ।
रुद्रात्मशक्तिसहिता कामेशी सर्वसिद्धिदा ॥ ९७ ॥

ततो वै कामराजाख्ये सोमचक्रे महेश्वरि ।
पीठे पूर्णगिरौ चैवोड्डीशनाथात्मिका ततः ॥ ९८ ॥

तथा स्वप्नाधिष्ठिता च विष्णुशक्तिरुदीरिता ।
वज्रेश्वरी महादेवी ततस्तृतीयकोणके ॥ ९९ ॥

शक्त्याख्ये वह्निचक्रे च पीठे जालन्धरे ततः ।
षष्ठेशनाथात्मिका च तथा सुषुप्त्यधिष्ठिता ॥ १०० ॥

ब्रह्मात्मशक्तिरुदिता देवी श्रीभगमालिनी ।
बिन्दुमध्ये महेशानि कूटत्रयविजृम्भिते ॥ १०१ ॥

समस्तव्योमचक्रे च पीठे चोड्यानसञ्ज्ञके ।
चर्यानाथात्मिका चैव तुरीयाधिष्ठिता ततः ॥ १०२ ॥

परब्रह्मात्मशक्तिः श्रीमहात्रिपुरसुन्दरी ।
सर्वसिद्धिप्रदे चक्रे योगिन्यः सिद्धिदायिकाः ॥ १०३ ॥

अतिरहस्यसञ्ज्ञास्ता आयुधाष्टकदेवताः ।
कामेश्वरीमुखास्तिस्रः कोणत्रयविराजिताः ॥ १०४ ॥

आयुधाष्टकदेव्यस्ता यौवनोन्मत्तविग्रहाः ।
रक्ताः विद्युल्लताकारा उद्दामकुसुमान्विताः ॥ १०५ ॥

नवरत्नविशोभाढ्याः स्वस्वायुधधराः क्रमात् ।
वराभये सुधापात्रं धारयन्त्यः सुखावहाः ॥ १०६ ॥

कामेश्वरी शुक्लवर्णा शुक्लमाल्यानुलेपना ।
मुक्ताफलस्फुरद्भूषा नानाभरणभूषिता ॥ १०७ ॥

पुस्तकं चाक्षसूत्रं च वरदं चाभयं तथा ।
दधतो चाग्रकोणस्था रुद्रशक्तिः प्रिकीर्तिता ॥ १०८ ॥

वज्रेश्वरी कुङ्कुमाभा स्फुरद्रत्नविभूषणा ।
बालार्कवसना नीलकर्णचुम्बिविलोचना ॥ १०९ ॥

इक्षुकोदण्डपुष्पेषुवरदाभयशोभिता ।
दक्षकोणस्थिता देवी विष्णुशक्तिरियं मता ॥ ११० ॥

सद्यःसन्तप्तहेमाभा भगमाला सुशोभना ।
अनर्घरत्नघटितभूषणा भुवनेश्वरी ॥ १११ ॥

पाशाङ्कुशज्ञानमुद्रावरदानकराम्बुजा ।
ब्रह्मशक्तिर्महेशानी तापत्रयनिकृन्तनी ॥ ११२ ॥

उदक्कोणस्थिता देवी सर्वकामफलप्रदा ।
चक्रेशीं त्रिपुराम्बां च कामेशीपुरतो यजेत् ॥ ११३ ॥

पञ्चोपचारैराराध्य बीजमुद्रां प्रदर्शयेत् ।
एता अतिरहस्याख्या योगिन्य इति पूर्ववत् ॥ ११४ ॥

पुष्पाञ्जलिं प्रदद्याद्वै देव्यै देवि महेश्वरि ।
बिन्दुचक्रे महेशानि सर्वानन्दमयाभिधे ॥ ११५ ॥

पश्चिमादिक्रमेणैव श्रीपात्रसुधया शिवे ।
कूटत्रयक्रमेणैव रतिः प्रतिर्मनोभवा ॥ ११६ ॥

पूजनीया प्रयत्नेन श्रीमत्त्रिपुरसुन्दरी ।
सर्वमन्त्रेश्वरी चैव सर्वचक्रेश्वरी तथा ॥ ११७ ॥

सर्वतन्त्रेश्वरी चैव सर्वयोगेश्वरी तथा ।
सर्वभोगेश्वरी चैव सर्ववीरेश्वरी तथा ॥ ११८ ॥

सर्वपीठेश्वरी चैव सर्ववागीश्वरी तथा ।
सर्वविद्येश्वरी चैव सर्वसिद्धेश्वरी तथा ॥ ११९ ॥

सर्वलोकेश्वरी चैव सर्वयोगेश्वरी तथा ।
(——————–) सर्वचक्रेश्वरी तथा) ॥ १२० ॥

सर्वानन्दमये चक्रे परे शब्दातिगोचरे ।
परापररहस्याख्या योगिन्य इति पूर्वकाः ॥ १२१ ॥

उद्यत्सूर्यसहस्राभा नानालङ्कारभूषिताः ।
पाशाङ्कुशधराः सर्वा ज्ञानमुद्राभये तथा ॥ १२२ ॥

दधाना यौवनप्रौढाः पीनवृत्तघनस्तनाः ।
श्रीविद्याभिमुखाः सर्वा देवताः परिचिन्तयेत् ॥ १२३ ॥

प्। १९४) श्रीविद्यां चापि सर्वासामाभिमुख्ये स्थितां स्मरेत् ।
अथवा रश्मयः सर्वा देवीरूपेण चिन्तयेत् ॥ १२४ ॥

श्रीचक्रे परमेशानि स्वतन्त्रे स्वस्वसन्निभाः ।
चक्रेशीं रतिपूर्वे तु महात्रिपुरभैरवीम् ॥ १२५ ॥

पूजयित्वा ततः सर्वयोनिमुद्रां प्रदर्शयेत् ।
परापररहस्याख्या योगिनीत्यादिना प्रिये ॥ १२६ ॥

देव्यै पुष्पाञ्जलिं दत्त्वा तर्पयेच्च त्रिधा त्रिधा ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य-
श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य
श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे
दशमः श्वासः ॥ १० ॥