सिद्धिलक्ष्मीनित्यपूजापद्धति

ऊन्चोम्प्लेते
ॐ नमः शिवादि गुरुभ्यो नमः ॥ श्रीकुब्जिका देव्यै नमः ॥
अथ पश्चिमदेवार्च्चनम् ॥ गुरुमण्डलसलायिसतय ॥
बलिकोटह्नायता खट्कोण ॥ अर्घपात्रयता त्रिकोण ॥
जलपात्रयतामण्डले ॥ वोय ॥ स्नान ॥
ऐँ ५ स्नानं पादुकाम् ॥ ऐँ चन्दनं ३ ॥ सिन्दूरं ३ ॥ पुष्पं ३ ॥ आचम्य ॥
ऐँ ५ ह्राँ आत्मतत्वाय स्वाहा ॥ ऐँ ५ ह्रीँ विद्यातत्वाय स्वाहा ॥
ऐँ ५ ह्रूँ शिवतत्वाय स्वाहा ॥

गुरु नमस्कारम् ॥
ऐँ ह्रीँ श्रीँ ह्स्फ्रेँ ह्सौँः ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।

प्। १अ) तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
गुरुर्ब्रह्मा गुरुर्व्विष्णुर्गुरुदेवो महेश्वरम् ।
गुरुदेवो जगत्सर्व्वं तस्मै श्रीगुरवे नमः ॥
ऐँ ५ परमगुरुभ्यो नमः ॥ परमेष्ठीगुरुभ्यो नमः ॥
परमाचार्य्यगुरुभ्यो नमः ॥
ऐँ ५ अर्घपात्रासनाय २ ॥ पद्मासनाय २ ॥ जलपात्रासनाय २ ॥
आत्मय ऐँ ५ कूर्म्मासनाय पादुकाम् ॥
किणि २ विच्चे को"न्कणायै ह्रः अस्त्राय फट् ॥ लातिने ॥
वज्रमुद्रया ललाटे त्रिभ्रमनम् ॥ ५ ऐँ हूँ फट् वज्रपञ्जरे स्वाहा ३ ॥

प्। १ब्) दशद्वार शोधनम् ॥
ऐँ चलमकुले कुलमचले ऐँ ह्राँ ह्रीँ हूँ फट् स्वाहा ॥
न्यासः ॥
५ किणि २ विच्चे को"न्कणायै ह्रः अस्त्राय फट् ॥ ४ ॥

करशोधनम् ॥
ऐँ ५ नमो भगवति हृत्कमलायै ह्राँ श्री-अङ्गुष्ठाभ्यां नमः ॥
५ ह्स्फ्रेँ कुब्जिकायै कुलदीपायै ह्रीँ तर्ज्जनीभ्यां स्वाहा ॥
५ ह्राँ ह्रीँ ह्रूँ वर्व्वरशिखे ह्रूँ श्रीमध्यमाभ्यां वषट् ॥
५ घोरे अघोरे अघोरामुखी बहुरूपायै ह्रैँ श्री-अनामिकाभ्यां हूँ ॥
५ छाँ छीँ महन्तारिकायै ह्रौँ श्रीकनिष्ठाभ्यां वौषट् ॥

प्। २अ) ५ किणि २ विच्चे को"न्कणायै ह्रः अस्त्राय फट् करतरपृष्ठायै पादुकाम्

इति करं न्यासः ॥

ऐँ ५ नमो भगवति हृत्कमलायै ह्राँ उर्द्धवक्त्राय पादुकाम् ॥
५ ह्स्फ्रेँ कुब्जिकायै कुलदीपायै ह्रीँ श्रीपूर्व्ववक्त्राय ३ ॥
५ ह्राँ ह्रीँ ह्रूँ वर्व्वरशिखे ह्रूँ श्रीदक्षिणवक्त्राय ३ ॥
५ घोरे अघोरे अघोरामुखी बहुरूपायै ह्रैँ श्री-उत्तरवक्त्राय ३ ॥
५ छाँ छीँ महन्तारिकायै ह्रौँ श्रीपश्चिमवक्त्राय ३ ॥
५ किणि २ विच्चे को"न्कणायै ह्रः श्रीपरापरवक्त्राय ३ ॥

प्। २ब्) इति वक्त्रं न्यासः ॥

ऐँ ५ नमो भगवति हृत्कमलायै ह्राँ श्रीहृदयाय नमः ॥
५ ह्स्फ्रेँ कुब्जिकायै कुलदीपायै ह्रीँ शिरसे स्वाहा ॥
५ ह्राँ ह्रीँ ह्रूँ वर्व्वरशिखे ह्रूँ शिखायै वषट् ॥
५ घोरे अघोरे अघोरामुखी बहुरूपायै ह्रैँ श्रीकवचाय हूँ ॥
५ छाँ छीँ महन्तारिकायै ह्रौँ श्रीनेत्रत्रयाय वौषट् ॥
५ किणि २ विच्चे को"न्कणायै ह्रः अस्त्राय फट् ॥
इति अङ्गं न्यासः ॥

जलपात्रपूजा ॥ ऐँ ५ जलपात्रासनाय पादुकाम् ॥

प्। ३अ) ह्स्क्ष्म्ल्व्र्यूँ आनन्दशक्ति भैरवानन्द वीराधिपतये श्क्ष्म्ल्व्र्यीँ
श्रीजलपात्रभट्टारिकाय पादुकाम् ॥
ह्राँ हृदयाये नमः इत्यादि षडङ्गेन सम्पूज्य ॥
आवाहनादि धेनुमुद्रां दर्शयेत् ॥ गायत्री ॥
ऐँ ५ कुब्जिकायै विद्महे कुलदीपायै धीमहि तन्नः कुब्जि प्रचोदयात् ॥
तेन मन्त्रेन जलेन सर्व्वद्रव्याणि सम्प्रोक्ष ॥ आत्मशिरसि सिञ्चयेत् ॥
५ अर्घपात्रासनाय पादुकाम् ॥
५ ह्राँ ह्रीँ ह्रूँ प्रस्फुर २ घोर २ तरतनु २ रूपचट २ प्रचट २

प्। ३ब्) कह २ वम २ दम २ घाटय २ विधाटय २ विघ्नि २ हूँ ३ फट्
श्रीकोमारिका विच्चे पादुकाम् ॥
५ श्क्ष्म्ल्व्र्यीँ आनन्दशक्ति भैरवानन्द विराधिपतये
श्रीमहाविद्याराजेश्वरी ह्स्क्ष्म्ल्व्र्यूँ श्री-अर्घपात्रभट्टारिकाय ३ ॥
ह्राँ हृदयाय नमः इत्यादि सम्पूज्य ॥ आवाहनादि योनिमुद्रां दर्शयेत् ॥
अर्घपात्र स्थित पुष्पं गृहीत्वा कच्छपमुद्रया भूतशुद्धिं कुर्य्यात् ॥
ऐँ ह्रीँ श्रीँ ह्स्फ्रेँ ह्सौँः ॥ अनेन मन्त्रेण लोमविलोमेन कारयेत् ॥
इति भूतशुद्धिः ॥

प्। ४अ) ततः स्वात्मपूजा ॥
ऐँ विलेपनं पादुकाम् ॥ ह्रीँ त्रितत्व अक्षतं ३ ॥
श्रीँ वीरभश्म ३ ॥ ह्स्फ्रेँ सर्व्वजनमोहनी ३ ॥
ह्सौँ नानाछत्रालङ्कार पुष्पं ३ ॥
५ ह्स्क्ष्म्ल्व्र्यूँ आनन्दशक्ति भैरवानन्द विराधिपतये श्क्ष्म्ल्व्र्यीँ
आत्ममूर्त्तये ३ ॥ कुसौं पादुकाम् ॥ बिन्दुत्रय ३ शिरसिञ्चयेत् ॥

आवाहन ॥
ऐँ ५ श्रीसम्वर्त्तामण्डलान्ते क्रमपदसहितानन्दशक्तिः सुभीमा
सृष्टिं न्याये चतुष्कम् अकुलकुलगतं पञ्चकञ्चान्यषट्कम् ।
चत्वारो

प्। ४ब्) पञ्चकोन्यं पुनरपि चतुरं तत्ततो मण्डलेन
संसृष्टं येन तस्मै नमति गुरुवरं भैरवं श्रीकुजेशम् ॥
ऐँ इदम् आवाहय आवाहयामि ॥
५ अलूँ अनन्तमण्डलाय आदिदेवताय ३ ॥
५ ह्स्क्ष्म्ल्व्र्यूँ आ श्क्ष्म्ल्व्र्यीँ पा २ ॥
त्रिदेव ॥
५ नरासनाय ३ ॥ मयूरासनाय ३ ॥ मूषासनाय ३ ॥
थ्रौँ प्रस्तरद्वीप दम्भकी देवी महाध्वाङ्क्ष क्षेत्रपालाय ३ ॥ बलि ॥
५ श्रीँ ह्रीँ कुलपुत्रवटुकनाथाय पा २ ॥ बलि ॥
गाँ गीँ गूँ गः ग्लौँ कुलगणेश्वराय ३ ॥ बलि ॥

प्। ५अ) आवाहनादि दण्ड तर्जनी गजमुद्रां दर्शयेत् ॥
ऐँ ५ पद्मासनाय ३ ॥ ऐँ ५ ह्स्क्ष्म्ल्व्र्यूँ आनन्दशक्ति भैरवानन्द
वीराधिपतये श्क्ष्म्ल्व्र्यीँ श्रीत्रिशुद्धिभट्टारिकाय ३ ॥ बलिः ॥
ऐँ ५ पद्मासनाय ३ ॥ ५ नरासनाय ३ ॥
ह्रूँ आनन्दशक्ति भैरवानन्द वीराधिपतये स्रूँ श्रीनवात्मा
गुरुमण्डलभट्टारिकाय पादुकां पूजयामि ॥
त्रिधा ३ ॥ बलिः ३ ॥ योनिमुद्रा ॥
५ नमः श्रीनाथाय ॥ नमः श्रीसिद्धिनाथाय ॥ नमः श्रीकुजेशनाथाय न

प्। ५ब्) खायै वषट् ॥ ह्रैँ कवचाय हूँ । ह्रौँ नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
इति षडङ्गानि पूजयित्वा ।

ह्राँ ह्रीँ सः इत्यष्टधा जप्त्वा तेनैव मन्त्रेण पुष्पाञ्जलि त्रयं दत्वा ।
तत्पात्रं कराभ्यां गृहीत्वा ह्रीँ हं सः मार्त्तण्डभैरवाय
प्रकाशशक्तिसहिताय एषोर्घ्यः स्वाहा ।
इति सूर्य्यार्घ्य दत्वा ।
अर्घ्योदकेन ह्रीँ नम इति द्वारमभ्युक्ष्य? द्वारपूजां कुर्य्यात् ॥
द्वाराभावे मनसाद्वारं विचिन्त्य पूजयेत् ॥

अथ द्वारपूजा ॥
ऊर्द्धोडुम्बरे ॥
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ गाँ गण

षोंए फ़ोऴीओष् आऋए ंईष्षीण्ङ् फ़ृओं ःएऋए (६-१०)

प्। ११अ) पतये नमः ।

तद्दक्षे ।
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ मँ महालक्ष्म्यै नमः ॥
तद्वामे ।
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ सँ सरस्वत्यै नमः ॥ दक्षिणशाखायाम् ॥
ऐँ ५ गाँ गणेशाय नमः ॥ वामशाखायाम् ॥
ऐँ ५ क्षाँ क्षेत्रपालाय नमः ॥ द्वारपार्श्वयोः ॥
ऐँ ५ वाँ वटुकाय नमः । ऐँ ५ गँ गङ्गायै नमः ॥
ऐँ ५ याँ योगिन्यै नमः ॥ ऐँ ५ यँ यमुनायै नमः ॥
अधः अस्त्राय नमः ॥
अशक्तश्चेत् ॥ ऐँ ५ गणेशादि द्वाराधिष्ठित द्वारदेवताभ्यो नमः इति पूजयेत्

ततो वामपद पुरःसरं

प्। ११ब्) पूजा गृहं प्रविश्य ॥
ऐँ ५ ॐ रक्ष रक्ष हूँ फट् स्वाहा । इति पूजा भूमिं शोधयेत् ॥
ततो नै-ऋत्याम् । ऐँ ५ ॐ वास्तुपुरुषाय नमः ।
ऐँ ५ ॐ ब्रह्मणे नमः इति पूजयित्वा मूलमन्त्रेण दिव्यदृष्ट्यावलोकयन्
दिव्यान् विघ्नानुत्सार्य्य ह्रीँ अस्त्राय फट् इति जलेनान्तरीक्षगान् विघानुत्सार्य्य
फट् इति वामपार्ष्णिघात त्रयेन भौमान् विघ्नान् उत्सार्य्य ऐँ ५ फट् इति
अक्षतं सप्तधा सञ्जप्य
ॐ अपसर्प्पन्तु ये भूता ये भूता भुवि संस्थिताः ।

प्। १२अ) ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥
इत्यक्षतान् चतुर्द्दिक्षु विकिरेत् ॥

ततः ऐँ ५ ह्रीँ आधारशक्तये कमलासनाय नम इत्यासनं सम्पूज्य
ॐ आसनस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्म्मो देवता आसनपरिग्रहे
विनियोगः ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारये मां नित्यं पवित्रं कुरु चासनम् ॥
इति पठित्वा स्वस्तिकादि क्रमेन उपविशेत् ॥

ततः पुटाञ्जलिर्भूत्वा वामे

प्। १२ब्) ॐ गुरुभ्यो नमः । ॐ परमगुरुभ्यो नमः ।
ॐ परापरगुरुभ्यो नमः । ॐ परमेष्ठिगुरुभ्यो नमः ॥
दक्षिणे ॥ ॐ गणेशाय नमः । मध्ये । ॐ श्रीँ सिद्धिलक्ष्म्यै देवतायै नमः ।

ततः ह्सौँ हूँ फट् इति गन्धपुष्पाभ्यां करौ संशोध्य ह्रीँ अस्त्राय फट्
इति ऊर्द्धोर्द्धे तालत्रयं दत्वा फट् इति छोटिकाभिर्द्दिग्बन्धनं कृत्वा ।
ॐ हूँ फट् रक्ष रक्ष हूँ फट् स्वाहा । इति मन्त्रेणात्म रक्षां विधाय
भूतशुद्धिं कुर्य्यात् ॥

अथ भूतशुद्धिः ॥

प्। १३अ) वम् इति जलधारया अग्निप्राकारं विचिन्त्य
अङ्के उत्तानौ करौ कृत्वा सोहमिति जीवात्मानं दीपकलिकाकारं
हृत्पद्ममध्ये विचिन्त्य ऐँ इति योनिमुद्रया मूलाधारे कुण्डलिनीं विभाव्य
हूँ इति कुण्डलिनीं समुत्थाप्य जीवात्मानं कुण्डलिन्या सह सुषुम्ना
वर्त्मन । मूलाधार स्वाधिष्ठान मणिपूरक अनाहत विशुद्ध आज्ञाख्य
षट्चक्राणि भित्वा शिरोवस्थिताधोमुख सहस्रदलकमल

प्। १३ब्) कर्ण्णिकान्तर्गत परमात्मनि तत्तत्संयोज्य तत्रैव पृथिव्यप्तेजो
वाय्वाकाश गन्धरसरूपस्पर्शगन्धनासिका जिह्वा चक्षुस्त्वक्श्रोत्र
वाक्पाणि पादपायूपस्थ प्रकृति मनोबुद्ध्यहङ्कार चतुर्विंशति तत्वानि
लीनानि विभाव्य यम् इति वायुबीजं धूम्रवर्ण्णं वामनासापुटे विचिन्त्य
तस्य षोडशवारजपेन वायुना देहमापूर्य्य नासापुटौ धृत्वा तस्यैव
चतुःषष्ठिवारजपेन कुम्भकं कृत्वा

प्। १४अ) वामकुक्षिस्थ कृष्णवर्ण्ण पापपुरुषेण सह देहं संशोष्य
तस्य द्वात्रिंशद्वार जपेन दक्षनासया वायुं रेचयेत् ॥

ततो दक्षनासापुटे रँ इति वह्निबीजं रक्तवर्ण्णं ध्यात्वा
तस्य षोडशवारजपेन देहमापूर्य्य नासापुटौ धृत्वा तस्य
चतुःषष्ठिवारजपेन कुम्भकं कृत्वा पापपुरुषेण सहदेहं दग्ध्वा
तस्य द्वात्रिंशद्वार जपेन वामनासया भस्मना सह वायुं रेचयेत् ॥

ततो ठम् इति चन्द्रबीजं शुक्लवर्ण्णं वामनासिकायां

प्। १४ब्) ध्यात्वा तस्य षोडशवार जपेन ललाटे चन्द्रं नीत्वा नासापुटौ
धृत्वा वम् इति वरुणबीजस्य चतुःषष्ठिवार जपेन तस्माल्ललाट चन्द्र * *?
पलितसुधया मातृकावर्ण्णात्मिकया समस्तं देहं विरचर्य्य
लम् इति पृथ्वीबीजस्य द्वात्रिंशद्वार जपेन देहं सुदृढं विचिन्त्य
दक्षिणेन वायुं रेचयेत् ॥

ततः हं सः इति मन्त्रेण जीवात्मानं परशिव संयोज्य सोहम् इति मन्त्रेण
यथास्थानमानयेत् ॥
ततः प्राणप्रतिष्ठा ॥ मूलमन्त्रे प्राणशक्तिरूपां स्वेष्टदेवतां

प्। १५अ) विभाव्य लेलिहान मुद्रया हृदयं स्पृष्ट्वा आँ क्रोँ ह्रीँ हं सः मम
प्राणा इह प्राणाः आँ क्रोँ ह्रीँ हं सः मम जीव इह स्थितेः
आँ क्रोँ ह्रीँ हं सः मम सर्व्वेन्द्रियाणि
आँ क्रोँ ह्रीँ हं सः मम वा"न्मनश्चक्षुः श्रोत्रघ्राण प्राणा इहागत्व
सुखं चिरं तिष्ठन्तु स्वाहा ॥

ततः ॐ आः सोहम् इति मन्त्रेण ज्योतिर्मयं स्वदेहं भावयेत् ॥

ततो मातृका न्यासः ॥
ॐ अस्य मातृकामन्त्रस्य ब्रह्मा ऋषि गायत्रीछन्दः मातृका सरस्वती
देवताहलो बीजानि स्वराशक्तयो अव्यक्त कीलकं लिपिन्यासे विनियोगः ॥

प्। १५ब्) ततः ऋष्यादि न्यासः ॥ शिरसि ब्रह्मणे ऋषये नमः ।
मुखे गायत्रीछन्दसे नमः । हृदि मातृका सरस्वत्यै देवतायै नमः ।
गुह्ये हलेभ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यः शक्तिभ्यो नमः ।
सर्व्वाङ्गे अव्यक्ताय कीलकाय नमः ॥

अथ कराङ्ग न्यासौ ॥
अँ कँ खँ गँ घँ “नँ आँ अङ्गुष्ठाभ्यां नमः ॥
इँ चँ छँ जँ झँ ञँ ईँ तर्जनीभ्यां स्वाहा ॥
उँ टँ ठँ डँ ढँ णँ ऊँ मध्यमाभ्यां वषट् ।
एँ तँ थँ दँ धँ नँ ऐँ अनामिकाभ्यां हूँ ।
ओँ पँ फँ बँ भँ मँ औँ कनिष्ठाभ्यां वौषट् ।
अँ यँ रँ लँ वँ शँ षँ

प्। १६अ) सँ हँ लँ क्षँ अः करतलपृष्ठाभ्यां फट् ॥
अँ कँ खँ गँ घँ “नँ आँ हृदयाय नमः ।
इँ चँ छँ जँ झँ ञँ ईँ शिरसे स्वाहा ।
उँ टँ ठँ डँ ढँ णँ ऊँ शिखायै वषट् ।
एँ तँ थँ दँ धँ नँ ऐँ कवचाय हूँ ।
ओँ पँ फँ बँ भँ मँ औँ नेत्रत्रयाय वौषट् ।
अँ यँ रँ लँ वँ शँ षँ सँ हँ लँ क्षँ अः अस्त्राय फट् ॥

अथान्त मातृका न्यासः ॥
आधारे लिङ्ग नाभौ हृदय सरसिजे तालुमूले ललाटे
द्वेपत्रे षोडशारे द्विदश दशदले द्वादशाद्धे चतुष्के ।
वासान्ते वालमध्ये ड फकठ सहिते कण्ठदेशे स्वराणां

प्। १६ब्) हक्षौ कोदण्डमध्ये न्यसतु विमलधीर्न्याससंवित्ति सिद्ध्यै ॥
इत्येवं ध्यात्वा

अँ नमः । आँ नमः । इँ नमः । ईँ नमः । उँ नमः । ऊँ नमः । ऋँ नमः ।
ॠँ नम । ऌँ नमः । ॡँ नमः । एँ नमः । ऐँ नमः । ओँ नमः । औँ नमः ।
अँ नमः । अः नमः ॥
इति षोडशदलकमले कण्ठे न्यसेत् ॥

कँ नमः । खँ नमः । गँ नमः । घँ नमः । “नँ नमः । चँ नमः ।
छँ नमः । जँ नमः । झँ नमः । ञँ नमः । टँ नमः । ठँ नमः ॥
इति द्वादशदलकमले हृदि न्यसेत् ॥
डँ नमः । ढँ नमः । णँ नमः ।

प्। १७अ) तँ नमः । थँ नमः । दँ नमः । धँ नमः । नँ नमः । पँ नमः । फँ
नमः ।
इति दशदलकमले नाभौ न्यसेत् ॥

बँ नमः । भँ नमः । मँ नमः । यँ नमः । रँ नमः । लँ नमः ॥
इति षड्दलकमले (मनिपूरे) लिङ्गमूलाख्ये न्यसेत् ॥

वँ नमः । शँ नमः । षँ नमः । सँ नमः ॥
इति चतुर्द्दलकमले मूलाधारे न्यसेत् ॥

हँ नमः । क्षँ नमः ॥ इति द्विदलकमले भ्रूमध्ये न्यसेत् ॥

ततो वहिर्मातृकान्यासः ॥

ध्यानम् ॥
पञ्चाशल्लिपिभिर्व्विभक्तमुखदोः यन्मध्य वक्षस्थलां
प्। १७ब्) भास्वन्मौलिनिबद्धचन्द्र सकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजै-
र्व्विभ्राणां विशदप्रभां त्रिनयनां वाग्देवता माश्रये ॥
एवं ध्यात्वा न्यसेत् ॥

अँ नमो ललाटे । आँ नमो मुखे । इँ नमो दक्षनेत्रे । ईँ नमो वामनेत्रे ।
उँ नमो दक्षकर्ण्णे । ऊँ नमो वामकर्ण्णे । ऋँ नमो दक्षनसि । ॠ नमो
वामनसि ।
ऌँ नमो दक्षगण्डे । ॡँ नमो वामगण्डे । एँ नमः ओष्ठे । ऐँ नमः अधरे ।
ओँ नमः ऊर्द्धदन्ते । औँ नमः अधोदन्ते ।

प्। १८अ) अँ नमो ब्रह्मरन्ध्रे । अः नमो मुखे । कँ नमो दक्षबाहुमूले ।
खँ नमः कुर्प्परे । गँ नमः मणिबन्धे । घँ नमः अङ्गुलिमूले ।
“नँ नमः अङ्गुल्यग्रे । चँ नमः वामबाहुमूले । छँ नमः वामकुर्परे ।
जँ नमः वाममणिबन्धे । झँ नमो वामाङ्गुलिमूले । ञँ नमो
वामाङ्गुल्यग्रे । टँ नमः दक्षपादमूले । ठँ नमः जङ्घायाम् । डँ
नमो जानुनि । ढँ नमः घुठिके । णँ नमः पादाङ्गुल्यग्रे । तँ नमः
वामपादमूले । थँ नमः वामजङ्घायाम् । दँ नमः वामजानुनि ॥

प्। १८ब्) धँ नमः वामघुटिके । नँ नमः वामपादाङ्गुल्यग्रे ।
पँ नमो दक्षपार्श्वे । फँ नमो वामपार्श्वे । बँ नमः पृष्ठे ।
भँ नमो नाभौ । मँ नमो जठरे । यँ नमो हृदि । रँ नमो दक्षस्कन्धे ।
लँ नमो वामस्कन्धे । वँ नमः ककुदि । शँ नमो हृदादि दक्षकरे ।
षँ नमो हृदादि वामकरे । सँ नमो हृदादि दक्षपादे । हँ नमो हृदादि
वामपादे । लँ नमो हृदाद्युदरे । क्षँ नमो हृदादि मुखे ॥
सर्व्वत्र श्रीबीजादि नमोन्तं न्यसेत् ॥

ततः पीठन्यासः ॥ हृदि ॥
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ आधारशक्तये नमः ॥ ऐँ ५

प्। १९अ) कूर्म्माय नमः । ऐँ ५ अनन्ताय २ । ऐँ ५ पृथिव्यै २ ।
ऐँ ५ क्षीरसमुद्राय २ । ऐँ ५ सप्तद्वीपाय २ । ऐँ ५ मणिमण्डपाय २ ।
ऐँ ५ कल्पवृक्षाय २ । ऐँ ५ रत्नसिंहासनाय २ ॥
दक्षस्कन्धे ऐँ ५ धर्म्माय २ । वामस्कन्धे ऐँ ५ ज्ञानाय २ ।
वामोरौ ऐँ ५ वैराग्याय २ । दक्षोरौ ऐँ ५ ऐश्वर्य्याय २ ।
मुखे ऐँ ५ अधर्म्माय २ । वामपार्श्वे ऐँ ५ अज्ञानाय २ ।
नाभौ ऐँ ५ अवैराग्याय २ । दक्षपार्श्वे ऐँ ५ अनैश्वर्य्याय ॥
पुनर्हृदि ऐँ ५ अनन्ताय २ । ऐँ ५ पद्माय २ । ऐँ ५ अँ सूर्य्यमण्डलाय
द्वादशकलात्मने २ ।

प्। १९ब्) ऐँ ५ उँ सोममण्डलाय सोडशकलात्मने २ ।
ऐँ ५ मँ वह्निमण्डलाय दशकलात्मने नमः ।
ऐँ ५ सँ सत्वाय २ । ऐँ ५ रँ रजसे २ । ऐँ ५ तँ तमसे नमः । ऐँ ५ आँ आत्मने २ ।
ऐँ ५ अँ अन्तरात्मने २ । ऐँ ५ पँ परमात्मने २ । ऐँ ५ ह्रीँ ज्ञानात्मने २ ॥
हृत्पद्ममध्ये केशरे च ॥
ऐँ ५ जयायै २ । ऐँ ५ विजयायै २ । ऐँ ५ अजितायै २ । ऐँ ५ अपराजितायै २ ।
ऐँ ५ नित्यायै २ । ऐँ ५ विलासिन्यै २ । ऐँ ५ दोग्ध्र्यै २ । ऐँ ५ अघोरायै २ ।

प्। २०अ) ऐँ ५ मङ्गलायै २ ॥ कर्ण्णिकायाम् ऐँ ५ ह्रीँ श्रीँ पद्मासनाय २ ॥

अथ मूलबीजेन प्राणाय त्रयं कृत्वा ऋष्यादि न्यासं कुर्य्यात् ॥
ऐँ ५ अस्य सिद्धिलक्ष्मी मन्त्रस्य त्रिलोचन ऋषिर्जगतीछन्दः
श्रीसिद्धिलक्ष्मीर्द्देवता श्रीँ बीजं ह्रीँ शक्तिः हूँ कीलकं
चतुर्व्वर्गसाधने विनियोगः ॥ शिरसि त्रिलोचन ऋषये नमः । मुखे जगतीछन्दसे
नमः । हृदि सिद्धिलक्ष्म्यै देवतायै नमः । गुह्ये श्रीँ बीजाय नमः पादयोः
ह्रीँ शक्तये

प्। २०ब्) नमः सर्व्वाङ्गे हूँ कीलकाय नमः ॥

ततः कराङ्गन्यासौ ॥
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ ॐ परमहंसिनि अङ्गुष्ठाभ्यां नमः ।
ऐँ ५ ॐ निर्व्वाणमार्गदे देवि तर्जनीभ्यां स्वाहा ।
ऐँ ५ ॐ विषमोपप्लवशमनि मध्यमाभ्यां वषट् ।
ऐँ ५ ॐ सकलदुरितारिष्ट क्लेशदलनि अनामिकाभ्यां हूँ ।
ऐँ ५ ॐ सर्व्वापदाम्भोधितरणि कनिष्ठिकाभ्यां वौषट् ॥
ऐँ ५ ॐ सकलशत्रु (ध्वंसिनि) प्रमथनि * * *? करतलपृष्ठाभ्यां फट् ॥
ऐँ ५ ॐ परमहंसिनि हृदयाय नमः ।
ऐँ ५ ॐ निर्व्वाणमार्गदे

प्। २१अ) देवि शिरसे स्वाहा । ऐँ ५ ॐ विषमोपप्लवशमनि शिखायै वषट् ।
ऐँ ५ ॐ सकलदुरितारिष्ट क्लेशदलनि कवचाय हूँ ।
ऐँ ५ ॐ सर्व्वापदाम्भोधितरणि नेत्रत्रयाय वौषट् ।
ऐँ ५ ॐ सकलशत्रुध्वंसिनि अस्त्राय फट् ॥

ततो वक्त्रन्यासः ॥
पूर्व्ववक्त्रे ।
ऐँ ५ ऐँ नमः सर्व्वसिद्धि योगिनीभ्य ईशानवक्त्राय नमः ।
दक्षिणवक्त्रे ॥
ऐँ ५ ऐँ नमः सर्व्वसिद्धि मातृभ्यस्तत्पुरुषवक्त्राय नमः ॥
ऐँ ५ ऐँ ह्रीँ नित्योदितानन्द नन्दितायै अघोरवक्त्राय नमः ॥
पश्चिममुखे ॥

प्। २१ब्) ऐँ ५ ऐँ सकलकुलचक्रनायिकायै वामदेववक्त्राय नमः उत्तरमुखे ॥
ऐँ ५ ऐँ भगवत्यै चण्डकपालिन्यै सद्योजातवक्त्राय नमः ॥ इत्यूर्द्धमुखे ॥
एवं विन्यस्य मूलेन प्राणायामं कृत्वा मूलेन मूर्द्धादि पादान्तं
पादादि मूर्द्धान्तं वापि क * *? कृत्वा ।
ऐँ इति योनिमुद्रां प्रदर्श्य कूर्म्ममुद्रां वध्वा हृदयकमले
कर्ण्णिकामध्ये देवीं ध्यायेत् ॥

ध्यानम् ॥
पञ्चवक्त्रं दशभुजां पीनोन्नतपयोधराम् ।
तडित्कोटिसमप्रख्यां सिन्दूरारुणविग्रहाम् ॥

प्। २२अ) अक्षमालां कपालं च शूलं खड्गं च विभ्रतीम् ।
खेटं घण्टां स्वर्ण्णपाशं साङ्कुशं वरदा भये ॥
नीलग्रीवां चन्द्रमौलिं त्रिनेत्रां सर्प्पभूषणाम् ।
सर्व्वसिद्धिप्रदां देवीं सिद्धिलक्ष्मी विचिन्तये ॥

एवं ध्यात्वा मानसोपचारैः पूजयेत् ॥

हृत्पद्ममध्ये देवीं विभाव्य कुण्डलिनी पात्रसंस्थ
जलेन पाद्यं देव्याश्चरणाम्बुजे दद्यात् ।
तत आचमनीयं दत्वा सहस्रदलकमलभृङ्गारललित
परामृतजलेनाचमनीयं मुखे दत्वा अर्घ्यं स्नानीयं च दत्वा
पञ्चविंशति

प्। २२ब्) तत्वात्मकं चन्दनम् अहिंसां विज्ञानं क्षमां दयाम्
अलोभम् अमोहम् अमात्सर्य्यम् अमायाम् अनहङ्कारम् अरागम् अनघम्
अद्वेषम् इन्द्रियानि दश एतानि पुष्पाणि । वायुं धूपं तेजोरूपं दीपम्
अम्बरं चामरं सूर्य्यं दर्प्पणं चन्द्रं छत्रं पद्मं च
मेखलाम् आनन्दं हारमुक्कूलम् अनाहत ध्वनि मयीं घण्टां
सुधारसां बुधिं मांसं पर्व्वतं मनोनर्त्तकमत्तालि
शृङ्गारौदिरसैर्नृत्यैगीतैर्वाद्यैः स्वेष्टदेवीं सन्तोष्य रसात्मकं
नैवेद्यं दत्वा आत्मनो भेदेन

प्। २३अ) यथाशक्ति मूलमन्त्रं मनसा जप्त्वा देवतां सन्तुष्टां विचिन्तयेत्

ततो वहिःपूजामारभेत् ॥

अत्र स्वसम्प्रदायानुसारेण शिवपूजां कुर्य्यात् ॥

ततः सामान्यार्घ्य स्थापनम् ॥
जलेन त्रिकोणं वृत्तं चतुरस्रं मण्डलमालिख्य
ॐ मण्डलाय नमः इति मण्डलं सम्पूज्य तत्राधारं संस्थाप्य
ह्रीँ आधार शक्तये नमः इत्याधारं सम्पूज्य मूलेन
शुद्धजलेनापूर्य्य मूलेन गन्धपुष्पाक्षतादिकं निक्षिप्य
क्रोँ इत्यङ्कुशमुद्रया तीर्थ कल्पयित्वा
ऐँ ५ ॐ परमहंसिनि हृदयाय

प्। २३ब्) नमः इत्यादि क्रमेन षडङ्गानि सम्पूज्य
वँ इति धेनुमुद्रयामृतीकृत्य हूँ इत्यवगुण्ठयित्वा मूलमष्टधा जपेत्
तज्जलेन मूले आत्मानमभ्युक्ष्ययेत् ॥

अथ विखेषार्घ्यस्थापनम् ॥
तत्रात्मदेवतयोर्मध्ये सामान्यार्घ्यजलेन त्रिकोणं षट्कोणं वृत्तं
चतुरस्रं चतुर्द्वारयुक्तं मण्डलमालिख्य त्रिकोणमध्ये मूलेन
सम्पूज्य त्रिकोणस्य प्रथमकोणे ॐ श्रीँ नमः । द्वितीयकोणे ॐ ह्रीँ नमः ।
तृतीयकोणे । ॐ हूँ नमः इति सम्पूज्य षट्कोणे षडङ्गाणि सम्पूज्य
ऐँ ५ मण्डलाय

प्। २४अ) नम इति मण्डलं सम्पूज्य
ऐँ ५ मँ वह्निमण्डलाय दशकलात्मने अर्घ्यपात्राधाराय नम
इत्याधारं संस्थाप्य ह्रीँ आधारशक्तये नम इति सम्पूज्य तत्र
वह्नेर्द्दशकलाः पूजयेत् ॥
ऐँ ५ यँ धूम्रायै २ । ऐँ ५ रँ नीलायै २ । ऐँ ५ लँ कपिलायै २ ।
ऐँ ५ वँ स्फुलिङ्गिन्ये २ । ऐँ ५ शँ ज्वालिन्यै २ । ऐँ ५ षँ हैमवत्यै २ ।
ऐँ ५ सँ हव्यवहायै २ । ऐँ ५ हँ कव्यवहायै २ । ऐँ ५ लँ रात्र्यै २ ।
ऐँ ५ क्षँ सङ्कर्षिण्यै २ । इति सम्पूज्य
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ फट् इति पात्रं प्रक्षाल्य आधारे संस्थाप्य
ऐँ ह्रीँ

प्। २४ब्) श्रीँ ख्फ्रेँ ह्सौँ अँ सूर्य्यमण्डलाय
द्वादशकलात्मने ऽर्घ्यपात्राय नम इति सम्पूज्य तत्र वृत्ताकारेण
सूर्य्यस्य द्वादशकलाः पूजयेत् ॥
ऐँ ५ कँ भँ तपिन्यै २ । ऐँ ५ खँ बँ तापिन्यै २ । ऐँ ५ गँ फँ धूम्रायै २ ।
ऐँ ५ घँ पँ मरीच्यै २ । ऐँ ५ “नँ नँ ज्वालिन्यै २ । ऐँ ५ चँ धँ रुच्यै २ ।
ऐँ ५ छँ दँ सुषुम्नायै २ । ऐँ ५ जँ थँ भोगदायै २ । ऐँ ५ झँ तँ विश्वायै २ ।
ऐँ ५ ञँ णँ बोधिन्यै २ । ऐँ ५ ढँ टँ धारिण्यै २ । ऐँ ५ ठँ डँ क्षमायै २ ।
इति सम्पूज्य मूलेन

प्। २५अ) जलेनापूर्य्य
ऐँ ५ ॐ सोममण्डलाय षोडशकलात्मने अर्घ्यामृताय नमः
इति सम्पूज्य तत्र वृत्ताकारेण चन्द्रस्य सोडशकलाः पूजयेत् ॥

ऐँ ५ अँ अमृतायै २ । ऐँ ५ आँ मानदायै २ । ऐँ ५ इँ पूषायै २ । ऐँ ५ ईँ तुष्ट्यै २ ।
ऐँ ५ उँ पुष्ट्यै २ । ऐँ ५ ऊँ रत्यै २ । ऐँ ५ ऋँ धृत्यै २ । ऐँ ५ ॠँ शशिन्यै २ ।
ऐँ ५ ऌँ चन्द्रिकायै २ । ऐँ ५ ॡँ कान्तायै २ । ऐँ ५ एँ ज्योत्स्नायै २ । ऐँ ५ ऐँ श्रियै २ ।
ऐँ ५ ओँ प्रीत्यै २ । ऐँ ५ औँ अङ्गदायै २ । ऐँ ५ अँ पूर्ण्णायै २ । ऐँ ५ अः

प्। २५ब्) पूर्ण्णामृतायै २ ।
इति सम्पूज्य क्रोँ इत्यङ्कुशमुद्रया तीर्थमावाह्य वँ इति
धेनुमुद्रयामृतीकृत्य हूँ इत्यवगुण्ठ्य ह्रीँ इति मत्स्यमुद्रया आच्छाद्य ऐँ
इति योनिमुद्रां प्रदर्श्य ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ ॐ परमहंसिनि हृदयाय
नम इत्यादिना षडङ्गानि सम्पूज्य मध्ये हं सः आत्मने नमः ।
हसक्षमलवरयूँ आनन्दभैरवाय वषट् नमः ।
हसक्षमलवरयीँ सुधादेव्यै वौषट् नम
इति सम्पूज्य पूर्व्वादिक्रमेण पञ्चरत्नं पूजयेत् ॥
ऐँ ५ ग्लूँ गगण

प्। २६अ) रत्नेभ्यो नमः ।
ऐँ ५ स्लूँ स्वर्गरत्नेभ्यो नमः । ऐँ ५ प्लूँ पातालरत्नेभ्यो नमः ॥
ऐँ ५ म्लूँ मत्यरत्नेभ्यो नमः । ऐँ ५ न्लूँ नागरत्नेभ्यो नम इति मध्ये
सम्पूज्य मूलमष्टधा जप्त्वा तत्र देवीमावाह्य नैवेद्यं विना
पञ्चोपचारैः सम्पूज्य मूलं दशधा जप्त्वा जपं समर्प्य
ऐँ इति योनिमुद्रां प्रदर्श्य ब्रह्ममयं तज्जलं विभाव्य किञ्चित्तज्जलं
सामान्यार्घ्ये निधाय मूलेन तज्जलेनात्मानं त्रिवारमभ्युक्ष्य
पूजाद्रव्याणि तज्जलेन मूलेन त्रिः अभ्युक्ष्य मूलेन वीक्ष्य पुनः

प्। २६ब्) फट् इति त्रिःप्रोक्ष्य फट् इति सन्ताड्य । हूँ इति अभ्युक्ष्य वँ इति
धेनुमुद्रयामृतीकृत्य हूँ इत्यवगुण्ठ्य ऐँ इति योनिमुद्रां प्रदर्श्य
सर्व्वं ब्रह्ममयं विभावयेत् ॥

ततः सामान्यार्घ्य विधिना पाद्यादि पात्रं स्थापयेत् ॥
ततो यन्त्रे मण्डले वा पीठपूजां कुर्य्यात् ॥

अथ पीठपूजा ॥
पीठस्योत्तरे वायव्यादीशानपय्यन्तं गुरुपङ्क्तिं पूजयेत् ॥
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ श्रीगुरुभ्यो नमः ।
ऐँ ५ परमगुरुभ्यो नमः । ऐँ ५ परापरगुरुभ्यो २ । ऐँ ५ परमेष्ठिगुरुभ्यो २ ।

प्। २७अ) ऐँ ५ दिव्यौघेभ्यो २ । ऐँ ५ सिद्धौघेभ्यो २ ।
ऐँ ५ मानवौघेभ्यो नमः ॥

ततः पीठमध्ये ॥
ऐँ ५ आधारशक्तये २ । ऐँ ५ कूर्माय २ । ऐँ ५ शेषाय २ । ऐँ ५ पृथिव्यै २ ।
ऐँ ५ क्षीरसमुद्राय २ । ऐँ ५ श्वेतद्वीपाय २ । ऐँ ५ मणिमण्डपाय २ ।
ऐँ ५ कल्पवृक्षाय २ । ऐँ ५ मणिवेदिकायै २ । ऐँ ५ रत्नसिंहासनाय २ ।
अग्निकोणे ऐँ ५ धर्माय २ । नै-ऋत्ये ऐँ ५ ज्ञानाय २ । वायव्ये ऐँ ५ वैराग्याय २
। ईशाने ऐँ ५ ऐश्वर्य्याय २ । पूर्व्वादि चतुर्द्दिक्षु ।

प्। २७ब्) ऐँ ५ अधर्माय २ । ऐँ ५ अज्ञानाय २ । ऐँ ५ अवैराग्याय २ ।
ऐँ ५ अनैश्वर्याय २ ॥ पुनर्मध्ये ऐँ ५ अनन्ताय २ । ऐँ ५ पद्माय २ । ऐँ ५ अँ
सूर्य्यमण्डलाय द्वादशकलात्मने २ । ऐँ ५ उँ
सोममण्डलाय षोडशकलात्मने २ । ऐँ ५ मँ वह्निमण्डलाय दशकलात्मने
२ ।
ऐँ ५ सँ सत्वाय २ । ऐँ ५ रँ रजसे २ । ऐँ ५ तँ तमसे २ । ऐँ ५ आँ आत्मने २ ।
ऐँ ५ अँ अन्तरात्मने २ । ऐँ ५ पँ परमात्मने २ । ऐँ ५ ह्रीँ ज्ञानात्मने २ ।

प्। २८अ) त्रिकेणोपरिपूर्व्वादिषु ॥
ऐँ ५ जयायै २ । ऐँ ५ विजयायै २ । ऐँ ५ अजितायै २ । ऐँ ५ अपराजितायै २ ।
ऐँ ५ नित्यायै २ । ऐँ ५ विलासिन्यै २ । ऐँ ५ दोग्ध्र्यै २ । ऐँ ५ अघोरायै २ ।
मध्ये ऐँ ५ मङ्गलायै २ । तदुपरि ऐँ ५ ह्सौँः ह्रीँ श्रीँ सदाशिव
महाप्रेतासनाय २ । ततो यन्त्रोपरिदेव्यामूर्त्ति कल्पनम्
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ ह्रीँ श्रीँ सौः श्रीसिद्धिलक्ष्मीमूर्तिं कल्पयामि नम
इति कल्पित मूर्त्तौ देवीमावाहयेत् । तत्र देवीं पूर्व्ववत् ध्यात्वा ।
ऐँ इति योनिमुद्रां बध्वा पुष्पाञ्जलिना मूलमूच्चार्य

प्। २८ब्) प्रवहन्नासापुटेन तेजोरूपां देवीमावाहयेत्
ह्रीँ श्रीँ महापद्मवनान्तस्थे परमानन्दविग्रहे ।
सर्व्वभूताहते मातरे ह्येहि परमेश्वरि ॥
इत्यावाह्य ऐँ ५ सिद्धिलक्ष्मिदेवि इहागच्छ २ ।
ऐँ ५ सिद्धि० देवि इह तिष्ठ २ । ऐँ ५ सिद्धि० देवि इह सन्निधे हि २ ।
ऐँ ५ सिद्धि० देवि इह सन्निरुध्य स्व २ ऐँ ५ सिद्धि० देवि इह सम्मुखी भव २ ।
ऐँ ५ ॐ परमहंसिनि हृदयाय नमः इत्यादि षडङ्ग मन्त्रेण सकलीकृत्य
हूँ इत्यवगुण्ठ्य वँ इति धेनुमुद्रयाऽमृतीकृत्य

प्। २९अ) ऐँ इति योनिमुद्रां प्रदर्श्य इत्यावाहनादिमुद्रां दर्शयित्वा
प्राणप्रतिष्ठां कुर्य्यात् ।
आँ ह्रीँ क्रोँ श्रीसिद्धिलक्ष्म्याः प्राणा इह प्राणाः
आँ ह्रीँ क्रोँ श्रीसिद्धिलक्ष्म्या जीव इह स्थितः
आँ ह्री क्रोँ श्रीसिद्धिलक्ष्म्या वा"न्मनश्चक्षुः गोत्रघ्राण प्राणाः
सर्व्वेन्द्रियाणि इहागत्य सुखञ्चिरं तिष्ठं तु स्वाहा ।
इति प्राणप्रतिष्ठां कृत्वा हस्ते देवतां स्पृष्ट्वा मूलं त्रिर्जपेत् ।
ततो मूलमुच्चार्य्य श्रीसिद्धिलक्ष्मीदेवि क्षमस्वेत्यञ्जलीं बध्वा
परमीकरणं कृत्वा मूलेन विशेषार्घ्यजलेन

प्। २९ब्) देवीं त्रिःप्रोक्षयेत् ॥

ततो यथाशक्त्युपचारैः पूजयेत् ॥
मूलमुच्चार्य्य श्रीसिद्धिलक्ष्मी देव्यै इदमासनं श्रीपादुकां पूजयामि
नमः इति पुष्पाञ्जलि रूपमासनं दत्वा इदमासनं श्रीसिद्धिलक्ष्मी देव्यै
निवेदयामि नमः इति जलं दद्यात् ।
सर्व्वत्रोपचारे एवमेवार्घ्योदकेनोत्सृजेत् ॥
ततो मूलमुच्चार्य्य श्रीसिद्धिलक्ष्मी देवि स्वागतासीति स्वागतं कुर्य्यात् ॥
मूल श्रीसिद्धिलक्ष्मी देव्यै एतत्पाद्यं श्रीपादुकां पूजयामि नमः ॥
मूल श्री० देव्यै एषार्घ्यः श्री

प्। ३०अ) पादु० स्वाहा ।
मूल० श्री० देव्यै इदमाचमनीयं श्रीपादु० स्वधा ॥
मूल० श्री० देव्यै एषमधुपर्क्कः श्रीपादु० स्वाहा ॥
मूल० श्री० देव्यै इदं पुनराचमनीयं श्रीपादु० सुधा ।
मूल० श्री० देव्यै एतत् स्नानीयं श्रीपादु० नमः ॥
मूल० श्री० देव्यै एष चन्दनगन्धः श्रीपादु० ॥
मूल० श्री० देव्यै एतद्रक्तचन्दनं श्रीपादु० ॥
मूल श्री० देव्यै इदं सिन्दूरं श्रीपादु० ॥
मूल श्री० देव्यै एतत् पुष्पं श्रीपदु० वौषट् ॥
ततो मूलेन पुष्पाञ्जलि त्रयं श्री० देवि श्रीपादुकां पूजयामि नमः ॥

ततो देव्यामूर्द्ध्नि हृदि मध्याङ्गे

प्। ३०ब्) चरणयोः सर्व्वाङ्गे पञ्चपुष्पाञ्जलिं दत्वा मूलमुच्चार्य्य
तवावरणात् पूजयामि आज्ञापय इत्याज्ञां गृहीत्वा आवरणपूजां
कुर्य्यात् ॥

अग्नीसा सुरवायव्ये मध्ये दिक्षु च ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ ॐ परमहंसिनि
हृदयाय नमः इत्यादिना षडङ्गानि पूजयेत् ॥
ततो वाह्य चतुरस्रे पूर्व्वादितः ॥ ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ इन्द्राय नमः ।
ऐँ ५ अग्नये २ । ऐँ ५ यमाय २ । ऐँ ५ नै-ऋतये २ । ऐँ ५ वंरुणाय २ । ऐँ ५ वायवे २ ।
ऐँ ५ कुबेराय २ । ऐँ ५ ईशानाय २ । ऐँ ५

प्। ३१अ) ब्रह्मणे २ ऊर्द्धे । ऐँ ५ अनन्ताय २ अधः ॥

ततो मध्ये ॥ ऐँ ५ क्षाँ श्रीक्षेत्रपालाय नमः ।
मूलमुच्चार्य्य श्रीसिद्धिलक्ष्मीदेवि श्रीपादुकां पूजयामि नमः इति
क्षेत्रपालसहितां मूल देवीं पूजयेत् ॥

ततो दक्षिणद्वारे ॥
ऐँ ५ गणपतिनाथ श्रीपादु० । ऐँ ५ गणपतिवल्लभाम्बा श्रीपादु० ॥
पश्चिमद्वारे ॥
ऐँ ५ वलोत्कटक्षेत्रपालनाथ श्रीपादु० ।
ऐँ ५ सर्व्वसंहारिणी वलोत्कटक्षेत्रपालवल्लभाम्बा श्रीपादुकाम् ॥
उत्तरद्वारे ॥
ऐँ ५ वटुकनाथ श्रीपादु० ।

प्। ३१ब्) ऐँ ५ वटुकनाथवल्लभाम्बा श्रीपादु० ॥
पूर्व्वद्वारे ॥
ऐँ ५ सिद्धियोगिनि श्रीपादु० ॥ ऐँ ५ ओङ्कारनाथ श्रीपादु० ।
ऐँ ५ वृक्षसङ्कटनाथ श्रीपादु० । ऐँ ५ महाकरवीरश्मशाननाथ
श्रीपादु० ॥

ततः पूर्व्ववीथ्याम् ॥
ईशानादाग्नेय पर्य्यन्तम् ॥ ऐँ ५ श्रीवीरनाथ श्रीपादुकाम् ॥
ऐँ ५ दशकण्ठनाथ श्रीपादु० । ऐँ ५ वशिष्ठनाथ श्रीपादु० ।
ऐँ ५ श्रीजयद्रथनाथ श्रीपादु० ।
दक्षिणवीथ्याम् ॥
ऐँ ५ कङ्कालदेवसहितां मतङ्गी देवीं श्रीपादु० ।
ऐँ ५ वीरावली देवि श्रीपादु० ।

प्। ३२अ) पश्चिमवीथ्याम् ॥
ऐँ ५ त्रिभुवननाथ श्रीपादु० । ऐँ ५ सिद्धिनाथ श्रीपादुकां० ।
ऐँ ५ खड्गनाथ श्रीपादु० ।
उत्तरवीथ्याम् ॥
ऐँ ५ आनन्दनाथ श्रीपादु० । ऐँ ५ नित्यानन्दनाथ श्रीपादु० ।
ईशाने ॥
ऐँ ५ जँ जम्भिनीदेवी श्रीपादु० ॥
आग्नेये ॥
ऐँ ५ तँ स्तम्भिनीदेवी श्रीपादु० ॥
नैरित्ये ॥
ऐँ ५ माँ मोहिनीदेवी श्रीपादु० ॥
वायव्ये ॥
ऐँ ५ आँ आकर्षिणीदेवी श्रीपादु० ॥
अष्टदले ब्रह्माण्यादिपूजा ॥

ततो द्वादशदले ॥
ऐँ ५ शिवादेवी श्रीपादु० ॥ ऐँ ५ भगवतीदेवी श्री

प्। ३२ब्) पादु० । ऐँ ५ मायादेवी श्रीपादु० । ऐँ ५ भद्रादेवी श्रीपादु० ।
ऐँ ५ किनि किनि देवी श्रीपादु० । ऐँ ५ विमलादेवी श्रीपादु० ।
ऐँ ५ यमजिह्वादेवी श्रीपादु० । ऐँ ५ त्वक्षकत्व दक्षिणीदेवी श्रीपादु० ।
ऐँ ५ घण्टोदरीदेवी श्रीपादु० । ऐँ ५ चौलमातादेवी श्रीपादु० ।
ऐँ ५ श्रीकिङ्किणीदेवी श्रीपादु० । ऐँ ५ श्रीकाकिनीदेवी श्रीपादु० ॥
द्वादशदलपूजा ॥

ततोष्टदले ॥
ऐँ ५ अँ ब्रह्माणी असिताङ्गभैरवसहिता श्रीपादु० ।
ऐँ ५ कँ माहेश्वरी रुरुभैरवसहिता श्रीपादु० ।

प्। ३३अ) ऐँ ५ चँ कौमारी चण्डभैरवसहिता श्रीपादु० ।
ऐँ ५ टँ वैष्णवी क्रोधभैरवसहिता श्रीपादु० ।
ऐँ ५ तँ वाराही उन्मत्तभैरवसहिता श्रीपादु० ।
ऐँ ५ पँ इन्द्राणी कपालीभैरवसहिता श्रीपादु० ।
ऐँ ५ यँ चामुण्डा भीषणभैरवसहिता श्रीपादु० ।
ऐँ ५ शँ महालक्ष्मी संहारभैरवसहिता श्रीपादु० ॥

ततो वृत्तत्रये ॥
ऐँ ५ आध्यात्मिक तापशमनाय आत्मतत्वाय नमः ॥
ऐँ ५ आधिभौतिकतापशमनाय विद्यातत्वाय नमः ॥

प्। ३३ब्) ऐँ ५ आधिदैविकतापशमनाय शिवतत्वाय नमः ॥
ततः षट्कोणेषु पूर्व्वादितः ॥
ऐँ ५ डाँ डाकिनि श्रीपादु० । ऐँ ५ राँ राकिनि श्रीपादु० ।
ऐँ ५ लाँ लाकिनि श्रीपादु० । ऐँ ५ काँ काकिनि श्रीपादु० ।
ऐँ ५ शाँ शाकिनि श्रीपादु० । ऐँ ५ हाँ हाकिनि श्रीपादुकाम् ॥

ततस्त्रिकोणस्य दक्षकोणे ॥
ऐँ ५ जँ ब्राह्मी शक्तिसहिताय जालन्धरपीठाय नमः ॥
वामकोणे ॥
ऐँ ५ यूँ वैष्णवी शक्तिसहिताय पूर्ण्णगिरिपीठाय नमः ॥
अग्रकोणे ॥

प्। ३४अ) ऐँ ५ काँ मौद्री शक्तिसहिताय कामरूपपीठाय नमः ॥
त्रिकोणोपरि ॥
ऐँ ५ ओँ क्षेत्रपालसहिताय ओड्यानपीठाय नमः ॥

ततो मूलेन पुष्पाञ्जलि त्रयेन मूलदेवीं पूजयेत् ॥

ततो विशेषार्घ्योदकमादाय
ऐँ ५ सर्व्वानन्दमये चक्रे परापराम्बा सकलमन्त्रतत्वात्मिका भगवती
श्रीसिद्धिलक्ष्मीदेवी सायुधा सवाहना साङ्गा सपरिवारा परापरया
सपर्य्यया पूजिता तर्पिता सन्तुष्टा भवतु मां रक्ष तु स्वाहा
इत्यर्घोदकाक्षतपुष्पैः

प्। ३४ब्) देव्याहस्ते समर्प्पयेत् ॥

ततो मूलेन पुष्पाञ्जलि त्रयं दत्वा मूलेन सायुधां सवाहनां
साङ्गां सावरणां श्रीसिद्धिलक्ष्मीदेवीं श्रीपादुकां तर्पयामि नमः
स्वाहा इति विशेषाघ्योदकेन त्रिः तर्पयेत् ॥

ततो मूलेन सायुधां सवाहनां साङ्गां सपरिवारां श्री० देवीं
पूजयामि नम इति त्रिःपुष्पाञ्जलित्रयेण सम्पूज्य
ऐँ इति योनिमुद्रां प्रदर्शयेत् ॥

ततः स्वसम्प्रादायानुक्रमेन देवार्च्चनं कुर्य्यात् ॥

ततो धूपादि दानम् ॥

प्। ३५अ) फट् इति धूपपात्रं सामान्यार्घ्यजलेन प्रोक्ष्य
ह्रीँ धूपभाजनाय नम इम इति गन्धपुष्पाक्षतै सम्पूज्य
ह्रीँ जय ध्वनिमन्त्रमातः स्वाहा इति गन्धादिभिर्घण्टां सम्पूज्य
धूपं दत्वा वँ इति धेनुमुद्रां प्रदर्श्य
हूँ इत्यवगुण्ठ्य मूलेन दशधा जप्त्वा वामहस्तेन घण्टां वादयन्
तर्जन्यङ्गुष्ठया धूपपात्रं धृत्वा मूलमुच्चार्य्य
एष धूपः श्री० देव्यै श्रीपादु० ॥

वनस्पति रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्व्वदेवानां धूपोयं प्रतिगृह्यताम् ॥
तथैव दीपपात्रं संशोध्य पूजयित्वा मूल०
एष दीपः श्री० देव्यै श्रीपादु० ॥

सुप्रकाशो महादीपः सर्व्वत्र तिमिरापहः ।
प्। ३५ब्) सवाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रतिगृह्यताम् ॥

ततो मूलेन पुष्पाञ्जलि त्रयं दत्वा नैवेद्यमानीय
फट् इति अर्घ्यजलेन प्रोक्ष्य ह्रीँ इति चक्रमुद्रयाभिरक्ष्य
वँ इति धेनुमुद्रयामृतीकृत्य हूँ इत्यवगुण्ठ्य ऐँ इति योनिमुद्रां प्रदर्श्य
मूलमष्टधा जप्त्वा मूलेन एतत्सोपकरणं नैवेद्यं श्री० देव्यै
श्रीपादु० ॥
हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।
पञ्चधा षड्ड्रसोपेतं गृहाणपरमेश्वरि ॥
इति

प्। ३६अ) निवेद्य मूल एतदाचमनीयं श्री० देव्यै श्रीपादु० सुधा
इत्याचमनं दत्वा मूल० । एतत् ताम्बूलं श्रीदेव्यै श्रीपादु० ॥
तत् पूर्व्ववत् त्रिः तर्पयेत् ॥

मूलेन पुष्पाञ्जलि त्रयं दत्वा
ऐँ इति योनिमुद्रां प्रदर्शयेत् ॥

ततो बलिदानम् ॥ त्रिकोणवृत्त चतुरस्रं मण्डलमालिख्य
ऐँ ५ ऐँ ह्रीँ व्यापकमण्डलाय नम इति सम्पूज्य
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ मूल० श्रीसिद्धिलक्ष्मिदेवि इमं पूजा बलिं गृह्न २
हूँ २ फट् स्वाहा ॥

ततो भूतबलिः ॥ पूर्व्ववन्मण्डलं पूजयित्वा

प्। ३६ब्) ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ ॐ ह्रीँ सर्व्वविघ्नकृद्भ्यः
सर्व्वभूतेभ्यो हूँ फट् स्वाहा ॥

ततो वटुकादि बलिम् ॥
ईशाने त्रिकोणवृत्तमण्डलं कृत्वा वाँ वटुकाय नमः
इति मण्डलं पूजयित्वा ॥

ह्रीँ एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभारभासुर त्रिनेत्र ज्वालामुख
सर्व्वविघ्नान् नाशय २ सर्व्वोपचारसहितं बलिं गृह्न २ स्वाहा ॥
ततो चाङ्गुष्ठानामिकामुद्रां दर्शयेत् ॥
ततो वायव्ये ॥ याँ योगिनीभ्यो नम इति मण्डलं

प्। ३७अ) सम्पूज्य
ह्रीँ ऊर्द्धं ब्रह्माण्डतो वा दिविगगणतले भूतले निःकले वा
पाताले वानले वा पवनसलिलयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृत पदा धूपदीपादि मांसैः प्रीता देव्यः
सदानः शूभ बलि विधिना पां तु वीरेन्द्र वन्द्याः ॥
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ याँ सर्व्वयोगिनीभ्यो हूँ फट् स्वाहा ॥
वामाङ्गुष्ठतर्जनीमध्यमानामिकाभिर्योन्याकारेण मुद्राः प्रदर्शयेत्

नै-ऋत्ये क्षाँ क्षेत्रपालाय नम

प्। ३७ब्) इति मण्डलं सम्पूज्य

क्षाँ क्षीँ क्षूँ क्षैँ क्षौँ क्षः क्षेत्रपाल बलिं गृह्न २ स्वाहा ॥
वाममुष्टेस्तर्जनीं शरलां कृत्वा मुद्रां दर्शयेत् ॥
आग्नेये ॥ गाँ गणपतये नम इति मण्डलं पूजयित्वा
गाँ गीँ गूँ गैँ गौँ गः गणपतये वरवरद सर्व्वजनं मे वशमानय
बलिं गृह्न २ स्वाहा ॥

ख्फ्रेँ शिवा भगवती चैव माया भद्रा तथैव च ।
किङ्किणि विमलाश्चैव यमजिह्वा त्व कर्षणी ॥
घण्टोदरी चौरमाता किङ्किणी काकिनी तथा ।
सिद्धिलक्ष्मी त्रयोदश्यां बलिं गृह्नन्तु ते सदा ॥
सर्व्वविघ्नि विनाशाय सर्व्वशत्रु निवारणम् ।
सिद्धिलक्ष्मीश्च ते नित्यं सर्व्वासापरिपूरणी ॥

सिद्धिलक्ष्मी देव्यै इमां पूजां बलिं गृह्न २ हूं २ फट् स्वाहा ॥
वाममुष्टि मध्यमाङ्गुलिं दन्तवत् कृत्वा मुद्रां दर्शयेत् ॥

तत आरात्रिक दानम् ॥
स्वर्ण्णादि निर्मितपात्रे चन्दनाष्टपत्रं विलिख्य दीपं प्रज्वाल्य

प्। ३८अ) फट् इति प्रोक्ष्य वँ इति धेनुमुद्रयामृतीकृत्य हूँ इत्यवगुण्ठ्य
ऐँ इति योनिमुद्रां प्रदर्श्य ह्रीँ नम इति गन्धादिना सम्पूज्य श्रीँ ह्रीँ ग्लुँ
स्लुँ म्लुँ प्लुँ न्लुँ ह्रीँ श्रीँ मूलम् इति पुन पूज्य मूलमष्टधाभिशोध्य
दक्षहस्तेनोद्धृत्य वामहस्तेन घण्टां वादयन् मूलमुच्चार्य्य नवधा
नीराजयेत् ॥

समस्तचक्रचक्रेशि देवतागण संवृते ।
आरात्रिकमिदं देवि गृहाण जगदीश्वरि ॥

ततो ह्रीँ इति चक्रमुद्रां दर्शयेत् ॥

ततो देवतां प्रसन्नां विभाव्य मानसोपचारैराराध्य
पञ्चपुष्पाञ्जलिं दत्वा जपं कुर्य्यात् ॥

प्। ३८ब्) अथ जपविधि ॥
मूलेन प्राणायामादि ऋष्यादि षडङ्ग न्यासान् कृत्वा देवा तां हृदये
ध्यात्वा जिह्वा शोधनम् ॥
श्रीँ श्रीँ श्रीँ इति ७ जिह्वायाम् ॥ दीपिनी ॥ ऐँ वद वद वाग्वादिनि ॐ ह्रीँ हूँ
क्लिन्ने क्लेदिनि हाँ फ्रेँ क्षौँ महामोक्षं कुरु २ क्रोँ नमः । इति जिह्वायां ७ ॥
क्रीँ हूँ स्त्रीँ हूँ फट् इति कुल्लुकां शिरसि ॥ ७ ॥
क्रीँ इति मुहां सेतुं कण्ठे ७ ॥ ॐ इति हृदि सेतुं ७ ॥
क्लीँ इति काकिनीं लिङ्गमूलाख्ये ७ ॥ ॐ अँ मूलम् ऐँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ ऌँ ॡँ

प्। ३९अ) एँ ऐँ ओँ औँ अँ अः कँ खँ गँ घँ “नँ चँ छँ जँ झँ
ञँ टँ ठँ डँ ढँ णँ तँ थँ दँ धँ नँ पँ फँ बँ भँ मँ यँ रँ लँ वँ
शँ षँ सँ हँ लँ क्षँ ॐ इति मणिपूरे नाभौ ७ ॥
ऐँ योनिमुद्रा मूलाधारे ७ ॥ ॐ मू ॐ इति सुतद्वय निवारणं ७ ॥

मन्त्रध्यानम् ॥
मूलादि ब्रह्मरन्ध्रान्तां सर्व्वां विद्यां विभावयेत् ।
सूर्य्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्व्विकाम् ।
देवता गुरुमन्त्राणामैक्यं सम्भावयेद्धिया ॥

एवं कृत्वा ॥ मालां गृहीत्वा
ऐँ श्रीँ अक्षमालिकायै नमः इति

प्। ३९ब्) सम्पूज्य मन्त्रार्थं मनसा चिन्तयन् देवतां हृदये ध्यात्वा
अष्टोत्तरशतं सहस्रं वा जपेत् ॥ पुनः प्राणायामि ऋष्यादि कराङ्ग
न्यासान् कृत्वा अङ्गमन्त्रान् सप्तवारं जप्त्वा ।
जपेदादौ जपेत् पश्चात् सप्तवारमनुक्रमात् ॥

ततो विशेषार्घ्यजलं पुष्पाक्षतादि युक्तं दक्षहस्ते निधाय तेजोरूपं
देव्याहस्ते जपं समर्पयेत् ॥
ॐ गुह्यादि गुह्य गोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

प्। ४०अ) इति जपं समर्प्य पुष्पाञ्जलि त्रयं दत्वा
स्तोत्र कवच सहस्रनामादि पठित्वा दण्डप्रणामादि नमस्कारान् विधाय
ऐँ इति योनिमुद्रया नमस्कृत्य देवतां प्रार्थयित्वा
विशेषार्घ्य जलेन देव्यै पूजां निवेदयेत् ॥
ॐ इतः पूर्व्वं प्राणबुद्धिदेह धर्म्माधिकारतो जाग्रत्स्वप्न सुषुप्ति
अवस्थासु मनसा वाचा कर्म्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्
स्मृतं यदुक्तं यत्कृतं तत्सर्व्वं ब्रह्मार्पणमस्तु

प्। ४०ब्) मामकीयं कर्म्म श्रीसिद्धिलक्ष्मी देवी चरणाम्बुजे समर्पयामि
नमः ॥

ततो विशेषार्घ्यं विसृज्य देवतोपरिभ्राम्य देव्यां सर्व्वं लीनं विभाव्य
संहारमुद्रया तेवतां हृदये विसृज्य प्राणामादि कृत्वा ईशाने
त्रिकोणवृत्तमण्डलं कृत्वा
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्सौँ हूँ फट् निर्माल्य स्थान वासिन्यै
उच्छिष्टचाण्डालिन्यै नम इति निर्माल्यं दत्वा गन्धादिना पूजयेत् ॥

ततो देवीपादोदकादिना आचम्य चन्दनपुष्पादि देवी निर्मा …