०९

॥ नवमः श्वासः ॥

अत्र मेरुप्रस्तारकं यन्त्रं नित्यातादात्म्यकं स्मृतम् इत्यत्र मेरुयन्त्रे
सृष्टिक्रमेण पूजने तु प्रमाणमुक्तम् । तत्रायमर्थः
मध्याद्यणिमाद्यन्तपूजा सृष्टिपूजा तत्र मध्यादि षोडशनित्यादीत्यर्थः
। अत एव सृष्टिचक्रं षोडशनित्या तादात्म्यम् तथा संहारचक्रं
मातृकातादात्म्यं स्थितिचक्रं वशिन्यादितादात्म्यमिति भावः । एवं
श्रीचक्रराजमुद्धृत्य समष्टिविद्यया पुष्पाञ्जलिं दद्यात् । अथवा
लोहरत्नादिनिर्मितं वा श्रीपर्ण्यादिसम्भवे पीठे पुरतः संस्थाप्य
पुष्पं दद्यात् । समष्टिविद्या तु प्रणवतारत्रयपूर्वकं
मूलमन्त्रमुच्चार्यं
समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापर
रहस्ययोगिनीयुतश्रीचक्रपादुकां पूजयामि नमः इति ।
प्रोक्तश्रीचक्रोद्धारस्तु उभयमतसाधारणः परं तु कादिमते चतुरस्रे
पूर्वपश्चिमद्वारद्वयमुक्तमिति विशेषः । लोपामुद्रोपासकानां विशेषः
भैरवयामले :

लोपामुद्रोपासकैस्तु प्रोक्तश्रीचक्रमध्यतः ।
बिन्दुमध्ये प्रेतबीजं विलिखेत् परमेश्वरि ॥ १ ॥

तद्बाह्यस्थत्रिकोणेषु पूर्वदक्षिणसौम्यके ।
द्वारत्रयं प्रकर्तव्यं यथा द्वाराणि भूपुरे ॥ २ ॥

मन्वस्रबाह्यतश्चाष्टदलाग्रेषु महेश्वरि ।
ग्रन्थयस्तु प्रकर्तव्यास्त्रिशूलाष्टकमेव च ॥ ३ ॥

ग्रन्थयः प्रणवाभ्यां च सम्पुटत्वेन योजिताः ।
पूर्वादिग्रन्थिषु तथा पूजयेदष्ट भैरवान् ॥ ४ ॥

तदग्रेषु दश प्रोक्तान् वटुकान् पूजयेत् क्रमात् ।
त्रिशूलेषु महादेवि पूजयेदष्ट भैरवीः ॥ ५ ॥

वृत्तत्रये तु देवेशि भूर्भुवःस्वर्निवासिकाः ।
योगिनीः पूजयेत् तासां मन्त्रास्तु परमेश्वरि ॥ ६ ॥

पातालवासिनीभ्यस्तु योगिनीभ्यो नमो नमः ।
भूर्लोकवासिनीभ्यस्तु योगिनीभ्यो नमो नमः ॥ ७ ॥

भुवर्लोकनिवासाभ्यो योगिनीभ्यो नमो नमः ।
(स्वर्लोकवासिनीभ्यस्तु योगिनीभ्यो नमो नमः) ॥ ८ ॥

इति वृत्तत्रये पूज्यमिति विशेषः । अत्र सृष्टिस्थितिसंहारभेदेन प्रस्तारभेदेन
च श्रीचक्रभेदा बहवः सन्ति ते भेदा अग्रे वक्ष्यन्ते - इति तु सङ्क्षेपः । अत्र
पात्रासादनपद्धतिर्लिख्यते - तत्र ध्यानमानसपूजान्ते स्वर्णादि पट्टे
कुङ्कुमादिना पूजायन्त्रं विलिख्य स्वपुरतः संस्थाप्याभ्यर्च्य
पात्रासादनं कुर्यात् । अत्र पूजायां पात्राण्यतीव प्रशस्तानि । तदुक्तं
रुद्रयामले :

विना पात्रेण यः कुर्यात् प्रतिष्ठां याज्ञिकी क्रिया ।
विफला जायते सर्वा वाहनादिधनापहा ॥ १ ॥

बलिहीने तु दुर्भिक्षं गन्धहीने त्वभाग्यता ।
धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयम् ॥ २ ॥

छत्रहीने हरेच्छत्रं वितानेन बको भवेत् ।
वितानं विमानं तेन हीने ।

वेदिहीने तु नाशः स्यान्नगरस्य पुरस्य च ।
कलशैर्बन्धुनाशश्च भवेद्वै गिरिकन्यके ॥ ३ ॥

कलशैर्हीने इत्यनुषज्यते ।

तोरणानामभावे तु हन्याज्ज्ञातीन् सबान्धवान् ।
दक्षिणारहिते सर्वं व्यर्थं स्यान्नात्र संशयः ॥ ४ ॥

मन्त्रविद्याविहीने तु सम्पूर्णमपि नश्यति ।
पात्रमन्त्रसमायुक्तं सर्वदोषापहं भवेत् ॥ ५ ॥

इति । अन्यत्रापि -

एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति आपदश्च पदे पदे ॥ १ ॥

प्। १६२) इह लोके दरिद्रः स्यात् परत्र नरकं व्रजेत् ।
आधारेण विना भ्रंशो न च तृप्यन्ति देवताः ॥ २ ॥

इति तन्त्रान्तरवचनाच्चात्र तावत्पात्रतदाधारतत्प्रमाणतच्छोधनादि-
विचारः प्रदर्श्यते । तानि पात्राणि तन्त्रराजे -

त्रिलोहकाचमृत्पात्रे त्वेकस्मिन्नर्घ्यकल्पनम् इति त्रिलोहः स्वर्णरजतताम्राणि ।
भैरवीतन्त्रे -

पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं विश्वामित्रभवं
च कामफलदं हैमं श्रिये स्फाटिकम् ।

तारं प्रीतिदमिष्टसिद्धिजनकं श्रीनारिकेलोद्भवं कापालं स्फुटमत्र
सिद्धिजनकं मुक्तिप्रदं मौक्तिकम् ॥ १ ॥

इति । कुलार्णवे -

हेमरौप्यशिलाताम्रकपालालाबुमृन्मयम् ।
नारिकेलं च शङ्खं च मुक्ताशुक्तिसमुद्भवम् ॥ १ ॥

पुण्यवृक्षकृतं रम्यं पात्रं संलोलितं शुभम् ।

इति । भैरवयामले -

तारपात्रं वरारोहे विज्ञेयं चोत्तमोत्तमम् ।
नारिकेलोद्भवं देवि ज्ञेयं चोत्तममध्ययम् ॥ १ ॥

काचपात्रं तु सुश्रोणि ज्ञेयं चोत्तमकन्यसम् ।
मध्यमोत्तमकं हैमं तारं मध्यममध्यमम् ॥ २ ॥

ताम्रपात्रादिकं चैव प्रोक्तं मध्यमकन्यसम् ।
कन्यसोत्तमकं बैल्वं ब्रह्मवृक्षजमेव च ॥ ३ ॥

कन्यसमध्यमं प्रोक्तं मृन्मयं कन्यसाधमम् ।

इति । महाहारकतन्त्रे -

शृणु देवि प्रवक्ष्यामि नारिकेलविधिं शुभम् ।
पुरा वै निर्मितं पात्रं विश्वामित्रेण धीमता ॥ १ ॥

विश्वामित्रकपालं तु सर्वपात्रोत्तमोत्तमम् ।
तस्मिन् सम्पूजयेच्चैव सिद्धयोऽष्टौ भवन्ति हि ॥ २ ॥

तस्य दर्शनमात्रेण चैकविंशतिकं कुलम् ।
उद्धरिष्यत्यसन्देहो गृहस्थो भवति प्रिये ॥ ३ ॥

ब्रह्महत्यादिपापानि तथा विश्वासघातकम् ।
दृष्ट्वा पात्रं नारिकेलं सर्वपापं प्रणश्यति ॥ ४ ॥

कन्याकोटिप्रदानानि तथा हेमशतानि च ।
यो ददाति महेशानि राहुग्रस्ते दिवाकरे ॥ ५ ॥

तत्फलं कोटिगुणितं नारिकेलार्घ्यदानतः ।
अलाभे तस्य पात्रस्य पात्रस्य चान्यपात्रैस्तु पूजयेत् ॥ ६ ॥

दृष्ट्वार्घ्यपात्रं देवेशि ब्रह्माद्या देवतागणाः ।
नृत्यन्ति सर्वयोगिन्यः प्रीताः सिद्धिं ददन्ति च ॥ ७ ॥

इति । देवीपुराणे -

हेमराजतपात्राणि काष्ठमृच्छैलजानि च ।
रत्नादीनि च पात्राणि शुभरेखाङ्कितानि च ॥ १ ॥

अर्घ्यनैवेद्यपूजार्थं बलिदाने न कल्पयेत् ।

इति । शिवरहस्ये -

हेमपात्रेण सर्वाणि ईहितानि भवन्त्युमे ।
अर्घ्यं दत्वा तु रौप्येण आयू राज्यं सुतांल्लभेत् ॥ १ ॥

ताम्रपात्रेण सौभाग्यं धर्मं मृन्मयसम्भवे ।
सर्वालाभे तु माहेयं स्वहस्तघटितं यदि ॥ २ ॥

आसनं चार्घ्यपात्रं च भग्नमासादयेन्न तु ।
सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रे ततोऽधिकम् ॥ ३ ॥

पात्राधारास्तथा कार्याः पात्राणीवोत्तमानि च ।
बलिहोमक्रियार्थं हि विना पात्रं न सिद्ध्यति ॥ ४ ॥

षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्तितम् ।
मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् ॥ ५ ॥

वस्वङ्गुलविहीनं तु न पात्रं कारयेत् क्वचित् ।
नाभिविवररूपाणि पुण्डरीकाकृतीनि च ॥ ६ ॥

शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ।
तत्तद्भूतसमानाभमण्डलाभानि कल्पयेत् ॥ ७ ॥

तदुक्तानि फलान्यत्र कारयेत् परमेश्वरि ।
यादृशं पात्ररूपं स्यादाधारं तादृगानयेत् ॥ ८ ॥

इति । देवीयामले -

वश्याकर्षणकर्माणि हेमपात्रे सुरेश्वरि ।
शान्तिके पौष्टिके चैव राजतं कारयेत् प्रिये ॥ १ ॥

प्। १६३) लोहपात्रे समुन्नेये मारणोच्चाटने तथा ।
स्तम्भकार्येषु सर्वेषु विशेषेण तु मृन्मयम् ॥ २ ॥

मन्त्रार्णौषधिचूर्णैश्च घटितं पात्रमुत्तमम् ।
तत्पात्रेण वरारोहे देवतां यस्तु तर्पयेत् ॥ ३ ॥

षण्मासाभ्यन्तरे तस्य मन्त्रसिद्धिः प्रजायते ।
तथा मन्त्रार्णनक्षत्रवृक्षोत्थं पात्रमुत्तमम् ॥ ४ ॥

तेनोत्तमेन पात्रेण तर्पयेत् परदेवताम् ।
तथैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५ ॥

एतत् पात्रद्वयं देवि न वक्तव्यं कदाचन ।
मन्त्रर्क्षयोनिसम्भूतपात्रं चैवोत्तमोत्तमम् ॥ ६ ॥

परसिद्ध्याह्वानकरं तत्पात्रेण च तर्पणम् ।
पराभिचारशमनं स्वमन्त्राणां च सिद्धिदम् ॥ ७ ॥

अक्षरौषधिनक्षत्रयोन्युत्थानि महेश्वरि ।
पात्राणि श्रीगुरुमुखाज्ज्ञात्वार्चनविधौ क्षिपेत् ॥ ८ ॥

सर्वकार्येषु कर्तव्यं वैश्वामित्रं च सुव्रते ।
काष्ठपात्रं विजानीयान्मन्त्राराधनकर्मणि ॥ ९ ॥

इति । कुलार्णवे -

आदौ कुम्भं तथा शङ्खं श्रीपात्रं शक्तिपात्रकम् ।
गुरुपात्रं भोगपात्रं बलिपात्रमनुक्रमात् ॥ १ ॥

स्ववामाग्रात् तथा स्थाप्यमित्येतत् पात्रपञ्चकम् ।
अङ्गं वीरं तथा गुह्यं योगिनीपात्रमेव च ॥ २ ॥

आत्मनो गणनाथस्य वटुकक्षेत्रपालयोः ।
प्रोक्षणीसहितानि स्युर्नव पात्राणि सुव्रते ॥ ३ ॥

स्थापयेत् पृष्ठतो देव्या दूतीपात्रचतुष्टयम् ।
पात्राण्यष्टादशैतानि देव्याः प्रीतिकराणि च ॥ ४ ॥

सामान्यार्घ्यविशेषार्घ्यावात्मश्रीवक्रमध्यतः ।
आद्यपङ्क्तेरधःस्थाप्यौ विधिवत् परमेश्वरि ॥ ५ ॥

इति । सामान्यार्घ्यलक्षणं भविष्यपुराणे -

रक्तबिल्वाक्षतैर्पुष्पैर्दधिदूर्वाकुशैस्तिलैः ।
सामान्यः सर्वदेवानामर्घ्योऽयं परिकीर्तितः ॥ १ ॥

रक्तमत्र कुङ्कुमम् ।

श्रीमत्त्रिपुरसुन्दर्याः शङ्खं सामान्यकं भवेत् ।
अन्येषां देवि देवानां सामान्यं चाच्यदीश्वरि ॥ २ ॥

अर्घ्यादिपञ्चपात्राणि तदधः स्थापयेद्बुधः ।
अर्घ्यपात्रं तु वायव्ये नैर्-ऋत्यां पाद्यपात्रकम् ॥ ३ ॥

आग्नेय्यां स्नानकलशमीशे त्वाचमनीयकम् ।
मध्ये तु मधुपर्कः स्यादित्येतत्पात्रलक्षणम् ॥ ४ ॥

आपः क्षीरं कुशाग्राणि अक्षता दधि तण्डुलाः ।
सहा सिद्धार्थका दूर्वा कुङ्कुमं रोचना निशा ॥ ५ ॥

अर्घ्योऽयं देवदेव्यास्तु द्वादशाङ्ग उदाहृतः ।
सिद्धार्थः कुङ्कुमं दूर्वा कुष्ठं लामञ्जकं शशी ॥ ६ ॥

अमूनि चात्र द्रव्याणि पाद्यस्य प्रवदन्ति षट् ।

इति । सारसङ्ग्रहे - पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताद्भिरुत्तमम् । इति ।
तथा -

फलकच्चोरकर्पूरकुष्ठैलोशीरकाणि च ।
अमून्याचमनीयस्य द्रव्याणि प्रवदन्ति षट् ॥ १ ॥

मधुपर्के घृतं क्षौद्रं दधि प्रोक्तं मनीषिभिः ।
दघ्यभावे पयः कार्यं मघ्वभावे तथा गुडः ॥ २ ॥

घृते प्रतिनिधिर्नास्ति जलं तत्र समाचरेत् ।
अष्टगन्धं समालोड्य स्नानाम्भः साधु साधयेत् ॥ ३ ॥

पयोदधिघृतानां च शर्कराक्षौद्रयोस्तथा ।
पृथक् पात्राणि पञ्च स्युरेकं पञ्चामृतस्य च ॥ ४ ॥

षट् पात्राणि विशिष्टानि पुनराचमनीयकम् ।
सप्तमं कोष्ठ्यतोयस्य चाष्टमं नवमं तथा ॥ ५ ॥

उद्वर्तनस्य देवेशि दशमं शुद्धपाथसः ।
एतानि दश पात्राणि सौरे शैवे च वैष्णवे ॥ ६ ॥

गाणपत्ये च मुख्यानि उपपात्राणि शाक्तके ।
अर्घ्यादिपञ्चपात्राणि त्रिधा संस्थापयेद्बुधः ॥ ७ ॥

पुनराचमनीयस्य पात्रद्वयमुदाहृतम् ।
पञ्चायतनपूजायां पञ्चधार्घ्यादिपञ्चकम् ॥ ८ ॥

विशेषावरणं देवि विशेषार्घ्येण तर्पयेत् ।
सामान्यावरणं देवि सामान्यार्घ्येण सुन्दरि ॥ ९ ॥

श्रीपात्रस्थामृतेनैव देवीनां पूजनं भवेत् ।
शक्तीनां शक्तिपात्रेण गुरूणां गुरुपात्रतः ॥ १० ॥

योगिनीनां चतुष्षष्टिं नवावरणयोगिनीः ।
योगिनीपात्रतोयेन तर्पयेत् कुलनायिके ॥ ११ ॥

प्। १६४) अन्यानि भोग्यवस्तूनि भोगपात्रेण साधयेत् ।
भैरवस्य च पात्रेण भैरवांस्तर्पयेद्बुधः ॥ १२ ॥

वटुकस्य च पात्रेण वटुकांस्तर्पयेत् ततः ।
बलिपात्रेण देवेशि बल्युत्सर्जनमाचरेत् ॥ १३ ॥

वाराहीकुरुकुल्लादिबलिदेवीश्च तर्पयेत् ।
अत्रादिपदेन नवदुर्गाबलिः ।

पञ्चभूतबलिं चैव सर्वभूतबलिं तथा ।
राजराजेश्वरस्यापि बलिं तेनैव कारयेत् ॥ १४ ॥

वीराणां वीरपात्रेण तर्पणं समुदाहृतम् ।
गुह्यपात्रामृतेनैव तर्पयेद् गुह्ययोगिनीः ॥ १५ ॥

भोगाङ्गं भोगपात्रेण लयाङ्गं चाङ्गपात्रतः ।
ऊर्ध्वाम्नायक्रमं चैव श्रीविद्यावृन्दपूजनम् ॥ १६ ॥

विशेषार्घ्येण देवेशि तर्पयेद्भक्तिभावतः ।
अन्तर्यागं चात्मपूजां चान्तर्हवनमेव च ॥ १७ ॥

आत्मपात्रस्थतोयेन कुर्याद्देशिकसत्तमः ।
दूतीयागे प्रयोक्तव्यं दूतीपात्रचतुष्टयम् ॥ १८ ॥

कुलसद्भावभावाय शक्तिपात्राणि सुन्दरि ।
पञ्च वा षट् च सप्ताष्टौ नव वा स्थापयेद्बुधः ॥ १९ ॥

खण्डितं स्फुटितं दग्धं मानहीनमसुन्दरम् ।
अपवित्रं करोद्भ्रष्टं पशुस्पृष्टं विवर्जयेत् ॥ २० ॥

सदा शुद्धाम्लतोयेन प्रक्षाल्य स्थापयेद्बुधः ।
न कुर्यात् पात्रसाङ्कर्यं द्रव्याणां च विशेषतः ॥ २१ ॥

ऊर्ध्वाम्नायगुरून् देवि विशेषार्घ्येण तर्पयेत् ।
रश्मिचक्रं च देवेशि नान्यपात्रेण तर्पयेत् ॥ २२ ॥

अन्यस्य गुरुवर्गस्य गुरुपात्रेण तर्पणम् ।
पात्रं यन्न भवेत् तत्र प्रोक्षण्यद्भिः समाचरेत् ॥ २३ ॥

समष्टिव्यष्टियजनं शङ्खतोयेन वै भवेत् ।
क्षेत्राधिपस्य पात्रेण क्षेत्रपालबलिर्भवेत् ॥ २४ ॥

गणनाथस्य पात्रेण गणेशस्य बलिर्भवेत् ।
मध्यदेव्या बलिं देवि श्रीपात्रेण विसर्जयेत् ॥ २५ ॥

श्रीविद्याया महेशानि पूजायां च विशेषतः ।
बल्याधाराणि पात्राणि शृणु वक्ष्ये समासतः ॥ २६ ॥

श्रीगुरोर्बलिपात्रं च वाराह्या बलिपात्रकम् ।
त्रीणि वै कुरुकुल्लाया वटुकादेश्चतुष्ट्यम् ॥ २७ ॥

पञ्च वै पञ्चभूतानामेकं भूतबलेस्ततः ।
राजराजेश्वरस्यैकमेकं देव्यास्ततः परम् ॥ २८ ॥

एकं तु नवदुर्गाया धूपदीपान्नसंयुतम् ।
इत्यष्टादश पात्राणि सर्वविघ्नहराणि च ॥ २९ ॥

पात्रपञ्चकमाख्यातं सिद्धद्रव्यस्य शोधने ।
पूजाद्रव्यस्य रचनद्रव्यार्थं चैकपात्रकम् ॥ ३० ॥

कस्तूरिकागरुसुधाकरकुण्डगोलोत्थजाङ्गलगुडैः सपटीरपङ्कैर्युक्तैः
स्वयम्भूकुसुमेनेति योगिनीतन्त्रवचनात् ।

अन्यानि भोग्यवस्तूनां गन्धादीनां विशेषतः ।
मनोहराणि पात्राणि स्थापयेत् पूजयेदपि ॥ ३१ ॥

मार्तण्डस्यार्घ्यदाने तु बृहदर्घ्यं महेश्वरि ।
एकं प्रस्थजलाग्राहि एकं तर्पणपात्रकम् ॥ ३२ ॥

द्वारादिपूजने शस्तमेकं सामान्यपात्रकम् ।
तदेव रविपूजायां सामान्यार्घ्यं भवेत् प्रिये ॥ ३३ ॥

पिधानोद्धरणीयुक्तं कलशानां चतुष्टयम् ।
दुकूलवस्त्रसंवीतं बृहदाधारसंयुतम् ॥ ३४ ॥

शुद्धोदकामृतक्षीरसमयामृतपूरितम् ।
स्ववामाग्रात् ततः स्थाप्यं देव्या दक्षिणभागतः ॥ ३५ ॥

इति । शुद्धोदककलशलक्षणं तु मत्स्यपुराणे -

————-दध्यक्षतसमन्वितम् ।
पञ्चरत्नसमायुक्तं पञ्चभङ्गदलान्वितम् ॥ १ ॥

पञ्च भङ्गदलानि -

चूताश्वत्थवटप्लक्षोडुम्बराणां च पल्लवाः ।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥ २ ॥

गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च ।
गजाश्वरथ्यावल्मीकसङ्गमह्रदगोकुलात् ॥ ३ ॥

मृदमानीय राजेन्द्र सर्वौषधिसमन्विताम् ।
स्नानार्थं विन्यसेत् तत्र यजमानश्च धर्मवित् ॥ ४ ॥

सर्वे समुद्राः सरितः सरांसि च नदा ह्रदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ ५ ॥

इति । रुद्रयामले -

श्रीकामस्तु न्यसेत् सम्यग्देशवृत्तिकरं शुभम् ।
काञ्चनं घृतगोधूमान् दूर्वारोचनया सह ॥ १ ॥

प्। १६५) एतानि पञ्च द्रव्याणि सर्वेषु कलशेषु च ।
विशेषार्घ्यादिपात्रेषु श्रीपात्रेषु विशेषतः ॥ २ ॥

दद्याच्छ्रीकीर्तिसारोग्यपुत्रायुर्जयसिद्धये ।

इति । देवीपुराणे -

अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः ।
स्कन्दो भानुर्मातृगणा दिक्पालाश्च नवग्रहाः ॥ १ ॥

एषां घटेषु प्रत्येकं पूजयित्वा यथा विधि ।

इति गौतमीये -

हैमं रूप्यं तथा ताम्रं मार्तिक्यं वा स्वशक्तितः ।
षट्त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् ॥ १ ॥

षोडशं द्वादशं वापि ततो न्यूनं न कारयेत् ।
अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ॥ २ ॥

तथैवाचमनीयानि पात्राणि च विभागशः ।

इति । भैरवीतन्त्रे -

यो वाष्टाङ्गार्घ्यमापूर्य देव्या मूर्ध्नि निवेदयेत् ।
दशवर्षसहस्राणि दुर्गालोके महीयते ॥ १ ॥

आपः क्षीरं कुशाग्राणि दधि सर्पिः सतण्डुलाः ।
तिला सिद्धार्थकाश्चैव अष्टाङ्गार्घ्यः प्रकीर्तितः ॥ २ ॥

दारवेणार्घ्यपात्रेण दत्त्वार्घ्यं विधिवन्नरः ।
देव्यै तदा महाराज अग्निष्टोमफलं लभेत् ॥ ३ ॥

ताम्रपात्रार्घ्यदानेन पुण्डरीकफलं लभेत् ।
रौप्यपात्रेण दत्त्वा वै विष्णुयागफलं लभेत् ॥ ४ ॥

अर्घ्यं दत्त्वा तु रौप्येण आयू राज्यं शुभं लभेत् ।
दत्त्वा सौवर्णपात्रेण लभेद्बहुः सुवर्णकम् ॥ ५ ॥

हेमपात्रेण सर्वाणि ईहितानि लभेन्मुने ।

इति । भैरवयामले -

पात्रद्वयं तु निर्माल्यवसिन्याः शिवदिक्स्थितम् ।
पञ्चायतनपूजायां दश पात्राणि वै क्षिपेत् ॥ १ ॥

इति । भैरवीतन्त्रे -

छागादिबलिदाने तु नव पात्राणि स्थापयेत् ।
बलिपात्राणि पञ्च स्युः रुधिरस्यैकपात्रकम् ॥ १ ॥

अपरं मांसखण्डानां मस्तकाधारमेव च ।
एकं पक्वस्य मांसस्य ——————————– ॥ २ ॥

इति रुद्रयामले -

अर्घ्यादिपञ्चपात्राणि कुमारीपूजने पृथक् ।
स्थापनीयानि यत्नेन यदीच्छेत् सिद्धिमात्मनः ॥ १ ॥

इति । वाराही तन्त्रे -

दम्पतीयजने चैव सुवासिन्याः प्रपूजने ।
योगिनीनां समर्चायां पञ्चाशन्मिथुनार्चने ॥ १ ॥

यजने कालनित्याया धातुदैवतपूजने ।
गुरुमण्डलपूजायां दिनेशानां तथैव च ॥ २ ॥

वारेशार्चननक्षत्रदेवतार्चनयोस्तथा ।
अक्षरौषधिपूजायां जपमालाप्रपूजने ॥ ३ ॥

पुस्तकस्य च पूजायामग्निपूजाविधौ तथा ।
अर्घ्यादिपञ्चपात्राणि सम्पाद्यानि पृथक् पृथक् ॥ ४ ॥

इति । कुण्डप्रकाशे -

होमे तु दश पात्राणि आज्यास्थालीद्वयं तथा ।
चरुस्थालीद्वयं चैव प्रणीता प्रोक्षणी तथा ॥ १ ॥

स्रुक्स्रुवौ पूर्णपात्रं च होमद्रव्यस्य चापरम् ।
मुख्यान्येतानि पात्राणि ——————————- ॥ २ ॥

इति नारदीये -

देवाग्रतः स्ववामाग्रे त्रिकोणं चन्दनाम्भसा ।
वृत्तेन वेष्टितं बाह्ये चतुरस्रेण चैव हि ॥ १ ॥

विरच्य मुद्रया मत्स्यरूपया साधको भुवि ।

प्। १६६) इति । सारसङ्ग्रहे -

त्रिकोणं वृत्तसंवीतं चतुरस्रेण वेष्टितम् ।
गन्धलिप्ते स्ववामाग्रे विदध्यान्मत्स्यमुद्रया ॥ १ ॥

सम्पूज्य गन्धैर्देवार्घ्यमण्डलाय नमोऽणुना ।
अङ्गानि चतुरस्रस्य कोणेषु पुरतस्तथा ॥ २ ॥

दिक्षु चास्त्रं समभ्यर्च्य शङ्खाधारं प्रविन्यसेत् ।
मूलेन क्षालितं शङ्खाधारं संस्थापयामि ॥ ३ ॥

कालं सबिन्दुकं तद्वद्भुजङ्गेशं समुद्धरेत् ।
वह्न्यन्ते मण्डलायेति तथा धर्मप्रदेति च ॥ ४ ॥

दशकलात्मने प्रोक्त्वा नमो गन्धादिभिर्यजेत् ।
वह्नेर्दश कलास्तत्र प्रादक्षिण्येन पूजयेत् ॥ ५ ॥

इति कुलार्णवे -

आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।
तस्माद् विधिवदाधारं कल्पयेत् कुलनायिके ॥ १ ॥

आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।
अथवा वर्तुलाकारं कुर्याद् देवि मनोहरम् ॥ २ ॥

इत्येतानि सामान्यवचनानि विशेषस्तु प्रागेवाभिहितः । रुद्रयामले -

धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहे तथा ॥ २ ॥

वह्नेश्चैताः कला ज्ञेया दश धर्मप्रदाः मताः ।

इति । सारसङ्ग्रहे -

अस्त्रेण क्षालितं शङ्खं तत्र संस्थाप्य पूजयेत् ।
शङ्खमानं तु प्रादेशं चतुरङ्गुलमुच्छ्रितम् ॥ १ ॥

अर्घ्यपात्रमिति प्रोक्त्वा स्थापयामीति मन्त्रतः ।
अहमर्थप्रदायेति वदेत द्वादशेत्यपि ॥ २ ॥

कलात्मने पदं प्रोक्त्वा अर्घ्यपात्राय हृन्मनुः ।
अनेन शङ्खमभ्यर्च्य कलाः सूर्यस्य पूजयेत् ॥ ३ ॥

इति । यामले -

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १ ॥

एता द्वादश सम्पूज्या रवेरर्थप्रदाः कलाः ।

इति । सारसङ्ग्रहे -

ततः सुधामयैस्तोयैर्मूलान्ते मातृकां पठन् ।
विलोमां पूजयेत्तत्र पूजको मनुनामुना ॥ १ ॥

अर्घ्यपात्रं पूरयामित्युक्त्वा सम्पूरयेत् ततः

इति शारदातिलके -

——————— बिन्दुस्रुतसुधामयै ।
तोयैः सुगन्धिपुष्पाढ्यै पूजयेत्तं यथाविधि ॥ १ ॥

बिन्दुर्भ्रूमध्यं तत्र चन्द्रमण्डलस्य विद्यमानत्वात् । सारसङ्ग्रहे -

कर्णचन्द्रौ बिन्दुयुक्तौ कामप्रदपदं ततः ।
षोडशान्ते कलाशब्दमात्मने नम इत्यथ ॥ १ ॥

गन्धपुष्पैः समभ्यर्च्य कलाषोडशकं यजेत् ।

इति । कर्ण उकारः चन्द्रः सकारो बिन्दुरनुस्वारस्तेन उँ सँ इति । यामले -

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ १ ॥

पूर्णा पूर्णामृता कामदायिन्यः स्वरगाः कलाः ।
सोममण्डलमध्यस्थाः ———————————– ॥ २ ॥

इति । सारसङ्ग्रहे -

प्राग्वत्तीर्थ समावाह्य मूलमन्त्रेण तत्र च ।
संयोज्य नेत्रमन्त्रेण पुष्पं न्यस्य शिखाणुना ॥ १ ॥

प्रदर्श्य गालिनीमुद्रां मुद्रया धेनुसञ्ज्ञया ।
अमृतीकृत्य विधिवत् सुधाबीजेन साधकः ॥ २ ॥

ध्यात्वेष्टदेवतां तत्र सकलीकृत्य देशिकः ।
अङ्गन्यासेन चास्त्रेण कलयेच्च दिशो दश ॥ ३ ॥

नेत्रमन्त्रेण संवीक्ष्य मुद्रया शङ्खसञ्ज्ञया ।
अवष्टभ्य (गुण्ठ्य) तदुद्दिप्य मुद्रया योनिरूपया ॥ ४ ॥

प्। १६७) गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् ।
षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः ॥ ५ ॥

अष्टकृत्वस्ततश्चार्घ्यं छादयेन्मत्स्यमुद्रया ।

इति । नारदीये - वीक्षणं नेत्रमन्त्रेण न चेन्मूलेन मन्त्रवित् । इति । मूलेनेति
पञ्चाङ्गपरं तत्र नेत्रमन्त्राभावात् । अत्रापि सर्वत्र
तत्तदङ्गमन्त्राणामेवोपादानं हृदयादिपदैरिति अङ्गरूपैः ।
कवचेनावगुण्ठ्येति तत्तन्मुद्रयेति शेषः । सारसङ्ग्रहे - तच्छङ्खस्थं
जलं किञ्चित् कुम्भतोये विनिक्षिपेत् इति । शारदातिलके :

अर्घ्यस्योत्तरतः कार्यं पाद्यं साचमनीयकम् ।
मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् ॥ १ ॥

एकैकपात्रं मन्त्रेण ह्यष्टकृत्वोऽभिमन्त्रयेत् ।

इति । उत्तरतन्त्रे तद्दयात् कांस्यपात्रेण रौक्मश्वेतभवेन वा । इति । श्वेतं
रूप्यम् । वाराहपुराणे -

परमं यत्परं धाम मधुसञ्ज्ञं तदुच्यते ।
तदाप्यते यदा तेन मधुपर्कः सदा स्मृतः ॥ १ ॥

इति । शारदायाम् -

दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् ।
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि निक्षिपेत् ॥ १ ॥

इति । नारदपञ्चरात्रे - पुनराचमनीयार्थं पात्रं संस्थापयेत्ततः । इति ।
प्रपञ्चसारे -

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।
दूर्वा चेति क्रमादर्घ्यद्रव्याष्टकमुदीरितम् ॥ १ ॥

इति । अक्षतास्तण्डुलाः । नारदपञ्चरात्रे विष्णोरर्घ्यमुक्तम् -

सिद्धार्थकास्तिला दूर्वाः सयवास्तिलतण्डुलाः ।
तोयक्षीरघृतोपेतमिदमर्घ्यमुदाहृतम् ॥

इति । सिद्धार्थाः सर्षपाः । दूर्वाः पत्रत्रयान्विताः । पत्रत्रयान्विता
दूर्वाः प्रशस्ता अर्घ्यकर्मणि । इति सोमशम्भुवचनात् । प्रपञ्चसारे :

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातीलवङ्गकक्कोलैर्मतमाचमनीयकम् ॥

जाती जातीफलम् । तथाचमनपात्रेऽपि दद्याज्जातीफलं मुने ।
इत्यगस्त्यसंहितावचनात् । जातीफलादीनि चूर्णितानि देयानि । चूर्णयित्वा
यथान्यायं दद्यादाचमनीयकम् । इति फेत्कारिणीतन्त्रवचनात् । लिङ्गपुराणे

कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानि च ।
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ १ ॥

कुशपुष्पयवव्रीहिबहुमूलतमालकम् ।
दापयेत् प्रोक्षणीपात्रे भसितं प्रणवेन च ॥ २ ॥

उशीरं चन्दनं चैव पाद्ये चैव प्रकल्पयेत् ।
जातीकक्कोलकर्पूरबहुमूलतमालकम् ॥ ३ ॥

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयकम् ।
बहुमूलं दूर्वा ।

सहस्रपरमा देवि शतमूला शताङ्कुरा ।
सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ १ ॥

शतशब्दस्य बहुत्ववाचकत्वात् । प्रपञ्चसारे - शुद्धाभिरद्भिर्विहितं
पुनराचमनीयकम् । इत्यत्र शुद्धाभिरित्युक्तेर्जात्यादि न देयमित्यवगम्यते ।
अर्घ्यादिद्रव्यालाभे तु शौनकः एषामभावे पुष्पादि तत्तद्भावनया
क्षिपेत् । इति । मन्त्रतन्त्रप्रकाशे - द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः
शुभाः । इति । भासितं तु शिवपूजायामेव । आद्राचारे (आद्याभावे) तु
अनुकल्पास्तत्प्रमाणवचनानि च तत्प्रयोगे प्रदर्श्यन्ते ॥

अथ पात्रासादनप्रयोगः :

तत्रादौ शुद्धोदककलशस्थापनमत्र कालीमते प्रथमतः
शङ्खस्थापनं कृत्वा तदनन्तरं कलशस्थापनं विधेयम् । कुलार्णवे :

शङ्खस्य वामभागे तु कलशस्थापनं भवेत् ।
मण्डले स्थापयेत् कुम्भं सौवर्णं राजतं तथा ॥ १ ॥

ताम्रं भूमिमयं वापि यद्वा लोहजवर्जितम् ।

इति । कादिमते तु आदौ कुम्भं तथा शङ्खमित्यादिरीत्या विधेयम् इदं तु
दीक्षायां वैपरीत्यं बोध्यम् ।

प्। १६८) अत्र यथागुरूपदेशं कार्यमिति । स्ववामभागे
त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं विरच्य पाशुपतास्त्रेण तन्मण्डलं
प्रोक्ष्य ॐ ह्रीम् आधारशक्तये नमः इति त्रिकोणे ॐ अखण्डमण्डलाय नमः
इति षट्कोणे ॐ सूर्यमण्डलाय नम इति वृत्ते ॐ सर्वतोव्यापकमण्डलाय नम
इति चतुरस्रे इति । कोणेषु कामरूपपीठाय नम इति त्रिकोणे पूर्णगिरिपीठाय
नम इति षट्कोणे ॐ जालन्धरपीठाय नम इति वृत्ते ॐ उडियानपीठाय नम इति
चतुरस्रे - इति सम्पूज्य षट्कोणे मूलविद्यायाः षडङ्गानि त्रिकोणकोणेषु
मूलविद्यायाः कूटत्रयं मध्ये सम्पूर्णमूलविद्यां
पुनर्व्यस्तसमस्तकूटैर्मण्डलचतुष्टयं सर्वमेव पूजयेत् । ततः
पाशुपतास्त्रेण सुवर्णादिनिर्मितमाधारं प्रक्षाल्य मण्डलोपरि
संस्थाप्य ॐ ऐं ह्रीं श्रीं मं धर्मप्रददशकलात्मने
वह्निमण्डलाय श्रीपरदेवतायाः कलशाधाराय नमः इति तदुपरि
सम्पूज्य तत्र वह्नेर्दश कला वृत्ताकारेण पूजयेत् । ४ यं धूम्रार्चिषे
नमः ४ रम् ऊष्मायै नमः ४ लं ज्वलिन्यै नमः ४ वं ज्वालिन्यै नमः ४
शं विस्फुलिङ्गिन्यै नमः ४ षं सुश्रियै नमः ४ सं सुरूपायै नमः ४
हं कपिलायै नमः ४ लं हव्यवहाये नमः ४ क्षं कव्यवहायै नमः इति
सम्पूज्य अभयेष्टकरा रक्ता आग्नेयो धर्मदाः कलाः इति रीत्या ध्यात्वा
वह्नेः कला इहागच्छतागच्छतेति क्रमेणावाह्य वह्निकलानां प्राणा इह
प्राणा इत्याद्यमुष्यपदस्थानयोजितप्राणप्रतिष्ठाविद्यया तासां
प्राणप्रतिष्ठां विधाय तदुपरि हेमादिनिर्मितं सुलक्षणं
रक्तवस्त्रग्रीवं रक्तचन्दनचर्चितं पाशुपतास्त्रेण प्रक्षालितं कलशं
संस्थाप्य तत्र ४ अम् अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय
श्रीपरदेवतायाः कलशाय नमः इति सम्पूज्य सूर्यस्य द्वादशकला
वृत्ताकारेण पूजयेत् । ४ कम्भं तपिन्यै नमः ४ खम्बं तापिन्यै नमः ४
गम्फं धूम्रायै नमः ४ घं पं मरीच्यै नमः ४ ङं नं ज्वालिन्यै
नमः ४ चन्धं रुच्यै नमः ४ छन्दं सुषुम्नायै नमः ४ जन्थं
भोगदायै नमः ४ झन्तं विश्वायै नमः अण्णं बोधिन्यै नमः ४
टण्ढं धारिण्यै नमः ४ ठण्डं क्षमायै नमः इति सम्पूज्य
अभयेष्टकराः पीताः सौरा अर्थप्रदाः कलाः इति रीत्या ध्यात्वा
प्राग्वत्तासां प्राणप्रतिष्ठां विधाय तन्मध्ये विलोममातृकासहितां
मूलविद्यामुच्चरन् शुद्धोदकमापूर्यं ४ उं कामप्रदषोडशकलात्मने
सोममण्डलाय श्रीपरदेवतायाः कलशामृताय नमः इति सम्पूज्य सोमस्य
षोडश कला वृत्ताकारेण पूजयेत् । ४ अम् अमृतायै नमः ४ आं मानदायै
नमः ४ इं पूषायै नमः ४ ईं तुष्ट्यै नमः ४ उं पुष्ट्यै नमः ४ ऊं
रत्यै नमः ४ ऋं धृत्यै नमः ४ ॠं शशिन्यै नमः ४ ऌं चन्द्रिकायै
नमः ४ ॡं कान्त्यै नमः ४ एं ज्योत्स्नायै नमः ४ ऐं श्रीयै नमः ४ ॐ
प्रीत्यै नमः ४ औम् अङ्गदायै नमः ४ अं पूर्णायै नमः ४ अः
पूर्णामृतायै नमः इति सम्पूज्य अभयेष्टकराः श्वेताः सौम्याः
कामप्रदाः कलाः इति क्रमेण ध्यात्वा प्राग्वत्तासां प्राणप्रतिष्ठां
विधाय
तन्मध्येऽधिबिन्द्वक्षतगजाश्वरथ्यावल्मीकसङ्गमह्रदगोकुलमृदः
काञ्चनगोघृतगोधूमदूर्वारोचनसर्वौषधीः संस्थाप्य ४ अग्नये
नमः ४ ब्रह्मणे नमः ४ भवान्यै नमः ४ गजवक्त्राय नमः ४
महोरगाय नमः ४ स्कन्दाय नमः ४ भानवे नमः ४ मातृगणेभ्यो नमः
४ दिक्पालेभ्यो नमः ४ नवग्रहेभ्यो नमः इति तज्जले सम्पूज्य तन्मध्ये
गन्धाष्टकं निक्षिप्य तत्र ४ वं वरुणाय नमः इति वरुणं
पञ्चोपचारैराराघ्य

सर्वे समुद्राः सरितः सरांसि च नदा ह्रदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ १ ॥

इति । क्रोमित्यङ्कुशमुद्रया तीर्थान्याकृष्य ।

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १ ॥

इत्यावाह्यावाहनादिपरमीकरणान्ता मुद्राः प्रदर्श्य मूलमन्त्रेण
वीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशैस्त्रिः सन्ताड्य कवचेनावगुण्ठ्य वमिति
धेनुमुद्रयामृतीकृत्य तन्मुखे पञ्च पल्लवान्निक्षिप्य

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्थिताः ॥ १ ॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ २ ॥

अङ्गैश्च सहिता सर्वे कलश तु समाश्रिताः ।

इति ध्यात्वा तदुपरि उद्धरणीसहितपिधानपात्रं संस्थाप्य
सूक्ष्मवस्त्रेणाच्छादयेत् इति शुद्धोदककलशस्थापनविधिः ॥

प्। १६९) अत्र क्षीरकलशस्थापनविधिस्तु शुद्धोदककलशस्थापनवदेव
बोध्यः ॥ ततो दूतीपात्रचतुष्टयं गृहीत्वा कुलगेहे गत्वा तत्र दूतीयजनं
विधिवदाचर्य्य तदुत्पन्नकुण्डगोलाख्यं द्रव्यं गोप्येनैकैकस्मिन्पात्रे
कृत्वा तदानीय स्वाग्रे स्थापयित्वा तत्रैवाद्यादिचतुष्टयमपि
पृथक्पृथक्पात्रचतुष्टये संस्थाप्य पञ्चपात्रस्थद्रव्यपञ्चकस्य
संस्कारं कुर्यात् । तद्यथा -

तत्रादावाद्यस्य संस्कारः :

एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवाम् । ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ १ ॥

सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ २ ॥

वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन मे देवि ब्रह्महत्यां व्यपोहतु ॥ ३ ॥

ॐ ४ वांवींवूंवैंवौंवः ब्रह्मशापविमोचिकायै सुधादेव्यै नमः
इति तदुपरि दशधा जपेत् । ४ ह्रींश्रीङ्क्राङ्क्रीङ्क्रूङ्क्रैङ्क्रौङ्क्रः
ब्रह्मशापं विमोचय अमृतं (स्रावय स्रावय) स्वाहा इति दशधा जपेत् ।
ततो मूलविद्यां तदुपर्यष्टधा जपेदित्याद्यशुद्धिः ॥ अथ द्वितीयशोधनम्
४ ॐ प्रातद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु
त्रिषु विक्रमणेष्वधिक्षयन्ति भुवनानि विश्वा ॥ ४ ॐ तत्पुरुषाय विद्महे
महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् इति तदुपरि दशधा प्रजप्य
मूलविद्यामपि दशधा जपेदिति द्वितीयशोधनम् ॥ अथ तृतीयशोधनम् ४ ॐ
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव
बन्धनान्मृत्योर्मुक्षीय मामृतात् इति तदुपरि दशधा प्रजप्य
मूलमन्त्रमपि दशधा जपेदिति तृतीयशोधनम् ॥ अथ चतुर्थशोधनम् :

कृसरं मण्डलाकारं चन्द्रबिम्बनिभं शुभम् ।
चरुकं च मनोहरि शर्कराद्यैश्च पूरितम् ॥ १ ॥

पूजाकाले देवताया मुद्रैषा परिकीर्तिता ।

तच्छोधनं तु ४ ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव
चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यतपरमं पदम् ॥ इति तदुपरि दशधा प्रजप्य मूलविद्यामपि
दशधा जपेदिति चतुर्थशोधनम् ॥ अथ पञ्चमशोधनम् ४ ॐ अमृते
अमृतोद्भवे अमृतवर्षिणि शुक्रशापं प्रमोचय अमृतं स्रावय स्रावय
अमृतं कुरु कुरु स्वाहा इति तदुपरि दशधा प्रजप्य मूलविद्यामपि दशधा
जपेत् इति पञ्चमशुद्धिः ॥ एव सामान्यतः पञ्चद्रव्याणि संशोध्य
घटादिपात्रेषु निक्षिप्य विशिष्य द्वितीयवारं शोधयेत् । ततो देवीपूजान्ते
आत्मसमर्पणसमये तृतीयवारं शोधयित्वात्मसमर्पणं कुर्यात् । तच्च
श्रीगुरुमुखादवगन्तव्यम् ।

तदुक्तं कुलार्णवे -

आसवं पललं मत्स्यं मुद्रा गोलोत्थमेव च ।
एतानि पञ्चद्रव्याणि त्रिधा संशोधयेत्ततः ॥ १ ॥

शुद्ध्यन्ति नान्यथा देवि न चेदुक्तं प्रयाति च ।

इति । त्रिप्रकारशोधनं न चेत् उक्तं श्रुतिस्मृतिपुराणादौ
उक्तमेतत्पञ्चद्रव्यसंसर्गप्रयुक्तदोषं प्रयाति प्राप्नोतीत्यर्थः ।
दूतीयागविधिस्तु स्थूलपद्धत्यादौ बोद्धव्यः । स्वयम्भूशोधनं तु
गोलोत्थशोधनवत् ज्ञेयम् ॥ अथ समयाशोधनं कुलार्णवे :

संविदासवयोर्मध्ये संविदेव गरीयसी ।
संवित्प्रयोगः कर्तव्यः पूजादौ साधकोत्तमैः ॥ १ ॥

कर्तव्या च महापूजा करणीयासुनिश्चितैः ।

इति । अयं प्रयोगः कुलीनैः सर्वत्र पूजादौ कर्तव्यः । अन्यत्रापि : आनन्देन
विना भ्रंशो न च तृप्यन्ति देवताः । इति । सा च ब्राह्मणी क्षत्रिया वैश्या
शूद्रा : इति चतुर्विधा शुक्लरक्तपीतकृष्णपुष्पभेदैः । तासां शुद्ध्यस्तु :

संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणां च तृप्त्यर्थं पवित्रा भव सर्वदा ॥ १ ॥

ॐ ब्राह्मयै नमः स्वाहा इति तदुपरि दशधा प्रजप्य
मूलमन्त्रमप्यष्टधा जपेदिति ब्राह्मीशुद्धिः ॥

प्। १७०) सिद्धिमूलकरे देवि मूलबोधप्रबोधिनि ।
राजपुत्रवशङ्कारि शत्रुकण्ठत्रिशूलिनि ॥ १ ॥

ऐं क्षत्रियायै नमः स्वाहा इति दशधा प्रजप्य मूलमप्यष्टधा जपेत् : इति
क्षत्रियाशुद्धिः ॥

अज्ञानेन्धनदीपाग्रे ज्ञानाग्रे ज्ञानरूपिणि ।
आनन्दाद्याहुतिं मत्वा सम्यज्ज्ञानं प्रयच्छ मे ॥ १ ॥

ह्रींवैश्यायै नमः स्वाहा इति दशधा प्रजप्य मूलमप्यष्टधा जपेदिति
वैश्याशुद्धिः ॥

नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।
त्रैलोक्यविजये मातः समाधिफलदा भव ॥ १ ॥

श्रीं शूद्रायै नमः स्वाहा इति दशधा प्रजप्य मूलमष्टधा जपेदिति
शुद्द्धाशुद्धिः ॥ अथ सामान्यतः सर्वासां शोधनप्रकारस्तु मूलेन
वीक्ष्यास्त्रेण प्रोक्ष्य तेनैव कुशदूर्वादिना त्रिः सन्ताड्य
कवचेनावगुण्ठ्य वमिति अमृतीकृत्य ४ ॐ अमृते अमृतोद्भवे अमृतवर्षिणि
अमृतमाकर्षय त्वं सिद्धिं देहि स्वाहा इति तदुपरि दशधा प्रजप्य
मूलमष्टधा जपेत् । तदुपर्यावाहनादिदशमुद्राः प्रदर्श्य
शुद्धोदककलशस्थापनवत् कलशस्थापनं विधाय विजयामृतेनापूर्यं
चक्रकलापूजादिकं सर्वं शुद्धोदककलशस्थापनवदेव विधाय
दिग्बन्धच्छोटिकातालत्रयपूर्वकं
पार्ष्णिघातकरास्फोटनसमुदञ्चितवक्त्रैः पातालभूनभोलीनान्
विघ्नान्निरस्य मूलमन्त्रेण सप्तधा ब्रह्मरन्ध्रे तर्पयित्वा
सहस्रदलकमलकर्णिकामध्यवर्तिनं श्रीगुरुं सङ्केतविद्यया
श्रीगुरुपादुकाविद्यान्ते श्रीगुरुपादुकां तर्पयामीति त्रिधा सन्तर्प्य
मूलान्ते श्रीपरदेवतां तर्पयामीति तत्त्वमुद्रया मूलदेवीं त्रिधा
तर्पयित्वा ४ मूलम् ऐंवदवद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव
सर्वसत्त्ववशङ्करि स्वाहा : इति मन्त्रमुच्चरन् कलशात् पात्रान्तरेण गृहीतं
विजयामृतं स्वयं प्राश्य कलशोपर्युद्धरणीयुक्तपात्रेणाच्छाद्य
तत्सर्वं सूक्ष्मवस्त्रेण च्छादयेदिति विजयाकलशस्थापनविधिः ॥
अथानुकल्पद्रव्याणि कुलार्णवे :

आद्याभावे तु वटकं जले संयोज्य पूजयेत् ।
सतक्रं वटकं वापि सङ्गृह्य च विचक्षणः ॥ १ ॥

गुडमिश्रेण तक्रेण तेन वा मधुभाजिना ।
सौवीरेणाथवा कुर्यादेतत्कर्म न लोपयेत् ॥ २ ॥

द्वितीयाभावे लशुनमार्द्रकं नागरं तु वा ।
आधाय पूजयेद्देवीमन्यथा निष्फलं भवेत् ॥ ३ ॥

इति । वीरतन्त्रे -

लवणार्द्रकपिण्याकगोधूममाषपञ्चकम् ।
लशुनं च महेशानि द्वितीयप्रतिनिधौ स्मृतम् ॥ १ ॥

तृतीयादेरभावे तु योजयेदेतदेव हि ।

इति । चतुर्थाद्यनुकल्पस्तु नास्ति । पञ्चमाद्यनुकल्पस्त्वपराजितापुष्पं
हयारिपुष्पं च समानीय चन्दनादिनापराजितापुष्पमापूर्य
हयारिकुसुमं तत्र संयोज्योभयं शिवशक्तिसमायोगत्वेन परिचिन्त्य
कुलद्रव्योत्पत्तिं विभाव्य तदुपरि यथाशक्त्या निजविद्यां जपित्वा
तत्कुसुमद्वयं विशेषार्घ्यमध्ये निक्षिपेत् । अन्यान्यपि
क्षीरादीन्यनुकल्पद्रव्याणि यथाधिकारमवधेयानि ॥ अथ कालीमतरीत्या
सामान्यार्घ्यस्थापनम् :

तत्र स्ववामाग्रे त्रिकोणवृत्तचतुरस्रमण्डलं चन्दनादिना
यथासम्भवद्रव्येण रजोभिर्जलेन वा विरच्य पाशुपतास्त्रेण तन्मण्डलं
सम्प्रोक्ष्य ॐ ह्रीम् आधारशक्तये नमः इति त्रिकोणमध्ये एवं कोणत्रये
वृत्ते चतुरस्रे च ॐ अखण्डमण्डलाय नमः । ॐ पूर्णमण्डलाय नमः । ॐ
सर्वतोव्यापकमण्डलाय नम इति मण्डलं सम्पूज्य पाशुपतास्त्रेण
सुवर्णादिनिर्मितमाधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य मं
धर्मप्रददशकलात्मने वह्निमण्डलाय श्रीपरदेवतायाः
शङ्खाधाराय नमः इति शङ्खाधारं सम्पूज्य वह्निरूपमाधारं
विचिन्त्य पुनः पाशुपतास्त्रेण शङ्ख प्रक्षाल्याधारोपरि संस्थाप्य अम्
अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय श्रीपरदेवतायाः
शङ्खपात्राय नमः इति शङ्खं सम्पूज्य सूर्यरूपं शङ्खं
सञ्चिन्त्य विलोममातृकां मूलतद्दिननित्याविद्यासहितामुच्चरन् शुद्धतोयेन
त्रिभागं शङ्खं पूरयेद्भागमेकं विशेषपूरणार्थमवशेषयेत् ।
ततः ॐ कामप्रदषोडशकलात्मने सोममण्डलाय श्रीपरदेवतायाः
शङ्खामृताय नमः इति जलमध्ये सम्पूज्य तज्जलं चन्द्ररूपं विचिन्त्य
सुगन्धपुष्पाक्षतयवकुशाग्रतिलश्वेतसर्षपदधिदूर्वादीनि शङ्खजले
विन्यस्य पृथिव्यां यानि तीर्थानि करस्पृष्टानि ते रवे । तेन सत्येन मे देव
तीर्थं देहि दिवाकर ॥ इति सूर्यमण्डलादङ्कुशमुद्रया

प्। १७१) तीर्थान्याकृष्य शङ्खजले विन्यस्य गङ्गे च यमुने चेति
तीर्थान्यावाह्य आवाहनादिदशमुद्राः प्रदर्श्य पञ्चोपचारैस्तानि
सम्पूज्य वषडिति गालिनीमुद्रां प्रदर्श्यं वौषडिति वीक्ष्य
हुमित्यवगुण्ठ्य अग्नीशासुरवायव्यमध्ये दिक्षु च मूलविद्यायाः
षडङ्गानि सम्पूज्य तथैव षडङ्गमुद्राः प्रदर्श्यं दक्षाङ्गुष्ठं
जले निक्षिप्य मत्स्यमुद्रयाच्छाद्य जलं स्पृशन् मूलविद्यामष्टधा
प्रजप्य नाराचमुद्रया पाशुपतास्त्रेण संरक्ष्य वमिति
धेनुमुद्रयामृतीकृत्य ऐमिति योनिमुद्रां प्रदर्श्य श्रीमिति शङ्खमुद्रां
फट् इति चक्रमुद्रां ह्रीमिति परमीकरणमुद्रां च प्रदर्श्यं तज्जलं
तेजोमयं विचिन्तयेत् इति शङ्खस्थापनम् ॥ अत्र कादिमतानुसारेण
प्रधानकलशसामान्यविशेषपात्राणां स्थापनप्रकारमग्रे लेखिष्यामि
श्रीपात्रस्थापनमपि वक्ष्यामि । शक्त्यादि पात्राणां स्थापनं तु
सामान्यपात्रवदेव । विशेषस्तु विशेषार्घ्यबिन्दुं दत्त्वा तत्तन्मन्त्रेण
दशधा दशधा प्रजपेत् । शक्तिपात्रं बालया गुरुपात्रं
गुरुपादुकाविद्यया भोगपात्रं समष्टिविद्यया सर्वेषां
बलिपात्राणामभिमन्त्रणं तत्तद्देवतामन्त्रैः अङ्गपात्रं
षडङ्गयुवतीमन्त्रैर्वीरपात्रं कामराजेन गुह्यपात्रं वाग्भवेन
योगिनीपात्रं नवचक्रेश्वरीविद्याभिः
सकृत्सकृदात्मपात्रमात्माष्टाक्षरेण प्रोक्षणीपात्रं
मूलषडङ्गमन्त्रैर्दूतीपात्रचतुष्टयं बालयैवाभिमन्त्रयेत् । तदुक्तं
श्रीकुलार्णवे :

शक्तिपात्रं वरारोहे दशधा प्रजपेत् सुधीः ।
करेणाच्छाद्य दक्षेण कुमारीं त्रिपुरेश्वरीम् ॥ १ ॥

तथैव गुरुपात्रं च पादुकाविद्यया शिवे ।
समष्टिविद्यया देवि भोगपात्रेऽभिमन्त्रणम् ॥ २ ॥

मनुभिर्बलिदेवीनां तत्पात्राणां सुरेश्वरि ।
षडङ्गयुवतीमन्त्रैरङ्गपात्रं सकृत्सकृत् ॥ ३ ॥

वीरपात्रं महादेवि कामराजेन सुव्रते ।
गुह्यपात्रं तु कुण्डन्या बीजेन परमेश्वरि ॥ ४ ॥

नवचक्रेश्वरीभिश्च योगिनीपात्रमम्बिके ।
आत्माष्टाक्षरमन्त्रेण चात्मपात्रं महेश्वरि ॥ ५ ॥

विद्याषडङ्गमन्त्रैश्च प्रोक्षणीपात्रमद्रिजे ।
कूमार्यैव महेशानि दूतीपात्रचतुष्टयम् ॥ ६ ॥

इत्यादिप्रमाणवचनानि तत्तत्तन्त्रोक्तानि बोध्यानि ।
तथैवार्घ्यादिपञ्चपात्राणामपि तत्तद्देवतात्मकमन्त्रैरभिमन्त्रणं
बोध्यम् । यत्तु अर्घ्यं षडङ्गमूलाभ्यां संसाध्य विधिवद्यजेत् ।
इत्यादिक्रमस्तु सङ्क्षेपपूजायां ज्ञेयः । स क्रमस्तु प्राग्वन्मण्डलं
विलिख्य तत्राक्षतैः सम्पूज्य तत्र क्षालितमाधारं संस्थाप्य तं
वह्निरूपं विचिन्त्य तदुपरि अस्त्रक्षालितमर्घ्यादि संस्थाप्य पात्रं
सूर्यरूपं विचिन्त्य सम्पूज्य तस्मिन् मूलविद्यासहितविलोममातृकामुच्चरन्
जलेनापूर्यं तज्जलं चन्द्ररूपं विचिन्त्य सम्पूज्य तस्मिन् प्राग्वत्
पात्रपञ्चके पृथक्पृथक् शोधितं द्रव्यपञ्चकं क्रमेण निक्षिप्य
षडङ्गमन्त्रैर्दशधा अग्नीशासुरवायव्यमध्ये
दिक्ष्वित्यादिक्रमेणाक्षतैः सम्पूज्य श्रीविद्यायां तार्तीयकूटमन्यत्र
तत्तद्देवतामन्त्रै दशधा प्रजप्य तज्जलं तेजोरूपं विचिन्तयेत् । इति कादिमते
सङ्क्षेपतः पात्रासादनम् ॥

विद्यातार्तीयकूटेन मूलदेव्याः षडङ्गकैः ।
दशधा जपपूजाभ्यामर्घ्यं संसाध्यपूजयेत् ॥ १ ॥

इति कादिमतवचनात् । वस्तुतस्त्वयमापत्कल्पः मुख्यपूजायामापत्कल्पो
गर्हितस्तत्र मुख्यकल्प एव साधीयान् ॥
कुमारीपूजनेऽर्घ्यादिपञ्चपात्राणामभिमन्त्रणं बालयैव
मालापूजाविधौ तु प्रासादेन अक्षरौषधिपूजने पञ्चभूतमन्त्रैः
पञ्चायतनपूजायामपि तत्तत्पात्राणि तत्तन्मन्त्रैरेव
पञ्चाशन्मिथुनपूजायां च मातृकया धातुदैवतपूजायां भैरव्या
कालनित्यायजने तत्तद्दिननित्याविद्यया पुस्तकपूजायां तु प्रासादेनैव
अग्निपूजायां तन्मन्त्रेणैव दम्पतीसुवासिनीयोगिनीनां यजनादिषु
बालयैवाभिमन्त्रणं कुर्यात् । उद्धरणोपिधानानामपि पाशुपतास्त्रेण
क्षालनं तत्रैवाभिमन्त्रणम् । नैवेद्यपात्रादिभोग्यवस्तूनां
पात्राणां तत्तद्देवतामूलमन्त्रषडङ्गमन्त्रेषूक्तास्त्रमन्त्रेण
क्षालनं तेनैवाभिमन्त्रणं च । इदं सर्वं गुरुतः शास्त्रश्च ज्ञात्वा
पूजायां योजनीयमिति ।
नारवैश्वामित्राक्षरौषधिचूर्णघटितमन्त्रनक्षत्रवृक्षोत्थतादृशयोन्यु
त्थपात्राणां संस्कारः प्रागुक्तसङ्क्षेपकल्परीत्यैव ज्ञेयस्तेषु
संस्कारबाहुल्ये प्रयोजनाभावात् । सिद्धद्रव्याणां संस्कारः प्रतिदिनं
विधेयः । अन्यदिनसंस्कृतद्रव्यमन्यदिनपूजायां गर्हितं
स्वयम्भूकुसुमस्य तु संस्कृतस्य पुनरन्यदिने संस्कारो नास्ति ॥ तदुक्तं
कुलार्णवे :

स्वयम्भूकुसुमं सम्यक् शोधयित्वा तु देशिकः ।
निक्षिपेत्तेन पूजायां देव्याः सम्मीलनेन च ॥ १ ॥

प्। १७२) तेन प्रीता महादेवी सर्वसिद्धिं ददाति च ।
अन्यानि सिद्धद्रव्याणि प्रत्यहं शोधयेद्बुधः ॥ २ ॥

एकस्मिन् दिवसे शुद्धमन्यस्मिन् गर्हितं भवेत् ।

इत्येतेन सिद्धद्रव्याणि स्वयम्भूकुसुमरहितानि प्रत्यहं पूजायां
नवीनान्येव प्रशस्तानीत्यर्थः । अथ यन्त्रलेखनद्रव्यस्य शोधनम् : तत्र
कस्तूर्यगुरुकर्पूरकुण्डगोलोद्भवद्रव्यकेसरगुडचन्दनस्वयम्भू-
कुसुमात्मकाष्टद्रव्याण्येकस्मिन् पात्रे
संस्थाप्यामृतेश्वरीदीपिनीविद्याभ्यां सप्तवारमभिमन्त्रयेत् । तदुक्तं
भैरवीतन्त्रे :

कस्तूर्यगुरुकर्पूरगोलोत्थं जाङ्गलं गुडम् ।
मलयोत्थं महादेवि स्वयम्भूकुसुमं तथा ॥ १ ॥

सर्वमेकत्र संयोज्य दीपिन्यामृतविद्यया ।
पृथक्पृथक् सप्तवारं हस्तं दत्त्वाभिमन्त्रयेत् ॥ २ ॥

तेन शुद्धं भवेद्द्रव्यं तेन द्रव्येण वै लिखेत् ।

इति । अत्र गोलोत्थं स्वयम्भूकुसुमं च प्राग्वत्पात्रान्तरेण शोधितमेव
ग्राह्यम् ॥

अथ कालीमतरीत्या कलशादिस्थापनम् : तत्र स्ववामाग्रे
वक्ष्यमाणविशेषार्घ्यमण्डलवत् मण्डलं विरच्य तथैव सम्पूज्य तत्र
वक्ष्यमाणविधिना क्षालितमाधारं संस्थाप्य तथैव सम्पूज्य
सुवर्णादिरचितं कलशं धूपवासितं हुँ हुँ ब्रह्माण्डचषकाय स्वाहा
इति वामकरेण प्रक्षालितम् ऐं सन्दीपिनि ज्वालामालिनि ह्रीम् इति
सन्दीपिनीविद्यया योनिमुद्रया सन्दीपितं कवचेनावगुण्ठितं ॐ नमः ह्रीं
नमः क्षं नमः हं नमः सः नमः - इति विन्यस्य पञ्चमन्त्रान् ॐ ३
श्रीमहात्रिपुरसुन्दर्या महाकलशं स्थापयामि - इति तत्र कलशं
संस्थाप्य तत्र वक्ष्यमाणविशेषार्घ्यपात्रवत् सूर्यकलान्तं सम्पूज्य
तत्र वक्ष्यमाणविधिनैव कर्पूरादिसुवासिता पर्युषितपरिस्रुतापयः
समापूर्य तत्राब्जादिकं निक्षिप्य तन्मध्ये विशेषार्घ्ये वक्ष्यमाणं
मण्डलं विभाव्य वक्ष्यमाणविधिना सोमकलान्तं सम्पूज्य
तच्चतुरस्रं परितः ॐ ३ ह्सखप्रें पथिकदेवताभ्यो हुम्फट् स्वाहा नमः ।
ॐ ३ ह्सखफ्रें ग्रामचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ हसखफ्रें
क्रोधचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ हसखफ्रें दृष्टिचण्डालिनि
हुम्फट् स्वाहा नमः । ॐ ३ हसखफ्रें स्पर्शचण्डालिनि हुम्फट् स्वाहा
नमः । ॐ ३ ह्सखफ्रें सृष्टिचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३
ह्सखफ्रें घटचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ ह्सखफ्रें
तपनवेधचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ ह्सखफ्रें निन्दा (ष)
चण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ ह्सखफ्रें
सर्वजनदृष्टिस्पर्शचण्डालिनि हुम्फट् स्वाहा नमः । ॐ ३ ह्सखफ्रें
पशुपाशचण्डालिनि हुम्फट् स्वाहा नमः । इति स्वाग्रादिप्रादक्षिण्येन
पूजयेत् । इत्येवं दश दोषान्निरस्य ॐ ३ काङ्कीङ्कूङ्कैङ्कौङ्कः
विकारशोषिणि अस्य विकारान् हनहन स्वाहा - इति हेतुमध्ये सम्पूज्य

स्वादिष्ठयादिभिः पूर्वभृग्भिः पञ्चभिरायतः ।
विष्णुर्योनिं त्रयेणैव त्रिभिष्ट्वादित्रयेण च ॥ १ ॥

इमं म इति च द्वाभ्यां ता मन्देत्येकया तथा ।
श्रोणामेकेति चैकेन शुक्रशापं विमोचयेत् ॥ २ ॥

इति कुलार्णववचनादुक्तपञ्चदशमन्त्रैः सकृत्सकृदभिमन्त्रयेत् । मन्त्रास्तु
ऋग्वेदे यथा स्वादिष्ठया मदिष्ठया पवस्य सोम धारया । इन्द्राय पातवे
सुतः ॥ १ ॥

रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् । द्रुणा सधस्थमासदत् ॥ २ ॥

वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम् ॥ ३ ॥

अभ्यर्ष महानां देवानां वीतिमन्धसा । अभि वाजमुत श्रवः ॥ ४ ॥

त्वामच्छा चरामसि तदिदर्थं दिवेदिवे । इन्दो त्वे न आशसः ॥ ५ ॥ (९ । १ । १-५)

विष्णुर्योनिं कल्पयस्तु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ १ ॥

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥ २ ॥

हिरण्ययी अरणी यं निर्मथतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥ ३ ॥ (१० । १८४ । १-३)

त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
अग्ने दक्षैः पुनीहि नः ॥ १ ॥

पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वेदेवाः पुनीत मां जातवेदः पुनीहि मा ॥ २ ॥

प्रप्यापयस्व प्रस्यन्दस्व सोम विश्वेभिरंशुभिः ।
देवेभ्य उत्तमं हविः ॥ ३ ॥ (९ । ६७ । ६-२८)

प्। १७३) इमं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमं सचता परुष्ण्या ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ १ ॥ (१० । ७५ । ५)

सितासिते सरिते यत्र सङ्गते तराप्लुतासो विवमुत्पतन्ति ।
ये वै तन्वं विसृजन्ति धीरास्ते जनासोऽमृतत्वं भजन्ते ॥ २ ॥ (१० । ४० । १३)

ता मन्दसाना मनुषो दुरोण आधत्तं रयिं सहवीरं ववस्यवे ।
कृतं तीर्थं सुप्रयाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं
हतम् ॥ ३ ॥

श्रोणामेकमुदकं गामवाजति मासमेकः पिंशति सूनयाभृतम् ।
आ निम्रचः शकृदेको अपाभरत् किंस्वित् पुत्रेभ्यः पितरा उपावतुः ॥ ४ ॥ (१ ।१६ ।
१ । १०)

इत्यभिमन्त्र्य ॐ ३ ह्रांह्रींहूंवूं ह्रैं ह्रौं ह्रः अमृते अमृताद्भवे
अमृतेश्वरि अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावय स्रावय शुक्रशापात्
सुधां मोचय मोचय मोचिकायै नमः । ॐ ३ जूंसः स्वाहा इति
विद्ययाष्टवारमभिमन्त्र्य ॐ ३ सिद्धायै नमः ॐ ३ रक्तायै नमः ॐ ३
शुक्लायै नमः ॐ ३ उत्पलायै नमः इति चतुरस्रस्य चतुर्दिक्षु प्रादक्षिण्येन
स्वाग्रादितः सम्पूज्य मध्यत्रिकोणं विशेषार्घ्यं वक्ष्यमाणरूपं
विभाव्य ॐ ३ हसक्षमलवरयूँ आनन्द भैरवाय वौषट्
आनन्दभैरवश्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ३
सहक्षमलवरयीम् आनन्दभैरव्यै वषट् आनन्दभैरवीश्रीपादुकां
पूजयामि तर्पयामि नमः । एवं सर्वत्र । ॐ ३ सुरानन्दभैरवाय वौषट्० ॐ
३ सुरानन्दभैरव्यै वषट् सुरानन्दभैरवीश्री० । ॐ ३ अमृतानन्दभैरवाय०
ॐ ३ अमृतानन्दभैरव्यै० ॐ ३ तरुणानन्दभैरवाय० ॐ ३
तरुणानन्दभैरव्यै० ॐ ३ उन्मनानन्दभैरवाय० ॐ ३
उन्मनानन्दभैरव्यै० ॐ ३ ज्ञानानन्दभैरवाय० ॐ ३
ज्ञानानन्दभैरव्यै० ॐ ३ मुक्त्यानन्दभैरवाय० ॐ ३
मुक्त्यानन्दभैरव्यै० ॐ ३ परमानन्दभैरवाय० ॐ ३
परमानन्दभैरव्यै० ॐ ३ कालभैरवाय० ॐ ३ कालभैरव्यै० - इति
भैरवमिथुननवकं मध्ये दिक्षु च सम्पूज्य सन्तर्प्य मूलविद्यया
वीक्षणमुद्रया संवीक्ष्यास्त्रमन्त्रेण प्रोक्ष्य अस्त्रमन्त्रेण कुशैस्त्रि
सन्ताड्य कवचमन्त्रेणाभ्युक्ष्याघ्राय वामनासारन्ध्रेण प्रविश्य
ब्रह्मरन्ध्रं गत्वा तत्रस्थचिच्चन्द्रमण्डलमध्यगतपरमामृतवारिधौ
मिलित्वातन्मयेन राजदन्तविवरात् नेत्रमार्गेण विनिर्गतं तज्जलं विभाव्य
संरोधनमुद्रया संरुध्य कवचमन्त्रेणावगुण्थनमुद्रयावगुण्ठ्य
वमिति धेनुमुद्रयामृतीकृत्य परमीकरणमुद्रया परमीकृत्य तत्र देवीं
ध्यात्वा गन्धपुष्पादिभिः सम्पूज्य मूलविद्ययाष्टवारमभिमन्त्र्य ॐ ३
नमो भगवति माहेश्वरि वारुणीजलमूर्तये ऊर्ध्वबिन्दुग्राहिणि
महालक्ष्मीश्वरिपरमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षिणि
आगच्छागच्छ विश विश स्वभोगद्रव्यं गृह्ण गृह्ण स्वाहा इति
तत्कलशाद्बिन्दुं वामाङ्गुष्ठानामिकाभ्यां
धृतद्वितीयखण्डेनादायोर्द्ध्वमुत्क्षिपेत् । ततः कलशवदनं
पात्रान्तरेणाच्छाद्योद्धरणपात्रमादाय वामकरे निधाय ॐ ३ अमोघायै
नमः ॐ ३ सूक्ष्मायै० ॐ ३ आनन्दायै० ॐ ३ शान्त्यै नमः इति
शक्तिचतुष्टयं वामकरस्थापात्रे सम्पूज्य
कुम्भस्याच्छादनपात्रस्योपरि स्थापयेदिति कलशस्थापनं विधाय ततः
कलशदक्षिणभागे शोद्धोदकेन चतुरस्रवृत्तत्रिकोणात्मकं मण्डलं
चन्दनादिलिप्तभूमौ वहन्नासापुटाध्वना त्रितारमुच्चरन् निर्माय
प्रणवत्रितारादिनमोन्तया मूलविद्यया त्रिकोणमध्ह्यं सम्पूज्य
कूटत्रयेण त्रिषु कोणोषु स्वाग्रादिप्रादक्षिण्येन सम्पूज्य चतुरस्रे
अग्नीशनिर्-ऋतिवायव्यकोणेषु हृदयाद्यङ्गचतुष्टयं मध्ये नेत्रं
प्रागादिचतुर्दिक्षु अस्त्रमिति षडङ्गमन्त्रैः सम्पूज्य तत्र मूलेन
क्षालितमाधारं संस्थाप्य ॐ ऐं ह्रीं श्रीं प्रथमकूटमुच्चार्य रं
वह्निमण्डलाय धर्मप्रददशकलात्मने श्रीपरदेवतायाः
सामान्यार्घ्याधाराय नमः इति सम्पूज्य (तत्र वक्ष्यमाणप्रकारेण
वह्नेर्दश कलाः सम्पूज्य तत्रास्त्रेण क्षालितं पात्रं संस्थाप्य ॐ ऐं
ह्रीं श्रीं द्वितीयकूटमुच्चार्य अं सूर्यमण्डलाय
अर्थप्रदद्वादशकलात्मने श्रीपरदेवतायाः सामान्यार्घ्यपात्राय
नमः इति पात्रं सम्पूज्य) तत्र वक्ष्यमाणप्रकारेण सूर्यस्य द्वादश
कलाः सम्पूज्य गन्धादिसुवासितशुद्धतोयेन प्रणवत्रितारमूलविद्यान्ते
विलोममातृकामुच्चरंस्तत्पात्रमापूर्य ॐ ३ तृतीयकूटं ॐ
सोममण्डलाय

प्। १७४) कामप्रदषोडशकलात्मने श्रीपरदेवतायाः
सामान्यार्घ्यामृताय नमः इति जलं सम्पूज्य वक्ष्यमाणप्रकारेण
सोमस्य षोडश कलाः सम्पूज्य तत्र प्राग्वत् सवितृमण्डलात्तीर्थमावाह्य
कलशामृतबिन्दुं दत्त्वा तत्र मूलेन गन्धपुष्पादिकं निक्षिप्य प्राग्वत्
षडङ्गमन्त्रैः सम्पूज्य हसक्षमलवरयूं सहक्षमलवरयीम् इति
नवात्मकमिथूनमन्त्रेण त्रिरभिमन्त्र्य हसौं वरुणाय नमः स्हौं
वारुणीदेव्यै नमः इति वरुणमिथूनमन्त्रेण च त्रिरभिमन्त्र्य
मूलेनाष्टधाभिमन्त्र्य धेनुयोनिमुद्रे प्रदर्शयेदिति सामान्यार्घ्यं
विधाय तत्समीपे सामान्यार्घजलेन यक्षकर्दमादिगन्धद्रव्यमिश्रितेन
भूमिं विलिप्य तत्र वहच्छ्वासोर्ध्वपुटाभ्यां
चतुरस्रवृत्तषट्कोणत्रिकोणात्मकं मण्डलं विधाय तन्मण्डलं
शङ्खमुद्रामुद्रितवामकरेणावष्टभ्य तन्मध्यत्रिकोणमध्ये
सबिन्दुतुर्यस्वरूपां कामकलां विलिख्य ॐ ऐं ह्रींश्रीं
श्रीपरदेवताया विशेषार्घ्याधारमण्डलाय नमः इति मण्डलं
सम्पूज्य ४ नमोन्तमूलेन त्रिकोणमध्यं सम्पूज्य त्रिकोणाग्रकोणे ४
प्रथमङ्कूटं नमः वामे ४ द्वितीयं नमः दक्षिणे ४ तृतीयं नमः - इति
त्रिकोणं प्रादक्षिण्येन सम्पूज्य षट्कोणकोणेषु प्रादक्षिण्येन
स्वाग्रमारभ्य मूलकूटत्रयस्य द्विरावृत्त्या पूजयित्वा चतुरस्रे प्राग्वत्
षडङ्गानि सम्पूज्य तच्चतुरस्रे स्वाग्रादिचतुर्दिक्षु मध्ये च प्रादक्षिण्येन
४ ग्लूं गगनरत्नाय नमः ४ स्लूं स्वर्गरत्नाय नमः ४ म्लूं
मर्त्यरत्नाय नमः ४ प्लूं पातालरत्नाय नमः ४ न्लूं नागरत्नाय
नमः इति पञ्चरत्नानि सम्पूज्य पुनः षट्कोणेषु स्वाग्रादिप्रादक्षिण्येन
न्यासोक्तषडासनानि सम्पूज्य चतुरस्रवृत्तषट्कोणत्रिकोणेषु ४
कामरूपपीठाय नमः ४ जालन्धरपीठाय नमः ४ पूर्णगिरिपीठाय
नमः ४ उड्यानपीठाय नमः इति पीठचतुष्टयं सम्पूज्य
शाम्भवदीक्षावांश्चेच्चतुरस्रे स्वाग्रादिचतुर्दिक्षु मध्ये च
पञ्चप्रणव पुटितैः प्रणवपञ्चकैः पूजयेत् । तद्यथा ऐं ह्रींश्रीं
हसखफ्रें हसौः ऐं हसौः हसखफ्रें श्रींह्रीम् ऐं नमः । एवं ५
ह्रीं ५ नमः ५ श्रीं ५ नमः ५ हसखफ्रें ५ नमः ५ हसौः ५ नमः इति
सम्पूजयेत् । ततः मूलं० सर्वशक्तिमयीश्रीपरदेवतायाः
पीठचतुष्टयात्मकार्घ्यमण्डलाय नमः - इति समस्तं मण्डलं
सम्पूज्य तत्र मूलेन प्रक्षालितमाधारं गृहीत्वा ४ श्रीपरदेवताया
विशेषार्घ्याधारं स्थापयामिति मण्डलोपरि संस्थाप्य ४
प्रथमकूटमुच्चार्य मं वह्निमण्डलाय धर्मप्रददशकलात्मने
श्रीपरदेवताया विशेषार्घ्यपात्राधाराय नमः इत्याधारं सम्पूज्य
तदुपरि धूम्रार्चिरादिदशकलाः इहागच्छतागच्छत इति वह्नेर्दशकलाः
समावाह्य तासां प्राणप्रतिष्ठां कुर्यात् । तत्र
पूर्वोक्तप्राणप्रतिष्ठामन्त्रेण ममपदस्थाने धूम्रार्चिरादीनामिति
पदं निक्षिप्य प्राणप्रतिष्ठामन्त्रमाधारं स्पृशन् पठेदिति
प्राणप्रतिष्ठां विधाय ४ यं धूम्रार्चिषै नमः ४ रम् उष्मायै नमः ४
लं ज्वलिन्यै नमः ४ वं ज्वालिन्यै नमः ४ शं विस्फुलिङ्गिन्यै नमः ४ षं
सुश्रिये नमः ४ सं सुरूपायै नमः ४ हं कपिलायै नमः ४ लं
हव्यवाहायै नमः ४ क्षं कव्यवाहायै नमः इति ताः सम्पूज्य
स्वर्णादिरचितं पात्रमस्त्रेण प्रक्षाल्य ४ श्रीपरदेवताया
विशेषार्घ्यपात्रं संस्थापयामि नमः इति तत्र संस्थाप्य ४
द्वितीयकूटमुच्चार्य अम् अर्कमण्डलायार्थप्रदद्वादशकलात्मने
श्रीपरदेवताया विशेषार्घ्यपात्राय नमः - इति पात्रमध्ये सम्पूज्य
पूर्वोक्तमण्डलं विभाव्य पूर्ववत् पञ्चरत्नान्तं सम्पूज्य तथैव
पञ्चप्रणवैस्तमभ्यर्च्यं तत्र सूर्यस्य द्वादश कलाः प्राग्वत्
समावाह्य प्राग्वत् तन्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय
वृत्ताकारेण प्रादक्षिण्येन ताः पूजयेत् । तद्यथा - ४ कम्भं तपिन्यै नमः
४ खम्बं तापिन्यै नमः ४ गम्फं धूम्रायै नमः ४ घम्पं मरीच्यै
नमः ४ ङन्नं ज्वालिन्यै नमः ४ चन्धं रुच्यै नमः छन्दं
सुषुम्नायै नमः ४ जन्थं भोगदायै नमः ४ झन्तं विश्वायै नमः ४
ञण्ण बोधिन्यै नमः ४ टढं धारिण्यै नमः ४ ठण्डं क्षमायै
नमः : इति सम्पूज्य कलशस्थं जलमुद्धरणपात्रेणोद्धृत्य मूलविद्यान्ते
विलोममातृकामुच्चरन् तत्पात्रमापूर्य तत्राब्जादिकं निक्षिप्य ऐम्
इत्यङ्गुष्ठानामिकाभ्यां पुष्पेण तत्पात्रस्थं जलमालोड्य तत्पुष्पं
निरस्य क्लीमिति
चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाजटामांसीशिलारसात्मक-
गन्धाष्टकपङ्कलोलितं चन्दनादिपङ्कलोलितं वा पुष्पं निक्षिप्य सौः इति
गालिनीमुद्रया निरीक्ष्य ४ तृतीयकूटं ॐ सोममण्डलाय
कामप्रदाषोडशकलात्मने श्रीपरदेवताया विशेषार्घ्यामृताय नमः :
इति पात्रस्थजलमध्ये सम्पूज्य तत्र पूर्वोक्तं मण्डलं विभाव्य पूर्ववत्
पञ्चरत्नान्तं सम्पूज्य शाम्भवदीक्षायुक्तश्चेत्तथैव पञ्चप्रणवैः
पूजयेत् : ततस्तत्र सोमस्य षोडषकलाः प्राग्वत् समावाह्य प्राग्वत्

प्। १७५) तान्नामपुरःसरं तासां प्राणप्रतिष्ठां विधाय वृत्ताकारेण
स्वाग्रादिप्रादक्षिण्येन ताः पूजयेत् : तद्यथा : ४ अम् अमृतायै नमः ४ आं
मानदायै० ४ इं पूषायै ४ ईं तुष्ट्यै ४ उं पुष्ट्यै० ४ ऊं रत्यै० ४ ऋं
धृत्यै० ४ ॠं शशिन्यै० ४ ऌं चन्द्रिकायै० ४ ॡं कान्त्यै० ४ एं ज्योत्स्नायै०
४ ऐं श्रीयै० ४ ॐ प्रीत्यै० ४ औम् अङ्गदायै० ४ अं पूर्णायै० ४ अः
पूर्णामृतायै० : इति सम्पूज्य पूजितमण्डलमध्यत्रिकोणमकथादित्रिरेखं
विभाव्य तत्कोणत्रये मूलविद्यायाः कूटत्रयं मध्यस्थबिन्दौ
कामकलां तत्पार्श्वयोः सबिन्दू हक्षौ तत्पृष्ठे लकारं तत्पार्श्वयोः
हंसःवर्णौं विभाव्य पुष्पाक्षतगर्भितां योनिमुद्रां बद्ध्वा
गुरूपदिष्टप्रकारेण मूलाधारात् कुण्डलिनीमुत्थाप्य
षट्चक्रभेदक्रमेण सुषुम्नावर्त्मना
ब्रह्मरन्ध्रस्थचिच्चन्द्रमण्डलसम्भूतमशेषरससम्भृतमापूरितं
महापात्रं पीयुषरसमावह ऐम्प्लूङ्ग्लौञ्जूंसः अमृते अमृतोद्भवे
अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा : इति तस्मिन्नर्घ्यामृते
पुष्पाक्षतप्रक्षेपेण तदमृतधारां संयोज्य वमिति धेनुमुद्रां
प्रदर्श्य ॐ ह्रीं हंसः सोऽहं स्वाहा : इत्यात्माष्टाक्षरमन्त्रेण
त्रिरभिमन्त्र्य पुनरुच्चार्यात्मशक्तिश्रीपादुकां पूजयामीति जलमध्ये
सम्पूज्य पुनः प्रणवेन त्रिरभिमन्त्र्य हंसः अजपाशक्तिश्री० इति सम्पूज्य
मातृकया बिन्दुरहितया त्रिरभिमन्त्र्य पुनस्तामुच्चार्य मातृकासरस्वतीश्री०
इति जलमध्ये सम्पूज्य मूलतार्तीयकूटेन दशधाभिमन्त्र्य
पुनस्तार्तीयकूटमुच्चार्य त्रिपुरामृतेश्वरीश्री० इति जलमध्ये सम्पूज्य ४
हसक्षमलवरयूं सहक्षमलवरयीम्
इत्यानन्दभैरवमिथुनविद्याभ्यां त्रिरभिमन्त्र्य ४ हसक्षमलवरयूम्
आनन्दभैरवाय वौषट् आनन्दभैरवश्रीपादुकां पूजयामि तर्पयामि
नमः इति त्रिः सम्पूज्य सन्तर्प्य ४ सहक्षमलवरयीं सुधादेव्यै वषट्
सुधादेवीश्री० इति सम्पूज्य सन्तर्प्य हसौं वरुणाय नमः स्हौं
वारुणोदेव्यै नमः : इति वरुणमिथुनविद्याभ्यां त्रिरभिमन्त्र्य ४ पुनः
पृथगुच्चार्य वरुणश्रीपा० वारुणीदेवीश्रीपा० इति सम्पूज्य सन्तर्प्य ततो
बालया वक्ष्यमाणषोडशनित्यामन्त्रैश्च सकृत्सकृदभिमन्त्र्य
तद्दिननित्याविद्यया तत्तत्तिथिनित्याविद्यया च पृथक्पृथक् त्रिरभिमन्त्र्य
प्रासादपरापराप्रसादमन्त्राभ्यामूर्ध्वाम्नायदीक्षितश्चेत् हसौः
स्हौः इति मन्त्राभ्यां त्रिरभिमन्त्र्य
ततश्चरणादिदीक्षितश्चेच्चरणकुलयोगिनीविद्याभ्यां त्रिस्त्रीरभिमन्त्र्य ततः
सौः इत्यनुत्तरपराविद्यया दीक्षितश्चेत्तया त्रिरभिमन्त्र्य
पूर्वाभिषिक्तश्चेत्कामकलाविद्यया त्रिरभिमन्त्र्य
षडन्वयशाम्भवदीक्षायुक्तश्चेत् तद्विद्याभिस्त्रिरभिमन्त्र्य ततो
वक्ष्यमाणपाञ्चभौतिकमन्त्रैस्त्रिरभिमन्त्र्य सृष्ट्यादिदशकला
जलमध्ये समावाह्य प्राग्वत् तन्नामपुरःसरं तासां प्राणप्रतिष्ठां
विधाय वामदेव ऋषिः जगती छन्दः सूर्यो देवता ॐ हंसः
शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृपद्वरसद्दतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् । इत्यनयर्चा
सकृदभिमन्त्र्य पुनरुच्चार्यं ब्रह्मणे नमः इति जलमध्ये सम्पूज्य ४ कं
सृष्ट्यै नमः इत्यादिप्रागुक्तकलामातृकान्यासोक्तप्रकारेण कचवर्गकला
सम्पूज्य ततः टतवर्गोत्थजरादिदशकलाः समावाह्य प्राग्वत्तासां
प्राणप्रतिष्ठां विधाय ॐ प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः
कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा
इत्यनया ऋचा सकृदभिमन्त्र्य पुनरुच्चार्य विष्णवे नमः इति सम्पूज्य टं
जरायै नमः इत्यादि ताः सम्पूज्य पुनः पयवर्गोत्थकलास्तीक्ष्णाद्याः
समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय त्र्यम्बकमित्यस्य
वसिष्ठ ऋषिः अनुष्टुप्च्छन्दः त्र्यम्बकरुद्रो देवता ॐ त्र्यम्बकं यजामहे
सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
इत्यभिमन्त्र्य पुनरुच्चार्य रुद्राय नमः इति सम्पूज्य पं तीक्ष्णायै नमः
इत्यादिभिः सम्पूज्य पुनः सकारादिक्षकारान्तपञ्चवर्णोस्थाः
पीतादिपञ्चकलाः समावाह्य प्राग्वत् तासां प्राणप्रतिष्ठां विधाय
गायत्र्याभिमन्त्र्य पुनरुच्चार्य ईश्वराय नमः इति सम्पूज्य षं पातायै
नमः इत्यादि ताः सम्पूज्य ततः स्वरोत्था निवृत्त्यादिकलाः समावाह्य
प्राग्वत् तासां प्राणप्रतिष्ठां विधाय विष्णुर्योनिं कल्पयतु इति मन्त्रस्य
त्वष्टा गर्भकर्ता ऋषिरनुष्टुप्च्छन्दः श्रीविष्णुर्देवता सदा शिवप्रीत्यर्थे
विनियोगः । विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु
प्रजापतिर्धाता गर्भं दधातु ते ॥ इत्यभिमन्त्र्य पुनरुच्चार्य सदाशिवाय
नमः इति जलमध्ये सम्पूज्य अं निवृत्त्यै नमः इत्यादिना सम्पूज्य
मातृकया द्विरभिमन्त्र्य पुनरुच्चार्य मातृकासरस्वतीश्री० इति सम्पूज्य ४
ऐम् अखण्डैकरसानन्दकरे परसुधामयि । स्वच्छन्दस्फुरणामत्र
विधेह्यकुलरूपिणि ॥

प्। १७६) इत्यनेन त्रिरभिमन्त्र्य । क्लीम् अकुलस्थामृताकारे सिद्धिज्ञानकरे परे
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ इति च त्रिरभिमन्त्र्य सौः
त्वद्रूपेणैकरस्यत्वं दत्त्वा ह्ये तत्स्वरूपिणि । भूत्वा परा मृताकारे मयि
चित्स्फुरणं कुरु ॥ इति च त्रिरभिमन्त्र्य । ऐम्प्लूंह्रौं जूंसः अमृते
अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा
इत्यमृतेश्वरीविद्यया चतुर्वारमभिमन्त्र्य पुनस्तामुच्चार्य अमृतेश्वरीश्री०
इति सकृत् सम्पूज्य ततः ऐं वदवद वाग्वादिनि ऐङ्क्लीं क्लीन्नेक्लेदिनि क्लेदय
क्लेदय महाक्षोभं कुरु कुरु क्लींसौः मोक्षं कुरु कुरु सौः ह्सौः इति
दीपिनीविद्यया पञ्चवारमभिमन्त्र्य ततस्तत्र मूलविद्यामष्टधा जपित्वा
तन्मध्ये चतुरस्रं पश्चिमद्वारं विचिन्त्य तद्द्वारपार्श्वयोः
कुलवटुकनाथतद्वल्लभाम्बाश्री० इति दक्षिणवामयोः सम्पूज्य तदन्तः
प्राग्वत् षडासनानि सम्पूज्य तन्मध्यत्रिकोणमध्यस्थबिन्दुमध्ये
कामकलायां वक्ष्यमाणप्रकारेण देवीमावाह्य ध्यात्वा
षडङ्गन्यासयोगेन सकलीकृत्यगन्धादिभिः सम्पूज्य वक्ष्यमाणविधिना
देव्यङ्गे लयाङ्गं सम्पूज्य तिथिनित्यां षोडशनित्या गुरुपङ्क्तित्रयं
षडङ्गयुवतीश्च सम्पूज्य वक्ष्यमाणसमष्टियोगिनीमन्त्रेण त्रिः सकृद्वा
पुष्पाञ्जलिं दत्वा धूपदीपौ निवेद्य योनिधेनुमहायोनित्रिशिखा
पद्मसङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाखेचरीबीजयोनि-
पाशाङ्कुशधनुर्बाणाख्या अष्टादश मुद्राः प्रदर्श्य
नमस्कारमुद्रया प्रणमेत् ।
अत्रैतावत्कर्तुमशक्तश्चेदभिमन्त्रणपूजनयोरन्यतरत् कुर्यात् ।
अत्राप्यशक्तश्चेदात्माष्टाक्षरपूजान्तं कृत्वानन्दभैरवमिथूनं
सम्पूज्य सन्तर्प्यं सृष्ट्यादिकलापूजामारभ्य शेषं प्राग्वत् समापयेत्
इति विशेषार्घ्यस्थापनविधिः ॥ ततस्तत्परतस्तेनैव विधिना श्रीपात्राख्यं
पात्रान्तरं स्थापयेत् । तेन मूलदेव्यतिरिक्तावरणदेवतास्तर्पयेत् ।
पूजासमर्पणादिकं मूलदेव्यास्तर्पणं च विशेषार्घ्येणैव ।
तत्रानङ्गकुसुमादिपर्यन्तमावरणत्रयपूजासमर्पणमर्घ्यदानं च
सामान्यर्घ्यजलेनैव कुर्यात् - इति श्रीपात्रस्थापनविधिः ॥

ततस्तदनुक्रमेणैव तदधः पङ्क्त्याकारेण
पाद्याचमनीयमधुपर्कार्थं पात्रद्वयं शुद्धजलेनापूर्यं तृतीयं
मधुपर्कद्रव्येणापूर्वं तेषु विशेषार्घ्यजलं किञ्चित्किञ्चिद् दत्त्वा
मूलविद्यया पृथक्पृथगष्टवारमभिमन्त्रयेत् । मधुपर्के तु
कांस्यपात्रं प्रशस्तं ताम्रपात्रवर्जमन्यद्वा पात्रान्तरेणाछादितं
कुर्यात् । गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वाः सामान्यार्घ्ये
निःक्षिपेत् । पाद्यपात्रे
श्यामाकतण्डुलदूर्वाकमलापराजितापुष्पोशीररोचनाख्यद्रव्याष्टकं
निःक्षिपेत् । आचमनीयपात्रे जातीफललवङ्गकक्कोलचूर्णानि निःक्षिपेत् ।
उक्तद्रव्याभावे तत्तद्वस्तुभावनया तण्डुलान् निःक्षिपेत् । मधुपर्कपात्रे
दधिमधुघृतानि निःक्षिप्य विशेषार्घ्यबिन्दुना संस्कुर्यात् ।
दध्याद्यलाभे जलेनैव तद्भावनया पूरयेत् । ततः स्वदक्षिणाग्रे
पाद्यादिपात्र विधानेनैव पुनराचमनीयपात्रमपि स्थापयेत् ।
अत्राप्यशक्तौ पाद्यादित्रयमेकस्मिन्नेव पात्रे दद्यात् । ततः
स्वगुरुमुखादवगतविनियोगविधौ पात्रचतुष्टयं सामान्यार्घ्यविधिना
प्रोक्षणीपात्रात् परतः स्थापयेत् । तेषां नामानि तु गुरुपात्रं शक्तिपात्रं
वटुकपात्रम् आत्मपात्रं चेति । गुरुपादुकाविद्यया गुरुपात्रं बालया
शक्तिपात्रं वटुकपात्रं तन्मन्त्रेणात्मपात्रमात्माष्टाक्षरमन्त्रेण चेति
तत्तन्मन्त्रेण तत्तत्पात्रमष्टधाभिमन्त्रयेत् । ततः प्रोक्षणीपात्रोदकेन
पात्रान्तरोद्धृतेन ॐ ऐं ह्रीं श्रीम् ऐं प्रथमकूटमूच्चार्य
आत्मतत्त्वात्मने नमः ॥ ४ क्लीं द्वितीयं विद्यातत्त्वात्मने नमः । ४ सौः
तृतीयं शिवतत्त्वात्मने नमः । ४ ऐङ्क्लींसौः समस्तमूलमुच्चार्यं
सर्वतत्त्वात्मने नमः इति स्वात्मानं प्रोक्ष्य पुनर्मूलेन यागभूमिं
यागोपकरणानि च श्रीचक्रं च प्रोक्ष्य सर्ववस्तुषु धेनुमुद्रां
प्रदर्शयेत् : इत्यर्घ्यादिपात्रस्थापनविधिः ॥ अत्र श्रीपात्रस्थापनाशक्तौ
विशेषार्घ्येणैव प्रोक्तपूजादिकं कुर्यात् ॥

अथ सङ्क्षेपतः पात्रासादनप्रयोगः : तत्र स्ववामभागे चन्दनादिना
त्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य तत्र
पीठचतुष्टयात्मकं सम्पूज्य ४ मं धर्मप्रददशकलात्मने
वह्निमण्डलाय श्रीपरदेवतायाः कलशाधाराय नमः इति सम्पूज्य
तदुपरि प्रागादिप्रादक्षिण्येन प्राग्वत् धूम्रार्चिरादिदशकलाः सम्पूज्य
तत्रास्त्रक्षालितं सुधूपितं कलशं संस्थाप्य ४ अम्
अर्थप्रदद्वादशकलात्मने सूर्यमण्डलाय श्रीपरदेवतायाः
कलशपात्राय नमः : इति सम्पूज्य कलशोपरि प्रागादिप्रादक्षिण्येन
तपिन्यादिद्वादशकलाः सम्पूज्य तस्मिन्नधिकारिभेदेन विहितं
क्षीराज्यमध्वासवान्यतमं साङ्गं पृथक्पात्रेषु प्राक्संस्कृत द्रव्यं
मूलविद्यासहितविलोमानुलोममातृकामूच्चरन् समापूर्यं तत्र
षडङ्गयुवतो गुरुपङ्क्तित्रयषोडशनित्या तद्दिननित्या रत्नेश्वरीः सम्पूज्य
४ ॐ कामप्रदषोडशकलात्मने सोममण्डलाय श्रीपरदेवतायाः
कलशामृताय नमः : इति च सम्पूज्य
प्रागादिप्रादक्षिण्येनामृतादिषोडशकलाः सम्पूज्य तदमृतं
परब्रह्ममयं सञ्चिन्त्योद्धरणीसहितपिधानपात्रेणाच्छाद्य
सूक्ष्मवस्त्रेण समाच्छादयेदिति कलशस्थापनविधिः ॥ अन्यानि च पात्राणि
एतदुक्तरीत्या तत्तन्मन्त्रैः स्थापयेदिति सङ्क्षेपः ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य-
श्रीभगवच्छङ्कराचार्यशिष्य श्रीविष्णुशर्माचार्यशिष्य-
श्रीप्रगल्भाचार्यशिष्य श्रीविद्यारण्ययतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे
नवमः श्वासः ॥ ९ ॥