पराम्बार्चनचन्द्रिका

कृ०-१४४
परि०सं०-१३२२
नाम-पराम्बार्चनचन्द्रिका
पत्र-७४ पूर्ण
विषय-तन्त्र

पृ०)श्रीगणेशायनमः॥श्रीगुरुपराम्बादेवताभ्यान्नमः॥
वन्देश्रीगुरुनाथपादयुगलन्देवङ्गणानांविभुं
विद्यादातृविशारदांशशिमुखींश्रीशारदाम्बान्तथा।
श्रीविद्याक्रमपूजनंलघुतरङ्कुर्वेप्रमाणंसतां
बालानांव्यवसायिनांविविदुषांसद्भक्तियुक्तात्मनां॥
अत्रादौविद्योद्धारः।तन्त्रराजे।
हृत्प्राणेलाहंसदाहवह्निस्वैर्ललितेरिता॥
त्रिविधाहंसभेदेनशृणुताश्चयथाक्रमं॥
हंसाद्ययाद्यामध्यास्थादादिमध्यस्थहंसया॥

तृतीयाप्रकृतिःसैवतुर्यातैरन्त्यमायया।
साशुतुर्याभवेन्मुक्त्यैतिस्रोन्याःस्युश्चसम्पदे॥
इतित्रिपुरसुन्दर्याविद्यासम्यक्समीरिताः॥
हृत्सकारः।प्राणःककारः।इलालकारः।इतिवर्णत्रयंहंसोहकारः।दाहोरेफस्तेनयुक्तः।वह्निःईकारस्तद्युक्तः।स्वंअनुस्वारस्तेनमायाबीजं।एतेनशक्तिकूटजातं।हंसाद्ययाद्याहंसोहकाराद्योयस्याःसाशक्तिकूटस्यादौहकारन्दत्वावाग्भवञ्जातं।आदिमध्यस्थहंसयात्रशक्ति-

कूटस्यादौहकारयोजनेनहसमध्येत्रककारलकारयोर्मध्येहकारसंयोजनात्कामराजकूटम्भवति।एवन्तार्तीयवाग्भवकामराजकूटात्मासंहारसृष्टिस्थितिनोद्धारःकृतः।
ननुआदौतार्तीयमुद्धृतम्पश्चाद्वाग्भवकामराजावुद्धृतौमन्त्रक्रमेणकिमितिनोद्धृताउच्यते।सृष्ट्याद्यन्तक्रमोब्रह्मचारिणां।संहारान्तक्रमोयतीनां।स्थित्यन्तक्रमोगृहिणान्तिष्ठति।अत्रसृष्टिसंहारयोर्मध्येस्थितेःस्थितत्वात्।सर्वेषाञ्जपाधिकारार्थंस्थित्यन्त

पूर्वोद्धृतःमुक्तिहेतुत्वात्।तुर्यातैरत्यम्माययातैःसर्ववर्णैरन्त्यतमायया।तुर्यात्रयोदशाक्षररूपिणीभवतीत्यर्थः।तथाचोक्तमस्माभिःसौन्दर्यलहर्यां॥शिवःशक्तिःकामःक्षितिरथरविःशीतकिरणःस्मरोहंसःशक्रस्तदनुचरमामारहरयः॥अमीहृल्लेखाभिस्तिसृभिरवसानेषुघटिताभजन्त्येतेवर्णाजननितवनामावयवतां।इतिहादिविद्योद्धारः।
अथकादिविद्योद्धारःश्रिअथर्वणरहस्ये।कामो

योनिःकमलावज्रपाणिर्गुहाहसामातरिश्वाश्रमिन्द्रः।
पुनर्गुहासकलामाययाचपुरूच्येषाविश्वमातादिविद्या।तथाचास्माभिःसौदर्यलहर्यामुक्तं॥
स्मरंयोनिंलक्ष्मीन्त्रितयमिदमाद्येतवमनोर्निधायैकेनित्येनिरवधिमहाभोगरसिकाः॥
जपन्तित्वाञ्चिन्तामणिगुणनिबद्धाक्षवलयाःशिवाग्नौजुह्वन्तःसुरभिघृतधाराहुतिशतैरिति॥
अथक्रमः।तत्रश्रीमान्साधकेन्द्रोरात्रिशेषेसमुत्थायावश्यकीङ्क्रियाङ्कृत्वारात्रिवासःपरित्यज्यवासोन्तरं।परिधायसुखासनगतः

शिरसिगुरुन्ध्यात्वातत्पादुकावन्दनङ्कुर्यात्॥
ध्यानंयथा॥
ब्रह्माम्बुजेकर्णिकमध्यसंस्थेसिंहासनेसंस्थितदिव्यमूर्त्तिं॥
ध्यायेद्गुरुञ्चन्द्रशिलाप्रकाशञ्चित्पुस्तकाभीतिवरन्दधानं॥१॥
श्वेताम्बरंश्वेतविलेपपुष्पम्मुक्ताविभूषम्मुदितन्द्विनेत्रं॥
वामाङ्कपीठस्थितरक्तशक्तिम्मन्दस्मितंसान्द्रकृपानिधानं॥२॥
सहस्रदलपङ्कजेसकलशीतरश्मिप्रभंवराभयकराम्बुजंविमलगन्धपुष्पाम्बरं॥
प्रसन्नवदनेक्षणंसकलदेवतारूपिणंस्मरेछिरसिहंसगन्तदभिधानपूर्वङ्गुरुं॥३॥

इतिध्यात्वापादुकावन्दनङ्कुर्यात्।
यथा
ओंह्रींश्रींऐंह्रींश्रींह्स्ख्फ्रेंह्सौःहसक्षमलवरयूंसहक्षमलवरयींअमुकाम्बासहितामुकानन्दनाथह्सौःह्स्ख्फ्रेंश्रींह्रींऐंश्रींह्रींओंश्रीगुरुपादुकाम्पूजयामि।इतिसङ्घट्टमुद्रयानत्वामानसोपचारैःपूजयेद्यथा।
लम्पृथिव्यात्मकङ्गन्धंश्रीगुरुमूर्त्तयेकल्पयामिनमित्यङ्गुष्ठेनकनिष्ठिकांस्पृशेत्।
हंआकाशात्मकम्पुष्पंश्री०इतितर्जन्याङ्गुष्ठंस्पृशेत्।
यंवाय्वात्मकन्धूपंश्री०इत्यङ्गुष्ठेनतर्जनींस्पृशेत्।
रन्तेजात्मकन्दीपंश्री०इत्यङ्गुष्ठेनमध्यमांस्पृशेत्।

वममृतात्मकन्नैवेद्यंश्री०इत्यङ्गुष्ठेनअनामिकांस्पृशेत्।
उंसोमात्मकन्ताम्बूलंश्री०इतिसर्वाङ्गुलिभिरङ्गुष्ठंस्पृशेत्।
इत्युपचारैःपूजयित्वातच्चरणारविन्दमकरन्दधारयात्मदेहमभिषिक्तम्मत्वापञ्चमुद्राभिर्नत्वा।स्तम्भनञ्चतुरस्रञ्चमत्स्यङ्गोमुखमेवच॥
योनिमुद्रेतिविख्याताःपञ्चमुद्राःप्रकीर्त्तिताः॥
स्तुवीतपञ्चभिःश्लोकैर्यन्नित्यंसर्वसिद्धये॥
प्रातःप्रबोधसमयेजपात्सुदिवसम्भवेत्॥
नमोस्तुगुरवेतस्माइष्टदेवस्वरूपिणे॥
यस्यवागमृतंहन्तिविषंसंसारसञ्ज्ञिकं॥
नमस्तेनाथभगवन्शिवायगुरुरूपिणे॥

विद्यावतारसंसिध्यैस्वीकृतानेकविग्रह॥२॥
नवायनवरूपायपरमार्थैकरूपिणे॥
सर्वज्ञानतमोभेदभानवेचिद्घनायते॥३॥
स्वतन्त्रायदयाकॢप्तविग्रहायशिवात्मने॥
परतन्त्रायभक्तानाम्भव्यानाम्भव्यरूपिणे॥४॥
विवेकिनांविवेकायविमर्शायविमर्शिनां॥
प्रकाशिनाम्प्रकाशायज्ञानिनाञ्ज्ञानरूपिणे॥५॥
पुरस्तात्पार्श्वयोःपृष्ठेनमस्कुर्यामुपर्यधः॥
सदामच्चितरूपेणविधेहिभवदासनं॥६॥
ततोमूलादिब्रह्मरन्ध्रान्तम्बिसतन्तुतनीयसीं।

तेजोरूपाम्मूलमयीङ्कुण्डलिनींविभाव्यतत्।
प्रभाचित्रितन्देहंविभावयेत्।देव्यानिर्माल्यंविसृज्य।मूलविद्यायाऋष्यादिकरषडङ्गन्यासांश्चकृत्वा।हृदिदेवीन्ध्यात्वा।किञ्चिन्मूलञ्जपित्वा।तत्तेजसाज्वलद्दिव्यन्निजशरीरंविचित्यदेवीस्तोत्रमुदीरयेत्।यथा।
प्रातःस्मरामिजगताञ्जनन्याश्चरणाम्बुजं॥
श्रीमत्त्रिपुरसुन्दर्यानमितायाहरादिभिः॥१॥
प्रातस्त्रिपुरसुन्दर्यानमामिचरणाम्बुजं॥
हरिर्हरोविरिञ्चिश्चसृष्ट्यादीन्कुरुतेयतः॥२॥
प्रातस्त्रिपुरसुन्दर्यानमामिपदपङ्कजं॥
यत्पाद्यमम्बुशिरसिभातिगङ्गामहेशितुः॥३॥
प्रातःपाशाङ्कुशशरचापहस्तान्नमाम्यहं॥
उद्यदादित्यसङ्काशांश्रीमत्त्रिपुरसुन्दरीं॥४॥
प्रातर्नमामिपादाब्जंययेदन्धार्यतेजगत्।
यस्यास्त्रिपुरसुन्दर्यायत्प्रसादात्प्रवर्त्तते॥५॥
यःश्लोकपञ्चकमिदम्प्रातर्नित्यम्पठेन्नरः॥
तस्मैदद्यादात्मपदंश्रीमत्त्रिपुरसुन्दरी॥६॥
इतिस्तुत्वाजगत्धात्रीन्निजकृत्यंसमर्पयेत्॥
प्रातःप्रभृतिसायान्तंसायादिप्रातरन्ततः॥
यत्करोमिजगद्योनेतदस्तुतवपूजनं॥

इतिसमर्प्यावश्यकार्यार्थंआज्ञाम्प्रार्थयेत्॥
त्रैलोक्यचैतन्यमयेपरेशिश्रीसुन्दरित्वच्चरणाज्ञयैव॥
प्रातःसमुत्थायतवप्रियार्थंसंसारयात्रामनुवर्त्तयिष्ये॥१॥
संसारयात्रामनुवर्त्तमानन्त्वदाज्ञयाश्रीत्रिपुरेपरेशि॥
स्पर्धातिरस्कारकलिप्रमादभयानिमाम्माभिभवन्तुमातः॥२॥
जानामिधर्मन्नचमेप्रवृत्तिर्जानाम्यधर्मन्नचमेनिवृत्तिः॥
त्वयामहेशानिहृदिस्थयाहंयथानियुक्तोस्मितथाकरोमि॥३॥
इतिदेवीम्प्रार्थ्यगुरूपदेशेनज्ञानंसहजसिद्धमजपाजपन्निवेदयेत्॥
३मयापूर्वेद्युरहोरात्राचरितमुच्छ्वासनिःश्वासात्मकं

षट्शताधिकमेकविंशतिसहस्रमजपाजपम्मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञाब्रह्मरन्ध्रेषुस्थितेभ्योगणेशब्रह्मविष्णुरुद्रजीवात्मपरमात्मगुरुपादुकाभ्योयथाभागशःसमर्पयामिनमः।
३मूलाधारचतुर्दलस्थितायगणेशायषट्शतमजपाजपन्निवेदयामिनमः॥
३स्वाधिष्ठानषट्दलस्थितायब्रह्मणेषट्सहस्रमजपाजपन्नि०।
३मणिपूरदशदलस्थितायविष्णवेषट्सहस्रम०।
३अनाहतद्वादशदलस्थितायरुद्रायषट्सहस्रम०।
३विशुद्धचक्र

षोडशदलस्थितायजीवात्मनेकसहस्रम०।
३आज्ञाचक्रद्विदलस्थितायपरमात्मनेकस०।
३ब्रह्मरन्ध्रसहस्रदलकमलस्थितायैगुरुपादुकायैएकस०।
अनेनाखण्डजपेनश्रीमदखण्डानन्दश्रीराजेश्वरीप्रीयतां॥
ततःपुनस्तिथ्यादिसङ्कीर्त्यश्रीमद्राजराजेश्वरीप्रसादसिध्यर्थं॥
३अद्यसूर्योदयादारभ्याहोरात्रेणोच्छ्वासनिःस्वासात्मकंषट्शताधिकमेकविंशतिसहस्रसङ्ख्याकमजपाजपङ्करिष्यितिसङ्कल्प्य॥
अथन्यासः॥
तन्मन्त्रेणप्राणायामङ्कृत्वा।अस्यश्रीअजपामन्त्रस्यहंसृषिः।अव्यक्तगायत्रीछन्दः।परमहंसोदेवता।हम्बीजं।सःशक्तिः

सोहङ्कीलकं।प्रणवस्तत्वं।नमःस्थानं।हैमोवर्णः।उदात्तस्वरः।सर्वज्ञतासिद्धयेविनियोगःमोक्षार्थंवा।इतिऋष्यादिकंस्मरेत्न्यसेत्।
३हंसायृषयेनमः।शिरसि।
३अव्यक्तगायत्रीछन्दसेनमःमुखे।
३परमहंसायदेवतायैनमःहृदि।
३हम्बीजायनमःमूलाधारे।
३सःशक्तयेनमःपादयोः।
३सोहङ्कीलकायनमःनाभौ।
३ओङ्कारतत्वा०हृदि।
३तमःस्थानाय०मूर्ध्नि।
३हैमायवर्णाय०सर्वाङ्गे।
३उदात्तस्वराय०कण्ठे।
३ममसर्वज्ञतासिद्धयेवि०करसम्पुटेइतिवदेदितिऋष्यादिन्यासः।
३ह्सांअङ्गुष्ठाभ्यान्नमः।
३ह्सीन्तर्जनीभ्यान्नमः।
३ह्सूम्मध्यमाभ्यां०।
३ह्सैंअनामिका०

३ह्सौङ्कनिष्ठिकाभ्यां०।
३ह्सःकरतलपृष्ठाभ्यां०।
३ह्सांहृदयायनमः॥
३ह्सींशिरसेस्वाहा॥
३ह्सूंशिखायैवषट्॥
३ह्सैङ्कवचायहुं॥
३ह्सौन्नेत्रत्रयायवौषट्॥
३ह्सःअस्त्रायफट्॥
ध्यानं॥
द्याम्मूर्धानंयस्यविप्रावदन्तिखंवैनाभिञ्चन्द्रसूर्यौचनेत्रे।
दिशःश्रोत्रंयस्यपादौक्षितिञ्चध्यातव्योसौसर्वभूतान्तरात्मा॥
हंसिति२१वारञ्जप्त्वासमर्प्यभूमिम्प्रार्थयेत्।
समुद्रमेखलेदेविपर्वतस्तनमण्डले॥
विष्णुपत्निनमस्तुभ्यम्पादस्पर्शङ्क्षमस्वमे॥
ततोग्रामाद्बहिःनैरृत्यांयाम्यांवादिशिमलमूत्रोत्सर्गंशौचादिकंविधाय।अनिषिद्धदिनेषुविहितदन्तकाष्ठेन३क्लीङ्कामदेवाय

सर्वजनप्रियायनमितिमन्त्रेणदन्तान्विशोध्य।
३श्रीं।३ओंश्रींह्रींश्रीङ्कमलेकमलालयेप्रसीद२श्रींह्रींश्रींओम्महालक्ष्म्यैनमः।३श्रींह्रीङ्क्लीं।३श्रींसकलह्रीं।४एतैश्चतुभिर्मन्त्रैर्मुखम्प्रक्षालयेत्॥
ततःस्नानसामग्रीङ्गृहीत्वानद्यादौगत्वातीरम्प्रक्षाल्यसामग्रीन्तत्रनिधायस्वशाखोक्तविधिनास्नात्वातान्त्रिकस्नानमहङ्करिष्य।इतिसङ्कल्प्य।
मूलविद्ययाप्राणायामंविधायृष्यादिकरषडङ्गङ्कृत्वा।जलेगङ्गेचेति१क्रोमित्यङ्कुशमुद्रयासूर्यमण्डलात्तीर्थान्यावाह्यवमितिधेनुमुद्रयामृतीकृत्यमूलेनाभिमन्त्र्यतत्रश्री-

चक्रंविभाव्यतत्रदेवींस्मृत्वातत्पादालक्तकारुणञ्जलंविभाव्यादिक्षान्तैःशिरःप्रोक्ष्याघमर्षणंविधायमूलेनत्रिर्निमज्ज्यत्रिःशिरस्तनुञ्चकुम्भमुद्रयाप्रोक्षयेत्।कुम्भमुद्रायथा।
दक्षाङ्गुष्ठम्पराङ्गुष्ठेक्षिप्त्वाहस्तद्वयेनतु।सावकाशात्मिकाम्मुष्ठिङ्कुर्यात्साकुम्भमुद्रिका।वैदिकजलतर्पणान्तेदेवीम्मूलेनत्रिःसन्तर्प्यततस्तीरमागत्यमूलाभिमन्त्रितेधौतेवाससीपरिधायाचम्यमूलेनतिलकंविधाय।वैदिकसध्यानन्तरन्तान्त्रिकसध्यामाचरेति।यथा।
३क४आत्मतत्वंशोधयामिस्वाहा।३ह५विद्यातत्वंशो०।३स३शिवतत्वं

शो०।३क१४सर्वतत्वंशोधयामिस्वाहेतितत्वैराचम्यमूलेनशिखाम्बध्वागुर्वादिवन्दनपूर्वकम्मूलेनप्राणायामंविधाय।ऋष्यादिकरषडङ्गन्यासङ्कृत्वास्वपुरतोजलेक्रोमित्यङ्कुशमुद्रयासूर्यमण्डलात्तीर्थान्यावाह्यवमितिधेनुमुद्रयामृतीकृत्यमूलेनाष्टवारमभिमन्त्र्ययन्त्रंविभाव्यसम्पूज्यतज्जलंवामहस्तेगृहीत्वा।अकारादिक्षकारान्तैःसबिन्दुभिर्मातृकाक्षरैर्गलद्भिःप्रत्यक्षरंशिरःसम्प्रोक्ष्यमूलेनत्रिःप्रोक्ष्यतज्जलन्दक्षेआदाय३लंवंरंयंहम्मूलेनचत्रिःप्रोक्ष्यावशिष्टञ्जलंवामहस्तेआदायिडयाकृष्यस्वान्तस्थङ्कलुषम्प्रक्षाल्य

तत्कृष्णवर्णम्पिङ्गलयाविरेच्यदक्षहस्तेगृहीत्वास्ववामभागेज्वलद्वज्रशिलायां।ओंश्लीम्पशुहुम्फटितिपाशुपतास्त्रेणास्फाल्यहस्तौप्रक्षाल्याचमेत्।
ततोजलपूर्णाञ्जलिङ्गृहीत्वोत्थायगायत्र्यार्घ्यन्दद्यात्।
३प्रथमकूटन्त्रिपुरादेवीविद्महे।द्वितीयकूटङ्कामेश्वरीधीमहि।तृतीयकूटन्तन्नःशक्तिःप्रचोदयात्।इतित्रिः।ह्रांह्रींहंसःइतिसूर्यायार्घ्यन्दत्वा।मूलेनसूर्यमन्त्रेणचत्रिःसन्तर्प्यसोहमस्मीत्युपस्थायाचम्यसन्ध्याजपङ्कुर्यात्।यथा।
गुर्वादिवन्दनप्राणायामृष्यादिषडङ्गंविधायगायत्रीञ्जपेत्।
आदौकालनित्याआईहंसःपश्चाद्गायत्रीएवङ्कालनित्यापल्लवयुक्तोजपःकार्यः।
ततःसमर्पणं

कृत्वा।पुनरृष्यादिकरषडङ्गविधायकालनित्यापल्लवयुक्तगुरुविद्यान्दशवारञ्जपित्वासमर्प्यपुनस्तथैवतिथिनित्यान्दशवारञ्जपित्वासमर्प्यपुनस्तथैववाग्भवकूटन्दशवारञ्जप्त्वासमर्प्यपुनःऋष्यादिकरषडङ्गंविधायध्यायेत्।
ध्यानंयथा॥
प्रातर्मूलाधारगतेकमलेवह्निमण्डले।
वाग्बीजरूपान्नित्यान्तांविद्युत्पाटलभासुरां।
पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्करां॥१॥
स्वेच्छागृहीतवपुषंयुगनित्याक्षरात्मिकां।
घटिकावरणोपेताम्परितःप्राञ्जलीनथ॥२॥
ज्ञानमुद्रावरकरान्वाग्भवोपास्तितत्परान्॥
नवनाथान्स्मरेन्मूलपङ्कजेयोनिमण्डले॥३॥
इतिध्यात्वा।नवनाथात्मकत्वेनमूलञ्जपेत्।
यथा।
३मूलङ्कालनित्याआई५हंसः८अंआंइं

ईंउंऊंऋंऋं३प्रकाशानन्दनाथरूपिणीश्रीमहात्रिपुरसुन्दरीश्रीपादुकाम्पूजयामि॥
३मूलङ्कालनित्याआईहंसःऌं७३विमर्शानन्दरू०।
३मूलङ्कालनित्याआईहंसःकं४।३आनन्दानन्दनाथरू०।
३मू०का०आ०चं४३ज्ञानानन्दनाथरू०।
३मू०का०आ०टं४३सत्यानन्दनाथरू०।
३मूलङ्का०आ०तं०४।३पूर्णानन्दनाथरू०।
३मू०का०आ०पं४।३स्वभावानन्दनाथरू०।
३मू०का०आ०यं४।३प्रतिभानन्दनाथरू०।
३मू०का०आ०षं४।३सुभगानन्दनाथरू०।
३मू०का०आ०दद्दिननाथञ्चतत्तन्नाम्नाथजपंविधायसमर्प्य।
३मू०का०आ०२दिने१नित्यान्नमःशिरसि।इत्यादिक्षान्तंवक्ष्यमाणबहिर्मातृकास्थानेषुविन्यस्यप्राणायामृष्यादिषडङ्गन्यासान्विधायकृतञ्जपन्दैव्यै

निवेदयेत्।इतिप्रातःसन्ध्याविधिः।
तदन्तेषष्टिजपङ्कुर्यात्।सन्ध्यात्रयेषष्टिसङ्ख्यञ्जपेत्तद्दिनविद्यया।दिनवर्णेनेतियावत्।दिनवर्णेनसहजपङ्कुर्यादित्यर्थः।तत्रपल्लवयोजनापिकर्त्तव्या।तच्चप्राणायामंऋष्यादिषडङ्गंविधाय।
३मूलन्दिननित्याआईहंसःइतिउदयघटीरू०॥
३मू०दि०आईहंसःआघटीरू०इति।अःइतिषोडशस्वरस्त्याज्यःक्षोवा।क्षान्तम्पञ्चाशद्वर्णानावर्त्तयेत्।पुनःअमित्यादिॡमित्यन्तन्दशवर्णानावर्त्तयेतितिषष्टिजपः।
एवम्प्रतिदिनम्बीजत्रयम्मूलन्दिननित्याआईहंसःपदानुच्चार्य।उदयाक्षरमारभ्यक्षान्तमुदयाक्षरपर्यन्तमावर्त्तयन्पुनःउदयाक्षरमारभ्यदशवर्णानावर्त्तयन्।एचतयितिउदयाक्षराणि

इतिषष्टिजपः।गायत्रीजपादारभ्यषष्ठिजपान्तम्मूलेनवह्निमण्डलेविसृजेत्।इतिप्रातःसध्या।
अथमध्याह्नसन्ध्या।
तत्राचमनाद्युपस्थानपर्यन्तम्प्रातःसन्ध्यावदेवंविधायगायत्रीजपङ्गुरुपादुकाविद्याजपन्तिथिनित्याविद्याजपम्पूर्ववज्जपित्वाकामराजकूटन्तथैवजप्त्वासमर्प्यपुनःऋष्यादिषडङ्गंविधायध्यायेत्।
ध्यानंयथा॥
मध्याह्नेहृदयाम्भोजकर्णिकेसूर्यमण्डले।
कामराजात्मिकान्देवीमलक्तकुसुमारुणां।
प्रसूनबाणपुण्ड्रेक्षुचापपाशाङ्कुशान्वितां।
परितश्चात्ममुख्याभिःषट्त्रिंशत्तत्वशक्तिभिः।
रक्तमाल्याम्बरालेपभूषाभिःपरिवारितां।
युगनित्याक्षरमयीङ्घटिकावरणांस्मरेत्।
पुष्पबाणेक्षुकोदण्डधराःशोणवपुर्धराः।

हृत्पङ्कजेचताःकामराजोपास्तिपरायणाः।
इतिध्यात्वा।
षट्त्रिंशत्तत्वयोगेनमूलविद्याञ्जपेत्।यथा
३मूलङ्कालनित्यादिननित्याद्यक्षरंआईहंसःअंशिवतत्वरूपिणीश्रीमहात्रिपुरसुन्दरीपादुकाम्पूजयामि॥
३मू०का०दि०आ०३कंशक्तितत्वरू०॥
३मूलङ्का०दि०आ०खंसदाशिवतत्वरू०॥
३मू०का०दि०आ०गंईश्वरतत्वरू०॥
३मू०का०दि०आ०घंशुद्धविद्यातत्वरू०॥
३मू०का०दि०आ०ङम्मायातत्वरू०॥
३मू०का०दि०आ०चङ्कलातत्वरू०॥
३मू०का०दि०आ०छंविद्यातत्वरू०॥
३मू०का०दि०आ०जंरागतत्वरू०॥
३मू०का०दि०आ०झङ्कालतत्वरू०॥
३मू०का०दि०आ०ञन्नियतितत्वरू०॥
३मू०का०दि०आ०टम्पुरुष-

त०॥
३मूलादिठम्प्रकृतित०॥
३मूलादिडंअहङ्कारत०॥
३मूलादिढम्बुद्धित०॥
३मू०णम्मनस्त्वरू०॥
३मू०तंश्रोत्रत०॥
३मू०थन्त्वक्त०॥
३मू०दञ्चक्षुस्तत्व०॥
३मू०धञ्जिह्वात०॥
३मू०नङ्घ्राणत०॥
३मू०पंवाक्तत्व०॥
३मू०फम्पाणित०॥
३मू०बम्पादत०॥
३मू०भम्पायुत०॥
३मू०मंउपस्थत०॥
३मू०यंशब्दत०॥
३मू०रंस्पर्शत०॥
३मू०लंरूपत०॥
३मू०वंरसत०॥
३मू०शङ्गन्धत०॥
३मू०षङ्गगनत०॥
३मू०संवायुत०॥
३मू०हन्तेजस्तत्व०॥
३मू०लञ्जलतत्व०॥
३मू०क्षम्पृथ्वी०॥
इतिषट्त्रिंशत्तत्वयोगेनमूलविद्याञ्जपित्वापूर्ववन्मातृकान्यासंषष्ठिजपंविधायप्राणायामषडङ्गौविन्यस्यजपन्देव्यैनिवेदयेत्।हृदिसूर्यमण्डलेविसृजेत्।
इतिमध्याह्नसन्ध्या॥
अथसायाह्नसन्ध्या॥
त-

त्राचमनादिनतिथिनित्याजपान्तंविधायशक्तिकूटन्तथैवजपित्वासमर्प्यपुनःऋष्यादिषडङ्गविधायध्यायेत्।
ध्यानंयथा॥
सायमाज्ञासरोजस्थेचन्द्रेचन्द्रसमद्युतिं।
शक्तिबीजात्मकाञ्चापबाणपाशाङ्कुशान्वितां॥
युगनित्याक्षरान्देवीङ्घटिकावरणाम्परां।
चिन्तयित्वाभगवतीन्नित्याभिःपरिवारितां॥
पुस्तकञ्चाक्षसूत्रञ्चदधानाःस्मेरवक्त्रकाः।
नित्याःषोडशचाज्ञायांसायङ्कालेतुसंस्मरेत्॥
इतिध्यात्वा॥
नित्यात्मकत्वेनमूलविद्याञ्जपेत्।
३मूलङ्का०दि०आ०अंऐंसकलह्रीन्नित्यक्लिन्नेमदद्रवेसौःअङ्कामेश्वरीनित्यारूपिणीश्रीमहात्रिपुरसुन्दरीश्रीपादुकाम्पूजयामि॥
३मू०कान्दि०आ०आंऐम्भगभुगेभगिनि

भगोदरिभगमालेभगावहेभगगुह्येभगयोनिभगनिपातिनिसर्वभगवशङ्करिभगरूपेनित्यक्लिन्नेभगस्वरूपेसर्वाणिभगानिमेह्यानयवरदेरेतेसुरेतेभगक्लिन्नेक्लिन्नद्रवेक्लेदयद्रावयअमोघेभगविच्चेक्षुभःक्षोभयसर्वसत्वान्भगेश्वरि।ऐम्ब्लूञ्जम्ब्लूम्भेम्ब्लूम्मोम्ब्लूंहेम्ब्लूंहेङ्क्लिन्नेसर्वाणिभगानिमेवशमानयस्त्रींहरब्लेंह्रीम्भगमालिनीनित्यारू०॥
३मू०का०दि०आ०इंह्रीन्नित्यक्लिन्नेमदद्रवेस्वाहानित्यक्लिन्नानित्यारू०॥
३मू०का०दि०आ०ईंओङ्क्रोंश्रोङ्क्रौञ्झ्रौञ्छ्रौञ्ज्रौंस्वाहाभेरुण्डानित्यारू०॥
३मू०का०दि०आ०उंओंह्रींवह्निवासिन्यैनमःवह्निवासिनी०॥
३मू०का०दि०आ०ऊंह्रीङ्क्लिन्नेऐङ्क्रोन्नित्यमदद्रवेह्रीम्महा-

वज्रेश्वरीनि०॥
३मू०का०दि०आ०ऋंह्रींशिवादूत्यैनमःशिवादूतीनित्यारू०॥
३मू०का०दि०आ०रृंओंह्रींहुङ्खेचछेक्षःस्त्रींहुङ्क्षेंह्रीम्फट्त्वरितानित्यारू०॥
३मू०का०दि०आ०ऌंऐङ्क्लींसौःकुलसुन्दरीनि०॥
३मू०का०दि०आ०ॡंहसकलरडैंहसकलरडींहसकलरडौःनित्यानि०॥
३मू०का०दि०आ०ऐंह्रीम्फ्रेंस्रुङ्क्रोंआङ्क्लींऐम्ब्लून्नित्यमदद्रवेहुम्फ्रेंह्रीन्नीलपताकानि०॥
३मू०का०दि०आ०ऐम्भमरयूंओंऊंविजयानित्यारू०॥
३मू०का०दि०आ०ओंस्वौंसर्वमङ्गलानित्यारू०॥
३मू०का०दि०आ०औंओन्नमोभगवतिज्वालामालिनिदेवदेवीसर्वभूतसंहारकारिकेजातवेदसिज्वलन्तिज्वल२प्रज्वल२ह्रांह्रींह्रूंर६ज्वालामालिनिहुम्फट्स्वाहा॥ज्वालामालिनीनित्यारूं०॥

३मू०का०दि०आ०अञ्च्कौञ्चित्रानि०॥
३मू०का०दि०आ०अःमूलंश्रीमहात्रिपुरसुन्दरीमहानित्यारूपिणीश्रीपा०॥
इतिषोडशनित्यात्मकत्वेनमूलविद्याञ्जपित्वा।पूर्ववन्मातृकांविन्यस्यषष्टिजपन्तथैवजप्त्वाप्राणायामषडङ्गौविधायजपन्देव्यैनिवेद्याज्ञायाञ्चन्द्रमण्डलेविसृजेत्॥
इतिसायंसन्ध्या॥
अथअर्धरात्रौतुरीयसन्ध्या॥
तत्राचमनंविनाप्राणायामृष्यादिषडङ्गौविधायसहस्रारेतुरीयकूटम्मूलविद्यात्रयोदशाक्षररूपम्पद्मरागसमप्रभन्ध्यात्वाजपेत्।
३तुरीयविद्याकालनित्याहंसःइतियथाशक्तिजप्त्वातुरीयविद्याकालनित्याविद्याम्मूलविद्याञ्चजप्त्वायथाशक्ति३परोरजसेसावदोमितिगायत्रीचतुर्थ

चरणंयथाशक्तिजप्त्वा।तन्त्रान्तरे।
षोडश्युपासकश्चेद्यथाशक्त्याषोडशीञ्जप्त्वाप्राणायामादिपूर्वकञ्जपंसमर्पयेदितितुरीयसन्ध्याब्रह्मरन्ध्रेविसृजेत्।तुरीयसन्ध्यानन्तरन्नामपारायणञ्चकुर्यात्।एतत्सन्ध्याचतुष्टयंविद्योपासकानामावश्यकं।सन्ध्यात्रयेपिएतावज्जपङ्कर्त्तुमशक्तश्चेद्गायत्रीजपानन्तरन्नाथतत्वनित्यात्मकत्वेनमूलविद्याञ्जपेत्।नवनाथानान्नामानिमायालक्ष्मीबीजानांसप्रणवानान्नवाक्षराणिसम्पादयेत्।अत्राप्यशक्तश्चेन्नाथानान्तत्वानान्नामानित्यक्त्वानित्यानामपिमन्त्रनामानित्यक्त्वावर्गव्यञ्जनस्वरैःसहमूलविद्याञ्जपेद्यथा।
३मू०का०आ०अंआंइंईंउंऊंऋंऋंएवन्नववर्गैर्मूलविद्याम्प्रातर्जपेत्।

यथा३मू०का०आ०अंएवंषट्त्रिंशद्व्यञ्जनैःसहमूलविद्याम्मध्याह्नेजपेत्।तथाचमू०का०आ०अंइतिषोडशस्वरैःसहमूलविद्यांसायञ्जपेत्।
इतितन्त्रराजमतानुसारेणसन्ध्याजपविधिः॥
अन्यतन्त्रमतेतुकेवलगायत्रीजपेवविहितोस्ति।इतिसन्ध्याचतुष्टयं।सन्ध्यालोपोनकर्त्तव्यःशम्भोराज्ञागुरोर्मम।दीक्षितःसन्ध्ययाहीनोनदीक्षाफलमश्नुते।इत्थंसन्ध्यांविधायप्रातःसन्ध्यानन्तरम्ब्रह्मयज्ञादितर्पणानन्तरन्तान्त्रिकतर्पणङ्कुर्यात्।
तत्रगुरुवन्दनपूर्वकंऋष्यादिषडङ्गविधायपुरतोजलेक्रोमित्यङ्कुशमुद्रयासूर्यमण्डलात्तीर्थान्यावाह्यवमितिधेनुमुद्रयामृतीकृत्यमूलोनाष्टवारमभिमन्त्र्य।३मूलमुच्चार्यश्रीमहात्रिपुरसुन्दरीपादुकान्तर्पयामिनमितिषोडशवारम्पर-

देवतामुखेपरमामृतबुध्यासन्तर्प्य।३समस्तप्रकटेत्यादिसमष्टिमन्त्रेणत्रिःसन्तर्प्यृष्यादिकंस्मृत्वासमर्पणपूर्वकंविसृजेत्।इतितर्पणविधिः।
ततःसूर्यार्घ्यदानविधिङ्कुर्यात्।तत्रगुर्वादिवन्दनपूर्वकम्प्राणायामृष्यादिषडङ्गंविधाय।
३ओंह्रींश्रीङ्घृणिःसूर्यादित्योंश्रीमार्तण्डभैरवायप्रकाशशक्तिसहितायद्वादशकलात्मनेसग्रहनक्षत्रतिथिवारयोगकरणपरिवृतासनसंस्थितायश्रीसूर्यायार्घ्यम्परिकल्पयामिस्वाहेतिमन्त्रेणार्घ्यन्दत्वादशार्णवमन्त्रंयथाशक्तिजप्त्वादेवायजपंसमर्प्यनत्वाविसृजेत्।ततोगुरुदिक्पतीन्प्रणम्यशुद्धोदकपूर्णपात्रमादायहृदिस्वेष्टदेवतांस्मरन्स्तोत्रञ्जपन्मौनीस्वपदमात्रदृष्टिः

पूजागृहमागत्यद्वारेस्थित्वा।
सूर्यःसोमोयमःकालोमहाभूतानिपञ्चच।
एतेशुभाशुभस्येहकर्मणोनवसाक्षिणः॥इतिपठित्वा।
हुम्फडितिक्रोधदृष्ट्यापार्श्वद्वयमूर्ध्वमधश्चावलोक्यसुमनाभूत्वागृहान्तःप्रविश्यहस्तौपादौप्रक्षाल्याचम्यशिवोहमितिमत्वाद्वारपूजाङ्कुर्यात्॥
इत्याह्निकाख्यःप्रथमःप्रकाशः॥
अथद्वारपूजा॥
३त्रिपुरार्चामण्डपायनमितिपुष्पाक्षतैर्मण्डपंसम्पूज्यशुद्धोदकेनप्रणवेनचद्वारम्प्रोक्ष्य३द्वारश्रियैनमितिद्वारंसम्पूज्य।पालितम्बहिरिन्द्राद्यैर्महदैश्वर्यशोभितं।प्रपद्यपश्चिमद्वारम्भवान्यामन्दिरम्महदितिनत्वाद्वारस्यपश्चिमे३दुन्दुर्गायैनमः।३क्लीङ्कामायै०॥३क्षौङ्क्षेत्रपालाय०।३माम्मातङ्गिन्यै०॥तद्दक्षिणे

३गङ्गणपतये०।३दुन्दुर्गायै०।३बम्बटुकाय०।३वंवसन्ताय॥द्वारान्ते।३वांवाराह्यै०।३कुङ्कुरुकुल्लायै०।३तिन्तिरस्करिण्यै०॥३अंअन्नपूर्णायै०॥इतिसम्पूज्यअस्त्रायफडितितालत्रयपूर्वकन्द्वारमूलंउद्धारयगन्धाक्षतकुसुमान्यादाय३
अपक्रामन्तुभूतानिपिशाचाःप्रेतगुह्यकाः।
येचात्रनिवसन्त्यन्येदेवताभुविसंस्थिताः।
अपक्रामन्तुतेभूतायेभूताभुविसंस्थिताः।
येभूताविघ्नकर्त्तारस्तेनश्यन्तुशिवाज्ञया॥१॥
वामपादपार्ष्णिघातत्रयेणभौमानूर्ध्वाधस्तालत्रयेणान्तरिक्षगान्तीक्ष्णदृष्ट्यावलोकनेनदिव्यानितित्रिविधविघ्नानुत्सार्यसप्रणवमूलमुच्चरन्मण्डपान्तःप्रविश्यपूजावेदिङ्गत्वापृथिव्यामेरुपृष्ठृषिःपृथ्वीदेवतासुतलञ्छन्दःपृथ्वीप्रार्थने

विनियोगः।पृथ्वित्वयेतिभूमिम्प्रार्थ्यजपस्थानेमूलमन्त्रेणवीक्ष्यास्त्रेणकुशैःत्रिःसन्ताडयकवचेनाभुक्ष्येतिभूमिसंस्कारङ्कृत्वातत्र
३मम्मण्डूकायनमः।३काङ्कालाग्निरुद्राय०।३प्रम्प्रकृत्यै०।३आंआधारशक्त्यै०।३कुङ्कूर्माय०।३अंअनन्ताय०।३वंवराहाय०॥३पृम्पृथ्व्यै०।३सुंसुधसिन्धवे०।३रंरत्नद्वीपाय०।३कङ्कल्पकोट्यानाय०।३चिञ्चिन्तामणिमण्डपाय०।३श्वेंश्वेतछत्राय०।३रंरत्नवेदिकायै०॥इतिसम्पूज्यात्मासनस्थानम्पृथक्कृत्वातत्रस्वात्मासनमास्तीर्यमूलेनप्रोक्ष्यतत्रकामकलामालिख्य।
३ह्रींआधारशक्तिकमलासनायनमितिस्वासनंसम्पूज्यप्राङ्मुखोदङ्मुखोवापद्मासनेनोपविश्यततःईशानभागे३दीपनाथायनमितिसम्पूज्य।

अस्मिन्क्षेत्रेदीपनाथनिर्विघ्नसिद्धिहेतवे।
श्रीचक्रक्रमपूजार्थमनुज्ञान्दीयताम्ममेतिप्रार्थ्य।
तीक्ष्णदंष्ट्रमहाकायकल्पान्तदहनोपम।
भैरवायनमस्तुभ्यमनुज्ञान्दातुमर्हसीति।
भैरवाज्ञामादायसमभूतलेओन्देव्यासनाधारशक्तयेनमितिसम्पूज्यतत्रश्रीचक्रमुल्लिखेत्।
बिन्दुत्रिकोणमष्टारमन्तर्बाह्यदशारके।
भुवनास्रमथाष्टाब्जङ्कलाब्जम्भूगृहान्वितं।
अत्रपृथक्त्रिवलयन्नोक्तञ्चक्रचक्रेश्वरीनामाभावात्।तत्पूजनीयेदेवतानामाभावात्।चतुर्दशारेचाष्टदलेचवृत्तंलिखितमस्ति।षोडशदलेनत्रिवलयंइतिवामकेश्वरतन्त्रेज्ञानार्णवदक्षिणामूर्तिसंहितासुभगोदयत्रिपुरातापिन्यादिषुपृथक्नास्तीति।एवं

पूजायन्त्रनिर्मायाथवासिद्धम्पातालरेखञ्चोर्ध्वरेखम्भूप्रस्थमेरुप्रस्थंवास्थापयेत्।ततोमूलेनसमष्टिमन्त्रेणचपुष्पाञ्जलीन्दत्वा।
सूर्यस्यवाहरेर्वापिशिवस्याग्रेगुरोर्यथा।
दीपस्यज्वलितस्यापिसन्निधानम्प्रकल्पयेत्॥१॥
स्थापयेद्दक्षिणेभागेपूजाद्रव्याणिचात्मनः।
सुवासिताम्बुसम्पूर्णंसव्येकुम्भंसुशोभनं।
प्रक्षालनायकरयोःपात्रम्पृष्ठेनिवेशयेत्॥
ततश्चक्रस्योत्तरभागेत्रिकोणवृत्तचतुरस्रात्मकम्मण्डलंविरच्य।
३ह्रींव्यापकमण्डलायनमितिसम्पूज्यतत्राधारोपरिअन्नव्यञ्जनाम्बुनापूर्णपात्रंसंस्थाप्य॥
ओंह्रींसर्वविघ्नकृद्भ्यःसर्वभूतेभ्योहुंस्वाहेतिवामकरस्यसर्वाङ्गुलिभिर्जलदानेनबलिमुत्सृजेत्।स्वयङ्गन्धाम्बरस्रगाभरणभूषितःकर्पूरमृगनाभिसुवासिताङ्गरागः

प्रमुदितचित्तोब्रह्मैवाहमितिभावयन्।
३गुङ्गुरुभ्योनमितिवामांसे।३गङ्गणपतये०दक्षांसे।३श्रीपरदेवतायै०हृदि।इतिप्रणम्य॥
सङ्घट्टमुद्रयागुरुपादुकांस्मरेत्।दिव्यसिद्धमानवौघान्स्मृत्वास्वगुरुपादुकांस्मरेत्।

ततः३अंआंसौःइतिसुगन्धद्रव्यमर्दनेनकरौसुरभीकृत्य३ह्स्रैंइतिसुगन्धिपुष्पाण्यादायनिर्मुन्द्याघ्राय
३ओंह्स्रौन्तेसर्वेविलयंयान्तुयेमांहिंसन्तिहिंसकाः।
मृत्युरोगभयक्लेशाःपतन्तुरिपुमस्तके।इतिपठित्वातानिपुष्पाणिउत्तरस्यान्दिशिक्षिपेत्।पुनःकरशुद्धिविद्ययाकरावन्योन्यमर्दनेनसंशोध्यकरशुद्धिन्यासङ्कुर्यात्।यथा
३अन्नमःमध्यमयोः।३आं०अनामिकयोः॥सौः०कनिष्ठिकयोः।३अं०अङ्गुष्ठयोः।३आं०तर्जन्योः॥३सौः०करतलकरपृष्ठयोरितिविन्यसेत्।

ततात्मरक्षाङ्कुर्यात्।
३ऐङ्क्लींसौःनमस्त्रिपुरसुन्दरिमांरक्षरक्षेतिमूर्द्धादिपादान्तन्त्रिर्व्यापकंविन्यस्यपुनरुच्चार्यूर्ध्वान्तरिक्षाधस्तालत्रयेणदशदिग्बन्धनङ्कृत्वा।पुनरुच्चार्यतर्जन्यङ्गुष्ठोत्थशब्दैःस्वमूर्धानम् परितस् त्रिर् भ्रमणेन वह्निप्राकारञ् चिन्तयेद् इत्य् आत्मरक्षां विधाय भूतशुद्धिङ् कुर्यात्।
ततोधिकारसम्पत्तये भूतशुद्धिङ् करिष्ये इति सङ्कल्प्य हुङ्कारेण मूलाधारात् कुण्डलिनीम् उत्थाप्य जीवात्मानं संयोज्य हुम् इति परमात्मनि विलापयेत्।
ततः पादादिजानु-पर्यन्त-स्थिताम् पृथ्वीञ् जले विलापयेत्।
जान्वादि-नाभि-पर्यन्तञ् जलम् अग्नौविलापयेत्।
नाभ्यादिहृदयपर्यन्तं अग्निं वायौ विलापयेत्। हृदयादिभ्रूमध्यान्तस्थंवायुमाकाशेविलापयेत्। भ्रूमध्यादिब्रह्मरन्ध्रान्तस्थ-

माकाशमहङ्कारेविलापयेत्।महत्तत्वम्प्रकृतौवि०।ताम्प्रकृतिम्ब्रह्मणिविलापयेत्।ततोवामकुक्षौपापपुरुषंविचिन्तयेत्।
ब्रह्महत्याशिरस्कञ्चस्वर्णस्तेयभुजद्वयं।
सुरापानहृदायुक्तङ्गुरुतल्पकटिद्वयं।
तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकं।
उपपातकरोमाणंरक्तश्मश्रुविलोचनं।
खड्गचर्मधरङ्कृष्णमङ्गुष्ठपरिमाणकं।
अधोमुखन्त्रिनेत्रञ्चकुक्षौवामेविचिन्तयेत्।
ततोयमितिवायुबीजन्धूम्रवर्णंषोडशवारमावर्त्तयन्।
वामनासयावायुमापूर्यपापरूपन्देहंविशोष्य।रमितिवह्निबीजंरक्तवर्णञ्चतुःषष्टिवारमावर्त्तयन्।दक्षवामनासाभ्याङ्कुम्भकप्रयोगेणपापदेहम्भस्मान्तंसन्दह्य।पुनःयमितिवायुबीजन्द्वात्रिशद्वारमावर्त्तयन्।दक्षनासयापापपुरुषभस्मरेचयेत्।

वमितिललाटचन्द्रान्मातृकामयीममृतवृष्टिन्निपात्यभस्माप्लाव्यन्यासक्रमेणावयवान्निष्पाद्यलमितिजपाद्दृढीकृत्यपरमात्मनःप्रकृतिस्तस्याःमहत्तत्वन्ततोहङ्कारःअहङ्कारादाकाशःआकाशाद्वायुःवायोरग्निःअग्नेरापः।अद्भ्यःपृथिवीतियथास्थानम्भूतानिसंस्थाप्यसोहमितिमन्त्रेणप्राणंहृद्यानीयकुण्डलिनींयथास्थानंस्थापयेत्।
स्वात्मानम्प्रपञ्चोत्तीर्णम्भावयेदितिभूतशुद्धिः॥ततोहृदिहस्तन्निधाय।आंह्रीङ्क्रोंयंरंलंवंशंषंसंहौंहंसःममप्राणाइहस्थिताः।१३ममजीविहस्थितः।१३ममसर्वेन्द्रियाणि।१३ममवाङ्मनस्त्वक्चक्षुश्रोत्रजिह्वाघ्राणप्राणाइहैवागत्यसुखञ्चिरन्तिष्ठन्तुस्वाहेति।
प्राणप्रतिष्ठा।
अस्यश्रीमातृकान्यासस्य

ब्रह्मणेऋषयेनमःशिरसि।गायत्रीछन्दसेनमःमुखे।मातृकासरस्वतीदेवतायै०हृदि।अम्बीजाय०गुह्ये।अःशक्तये०पादयोः।क्षङ्कीलकाय०नाभौ।विद्याङ्गत्वेनन्यासेविनियोगः॥
अङ्कं४आंहृदयायनमः।इञ्चं४ईंशिरसेस्वाहा।उण्टं४ऊंशिखायैवषट्।एन्तं४ऐङ्कवचायहुं।ओम्पं४औन्नेत्रत्रयायवौषट्।अंयं९अःअस्त्रायफट्॥
एकपञ्चाशन्मातृकाभिःव्यापकङ्कृत्वाध्यायेत्।ध्यानंयथा।
अङ्कोन्मुक्तशशाङ्ककोटिसदृशामापीनतुङ्गस्तनीं
चन्द्रार्द्धाहितमस्तकाम्मधुमदामालोलनेत्रत्रयां।
बिभ्राणामनिशंवरञ्जपवटींशूलङ्कपालङ्करैराद्यां
यौवनगर्वितांलिपितनुंवागीश्वरीमाश्रये।इतिध्यात्वा।
अन्तर्मातृकान्यसेत्।

विशुद्धौषोडशदलेषोडसस्वरान्न्यसेद्यथा।
अन्नमःआन्नमःइत्यादिस्वाग्रादिन्यसेत्।अनाहतेद्वादशदलेकादिठान्तान्न्यसेत्।मणिपूरेदशदलेडादिफान्तान्न्यसेत्।स्वाधिष्ठानेषट्दलेबादिलान्तान्न्यसेत्।आधारेचतुर्दलेवादिसान्तान्न्यसेत्।आज्ञाचक्रेद्विदलेहङ्क्षन्न्यसेत्।इतिअन्तर्मातृका।
ततोबहिःशुद्धमातृकान्यसेत्।तद्युपयोगिस्थानान्याह।काननवृत्तद्व्यक्षिश्रुतिनोगण्डोष्ठदन्तपक्तिमूर्द्धास्ये।दोःपत्सन्ध्यग्रेषुचपार्श्वद्वयपृष्ठनाभिजठरेषु।हृद्दोर्मूलापरगलकक्षेषुहृदादिपाणिपादयुगे।जठराननयोर्व्यापकसञ्ज्ञान्न्न्यसेदक्षराणिक्रमशः।
एषुस्थानेषुसबिन्दुमातृकाकारादिक्षकारान्ताएकपञ्चाशद्वर्णान्यसेदितिशुद्धमातृकान्यासः।अन्नमःमूर्ध्नि।आं०मुखवृत्ते।इं०दक्षनेत्रे।

ईं०वामनेत्रे।उं०दक्षश्रोत्रे।ऊं०वामश्रोत्रे।ऋं०दक्षनासापुटे।ऋ०वामनासापुटे।ऌं०दक्षगण्डे।ॡं०वामगण्डे।एं०ऊर्ध्वोष्ठे।ऐं०अधरोष्ठे।ओं०ऊर्ध्वदन्तेषु।औं०अधोदन्तेषु।अं०मूर्ध्नि।अः०आस्ये।कं०दक्षहस्तमूले।खं०तत्कूर्परे।गं०तन्मणिबन्धे।घं०तदङ्गुलिमूले।ङं०तदङ्गुल्यग्रेषु।चं०वामदोर्मूले।छं०तत्कूर्परे।
जं०तन्मणिबन्धे।झं०तदङ्गुलिमूले।ञन्तदङ्गुल्यग्रेषु।टं०दक्षपादमूले।ठं०तज्जानुनि।डं०तद्गुल्फे।ढं०तदङ्गुलिमूले।णं०तदङ्गुल्यग्रेषु।तं०वामपादमूले।थं०तज्जानुनि।दं०तद्गुल्फे।धं०तदङ्गुलिमूले।नं०तदङ्गुल्यग्रेषु।पं०दक्षपार्श्वे।फं०वामपार्श्वे।बं०पृष्ठे।भं०नाभौ।मं०जठरे।यं०हृदि।रं०दक्षदोर्मूले।लं०वामदोर्मूले।वं०अपरगले।शं०दक्षकक्षे।षं०वामकक्षे।सं०हृदादिदक्षपाणिपादे।हं०हृदादिवामपाणिपादे।ऴं०जठरे।क्षं०मुखे।समस्तमातृकाभिर्व्यापकं

कुर्यात्।ततोमन्त्रन्यासः।मूलेनप्राणायामत्रयङ्कृत्वाऋष्यादिन्यासान्कुर्याद्यथा।
ओंअस्यश्रीललितादेव्यास्त्रिपुरसुन्दर्याःमहामन्त्रस्यदक्षिणमूर्त्तिऋषयेनमःशिरसि।
पङ्क्तिश्छन्दसेनमःमुखे।श्रीमहात्रिपुरसुन्दरीदेवतायै०हृदि।क४बीजाय०गुह्ये।३शक्तये०पादयोः।ह५कीलकाय०नाभौ।ममश्रीपरदेवताप्रीत्यर्थञ्जपेविनियोगितिकृताञ्जलिर्वदेत्।इतिऋष्यादिन्यासः॥
ततःकरशुद्धिन्यासङ्कुर्यात्॥
३अंशिखायैवषट्मध्यमयोः।३आङ्कवचायहुंअनामिकयोः।३सौःनेत्रत्रयायवौषट्कनिष्ठिकयोः।३अंहृदयायनमःअङ्गुष्ठयोः।३आंशिरसेस्वाहातर्जन्योः।३सौःअस्त्रायफट्।करतलपृष्ठयोः॥
इतिकरशुद्धिन्यासः॥
अथासनन्यासः॥
३ह्रीं

क्लींसौःत्रिपुरसुन्दरीदेव्यात्मासनायनमःपादयोः॥
३ह्रैंह्क्लींह्सौःत्रिपुरवासिनीसर्वचक्रासनायनमःजङ्घयोः॥
३ह्स्रैंह्स्क्लींह्सौःत्रिपुराश्रीसर्वमन्त्रासनायनमःजान्वोः॥
३ह्रीङ्क्लीम्ब्लेन्त्रिपुरमालिनीसाध्यसिद्धासनायनमःमूलाधारे॥
इत्यासनन्यासः॥
अथषडङ्गःसचपञ्चविधः।वर्णमायाविभेदःषडङ्गः।रक्षाषडङ्गः।बीजषडङ्गः।युवतीषडङ्गः।दीपिनीषडङ्गः।यथा।
३कहृदयायनमःअङ्गुष्ठयोः॥
३ह्रींशिरसेस्वाहातर्जन्योः॥
३ह४शिखायैवषट्मध्यमयोः॥
३ह्रीङ्कवचायहुमनामिकयोः॥
३स२नेत्रत्रयायवौषट्कनिष्ठिकयोः॥
३ह्रींअस्त्रायफट्करतलकरपृष्ठयोः॥
इतिवर्णमायाविभेदषडङ्गः॥
३ऐङ्क्लींसौःनमःश्रीमहात्रिपुरसुन्दरीमांरक्ष२हृदयायनमः॥
एवं

शिरःशिखाकवचनेत्रत्रयअस्त्रादिकन्न्यसेदितिरक्षाषडङ्गः॥
३ऐंसर्वज्ञायैहृदयायनमः।३क्लीन्नित्यतृप्तायैशिरसेस्वाहा।३सौःअनादिबोधायैशिखायैवषट्।३ऐंस्वतन्त्रायैकवचायहुं॥३क्लीन्नित्यमलुप्तायैनेत्रत्रयायवौषट्।३सौःअनन्तशक्त्यैअस्त्रायफट्।इतिबीजन्यासः॥
३क४श्रीमहात्रिपुरसुन्दरीसर्वज्ञताशक्तिधाम्नेहृदयायनमः॥
३ह५श्रीम०नित्यतृप्तिशक्तिधाम्नेशिर०॥
३स३श्रीम०अनादिबोधशक्तिधाम्नेशिखा०॥
३क४श्रीम०स्वतन्त्रायैशक्तिधाम्नेकव०॥
३ह५श्रीम०नित्यमलुप्तायैशक्तिधाम्नेनेत्रत्रया०॥
३स३श्रीम०अनन्तायैशक्तिधाम्नेअस्त्रायफट्॥
इतियुवतीषडङ्गः॥
३ऐङ्क४वद२वाग्वादिनीऐंहृत्॥
३क्लींह५क्लिन्नेक्लेदिनिमहाक्षोभं

कुरु२क्लीन्नेत्र०॥
३सौःस३मोक्षङ्कुरु२ह्सौःशिखा०॥
३ऐङ्क४वद२वाग्वादिनिऐङ्कव०॥
३क्लींह५क्लिन्नेक्लेदिनिमहाक्षोभङ्कुरु२क्लीन्नेत्र०॥
३सौःस३मोक्षङ्कुरु२ह्सौःअस्त्रं०॥
इतिदीपिनीषडङ्गः॥
३अं१५ब्लूंवशिनीवाग्देवतायैनमःमूर्ध्नि॥
३कं४कामेश्वरीवाग्देवतायैनमःभाले॥
३चन्न्क्लीम्मोदिनीवाग्देवतायै०भ्रूमध्ये॥
३टं४य्लूंविमलादेवतायै०कण्ठे॥
३तं४ज्म्रींअरूणावाग्देवतायै०हृदि॥
३पं४ह्स्ल्व्यूञ्जयिनीवाग्देवतायै०नाभौ॥
३यं४स्म्यूंसर्वेश्वरीवाग्देवतायै०मूलाधारे॥
३षं४क्ष्म्रीङ्कौलिनीवाग्देवतायै०मूलादिपादान्तं॥
इतिवाग्देवतान्यासः॥
अथमूलविद्याक्षरन्यासः॥
मूलविद्यायाएकैकाक्षरम्पञ्चदशस्थानेषुन्यसेत्।

३कम्मूर्ध्नि।३एङ्गुह्ये।३ईंहृदये।३लन्दक्षनेत्रे।३ह्रींवामनेत्रे।३हम्भाले।३सन्दक्षकर्णे।३कंवामकर्णे।३हम्मुखे।३लन्दक्षभुजे।३ह्रींवामभुजे।३सम्पृष्ठे।३कन्दक्षजानुनि।३लंवामजानुनि।३ह्रीन्नाभौ।इत्यक्षरन्यासः॥
ततोमूलविद्ययात्रिर्व्यापकङ्कृत्वासङ्क्षोभिण्यादिनवमुद्राहेतिमुद्राचतुष्टयम्प्रदर्श्यध्यायेत्।
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणांसशरचापपाशाङ्कुशां।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुराञ्जवविधौस्मरेदम्बिकां।
इतिध्यात्वामानसैःसम्पूज्य।
अथचक्रेश्वरीन्यासः॥
३अंआंसौःचतुरस्रत्रयात्मकत्रैलोक्यमोहनचक्राधिष्ठात्र्यैअणिमाद्यष्टाविंशतिशक्तिसहितप्रकटयोगिनीरूपायैत्रिपुरादेव्यै

नमः॥अधःसहस्रारे।३ऐङ्क्लींसौःषोडशदलपद्मात्मकसर्वाशापरिपूरकचक्राधिष्ठात्र्यैकामाकर्षिण्यादिषोडशशक्तिसहितगुह्ययोगिनीरूपायैत्रिपुरेशीदेव्यै०तदुपरिविषुवसञ्ज्ञे६दले।
३ह्रीङ्क्लींसौःअष्टदलपद्मात्मकसर्वसङ्क्षोभणचक्रा०अनङ्गकुसुमाद्यष्टश०गुप्ततरयोगिनीरू०त्रिपुरसुन्दरीदेव्यै०आधारे।
३हैंह्स्क्लींह्सौंःचतुर्दशारात्मकसर्वसौभाग्यदायकच०सर्वसङ्क्षोभिण्यादिचतुर्दशश०सम्प्रदाययोगिनीरू०त्रिपुरवासिनीदे०स्वाधिष्ठाने।
३ह्सैंह्स्क्लींह्सौःबहिर्दशारात्मकसर्वार्थसाधकच०सर्वसिद्धिप्रदादिदशश०कुलोत्तीर्णयोगिनीरू०त्रिपुराश्रीदे०मणिपूरे।
३ह्रीङ्क्लीं

ब्लेंअन्तर्दशारात्मकसर्वरक्षाकरच०सर्वज्ञादिदशश०निगर्भयोगिनीरू०त्रिपुरमालिनीदे०अनाहते।
३ह्रींश्रींसौःअष्टारात्मकसर्वरोगहरच०वशिन्याद्यष्टश०रहस्ययोगिनीरू०त्रिपुरासिद्धादेव्यै०विशुद्धौ।
३ह्स्रैंह्स्क्लींह्स्रौःत्रिकोणात्मकसर्वसिद्धिप्रदचक्रा०कामेश्वर्यादित्रिशक्तिसहितातिरहस्ययोगिनीरू०त्रिपुराम्बादेव्यै०लम्बिकाग्रे।
३मूलम्बिद्वात्मकसर्वानन्दमयच०षडङ्गायुधदशश०परापररहस्ययोगिनीरू०महात्रिपुरसुन्दर्यै०आज्ञायां।
पुनःआज्ञाचक्रोपरिएकैकाङ्गुलदेशे।बिन्दौअंआंसौःनमः।अर्धचन्द्रेऐङ्क्लींसौः।रोधिन्यांह्रीङ्क्लींसौः।नादेहैंह्स्क्लींह्सौः।नादान्तेह्सैंहसकल्रींह्स्राः०शक्तौह्रीङ्क्लीम्ब्लें।व्यापिकायांह्रींश्रींसौः।समानायांहस्रैं।

उन्मनायाम्मूलं।ब्रह्मरन्ध्रेमहाबिन्दौषोडशाक्षरीन्न्यसेत्।इत्यन्तश्चक्रन्यासः।
अथबहिश्चक्रन्यासः॥
३अंआंसौःत्रिपुराचक्रेश्वर्यैनमःपादयोः॥
३ऐङ्क्लींसौःत्रिपुरेशीचक्रेश्वर्यै०जान्वोः॥
३ह्रीङ्क्लींसौःत्रिपुरसुन्दरीचक्रेश्वर्यै०ऊरुमूलयोः॥
३हैंहक्लींह्सौःत्रिपुरवासिनीचक्रश्वर्यै०नाभौ॥
३ह्सैंह्स्क्लींह्सौःत्रिपुराश्रीचक्रेश्वर्यै०हृदि॥
३ह्रीङ्क्लीम्ब्लेन्त्रिपुरमालिनीचक्रेश्वर्यै०कण्ठे॥
३ह्रींश्रींसौःत्रिपुरासिद्धाचक्रेश्वर्यै०मुखे॥
३ह्सैंह्स्क्लींह्स्रौःत्रिपुराम्बाचक्रेश्वर्यै०नेत्रयोः॥
३मूलंश्रीमहात्रिपुरसुन्दरीचक्रेश्वर्यै०मूर्ध्नि॥
इतिचक्रेश्वरीन्यासः॥
अथतत्वन्यासः॥
३आत्मत्वायनमःदक्षपादे॥क्रियाशक्त्यै०वामे।३विद्यातत्वाय०दक्षपार्श्वे।३ज्ञानशक्त्यै०वामे।३शिवतत्वाय०दक्षकपोले।३

इच्छाशक्त्यै०वामे।३सर्वतत्वाय०मूर्ध्नि।३तुर्याशक्त्यै०तत्रैव॥
अथकामेश्वर्यादिन्यासः॥
३ऐङ्क४अग्निचक्रेकामगिरिपीठेमित्रीशनाथात्मिकेजाग्रद्दशाधिष्ठायकेइच्छाशक्त्यात्मकरुद्रात्मशक्तिश्रीमहाकामश्वर्यैनमःमूलाधारे॥
३क्लींह५सूर्यचक्रेजालन्धरपीठेषष्ठीशनाथात्मकस्वन्यदशाधिष्ठायकज्ञानशक्त्यात्मकविष्ण्वात्मकशक्तिश्रीमहावज्रेश्वर्यै०अनाहते॥
३सौःस३सोमचक्रेपूर्णगिरिपीठेउड्डीशनाथात्मकेसुषुप्तिदशाधिष्ठायकेक्रियाशक्त्यात्मकब्रह्मात्मशक्तिश्रीमहाभगमालिन्यै०आज्ञायां॥
३मूलम्परब्रह्मचक्रेमहाड्याणपीठेचर्यानाथात्मिकेतुरीयदशाधिष्ठायकेशान्ताशक्त्यात्मकपरब्रह्मात्मकशक्तिश्रीमहात्रिपुरसुन्दर्यै०ब्रह्मरन्ध्रे॥
अथपूर्वोक्तकरशुद्धिन्यासङ्कृत्वा॥

इत्येवन्न्यस्तदेहःआम्नायादिमन्त्राननुस्मृत्यमुख्यविद्याजप्त्वासपर्यामारभेत्।अत्राशक्तौद्विविधमातृकावशिन्यादिमूलविद्याकरशुद्धिषडङ्गमितिन्यासषट्कङ्कुर्यात्।आपदितुमातृकामूलविद्याषडङ्गन्यासेनचारितार्थ्यं।मृताशौचेतुमातृकादिमापद्युक्तम्मानसिकङ्कार्यं।पूर्णाभिषिक्तःसमर्थस्तुशक्तिन्यासादिन्यासखण्डेवक्ष्यतेइतिशिवं॥

इतिश्रीपराम्बार्चनचन्द्रिकायान्द्वितीयप्रकाशः॥

अथकृतसन्ध्यादिनित्यक्रियःसपर्यामारभेत्।साचत्रिविधा।नित्यनैमित्तिककाम्यभेदात्।तत्रनित्यान्निर्वर्त्यनैमित्तिकादिसपर्याङ्कुर्यात्।अतादौनित्यसपर्याविधिरालिख्यते।तत्रगृहम्प्राङ्गणैकदेशेप्रत्यङ्मुखोजानुपादौवामणिबन्धौप्रक्षाल्याचम्यद्वारेस्थित्वासामान्यार्घ्यङ्कुर्यात्तद्यथा।देहल्यग्रे

वृत्तचतुरस्रमण्डलम्मत्स्यमुद्रयाकृत्वा।
अखण्डमण्डलाकारंविश्वव्यापिव्यवस्थितं।
त्रैलोक्यम्मण्डितंयेनमण्डलन्तत्सदाशिवमिति।
मण्डलमन्त्रेणगन्धपुष्पाक्षतान्निक्षिप्य।तत्रास्त्रमन्त्रेणसाधारन्ताम्रपात्रम्प्रक्षाल्यसंस्थाप्य।
३ह्रांहृदयायनमितिमन्त्रेणुदकमापूर्यतीर्थमावाह्यतारत्रयमुच्चरन्गन्धाक्षतपुष्पाणिनिक्षिप्य।बालयात्रिरभिमन्त्र्यधेनुमुद्राम्प्रदर्श्यतदुदकैरस्त्रमन्त्रेणद्वारन्द्वादशधाभ्युक्ष्यगन्धपुष्पाक्षतैर्बहिर्द्वारदेवताःपूजयेत्।
द्वारस्योर्ध्वशाखायां३अविघ्नाय०३महालक्ष्म्यै०।३सरस्वत्यै०।दक्षिणवामशाखयोः।३विघ्नेशाय०।३क्षङ्क्षेत्रपालाय०।३गङ्गङ्गायै०।३यंयमुनायै०।३धन्धात्र्यै०।३विंविधात्र्यै०।३शंशङ्खनिधये०।३पम्पद्मनिधये०।देहल्यां।३ह्रःअस्त्रायफट्।

अस्त्रदेवतायै०।पुनःप्रतिद्वारम्पूर्वे३ब्राह्म्यै०।३माहेश्वर्यै०।दक्षिणे३कोमार्यै०।३वैष्णव्यै०।पश्चिमे३वाराह्ये०।माहेद्र्यै०।उत्तरे३चामुण्डायै०।३महालक्ष्म्यै०।मध्ये३श्रीमहात्रिपुरसुन्दर्यै०।अपसर्पन्त्वितिपठेत्।
वामपार्ष्णित्रिराघातैर्हस्ततालत्रयेणच।
पातालभूतभोविघ्नानिरस्येतिग्मदृष्टितः।
तीक्ष्णदंष्ट्रेतिमन्त्रेणूर्ध्वन्तालत्रयेणविघ्नानुच्चाटयवामपादपुरःसरङ्गृहम्प्रविशेत्।घण्टाध्वनिङ्कृत्वाद्वारमाछाद्यपूजास्थानङ्गत्वा३ब्रह्मणेनमः।३वास्तुपुरुषाय०।इतिसम्पूज्य॥
अद्येत्यादिममश्रीमहात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थम्पूजाङ्करिष्येइतिसङ्कल्प्यदक्षिणभागेउदककुम्भंस्थापयेत्।तस्याधारे।३सांसाकिन्यै०।३हांहाकिन्यै०।३यांयाकिन्यै०।३डाण्डाकिन्यै०।

३रांराकिन्यै०।३लांलाकिन्यै०।३काङ्काकिन्यै०।निधायसाम्भःकलशंस्वदक्षिणेसाधारम्मार्च्याक्षतगन्धपुष्पैः।यद्वारिसंरक्ष्यसुदर्शनेनधेन्वामृतीकृत्यसुपर्णमुद्रया।निर्विषीकृत्यगङ्गान्ताम्मन्त्रेणवाहये०जले।
गङ्गेचयमुनेचैवगोदावरिसरस्वति।
नर्मदेसिन्धुङ्कावेरिजलेस्मिन्सन्निधिङ्कुरु॥
३ओन्नमोभगवतिअशेषतीर्थालवालेशिवटजाधिरूढेगङ्गेगङ्गाम्बिकेस्वाहा॥
सर्वानन्दकरीमशेषदुरितध्वंसीम्मृगाङ्कप्रभां
त्र्यक्ष्णामूर्ध्वकरद्वयेनदधतीम्पाशंसृणीचक्रमात्।
दोर्भ्याञ्चामृतपूर्णकुम्भमपरेमुक्ताक्षमालाधरां
गङ्गासिन्धुसरिद्वरादिरूचिरांश्रीतीर्थशक्तिम्भजे।
एवन्ध्यात्वाचकलशेहेतुकुम्भमथार्चयेत्।स्वदक्ष-

भागेतोयेनसम्प्रोक्ष्यमत्स्यमुद्रया।विधायमण्डलन्तत्रसवृत्तचतुरस्रकं।तच्छङ्खमुद्रासहितदक्षाङ्गुष्ठेनसंस्पृशन्।अग्नीशासुरवायव्यकोणेषुहृदयादिकं।चतुष्कमध्यमन्नेत्रन्दिक्ष्वस्त्रञ्चप्रपूजयेत्।३ह्रांह्रीमित्यादिषडङ्गंसम्पूज्यास्मिन्हेतुघटाधारंसंस्थाप्याग्निकलायजेत्।३ऐंअग्निमण्डलायधर्मप्रददशकलात्मनेहेतुकुम्भाधारायनमःइतिसम्पूज्यतत्र३यन्धूम्रार्चिषेनमः।
३रंऊष्मायै०।३लञ्ज्वलिन्यै०।३वञ्ज्वालिन्यै०।३शंविस्फुलिङ्गिन्यै०।३षंसुश्रियै०।३संसुरूपायै०।३हङ्कपिलायै०।३लंहव्यवाहायै०।३क्षङ्कव्यवाहायै०।ऐंअग्निन्दूतंवृणीमहेहोतारंविश्ववेदसं।अस्ययज्ञस्यसुक्रतुं।इतिजप्त्वा।तत्राधारोपरिरांरींरूंरैंरौंरःरमलवरयुम्मितिहेतुकशंसंस्थाप्यसूर्यकला

यजेत्।३क्लींसूर्यमण्डलायार्थप्रदद्वादशकलात्मनेहेतुकुम्भायनमितिकुम्भंसम्पूज्यतत्र३कम्भन्तपिन्यै०।३खम्बन्तापिन्यै०॥३गम्फन्धूम्रायै०।३घम्पम्मरीच्यै०।३ङण्णञ्ज्वलिन्यै०।३चन्धंरुच्यै०।३छन्दंसुषुम्नायै०।३जन्थम्भोगदायै०।३झन्तंविश्वायै०।३ञण्णम्बोधिन्यै०॥३टण्ढन्धारिण्यै०।३ठण्डङ्क्षमायै०॥
३आकृष्णेनरजसावर्त्तमानोनिवेशयन्नमृतम्मर्त्यञ्च।
हिरण्ययेनसवितारथेनादेवोयातिभुवनानिपश्यत्।
३हांहींहूंहैंहौंहःहसलवरयूमितिगन्धपुष्पाक्षतैःकुम्भंसम्पूज्यद्रव्यंशोधयेत्।
वासुदेवन्द्वादशार्णंवर्मास्त्रंहृदयैर्युतं।३ओन्नमोवासुदेवायहुम्फट्नमःसमुच्चरन्सप्तवारमभिमन्त्र्यकुलामृतं।सप्तवारन्द्रव्यमभिमन्त्र्य।तस्माद्बिन्दुङ्गृहीत्वा।वामकनिष्ठिकयापथिकमन्त्रैर्दशदिक्षु

क्षिपेत्।३ह्स्ख्फ्रेम्पथिकदेवताभ्योहुम्फट्।३ग्रामचाण्डालिनीहुम्फट्।३तन्तपिनीचाण्डालिनीहुम्फट्।३पन्निन्दाचाण्डालिनीहुम्फट्।३सर्वपशुजनदोषायहुम्फट्।
पथिकाद्यैश्चमन्त्रैस्तुदिक्षुपथिकदेवताः।
पञ्चभिर्बिन्दुभिस्तर्प्यगन्धपुष्पाक्षतैर्यजेत्।
ओन्नमोभगवतिवारुणिजलमूर्त्तयेग्रामेश्वरिक्रमेणपथिकदेवतेगृह्ण२सर्वदोषान्मोचय२सर्वदोषमोचिकायैस्वाहाविमोचिकायैस्वाहेतिजप्त्वातत्रैव।
गोपालम्बटुकञ्चैवगणनाथम्महेश्वरीं।
सर्वशापनिवृत्यर्थंशुक्रशापंविमोचयेत्।
ओन्नमोभगवतेदेवकीनन्दनायवसुदेवसूनवेगोपालायनमः॥
१ओंह्रीबम्बटुकायापदुद्धारणायकुरु२बटुकायह्रीओं॥२॥
ओंश्रींह्रीङ्क्लीङ्ग्लौङ्गङ्गणपतयेवरवरदसर्वजनम्मेवशमानयस्वाहा॥३॥
मूलं।तथाचक्रचः।इदंविष्णुरिति।

क्षेत्रस्यपतिनेति।गणानान्त्वेति।सूयवसाद्भगवतीति।ततः३श्रींह्रीङ्क्लींऐंसांसींसूंसैंसौंसःशुक्रशापविमोचिकायै२स्वाहेतिजपेत्।
शुक्रशापन्द्रव्यदोषन्ततन्मन्त्रेणमोचयेत्।
द्रव्यंसिक्तकरामोदघ्रायप्रीतमानसः।
पुनस्तत्रैव।
३ऐङ्क्लीसौःओन्नमोभगवतितिरस्करिणिमहामायेमहानिद्रेसकलपशुजनमनश्चक्षुस्तिरस्करणङ्कुरु२स्वाहासौःक्लींऐंश्रींह्रींऐं।इतिजप्त्वाध्यायेत्।
ध्यानं।
नीलन्तुरङ्गमधिरुह्यविराजमाना
नीलाम्बराभरणमाल्यविभूषणाढ्या॥
निद्रापटेनभुवनानितिरोदधाना
खड्गायुधाभगवतीपरिपातुसानः।
इतितिरस्करिणीध्यात्वाद्वितीयंशोधयेत्।तद्बिन्दुनासम्प्रोक्ष्य।३पशुपाशायविद्महेशिरच्छेदायधीमहि।तन्नश्छागःप्रचोदयात्।पशु-

मन्त्रन्त्रिरूच्चार्यगन्धपुष्पाक्षतैर्यजेत्।
उद्बुध्यस्वपशोत्वंहिनपशुस्त्वंशिवोह्यसि।
शिवोत्कृतमिदम्पिण्डमतस्त्वंशिवतांव्रज।इतित्रिः।
शिवोत्कृतन्त्रिरूच्चार्यपञ्चब्रह्ममनून्जपेत्।तेच।सद्योजातमिति।वामदेवायेति।अघोरेभ्योथघोरेभ्यिति।तत्पुरुषायेति।ईशानःसर्वविद्यानामिति।ततः।वाक्ताप्यायताम्प्राणस्ताप्यायताञ्चक्षुस्ताप्यायतांश्रोत्रन्ताप्यायतां।यातेप्राणाच्छुग्जगामयाचक्षुर्याश्रोत्रंयत्तेक्रूरन्तत्तदास्थितन्तत्ताप्यायतान्ततेतेनशुन्धतां।
नाभिस्ताप्यायताम्पायुस्ताप्यायतांशुद्धाश्चपित्राःशमद्भ्यः।तद्विष्णोरितिऋकितिजप्त्वा।त्र्यम्बकेनमीनशुद्धिः।
३क्लींउच्चरन्महापात्रेशुद्धिलेशंविनिक्षिपेत्।
३सौःसोममण्डलायकामप्रद

षोडशकलात्मनेहेतुकुम्भामृतायनमः।इतिअमृतंसम्पूज्य।
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतं।
आपूरितम्महापात्रम्पीयूषरसमावह।
पीयूषमेतेनापूर्यततःसोमकलायजेत्।
३अंअमृतायै०।३आम्मानदायै०।३इम्पुषायै०।३ईन्तुष्ट्यै०।३उम्पुष्ट्यै०।३ऊंरत्यै०।३ऋन्धृत्यै०।३ऋंशशिन्यै०।३ऌञ्चन्द्रिकायै०।३ॡङ्कान्त्यै०।३एञ्ज्योत्स्नायै०।३ऐंश्रियै०।३ओम्प्रीत्यै०।३औंअङ्गदायै०।३अम्पूर्णायै०।३अःपूर्णामृतायै०।
आप्यायस्वसमेतुतेविश्वतःसोमवृष्णियं।भवावाजस्यसङ्गथे।
३सांसींसूंसैंसौंसःसमलवरयूं
३मधुवाताऋतायतेमधुक्षरन्तिसिन्धवः।
माध्वीर्नःसन्त्वोषधीःमधुनक्तमुतोषसे।
मधुमत्पार्थिवंरजःमधुद्यौरस्तुनःपिता।
मधुमान्नोवनस्पतिर्मधुमांअस्तुसूर्यः।
माध्वीर्गावोभवन्तुनः

यन्मधुनोमधव्यम्परममन्नादंवीर्यन्तेनाहम्मधुनोमधव्येनपरमेणान्नादेनपरमोन्नादोमधव्योसानीति।हिरण्यपात्रम्मधोःपूर्णददाति।मधव्योसानीति।एकधाब्रह्मणुपहरति।एकधैवयजमानायुस्तेजोदधाति।
घृणिःसूर्यादित्योनप्रभानात्यक्षरं।मधुक्षरन्तितद्रसं।सत्यंवैतद्रसमापोज्योतीरसोमृतम्ब्रह्मभूर्भुवःसुवरों।आर्द्रञ्ज्वलतिज्योतिरहस्मि।ज्योतिर्ज्वलतिब्रह्माहमस्मि।योहमस्मिब्रह्माहमस्मिअहमस्मिब्रह्माहमस्मि।
अहमेवाहम्माञ्जुहोमिस्वाहा।स्वादिष्ठयेतिऋक्।
त्रिभिष्ट्रन्देवसवितर्वर्षिष्ठैःसोमधामभिः।अग्रेदक्षैःपुनीहिनः।पुनन्तुमान्देवजनाः।पुनन्तुवसवोधिया।विश्वेदेवाःपुनीतमाजातवेदःपुनीहिमा।प्रप्यायस्व-

प्रस्पन्दस्वसोमविश्वेभिरंशुभिः।देवेभ्युत्तमंहविः।पावमानीःस्वस्त्ययनीतिएकोवर्गः।इतिजप्त्वा।
तस्मिन्नमृतेआनन्दभैरवानन्दभैरव्यौध्यायेत्।
सूर्यकोटिप्रतीकाशञ्चन्द्रकोटिसुशीतलं।
अष्टादशभुजन्देवम्पञ्चवक्त्रन्त्रिलोचनं।
अमृतार्णवमध्यस्थम्ब्रह्मविद्योपरिस्थितं।
वृषारूढन्नीलकण्ठंसर्वाभरणभूषितं।
कपालखट्वाङ्गधरङ्घण्टाडमरूवादिनं।
पाशाङ्कुशधरन्देवङ्गदामुसलधारिणं।
पट्टिशङ्खेटकङ्खड्गम्मुद्गरंशूलकुन्तकौ।
बिभ्रन्तम्परशुम्मुण्डंवरदाभयपाणिनं।
लोहितन्देवदेवेशम्भावयेत्साधकाग्रणीः।
भावयेच्चसुधादेवीञ्चद्रकोट्यायुतप्रभां।
हिमकुन्देन्दुधवलाम्पञ्चवक्त्रान्त्रिलोचनां।
अष्टादशभुजैर्युक्तांसर्वानन्दकरोद्यतां।

प्रहसन्तींविशालाक्षीन्देवदेवस्यसम्मुखीं।
अमृतार्णवसम्भूतअमृतेश्वरितृप्तोभव।
सिद्धोद्भवसर्वानन्दजनकोद्भवायामृतकुलकुम्भायफ्रेम्फ्रीम्फट्चल२पिब२अमृतङ्कुरु२स्वाहा।
अमृतेआनन्दरूपिणीत्यासवेत्यानन्ददायिनिह्स्ख्फ्रेंह्स्रैंस्वाहामृतेश्वरिस्वाहा।
३मदनेमदनानलेमद२मज्ज२द्रीन्द्रीङ्क्लीम्ब्लूंसःअमृतभैरव्यैनमःअमृतभैरवीस्वाहेतित्रिर्जप्त्वा।
३हसक्षमलवरयूंआनन्दभैरवायवौषट्।
३हसक्षमलयींआनन्दभैरव्यैवषट्।
इतिदशधाजप्यतम्मिन्नमृतैएतन्मिथुनन्तदुभयमन्त्रेणतत्रैवतर्पयेत्।
अमृतार्णवनामानममृतेमामकम्मनुं।
मदनानलित्याख्यन्त्रिर्जप्त्वाथसुधाघटं।
गन्धपुष्पाक्षतैःपूज्यितिहेतुघटार्चनं।
शङ्खार्घ्यशक्तिभागोर्चाबलिपात्राणिषट्कच।

वामादिदक्षान्तंस्थापयेदर्चनाविधौ।
यद्वा।
आदौकुम्भन्तथाशङ्खंश्रीपात्रंशक्तिपातकं।
गुरुपात्रम्भोगपात्रम्बलिपात्राण्यनुक्रमात्।
तद्वामभागेतोयेनसम्प्रोक्ष्यझषमुद्रया।
त्रिकोणषट्कोणवृत्तचतुरस्रात्ममण्डलं।
तच्छङ्खमुद्रासहितदक्षाङ्गुष्ठेनसंस्पृशन्।
अग्नीशासुरवायव्यकोणेषुहृदयादिकं।
चतुष्कमध्यमन्नेत्रन्दिक्ष्वस्त्रञ्चप्रपूजयेत्।
शङ्खाधारमण्डलेत्रसंस्थाप्याग्निकलांयजेत्।
३ऐंअग्निमण्डलायधर्मप्रददशकलात्मनेसामान्यार्घ्यपात्राधारायनमित्याधारंस्थाप्यतत्रपूर्वोक्तदशकलाःपूज्य।आधारेशङ्खंसंस्थाप्यगन्धपुष्पाक्षतादिभिःपृष्ठेसम्पूज्यतन्मध्येकलाःसूर्यस्यपूजयेत्।
३क्लींसूर्यमण्डलायार्थप्रद

द्वादशकलात्मनेसामान्यार्घ्यपात्राय०पूर्वोक्तद्वादशकलाःपूजयेत्।ततःशङ्खेशुद्धजलमापूर्यसोमकलाःयजेत्।
३सौःसोममण्डलायकामप्रदषोडशकलात्मनेसामान्यार्घ्यामृताय०अंअमृतायै०इत्यादिपूर्वोक्तषोडशकलाःपूजयेत्।ततःशङ्खङ्गन्धापुष्पाक्षतैरभ्यर्च्यतदन्तरेहेतुलवन्निधाय।प्रदर्श्यचद्वेस्तनयोनिमुद्रेबालासमेतास्त्रमनुम्प्रजल्पन्।
३ऐङ्क्लींसौःअस्त्रायफट्।शङ्खोदकेनात्मतनुम्पूजाद्रव्याणिप्रोक्षयेदितिशङ्खपूजा।स्वाग्रेप्रोक्ष्याम्भसाप्राग्वत्कृत्वामण्डलमर्चयेत्।खण्डत्रयैस्त्रिकोणेषुमध्येखण्डेनपूजयेत्।षट्कोणेषुहृदादीनिषडङ्गानिप्रपूजयेत्।
३ऐंअग्निचक्रेकामगिर्यालयेमित्रीशनाथनवयोनिचक्रात्मन-

त्वसृष्टिकृत्येछाशक्तिवाग्भवात्मकवागीश्वरिस्वरूपकामेश्वरीब्रह्मात्मशक्तिश्रीपा०।
३क्लींसूर्यचक्रेजालन्धरपीठेषष्ठीशनाथदशारद्वयचतुर्दशारचक्रविद्यातत्वस्थितिकृत्यज्ञानशक्तिकामराजात्मककामकलास्वरूपवज्रेश्वरीविष्ण्वात्मशक्तिश्री०।
३सौःसोमचक्रेपूर्णगिरिपीठगह्वरेउड्डीशनाथाष्ठारषोडशारचतुरस्रचक्रशिवतत्वसंहारकृत्यक्रियाशक्तिशक्तिबीजात्मकपरापरशक्तिभगमालिनीरुद्रात्मशक्तिश्री०।
३ऐङ्क्लींसौःपरब्रह्मचक्रेमहोड्यानपीठेचर्यानन्दनाथसमस्तचक्रसपरिवारपरमतत्वसृष्टिस्थितिसंहारकृत्येछाज्ञानक्रियाशक्तिवाग्भवकामराजशक्तिबीजात्मकपरमशक्तिस्वरूपश्रीमहात्रिपुरसुन्दरीपरब्रह्मात्मशक्तिश्री०।
ह्रांहृदयदेवी

श्री०।३ह्रींशिरोदेवीश्री०।३ह्रूंशिखादे०।३ह्रैङ्कवचदे०।३ह्रौन्नेत्रदे०।३ह्रःअस्त्रदे०।
अस्मिन्विशेषार्घ्याधारंस्थाप्याग्निकलायजेत्।
३ऐंअग्निमण्डलायेतिपूर्वोक्तक्रमेण।
तस्मिन्विशेषार्घ्यपात्रंस्थाप्यसूर्यकलांयजेत्।
३क्लींसूर्यमण्डलायेतिपूर्वोक्तक्रमेण।
क्लीमुक्तातस्मिन्पात्रेप्रथमतःशुद्धिलेशंविनिक्षिप्यकुलामृतंसमापूर्याथसम्पूज्यसोमस्यकलाःपूर्वोक्तक्रमेणपूजयेत्।
ततः।आग्नेयादिनिरृत्यन्तंस्वारान्वैक्रमशोलिखेत्।
उदगादग्निपर्यन्तङ्कादितान्तान्क्रमाल्लिखेत्॥१॥
नैऋत्यादिकुबेरान्तयादिसान्तान्क्रमाल्लिखेत्।
त्रिकोणेषुहलक्षांश्चबिन्दुयुक्तान्क्रमाल्लिखेत्।
अकथादित्रिरेखंहङ्क्षम्पार्श्वेहंसमध्यगं।
कुलपद्मासनम्पात्रंसुधायांसंविभाव्यच।

पञ्चरत्नानिसम्पूज्यतत्रैवचतुरस्रकं।
वृत्तत्रिकोणषट्कोणंवृत्ताष्टारंविलेखयेत्।
३ग्लूङ्गगनरत्नायनमः।३स्लुंस्वर्गरत्नाय०।३प्लूम्पातालरत्नाय०।३म्लूम्मर्त्यरत्नाय०।३न्लून्नागरत्नाय०।आनन्दभैरवद्वन्द्वञ्चतुरस्रेलिनार्चयेत्।३हसक्षमलवरयूंआनन्दभैरवायवौषट्तर्पयामिनमः॥
३हसक्षमलवरयींसुधादेव्यैवषट्तर्पयामिनमः॥
खण्डत्रयैस्त्रिकोणेषुमध्येखण्डेनपूजयेत्।
षट्कोणेषुहृदयादीनिषडङ्गानिप्रपूजयेत्।
सशक्तिवसिताङ्गादीनष्टारेष्टौसमर्चयेत्।
३ऐंअग्निचक्रेब्रह्मात्मशक्तिश्री०॥
३क्लींसूर्यचक्रेविष्ण्वात्मशक्तिश्री०॥
३सौःसोमचक्रेरुद्रात्मशक्तिश्री०॥

३ऐङ्क्लीसौःपरब्रह्मचक्रेपरब्रह्मात्मशक्तिश्री०॥
३ह्रामितिदीर्घभाजाषण्डङ्गदेवीःसम्पूज्य॥
३अंअसिताङ्गभैरवाम्ब्रह्माणीदेवीश्री०॥
३इंरुरुभैरवसहितंईम्माहेश्वरीदे०॥
३उञ्चण्डभैरवसहितूङ्कौमारीदे०॥
३ऋङ्क्रोधभैरवसहितरृंवैष्णवीदे०॥
३ऌंउन्मतभैरवसहितॡंवाराहीदे०॥
३एङ्कपालभैरवसहितैम्माहेन्द्रीदे०॥
३ओम्भीषणभैरवसहितौञ्चामुण्डादे०॥
३अंसंहारभैरवसहितअःमहालक्ष्मीदे०॥
कलाहुताशार्कसुधाशुजाताहंसप्रतत्र्यबङ्कतत्समेताः।कश्चीशरुद्रेश्वरजाश्चविष्णुर्योनिंस्रजन्ताःशिवजाश्चविद्याः।अग्निसूर्यकलाश्चन्द्रकलापूर्वोक्ताः३९?।
३अम्ब्रह्मकलाभ्योनमः।३कंसृष्ट्यैनमः।३खंऋध्यै०।३गं

स्मृत्यै०।३घम्मेधायै०।३ङङ्कान्त्यै०।३चंलक्ष्म्यै०।३छन्द्युत्यै०।३जंस्थिरायै०।३झंस्थित्यै०।३ञंसिद्ध्यै०॥३हंसःशुचिषद्वसुरन्तरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्।नृषद्वरसदृतसद्व्योमसदब्जागोजाऋतजाद्रिजाऋतम्बृहत्॥१॥
उंविष्णुकलाभ्यो०।३टञ्जरायै०।३ठम्पालिन्यै०।३डंशान्त्यै०।३ढंईश्वर्यै०।३णंरत्यै०।३तङ्कामिकायै०।३थंवरदायै०।३दंह्लादिन्यै०॥३धम्प्रीत्यै०।३नन्दीर्घायै०।३प्रतद्विष्णुस्तवतेवीर्येणमृगोनभीमःकुचरोगिरिष्ठाः।यस्योरुषुत्रिषुविक्रमेणष्वधिक्षियन्तिभुवनानिविश्वा॥
३मंरुद्रकलाभ्यो०।३पन्तीक्ष्णायै०।३फंराद्र्यै०।३बम्भयायै०।३भन्निद्रायै०।३मन्तन्द्र्यै०।३यङ्क्षुते०।३रङ्क्रोधिन्यै०।३लङ्क्रियायै०।३वंउद्गारिण्यै०।३शम्मृत्यवे०।
३त्रयम्बकंयजामहेसुगन्धिम्पुष्टिवर्धनं।
उ-

र्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात्।
३मम्बिन्द्वीश्वरकलाभ्यो०।३षम्पीतायै०।३संश्वेतायै०।३हंअरूणायै०।३ऴंअसितायै०॥क्षंअनन्तायै०॥
३तद्विष्णोःपरमम्पदंसदापश्यन्तिसूरयः।
दिवीवचक्षुराततं।३हन्नादात्मकसदाशिवकलाभ्यो०।३अन्निवृत्यै०।३आम्प्रतिष्ठायै०।३इंविद्यायै०।३ईंशान्त्यै०।३उंइन्दिरायै०।३ऊन्दीपिकायै०।३ऋंरेचिकायै०।३ऋम्मोचिकायै०।३ऌम्परायै०।३ॡंसूक्ष्मायै०।३एंसूक्ष्मामृतायै०।३ऐञ्ज्ञानायै०।३ओञ्ज्ञानामृतायै०।३औंआप्यायिन्यै०।३अंव्यापिन्यै०।३अःव्योमरूपायै०॥
३विष्णुर्योनिङ्कल्पयतुत्वष्टारूपाणिपिंशतु।
आसिञ्चतुप्रजापतिर्धातागर्भन्ददादुमे।
गर्भन्धेहिसिनिवालिगर्भन्धेहिसरस्वति।
गर्भन्तेअश्विनौदेवावाधत्ताम्पुष्करस्रजा।
३ऐङ्क्लींसौःश्रीमहात्रिपुरसुन्दर्यै०इत्येकैकवारं।३ओंआंह्रीं

क्रोंयं१०हौंहंसःह्रींओंअमृतप्राणिहप्राणाः।२२अमृतजीविहस्थितः।२२अमृतस्यसर्वेन्द्रियाणिवाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाक्पाण्याद्याइहागत्यसुखञ्चिरन्तिष्ठन्तुस्वाहा।
३असुनीतेपुनरस्मासुचक्षुःप्राणमिहनोधेहि।
ज्योक्पश्येममुच्चरन्तमनुमतेमृल?यानःस्वस्ति।
हंसःशुचिः२२हंसःह्रींओं।इतिप्राणप्रतिष्ठान्द्विवारङ्कृत्वा।सकल५१मातृकात्रिवारं।३ऐंअखण्डैकरसानन्देपरेपरसुधात्मकि।
स्वच्छन्दस्फुरणादत्रनिधेहिकुलसुन्दरि।
३क्लींअकुलस्थामृताकारेसम्यग्ज्ञानकरेपरे।
अमृतत्वन्निधेह्यस्मिन्वस्तुनिक्लिन्नरूपिणि।
३सौःचिद्रूपिण्यैकरःस्वान्तकृत्वाह्येतत्स्वरूपिणि।
भूत्वाकुलामृताकारम्मयिञ्चित्स्फुरणङ्कुरु।
अखण्डैकादिकान्मनुंश्चतुर्वारं।
वाग्भवम्पाविनीभूमिषुष्टिबिदुसमन्विता।

स्थितिःसपावकोनुग्रहार्धेन्दुसमलङ्कृता।
स्थिरार्घिशेन्दुसंयुक्ताश्वेताबिन्दुसमन्विता।
अथामृतेपदम्ब्रूयात्तत्पश्चादमृतोद्भवे।
अथामृतेश्वरीत्युक्त्वापश्चादमृतवर्षिणि।
अमृतंस्रावययुगन्द्विठान्तःशापशुद्धिकृत्।
अमृतेशीमनुःप्रोक्तःपञ्चत्रिशद्भिरक्षरैः।
३ऐम्प्लूंह्स्रौञ्जूंसःअमृतेअमृतोद्भवेअमृतेश्वरिअमृतवर्षिणीअमृतंस्रावय२स्वाहा॥इतिपञ्चवारं।
ओंह्रींऐंवद२वाग्वादिनिऐङ्क्लिन्नेक्लेदिनिक्लेदयमहाक्षोभङ्कुरु२क्लींसौःमोक्षङ्कुरु२ह्सौःस्हौः।इतिदीपिन्यष्टवारं।३मूलन्नववारं।
एताःप्राणम्मातृकाश्चअखण्डैकादिन्मनून्।
अमृतेशीन्दीपिनीञ्चमूलमन्त्रमपिक्रमात्।
एकद्वित्रिचतुःपञ्चद्विचतुर्नववारकं।
संस्पृष्टवाभ्यर्चितम्पात्रम्प्रजपेत्धेनुमुद्रया।
समाछाद्यमहायोनिमुद्रयास्त्रेणवृक्ष्यच।

कवचेनावगुण्ठ्याथधेनुयोनीप्रदर्शयेत्।
३ऐङ्क्लींसौःश्रीमहात्रिपुरसुन्दर्य्यमृतायगन्धन्नमितिमन्त्रमुक्त्वापात्रेगन्धन्दत्वा।एवम्पुष्पन्धूपन्दीपन्नैवेद्यम्प्रत्येकमिमानुपचारान्पञ्चापिसमर्प्यतदलिर्देव्यार्चायैदद्यात्।
एषाविशेषार्घ्यश्रीपात्रसरणिः।स्वाग्रेप्रोक्ष्याम्भसाप्राग्वत्कृत्वामण्डलमर्चयेत्।अस्मिन्शक्तिपात्राधारंअग्निकलाभिःसंस्थाप्यसूर्यकलाभिःपात्रमाधारेस्थाप्यतस्मिन्हेतुकुम्भात्परमामृतन्द्वितीयशकलसहितन्निक्षिप्यसोमकलाभिःसम्पूज्यत्रितारशक्तिकूटेनदशवारमभिमन्त्रयेत्।इतिशक्तिपात्रस्थापनं।गुरुभोगपूजाबलीनापात्राणितुप्राग्वत्त्रीणिमण्डलानिलिखित्वा।तेषुत्रीणिपात्राणिसंस्थाप्यगन्धपुष्पाक्षतैर्यजेत्।
शुद्धिलेशंविनिक्षिप्यसुधयापूरयेत्ततः॥

गुरुपात्रेश्रीगुरोःपादुकांअष्टवारं।भोगपात्रे३नमोमहद्भ्योनमोअर्भकेभ्योनमयुवभ्योनमासिनेभ्यः।यजामदेवान्यदिशन्कवाममाज्यायसःशंसमावृक्षिदेवाः।इतिपञ्चवारं।
बलिपात्रेवक्ष्यमाणबलिमन्त्रैःसप्तवारं।
श्रीगुरोःपादुकाम्मूर्ध्निंश्रींह्रीङ्क्लीम्पूर्वमात्मनः।
गन्धपुष्पाक्षतैःपूज्यस्वयङ्गन्धाद्यलङ्कृतः।
स्वपुरःप्रोक्ष्यतोयेनविलिखेन्मत्स्यमुद्रया।
चतुरस्रेमण्डलेस्मिन्नात्मपात्रेसहासनं।
संस्थाप्यसुधयापूर्यगन्धपुष्पाक्षतैर्यजेत्।
प्राग्वतात्मपात्रंसंस्थाप्यतस्मिन्नात्माष्टाक्षरमन्त्रेणाष्टवारमभिमन्त्र्य।सर्वपात्रेषुविशेषार्घ्यबिन्दुन्दत्वागुरुपात्रामृतेन।द्रव्येणशिरसिगुरून्पादुकाश्चरणानिच।पारम्पर्यक्रमं

विन्द्याद्रहस्यान्सप्तविंशतिः।कराभ्याञ्चिन्मुद्रासमधुनृकपालञ्चदधतीं।धृतस्वर्णप्रख्यामरुणकुसुमालेपवसनां।कृपापूर्णापाङ्गीमरूणनयनाम्बर्बरकचामुपेतान्तिस्रोघैःयजतुगुरुपक्तिङ्कृतमतिः।गुरुत्रयपादुकात्रयचरणत्रयपारम्पर्याणिसप्तविंशतिरहस्यानिसम्पूजयेत्।तानितुगुरुमुखादवगन्तव्यानि।पुनःगुरुत्रयम्महापादुकाम्पूज्यमूलाधारेस्वपादुकाञ्जपेत्।मूर्ध्नि३चिद्व्योम्निनाथश्री०।मूलाधारे३विश्वजगदाप्यायिनोन्मुखीनाथश्री०।सम्पूज्यपादुकेगुरोर्हृद्देव्यार्प्यचामृतं।परमामृतवर्षेणप्लावयन्तञ्चराचरं।सञ्चिन्त्यपरमाद्वैतभावनामृतसेवया।मोदमानोविस्मृतान्यंविकल्पविभवभ्रमः।

चिदम्बुधिमहाभङ्गभिन्नसङ्कोचसङ्कटः।
समुल्लसन्महानादोलोकानन्तर्मुखोहिसः।
मन्त्रीययामनोवृत्यापरमाद्वैतमीहते।
सपर्यासर्वभावेषुसापरापरिकीर्त्तिता।
अपरातोबहिर्वक्ष्यमाणचक्रार्चनाविधिः।
परापरस्यबाह्यस्यचिद्व्योम्निविलयस्मृतः।
इत्थन्त्रिधासमुद्दिष्टाबाह्याभ्यन्तरभेदतः।

इतिपात्रासादनान्तर्यागविधिरूपस्तृतीयःप्रकाशः॥

एवमात्मार्चनङ्कृत्वाश्रीचक्रमभिपूजयेत्।
रत्नसिंहासनेस्थाप्यसमस्तेतिमनुन्ततः।
विलोमेनानुलोमेनपठन्पुष्पाञ्जलीन्क्षिपेत्।
३समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापररहस्ययोगिनीसंहारचक्र-

देवताभ्योनमः।
३परापररहस्यातिरहस्यनिगर्भकुलकौलसम्प्रदायगुप्ततरगुप्तसमस्तप्रकटयोगिनीसृष्टिचक्रदेवताभ्यो०।
३समस्तप्रकटगुप्तगुप्ततरसम्प्रदायपरापररहस्यातिरहस्यनिगर्भकुलोत्तीर्णयोगिनीस्थितिचक्रदेवताभ्यो०।
३अतिरहस्यपरापररहस्यकुलकौलनिगर्भसम्प्रदायगुप्तगुप्ततरसमस्तप्रकटयोगिनीसमष्टिचक्रदेवताभ्यो०।
३सृष्टिस्थितिसंहारकृत्येछाज्ञानक्रियाप्रमुखसर्वशक्तिमण्डलमण्डितत्रैलोक्यमोहनसर्वाशापरिपूरकसर्वसङ्क्षोभणसर्वसौभाग्यदायकसर्वार्थसाधकसर्वरक्षाकरसर्वरोगहरसर्वसिद्धिप्रदसर्वानन्दमयाख्यनवचक्राधीश्वरीत्रिपुरेत्रिपुरेशीत्रिपुरसुन्दरि

त्रिपुरवासिनित्रिपुराश्रीत्रिपुरमालिनित्रिपुरासिद्धेत्रिपुराम्बमहात्रिपुरसुदंरिमहा२माहेश्वरिमहा२राज्ञिमहा२शक्तेमहा२गुप्तेमहा२ज्ञप्तेमहा२नन्देमहा२स्पन्देमहा२शय्येमहा२श्रीचक्रनगरसामाज्ञिनमस्ते२स्वाहाश्रींह्रींऐमितिपञ्चपुष्पाञ्जलीन्दत्वा।
ततः।तद्दिव्यपदपद्मयुगलकवलीकृतनिःशेषग्रामस्वरूपिणीश्रीमहात्रिपुरसुन्दरीपराभट्टारिकाम्बायैनमितिनमस्कारपुष्पाञ्जलिन्दत्वाकल्पसूत्रोक्तमन्दिरपूजाङ्कुर्यात्तद्यथा।
३अमृताम्भोनिधये०।३रत्नद्वीपाय०।३नानावृक्षमहोद्यानाय०।३कल्पवृक्षवनवाटिकायै०।३सन्तानवनवाटि०॥हरिचन्दनवनवाटि०।३मन्दारवाटिकायै०॥

३कदम्बवनवाटि०।३पारिजातवनवाटि०।३बिल्ववनवाटि०।३पुष्परागरत्नप्राकाराय०।३पद्मरागरत्नप्रा०।३गोमेदरत्नप्रा०।३वज्ररत्नप्रा०।३वैडुर्यरत्नप्रा०।३इन्द्रनीलरत्नप्रा०।३मौक्तिकरत्नप्रा०।३मरकतरत्नप्रा०।३विद्रुमरत्नप्रा०।३माणिक्यरत्नप्रा०।३नानारत्नसहस्रस्तम्भमण्डपाय०।३अमृतवापिकायै०।३आनन्दवापिकायै०।३विमर्शवापिकायै०।३बालातपोद्गाराय०।३चन्द्रिकोद्गाराय०।३महाशृङ्गारपरिखायै०।३महापद्माख्यै०।३चिन्तामणिग्रहराजाय०।३पूर्वाम्नायमयपूर्वद्वाराय०।३दक्षिणाम्नायमयदक्षिणद्वारा०।३पश्चिमाम्नायमयपश्चिमद्वाराय०॥
३उत्तराम्नायमयोत्तरद्वाराय०।३ऊर्ध्वम्नायमयोर्ध्वश्रृङ्गाय०(द्वाराय०)।३रत्नप्रदीपवलयाय०।३मणिमयमहासिंहासनाय०।३ब्रह्ममयैकमञ्चपादाय०।३विष्णुमयैकमञ्चपादाय०।३रुद्रमयै-

यै०।३हंसतूलमहोपधानायै०।३कौसुम्भास्तरणाय०।३महावितानाय०।३महामायाजवनिकायै०॥
३ततःकालाग्निरुद्राद्यष्टकम्पूजयेत्।३कालाग्निरुद्राय०।३मम्मण्डूकाय०।३आंआधारशक्तये०।३अंअनन्ताय०।३कुङ्कूर्माय०।३वांवराहाय०।३दिन्दिग्गजेभ्यो०।३पृम्पृथ्व्यै०॥पूर्वाद्यष्टदिशश्चोर्ध्वमधश्चेन्द्रादिकान्पूजयेत्॥
३लंइन्द्रायपृथिव्याधिपतयेऐरावतवाहनायवज्रहस्तायत्रिपुरसुन्दरीसपरिवाराय०॥
३रंअग्नयेतेजोधिपतयेमेषवाहनायव्यजनहस्तायत्रिपु०॥
३हंयमायप्रेताधिपतयेमहिषवाहनायदण्डहस्तायत्रिपुर०॥
३षन्निरृतयेरक्षोधिपतयेनरवाहनायखड्गहस्तायत्रि०॥
३वंवरुणायजलाधिपतयेमकरवाहनायपाशहस्तायत्रिपुर०॥

३यंवायवेगन्धर्वाधिपतयेमृगवाहनायध्वजहस्तायत्रिपु०॥
३सङ्कुबेराययक्षाधिपतयेअश्ववाहनायकदाङ्कुशहस्तायत्रिपु०॥
३शंईशानायप्रमथाधिपतयेवृषभवाहनायत्रिशूलहस्तायत्रिपु०॥
३ओम्ब्रह्मणेसत्यलोकाधिपतयेहंसवाहनायकमण्डलुहस्तायत्रि०॥
३ह्रींविष्णवेपाताललोकाधिपतयेगरुडवाहनायचक्रहस्तायत्रि०॥
३ततश्च३रक्तद्वादशशक्तियुक्तायदीपनाथाय०।इतिदीपनाथंसम्पूज्य॥
३जम्बूद्वीपनाथायै०हुफटितिपूजास्थानेपुष्पाजलिन्दत्वा।
तत्रश्रीचक्रंसंस्थाप्यद्वारपूजाङ्कुर्याद्यथा॥
३पूर्वद्वारेद्वारश्रियै०।३सरस्वत्यै०।३महालक्ष्म्यै०।३गौर्यै०।३मायायै०।३दुर्गायै०॥
३दक्षिणद्वारेद्वारश्रियै०।३भद्रकाल्यै०।३स्वस्तये०।३स्वाहायै०।३शुभङ्करायै०।३गौर्यै०।३लोकधात्र्यै०।३वागीश्वर्यै०।
३पश्चिमद्वारे३द्वारश्रियै०।३पृथ्व्यै०।३अमृतार्णवाय०।३कालाग्निरुद्राय०॥

३आधारशक्त्यै०।३ऐश्वर्याय०॥
उत्तद्वारे।३द्वारश्रियै०।३अनैश्वर्याय०।३वैराग्याय०।३अवैराग्याय०॥
पूर्वादिदिक्षु।३धर्माय०।३अधर्माय०।३ज्ञानाय०।३अज्ञानाय०॥
३ऐंअग्निमण्डलाय०।३क्लींसूर्यमण्डलाय०।३सौःसोममण्डलाय०॥ऐम्ब्रह्ममण्डलाय०।३मध्येक्लींविष्णुमण्डलाय०।३सौःरुद्रमण्डलाय०।३आत्मने०।३अन्तरात्मने०।३परमात्मने०॥
३इतिपुष्पाक्षतैःसम्पूज्यध्यायेत्॥
ध्यायेन्निरामयंवस्तुजगत्त्रयविमोहिनीं।
अशेषव्यवहाराणांस्वामिनींसंविदम्परां॥१॥
उद्यत्सूर्यसहस्राभान्दाडिमीकुसुमप्रभां।
जपाकुसुमसङ्काशाम्पद्मरागमणिप्रभां॥२॥
विद्युत्पुञ्जनिभान्तप्तकाञ्चनाभांसुरेश्वरीं।
रक्तोत्पलदलारागपादपल्लवराजितां॥३॥
अनर्घ्यरत्नखचितमञ्जीरचरणद्वयां।
पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजितां॥४॥
कदलीललितास्तम्भसुकुमारोरुकोमलां।

नितम्बबिम्बविलसद्रक्तवस्त्रपरिष्कृतां॥५॥
मेखलाबद्धमाणिक्यकिङ्किणीनादविभ्रमां।
अलक्ष्यमध्यमान्निम्ननाभिंशान्तोदरीम्परां॥६॥
रोमराजिलसद्भूतमहाकुचफलान्वितां।
सुवृतनिबिडोत्तुङ्गस्तनमण्डलराजितां॥७॥
अनर्घ्यमौक्तिकस्फारहारभारविराजितां।
नवरत्नप्रभारज्जुग्रैवेयवरभूषणां॥८॥
श्रुतिभूषाम्मनोरम्याङ्कपोलस्थलमण्डलां।
उद्यदादित्यसङ्काशान्ताटङ्कसुमुखप्रभां॥९॥
पूर्णचन्द्रमुखीम्पद्मवदनांवरनासिकां।
स्फुरन्मदनकोदण्डसुश्रुवाम्पद्मलोचनां॥१०॥
ललाटपट्टसंराजद्रत्नाढ्यतिलकाञ्चितां।
मुक्तामाणिक्यघटितमुकुटस्थलकिङ्किणी॥११॥
स्फुरच्चन्द्रकलाराजन्मुकुटांलोचनत्रयां।
प्रवालवल्लिविलसद्बाहुवल्लिचतुष्टयां॥१२॥

इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजां।
सर्वदेवमयीमम्बांसर्वसौभाग्यसुन्दरी॥१३॥
सर्वतीर्थमयींविद्यांसर्वकामप्रपूरिणीं।
सर्वशास्त्रमयींविद्यांसर्वागमनमस्कृतां॥१४॥
सर्वाम्नायमयींविद्यांसर्ववेदोपशोभितां।
सर्वानन्दमयीञ्ज्ञानगह्वरांसिद्धिदाम्परां॥१५॥
एवन्ध्यात्वापरामम्बांवहन्नासापुटक्रमात्।
त्रिखण्डमुद्रयाबिन्दौमहापद्ममनुस्मरन्॥१६॥
आवाह्यदेवेशिमनुम्पठन्पीठस्थितांस्मरेत्॥
३ह्स्रैंह्स्र्क्लींह्स्रौःमहापद्मवनातस्थेकारणानन्दविग्रहे।
सर्वभूतहितेमातरेह्येहिपरमेश्वरि।
देवेशिभक्तिसुलभेसर्वावरणसंयुते।
यावत्वाम्पूजयिष्यामितावत्वंसुस्थिराभव।
३मूलंस्ह्रीम्भगवतिआगच्छागच्छास्मिन्मण्डले।
सान्निध्यङ्कुरु२स्वाहा।
इति

त्रिखण्डामुद्राम्बध्वा॥
ब्रह्मरन्ध्रान्तस्थान्तडित्कोटिविडम्बिनींसर्वावरणसञ्छन्नांसपरिवारांश्रीचक्रमध्यगतांवामनासापुटमार्गविनिर्गतान्देवीम्बिन्दावावाह्यचिन्तयेत्तत्रबिन्दुमध्येनिवासिनीं।
आवाहनस्थापन।सम्भिधापन।सन्निरोधन।अवगुण्ठन।सम्मुखीकरणपरमीकरणप्रार्थनाधेनुयोनिमुद्राःप्रदर्शयेत्।
प्राणप्रतिष्ठाङ्कृत्वापञ्चोपचारैःपूज्ययोनिप्रदर्श्य।मूलेनसकलीकरणंयजेत्।सुकुङ्कुमविलेपनामितिध्यात्वा।
देवीन्ध्यात्वाकिरीटादिमुद्राःप्रदर्श्यविद्यया।दीपिनीमालिनीभ्याञ्चविशेषार्घ्यामृतेनतु।सन्तर्प्यत्रीन्प्रतिमनुङ्गन्धपुष्पाक्षतैर्यजेत्।पाद्यार्घ्यमाचमनीयमधुपर्कस्नानप्रोक्षणीपात्राणिप्रक्षाल्यतन्मूलेत्रिकोणमण्डलानिविरच्याधारोपरिपात्राणिस्थाप्य

पाद्यपात्रेश्यामाकदूर्वाब्जविष्णुक्रान्ताःनिक्षिप्यगन्धाक्षतपुष्पैःपूज्यमूलञ्जपेत्।अर्घ्यपात्रेगन्धाक्षतपुष्पायवकुशाग्रतिलसर्षपाःदूर्वाश्चेति।आचमनीयेजातीफललवङ्गकङ्कोलानि।मधुपर्कपात्रेदधिमधुघृतं।पुनराचमनीयेशुद्धञ्जलं।स्नानप्रोक्षणीयेगन्धपुष्पाक्षताश्चनिक्षिप्यमूलम्मन्त्रञ्जपेत्।चतुःषष्ट्युपचारानाचरेद्यथा।
३मूलेनप्रोक्षणीजलेनदेवीन्त्रिःप्रोक्ष्य३स४श्रीदेव्यैपाद्यङ्कल्पयामिनमितिपाद्यपात्रस्थजलेन।३स४श्रीदेव्यैअर्घ्यं०अर्घ्यपात्रस्थजलेनाचमनीयपात्रस्थजलेनाचमनीयं।मधुपर्कपात्रस्थेनमधुपर्कं।पुनराचमनीयशुद्धजलेन।सुगन्धितैलाभ्यङ्गं।मज्जनशालाप्रवेशनं।मज्जनशालायाम्मरकतमणिपीठोपवेशनं।

इमावुपचारौअक्षतैः।दिव्यस्नानीयंस्नानपात्रजलेनुद्वर्त्तनं।उष्णोदकस्नानं।कनककलशच्युतसकलतीर्थाभिषेकङ्कर्पूरादिसुवासितजलेनशङ्खोदकेनवा।अथाक्षतैरुपचारानाचरेत्।धौतवस्त्रपरिमार्जनं।अरुणदुकूलपरिधानं।अरुणकुचोत्तरीयं।आलेपमण्डपप्रवेशनं।आलेपमण्डपमणिपीठोपवेशनं।चन्दनागुरुकुङ्कुममृगमदकस्तूरीगोरोचनादिसर्वाङ्गविलेपनं।केशभरस्यकालागुरुधूपनं।मल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगपुभागकुरुबककल्हारमुख्यसर्वर्तुकुसुममालाः।भूषणमण्डपप्रवेशनं।भूषणमण्डपमणिपीठोपवेशनं।नवमणिमयमुकुटं।चन्द्रशकलंसीमन्तसिन्दूरं।रत्नतिलकं।कालाञ्जनं।पालीयुगलं।मणि-

कुण्डलयुगलं।नासाभरणं।अधरयावकं।पदकं।महापदकं।मुक्तावल्लीं।एकावलिं।छत्रवीरं।केयूरयुगलञ्चतुष्टयं।वलयावलिं।ऊर्मिकावलीं।काञ्चीदामं।कटिसूत्रं।सौभाग्यभरणं।पादकटकं।रत्ननूपुरं।पादाङ्गुलीयकं।एककरेपाशं।अन्यकरेङ्कुशं।इतरकरेपुण्ड्रेक्षुचापं।अपरेकरेपुष्पबाणान्श्रीमन्माणिक्यपादुके।स्वसमानवेषभिरावरणदेवताभिःसहमहाचक्राधिरोहणं।कामेश्वराङ्कोपवेशनं।अमृतचषकंशक्तिपात्रात्।आचमनंशुद्धजलेन।कर्पूरवीटिकां।आनन्दोल्लासविलासहासं।मङ्गलार्त्तिक्यं।तत्रकर्पूरगर्भितदीपिकाभिः।
अथराजोपचाराः।छत्रं।चामरयुगलं।दर्पणं।तालवृन्तं।गन्धं।पुष्पं।धूपं।दीपं।नैवेद्यं।इतिअशक्तश्चेत्षोड-

शोपचारानाचरेत्श्रीसूक्तस्यषोडशर्चाभिः।तेच।आसनस्वागतार्घ्यपाद्याचमनमधुपर्काचमनस्नानवसनाभरणानिसुगन्धसुमनोधूपदीपनैवद्यवन्दनान्तान्।अथवादशैवोपचाराःकर्त्तव्याः।तेच।अर्घ्यपाद्याचमनमधुपर्काचमनगन्धादिनैवेद्यान्ताः।
ओङ्गणेशग्रहनक्षत्रेत्यादिवक्ष्यमाणद्वादशश्लोकैःस्तुत्वायोनिमुद्रयाप्रणमेत्।मूलमन्त्रन्दशवारञ्जपेत्।कृत्वाराजोपचाराणिबिन्दुपूजांसमाचरेत्।
३मूलंश्रीमहात्रिपुरसुन्दरीपराभट्टारिकाम्बाश्रीपादूकाम्पूजयामितर्पयामिनमितित्रिधादशधाषोडशधाचतुर्धावादेवींविशेषार्घ्यबिन्दुभिःसन्तर्प्यपुनर्विद्यांसमुच्चरन्देवतोपरित्रिवारम्पुष्पाञ्जलीन्दद्यात्।
अथषडङ्गयुवतीपूजनं।
३सर्वज्ञायैश्रीपराम्बायै३ह्रांहृदयायनमःहृदयदेवीश्री०॥
३नित्यतृप्तायैश्री-

प०ह्रींशिरोदे०।३अनादिबोधायैश्री०ह्रूंशिखादे०।३ऐंह्रींश्रींस्वतन्त्रायैश्री०ह्रैङ्कवचदे०।३नित्यमलुप्तायैश्री०ह्रौन्नेत्रदे०।३अनन्तायैश्री०ह्रःअस्त्रदे०।
अग्नीशासुरवायव्यमध्येदिक्ष्वङ्गपूजनं।
त्र्यस्रेविभाव्याधरेखाग्रदक्षोत्तरास्तथा।
अकाराद्यादक्षकोणेउकाराद्यास्तथाग्रके।
एकाराद्याउत्तरस्यान्नित्यापञ्चोत्तरादश।
कामेश्वर्यादिचित्रान्तंवामावर्तेनपूजयेत्।
बिन्दोःपुरःस्वमन्त्रेणनित्यामावर्त्तयेत्तिथेः।
पञ्चोपचारैःसम्पूज्यत्रिवारम्परितर्पयेत्।
नित्यानाम्परिवर्त्तनन्निगदितंश्रीभोगपात्रामृतैःनित्यामन्त्रास्तुपूर्वमेवोक्ताःकृष्णपक्षेविचित्राद्यायावत्कामेश्वरीभवेत्।पूजनीयाविलोमेनतिथिनित्यान्तुपूर्ववत्।मध्यमप्राक्त्र्यस्रमध्येगुरुमण्डलमर्चयेत्।दिव्यौघादिगुरून्क्रमात्कुलगुरोःपात्रामृतैरर्चयेत्।त्रिकोणाद्बहिःपृष्ठतः

ओघत्रयम्पङ्क्तित्रयङ्क्रमेणपूजयेत्।
३साम्प्रदायपादुकाम्पू०।३ह्रीङ्क्लींअमृतवर्षिणीपादुकापरमेश्वरीवौषट्पराभट्टारिकाश्री०॥
३भट्टारिकानन्दनाथश्री०।३श्रीकण्ठानन्दनाथश्री०।३शक्तिधरानन्दनाथश्री०।३क्रोधीशानन्दना०॥इतिदेव्यौघः॥
३त्र्यम्बकानन्नाथ०।३श्रीभट्टारिकानन्द०।३प्रतिभानन्दना०।३वीरानन्दना०॥इतिसिद्धौघः॥
३संविदम्बाश्री०।३सच्चिदानन्दना०।३सदाशिवानन्दना०।३शिवानन्द०।३महेश्वरानन्दना०।३संविदम्बाश्री०।३योगानन्दना०।३विद्यानन्दना०॥इतिमानवौघः॥इतिपरापारम्पर्यं॥
३परमशिवानन्दना०।३पराशक्त्यम्बाश्री०।३पराधिकानन्दना०।३कौलेश्वरानन्दना०।३शुक्लाम्बदेवीश्री०।३कामेश्वरानन्दना०।३कामेश्वर्यम्बाश्री०॥इतिदिव्यौघः॥
३भोगानन्दना०

क्लिन्नानन्दना०।३समयानन्दना०सहजानन्दना॥इतिसिद्धौघः॥
३गगनानन्दना०।३विमलानन्दना०।३विश्वानन्दना०।३भुवनानन्दना०।३वीरानन्दना०।३मदनानन्दना०।३स्वात्मानन्दना०।३ललितानन्दना०।३प्रियानन्दना०॥इतिमानवौघः॥इतिकामराजपारम्पर्यं॥
३कामेश्वर्यम्बाश्री०।३वज्रेश्वर्यम्बाश्री०।३भगमालिन्यम्बाश्री०।३लोपामुद्राम्बाश्री०॥अगस्त्यानन्दना०॥इतिदिव्यौघः॥
३कङ्कालानन्दना०।३धर्माचार्यानन्दना०।३मुक्तकेशेश्वर्यम्बाश्री०।३दीपकलानाथश्री०।३इतिसिद्धौघः॥
३विष्णुदेवानन्दना०।३मातुगुप्तानन्दना०।३भोगानन्दना०।३मनोजानन्दना०।३कामानन्दनाथ०।३कामेश्वर्यानन्दना०।३इतिमानवौघः॥इतिहादिपारम्पर्यं॥
३परमेश्वरपरमेश्वर्यम्बाश्री०।३मित्रीशानन्दना०।३षष्ठीशानन्दना०

३उड्डीशानन्दना०।३चर्यानन्दना०।३लोपामुद्राम्बाश्री०।३अगस्त्यानन्दना०॥इतिदिव्यौघः॥
३कालतापनानं०।३धर्माचार्यानन्द०।३मुक्तकेशीश्वरानन्द०।३दीपकलानन्दना०॥इतिसिद्धौघः॥
३विष्णुदेवानन्दना०।३प्रभाकरदेवानन्दना०।३तेजोदेवानन्दना०।३मनोजदेवानन्दना०।३कल्याणदेवानन्दना०।३रत्नदेवानन्दना०।३वासुदेवानन्दना०।३श्रीरामानन्दना०॥इतिमानवौघः॥
३परमेष्ठीगुरुश्री०।३परमगुरुश्री०।३स्वगुरुश्री०॥इतिगुरुपारम्पर्यमर्चयेत्॥
अग्नीशासुरवायव्यमध्येदिक्ष्वङ्गपूजनं।श्रीपात्रामृतपूरितापरकलाबिन्दौषडङ्गन्न्यसेत्॥
३ऐङ्क४सर्वज्ञताशक्तिधाम्नेह्रांहृदयशक्तिश्री०॥
३क्लींह५नित्यतृप्ताशक्तिधाम्नेह्रींशिरश०॥
३सौःस३अनादिबोधशक्तिधाम्नेह्रूंशिखाशक्तिश्री०॥
३ऐङ्क४स्वतन्त्रशक्तिधाम्ने

ह्रैङ्कवचायहुङ्कवचशक्तिश्री०॥
३क्लींह५नित्यमलुप्तशक्तिधाम्नेह्रौन्नेत्रत्रयायवौषट्नेत्रशक्तिश्री०॥
३सौःस३अनन्तशक्तिधाम्नेह्रःअस्त्रायफडितिअस्त्रशक्तिश्री०॥
प्रपञ्चोभुवनम्मूर्तिमन्त्रदैवतमातरः।प्रणवादिनमोन्तेनतत्तन्नाम्नासमर्चयेत्।न्यासखण्डोक्ततर्पयेत्।
तर्पणानिपुनर्दद्यात्त्रिवारन्तत्वमुद्रया।
पुष्पंसमर्पयेद्देव्यैमुद्रयाज्ञानसञ्ज्ञया।

अथन्यासखण्डोक्ततर्पणं॥
३ह्सौःस्हौःअं०क्षंसकलप्रपञ्चरूपायैश्रीपराम्बादेव्यैश्री०॥
५अं०क्षञ्चतुर्दशभुवनात्मिकायैश्रीपराम्बाश्री०॥
५६चतुर्दशभुवनात्मिकायैश्री०।५६सर्वमन्त्रात्मिकायैश्री०।५६सर्वदेवतात्मिकायैश्री०।५६सर्वमातृकात्मिकायैश्री०॥
इतिषोढान्यासतर्पणङ्कुर्यात्॥

सर्वसङ्क्षोभिणीमुख्यामुद्राःसन्दर्शयेन्नव।
अथावरणपूजार्थंषडङ्गम्पुनरर्चयेत्॥
३संविन्मयेमहेशानिपरामृतचरुप्रिये।
अनुज्ञान्देहिमेदेविपरिवारार्चनायमे।
प्रकटाद्याश्चयोगिन्योमहावीरवरप्रदाः।
सान्निध्यङ्कुलयोगेस्मिन्प्रकुर्वन्तुशिवाज्ञया।
इतिलब्ध्वादेव्यनुज्ञाम्पुष्पाञ्जलिपुरःसरं।
कुर्यादावरणार्चनंसुविधिनाश्रीपराशक्तिपात्रामृतैः।
मेरुमन्त्रात्मकञ्चक्रंश्रीत्विषस्तत्रदेवताः।
कामेश्वरःप्रकाशात्माश्रीर्विमर्शस्तदङ्कगा।
इत्येद्वासनारूपमभेदञ्चपरस्परं।
ज्ञात्वाश्रीगुरुवक्त्राब्जात्कृतापूजामहाफला।
३लन्त्रैलोक्यमोहनचक्रायनमः॥इतिपुष्पाञ्जलिन्दत्वा॥तत्र।
रेखायाम्प्रथमायान्तुपश्चिमाद्यासुदिक्षुच।
वायव्यादिविदिक्षूर्ध्वमध्यश्चक्रमतोयजेत्।

अथेन्द्रेशानयोर्मध्येऊर्ध्वमित्यभिधीयते।
नैऋत्यवरुणयोर्मध्येअधित्यभिधीयते।
३प्रथमचतुरस्रमध्यरेखायैनमः॥
इतिपुष्पाञ्जलिङ्क्षिप्य॥
३अंअणिमासिद्ध्यम्बाश्री०।३लंलघिमासि०।३मम्महिमासि०।३ईंईशित्वसि०।३वंवशित्वसि०।३प्रम्प्राकाम्यसि०।३भुम्भुक्तिसि०।३इंइच्छासि०।३प्रम्प्राप्तिसि०।३संसर्वकामसि०॥
एतारक्तप्रभाश्चिन्तामणिरत्नाभयाञ्चिताः।
त्रिलोचनाश्चन्द्रकलामौलीर्ध्यायेदभीष्टदाः।
रेखायाञ्चद्वितीयाञ्चपश्चिमादिक्रमाद्यजेत्।
३द्वितीयचतुरस्ररेखायै०इतिपुष्पाञ्जलिः॥
३अंआंअसिताङ्गभैरवसहितब्राह्मीश्री०॥
३इंईंरुरूभैरवसहितमाहेश्वरीश्री०॥
३उंऊञ्चण्डभैरवसहितकौमारीश्री०॥
३ऋंऋङ्क्रोधभैरवसहितवैष्णवीश्री०॥

३ऌंॡंउन्मत्तभैरवसहितवाराहीश्री०॥
३एंऐङ्कपालभैरवसहितिन्द्राणीश्री०॥
३ओंऔम्भीषणभैरवसहितचामुण्डादेवीश्री०॥
३अंअःसंहारभैरवसहितमहालक्ष्मीश्री०॥
एतावंशदलप्रख्याकपालोत्पलधारिणीः।
बन्धूकपरिधानाश्चध्येयाब्राह्म्यादिमातरः।
रेखायान्तुतृतीयान्तुप्रथमायामिवार्चयेत्।
३तृतीयचतुरस्ररेखायै०।इतिपुष्पाञ्जलिः॥
३द्रांसर्वसङ्क्षोभिणीमुद्राम्बाश्री०।३द्रींसर्वविद्राविणीमु०॥
३क्लींसर्वाकर्षिणीमुद्राम्बा०।३ब्लूंसर्ववशङ्करीमु०॥
३सःसर्वोन्मादिनीमु०।३क्रोंसर्वमहाङ्कुशामु०॥
३ह्स्खफ्रेंसर्वखेचरीमु०।३ह्सौःसर्वबीजमु०॥
३ऐंसर्वयोनिमु०।३ह्स्रैंहसकलह्रींह्स्रौःसर्वित्रिखण्डामु०॥
एतारक्तवराभीतिपाशाङ्कुशकराम्बुजाः॥

त्रिनेत्राचन्द्रकोटीराःसङ्क्षोभिण्यादिशक्तयः॥
३अंआंसौःत्रिपुराचक्रेश्वरीश्री०।३प्रकटयोगिनीश्री०।३ओन्तारेतुतारेतुरेस्वाहाबौद्धदर्शनश्री०॥
अणिमासिद्धिपुरतश्चक्रेशीन्त्रिपुरांयजेत्।
सर्वसङ्क्षोभिणीम्मुद्रान्तद्बीजेनप्रदर्शयेत्।
३द्रांसर्वसङ्क्षोभिणीमुद्रायैनमितिमुद्राम्प्रदर्शयेत्॥
एताःप्रकटयोगिन्यस्त्रैलोक्यमोहनेचक्रेसचक्राःसासनाःसमुद्राःसशक्तयःससिद्धयोसायुधाःसवाहनाःसपरिवाराःसालङ्काराःसचक्रेश्वरिकाःपरयापरयापरापरयासपर्ययासर्वोपचारैःसम्पूजिताःसन्तर्पिताःसन्तुनमःइतिसजलपुष्पाक्षतैश्चक्रेश्वर्यैपूजांसमर्प्य॥
देवींशृङ्गाररसात्मिकान्ध्यात्वाबिन्दुत्रयेणदेवतांसमर्पयेदिति।
अभीष्टसिद्धिम्मेदेहित्रिपुरेपरमेश्वरि।
गृहाणमत्कृताम्पूजाम्प्रथमावरणार्चनं।
इतिदेव्यैसामान्यार्घ्योदकेन

वामहस्तेतिवेदयेदितिप्रथणावरणं॥
संसर्वाशापरिपूरकचक्रायनमितिषोडशदलेपुष्पाञ्जलिन्दद्यात्।पश्चिमादिविलोमेनषोडशारेऽर्चयेत्कलाः॥
३अङ्कामाकर्षणीनित्याकलाम्बाश्री०।३आम्बुध्याक०।३इंअहङ्काराक०।३ईंशब्दाक०।३उंस्पर्शाक०।३ऊंरूपाक०।३ऋंरसाक०।३रृङ्गन्धाक०।३ऌञ्चित्ताक०।३ॡन्धैर्याक०।३एंस्मृत्याक०।३ऐन्नामाक०।३ओम्बीजाक०।३औंआत्माक०।३अंअमृताक०।३अःशरीराक०॥
एताध्यायेत्कलादेव्योपाशाङ्कुशकराम्बुजाः॥
रक्ताङ्ग्योरक्तवसनाःसर्वाभरणभूषिताः॥
३ऐङ्क्लींसौःत्रिपुरेशीचक्रेश्वरीश्री०।३लघिमासिद्धिश्री०।३गुप्तयोगिनिश्री०।३ओन्तत्सवितु०प्रचोदयात्।परोरजसेसावदोम्ब्रह्मदर्शनश्री०।चक्रेशीन्त्रिपुरेशीञ्चकामाक-

(यहांसेपेजूपरनीचेहोगयाहै।****)
र्षिणीकापुरः।पूज्यविद्राविणीम्मुद्रान्तद्बीजेनप्रदर्शयेत्।
३द्रींसर्वविद्राविणीमुद्राम्प्रदर्शयेत्।
एताःगुप्तयोगिन्यःसर्वाशापरिपूरकेचक्रेशचक्राइत्यादिपूर्ववत्।देवींवीररसात्मिकान्ध्यात्वा।
अभीष्टसिद्धिं०॥
इतिद्वितीयावरणं॥

३हंसर्वसङ्क्षोभणचक्रायनमितिअष्टदलेपुष्पाञ्जलिः।
अष्टारेप्रागादिदिक्षुवन्ध्यादिविदिक्षुचयजेत्क्रमात्॥
३कं४अनङ्गकुसुमादेव्यम्बाश्री०।३चं४अनङ्गमेखलादे०।३टं४अनङ्गमदनादे०।३तं४अनङ्गमदनातुरादे०।३पं४अनङ्गरेखादे०।३यं३अनङ्गवेगिनीदे०।३शंषंसंअनङ्गाङ्कुशादे०।३हंऴङ्क्षंअनङ्गमालिनीदे०॥
देवीरक्तप्रभाइक्षुचापपुष्पेषुधारिणीः।
वेणीकृतलसत्केशाध्यातव्यारक्तकञ्चुकाः॥
३ह्रीङ्क्लींसौःत्रिपुरसुन्दरीचक्रेश्व०।३गुप्ततरयोगिनीश्री०।३ओंह्रीं

नमःशिवायशैवदर्शनश्री०।३महिमासिद्धिश्री०।३क्लींसर्वकर्षणीमुद्रायै०इतिप्रदर्शयेत्।
अनङ्गकुसुमाग्रेतुयजेत्त्रिपुरसुन्दरीं।
सम्पूज्यसर्वाकर्षिणीञ्चमुद्राञ्चप्रदर्शयेत्।
एताःगुप्ततरयोगिन्यःसर्वसङ्क्षोभणचक्रेसचक्राइत्यादिपूर्ववत्देवीङ्करुणारसात्मिकान्ध्यायेत्।अभिष्टसिद्धिं०॥
इतितृतीयावरणं॥

ईंसर्वसौभाग्यदायकचतुर्दशारचक्रायनमितिपुष्पाञ्जलिः।
वामावर्त्तेनमन्वस्रेपश्चिमादिविलोमतः॥
३टंसर्वसङ्क्षोभिणीशक्तिश्री०।३ठंसर्वविद्राविणीश०।३डंसर्वाकर्षिणीश०।३ढंसर्वाह्लादिनीश०।३णंसर्वसम्मोहिनीश०।३तंसर्वस्तम्भिनीश०।३थंसर्वजृम्भिणीश०।३दंसर्ववशङ्करीश०।३धंसर्वरञ्जिनीश०।३नंसर्वेन्मादिनीश०।३पंसर्वार्थसाधिनीश०।३फंसर्वसम्पत्तिपूरिणीश०।३बंसर्वमन्त्रमयी-

श०।३भंसर्वद्वन्द्वक्षयङ्करीश०।
एतारक्तप्रवालाभाध्येयाचापेषुधारिणीः।
चतुर्दशारेध्यातव्यासङ्क्षोभिण्यादिशक्तयः॥
३हैंह्क्लींह्सौःत्रिपुरवासिनीचक्रेश्व०।३ईशित्वसिद्धिश्री०।३सम्प्रदाययोगिनीश्री०॥घृणिःसूर्यादित्योनप्रभावात्यक्षरं।मधुक्षरन्तितद्रसं।सत्यंवैतद्रसमायोज्योतीरसोमृतम्ब्रह्मभूर्भुवसुवरांसौरदर्शनश्री०॥
ब्लींसर्ववशङ्करीमुद्रामुन्मुद्रयेत्।सर्वसङ्क्षोभिण्याग्रेतुयजेत्त्रिपुरवासिनीं।चक्रेश्वरीपूज्यसर्ववश्यमुद्राम्प्रदर्शयेत्।एताःसम्प्रदाययोगिन्यःसर्वसौभाग्यदायकेचक्रेसचक्राइत्यादिसर्वम्पूर्ववत्।देवीम्भयानकरसात्मिकान्ध्यायेत्।
अभीष्टेतिचतुर्थावरणं॥

३एंसर्वार्थसाधकबहिर्दशारचक्रायनमितिपुष्पाञ्जलिः।
पश्चिमादिविलोमेनदेव्योभ्यर्च्यदशारके।
३कंसर्वसिद्धि-

प्रदादेव्यम्बाश्री०।३खंसर्वसम्पत्प्रदादे०।३गंसर्वप्रियङ्करीदे०।३घंसर्वमङ्गलकारिणीदे०।३ङंसर्वकामप्रदादे०।३चंसर्वदुःखविमोचिनीदे०।३छंसर्वमृत्युप्रशमनीदे०।३जंसर्वविघ्ननिवारिणीदे०।३झंसर्वाङ्गसुन्दरीदे०।३ञंसर्वसौभाग्यदायिनीदेव्यम्बाश्री०॥
एतावराभयकरामुक्ताहारविभूषणाः।
हिमवद्भासुरतनूर्ध्यायेत्सर्वार्थसिद्धिदाः॥
३ह्सैंह्स्क्लींह्सौःत्रिपुराश्रीचक्रेश्वरीश्री०।३वसित्वसिद्धिश्री०।३कुलोत्तीर्णयोगिनीश्री०।३ओन्नमोनारायणायवैष्णवदर्शनश्री०।३सःसर्वोन्मादिनीमुद्रायैनमितिमुद्राम्प्रदर्शयेत्॥सर्वसिद्धिप्रदाग्रेतुपूजयेत्त्रिपुराश्रियं।चक्रेश्वरीञ्चसर्वोन्मादिनीमुद्राम्प्रदर्शयेत्॥
एताःकुलोत्तीर्णयोगिन्यःसर्वार्थसाधकेचक्रेसचक्राइत्यादिपूर्ववत्।देवीम्बीभत्सरसा-

न्याःपूर्वाद्याशासुपूजयेत्।३पञ्चपञ्चिकाभ्योनमितिपुष्पाञ्जलिः॥
३श्रीङ्क१४महालक्ष्मीश्वरीवृन्दमण्डितासनसंस्थिता।
सर्वसौभाग्यजननीश्रीविद्यालक्ष्मीश्वरीश्री०॥१॥
३श्रीम्महालक्ष्मीएकाक्षरीश्री०॥२॥
३श्रींह्रींश्रीम्महालक्ष्मिकमलेकमलायेप्रसीद२ऐंह्रींश्रीम्महालक्ष्मीश्वरीश्री०॥३॥
३सिद्धलक्ष्मीश्वरीश्री०॥
श्रींह्रीङ्क्लीम्महालक्ष्मीश्वरीश्री०।
श्रीविद्याचतथालक्ष्मीमहालक्ष्मीतथैवच।
त्रिशक्तिसर्वसाम्राज्यपञ्चलक्ष्मीप्रकीर्तिता॥
३त्रिशक्तिलक्ष्मीश्वरीश्री०॥४॥
३ह्रींश्रींसौःमहालक्ष्मीश्वरीश्री०।
३सर्वसाम्राज्यलक्ष्मीश्वरीश्री०॥५॥
इतिपञ्चलक्ष्मीः॥
अथपञ्चकोशाः॥
बिन्दौचपूर्वादिदिक्षुपूजनीयाः॥
३श्रीङ्क१४पञ्चकोशेश्वरीविद्यावृन्दमण्डितासनसंस्थितासर्वसौभाग्यजननीश्रीमहात्रिपुरसुन्दरीश्री०॥इतिबिन्दौ॥
३ओंह्रींहंसःसोहंस्वाहापरानिष्कलाम्बाश्री०।३श्रींह्रींसौःशाम्भवीश्री०।३ओंहंसःसोहंअजपाम्बाश्री०।३अं५०मातृकाम्बाश्री०॥
अथपञ्चकल्पलताः॥
बिन्दौपूर्वादिदिक्षुपूजयेत्॥

३श्रीङ्क१४पञ्चकल्पलतेश्वरीश्रीमहात्रिपुरसुन्दरीश्री०॥
३ओंह्रींहुङ्खेचच्छेक्षःस्त्रींहुङ्क्षेंह्रींहुम्फट्त्वरिताम्बाश्री०॥
३ओंह्रींह्सौःहसकलरींसरस्वत्यैनमःपारिजातकल्पलताम्बाश्री०॥
३श्रींह्रीङ्क्लीन्त्रिपुराम्बाश्री०॥
३द्रान्द्रीङ्क्लीम्ब्लूंसःपञ्चबाणेश्वर्यम्बाकल्पलताश्री०॥
अथपञ्चकामदुघाः।३श्रीङ्क१५पञ्चकामधेनुविद्याश्रीमहात्रिपुरसुन्दरीश्री०॥
३ओंह्रींहंसःसञ्जीवनिजीवप्राणग्रन्थिस्थङ्कुरु२स्वाहामृतपीठेश्वरीश्री०॥
३ऐंओंह्रींऐंवद२वाग्वादिनिऐङ्क्लीङ्क्लिन्नेक्लेदिनिक्लेदयद्रावयमहाक्षोभङ्कुरु२क्लींसौःमोक्षङ्कुरु२ह्सौःस्हौःसुधालक्ष्मीश्री०॥
३ओंऐम्प्लूंह्स्रौञ्जूंसःअमृतेअमृतोद्भवेअमृतेश्वर्यमृतवर्षिणिअमृतप्रकाशिनिअमृतंस्रावय२स्वाहामृतेश्वरीश्री०॥
३ओंह्रींश्रीङ्क्लींओन्नमोभगवतिअन्नपूर्णेश्वरिममाभिलषितमन्नं

देहिस्वाहाकामधेन्वन्नपूर्णेश्वरीश्री०॥
इतिबिन्दौपूर्वादिदिक्षुपूजयेत्॥
अथपञ्चंरत्नेश्वर्यः॥
३श्रीङ्क१५पञ्चरत्नेश्वरीविद्याश्रीमहात्रिपुरसुन्दरीश्री०॥
३ओंश्रींह्रीम्फ्रेम्फ्रींह्स्ख्फ्रें३ऐंश्रीम्महातेजसङ्कर्षिणिकालमथिनिह्स्ख्फ्रेंह्रूंह्स्रींसःस्वाहाह्स्ख्फ्रेंह्रींश्रींसर्वसिद्धियोगिन्यैह्स्ख्फ्रेंह्रींश्रींसर्वसिद्धिमात्रेह्स्ख्फ्रेंह्रींश्रीन्नित्योदितानन्दितायैसकलचक्रनायिकायैभगवत्यैचण्डकापालिन्यैद्रान्द्रीन्द्रूंह्स्ख्फ्रेङ्क्ष्रौन्नमःक्लींसःस्ह्ख्फ्रेम्परमहंसिनिनिर्वाणमार्गप्रदेविषमोपप्लवनाशिनिअमृतकुलेसकलदुरितारिष्टक्लेशदमनिसर्वापदम्भोधितारिणिसकलशत्रुमर्दिनिदेविआगच्छागच्छहस२वल्ग२नररुधिरान्त्रवसाभक्षिणिममशत्रून्मर्दय२खादि२त्रिशूलेनभिन्धि२खड्गेनताडय२छेदय२स्ह्ख्फ्रेन्नयरहसकलह्रींहसक्षमलवरूंसहक्षमलवरयीं
पगे५६तो५८नोत्सेएन्
पृ०५६से५८तकनहींहै।
थिसोनेमय्बे५९ज्ज्वलानिदिशताम्ममवाञ्छितानि॥
३सौःस३सोमचक्रेपूर्णगिरिपीठेउड्डीशनाथात्मकेअष्टारषोडशारचतुरस्रचक्रेशिवतत्वात्मकसंहृतिकृत्यक्रियाशक्तिश्रीमहाभगमालिनीरुद्रात्मशक्तिश्री०॥
ध्यानं॥
प्रत्यक्शशाङ्करुचिराश्रितवामकोणा
पाशाङ्कुशाक्षगुणपुस्तकशस्त्रहस्ता।
उद्भासयत्वनिशमद्भुतभूरिशक्ति
र्भाग्यश्रियम्भगवतीभगमालिनीमे।
३ह्स्रैंह्स्क्लींह्स्रौःत्रिपुराम्बाचक्रेश्वरीश्री०।३ह्सौःस्हौःकौलिकदर्शनश्री०।३इच्छासिद्धिश्री०।३अतिरहस्ययोगिनीश्री०॥ह्सौःसर्वबीजमुद्रायै०इतिमुद्रान्दर्शयेत्।
चक्रेश्वरीन्त्रिपुराम्बाकामेश्वर्यग्रतोयजेत्।
इत्थम्पूज्यसर्वबीजामुद्रान्तत्रप्रदर्शयेत्।
एतातिरहस्ययोगिन्यःसर्वसिद्धिप्रदेचक्रेसचक्राइत्यादिपूर्ववत्।देवींअद्भुतरसात्मिकान्ध्यायेत्॥
अभीष्टेत्यष्टमावरणं॥
३मंसर्वानन्दमयबैन्दवचक्रायनमि-

तिपुष्पाञ्जलिः॥
३सौःश्रीपराभट्टारिकाश्री०।३ऐङ्क्लींसौःक१४परब्रह्मचक्रेमहोड्यानपीठेचर्यानन्दनाथात्मकेसमस्तचक्रसपरिवारपरमसृष्टिस्थितिसंहारकृत्येच्छाज्ञानक्रियाशक्तिवाग्भवकामराजशक्तिबीजात्मकपरमशक्तिस्वरूपश्रीमहात्रिपुरसुन्दरीपराब्रह्मात्मशक्तिश्री०।३प्राप्तिसिद्धिश्री०॥परापररहस्ययोगिनीश्री०।३तुर्याविद्याषोडशीविद्यास्वरूपश्रीमहात्रिपुरसुदंरीराजराजेश्वर्यम्बाश्री०॥
मूलेनद्वादशवारंसन्तर्प्य।३ऐंयोनिमुद्रायैनमितिमुद्राम्प्रदर्श्य॥ध्यानं।
सूर्येन्दुवह्निमयभास्करपीठगेहांस्वेच्छागृहीतसृणिपाशशरेक्षुचापां।
बालेन्दुमौलिमरुणाभरणान्त्रिनेत्रान्नित्यान्नमामिमहतीम्महनीयमूर्तिं।
ब्रह्मशक्तमहेशानितापत्रयनिकृन्तिनि।
सर्वानन्दमयेबिन्दौशब्दातीतेत्वगोचरे।
३हसकलरडैंहसकलरडींहसकलरडौःश्रीमहाचक्रेश्वरीश्री०॥
चक्रेशीं-

तावद्यावन्ममसकलमनोरथान्साधय२परमकारुणिकेदेविभगवतिमहाभैरवरूपधारिणित्रिदशवारनमितेसकलमान्त्रमातःप्रणतजनवत्सलेहुन्देविमहाकौलिनिकालनाशिनिहुं३प्रसीदमदनातुरांआंह्रीङ्क्रोङ्कुरु२सुरासुरकन्यकांह्रींश्रीङ्क्रोंहुम्फठ्स्ख्फ्रेम्फ्रेम्फ्रींह्रांह्रींह्रूंह्स्ख्फ्रेंओंह्रांह्रींह्रूंस्ह्ख्फ्रेङ्क्ष्रौन्नमःओंह्रींश्रींसौःस्फूंश्रीम्महालक्ष्म्यैनमःसिद्धविद्यारत्नेश्वरीश्री०॥
ज्ञानार्णवेविशेषः।३ज्रीञ्झ्रीम्महामखसंहर्षिणिकालमन्थानह्रींह्रींश्रींसिद्धलक्ष्मीश्री०॥
३ऐङ्क्लींसौःओन्नमोभगवतिराजमातङ्गेश्वरिसर्वजनमनोहारिणिसर्वमुखरञ्जिनिक्लींह्रींश्रींसर्वराजवशङ्करिसर्वस्त्रीपुरुषवशङ्करिसर्वदुष्टमृगवशङ्करिसर्वसत्ववशङ्करिसर्वलोकवशङ्करिसर्वजनम्मेवशमानयस्वाहासौःक्लींऐंश्रींह्रींऐंराजश्यामलाम्बाश्री०॥
३ह्रीम्भुवनेश्वर्यम्बाश्री०।३ऐङ्ग्लौंसौःक्लींओन्नमोभगवति

ललितामेवबिन्दौसञ्चित्यपूजयेत्॥सम्पूज्यसुन्दरींसर्वयोनिमुद्राम्प्रदर्शयेत्॥
३ऐंसर्वयोनिमुद्राम्प्रदर्श्य।३एषापरापररहस्ययोगिनीसर्वानन्दमयेबैन्दवेचक्रेपरब्रह्मस्वरूपिणिपरामृतशक्तिसर्वेश्वरिसर्वपीठेश्वरिसर्ववीरेश्वरीसर्ववागीश्वरिसर्वसिद्धेश्वरिसकलतत्वेश्वरिसकलजगदुत्पत्तिस्थितिसंहारमातृकासचक्रासासनासमुद्रासशक्तिःससिद्धिःसायुधासवाहनासपरिवारासालङ्कारासचक्रेश्वरिकापरयाऽपरयापरापरयासपर्ययासर्वोपचारैःसम्पूजितासन्तर्पितास्तुनमितिसजलपुष्पैःसमर्प्यदेवतान्त्रिःसन्तर्प्य॥
शान्तिरसात्मिकान्ध्यायेत्॥
अभीष्टेतिनवमावरणं॥

तर्पणानिपुनर्दद्यात्॥त्रिवारंविद्ययाततः।षडङ्गन्तर्प्पयोन्याद्याःनवमुद्राःप्रदर्शयेत्।देव्यैपुष्पाञ्जलिन्दत्वाविद्यामन्त्रानपीतरान्।त्रिःसन्तर्प्यक्रमेणैकमादिनाथान्गुरून्यजेत्।देवतायाःपुरोभागेतर्पयित्वाथसा-

धकः।३आदिगुरुपरमशिवानन्दनाथश्री०।३सदाशिवानं०।३ईश्वरानं०।३रुद्रानं०।३विष्ण्वानं०।३ब्रह्मानं०।३सनकानं०।३सनन्दनानं०।३सनातना०।३सनत्कुमारानं०।३रैवतकानं०।३दत्तात्रेयानं०।३व्यासानं०॥शुकानं०।३महानं०।३चौण्डिकोशानं०।३महामङ्गलयोगीशानं०।३परानं०।३शकरानं०।३चन्द्रचूडानं०।३ज्येष्ठानं०।३विश्वनाथोमहानं०।३चिदानं०।३विद्यारण्योमहाकौलानं०।३कन्तुकीशानं०।३निर्मलानन्दयोगीशानं०।३गन्धानं०।३चिद्रूपानन्दयोगीशानं०।नाथानं०।३विमलानन्दयोगीशानं०॥विश्वानन्दना०।३श्रीसिद्धयोगिनीश्री०।३आत्मानं०।३परमेष्ठीगुरुश्री०।३परमगुरुश्री०।३स्वगुरुश्री०॥
इतिषट्त्रिंशत्सङ्ख्याकान्गुरुन्पूजयित्वाथपञ्चपञ्चिकाःपूजयेत्।ततोबिन्दोश्चतुर्दिक्षुयजेदाम्नायदेवताः।पूर्वन्दक्षिणमाम्नायपश्चिमञ्चोत्तरन्तथा।ततःपूजयेद्दिक्षुमध्येचपञ्चपञ्चिकाः।आद्याम्मध्येचतस्रो-
ॅॅॅॅॅ
सौःक्लींऐङ्कामेश्वरिसमयदेवताश्री०॥
देव्यावामे३ऐंह्रींसर्वकार्यार्थसाधिनिवज्रेश्वरिवज्रपदेवज्रपञ्जरमध्यगतेह्रीङ्क्लिन्नेऐङ्क्रोन्नित्यमदद्रवेह्रीम्महावज्रेश्वरीनित्यायैनमःवज्रेश्वरीसमय०॥
दक्षिणेभगमालिनीनित्याविद्यामुच्चार्यभगमालिनिसमयदे०॥
एतत्त्रयंसकृत्सकृत्केवलम्पुष्पैःपूजयित्वाश्रीपात्रबिन्दुभिःसन्तर्प्यमध्येमूलविद्यामेव३क्लीम्भगवतिब्लून्नित्येकामेश्वरिह्रींसर्वसत्ववशङ्करिसःत्रिपुरभैरविऐंविच्चैक्लींश्रीमहात्रिपुरसुन्दर्यैनमःश्रीमहात्रिपुरसुन्दरीसमयदे०॥इतिसप्तवारङ्केवलम्पुष्पैःपूज्यविशेषार्घ्यम्बिन्दुभिःसन्तर्प्यक्लीमितिशक्त्युत्थापनमुद्राम्बध्वामूलविद्ययाप्रदर्श्यहूमितिमुचेदितिचतुःसमयपूजा॥
अथाम्नायपूजा॥
३ह्स्रैंह्स्क्लींह्स्रौःपूर्वाम्नायसमयविद्येश्वर्यम्बाश्री०॥
३ऐङ्क्लीङ्क्लिन्नेक्लिन्नमदद्रवेकुलेसौःदक्षिणाम्नायस०॥
३ह्स्ख्फ्रेंह्स्रौंहस्रौम्भगवत्यम्बह्स्फ्रेंह्स्फ्रीङ्कुब्जिकेह्स्रांह्स्रींह्स्रूंअघोरे२अघो-

रमुखिछ्राञ्छ्रीङ्किणि२विच्चेह्स्रौंह्स्फ्रौंह्रींऐम्पश्चिमाम्नाय०॥
३स्ह्ख्फ्रेम्महाचण्डयोगेश्वरिउत्तराम्नायस०॥
३मखफरेमहाचणडयोगेशवरुऊर्ध्वाम्नायस०॥
३ह्रींस्हौःऔंअःअंआंहंह्सौःअंसौःअंआंहंअनुत्तराम्नायस०॥
बौद्धवैदिकशैवानिसौरंविष्णुञ्चशाक्तकं।
चतुरस्रेषोडशारेअष्टपत्रेचतुर्दशे।
द्विदशारेष्टकोणेषुदर्शनानिचपूजयेत्।
३ओन्तारेतुतारेतुरेस्वाहाबौद्धदर्शनश्री०॥
३ओम्भूर्भुवःस्वःतत्सवितुः०वैदिकदर्शनश्री०॥
३ओंह्रींह्सौन्नमःशिवायशैवदर्शनश्री०॥
३ओङ्घृणिःसूर्य०सौरदर्शनश्री०॥
३ओन्नमोनारायणायवैष्णवदर्शनश्री०॥
३ह्रींशाक्तदर्शनश्री०॥पुनःशिवादिस्वगुरुपर्यन्तन्तर्पयेदादौशिवगुरुरिति।कराभ्याञ्चिन्मुद्रामितिध्यायेत्।ततःपुनःषडङ्गंविधायपूजयेत्॥
ओंह्रींहंसःसोहंस्वाहाआत्मशक्तिश्री०॥
ततोभूतमन्त्रैर्देव्याःशरीरेयजेत्॥
३अंआंएङ्कञ्चण्टन्तम्पंयंषम्प्राणश०॥
३इंईंऐङ्खञ्छण्ठन्थम्फंरङ्क्षंअग्निश०॥
३उंऊंओङ्गञ्जं

डन्दम्बंलंऴन्धराश०॥
३ऋंरृंऔङ्घञ्झण्ढन्धम्भंवंसंअम्बुश०॥
३ऌंॡंअंअःङञ्ञण्णन्नम्मंशंहङ्खश०॥
ततोमूलेनपुनःषडङ्गंसम्पूज्यचक्राद्बहिःपूर्वोक्तान्दशदिशाधिपतीन्सायुधान्यजेदिति१०पुनर्मूलेनसमष्टिमन्त्रेणचदेवीम्पूजयेत्तर्पयेच्च॥
३ऐङ्क्लींसौःहेघण्टेसुस्वरेणापिघण्टाध्वनिविभूषिते।
वादयन्तिपरानन्देघण्टामेवम्प्रपूजयेत्॥
घण्टामेतेनमन्त्रेणसम्पूज्यपरिवादयेत्।
६चन्द्रचन्दनकस्तूरिकुङ्कुमागरुरोचनैः।
सम्भृतंहिमसारार्धङ्गन्धमाकलयाम्यहम्।
श्रीपराम्बायैगन्धङ्कल्पयामिनमः॥
६पवित्रमनघंरम्यंवासितङ्गन्धवारिणा।
सुगन्धविलसत्पुष्पमादरादर्पयाम्यहम्।
श्रीपराम्बायैपुष्पङ्कल्पयामिनमः॥
६तुरीयवनसम्भूतन्नानागुणमनोहरम्।
आनन्दसौरभम्पुष्पङ्गृह्यतामिदमुत्तमम्।
पुष्पंवनस्पतिरसोत्पन्नैःपवित्रैरम्यगन्धिभिः।
दशाङ्गाद्यैर्धूपवर्यैर्धूपयेत्परमेश्वरीम्।
श्रीपराम्बायैधूपङ्कल्पयामिनमः॥
६सुप्रकाशोमहादीपःसर्वत्र

तिमिरापहः।
सबाह्याभ्यन्तरञ्ज्योतिर्दीपोयम्प्रतिगृह्यताम्।
श्रीपराम्बायैदीपङ्कल्पयामिनमः॥
६हेमपात्रगतन्दिव्यम्परमान्नंसुसंस्कृतं।
पञ्चधाषड्रसोपेतङ्गृहाणपरमेश्वरि।
शर्करापायसापूपघृतव्यञ्जनसम्पदा।
विचित्ररुचिनैवेद्यंहृद्यमावेदयाम्यहं।
नैवेद्यपात्राधःचतुरस्रमण्डलंविधाय
तत्राधारोपरिअन्नंसालिशुद्धियुक्तन्निधाय
परिस्तीर्यप्रोक्षणीजलेनत्रिर्मूलेनप्रोक्ष्य
विशेषार्घ्यबिन्दुन्दत्वामूलेनदशधाभिमन्त्र्य
सोमकलाभिरन्नंसम्पूज्यवैदिकगायत्र्यै
पुनरभिमन्त्र्यापोशनन्दत्वाप्रार्थयेत्।
३ऐम्परायैपादुकायैसाङ्गायुधायैसपरिवारायैश्रीमहात्रिपुरसुन्दर्यैनमः॥नैवेद्यङ्कल्पयामिनमः॥
३क्लींअपरायैपादु०।३सौःपरापरायैपा०।३ऐङ्क्लींसौःसर्वदेवतास्वरूपिण्यैश्रीमहात्रिपुरसुन्दर्यैनैवेद्यकं०।घण्टावादनपूर्वकम्भुञ्जाना

ध्यायन्नैवद्यमुद्राःप्रदर्शयेत्।
ऐम्प्राणायस्वाहाइत्यगुंष्ठकनिष्ठानामिकाभिः।
क्लीमपानायस्वाहाइत्यङ्गुष्ठतर्जनीमध्यमाभिः।
सौःव्यानायस्वाहाइत्यङ्गुष्ठानामिकामध्यमाभिः।
सौःउदानायस्वाहेत्यङ्गुष्ठानामिकातर्जनीभिः।
ऐङ्क्लींसौःसमानायस्वाहेत्यङ्गुष्ठसर्वाङ्गुलिभिः।
मध्येपानीयन्दत्वा।३हंसर्वशक्तियुक्तायैश्रीमहात्रिपुरसुन्दर्यैनैवेद्यंस्वाहा।ब्रह्मेशाद्यैःस्वरसमभितःसूपविष्टैःसमन्ताद्दिव्याकल्पैर्ललिततरलैर्वीज्यमानासखीभिः।नर्मक्रीडाप्रहसनपराहासयन्तीसुरेशान्भुङ्क्तेपात्रेकनकखचितेषड्रसान्लोकधात्री॥
३ऐङ्क्लींसौःकिशोरिकाश्री०।इतिबिन्दुनासन्तर्प्य।अनेकभोगनैवेद्यङ्गृह्ण२स्वाहेतिप्रार्थ्य॥
३ऐङ्क४आत्मतत्वाधिपतिर्महात्रिपुरसुन्दरीतृप्यतु॥
३क्लींह५विद्यातत्वाधिपतिर्महात्रिपुरसुन्दरीतृप्यतु॥
३सौःस३शिवतत्वाधिपतिर्म-

हात्रिपुरसुन्दरीतृप्यतु॥
ऐङ्क्लींसौःक१४सर्वतत्वाधिपतिर्महात्रिपुरसुन्दरीतृप्यतु॥
ततोमूलन्दशधाजप्यसमर्प्ययोनिमुद्रयाप्रणम्यहोमङ्कुर्यात्॥
चिदाभासमयंवह्निञ्जुहोम्यपुनरुद्भवं।
ब्रह्मरन्ध्रोदितंहोमंविधायविश्वखंस्मरेत्।
शिखासङ्ख्याभिजप्तेनकेवलेनैवबिन्दुना।
श्रीगुरुपादुकांशिरसिविन्यस्यपञ्चस्थानेषुसप्तविंशतिधाशिखा।
नाभौचिदग्निसात्कृत्यविद्ययातस्यसंस्कृतिः।
स्वात्ममूलत्रिकोणस्थेसूर्यकोटिसमप्रभे।
कुण्डल्याकृतिचिद्वह्नौहुनेद्रव्यंसमन्त्रकं।
अथवान्यप्रकारेणनित्यहोमङ्कुर्यात्।
अग्न्याधानादिकङ्कर्मनित्यहोमेनविद्यते।
इतिवसिष्ठसंहितावचनात्॥
लौकिकाग्निमेवमूलेनदिननित्याविद्ययाचभ्युक्ष्याभिमन्त्र्यदेवीरूपन्ध्यात्वापरिषिञ्च्यवह्निदेवतयोरैक्यंविभाव्यत्रितारमूलमुच्चार्यश्रीमहात्रिपुरसुन्दर्यग्नयेनमितिगन्धपुष्पाक्षतैःसम्पूज्याज्यादिकंवमितिधेनुमुद्रयामृतीकृत्यमूलविद्ययात्रिरभिमन्त्र्य

तेनहविषामूलंस्वाहान्तंषोडशाहुतीर्हुत्वा॥
३समस्तप्रकटेत्यादिसमष्टिमन्त्रेणस्वाहान्तेनैकामाहुतिञ्जुहयात्।ततस्तिथिनित्याषोडशनित्यागुरुपङ्क्तित्रयषडङ्गयुवतीनवावरणशक्तिभ्यस्तत्तन्मन्त्रेणैकैकामाहुतिंहुत्वा।पुनःसमष्टिमन्त्रेणाहुतित्रयञ्जुहुयात्।अत्राप्यशक्तौषडङ्गयुवतीहोमानन्तरंसमष्टप्रकटेत्यादिसमष्टिमन्त्रेणाहुतित्रयंहुत्वासप्तजिह्वाख्यमुद्राप्रदर्श्यसमापयेत्।
मणिबन्धास्थितौकृत्वाप्रसृताञ्जलिकौकरौ।
कनिष्ठाङ्गुष्ठयुगलमिलित्वान्तःप्रकाशयेत्।
सप्तजिह्वाख्यमुद्रेयंवैश्वानरप्रियङ्करी।
होमानन्तरंहोमसमसङ्ख्याकंषोडशवारम्मूलंसञ्जप्यनिवेद्ययोनिप्रणम्यबलिदानङ्कुर्यात्।ततःश्रीचक्रपुरतःचन्दनेनचतुरस्रवृतत्रिकोणमण्डलङ्कृत्वाओङ्कुरुकुल्लेस्वाहेतिमन्त्रेणमण्डलंसम्पूज्य।तत्रसाधारंसान्नव्यञ्जनजलपूर्णम्पात्रत्रयमेकंवासंस्थाप्यविशेषार्घ्यबिन्दुन्दत्वा।ओङ्कुरुकुल्लेस्वाहाकुरुकुल्लायाः।
पुनःएवमेव।ओङ्कुरुकुल्लेह्रींसर्वजनम्मेवशमानयस्वा-

हा॥एभिस्त्रिभिर्मन्त्रैर्दक्षहस्तोद्धृतविशेषार्घ्यजलधारांवामकराङ्गुलिभिःसहक्रमेणपात्रत्रयवादद्यात्।तत्रस्ववामभूभागेसाधकोभूमिजानुगः।त्रिकोणंवृत्तभूबिम्बम्मण्डलम्प्रथमंलिखेत्।वाग्भवान्तेव्यापकान्तेमण्डलायनमोमनुञ्जपतन्मण्डलम्पूज्यसापूपञ्जलपायसं।
सशुद्धिबिन्दूपदंशङ्गन्धपुष्पाक्षतैर्यजेत्।
स्थाप्यात्रपात्रंसाधारम्प्रत्येकन्तदनन्तरं।
पश्चिमेबटुकन्देयमुत्तरेयोगिनीबलिं।
पूर्वेभूतबलिन्दद्यात्क्षेत्रपालन्तुदक्षिणे।
राजराजेश्वरम्मध्येराक्षसेगणपंयजेत्।
मण्डलानिविधायैवम्बटुकादीन्क्रमाद्यजेत्।
३बम्बटुकायनमः।३योयोगिनीभ्यःस्वाहा।३भुम्भूतेभ्योनमः।३क्षङ्क्षेत्रपालाय०।३रांराजराजेश्वराय०।३गङ्गणपतये०॥एवंसम्पूज्यगन्धाद्यैर्बलीन्दद्याद्यथाक्रमं॥
३एह्येहिदेविपुत्रबटुकनाथकपिलजटाभासुरपिङ्गटनेत्रज्वालामुखिमाम्पूजाम्बलिङ्गृह्ण२स्वाहा॥
वामाङ्गुष्ठानामिकाभ्याम्बटुकस्यबलिंहरेत्।
बलिदानेनसन्तुष्टोबटुकःसर्वसिद्धिदः।
शान्तिङ्करोतुमेनित्यम्भूतवेतालसेवितः।
तर्जनीमध्यमानामाङ्गुष्ठैर्योगिनीबलिः॥

३सर्वयोगिनीभ्यःसर्वभूतेभ्यःसर्वभूतादिवर्त्तिनीभ्योडाकिनीभ्यःशाकिनीभ्यस्त्रैलोक्याधिवासिनीभ्यिमाम्पूजाबलिङ्गृह्णन्तुस्वाहा॥
याकाचिद्योगिनीरौद्रासौम्याघोरतरापरा।
भूचरीखेचरीव्योमचरीप्रीतास्तुमेसदा।
इत्युत्तरेपुष्पाञ्जलिन्दत्वायोनिमुद्रयाप्रणमेत्।
अङ्गुलीभिश्चस्वाभिरुक्तोभूतबलिःप्रिये।
३सर्वभूतेभ्यःसर्वभूतपतिभ्योनमः।
भूतायेविविधाकारादिविभौमान्तरिक्षगाः।
पातालतलसंस्थाश्चशिवयोगेनभाविताः।
ध्रुवाद्याःसत्यसन्धाश्चिन्द्राद्याश्चव्यवस्थिताः।
तृप्यन्तुप्रीतमनसोभूत्वागृह्णन्त्विमम्बलिं।
इतिपूर्वेपुष्पाञ्जलिदत्वायोनिमुद्रयाप्रणमेत्।
अङ्गुष्ठतर्जनीभ्यान्तुक्षेत्रपालबलिर्भवेत्।
३एह्येहिदेविपुत्रायबटुकनाथायुच्छिष्टहारिणेगृह्ण२क्षपणक्षेत्रपालसर्वविघ्नान्नाशय२परिवारसहितिमाम्पूजाम्बलिङ्गृह्ण२स्वाहा।
ह्सौंःह्रींह्रींह्रूंयुगान्तभैरवादिलीलयाक्षोभ्यानन्दहृदयाभीष्टसिद्ध्यर्थमवतरातरक्षेत्रपालमहाशाक्तबटुकनाथदेविपुत्रमातृपुत्रकुलपुत्रसिद्धपुत्रास्मिन्स्था-

नाधिपतेस्मिन्ग्रामाधिपतेस्मिन्देशाधिपतेस्मिन्मेघनाथप्रचण्डोग्रकपालभीमभीषणसर्वविघ्नाधिपतेइमाम्पूजाम्बलिङ्गृह्ण२तुरु२मुरु२चूर्णय२ज्वल२प्रज्वल२सर्वविघ्नान्नाशय२ह्रांह्रींह्रूङ्क्षाङ्क्षीङ्क्षूङ्क्षेत्रपालायवौषठुं।
योस्मिन्क्षेत्रेनिवासीचक्षेत्रपालस्यकिङ्करः।
प्रीतोयम्बलिदानेनसर्वरक्षाङ्करोतुमे।
इतिदक्षिणेपुष्पाञ्जलिन्दत्वायोनिमुद्रयाप्रणमेदितिक्षेत्रपालबलिः।
अङ्गुष्ठमध्यमाभ्यान्तुराजराजेश्वरस्यच।
३अमुकक्षेत्रपालराजराजेश्वरेमाम्पूजाम्बलिङ्गृह्ण२स्वाहा।
अनेनबलिदानेनबटुकवर्गसमन्वितः।
राजराजेश्वरोदेवोमेप्रसीदतुसर्वदा।
तथामुष्टेस्तुमध्यस्थामङ्गुलिन्दण्डवत्कुरु।
गजतुण्डमहामुद्रागणपस्यप्रिंयकरी।
गाङ्गीङ्गूङ्गङ्गणपतयेवरवरदसर्वजनम्मेवशमानयेमाम्पूजाम्बलिङ्गृह्ण२स्वाहा।
कपालपाशाङ्कुशयोनिघर्षचिह्नैश्चतुर्बाहुभिरुज्ज्वलन्तं।
गाढोपगूढात्मतनुन्निजाङ्कसंसक्तशक्त्यारुणकान्तिमीडे।
एकत्रवाबलिञ्चात्रदद्यादुदकमण्डले।
दर्शयेदथनाराचमुद्रान्तारत्रयंवदेत्।

३ओंह्रींसर्वविघ्नकृद्भ्यःसर्वभूतेभ्योहुंस्वाहाइति।
देव्यैउत्तरापोशनहस्तप्रक्षालनगण्डूषाचमनीयानिदद्यात्।
३तमालदलकर्पूरपूगभागसमन्वितं।
एलापत्रिसमायुक्तन्ताम्बूलङ्कल्पयाम्यहं।
३छत्रञ्चामरयोर्युगंव्यजनकञ्चादर्शकन्निर्मलम्भेरीशङ्खमृदङ्गतालकहलागीतञ्चनृत्यन्तथा।
साष्टाङ्गम्प्रणतिंस्तुतिम्बहुविधामेतत्समस्तम्मयासङ्कल्पेनसमर्पितन्तवशिवेभोगायतेनित्यशः।गतसारन्नैवेद्यन्नैरृत्यान्दिशिसंस्थाप्यहस्तम्प्रक्षाल्यप्रसन्नपूजाङ्कुर्यात्।
३मूलंश्रीपराम्बायैगन्धंसमर्पयामिनमः।एवम्प्रकारेणपुष्पधूपदीपनैवेद्यदक्षिणान्नमस्कारान्तैःसप्तभिरुपचारैरुपचर्यारार्त्तिकङ्कुर्यात्।
सौवर्णेराजतेकांस्येस्थालकेपरमेश्वरि।
कुङ्कुमेनलिखेत्पद्मंवसुपत्रम्मनोहरं।
ईषत्पक्वसुपिष्टेनकुर्याद्वेदाङ्गुलोन्नतान्।
दिव्यान्डमरुकाकारान्त्रिकोणानतिशोभनान्।
प्रकर्षग्राहिणःकुर्यान्नवसप्ताथपञ्चवा।
दे-

व्याःपुरस्त्रिकोणञ्चचतुरस्रञ्चवर्तुलं।
विधायमण्डलन्तत्रस्थाप्यदीपान्प्रकाशयेत्।
मायाबीजेनकुसुमैर्गन्धाद्यैश्चप्रपूजयेत्।
३ऐम्महादीपतेजोवतिअमोघज्ञानप्रभामालिनिभगवतिविच्चेऐङ्क्लिन्नेनमः।
मन्त्रेणगुह्यमालिन्यागन्धाद्यैःपूजयेत्पुनः।
जानुभ्यामवनिगत्वादीपभाजनमुद्धरेत्।
३श्रींह्रीङ्ग्लूम्प्लूंस्लूम्म्लून्न्लूंह्रींश्रींइतिरत्नेश्वर्यानववारम्प्रपूजयेत्।
अन्तस्तेजोबहिस्तेजेकीकृत्यामितम्प्रभं।
त्रिधादेव्यैपरिभ्राम्यकुलदीपान्निवेदयेत्।
३समस्तचक्रचक्रेशीयुतेदेविनवात्मिके।
आरार्त्तिकमिदन्तुभ्यङ्गृहाणममसिद्धये।
आरार्त्तिकन्निवेद्यैवंस्थापयेत्पूर्वमण्डले।
इति।चक्रमुद्राम्प्रदर्श्य।चक्रमुद्रायथा।
वामहस्ताङ्गुष्ठगर्भेदक्षाङ्गुष्ठंविनिक्षिपेत्।
अन्योन्यग्रथितेदेविचक्रमुद्रासमीरिता।
ततःपुष्पाञ्जलिङ्गृहीत्वामूलमुच्चार्यसमस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापररहस्यपरा-

परातीतरहस्ययोगिनीभ्यस्त्रैलोक्यमोहनसर्वाशापरिपूरकसर्वसङ्क्षोभणसर्वसौभाग्यदायकसर्वार्थसाधकसर्वरक्षाकरसर्वरोगहरसर्वसिद्धिप्रदसर्वानन्दमयेषुनवचक्रेषुसाङ्गाःससिद्धयःसासनाःसायुधाःसपरिवाराःसालङ्काराःसर्वोपचारैःपूजितास्तर्पिताःसन्तुनमःइतिपुष्पाञ्जलिन्दत्वा।साष्टाङ्गम्प्रणम्यस्वासनेसमुपविश्यपुनःमूलेनपूष्पाञ्जलिन्दत्वा।योनिमुद्रयाप्रणमेत्।ततःशक्तिमाहूयपूजाङ्कुर्यात्।
आयाहिवरदेदेविमण्डलोपरिसर्वदा।
पूजाङ्गृहाणदेवेशिशत्रूणाङ्क्षयकारिणी।
स्ववामभागेत्रिकोणषट्कोणवृत्तचतुरस्रात्ममण्डलम्मत्स्यमुद्रयाकृत्वातत्रासनम्परिकल्प्यसर्वलक्षणसम्पन्नांसुवासिनींसंस्थाप्यतच्छिरसित्रिकोणंविचिन्त्यदेवीकलामावाह्य३श्रीन्नमःपादौपूजयामि।
६पादकुलयोगिनीपापू०।६पादकुलयोगिनीपादुकापू०।३कुण्डकुलयोगिनीपा०।३अकुण्डकुलयोगिनीश्रीपा०।३रूपकुलयोगिन्यै०।३

रूंरूपकुलयोगिनीश्री०।३सुवासिन्यै०।३सुवासिनीश्री०।३शक्तेःपादौप्रक्षाल्यगन्धाद्यैरर्चयित्वासमाहितःसदक्षिणाताम्बूलन्दत्वातयासहदेव्यैसमष्टिमन्त्रेणपुष्पाञ्जलिन्दद्यात्।आरभ्यदेवताबुद्ध्याशक्तिपात्रामृतेनच।तर्पयेदितिशेषः।प्रथमपात्रंसशुद्धिकन्दत्वाप्रार्थयेत्।
चिच्चन्द्रकुण्डलीयोगात्सारमस्यसुखोदये।
गृहाणामृतपात्रन्तुप्रथमम्बिन्दुवाहिनि।
ततःद्वितीये।
अलिपात्रमिदन्तुभ्यन्दीयतेपिशितान्वितं।
स्वीकृत्यसुभगेदेविजयन्देहिरिपून्दह।
ततस्तृतीये।
कामकामेश्वराभीष्टकामदानविनोदिनि।
गृहाणदीयतेपात्रन्त्रिपुरारिकुण्टुम्बिनि।
अधिकारिणीचेत्चतुर्थन्दद्यात्तत्प्रार्थना।
भगमालिनिभर्गाणिस्वर्गापवर्गदायिनि।
भवानिभरितम्पात्रङ्गृह्णमातश्चतुर्थकं।
इतितत्वत्रयंशक्त्यैभक्त्यासम्यक्प्रदापयेत्।
पात्रन्दद्यात्।
आनन्देनविनादेविनतृप्यन्तीहमातरः।
तस्मादानान्दसिद्ध्यर्थम्पात्रन्देविवरानने।
इति।सापि।
वत्सतुभ्यम्मयादत्तम्पीतशेषङ्कुलामृतं।
त्वदीयशत्रून्संहृत्यतवाभीष्टन्ददाम्यहं।

इतिवदतीपात्रंसाधकायशेषामृतपूर्वकन्दद्यात्।
साधकस्तदुररीकृत्यताञ्चतुर्भिरुपचारैःसन्तोषयेत्।
तथेत्युक्त्वामृतन्दत्तंस्वयन्तत्वत्रयम्पिबेत्।
आदायचगुरोःसाक्षादादिशक्तिमुखाम्बुजात्।
गलितम्परमानन्दंरससारम्पिबाम्यहं।
इत्युक्त्वापिबेत्।
तदन्तेकन्यकाश्चापिप्रमदाश्चमनोहराः।
सम्पूज्यदद्यात्पात्राणिशक्तिपात्रस्थबिन्दुना।इतिशक्तिकुमारीपूजनं।
ततःबटुकम्पूजयेत्।
३ओम्बटुकायनमितिगन्धादिपञ्चोपचारैःपूज्यबलिपात्रामृतेनैकमेवपात्रन्दद्याद्विसृजेत्।ततः।
श्रीगुरोःपात्रमुत्थाप्यगुरवेदेवतात्मने।
शिरःपद्मासनस्थायश्रीपराबीजपूर्वकं।
श्रीपादुकांसमुच्चार्यत्रिधाभक्त्यानिवेद्यच।
तत्पात्रंस्वस्थलेस्थाप्यतत्पात्रमभिवन्द्यच।
जानुभ्यामवनीङ्गत्वाप्रणम्यचुलकत्रयं।
गृहीत्वापुनरानम्यपात्रमुत्थाप्याप्यभक्तिमान्।
कराभ्याञ्चिन्मुद्रामितिध्यायेत्।
ततःसामायिकैःशिष्टैर्वृन्दात्मनावस्थितैःसाकम्पाणीप्रक्षाल्यवीरम्पूजनंवीरेभ्यो

नमितिगन्धपुष्पधूपदीपनैवेद्याद्युपचारान्समर्पयेदिति।ततस्तैःसहसमष्टिमन्त्रेणदेव्यैपुष्पाञ्जलिन्दत्वा।तेभ्योभोगपात्रादमृतपात्राणिदद्यात्।स्वयञ्चात्मपात्राद्गृहीत्वातत्वशोधनङ्कुर्याद्यथा।
३प्रकृत्यहङ्कारमनोबुद्धित्वक्चक्षुश्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवाय्वग्न्यप्पृथिव्यन्तानिचतुर्विंशतिशुद्धतत्वानिअं१५ऐङ्क४आत्मतत्वेनस्थूलदेहम्परिशोधयामिनमःस्वाहा।इदम्पवित्रममृतम्पिबामिभवभेषजं।पशुपाशसमुच्छेदकारणम्भैरवोदितं।
इतिप्रथमं।
३मायाकलाविद्यारागकालनियतिपुरुषान्तानिसप्तशुद्धतत्वानिकं२४क्लींह५विद्यातत्वेनसूक्ष्मदेहम्परिशोधयामिनमःस्वाहचित्तस्वातन्त्र्यसारत्वात्तस्यानन्दमयत्वतः।तन्मयत्वाच्चभावानाम्भावश्चान्तर्हितोरसैः।इतिद्वितीयं।
३परमशिवशक्तिसदाशिवेश्वरशुद्धविद्यान्तानिपञ्चतत्वानियं९सौःस३शिवतत्वेनकारणदेहंविशोधयामिनमःस्वाहा।

स्वस्वातन्त्र्यबिकाशायस्वरसोयेनपीयते।तस्मादिमांसुधान्देवीम्पूर्णाहन्ताञ्जुहोम्यहं।इतितृतीयं।
३परमशिवसदाशिवेश्वरशुद्धविद्यामायाकलाविद्यारागकालनियतिपुरुषप्रकृतिमनोबुध्यहङ्कारश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवाय्वग्न्यप्पृथिव्यन्तानिषट्त्रिंशत्तत्वानिअं५०ऐङ्क्लींसौःक१४सर्वतत्वेनजीवात्मपरमात्मनोरैक्यंविशोधयामिनमःस्वाहा।
प्रकाशामर्शहस्ताभ्यामवलम्ब्योम्ननीस्रुचं।धर्माधर्मकलास्नेहपूर्णामग्नौजुहोम्यहं।इतिचतुर्थं।
अधिकारीचेत्पञ्चमम्पात्रंस्वीकुर्यात्।ततःसामायिकैःसहचर्वणादिकृत्यचक्राद्बहिःहस्तौप्रक्षाल्यश्रीगुरुत्रयवन्दनादिवक्ष्यमाणप्रकारेणमूलमष्टोत्तरञ्जप्त्वादेवीवामहस्तेसमर्प्यश्रीचक्रेपुष्पाञ्जलीन्दद्यात्तद्यथा।
३मूलं।समस्तमुनियक्षकिम्पुरुषसिद्धविद्याधरग्रहासुरसुराप्सरोगणमुखै-

र्गणैःसेविते।निवृत्तितिलकाम्बरप्रकृतिशान्तिविद्याकलाकलापमधुराकृतेकलितेषपुष्पाञ्जलिः।१॥
त्रिवेदकृतविग्रहेत्रिविधकृत्यसन्धायिनित्रिरूपसमवायिनित्रिपुरमार्गसञ्चारिणि॥
त्रिलोचनकुटुम्बिनित्रिगुणसंविदुद्यत्पदेत्रयित्रिपुरसुन्दरित्रिजगदीशिपुष्पाञ्जलिः॥२॥
पुरन्दरबलाधिपान्तककुबेररक्षोहरप्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते।
प्रवालपदपीटिकानिकटनित्यवृत्तिस्वभूर्विरिञ्चिवनितास्तुतेविहितेषपुष्पाञ्जलिः॥३॥
यदानतिबलादहङ्कृतिरूदेतिविद्यावयस्तपोद्रविणरूपसौरभकवित्वसंविन्मयी॥
जरामरणजन्मजम्भयमुपैतितस्यांसदासमाहितसमीहितप्रसवभूतितुभ्यन्नमः॥४॥
निरावरणसंविदुन्मिषदुपाधिभेदप्रदम्पदास्पदचिदेकतावरशरीरिणिस्वैरिणि॥
रसायणतरङ्गिणीरुचितरङ्गसञ्चारिणिप्रकामपरिपूरिणिप्रसृतेषपुष्पाञ्जलिः॥५॥
तरङ्गयतिसम्पदन्तदनुसंहरत्यापदंसु-

खंवितरयतिश्रियःपरिचिनोतिहन्तिद्विषः॥
क्षिणोतिदुरितानियत्प्रणतिरम्बतस्यैसदाशिवङ्करिशिवेपरेशिवपुरन्ध्रितुभ्यन्नमः॥६॥
शिवेशिवसुशीतलामृततरङ्गगन्धोल्लसन्नवावरणदेवतेनवनवामृतस्पन्दिनि॥
गुरुक्रमपुरस्कृतेगुणशरीरनित्योज्ज्वलेषडङ्गपरिवारितेकलितेषपुष्पाञ्जलिः॥७॥
त्वमेवजननीपितात्वमसिबान्दवास्त्वंसखात्वमायुरसवस्त्वमाभरणमात्मनस्त्वङ्कलात्वमेववपुषस्थितिस्त्वमखिलावृतिस्त्वङ्गुरुःप्रसीदपरमेश्वरिप्रणतपात्रितुभ्यन्नमः॥८॥
अथगुरुपुष्पाञ्जलिः।
करुणाशक्तिकल्लोलकरुणाकलितात्मने॥
वरानुग्रहरूपायगुरवेकुसुमाञ्जलिः॥१॥
गुरुर्ब्रह्मागुरुर्विष्णुर्गुरुर्देवोमहेश्वरः॥
गुरुरेवपरम्ब्रह्मतस्मैश्रीगुरवेनमः॥२॥
अनुत्तरमहासंविदनुभूतिकलात्मने।

गुरुगन्धगुणाढ्यायगुरवेकुसुमाञ्जलिः॥३॥
अज्ञानतिमिरान्धस्यज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितंयेनतस्मैश्रीगुरवेनमः॥४॥
निजस्तुतिनमस्कारनिरस्तदुरहङ्कृते।
विद्यागमरहस्यायगुरवेकुसुमाञ्जलिः॥५॥
अन्तस्तिमिरनिर्भेदभानवेकामधेनवे।
विकल्पजननीकल्पतरवेगुरवेनमः॥६॥
धर्माधर्ममयोविधिस्तदितरङ्कर्मद्विधातन्मुखम्पुण्यम्पापमशर्मशर्मचफलंयत्रस्फुरन्तिस्फुटं॥
येनायङ्खलुजीवभाजनमहोमायातरुःपातितस्तस्मैदिव्यवपुर्धरायगुरवेनाथायपुष्पाञ्जलिः॥७॥
छित्वाकर्मनिबद्धसन्निरवधिप्लुष्टान्विकल्पात्मिकान्कारागारमनेकसंशयरिपून्हत्वामृगान्सेवकः॥
प्रक्षाल्यप्रचुरम्मलत्रयमहोसंस्थापितःस्वेपदेयेनश्रीगुरुरूपिणेभगवतेतस्मैनमःशम्भवे॥८॥
इतिपुष्पाञ्जलीन्दत्वा।
स्तोत्रम्पठेत्।
ओङ्गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीं॥
देवीम्मन्त्रमयीन्नौमिमातृकापीठरूपिणीं॥१॥
प्रणमामिमहादेवीम्मातृकाम्परमेश्वरीं॥
कालहल्लोहलोल्लोलकलनाशमकारिणीं॥२॥
यदक्षरैकमात्रेपिसंसिद्धेःस्पर्धतेनरः॥
रवितार्क्ष्येन्दुकन्दर्पशङ्करानलविष्णुभिः॥३॥
यदक्षरशशिज्योत्स्नामण्डितम्भुवनत्रयं।

वन्देसर्वेश्वरीन्देवीम्महाश्रीसिद्धमातृकां॥४॥
यदक्षरमहासूत्रप्रोतमेतज्जगत्रयं।
ब्रह्माण्डादिकटाहान्तन्तांवन्देसिद्धमातृकां॥५॥
यदेकादशमाधारम्बीजङ्कोणत्रयोद्भवं।
ब्रह्माण्डादिकटाहान्तञ्जगदद्यापिदृश्यते॥६॥
अकचादिटतोन्नद्धपयसाक्षरवर्गिणीं॥
ज्येष्ठाङ्गबाहुहृत्पृष्ठकटिपादनिवासिनीं॥७॥
तामीकाराक्षरोद्धारांसारात्साराम्परात्परां।
प्रणमामिमहादेवीम्परमानन्दरूपिणीं॥८॥
अद्यापियस्याजानन्तिनमनागपिदेवताः।
केयङ्कस्मात्क्वकेनेतिस्वरूपारूपभावनां॥९॥
वन्देतामहमक्षय्यक्षकाराक्षररूपिणीं।
देवीङ्कुलकुलोल्लासप्रोल्लसन्तीम्परांशिवां॥१०॥
वर्गानुक्रमयोगेनयस्याम्मात्रष्टकंस्थितं।
वन्देतामष्टवर्गोत्थमहासिध्यष्टकेश्वरीं॥११॥
कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीं।
चतुराज्ञाकोशभूतान्नौमिश्रीत्रिपुरामहं॥१२॥
इतिद्वादशभिश्लोकैःस्तवनंसर्वसिद्धिकृत्।
देव्यास्त्वखण्डरूपा-

यास्तवनन्तवतद्यतः।
इतिघण्टावादनपुरःसरंस्तुत्वाप्रार्थनामुद्राम्बध्वाप्रार्थयेत्।
किङ्किन्दुःखन्दनुजदलिनिक्षीयतेनस्मृतायां।
काकासिद्धिःसुरवरनुतेप्राप्यतेनार्चितायां॥
काकाकीर्तिःकुलकमलिनिख्यायतेनस्तुतायाङ्कङ्कंयोगन्त्वयिनलभतेचित्तमालम्बितायां॥१॥
सर्गसंसर्गसंरम्भस्फुरिताघौघविभ्रमे।
चिच्चन्द्रमण्डलान्तस्थेनमस्तेहरवल्लभे॥२॥
जगदाह्लादनोद्योगयोगभोगवियोगिनि।
स्थितिभावस्थितेगौरिनमःस्थाणुप्रियेम्बिके।
भावाभावपृथग्भावस्वभावोदयधर्मिणि।
चैतन्यपञ्चकेदेविनमस्तुभ्यंवरानने॥४॥
सृष्टिस्थित्युपसंहारवृत्युत्थितपदोदये।
चिद्विश्रान्तिमहासत्तामात्रेमात्रेनमोस्तुते॥५॥
वह्न्यर्कशीतकिरणब्रह्मचक्रान्तरोदिते।
चतुःपीठेश्वरिशिवेनमस्त्रिपुरसुन्दरि॥६॥
चराचरमिदंविश्वम्प्रकाशयतितेजसा।
मातृकारूपमास्थायतस्यामात्रेनमोस्तुते॥७॥
स्तुताभवभयध्वंसिपूजितासिवशङ्करि।
स्तुतात्वंवाञ्छितंवस्तुददासिकरुणाकरे॥८॥

भक्तस्यमेनित्यपूजायुक्तस्यममसन्ततेः।
वाग्रमादिमहासिद्धिन्देहित्रिपुरसुन्दरि॥९॥
परमानन्दसन्दोहसम्मोदभरनिर्भरे॥
दुःखत्रयपरिम्लानवदनम्पाहिमांशिवे॥१०॥
शब्दब्रह्ममयेस्वच्छेदेवित्रिपुरसुन्दरि।
यथाशक्तिजपम्पूजाङ्गृहाणत्वमनुग्रहात्॥११॥
अज्ञानादल्पबुद्धित्वदालस्याद्दुष्टसम्भवात्॥
कृतापराधङ्कृपणङ्क्षन्तुमर्हसिमांशिवे॥१२॥
अज्ञानामसमर्थानामर्थानभिनिवेशिनां।
अम्बत्वद्बलमस्माकंशिशूनांहरवल्लभे॥१३॥
कृपामयमपाङ्गम्भोसकृन्मयिनिपातय।
तावदहङ्कृतार्थेस्मिनतेकिञ्चिन्महीयते॥१४॥
द्रव्यहीनङ्क्रियाहीनम्मन्त्रहीनम्मयाकृतं।
तत्सर्वङ्कृपयादेविक्षमस्वपरमेश्वरि॥१५॥
यन्मयाक्रियतेकर्मजाग्रत्स्वप्नसुषुप्तिषु।
तत्सर्वन्तावकीपूजाभूयाद्भूत्यैनमोस्तुते॥१६॥
यन्मयोक्तम्महाज्ञानात्तन्महत्स्वल्पमेववा॥
हन्तसर्वञ्जगत्धात्रिक्षन्तव्यमहमञ्जलिः॥१७॥

जातौद्वैतमहामोहशर्वरीक्षपणक्षमः॥
भास्वानिवजयत्यर्कोगणेशःशक्तिसंयुतः॥१८॥
प्रतिभासागरोल्लासोनिशाकरिवापरः॥
मूर्त्तियुक्तःसजयतिबटुकस्ताण्डवान्वितः॥१९॥
षट्त्रिंशत्तत्वभरितङ्क्षेत्रंयःपालयेत्परं।
क्षेत्रेशन्तमहन्नौमिवारुणस्थम्महाबलं॥२०॥
चतुःपीठनिवासिन्योयोगीश्वर्योमहाबलाः॥
चतुःषष्टिप्रकारास्तानित्यंवन्देकुलाङ्गनाः॥२१॥
भेदाभेदमहामोहविवर्त्तपरिमण्डितं॥
आपूरयन्तींसमयान्द्वात्रिंशार्णोनमाम्यहं॥२२॥

इतिदेवीङ्क्षमापयेत्।पुनःनमस्तेनाथभगवन्नित्यादिपञ्चश्लोकैःश्रीगुरूम्प्रार्थयेत।ततःमूलेनपुष्पाञ्जलिन्दत्वा।
सर्वशक्तिक्रमोद्भूताम्प्रभोन्मोहमिहात्मिकां।
देवस्यदेवताङ्काञ्चित्संवित्सुखमयांश्रये।
इतिप्रदक्षिणामेकाङ्कृत्वा

ओंसर्वमङ्गलमङ्गल्येशिवेसर्वार्थसाधिके।
शरण्येत्र्यम्बकेगौरिनारायणिनमोस्तुते।
इतिसप्तधाजपन्पञ्चनमस्कारान्कृत्वासनेस्थित्वापुष्पाञ्जलिन्दत्वा।पुनःप्रार्थयेत्।
यद्दतम्भक्तिमात्रेणपत्रम्पुष्पम्फलञ्जलं।
निवेदितञ्चनैवेद्यन्तद्गृहणानुकम्पया।
आवाहनन्नजानामिनजानामिविसर्जनं।
पूजाभागन्नजानामित्वङ्गतिःपरमेश्वरि।
नाथयोनिसहस्रेषुयेषुयेषुव्रजाम्यहं।
तेषुतेष्वच्युताभक्तिरच्युतायांसदात्वयि।
कर्मणामनसावाचात्वजोनान्यागतिर्मम।
अन्तश्चरसिभूतानान्दृष्टिस्त्वम्परमेश्वरि।
देवीधात्रीचभोक्त्रीचदेवीसर्वमिदञ्जगत्।
देवीजयतिसर्वत्रयादेवीसोहमेवच।
यदक्षरपदभ्रष्टम्मात्राहीनञ्चयद्भवेत्।
क्षन्तुमर्हसिदेवेशिकस्यनस्खलितम्मनः।
मन्त्रेषुपठितेष्वेषुस्वयमेवप्रसीदति।
दातुदेवीचतुर्वर्गमचिराद्देविभैरवि।

आपदिकिङ्करणीयंस्मरणीयञ्चरणयुगलमम्बायां।
तत्स्मरणङ्किङ्कुरुतेब्रह्मादीनपिकिङ्करान्कुरुते।
पातयवापातालेस्थापयवासकललोकसाम्राज्ये।
मातस्तवपदयुगलन्नाहम्मुञ्चामिनैवमुञ्चामि।
अपराधसहस्राणिक्रीयन्तेऽहर्निशम्मया।
दासोहमितिमाम्मत्वाक्षमस्वपरमेश्वरि।
भूमौस्खलितपादानाम्भूमिरेवावलम्बनं।
त्वयिजातापराधानान्त्वमेवशरणंशिवे।
अपराधोभवत्येवसेवकस्यपदेपदे।
कापरासहतांलोकेकेवलंस्वामिनींविना।
इतिप्रार्थ्य।पुनःपात्राणिवीरशक्तिभ्योभोगपात्रामृतेनदद्यात्तेषांसन्तोषङ्कृत्वाक्षमाप्य॥