०५

॥ पञ्चमः श्वासः ॥

अथ कालीमते मन्त्रोद्धारः । तत्रादौ भूतलिपिः । तत्र सिद्धसारस्वततन्त्रे-

अथ भूतलिपिं वक्ष्ये सुगोप्यामतिदुर्लभाम् ।
सारस्वते महातन्त्रे गोपितां चातिसिद्धिदाम् ॥ ५-१ ॥

विष्णोः सकाशाद्यां लब्ध्वा मुनयो वाञ्छितं फलम् ।
लेभिरे सकलं देवि किं बहूक्तेन सर्वदा ॥ ५-२ ॥

ह्रस्वानां पञ्चकं वर्ग आदितः परिकीर्तितः ।
द्वितीयः कथितो देवि शिवाद्याश्चतुरक्षराः ॥ ५-३ ॥

खं वायुवह्न्यम्बुधरास्तृतीयः सम्प्रकीर्तितः ।
वर्गान्त्यादिद्वितीयोपान्त्यतृतीयैः क्रमादमी ॥ ५-४ ॥

पञ्चवर्गा वान्तशान्तभृगुभिर्नवमो मतः ।
नववर्गात्मको मन्त्रो द्विचत्वारिंशदक्षरः ॥ ५-५ ॥

वर्गाणामादिमो वर्गः श्रीकण्ठोर्ध्वोष्ठखान्विताः ।
वर्गान्त्या वान्तसंयुक्ताः क्रमेण कथिता अमी ॥ ५-६ ॥

खं वायुवह्न्यम्बुधरा वर्गवर्णा मताः क्रमात् ।
वर्गो द्वितीयो भूहीनो वारिभूवियुतोऽन्तिमः ॥ ५-७ ॥

नवानामपि वर्गाणां देवताः कथिताः क्रमात् ।
विरिञ्चिविष्णुरुद्राह्वा आश्विनेयौ प्रजापतिः ॥ ५-८ ॥

लोकपालाः सक्रियादिशक्तयः परिकीर्तिताः ।
ऋषिस्तु दक्षिणामूर्तिर्गायत्रं छन्द ईरितम् ॥ ५-९ ॥

सरस्वती देवतास्य गदिता विश्ववन्दिता ।
व्योमादिवर्गषट्कैः स्याज्जातियुक्तैः षडङ्ग (कैः?कम्) ॥ ५-१० ॥

आद्यवर्गद्वयस्याथ नवार्णन्यासमुच्यते ।
आधाराधिष्ठाननाभिहृद्गलेषु सबैन्दवे ॥ ५-११ ॥

नादे शक्त्यां शिवे सम्यक्स्वरान् क्रमवशात् सुधीः ।
तृतीयवर्गहाद्यर्णान् न्यसेदूर्ध्वादि पञ्चसु ॥ ५-१२ ॥

मुखेषु पञ्चवर्गाणां स्थानेष्वेषु प्रविन्यसेत् ।
दोःपदग्रेषु मूलेषु चापमूलाग्रकेषु च ॥ ५-१३ ॥

मध्यदेशेषु जठरे पार्श्वद्वयसनाभिषु ।
पृष्ठेऽवशिष्टवर्गार्णान् गुह्यहृद्भ्रूषु विन्यसेत् ॥ ५-१४ ॥

सृष्टिन्यासे विसर्गान्तान् बिन्दुसर्गान्तिमान् स्थितौ ।
आदिद्वितीयकोपान्त्यप्रान्तमध्यक्रमान्न्यसेत् ॥ ५-१५ ॥

सृष्टिषु क्रमगान् न्यस्येत् संहृतौ बिन्दुसंयुतान् ।
ध्यानमस्य प्रवक्ष्यामि देवेशि मुनिपूजितम् ॥ ५-१६ ॥

शाश्वतं यं भूतमयं प्रवदन्ति मनीषिणः ।
चिद्बीजं विन्दुनादाह्वशिफं विश्वम्भराक्षरैः ॥ ५-१७ ॥

शाखासमूहैः सकलादिशासु सुविजृम्भितम् ।
जलवर्णदलव्रातेनाच्छादितजगत्त्रयम् ॥ ५-१८ ॥

कृशानुवर्णाङ्कुरैश्च सन्दीप्तं सुरभूरुहम् ।
रत्नाङ्कुरैरिव शुभं पवनाक्षरशोभितैः ॥ ५-१९ ॥

कुसुमैर्दीपयन्तं च स्वकीयतनुसच्छ्रियम् ।
वियदक्षरसद्रूपफलैरानम्रमम्बिके ॥ ५-२० ॥

सर्वभूताश्रयं नित्यं परामृतमधुद्रवैः ।
सिञ्चन्तं परमेशानि देवीं वागीश्वरीं पराम् ॥ ५-२१ ॥

निगमागमसङ्कॢप्तसमुन्नतिसुशोभितम् ।
शिवशक्त्यात्मकं छायासमाश्रितजगत्त्रयम् ॥ ५-२२ ॥

यमाश्रित्य मुनीन्द्रौघा वाञ्छितार्थान् प्रपेदिरे ।
एवम्भूतार्णवृक्षस्य मूले त्वक्षरपङ्कजे ॥ ५-२३ ॥

वागीश्वरीं स्मरेद् देवीं सकलेष्टफलप्रदाम् ।

कुन्दाभासामुरुकुचघटां शोभिचन्द्रार्धमौलिं
हस्ताम्भोजैर्वरजपवटीपुस्तकं पुंस्कपालम् ।
बिभ्राणां तां मधुमदलसद्विह्वलां युग्मनेत्रां
देवीं ध्यायेल्लिपिमयततुं यौवनप्राप्तशोभाम् ॥ ५-२४ ॥

प्। ७१)

इति ध्यात्वा महेशानि हृदि देवीमनन्यधीः ।
मातृकोक्ते यजेत्पीठे प्रत्यहं साधकः शिवे ॥ ५-२५ ॥

वर्णपद्मे महेशानि मूर्तिं मूलेन कल्पयेत् ।
तस्यामावाह्य वागीशीं यजेदावरणैः सह ॥ ५-२६ ॥

पुराङ्गानि यजेन्मन्त्री केसरेषु पुरोक्तवत् ।
अम्बिकाद्या यजेत् पश्चाद्वक्ष्यमाणाश्चतुर्दले ॥ ५-२७ ॥

अम्बिका वाग्भवा दुर्गा श्रीश्च मातॄस्ततो यजेत् ।
अष्टपत्रे महेशानि तद्वहिः षोडशच्छदे ॥ ५-२८ ॥

कराल्याद्या यजेच्छक्तीर्वक्ष्यमाणास्तु षोडश ।
कराली विकराली च तृतीयोमा सरस्वती ॥ ५-२९ ॥

श्रीदुर्गेशा च लक्ष्मीश्च श्रुतिः स्मृतिरितीरिताः ।
धृतिः च श्रद्धा च मेधा च मतिः कान्तिरुदीरिताः ॥ ५-३० ॥

आर्या च षोडशी प्रोक्ताः खड्गखेटकरा इमाः ।
श्यामाश्च स्मेरवदनाः सर्वाभरणभूषिताः ॥ ५-३१ ॥

विद्याहीपुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ।
रुद्रवीर्या प्रभा नन्दा स्यात्पूषा ऋद्धिदा शुभा ॥ ५-३२ ॥

कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी ।
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ॥ ५-३३ ॥

निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ।
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ॥ ५-३४ ॥

नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ।
अम्बिका हारिणी चैव द्वात्रिंशच्छक्तयः सिताः ॥ ५-३५ ॥

पिशाचास्याश्चक्रहस्ताः सम्पूज्याश्चारुभूषणाः ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ ५-३६ ॥

श्रद्धा स्वाहा स्वधा भिक्षा माया सञ्ज्ञा वसुन्धरा ।
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ॥ ५-३७ ॥

सुरूपा बहुरूपा च स्कन्दमाता च तत्प्रिया ।
विमला विपुला पश्चादरुणी पुनरारुणी ॥ ५-३८ ॥

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।
सन्ध्या मतिः सति हंसी मर्दिका परदेवता ॥ ५-३९ ॥

देवमाता भगवती देवकी कमलासना ।
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ॥ ५-४० ॥

लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ।
रथरेखाह्वया पश्चाच्छशिरेखाह्वया परा ॥ ५-४१ ॥

गगनरेखा च पवनवेगा च तदनन्तरम् ।
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ॥ ५-४२ ॥

अनङ्गानङ्गमदना तथैवानङ्गमेखला ।
अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥ ५-४३ ॥

अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता ।
वरदाख्या च वागीशा चतुष्षष्टिः समीरिताः ॥ ५-४४ ॥

चापबणधराः सर्वा ज्वालाजिह्वाः समीरिताः ।
दंष्ट्रिण्यश्चोर्ध्वकेश्यश्च युद्धोपक्रान्तमानसाः ॥ ५-४५ ॥

सर्वाभरणसन्दीप्ताः पूजनीयाः प्रयत्नतः ।
ततोऽर्चयेल्लोकपालांस्तदस्त्राणि च तद्बहिः ॥ ५-४६ ॥

एवं भूतलिपिं सम्यग् जगद्धात्रीं यजेत्सुधीः ।
वागैश्वर्यसमृद्धः सन् वन्द्यते स सुरैरपि ॥ ५-४७ ॥

साधकः कृतदीक्षः सन् न्यसेल्लक्षं जपेत्सदा ।
तद्दशांशं तिलैः शुद्धैस्त्रिमध्वक्तैर्हुनेत् ततः ॥ ५-४८ ॥

तर्पणादिद्विजार्चान्तं प्राग्वत् कृत्वा तु मन्त्रवित् ।
काम्यकर्म ततः कुर्यात् स्वगुरूक्तविधानतः ॥ ५-४९ ॥

जुहुयादयुतं पद्मैर्वशगाः स्युर्नराधिपाः ।
महालक्ष्मीरुत्पलानां होमात् सञ्जायतेऽचिरात् ॥ ५-५० ॥

ब्रह्मवृक्षप्रसूनैश्च जुहुयात् साधकः प्रिये ।
वत्सरेणैव महतां कवीनामग्रणीर्भवेत् ॥ ५-५१ ॥

राजिकालवणैर्हुत्वा वशयेद्योषितः सुधीः ।
अनया भूतलिप्या च सम्पुटीकृत्य यं मनुम् ॥ ५-५२ ॥

शतं क्रमाद्विलोमाच्च भजते तस्य सिद्ध्यति ।
सुप्ताशीर्विषरम्यां तां सम्यक् कुण्डलिनीं पराम् ॥ ५-५३ ॥

सङ्गमय्य च मध्येन वर्त्मना स्थानमुत्तमम् ।
परामृतैः प्लावयेत्तां मूर्ध्नि मूलावधि क्रमात् ॥ ५-५४ ॥

यौगिनां खल्वयं योगः सम्मतः सर्वसिद्धिदः ।
एतन्न्यस्तशरीरस्तु तेजसा भास्करोपमः ॥ ५-५५ ॥

ज्ञात्वा यन्त्रविशेषांश्च काम्यकर्माणि साधयेत् ।

बिन्द्वाढ्यं व्योम भूयस्तदपि च शिवयुग् ज्ञानिने स्याद् हृदन्तो
मन्त्रोऽयं कर्णिकायां प्रणिगदित इतो व्योमवर्णान् दलेषु ।
साध्याख्याबन्धुवर्णांल्लिखतु खपुटितान् शिष्टमन्त्येऽथ पत्रे
वृत्तावीतं खयन्त्रं मलयजजतुभिर्निर्मितं क्ष्वेडहर्तृ ॥ ५-५६ ॥

प्। ७२)

वायू नेत्रैयुतौ स्तो विरतिनतियुतो ङेन्तकोपेशशब्दो
मध्ये वायव्यवर्णान् पवनसुपुटितान् पत्रमध्येऽन्त्यमन्त्ये ।
स्वात्यां मन्दोदये तत्पवनगृहगतं तालपत्रस्थयन्त्रं
शत्रोरुच्चाटकृत् स्याद्रिपुमृतिफलदं द्वारि तस्यैव खातम् ॥ ५-५७ ॥

वह्नी क्रमाच्छ्रुतिरदेन्दुयुजौ स्वकान्तौ रौरोः सफलणतिरयं मनुरब्जमध्ये ।
पत्रेषु वह्निपुटितान्यनलाक्षराणि प्रान्तेऽन्तिमं च सह साध्यसुपोषकार्णैः ।
अग्निस्थितं भुजदले शुभवासरर्क्षे लाक्षासुकुङ्कुमकृतं प्रकरोति रक्षाम् ॥ ५-५८

नासामनुस्वरसबिन्दुयुताबुयुङ्ग्मं ङेऽन्तो विधुर्विधुभुवे नतिरेष मध्ये ।
अब्वर्णकान् (सु?व) पुटितान् शिशुबन्धुवर्णैः पत्रेषु
चाप्यपुरयुग्वरुणाह्वयन्त्रम् ॥ ५-५९ ॥

गण्डानन्ते सबिन्दू विलिखतु च जगौ गण्डयोर्मध्यसंस्थौ
ल्वन्ते के हृत्तु मध्ये तदनु कुपुटितान् भूमिवर्णान् धरान्तान् ।
पत्रान्तः सेवकार्णैर्धरणिगृहयुतं चेन्द्रसौम्योदये तद्
भूर्जस्थं भूमियन्त्रं सुमृदि विरचितं गैरिकैः स्तम्भकृत् स्यात् ॥ ५-५१ ॥

इति भूतलिपिप्रघट्टकम् । अथ कालीमते श्रीविद्याप्रकरणम्-

पञ्चसिंहासनोऽन्यत्र ततो वै पञ्चपञ्चिका ।
षडायतनविद्याश्च पञ्चाम्नायास्तथैव च ॥ ५-१ ॥

चतुःसमयविद्याश्च श्रीविद्यावृन्दमेव च ।
ज्ञातव्यास्तु विशेषेण देवताभावसिद्धये ॥ ५-२ ॥

सम्पत्प्रदाभैरवी च ततश्चैतन्यभैरवी ।
चैतन्यभैरवी चान्या द्वितीया सर्वसिद्धिदा ॥ ५-३ ॥

कामेश्वरीभैरवी च बालाद्याः पञ्च देवताः ।
पूर्वसिंहासनस्थाश्च स्मर्तव्याः सर्वसिद्धये ॥ ५-४ ॥

न्यासे होमे च पूजायां सर्वत्रैव तु साधकः ।
अघोरभैरवी चैव महाभैरव्यतः परम् ॥ ५-५ ॥

ललिताभैरवी चैव कामेशीभैरवी तथा ।
रक्तनेत्राभैरवी च दक्षसिंहासने स्थिताः ॥ ५-६ ॥

षट्कूटाभैरवी चैव ततो वै नित्यभैरवी ।
मृतसञ्जीवनी चैव मृत्युञ्जयपरा ततः ॥ ५-७ ॥

वज्रप्रस्तारिणी चैव प्रत्यक्सिंहासने स्थिताः ।
भुवनेशीभैरवी च कमलेशी च भैरवी ॥ ५-८ ॥

कौलेशी भैरवी चैव ततो डामरभैरवी ।
कामिनीभैरवी चैव सौम्यसिंहासने स्थिताः ॥ ५-९ ॥

प्रथमा सुन्दरी चैव द्वितीया सुन्दरी तथा ।
तृतीया सुन्दरी चैव चतुर्थी सुन्दरी तथा ॥ ५-१० ॥

पञ्चमी सुन्दरी चैव ऊर्ध्वसिंहासनस्थिताः ।
श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ॥ ५-११ ॥

त्रिशक्तिः सर्वसाम्राज्या लक्ष्म्यः पञ्च प्रकीर्तिताः ।
श्रीविद्या च परञ्ज्योतिः परनिष्कलशाम्भवी ॥ ५-१२ ॥

अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ।
श्रीविद्या त्वरिता चैव पारिजातेश्वरी ततः ॥ ५-१३ ॥

त्रिकूटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः ।
श्रीविद्यामृतपीठेशी सुधासूरमृतेश्वरी ॥ ५-१४ ॥

अन्नपूर्णेति विख्याताः पञ्च कामदुघाः क्रमात् ।
श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ॥ ५-१५ ॥

वाराहीति च सम्प्रोक्ताः पञ्चरत्नमिति ध्रुवम् ।

इति । अथ मन्त्रोद्धारः तत्रादौ गुरुपादुका-

शिवचन्द्रानलार्घीशबिन्दुभिः प्रथमाक्षरम् ।
आकाशचन्द्रसंवर्तमहाकालक्षमाम्बुभिः ॥ ५-१ ॥

वाय्वग्न्यनन्तबिन्द्वातैर्द्वितीयं बीजमुद्धृतम् ।
तदेव वामकर्णेन तृतीयं बीजमुद्धृतम् ॥ ५-२ ॥

तदेव तक्षनेत्रेण चतुर्थं बीजमीरितम् ।
श्रीपरेति तथा पावकेति सर्वपदं ततः ॥ ५-३ ॥

आराध्यसर्वगुरु च नाथसर्वगुरुगुरु ।
श्रीगुर्वथ तथा नाथ वह्निर्बीजं तृतीयकम् ॥ ५-४ ॥

आद्यबीजचतुष्कं च श्रीशम्भुगुरुशब्दतः ।
प्रथमं तु द्विधा चोक्त्वा द्वितीयादित्रयं भवेत् ॥ ५-५ ॥

प्। ७३)

प्रथमं च तृतीयं च प्रोक्ता च स्थूलपादुका ।
तारपञ्चकमादौ तु देयं सर्वार्थसाधिका ॥ ५-६ ॥

खेचरीबीजमुक्तेयं प्रोक्ता स्यान्मध्यपादुका ।
तारत्रययुतेयं तु सम्प्रोक्ता लघुपादुका ॥ ५-७ ॥

तारत्रयं श्री-अमुकानन्दनाथपदं ततः ।
श्रीपादुकां पूजयामीत्युक्ता लघुतरापरा ॥ ५-८ ॥

ॐ ऐं ह्रीं श्रीं हसखफ्रें हसौः हस्रूँ हसक्षमलवयराँ
हसक्षमलवयरूँ हसक्षमलवय [रीं ? रिं] श्रीपरपावक
सर्वाराध्यसर्वगुरुनाथ सर्वगुरुगुरुश्रीगुरुनाथ रंहसक्षमलवयरूँ । हस्रूँ
हसक्षमलवयरां हसक्षमलवयरूँ हसक्षमलवय [रीं ? रिं] श्रीशम्भुगुरु
हस्रूं हस्रूं हसक्षमलवयरां हसक्षमलवयरूँ हसक्षमलवय [रीं ?
रिं] हस्रूँ हसक्षमलवयरूँ इति स्थूलपादुका ॥

ॐ ऐं ह्रीं श्रीं हसौँ स्हक्षमलवयरूँ स्हक्षमलवयरूँ हस्रौः
सहक्षमलवयरौः हस्रौः श्रीपरपावक सर्वाराध्यसर्वगुरुनाथ
सर्वगुरुस्वयङ्गुरु श्रीगुरुनाथ रँ हसक्षमलवयरूँ हसौँ सहक्षमलवयरीं
सहक्षमलवयरूँ सहलक्षमवयराँ श्रीशम्भुगुरुहस्रौं सहक्षमलवयरूँ
श्री-अमुकानन्दनाथामुकशक्तिदेव्यम्बाश्रीपादुकां पूजयामि इति
मध्यमपादुका ॥

ॐ ऐं ह्रीं श्रीं हसखफ्रें हसौः हसक्षमलवरयूँ श्री-अमुकानन्दनाथ ॐ
ऐं ह्रीं श्रीं सहखफ्रें स्हौः सहक्षमलवरयीम्
अमुकदेव्यम्बाश्रीपादुकां पूजयामि इति लघुपादुका ॥ ॐ ऐं ह्रीं श्रीम्
अमुकानन्दनाथामुकशक्त्यम्बाश्रीपादुकां पूजयामि इति लघुतरपादुका ॥ ॐ
ऐं ह्रीं श्रीं श्री-अमुकानन्दनाथश्रीपादुकां पूजयामि - इति
सामान्यपादुका ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद्गुरुपादुकाम् ।
स्वस्थचित्तः स्थिरवपुर्योगमार्गविचक्षणः ॥ ५-१ ॥

श्रीगुरोः पादुकामन्त्रे ऋषिर्ब्रह्मा समीरितः ।
गायत्रं छन्द आख्यातं निचृदाद्यं महेश्वरि ॥ ५-२ ॥

बीजशक्ती तथाद्यन्तौ मध्यमं कीलकं भवेत् ।
मोक्षार्थे विनियोगः स्यादृषिन्यास उदीरितः ॥ ५-३ ॥

प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभयकरं शान्तं स्मरेत् तन्नामपूर्वकम् ॥ ५-४ ॥

शशाङ्कायुतसङ्काशं सूर्यकोटिसमप्रभम् ।
शुक्लाम्बरधरं श्रीमच्छुक्लमाल्यानुलेपनम् ॥ ५-५ ॥

वामोरुस्थितया रक्तवर्णया पद्महस्तया ।
शक्त्यालिङ्गितमानन्दामोदमानं गुरुं स्मरेत् ॥ ५-६ ॥

अथौघत्रयगुरुध्यानम्-

कराभ्यां चिन्मुद्रां समधुनृकपालं च दधतीं
द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गामरुणनयनां कर्बुरजटामुपेतां सिद्धौघैर्भजतु
गुरुपङ्क्ति कृतमतिः ॥ ५-१ ॥

अथ गुरुनमस्कारः-

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५-१ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५-२ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः ।
गुरुः कर्ता च हर्ता च गुरवे वै नमो नमः ॥ ५-३ ॥

अथ कुण्डलिनीमन्त्रः-

वाग्भवं भुवनेशी च श्रीबीजं तु तथैव च ।
त्र्यक्षरो मन्त्र आख्यातः कुण्डलिन्याः सुसिद्धिदः ॥ ५-१ ॥

ऋषिः शक्तिः समाख्यातो गायत्री छन्द ईरितम् ।
चेतना कुण्डली शक्तिर्देवतात्र समीरिता ॥ ५-२ ॥

वाग्भवं बीजमाख्यातं शक्तिः श्रीबीजमुच्यते ।
हृल्लेखा कीलक प्रोक्तं कुण्डलिन्यास्तु चिन्तने ॥ ५-३ ॥

विनियोगः समाख्यातः सर्वागमविशारदैः ।
बीजत्रयद्विरावृत्त्या षडङ्गन्यास ईरितः ॥ ५-४ ॥

ध्यानं वक्ष्यामि कुण्डल्याः सावधानतया शृणु ।
मूलाधारे त्रिकोणे तु सूर्यकोटिसमत्विषि ॥ ५-५ ॥

प्रसुप्तभुजगाकारां सार्धत्रिवलयस्थिताम् ।
नीवारशूकवत् तन्वीं तडित्कोटिसमप्रभाम् ॥ ५-६ ॥

सूर्यकोटिप्रभां दीप्तां चन्द्रकोटिसुशीतलाम् ।
शिवशक्तिमयीं देवीं शङ्खावर्तक्रमात् स्थिताम् ॥ ५-७ ॥

सुषुम्नामध्यमार्गेण यान्तीं परशिवावधि ।
ह्रीङ्कारबीजरूपेण चिन्तयेद्योगवर्त्मना ॥ ५-८ ॥

प्। ७४)

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् ॥ ५-९ ॥

कुलगुरुध्यानं प्रागेवोक्तम् । अथ कुण्डलीस्तुतिः शारदायाम्-

मूलोन्निद्रभुजङ्गराजसदृशीं यान्तीं सुषुम्नान्तरं
भित्त्वाधारसमूहमाशु विलसत्सौदामिनीसन्निभाम् ।
व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघैः पतिं
सम्भाव्य स्वगृहागतां पुनरिमां सञ्चिन्तयेत् कुण्डलीम् ॥ ५-१ ॥

हंसं नित्यमनन्तमद्वयगुणं स्वाधारतो निर्गता
शक्तिः कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च तम् ।
याता शम्बुनिकेतनं परसुखं तेनानुभूय स्वयं
यान्ती स्वाश्रममर्ककोटिरुचिरा ध्येया जगन्मोहिनी ॥ ५-२ ॥

अव्यक्तं परबिम्बमञ्चितरुचिं नीत्वा शिवस्यालयं
शक्तिः कुण्डलिनी गुणत्रयवपुर्विद्युल्लतासन्निभा ।
आनन्दामृतकन्दगं पुरभिदं चन्द्रार्ककोटिप्रभं
संवीक्ष्य स्वगृहं गता भगवती ध्येयानवद्या गुणैः ॥ ५-३ ॥

मध्येवर्त्म समीरणद्वयमिथःसङ्घट्टसङ्क्षोभजं
शब्दस्तोममतीत्य तेजसि तडित्कोटिप्रभाभास्वराम् ।
उद्यन्तीं समुपास्महे नवजपासिन्दूरसान्द्रारुणां
सान्द्रानन्दसुधामयीं परशिवं प्राप्तां परां देवताम् ॥ ५-४ ॥

गमनागमनेषु जाङ्घिकी सा तनुयाद्योगफलानि कुण्डली ।
मुदिता कुलकामधेनुरेषा भजतां वाञ्छितकल्पवल्लरी ॥ ५-५ ॥

आधारस्थितशक्तिबिन्दुनिलयां नीवारशूकोपमां
नित्यानन्दमयीं गलत्परसुधावर्षैः प्रबोधप्रदैः ।
सिक्त्वा षट् सरसीरुहाणि विधिवत् कोदण्डमध्योदितां
ध्यायेद् भास्वरबन्धुजीवरुचिरां संविन्मयीं देवताम् ॥ ५-६ ॥

हृत्पङ्केरुहभानुबिम्बनिलयां विद्युल्लतामन्थरां
बालार्कारुणतेजसा भगवतीं निर्भर्त्सयन्तीं तमः ।
नादाख्यं परमर्धचन्द्रकुटिलं संविन्मयीं शाश्वतीं
यान्तीमक्षररूपिणीं विमलधीर्ध्यायेद्विभुं तेजसाम् ॥ ५-७ ॥

भाले पूर्णनिशाकरप्रतिभटां नीहारहारत्विषा
सिञ्चन्तीममृतेन देवममितेनानन्दयन्तीं तनुम् ।
वर्णानां जननीं तदीयवपुषा सम्वाप्य विश्वं स्थितां
ध्यायेत् सम्यगनाकुलेन मनसा सम्विन्मयीमम्बिकाम् ॥ ५-८ ॥

प्। ७५)

मूले भाले हृदि च विलसद्वर्णरूपा सावित्री
पीनोत्तुङ्गस्तनभरनमन्मध्यदेशा महेशी ।
चक्रे चक्रे गलितसुधया सिक्तगात्री प्रकामं
दद्यादद्य श्रियमविकलां वाङ्मयी देवता नः ॥ ५-९ ॥

आधारबन्धप्रमुखक्रियाभिः समुत्थिता कुण्डलिनी सुधाभिः ।
त्रिधामबीजं शिवमर्चयन्ती शिवाङ्गना वः शिवमातनोतु ॥ ५-१० ॥

निजभुवननिवासादुच्चलन्ती विलासैः पथि पथि कमलानां चारुहासं विधाय ।
तरुणतपनकान्तिः कुण्डली देवता सा शिवसदनसुधाभिर्दीपयेदात्मतेजः ॥ ५-११ ॥

सिन्दूरपुञ्जनिभमिन्दुकलावतंसमानन्दपूर्णनयनत्रयशोभिवक्त्रम् ।
आपीनतुङ्गकुचनम्रमनङ्गतन्त्रं शम्भोः कलत्रममितां श्रियमातनोतु ॥ ५-१२

वर्णैरर्णवषट्दिशा रविकलाचक्षुर्विभक्तैः क्रमात्
सान्तैरादिभिरावृतान् क्षहयुतैः षट्चक्रमध्यानिमान् ।
डाकिन्यादिभिराश्रितान् परिचितान् ब्रह्मादिभिर्दैवतै
र्भिन्दाना परदेवता त्रिजगतां चित्तेषु दत्तां मुदम् ॥ ५-१३ ॥

आधाराद् गुणवृत्तशोभिततनुं निर्गत्वरीं सत्वरं
भिन्दन्तीं कमलानि चिन्मयघनानन्दप्रबोधोद्धुराम् ।
सङ्क्षुब्धध्रुवमण्डलामृतकरप्रस्यन्दमानामृत-
स्रोतःकन्दलिताममन्दतडिदाकारां शिवां भावये ॥ ५-१४ ॥

मूलाधारे त्रिकोणे तरुणतरणिभाभास्वरे विभ्रमन्तं
कामं बालार्ककालानलजरठकुरङ्गाङ्ककोटिप्रभाभम् ।
विद्युन्मालासहस्रद्युतिरुचिरलसद्बन्धुजीवाभिरामं
त्रैगुण्याक्रान्तबिन्दुं जगदुदयलयैकान्तहेतुं विचिन्त्य ॥ ५-१५ ॥

तस्योर्ध्वे विस्फुरन्तीं स्फुटरुचिरतडित्पुञ्जभाभास्वराङ्गी-
मुङ्गच्छन्तीं सुषुम्नामनु सरणिशिखामाललाटेन्दुबिम्बम् ।
चिन्मात्रां सूक्ष्मरूपां जगदुदयकरीं भावनामात्रगम्यां
मूलं या सर्वधाम्नां स्फुरति निरुपमा हूङ्कृतोदञ्चितोरः ॥ ५-१६ ॥

नीता सा शनकैरधोमुखसहस्रारारुणाब्जोदरे
च्योतत्पूर्णशशाङ्कबिम्बमधुतः पीयूषधारास्रुतिम् ।
रक्तो मन्त्रमयीं निपीय च सुधानिःष्यन्दरूपा विशे-
द्भूयोऽप्यात्मनिकेतनं पुनरपि प्रोत्थाय पीत्वा विशेत् ॥ ५-१७ ॥

योऽभ्यस्यत्यनुदिनमेवात्मनोऽन्तर्बीजश दुरितजरापमृत्युरोगान् ।
जित्वासौ स्वयमिव मूर्तिमाननङ्गः सञ्जीवेच्चिरमतिनीलकेशजालः ॥ ५-१८ ॥

इति कुण्डलिनीस्तुतिः । अथ मूलविद्याचिन्तनम्-

पञ्चदश्या ऋषिः प्रोक्तो दक्षिणामूर्तिरव्ययः ।
पङ्क्तिश्छन्दः समाख्यातं परब्रह्मस्वरूपिणी ॥ ५-१ ॥

देवता ह्युदिता श्रीमन्महात्रिपुरसुन्दरी ।
वाग्भवं बीजमाख्यातं शक्तिस्तार्तोयमुच्यते ॥ ५-२ ॥

प्। ७६)

कीलकं मध्यकूटं स्यात् पुरुषार्थचतुष्टये ।
विनियोगः समाख्यातः सर्वागमविशारदैः ॥ ५-३ ॥

कूटत्रयद्विरावृत्त्या षडङ्गानि समाचरेत् ।

सिन्दूरपुञ्जनिभमिन्दुकलावतंसमानन्दपूर्णनयनत्रयशोभिवक्त्रम् ।
आपीनतुङ्गकुचनम्रमनङ्गतन्त्रं शम्भोः कलत्रममितां श्रियमातनोतु ॥ ५-४ ॥

अथ कूटत्रयचिन्तनम्-

मूलाधरे वाग्भवाख्यं कूटं सञ्चिन्तयेद्बुधः ।
वाग्भवाख्यस्य कूटस्य ऋषिर्ब्रह्मा समीरितः ॥ ५-१ ॥

छन्दो गायत्रमाख्यातं देवता वागधीश्वरी ।
आद्यवर्णं तु बीजं स्यादन्त्यं शक्तिः समीरिता ॥ ५-२ ॥

मध्यत्रयं कीलकं स्याद्वाक्सिद्ध्यं विनियोगकम् ।
ब्रह्मवाग्रूपिणी ङेन्ता विष्णुवाग्रूपिणी तथा ॥ ५-३ ॥

रुद्रवाग्रूपिणी ङेन्ता परवाग्रूपिणी तथा ।
शिववाग्रूपिणी ङेन्ताखिलवाग्रूपिणी तथा ॥ ५-४ ॥

षडङ्गं विन्यसेदेतैर्वाग्भवाद्यैः सुसाधकः ।

शुक्लां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां
व्याख्यामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैः ।
विभ्राणां कमलासनां कुचनतां वाग्देवतां सस्मितां
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ॥ ५-५ ॥

हृदये कामराजाख्यं कूटं सञ्चिन्तयेद् बुधः ।
कामराजाख्यकूटस्य ऋषिः सम्मोहनः स्मृतः ॥ ५-६ ॥

गायत्री छन्द आख्यातं कामेशी देवता स्मृता ।
आद्यं बीजं तथा शक्तिर्हृल्लेखा कीलकं स्मृतम् ॥ ५-७ ॥

मध्यवर्णचतुष्कं तु वशीकरणसिद्धये ।
विनियोगोऽत्र विख्यातः सर्वागमविशारदैः ॥ ५-८ ॥

द्रांसङ्क्षोभणबाणाय द्रीन्द्रावणपदं तथा ।
बाणाय च तथा क्लीं च आकर्षणपदं पुनः ॥ ५-९ ॥

बाणाय ब्लूं वशीकारबाणाय च ततः पुनः ।
सः उन्मादनबाणाय पञ्च बीजानि चोच्चरेत् ॥ ५-१० ॥

सर्वबाणेभ्य इत्युक्त्वा षडङ्गानि प्रविन्यसेत् ।
कामकूटादिभिर्मन्त्रैर्नमोन्तै रससङ्ख्यकैः ॥ ५-११ ॥

बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितं स्मरपञ्चबाणान् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्तजननीं
नवचन्द्रचूडाम् ॥ ५-१२ ॥

आज्ञाचक्रे शक्तिकूटं चिन्तयेत् साधकाग्रणीः ।
अथास्य शक्तिकूटस्य ऋषिः शिव उदाहृतिः ॥ ५-१३ ॥

पङ्क्तिश्छन्दस्त्वादिशक्तिर्देवता बीजमत्र सः ।
हृल्लेखा शक्तिरुद्दिष्टा कीलकं मध्यवर्णकौ ॥ ५-१४ ॥

विनियोगस्तु विज्ञेयश्चतुर्वर्गाप्तये ध्रुवम् ।
ङेन्ता सर्वज्ञताशक्तिः शक्त्यन्ता नित्यतृप्तता ॥ ५-१५ ॥

चतुर्थ्यन्ता समुद्दिष्टा तथैवानादिबोधिनी ।
ङेन्ता स्वतन्त्रता शक्तिस्तथा नित्यमलुप्तता ॥ ५-१६ ॥

शक्तिर्ङेन्तानन्ततादिशक्तिर्ङेन्ता तथैव च ।
एतैर्मन्त्रैर्जातियुक्तैः शक्तिकूटादिकैः क्रमात् ॥ ५-१७ ॥

विन्यस्य च षडङ्गानि ध्यायेद् देवीमनन्यधीः ।

कदम्बवनमध्यगां कनकमण्डपान्तःस्थितां
षडम्बुरुहवासिनीममरसिद्धसौदामिनीम् ।
बिजृम्भितजपारुचिं विमलचन्द्रचूडामणिं त्रियम्बककुटुम्बिनीं
त्रिपुरसुन्दरीमाश्रये ॥ ५-१८ ॥

अथाभेदचिन्तनम्-

मूलादिब्रह्मरन्ध्रान्तं ब्रह्मविद्यां विभावयेत् ।
तत्प्रभापटलवाप्तं स्वशरीरं विचिन्तयेत् ॥ ५-१ ॥

अहं देवि न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ५-२ ॥

त्वमेवाहमहं त्वं च संविन्मात्रवपुस्तव ।
आवयोरन्तरं देवि नश्यत्वाज्ञाबलात् ततः ॥ ५-३ ॥

अहं तीर्णो भवं घोरं कृत्यं किञ्चिन्न मेऽस्ति वै ।
तथापि देहि मे मातराज्ञां तव सुसेवने ॥ ५-४ ॥

प्। ७७)

कृत्वा समाधिस्थितया धिया ते चिन्तां नवाधारनिवासभूताम् ।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ ५-५ ॥

मञ्जुशिञ्जितमञ्जीरं वाममर्धं महेशितुः ।
आश्रयामि जगन्मूलं यन्मूलं वचसामपि ॥ ५-६ ॥

अथ मूलदेवतास्तुतिः-

कल्याणवृष्टिभिरिवामृतपूरिताभिर्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भक्तिमतां जनानाम् ॥ ५-१ ॥

एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणाम्बुजसोदरस्य त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ ५-२ ॥

ईशित्वभागकलुषाः कति नाम सन्ति ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सुकृत् प्रणतिं करोति ॥ ५-३ ॥

लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः सम्मोहयन्ति तरुणीर्भुवनत्रयेषु ॥ ५-४ ॥

ह्रीङ्कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
यत्संस्मृतौ यमभटादिभयं विहाय दिव्यन्ति नन्दनवने सह लोकपालैः ॥ ५-५ ॥

हन्तुः पुरामधिगलं परिपूर्यमाणः क्रूरः कथं नु भविता गरलस्य वेगः ।
आश्वासनाय किल मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ५-६ ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किञ्च स्फुरन्मुकुटमुज्ज्वलमातपत्रं द्वे चामरे च वसुधां महतीं ददाति ॥ ५-
७ ॥

कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकयत्रिपुरसुन्दरि ममनाथं त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ५-८ ॥

हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसाहमनुस्मरामि त्वामेव नौमि शरणं जगति त्वमेव ॥ ५-९ ॥

लक्ष्येषु सत्स्वपि तवाक्षिविलोकनानामालोकय त्रिपुरसुन्दरि मां कथञ्चित् ।
नूनं भयापि सदृशं करुणैकपात्रं जातो जनिष्यति जनो नच जायते च ॥ ५-१० ॥

ह्रींह्रीमिति प्रतिदिनं जपतां जनानां किन्नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीयांस्तान् सेवते मधुमती स्वयमेव लक्ष्मीः ॥ ५-११

सम्पतकराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितौघहरोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥ ५-१२ ॥

कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ ५-१३ ॥

लग्नं सदा भवतु मातरिदं त्वदीयं तेजःपरं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणमुदितं परमामृतार्द्रम् ॥
५-१४ ॥

ह्रीङ्कारमेव तव धाम तदेवरूपं त्वन्नाम सुन्दरि सरोजनिवासशीले ।
त्वत्तेजसा परिणतं जगदादिमूलं सङ्गं तनोतु सरसीरुहसङ्गमस्य ॥ ५-१५ ॥

ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव
पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी
निर्मलसूक्तिभारभरिता जागर्ति दीर्घ वपुः ॥

प्। ७८)

इति स्तुतिः ॥

समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं
क्षमस्व मे ॥ ५-१७ ॥

इति भूमिप्रार्थना ॥

सन्ध्यासूदङ्मुखोऽहन्यपि निशि च पुनर्दक्षिणास्यो निवीतं
कुर्यान्मूत्रादिशौचं बहिरथ सलिलात् तत्र लिङ्गे मृदेका ।
पञ्चापानेऽथ हस्ते दश पुनरुभयोः सप्त चैतद्गृहस्थे
द्वैगुण्यादिक्रमात् तद्व्रतिवनियतिषु स्यात् तदर्धं निशायाम् ॥ ५-१ ॥

इति शौचम् ॥

ततः श्रीकाममन्त्रस्य सम्मोहन ऋषिः स्मृतः ।
गायत्रीच्छन्द आख्यातं श्रीकामो देवता स्मृता ॥ ५-१ ॥

बीजं तु कामराजः स्यान्नमः शक्तिरुदीरिता ।
सर्वजनप्रियायेति कीलकं समुदाहृतम् ॥ ५-२ ॥

षड्दीर्घकामराजेन षडङ्गानि प्रविन्यसेत् ।

जपारुणं रत्नविभूषणाढ्यं मीनध्वजं चारुकृताङ्गरागम् ।
कराम्बुजैरङ्कुशमिक्षुचापं पुष्पास्त्रपाशौ दधतं भजामि ॥ ५-३ ॥

ध्यात्वैवं कामबीजं च कामदेवाय सर्व च ।
जनप्रियाय हृदयं काममन्त्र उदाहृतः ॥ ५-४ ॥

अनेन दन्तकाष्ठं तु अभिमन्त्र्याष्टधा पुनः ।
दन्तान् विशोध्य मतिमान् मुखप्रक्षालनं चरेत् ॥ ५-५ ॥

इति दन्तधावनम् ॥

श्रीविद्यां ब्रह्मरन्ध्रे तु विचिन्त्य च ततः परम् ।
चतुर्लक्ष्मीमहामन्त्रैर्मुखक्षालनमाचरेत् ॥ ५-६ ॥

इति मुखप्रक्षालनम् ॥

तीरमागत्य चाचम्य कुर्यात् सङ्कल्पमादरात् ।
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम् ॥ ५-७ ॥

भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ।
भैरवाज्ञामनुस्मृत्य स्नानं वैदिकमाचरेत् ॥ ५-८ ॥

तान्त्रिकं स्नानमनुतत् कुर्यान्मन्त्रोक्तवर्त्मना ।
जले श्रीचक्रमाभाव्य तीर्थान्याकृष्य मण्डलात् ॥ ५-९ ॥

ब्रह्माण्डोरदतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ५-१० ॥

मुद्रयाङ्कुशरूपिण्या तीर्थान्याकृष्य योज्य च ।
गङ्गास्वरूपिणीं देवीं ध्यात्वा मूलमनुं जपन् ॥ ५-११ ॥

जातवेदादि-ऋग्भिश्च समूलाभिः स्वमूर्धनि ।
अभिषिञ्चेत् सप्तकृत्वः कुम्भाख्यमुद्रया ततः ॥ ५-१२ ॥

देवीं स्वहृदि संयोज्य स्वस्थाने तीर्थसन्ततिम् ।
यन्मया दुष्कृतं तोयं शरीरमलसंयुतम् ॥ ५-१३ ॥

तस्य पापविशुद्ध्यर्थं यक्ष्माणं तर्पयाम्यहम् ।
इति तीरे तु सन्तर्प्य गृह्णीयाच्छुद्धवाससी ॥ ५-१४ ॥

इति स्नानम् । ततो विभूतिधारणम्-

हस्ते विभूतिं संस्थाप्य पञ्चतारैः प्रमन्त्रयेत् ।
अग्निरित्यादिमन्त्रैश्च ईशानाद्यैश्च मन्त्रयेत् ॥ ५-१५ ॥

ततस्तु धारयेन्मन्त्री केवलं मूलविद्यया ।

इति भस्मधारणम् । अथ वैदिकसन्ध्यानन्तरं तान्त्रिकसन्ध्यां कुर्यात्-

ततो मणिधरिण्यन्ते वज्रिण्यन्ते महाप्रति ।
सरे रक्षद्वयं हुम्फट्स्वाहान्तो मनुरीरितः ॥ ५-१ ॥

अनेनैव तु मन्त्रेण शिखां बद्ध्वा विचक्षणः ।
त्रिभिः कूटैस्त्रिराचामेत् त्रितत्त्वान्तैः समाहितः ॥ ५-२ ॥

विद्यातत्त्वाय च तथा शिवतत्त्वाय चैव हि ।
मायातत्त्वाय च तथा स्वाहान्तैस्तदनन्तरम् ॥ ५-३ ॥

प्राणानायम्य सङ्कल्प्य पुरतो जलमध्यतः ।
श्रीचक्रं तु विभाव्यानु सूर्यात्तीर्थानिमुद्रया ॥ ५-४ ॥

प्राग्वदावाह्य विधिवदावाहन्यादिमुद्रिकाः ।
प्रदर्श्य दक्षहस्ते तु जलं सङ्गृह्य यत्नतः ॥ ५-५ ॥

वामहस्तेन सञ्छाद्य पञ्चभूताक्षरैः क्रमात् ।
अभिमन्त्र्य सकृत्तोयं वामहस्ते निधाय च ॥ ५-६ ॥

प्। ७९)

स्वरैः सम्मार्जयेन्मूर्ध्नि तत्पृष्ठस्रूतबिन्दुभिः ।
ततो दक्षे जलं ग्राह्यं सहितैर्मूलविद्यया ॥ ५-७ ॥

कादिमान्तैः स्पर्शवर्णैः स्वाहान्तैरभिमन्त्र्य च ।
पीत्वा तत्तोयमथ च पुनर्दक्षे जलं क्षिपेत् ॥ ५-८ ॥

अभिमन्त्र्य च तत्प्राग्वद्वामहस्ते निधाय तत् ।
विनिःसृतैश्च तत्पृष्ठाद्विन्दुभिर्मार्जयेत्तथा ॥ ५-९ ॥

यादिक्षान्तैर्व्यापकार्णैस्ततस्तज्जलमादरात् ।
इडयाकृष्य देहान्तः क्षालयेत् कल्मषं ततः ॥ ५-१० ॥

विरेच्य पिङ्गलामार्गात् कृष्णवर्णं तु तज्जलम् ।
ज्वलद्वज्रशिलायां तु स्फालयेदस्त्रमुच्चरन् ॥ ५-११ ॥

ततः प्रक्षाल्य च करावाचम्याञ्जलिना जलम् ।
गृहीत्वोत्थाय गायत्र्या सूर्याभिमुखमुत्क्षिपेत् ॥ ५-१२ ॥

एवमर्घ्यत्रयं दत्त्वा चोपविश्य प्रयत्नतः ।
श्रीचक्रावृतिदेवीश्च तर्पयेद्विधिवत् पुनः ॥ ५-१३ ॥

पञ्चविंशतिधा मूलमुच्चार्य स्वेष्टदेवताम् ।
सन्तर्प्याचम्य गायत्र्याप्राणायामत्रयं चरेत् ॥ ५-१४ ॥

गायत्र्याश्च ऋषिर्ब्रह्मा गायत्रं छन्द ईरितम् ।
गायत्री देवता प्रोक्ता द्विरावृत्त्या त्रिभिः पदैः ॥ ५-१५ ॥

षडङ्गानि प्रविन्यस्य ध्यायेद्देवीमनन्यधीः ।
भास्वद्रत्नौघमुकुटस्फुरच्चन्द्रकलाधराम् ॥ ५-१६ ॥

सद्यः सन्तप्तहेमाभां सूर्यमण्डलरूपिणीम् ।
पाशाङ्कुशाभयवरान् धारयन्तीं स्मरन् बुधः ॥ ५-१७ ॥

इति । कुलार्णवे-

प्रातः सन्ध्यामुपासीत धर्मकामार्थसिद्धये ।
मूलधारे वसाब्जे च ह्रीं बीजं रक्तसन्निभम् ॥ ५-१ ॥

ध्यात्वा प्रभापुटान्तःस्थं बहिर्निःसार्य्य मण्डले ।
सौरे विभाव्य रक्ताभां त्रिनेत्रां च चतुर्भुजाम् ॥ ५-२ ॥

वह्निमण्डलमध्यस्थां कुमारीरूपधारिणीम् ।
बिभ्राणां पुस्तकं मालां वरदं चाभयं तथा ॥ ५-३ ॥

बालसूर्यसमामम्बां ध्यात्वैवं सञ्जपेन्मनुम् ।
अथ माध्यन्दिने सन्ध्यानाहते च कठाब्जके ॥ ५-४ ॥

ह्रीं बीजं शुक्लसङ्काशं ध्यात्वा निःसार्य पूर्ववत् ।
सूर्यमण्डलमध्यस्थां त्रिनेत्रां शुक्लविग्रहाम् ॥ ५-५ ॥

आरूढयौवनां चक्रं शङ्खं पद्मं गदां तथा ।
विभ्राणां च तथा ज्येष्ठां ध्यात्वैवं सञ्जपेन्मनुम् ॥ ५-६ ॥

अथ सायन्तनी सन्ध्या भ्रूमध्ये हक्षपद्मके ।
ह्रीं बीजं कृष्णवर्णं तु ध्यात्वा निःसार्य पूर्ववत् ॥ ५-७ ॥

सोममण्डलमध्यस्थां कृष्णवर्णां चतुर्भुजाम् ।
बिभ्राणामभयं शूलं कपालीं तर्जनीं तथा ॥ ५-८ ॥

वामे दक्षे च बिभ्राणां चित्रां नेत्रत्रयान्विताम् ।
विचित्राभरणां रौद्रीं ध्यात्वैवं सञ्जपेन्मनुम् ॥ ५-९ ॥

अष्टबीजानि चोच्चार्य वाग्भवं कूटमुच्चरेत् ।
वागीश्वर्ये विद्महे च कामकूटं ततोच्चरेत् ॥ ५-१० ॥

कामेश्वर्यै धीमहीति शक्तिकूटं ततः परम् ।
तन्नः शक्तिःपदं प्रोक्त्वा व्याहरेच्च प्रचोदयात् ॥ ५-११ ॥

बीजपञ्चकमुच्चार्य गायत्र्येषा समीरिता मूलविद्यां ततो जप्त्वा गुह्यातीति
निवेदयेत् ॥ ५-१२ ॥

इति सन्ध्याविधानम् । सङ्क्षेपसन्ध्या तु तन्त्रान्तरे - सायं प्रातश्च मध्याह्ने
देवीं ध्यात्वा मनुं जपेत् इति सन्ध्यात्रयमावश्यकम् । तथा कुलार्णवे-

सन्ध्यालोपो न कर्तव्यः शम्भोराज्ञैवमेव हि ।
दीक्षितः सन्ध्यया हीनो न दीक्षाफलमश्नुते ॥ ५-१ ॥

न कुर्याद्यदि तां सन्ध्यां पतितो दशधा जपेत् ।
अन्यसन्ध्यासमे काले सौत्रकण्टकिविद्यया ॥ ५-२ ॥

कृत्वा षडङ्गमन्त्रेण ध्यायेत् तां सौत्रकण्टकीम् ।
षड्वक्त्रां द्वादशभुजां त्रिनेत्रां परमेश्वरीम् ॥ ५-३ ॥

गलादूर्ध्वं श्वेतवर्णां पीतां गलतलादधः ।
कट्यादिपादपर्यन्तं नीलाभां च ततः स्मरेत् ॥ ५-४ ॥

द्विरष्टवर्षां रक्ताङ्गीं सर्वशृङ्गारचर्च्चिताम् ।
स्वर्णरत्नप्रभाभिश्च मण्डिताभिः (लि) सहस्रिकाम् ॥ ५-५ ॥

मोचिनीं सर्वपापानां रक्तसिंहासने स्थिताम् ।
तदूर्ध्वं श्वेतपद्मं च तदूर्ध्वं श्वेतकेसरम् ॥ ५-६ ॥

तत्पृष्ठे संस्थितां देवीं त्रिखण्डागुणमण्डिताम् ।
रत्नमुकुटोज्ज्वलां दिव्यां सन्ततां नादपूरिताम् ॥ ५-७ ॥

हसद्वक्त्रां महादेवीं दक्षिणोदयगामिनीम् ।
महासमययागाय नित्यनिष्कलगामिनीम् ॥ ५-८ ॥

पञ्चप्रणवमुच्चार्य वाग्भवं परदुष्करम् ।
कर्मच्छेदनकारीति अघोरे वरदे तथा ॥ ५-९ ॥

प्। ८०)

विच्चे मायापदं प्रोक्त्वा त्रैलोक्यपदमुद्धरेत् ।
रूपेति च पदं प्रोक्त्वा सहस्रपरिवर्तिनी ॥ ५-१० ॥

मातृगणे पदं चानु हस्रूं प्रणवपञ्चकम् ।
लुप्तसन्ध्यामहापापनिवृत्त्यर्थमिमं जपेत् ॥ ५-११ ॥

दशवारं ततो जप्यान्मूलमन्त्रं यथाविधि ।
स्वयं ज्योतिर्मयो भूत्वा मूलविद्यां हृदि स्मरन् ॥ ५-१२ ॥

पूजार्थं जलमादाय यागमण्डपमाविशेत् ।

इति । ज्ञानार्णवे-

सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः ।
महामृगमदोद्दामलिप्ताङ्गः कुङ्कुमारु *?ः ॥ ५-१ ॥

नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः ।
ताम्बूलरागवदनो मादनानन्दमानसः ॥ ५-२ ॥

यागमन्दिरमागत्य लाक्षारसविचित्रितम् ।
अनेकधूपबहुलं पुष्पसम्भारपूरितम् ॥ ५-३ ॥

गोमयेन च संलिप्तं चारुपुष्पविराजितम् ।

इति । दक्षिणामूर्तिसंहितायाम्-

अथ यागगृहं यायादलङ्कारविभूषितम् ।
अनेकचित्रसुभगं भूमौ गोमयचर्चितम् ॥ ५-१ ॥

उपरिष्टाल्लसत्पुष्पवितानं धूपधूपितम् ।
दीपमालावलीरम्यविकीर्णकुसुमोज्ज्वलम् ॥ ५-२ ॥

इति यागमण्डपम् ।

तारं वज्रोदके हुम्फट्स्वाहामन्त्रेण देशिकः ।
जलेनासनमभ्युक्ष्य तदुपर्युपविश्य च ॥ ५-३ ॥

तारं माया विशुद्धेति सर्वपापानि चोच्चरेत् ।
शमयाशेषेति ततो विकल्पमपनेति च ॥ ५-४ ॥

य हूमिति च मन्त्रेण हस्तौ पादौ च क्षालयेत् ।
ॐ ह्रीं स्वाहेतिमन्त्रेण त्रिराचम्याङ्गने ततः ॥ ५-५ ॥

उपविश्य ततः सौरपूजां कुर्याद्यथाविधि ।

इति । कुलर्णवे - प्राङ्मुखः प्राङ्गणे पूर्वे यजेन्मार्तण्डभैरवम् । इति ।
शम्भुनिर्णये-

चतुरन्वयसिद्ध्यर्थं सौरपूजेयमीरिता ।
तद्विचार्य चिदादित्यपूजां कर्तुं सुखासने ॥ ५-१ ॥

प्राङ्मुखः प्रत्यगासीनः स्मस्निग्धमहीतले ।
सामान्यार्घ्यं च वामे स्यात् प्रणवान्पञ्च चोच्चरेत् ॥ ५-२ ॥

मण्डलोच्चा (द्धा) रणं कुर्यादिति साधारणं मतम् ।
भूताङ्गुलं च वेदास्रं षट्कोणं चौर्ध्वरेखिकम् ॥ ५-३ ॥

विलिख्य तस्मिन् साधारपात्रमस्त्रविशोधितम् ।
संस्थाप्य पयसापूर्याधारपात्रजलेषु च ॥ ५-४ ॥

वह्न्यर्कसोमबीजैस्तु तथा चात्मविभावितम् ।
एवं निष्पाद्य षट्दीर्घं द्वितीयप्रणवात्मकम् ॥ ५-५ ॥

अङ्गं तस्य विधायैवं शङ्खं संस्थाप्य देशिकः ।
वहच्छ्वासकराग्रेण पुरतः सौरमण्डलम् ॥ ५-६ ॥

वक्ष्यमाणेन मन्त्रेण कस्तूरीचन्दनादिभिः ।

इति । ऐंह्रींश्रीं हसखफ्रें हसौः चन्द्रसूर्याग्निगर्भं स्फुरस्फुर
धर्मार्थकाममोक्षलाभं कुरुकुरु महाखेचरीमुद्रां प्रकटयप्रकटय
शाम्भवाज्ञया चतुरन्वयानां सिद्धिसामर्थ्यादि दददद किचकिच किलकिल फ्रें
मण्डलब्रह्माण्डमण्डल हस्रूं महाचण्डशिवे सहफ्रेम् ॥ ५-५ ॥

अनेन मन्त्रेणाभ्यर्च्यं वृत्ताष्टदलपद्मकम् ।
मण्डलं चतुरस्रं तु कृत्वा संस्थाप्य चाग्रत ॥ ५-७ ॥

सामान्यं च विशेषार्घ्यं मण्डलं विलिखेद् बुधः ।
दक्षे सौरार्घ्यपूजार्थे मण्डलं चतुरस्रकम् ॥ ५-८ ॥

कृत्वाधारं तु संस्थाप्य पूजयेदमुनाणुना ।

इति । ऐं पात्रासादनाय नमः ऐम् । तत्रास्त्रक्षालितं पात्रं धूपितं
स्थापयेद्बुधाः क्लीम् ॥ ५-५ ॥

इति मन्त्रेण चार्घ्यं तु पूजयेच्छुद्धवारिणा ।
हौम्बीजेन च षट्दीर्घस्वरसम्भेदितेन च ॥ ५-९ ॥

अष्ट गन्धान्विनिक्षिप्य रक्तपुष्पैः समर्चयेत् ।
अस्त्रेण रक्षां सङ्कल्प्य स्वात्मानमधिधारयेत् ॥ ५-१० ॥

अथाष्टपद्ममध्ये तु ध्यात्वा प्रेतस्वरूपिणम् ।
अनन्तमर्चयेत्तत्र शयानं मनुनामुना ॥ ५-११ ॥

प्। ८१)

अम् अनन्ताय नमः अम् ।

तल्पीकृतस्वयन्देहं छत्रीकृतफणात्रयम् ।
फणिनामीश्वरं श्वेतं ध्यात्वा सम्पूजयेत्ततः ॥ ५-१२ ॥

अग्रीशासुरवायव्येष्वस्रिषु क्रमतो यजेत् ।

हूंहूम्फ्रें प्रबन्धनाथाय हूंहूंहम् । यंरंलं त्रिमूर्तये । यम्
आराध्याय यम् । हं परमसुखाय हम् । हं

दहराकाशमध्यस्थं ह्रीम्बीजं रक्तसन्निभम् । वहत्पुटाद्विनिःसार्यानन्तं
प्रेतात्मकासनम् ॥ ५-१३ ॥

आवाह्य तद्बीजमयं ध्यायेन्मार्तण्डभैरवम् । ध्यानम्-

रक्तवर्णं स्थूलदेहं षड्वक्त्रमूर्ध्वकेशिकम् ।
भुजद्वादशसंयुक्तं सर्पास्थिरत्नचर्चितम् ॥ ५-१४ ॥

क्रोधिनं चोर्ध्वलिङ्गं च ज्वलद्रश्मिसमाकुलम् ।
व्याघ्रचर्मपरीधानं मुण्डमालाविभूषितम् ॥ ५-१५ ॥

हुंहुङ्कारं प्रमुञ्चन्तं संहरन्तं महाशिनाम् ।
त्रिशूलासिचक्रखड्गसृणिवरदपाणिकम् ॥ ५-१६ ॥

तर्जाशोकगदाचापपाशाभयकरालिनम् ।
आवाहनादिमुद्राश्च सन्दर्श्याभ्यर्च्य साधकः ॥ ५-१७ ॥

ह्रामादिक्रमतश्चाङ्गं कृत्वा मार्तण्डभैरवे ।
ततः पुष्पाञ्जलिं सार्घ्यं समन्त्रं च निवेदयेत् ॥ ५-१८ ॥

ह्रौं हस्रौः श्रीकुलमार्तण्डभैरवाय ह्रौं हस्रौः ॥

पश्चात् सम्प्रोक्ष्य चात्मानं जपेन्मन्त्रमिमं पुनः ।
पुष्पाञ्जलिं क्षिपेत् सम्यक्सवित्रे सर्वसाक्षिणे ॥ ५-१९ ॥

हस्रौः क्ष्रौं हस्रौः फट् खफ्रें भां फट् हस्रौः क्षों हस्रौः फट्
खफ्रेम्भाम् । इति पुष्पाञ्जलिमन्त्रः ।

मुद्रे च शूलतर्जन्यौ त्रिधाङ्कां हरिणीमपि ।
कृत्वाङ्गुलिप्रदरश्य तु पूर्वाद्यष्टदलेषु च ॥ ५-२० ॥

मध्ये च शूलतर्जन्यौ दधानं चण्डरोचिषम् ।
नव शक्तीर्यजेत्तत्र भैरवानपि पूजयेत् ॥ ५-२१ ॥

जूं ज्वालायै जूम् । क्षां मित्रीशायै क्षाम् । हुँफट् चण्डालिन्यै हुम्फट् । सौः
भीषणायै सौः । ऐं नारसिंहायै ऐम् । ह्रीं कमलादेव्यै ह्रीम् । फ्रें
मार्तण्डायै फ्रेम् । फ्रें कपालिन्यै फ्रेम् । सौः कौलिन्यै सौः ॥ ५-अथ
भैरवमन्त्राः - फ्रें चण्डाय फ्रेम् एवं विश्वेशाय महादेवाय
महाकालाय गभस्तीशाय चण्डेशाय तैजसाय मार्तण्डाय ।

मुद्रां च खेचरीं बद्ध्वा लयाङ्गं भोगमङ्गकम् ।
ह्रामादिकं विधायैव दूर्वारक्तप्रसूनकैः ॥ ५-२२ ॥

सम्पूज्य धूपदीपादिनैवेद्यन्तार्घमन्त्रकम् ।
यथाशक्ति जपित्वा तु अर्घ्यमन्त्रेण तज्जपम् ॥ ५-२३ ॥

पूर्वोक्तमर्घ्यमन्त्रे च चिदादित्य हृदम्बुजे ।
दहदह कहकहात्मानं तदा समुद्धरेत् ॥ ५-२४ ॥

निधायार्घ्यं च नैवेद्यं तेजोऽर्घ्यं च तथा बहिः ।
वामभागे लिखित्वा तु चतुरस्रं तु मण्डलम् ॥ ५-२५ ॥

तस्मिन् साधारपात्रे तु पशुमार्तण्डभैरवम् ।
अभ्यर्च्य च विधानेन तन्मन्त्रेणैव देशिकः ॥ ५-२६ ॥

समर्प्याशेषनिर्माल्यं तस्मै सर्वं निवेदयेत् ।

ह्रांह्रींसः पशुमार्तण्डभैरवाय । इति सौरपूजा ॥ अथ मण्डपपूजा । आदौ
मण्डपध्यानम् ।

अमृताब्धौ मणिद्वीपे चिन्तयेन्नन्दनं वनम् ।
चम्पकाशोकपुन्नागपाटलैरुपशोभितम् ॥ ५-२७ ॥

लवङ्गमालतीबिल्वदेवदारुनमेरुभिः ।
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ॥ ५-२८ ॥

चन्दनैः कर्णिकारैश्च मातुलुङ्गैश्च वञ्जुलैः ।
दाडिमीलकुचाङ्कालैः पूगैः कुरुबकैरपि ॥ ५-२९ ॥

कदलीकुन्दमन्दारनारिकेलैरलङ्कृतम् ।
अन्यैः सुगन्धिपुष्पाढ्यैर्वृक्षपण्डैश्च मण्डितम् ॥ ५-३० ॥

मालतीमल्लिकाजातीकेतकैः शतपत्रकैः ।
पारन्तीतुलसीनन्द्यावर्तैर्दमनकैरपि ॥ ५-३१ ॥

सर्वर्तुकुसुमोपेतैर्लसद्भिरुपशोभितम् ।
मन्दमारुतसम्भिन्नकुसुमामोदिदिङ्मुखम् ॥ ५-३२ ॥

तस्य मध्ये परज्योतिःस्वरूपो मेरुपर्वतः ।
तस्य मध्ये सदा फुल्लेः कुमुदोत्पलपङ्कजैः ॥ ५-३३ ॥

प्। ८२)

सुगन्धिकैश्च कह्लारैर्नवैः कुबलयैरपि ।
हंससारसकारण्डभ्रमरैश्चक्रनामभिः ॥ ५-३४ ॥

अन्यैः कलकलारावविहङ्गैरुपशोभितम् ।
महासरसि तन्मध्ये पुलिनेऽतिमनोहरे ॥ ५-३५ ॥

परितः पारिजाताढ्यं महाकल्पतरुं स्मरेत् ।
नीपोपवनमध्यस्थं नानापुष्पसुपुष्पितम् ॥ ५-३६ ॥

नानारत्नफलाकीर्ण छायाश्रितजगत्त्रयम् ।
उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ॥ ५-३७ ॥

उद्यद्दिनकरेन्दुभ्यामुद्भासितदिगन्तरम् ।
ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनम् ॥ ५-३८ ॥

परामृताख्यमधुभिः सिञ्चन्तं मण्डपं मुहुः ।
तस्याधस्तान्महावेदिर्माणिक्यैकविनिर्मिता ॥ ५-३९ ॥

वज्रप्राकारसन्दीप्ता शतयोजनविस्तृता ।
तन्मध्ये चिन्तयेद् दीप्तं मण्डपं मणिकुट्टिमम् ॥ ५-४० ॥

उद्यदादित्यसङ्काशं भास्वरं शशिशीतलम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् ॥ ५-४१ ॥

रत्नोपकॢप्तसंशोभिकपाटाष्टकशोभितम् ।
नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् ॥ ५-४२ ॥

हेमदण्डसमालम्बिध्वजावलिपरिष्कृतम् ।
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ५-४३ ॥

सहस्रदीपसंयुक्तदीपमण्डलराजितम् ।
तप्तहाटकसङ्कॢप्तवातायनमनोहरम् ॥ ५-४४ ॥

नानावर्णांशुकाबद्धसुवर्णशतकोटिभिः ।
किङ्किणीमालिकायुक्तपताकाभिरलङ्कृतम् ॥ ५-४५ ॥

हेमकुम्भावलीरम्यनानाचित्रविचित्रितम् ।
जातरूपमयै रत्नखचितैरतिविस्तृतैः ॥ ५-४६ ॥

माणिक्यरत्नवैडूर्यस्वर्णमालावलीयुतैः ।
अन्तरान्तरसम्बद्धरत्नैर्दृष्टिमनोहरैः ॥ ५-४७ ॥

विचित्रैश्चित्रवर्णैश्च वितानैरुपशोभितम् ।
सर्वरत्नसमायुक्तहेमकुट्टिममुज्ज्वलम् ॥ ५-४८ ॥

केतकीमालतीजातीचम्पकोत्पलकेसरैः ।
मल्लिकातुलसीयूथीन्नन्द्यावर्तकदम्बकैः ॥ ५-४९ ॥

एतैरन्यैश्च कुसुमैरलङ्कृतमहीतलम् ।
रत्नसोपानसन्नद्धभूमिकाभिरुपस्कृतम् ॥ ५-५० ॥

चन्द्रकाश्मीरकस्तूरीमृगनाभितमालकैः ।
चन्दनागुरुकर्पूरैरादीपितदिगन्तरम् ॥ ५-५१ ॥

पुष्पमालावलीरम्यमुक्ताश्रेणिविराजितम् ।
कर्पूरदीपभास्वन्तं माणिक्यदीपमण्डितम् ॥ ५-५२ ॥

कल्पवृक्षतरुप्रान्तमन्तरारत्नवेदिकाम् ।
रत्नसिंहासने नद्धं श्रीमच्छ्रीचक्रमण्डितम् ॥ ५-५३ ॥

इन्द्रादिदेवतावृन्दैर्ब्रह्मविष्णुशिवादिभिः ।
अनेकयोगिनीवृन्दैरस्त्रदैवतकैरपि ॥ ५-५४ ॥

संसेव्यमानपादाब्जयुग्मया तत्स्वरूपया ।
महात्रिपुरसुन्दर्याधिष्ठितं सर्वकामदम् ॥ ५-५५ ॥

सुधासन्दोहकल्लोललोलितं मोक्षकामदम् ।
अनेकधूपबहुलं मण्डपं चिन्तयेत् सुधीः ॥ ५-५६ ॥

तन्मण्डपस्थमात्मानं ध्यायेन्नाकुलचेतसम् ।
भैरवोऽहमिति ज्ञात्वा सर्वज्ञादिगुणान्वितः ॥ ५-५७ ॥

इति श्रीमण्डपध्यानम् ॥ अथ द्वारपूजा-

तत्र स्वर्णप्राकारस्य पूर्वद्वारेणान्तः प्रविश्य प्रादक्षिण्येन मणिमण्डपस्य
पश्चिमद्वारं गत्वा तदारभ्य मणिमण्डपं प्रदक्षिणीकृत्य पश्चिमद्वारेण
मणिमण्डपान्तः प्रविश्य साधकः पूजयेद् देवीमिति क्रमस्तेनैव क्रमेण
द्वारपूजनामित्यतो यागमण्डपस्य प्राकारसम्भवे तद्द्वाराश्रितः तदसम्भवे
यागमण्डपस्य पश्चिमद्वारे मण्डपासम्भवे गोमयोपलिप्ताया यागभूमेः
पश्चिमभागे क्वापि स्थित्वा सामान्यार्घ्यं विधायैवं कल्पयित्वा क्रमेण
पूजयेत् । तत्र कोटियोजनविस्तीर्णसुधार्णवान्तर्गतं कोटियोजनविस्तीर्णायतं
महाद्भुतम् नवरत्नमयं द्वीपं सहस्रादित्यतेजसं तन्मध्यतृतीयांशे
मदनोन्मादनं नाम नानापुष्पलताकुलं कदम्बकाननगर्भकं
नन्दनोद्यानं तन्मध्यतृतीयांशे कोटिसूर्यप्रतीकाशं
ज्वलत्स्वर्णप्राकारवेष्टितं नानासुरभिशालितोरणद्वारं नानारत्नविमण्डितं
परितः सेवायातेन्द्रादिगणसमाकुलं श्रीमण्डपं ध्यात्वा
सामान्यार्घ्योदकेनाभ्युक्ष्य पुष्पतोयाभ्यां क्रमेण पूजयेत् ॥ ४ सुधार्णवाय
नमः ४ नवरत्नमयद्वीपाय नमः ४ नन्दनोद्यानाय नमः ४ स्वर्णप्राकाराय
नमः तद्द्वारस्य दक्षिणोत्तरशाखयोरुपर्यधश्च पूजयेत् । ४ गां
गणेशपादुकां पूजयामि ४ क्षां क्षेत्रपालपादुकां पूजयामि ४ द्वां
द्वारश्रीपादुकां पूजयामि ४ दें देहलीश्रीपादुकां पूजयामि ।

प्। ८३)

दक्षिणपादपुरःसरमन्तः प्रविश्याभ्यन्तरे प्रागाद्यष्टदिक्षु इन्द्रादिदिक्पालान्
पूजयेत् । ततः पश्चिमभागे तिरस्करणीं पूजयेत् । वृत्तत्रिकोणचतुरस्रमण्डलं
विधाय तत्र-

नीलं तुरङ्गमधिरुह्य सुशोभमाना नीलांशुकाभरणमाल्यविभूषणाढ्या

निद्रापटेन भुवनानि तिरोदधाना खङ्गायुधा भगवती परिपातु चास्मान् ॥

इति ध्यात्वा ४ ऐं नमो भगवति माहेश्वरि पशुजनमनुश्चक्षुस्तिरस्करणं
कुरुकुरु स्वाहेति गन्धाक्षतकुसुमैः पूजयेत् । ततः ४ कदम्बवनाय नमः ४
श्रीरत्नमण्डपाय नमः इतिसम्पूज्य तस्य द्वारदेवताः पूजयेत् । सौः अस्त्राय
फडित्यनेन पश्चिमद्वारमभ्युक्ष्योर्ध्वशाखायां ४ मां महालक्ष्मीपा०
वामे ४ सां सरस्वतीपा० मध्ये ४ दुं दुर्गाश्रीपा० ४ द्वां द्वारश्रीपा० ।
दक्षवामशाखयोः ४ शं शङ्खनिधिवसुधाराभ्यां नमः ४
पद्मनिधिवसुमतीभ्यां नमः । ऊर्ध्वे दक्षे ४ गं विघ्नेशपा० वामे ४ क्षं
क्षेत्रेशपादुकां० तदूर्ध्वे च दक्षे ४ गां गङ्गापा० वामे ४ यां यमुनापा०
तदूर्ध्वे दक्षे ४ धां धात्रे नमः वामे ४ विं विधात्रे नमः अधोदेहल्यां ४
दें देहलीपा० ४ वां वरुणपा० इति पश्चिमद्वारपूजा ॥ ततः उत्तरद्वारं गत्वा
तदूर्ध्वशाखायां ४ वं वटुकनाथपा० ४ द्वां द्वारश्रीपा० । ततः
पूर्ववच्छङ्खनिधिवसुधारादिदेहल्यन्तं सम्पूज्य देहल्यग्रतः ४
कुङ्कुबेरपा० इति उत्तरद्वारपूजा ॥ ततः पूर्वद्वारं गत्वा
तदूर्ध्वशाखायां ४ क्षौं क्षेत्रपालपा० दक्षिणे ४ विं विघ्ननाथपा० ततः
स्वस्माद्वामतः क्षेत्रपालस्य दक्षिणवामाग्रेषु
महालक्ष्मीसरस्वतीद्वारश्रियः पूजयित्वा शङ्खपद्ममिथुनादारभ्य
देहल्यन्तं प्राग्वत् पूजयित्वा देहल्यग्रतः ४ लाम् इन्द्रनाथपा० इति
पूर्वद्वारपूजा ॥ ततो दक्षिणद्वारं गत्वाभ्युक्ष्य तदूर्ध्वशाखायां ४
ग्लौं गणनाथपा० ४ द्वां द्वारशीपादुकां पू० । दक्षवामशाखयोः
कामदेववसन्तमिथुने प्रथमं पूजयेत् । तदूर्ध्वे
शङ्खपद्ममिथुनादिदेहल्यन्तं सम्पूज्य देहल्यग्रतः ४ यां यमनाथपा० इति
दक्षिणद्वारपूजा ॥ ततः पुनः पश्चिमद्वारं गत्वा वामपादपुरःसरं
तत्तोरणान्तः प्रविश्य मणिमण्डपाभिमुखस्था मञ्चस्थदेवताः पूजयेत् । ४
रं रत्नसोपानाय नमः इति रत्नसोपानं पूजयित्वा तदूर्ध्वे मञ्चस्थदेवता
ध्यात्वा पूजयेत् । पश्चिमद्वारस्य पुरतो दक्षे ४ सां सरस्वतीपा० वामे ४ मां
महालक्ष्मीपा० तयोर्मध्ये उपर्यधोऽग्रेषु गौर्यादयो मानवौघान्ताः पूज्याः
। ४ गौं गौरीपा० ४ लों लोकधात्रीपा० ४ वां वागीश्वरीपा० ४ दिव्यौघश्रीपा० ४
सिद्धौघश्रीपा० ४ मानवौघश्रीपा० । ततः पुनरुत्तरद्वारे प्राग्वन्मायादुर्गे
गौर्यादिमानवौघान्तं पूजयेत् । ततः पूर्वद्वारि
प्राग्वद्भद्रकालीस्वस्तीगौर्यादिमानवौघान्तं पूजयेत् । ततो दक्षिणद्वारि
स्वाहाशुभङ्करीदेव्यै गौर्यादिमानवौघान्तं पूजयेत् । ततः पुनः
पश्चिमद्वारं गत्वा पालितं बहिरिन्द्राद्यैः परमैश्वर्यशोभितम् । प्रपद्ये
पश्चिमद्वारं भवान्या मन्दिरं महत् ॥ इति ध्यात्वा । ४ पश्चिमद्वाराय
रत्नमण्डपाय नमः इति मण्डपं सम्पूज्य तालत्रयपूर्वकं द्वारमुद्घाट्य
सिद्धार्थाक्षतकुसुमानि नाराचास्त्रप्रयोगेन आम् अपसर्पन्तु ते भूता ये भूता
भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ ५-ह्रः अस्त्राय
फडित्यन्तेन मण्डपान्तः प्रक्षिप्य तस्मान्निर्गच्छतां विघ्नसङ्घानां
वामाङ्गसङ्कोचनेन मार्गं दत्त्वा त्रिविधविघ्नानुत्सारयेत् देहल्यामेव
मूलविद्यां वास्त्रमन्त्रं वा मनसा जपन् वामपार्ष्णिघातत्रयेण भौमान्
तालत्रयेणान्तरिक्षगान् दिव्यदृष्ट्यवलोकनेन च दिव्यान् विघ्नानुत्सार्य ॐ
पाखण्डकारिणो भूता भूमौ ये चान्तरिक्षगाः । दिव्यलोके स्थिता ये च ते नश्यन्तु
शिवाज्ञया ॥ इति पठित्वा वामपादपुरःसरं देहलीं लङ्घयन् मण्डपान्तः
ततो मौनी विशुद्धात्मा हृदि देवीं परामृशम् । अवहिर्मानसो योगी
यागभूमिमथाविशेत् ॥ इति द्वारपूजा ॥ अत्र प्रतिद्वारं गमनासम्भवे
पश्चिमद्वार एव स्थित्वा तत्तद्द्वाराणि कल्पयित्वा पूजयेत् । पश्चिमद्वारमेवेति केचित् ।
अथ द्वारदेवतानां ध्यानानि :

पद्मद्वयवराभीतिभास्वत्पाणिचतुष्टयाम् ।
पद्मवर्णा भजेत्पद्मां पद्माक्षीं पद्मवासिनीम् ॥ ५-१ ॥

अक्षस्रक्पुस्तकधरा पूर्णचन्द्रसमद्युतिः ।
विश्वविद्यामयी देवी भारती भासतां मयि ॥ ५-२ ॥

शङ्खचक्राङ्कितकरा कुमारी कुटिलालका ।
मृगेन्द्रवाहना देवी दुर्गा दुर्गाणि हन्तु मे ॥ ५-३ ॥

प्। ८४)

तप्तकार्तस्वराभासा दिव्यरत्नविभूषिता ।
द्वारश्रीरूर्ध्वपद्मस्था वराभयकराम्बुजा ॥ ५-४ ॥

मुक्तामाणिक्यसङ्काशौ किञ्चित् स्मितमुखाम्बुजौ ।
अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ ॥ ५-५ ॥

विगलद्रत्नवर्षाभ्यां शङ्खाभ्यां मूर्ध्नि लाञ्छितौ ।
शङ्खासनसमासीनौ विश्वसङ्कल्पकल्पकौ ॥ ५-६ ॥

तुन्दिलं कम्बुकनिधिं वसुधारां घनस्तनीम् ।
वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ ५-७ ॥

सिन्दूराभौ भुजाश्लिष्टौ रक्तपद्मोत्पलान्वितौ ।
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ ॥ ५-८ ॥

पद्मासनसमासीनौ विश्वसङ्कल्पकल्पकौ ।
तुन्दिलं पङ्कजनिधिं तन्वीं वसुमतीमपि ॥ ५-९ ॥

पलाशपाटलच्छायं रमणीयं रतिप्रियम् ।
पुण्ड्रेक्षुचापपुष्पेषुमन्तं वन्दे मनोभवम् ॥ ५-१० ॥

प्रपद्ये प्रीतिदयितं पूर्णेन्दुसदृशप्रभम् ।
वसन्तं नन्दनोद्याने वसन्तं सन्ततोत्सवम् ॥ ५-११ ॥

पाशाङ्कुशारुणाम्भोजपाणिं पाटलतुन्दिलम् ।
वीरं विघ्नेश्वरं वन्दे गजवक्त्रं त्रिलोचनम् ॥ ५-१२ ॥

कपालशूले विभ्राणं कराभ्यां कृष्णविग्रहम् ।
तीक्ष्णं त्र्यक्षं समर्चामि क्षेत्रेशं क्षतविद्विषम् ॥ ५-१३ ॥

वराभयकरां सौम्यां सोमकोटिसमप्रभाम् ।
भजे गङ्गां महादेव्याः पादोदकतरङ्गिणीम् ॥ ५-१४ ॥

वामपादार्धसम्भूतां परदेव्यास्तरङ्गिणीम् ।
वराभयकरां वन्दे कालिन्दीं कालविग्रहाम् ॥ ५-१५ ॥

भर्तारं जगतां वन्दे शङ्खचक्रगदाम्बुजम् ।
विभ्राणं गरुडारूढं धातारं कृष्णविग्रहम् ॥ ५-१६ ॥

रक्तं रक्तारबिन्दस्थं वराभयकमण्डलुम् ।
हंसारूढं विधातारं वन्देऽक्षस्रक्समन्वितम् ॥ ५-१७ ॥

सिंहारूढां श्यामलाङ्गीं खड्गखेटकधारिणीम् ।
अधस्ताद्देहलीं वन्दे पश्चिमास्यां स्वरक्षिणीम् ॥ ५-१८ ॥

पाशाभयधरं वन्दे पूर्णेन्दुसदृशच्छविम् ।
वरुणं मकरारूढं द्वारे श्रीपाददैवतम् ॥ ५-१९ ॥

इति पश्चिमद्वारे ॥

करकलितकपालः कुण्डली दण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोववीती ।
क्रतुसमयसपर्याविघ्नविच्छेदहेतुर्जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ ५-
२० ॥

धूम्रवर्णो गदाहस्तः कुबेरो नरवाहनः ।
सौम्यद्वाराधिपः पायात् परदेव्या धनेश्वरः ॥ ५-२१ ॥

व्यालव्यग्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं
दोर्दण्डात्तकपालभालमरुणस्रग्वस्त्रगन्धोज्ज्वलम् ।
घण्टाघ्र्घुरमेखलध्वनिमिलद्धाङ्कारभीमं विभुं
वन्देऽहं सितसर्पकुण्डलधरं तं क्षेत्रपालं सदा ॥ ५-२२ ॥

सितो गजास्यः परशुं दन्तं पाशं त्रिशूलकम् ।
भुजैश्चतुर्भिर्बिभ्राणो मूषकोपरि संस्थितः ॥ ५-२३ ॥

पूर्वद्वाराधिपः शक्रः परदेव्याः सुपीतकः ।
वज्रहस्तः सहस्राक्षः पायादैरावतध्वजः ॥ ५-२४ ॥

गणेशं श्यामवर्णं च चतुर्बाहुं दिगम्बरम् ।
वामदक्षोर्ध्वबाहुभ्यां पाशाङ्कुशधरं तथा ॥ ५-२५ ॥

दक्षिणाधःकरेणैव मधुपूर्णं कपालकम् ।
दधानं वामहस्तेन देव्या मदनमन्दिरम् ॥ ५-२६ ॥

स्पृशन् वामाङ्गसंस्थाया रक्ताया दक्षपाणिना ।
आत्मयोनौ न्यस्य लिङ्गं पद्मं वामेन पाणिना ॥ ५-२७ ॥

दधत्याः शुण्डया योनि जिघ्रन् ध्यात्वा प्रपूजयेत् ।
नीलाञ्जनचयप्रख्यं यमं महिषवाहनम् ॥ ५-२८ ॥

दण्डमण्डितदोर्दण्डं दक्षद्वाराधिपं स्मरेत् ।

इति । अथ मञ्चस्थदेवताध्यानम्-

अक्षस्रक्पुस्तकाभीतीर्दधानां बाहुभिर्वरम् ।
त्रिलोचनां स्मरेद्देवीं सर्वशुक्लां सरस्वतीम् ॥ ५-१ ॥

पद्मद्वयवराभीतिभास्वत्पाणिचतुष्टयाम् ।
निर्दग्धहेमगौराङ्गीं महालक्ष्मीं त्रिलोचनाम् ॥ ५-२ ॥

पाशाङ्कुशवराभीतिर्बिभ्रतीमरुणप्रभाम् ।
त्रिनेत्रां मातरं वन्दे गौरीं रक्ताम्बरोज्ज्वलाम् ॥ ५-३ ॥

प्। ८५)

नत्युत्पलवराभीतीर्बिभ्रतीं काञ्चनप्रभाम् ।
मातरं दिव्यरत्नाङ्गीं लोकधात्रीं नमाम्यहम् ॥ ५-४ ॥

श्वेतां श्वेताम्बरां श्वेतभूषणस्रग्विलेपनाम् ।
पद्मद्वयवरादर्शकरां वागीश्वरीं भजे ॥ ५-५ ॥

वराङ्कुशौ पाशमभीतिशूलं करैर्दधानां भवभावमूलम् ।
घनाघनौघप्रभदेहकान्तिं मायां त्रिनेत्रामनिशं स्मरामि ॥ ५-६ ॥

शङ्खचक्रधनुर्बाणान् धारयन्तीं त्रिलोचनाम् ।
दूर्वादलनिभां वन्दे दुर्गां दुर्गतिहारिणीम् ॥ ५-७ ॥

कपालं खेटकं खड्गं त्रिशूलं बिभ्रतीं करैः ।
भिन्नाञ्जनचयप्रख्यां भद्रकालीं नमाम्यहम् ॥ ५-८ ॥

शक्तिस्वस्तिकमुद्राभीहस्तां चन्द्रसमप्रभाम् ।
त्रिनेत्रां संस्मरेद् देवीं स्वस्तिं स्वस्तिकरीं पराम् ॥ ५-९ ॥

रक्तोत्पलद्वन्द्ववराभयानि करैर्वहन्तीं स्मितशोभिवक्त्राम् ।
रक्तां त्रिनेत्रामरुणाम्बराढ्यां स्वाहां भजे देवगणकवन्द्याम् ॥ ५-१० ॥

शालिकल्पलताशार्ङ्गबाणपाणिचतुष्टया ।
ज्वलत्काञ्चनवर्णाभा शुभं कुर्याच्छुभङ्करी ॥ ५-११ ॥

इति ध्यानानि ॥ ततो मण्डलमध्ये ब्रह्मणे नमः गृहेशानाय नमः नैर्-ऋत्यां
वास्तुपुरुषाय नमः इति सम्पूज्य ॐ रक्षरक्ष हुम्फट्स्वाहा इति भूमिमभ्युक्ष्य
ॐ पवित्रवज्रभूमे रक्षरक्ष हुम्फट्स्वाहा इति भूमिमभिमन्त्र्य आः सुरेखे
वज्ररेखे हुम्फट्स्वाहा इति भूमौ विलिख्य तदुपर्यासनमास्तीर्य
ब्रह्मविष्णुरुद्रेश्वरसदाशिवान् पूर्वादिचतुर्दिक्षु मध्ये च सम्पूज्य तदुपरि
त्रिकोणं सञ्चिन्त्य कोणत्रये मध्ये च कामरूपपूर्णगिरिजालन्धरोड्यानपीठानि
सम्पूज्य ४ ह्रीम् आधारशक्तिकमलासनाय नमः इति मन्त्रेणासनं सम्पूज्य
तस्मिन् प्राङ्मुखो वोदङ्मुखो वोपविश्याथवा मातृकामण्डलं ध्यात्वा
तदुपर्य्युपविश्य भूमिं प्रार्थयेत् । ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना
धृता । त्वं च धारया मां देवि पवित्रं कुरु चासनम् । मां च पूतं कुरु धरे
नमोऽस्मि त्वां सुरेश्वरि । ॐ पृथिव्या मेरुपृष्ठ ऋषिः सुतलं छन्दः कृमों
देवता आसने विनियोगः । ॐ प्रणवस्य ब्रह्मा ऋषिर्गायत्री छन्दः परमात्मा देवता
प्राणायामे विनियोगः । ततः प्राणायामत्रयं कृत्वा शिरसि दीपनाथाय नमः ।
दक्षभुजे गं गणपतये नमः गणानां त्वा० । वामे दुं दुर्गायै नमः ॐ
जातवेदसे० । दक्षजानुनि क्षं क्षेत्रपालाय नमः ॐ क्षेत्रस्य पतिना वयं० ।
वामजानुनि सं सरस्वत्यै नमः प्रणो देवी सरस्वती० । ततः श्रीगुरुभ्यो नमः
परमगुरुभ्यो नमः परमेष्ठिगुरुभ्यो नमः इति नमस्कृत्य । ततः
पार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रकैः । पातालभूनभोलीनान्
विघ्नानुत्सारयेद् बुधः । इति विघ्नानुत्सार्यम् । उक्तपाशुपतास्त्रेण वामहस्ततलं
द्विधा । मणिबन्धं समारभ्य संस्पृष्टं दक्षपाणिना ॥ प्रमृज्य दक्षिणं
पाणिं सकृदेवोक्तमार्गतः । इति करशुद्धिं विधाय दिग्बन्धं कुर्यात् । तद्यथा-
लम् इन्द्राय नमः इन्द्रदिशं चक्रेण बध्नामि नमश्चक्राय स्वाहा । ॐ
सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयात् ३ । उग्रं वीरं
महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं
नमाम्यहम् ॥ एवं दशदिग्बन्धनं कृत्वा रम् अग्निप्राकाराय नमः । सहस्रार
हुँफट् सुदर्शनाग्निप्राकाराय नमः । ॐ ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर घोर
घोरतर तनुरूप चट चट प्रचटप्रचट कहकह वमवम बन्धयबन्धय
घातयघातय हुम्फट् अघोराग्निप्राकाराय नमः इदि जलेनाग्निप्राकारत्रयं
कुर्यात् ।

त्रिरग्निवेष्टनं कृत्वा गणेशं पञ्चमीं ततः ।
दुर्गां विघ्नं च शरभमघोरं च सुदर्शनम् ॥ ५-१ ॥

एताः समयविद्याश्च जपेत् प्रत्यूहशान्तये ।
एवं रक्षां पुरा कृत्वा भूतशुद्धिमथाचरेत् ॥ ५-२ ॥

एते मन्त्रा उद्धारपटले बोद्धव्याः । तन्त्रान्तरे-

स्थापयेद् दक्षिणे भागे पूजाद्रव्याणि देशिकः ।
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ॥ ५-१ ॥

प्रक्षालनाय करयोः पश्चात् पात्रं निवेशयेत् ।
घृतप्रज्वालितान् दीपान् स्थापयेत् परितः शुभान् ॥ ५-२ ॥

दर्पणं चामरं छत्रं तालवृन्तं मनोहरम् ।

प्। ८६)

इति । कुलचूडामणौ-

नानाविधानि पुष्पाणि गन्धानि विविधानि च ।
कर्पूरजातिधूपादिवासितं पटवासितम् ॥ ५-१ ॥

ताम्बूलं देवद्रव्याणि धूपदीपादिकं च यत् ।
सर्वालङ्कारभूषादि वस्त्रादीनि कुलेश्वरः ॥ ५-२ ॥

मूलमन्त्रजप्ततोयैः संशोध्य स्थापयेत्ततः ।
सर्वं स्वदक्षिणे स्थाप्यं वामे चार्घ्यं निवेशयेत् ॥ ५-३ ॥

पश्चिमे देवतायाश्च कुलद्रव्याणि धारयेत् ।

इति । तथैव - ॐ पुष्पकेतुराजार्हते सर्वगताय सम्यक् सम्बद्धाय ॐ पुष्पे पुष्पे
महापुष्पे सुपुष्पे पुष्पसम्भवे पुष्पावचायसङ्कीर्णं हुँफट् स्वाहा इति
मन्त्रेण पुष्पादिशोधनम् । ॐ रक्षरक्ष हुँफट्स्वाहा इति मन्त्रेण हृदि हस्तं
दत्त्वात्मरक्षां कुर्यात् । ततः प्रणवेन प्राणायामत्रयं कृत्वा भूतशुद्धं
कुर्यात् ।

शरीराकारभूतानां भूतानां यद्विशोधनम् ।
अव्ययब्रह्मसम्पर्काद् भूतशुद्धिरियं मता ॥ ५-४ ॥

सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ।
योगयुक्तेन विधिना चिन्मन्त्रेण समाहितः ॥ ५-५ ॥

इति । चिन्मन्त्रेण परमात्ममन्त्रेणेत्यर्थः । ॐ ह्रीं हंसःसोहंस्वाहा इति मन्त्रेण
पूर्वोक्तमूलाधारादिषट्चक्राणि विचिन्त्य हृदयचक्रस्थितं जीवात्मानं मनसा
सह सुषुम्नावर्त्मना कुलकुण्डलिनीं जीवात्मना सह
ब्रह्मरन्ध्रस्थपरमशिवपदे योजयामि स्वाहा इदं लिङ्गशरीरं शोधयामि
स्वाहा इति जीवात्मना मनोदण्डेनाहत्य
हुम्बीजेनाकुञ्चिताधोवायुनाऽधोवह्नेर्विवृद्धोष्मणा तां जारयित्वा
सुषुम्नान्तर्वर्तिचित्राख्यनाडीमध्यमार्गेण षट्चक्रभेदक्रमेण
स्थानार्णदैवतैः सह संहारयोगतो
ब्रह्मरन्ध्रस्थसहस्रदलकमलकर्णिकास्थचन्द्रमण्डलान्तरस्थिते परमशिवे
लीनां चिन्तयेत् । ततः पादादिजानुपर्यन्तं पृथिवीस्थानं पीतवर्णं
चतुरस्राकारं ब्रह्मदैवत्यं निवृत्तिकलात्मकं तन्मध्ये लम्बीजं
पञ्चोद्धातप्रयोगेण जले संलापयामि । जान्वादिलिङ्गपर्यन्तं जलस्थानं
शुक्लवर्णं पद्मलाञ्छितार्द्धचन्द्राकारं विष्णुदैवत्यं
प्रतिष्ठाकलात्मकं तन्मध्ये वम्बीजं चतुरुद्धातप्रयोगेण तेजसि संलापयामि
। लिङ्गादिनाभिपर्यन्तं तेजःस्थानं रक्तवर्णं त्रिकोणाकारं रुद्रदैत्वयं
विद्याकलात्मकं तन्मध्ये रम्बीजं त्रिरुद्धातप्रयोगेण वायौ संलापयामि ।
नाभ्यादिहृदयपर्यन्तं वायुस्थानं धूम्रवर्णं षट्कोणाकारं
षड्बिन्दुलाञ्छितमीश्वरदैवत्यं शान्तिकलात्मकं तन्मध्ये यम्बीजं
द्विरुद्धातप्रयोगेणाकाशे संलापयामि ।
हृदयादिकण्ठपर्यन्तमाकाशस्थानं स्वच्छवर्णं वृत्ताकारं
सदाशिवदैवत्यं शान्त्यतीताकलात्मकं तन्मध्ये
हम्बीजमेकोद्धातप्रयोगेणाहङ्कारे संलापयामि ।
कण्ठादिभ्रूमध्यपर्यन्तम् अहङ्कारस्थानं त्रिवर्णं
दण्डाकारमादिशिवदैवत्यं सर्वकलात्मकं तन्मध्ये हंसःबीजं
सर्वोद्धातप्रयोगेण महत्तत्त्वे संलापयामि । भ्रूमध्यादिभालपर्यन्तं
महत्तत्त्वस्थानं श्वेतवर्णम् अर्धचन्द्राकारमान्दशिवदैवत्यं
कलास्वरूपं तन्मध्ये सोहम्बीजमर्धोद्धातप्रयोगेण प्रकृतौ संलापयामि ।
भालादिसीमन्तपर्यन्तं प्रकृतिस्थानं बालार्कवर्णं
योन्याकारमानन्दशिवदैवत्यं कलास्वरूपं तन्मध्ये हम्बीजम्
आद्योद्धातप्रयोगेण पुरुषे संलापयामि । सीमन्तादिब्रह्मरन्ध्रपर्यन्तं
पुरुषस्थानमुद्दीप्तवर्णं लिङ्गाकारं चैतन्यदैवत्यं निष्कलं तन्मध्ये
नादाक्षरं बीजं परबिन्दुस्वरूपं निरुद्धातप्रयोगेण चिच्छक्तौ संलापयामि
। ब्रह्मरन्ध्रं चिच्छक्तिस्थानं कर्पूरवर्णं सहस्रारम् आनन्ददैवत्यं
निराकारस्वरूपं तन्मध्ये ह्रीं बीजं संहारध्यानप्रयोगेण
परब्रह्मशिवात्मकं चिदानन्दघनं चिन्तयामि इति विभाव्य ॐ
पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्द-
घ्राणरसनाचक्षुस्त्वक्श्रोत्रपादोपस्थपायुपाणिवाग्गमना-
नन्दविसर्गादानवचनाहङ्कारमनोबुद्धिचित्त-
विकल्पसङ्कल्पव्यवसानिश्चयजीवात्मपरमात्माभिधसमस्ततत्त्वात्मकं
प्रपञ्चस्वरूपं स्थूलसूक्ष्मशरीरद्वयं संहारक्रमेण
पृथिवीमप्स्वपस्तेजसि तेजो वायौ वायुमाकाशे आकाशमहङ्कारे अहङ्कारं
महति महान्तं प्रकृतौ प्रकृतिं पुरुषे पुरुषं परमशिवे संयोजयामि स्वाहा
इदं स्थूलशरीरं शोधयामि स्वाहा इति सस्थानानि साक्षराणि सकार्याणि
सकारणानि सदैवतानि साङ्गोपाङ्गानि स्थूलानि सूक्ष्माणि च सर्वाणि तत्त्वानि
स्वस्वकारणेषु संहारक्रमेण लीनानि कृत्वा सहस्रदलकमलपरमशिवे
बीजभावेन लीनानि चिन्तयेत् । परमशिवं चिच्छक्त्यात्मकमानन्दघनं विनिवेश्य
निर्मलधिया निर्लीनसर्वेन्द्रियो योगी यागफलं प्रयाति सततं नित्योदितं
निष्क्रियमेवं क्रमेण सच्चिदानन्दमयः क्षणं तिष्ठेत् इति संहारक्रमः ॥ अथ
पापपुरुषचिन्तनम्-

प्। ८७)

वामकुक्षिगतं पापपुरुषं कज्जलप्रभम् ।
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥ ५-१ ॥

सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ ५-२ ॥

उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।
खड्गचर्मधरं क्रूरं पापमेवं विचिन्तयेत् ॥ ५-३ ॥

इति ध्यात्वा यं पापशरीरं शोषय शोषय शोषयामि स्वाहा यम्बीजं
धूम्रवर्णं षोडशवारं जपन् वामनासया वायुमापूर्य तदेव
चतुष्षष्टिवारं जपन् कुम्भकयोगेन हृदयादुद्गतेन षट्काणादागतेन
महावायुना पापपुरुषं शुष्कं विचिन्त्य तदेव बीजं द्वाविंशद्वारं जपन्
दक्षिणनातया? वायुं रेचयेत् रं शुष्कपापशरीरं दाहय दाहय दाहयामि
स्वाहा रम्बीजं रक्तवर्णं षोडशवारं जपन् पिङ्गलया वायुमापूर्य तदेव
चतुःषष्टिवारं जपन् कुम्भकयोगेन नाभेरुदितेन त्रिकोणादागतेन महता
वह्निना पापपुरुषं दग्धं विचिन्त्य तदेव द्वात्रिंशद्वारं जपन् इडया वायुं
रेचयेत् । टं चन्द्रमण्डलं प्रेरय प्रेरय प्रेरयामि स्वाहा टमिति चन्द्रबीजं
शुक्लवर्णं १६ वारं जपन् इडया वायुमापूर्य ६४ वारं जपन् कुम्भकयोगेन
सहस्रारमध्ये महामृतौघपूरितं विश्वाह्लादकं चन्द्रबीजं विचिन्त्य ३२
वारं जपन् पिङ्गलया रेचयेत् । वं परमामृतं वर्षय वर्षय वर्षयामि स्वाहा
वमिति वरुणबीजं शुक्लवर्णं १६ वारं जपन् पिङ्गलया वायुमापूर्य ६४ वारं
जपन् कुम्भकयोगेन तस्माच्चन्द्रबिम्बान्मातृकामयों महावृष्टिमुत्पाद्य
तदस्थिश्मशानादिकमाप्लावितं विचिन्त्य ३२ वारं जपन् इडया वायुं रेचयेत् । लं
शरीरमुत्पादय उत्पादय उत्पादयामि स्वाहा लमिति पृथिवीबीजं पीतवर्णं १६
वारं जपन् इडया वायुमापूर्य ६४ वारं जपन् कुम्भकयोगेन ॐ
परमात्मजीवात्मचित्तबुद्धिमनोऽहङ्कार-
निश्चयव्यवसायसङ्कल्पविकल्पवचनादानविसर्गानन्दगमनवाक्पाणि-
पायूपस्थापादश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणशब्दस्पर्शरूपरसगन्धाकाश-
वायुतेजोजलपृथिव्याख्यसमस्ततत्त्वात्मकं प्रपञ्चरूपं
स्थूलसूक्ष्मशरीरद्वयं सृष्टिक्रमेण पृथग्भूताभ्यां
परमशिवचिच्छक्तिभ्यां निरुत्पत्तिप्रयोगेण पुरुषं पुरुषादाद्योत्पत्तिप्रयोगेण
प्रकृतिं प्रकृतेरर्द्धोत्पत्तिप्रयोगेण महान्तं महतः
सर्वोत्पत्तिप्रयोगेणाकाशमाकाशाद् द्विरुत्पत्तिप्रयोगेण वायुं
वायोस्त्रिरुत्पत्तिप्रयोगेण तेजस्तेजसश्चतुरुत्पत्तिप्रयोगेण जलं
जलत्पञ्चोत्पत्तिप्रयोगेण पृथिवीं पृथिव्याः षडुत्पत्तिप्रयोगेणात्पादयामि स्वाहा-
इति सस्थानानि साक्षराणि सकारणानि सकार्याणि सदैवतानि साङ्गोपाङ्गानि
स्थूलानि सूक्ष्माणि च सर्वाणि तत्त्वानि सृष्टिक्रमेण परशिवचिच्छक्तिसकाशात्
स्वस्वकारणेभ्य उत्पादितानि कृत्वा पादादुद्गतया चतुरस्रादागतया महत्या
पृथिव्या उपष्टभ्य देवतापूजायोग्यं नवं पुण्यशरीरमुत्पादितं विचिन्त्य
तत्त्वानि च निजस्थानेषु स्थितानि कृत्वा तदेव लम्बीजं द्वात्रिंशद्वारं जपन्
पिङ्गलया वायुमापूर्य ६४ वारं जपन् इडया वायुं रेचयेत् इति षट् प्राणायामा
भवन्ति । आत्मानं हृदयाम्भोजादानयेत्परमात्मनः । मनुना हंसदेवस्य
कुर्यान्न्यासादिकं ततः ॥ ॐ हंसः सोऽहम् अवतरावतर शिवपदात् जीवपदेन
सुषुम्नावर्त्मना मूलशृङ्गाटमुल्लसोल्लस ज्वलज्वल प्रज्वलप्रज्वल ॐ हंसः
सोऽहम् इति कुण्डलिनीरूपधारिणीं चिच्छक्तिं जीवात्मा सह सृष्टियोगेन
स्थानार्णदैवतैः सह सुषुम्नान्तर्वर्तिचित्राख्यनाडीमध्यमार्गेण
षट्चक्रभेदक्रमेण ब्रह्मरन्ध्रता मूलाधारमानीय स्थापयेत् मूलाधारात्
जीवात्मानं हृदिस्थं चिन्तयेत् - इति भूतशुद्धिः ॥

अथ प्राणप्रतिष्ठा । ॐ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः
ऋग्यजुःसामानि छन्दांसि चैतन्यरूपा प्राणशक्तिर्देवता ॐ बीजं ह्रीं शक्तिः
क्रों कीलकं प्राणस्थापने विनियोगः इति यथास्थानं विन्यस्य अं कं खं गं
घं ङम् आम् आकाशवायुतेजोजलपृथिव्यात्मने अङ्गुष्ठाभ्यां नमः । इं चं
छं जं झं ञम् ईं शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां नमः । उं
टं ठं डं ढं णम् ऊं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने
मध्यमाभ्यां नमः । एं तं थं दं धं नम् ऐं
वाक्पाणिपादपायूपस्थात्मने अनामिकाभ्यां नमः । ॐ पं फं बं भं
मम् औं वचनादानविसर्गानन्दगमनात्मने कनिष्ठिकाभ्यां नमः । अं यं
रं लं वं शं षं सं हं लं क्षम् अः चित्तबुद्धिमनोऽहङ्कारात्मने
करतलकरपृष्ठाभ्यां नमः । एभिरेव जातियुक्तैः षडङ्गानि । आं नमः
नाभेश्चरणपर्यन्तं ह्रीं नमः हृदयान्नाभिपर्यन्तं क्रों नमः
मूर्धादिहृदयपर्यन्तम् । यं त्वगात्मने नमः रम् असृगात्मने नमः । लं
मांसात्मने नमः वं मेदा-आत्मने नमः शम् अस्थ्यात्मने नमः षं
मज्जात्मने नमः सं शुक्रात्मने नमः हं प्राणात्मने नमः लं जीवात्मने
नमः क्षं परमात्मने नमः । एवं विन्यस्य प्राणशक्तिं ध्यायेत् ।

प्। ८८)

रक्ताब्धिपोतारुणपद्यसंस्थां पाशाङ्कुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ ५-१ ॥

इति ध्यात्वा । ॐ ऐं ह्रीं श्रीं ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं
हों सोऽहं हंसः श्रीमन्महात्रिपुरसुन्दर्याः प्राणा इह प्राणाः ३० जीव इह
स्थिता ३० सर्वेन्द्रियाणि ३० वाङ्मनश्चक्षुस्त्वक्श्रोत्रघ्राणप्राणा इहागत्य सुखं
चिरं तिष्ठन्तु स्वाहा इति ज्ञानमुद्रया हृदि हस्तं दत्त्वा वारत्रयं पठेत् । ॐ
आं हंसः इति सर्वानन्दमयं देहं दृढं चिन्तयेत् (अन्तर्बहिःस्थ)
प्रधानदेवतात्मकमात्मानं चिन्तयेत् - इति प्राणप्रतिष्ठा ॥

इति श्रीमहामहोपाध्यायभगवत्पूज्यपादश्रीगोविन्दाचार्यशिष्य-
श्रीभगवच्छङ्कराचार्यशिष्य - श्रीविष्णुशर्माचार्यशिष्य-
श्रीप्रगल्भाचार्यशिष्य - श्रीविद्यारण्यतिविरचिते श्रीविद्यार्णवाख्ये तन्त्रे
पञ्चमः श्वासः ॥ ५ ॥