१। मन्त्रवादः
नवशक्तिविधिप्रोक्तं नवमूलं तु यामलम् ।
तच्छाक्तं शाम्भवं शैवं तत्तत्त्वं सिद्धिशाम्भवम् ॥ १
मूलागमं तु सन्मार्गं सहमार्गं शिवागमम् ।
सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ॥ २
नवागमरहसयारथोद्भवोऽष्टाविंशतोदयः ।
शक्त्युक्तिं यामलोद्भेदं नवभेदमनेकधा ॥ ३
- १। पारतत्त्वरागम्
- २। परमागमम्
- ३। शिवागमम्
- ४। शक्तयागमम्
- ५। कलागमम्
- ६। देवप्रसादम्
- ७। पारतन्त्रावतारम्
- ८। शिवाज्ञासारम्
- ९। शिवसादाख्यप्रसादम् ।
नवधा चेति संप्रोक्तो नवतन्त्रैकगोचरः ।
वामश्च मन्त्रवादश्च यन्त्रावादस्ततः परम् ॥ ४
तथा चौषधवादश्च कर्मवादस्तथैव च ।
अद्वैतवामसिद्धान्तो द्वैतवाममतः पुनः ॥ ५
मिश्रवाममतः पश्चाद्वामसिद्धान्त इत्यपि ।
वामं तु त्रिविधं प्रोक्तमनादिः पूर्वपश्चिमम् ॥ ६
न्यायो वैशेषिकशैव बौद्धश्चैवार्हतस्तथा ।
लोकायतश्च साङ्खयश्च मीमांसो वैष्णवस्तथा ॥ ७
न्यायाद्यष्ठकभेदोयं बहिःस्थाः समयार्थकः ।
शैवं शिवाद्वयं चैव शिवसंमेलनं त्रिधा ॥ ८
पश्चात्पाशुपतं चैव कालामुखमहाव्रतम् ।
वामभैरवयोर्भेदाः शैवसयाभ्यनतराष्टकः ॥ ९
शुद्धशैवस्य सम्बन्धं जटी केशधरोऽथवा ।
शिवपूजादि कर्तव्यं भस्मरुद्राक्षधारणम् ॥ १०
ज्ञानदीक्षा पञ्चगुणाः सद्गुणाः करुणोदयाः ।
ज्ञानभेदं चतुष्पादं नित्यानुष्ठानसाधकम् ॥ ११
रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम् ।
भस्मापि शुद्धशैवानां पञ्च मुद्राः प्रकीर्तिताः ॥ १२
वामं हि शाम्भवं शास्त्रं भैरवं दक्षिणात्मकम् । १३आ
सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ।
इदं शास्त्रं शिवोद्गीर्णं मूलतन्त्रावतारकम् ॥ १४
कुलार्णवं कुलोत्तीर्णं कुलसम्भवं कुलामृतम् ।
परानुत्तरागमार्थ कौळिका कुळशासनम् ॥ १५
सिद्धामृताम्नायसिद्धिरित्यादि शाक्तवामजम् ।
नवयामळयोर्भेदं तत्तद्वेदमनेकधा ॥ १६
शाक्तेयं शाम्भवं शैवं शिवसम्बन्धकारणम् ।
त्रैसिद्धान्तमिति प्रोक्तमिदं शास्त्रं त्रिमेलनम् ॥ १७
शुद्धशैवमिति ख्यातं शुद्धशाम्भवसम्भवम् ॥ १८आ
वेदस्य विहिताचारं दक्षिणाचारमुच्यते ।
विपरीतं वाममार्गं शाक्तेयं शैवगोचरम् ॥ १९
नवशक्तिविधिप्रोक्तं नवमूलं तु यामलम् ।
तच्छाक्तं शाम्भवं शैवं तत्तत्वं सिद्धिशाम्भवम् ॥ २०
शक्त्यर्थं यामलोद्भेदं नवभेदमनेकधा । २१आ
मूलागमं च सन्मार्गं सहमार्गं शिवागमम् ।
शिवसृष्टिः पञ्चमाका राश क्त्या सारैकया दश ॥ २२
वामभैरवयोर्भेदं गौतमं च गणेश्वरम् ।
नन्दिकेशं तथा पश्चादैन्द्रसारं तु षोडशम् ॥ २३
गौरीनरागमं पश्चान्महेशसारं ततः परम् ।
अघोरसारागर्मं पश्चाद्विष्णुसारमतः परम् ॥२४
ब्रह्मसारं ततः पश्चात्ततः समयसारकम् ।
महेश्वरोद्भवं चैव रुद्रावतारसम्भवम् ॥ २५
सौन्दर्यं सिद्धसारं च महाभैरवषष्ठकम् ।
सादाख्यं पार्वतीप्रोक्तं मन्त्रावतारयोनिकम् ॥ २६
देवसारं दशांशं च योगसारं च सम्मतम् ।
इत्यष्टाविंशतिर्भेदं मूलोपादानकारणम् ॥ २७
चतुर्विंशच्छतद्वयमष्टाविंशोपभेदकम् । २८आ
शिवशक्तिस्वरूपेण शैवं शाक्तं मयोदितम् ।
शिवसम्बन्धतः शक्तिः शक्तिसम्बन्धतः शिवः ॥ २९
षड्वक्त्रेशानसम्बन्धं षट्शक्तिप्रभवोद्भवम् ।
षट्शक्तिप्रभवाकारे शैवादि समयोदितम् ॥ ३०
शैवं पूर्वमुखोत्पन्न याम्ये कालामुखं तथा ।
पश्चात्पाशुपतं चैवमुक्त्तरे तु महाव्रतम् ॥ ३१
तदूर्ध्वे भैरवं प्रोक्तं पाताले वाममुच्यते ।
पातालशक्तिसम्बन्धं तदूर्ध्वं परमं पदम् ॥ ३२
पारतत्वरागम् परमागमम् शिवागमम् शक्तयागमम् ।
कलागमम् देवप्रसादम् पारतन्त्रावतारम् शिवाज्ञासारम् ॥ ३३
शिवसादाख्यप्रसादम् ।
…। …। …। मेद संक …। …। मष्टविद्येशरोदितम् ॥ ३४
एतेषां विंशतिर्भेदाः सारतन्त्रावतारकम् ।
सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ॥ ३५
मूलाष्टाविंशतिः शास्त्राञ्जातं सर्वत्र कारणम् ।
सद्यं वाममघोरं च पुरुषेशानपञ्चमम् ॥ ३६
अत्तत्प्रोक्तमतं शास्त्रं कामिकाद्यष्टविंशतिः । ३७आ
कालोत्तरादि यद्भिन्न तन्मूलस्योपभेदकम् ।
कामिकादि विभेदार्थं शतद्वयं तथाधिकम् ॥ ३८
वेदसारागमं शास्त्रं वेदान्तं चागमान्तकम् । ३९आ
अनन्तागमयोर्मध्ये सारात्साराष्टविंशतिः ।
तन्मूलागमतद्भेदा नवधा मूलकल्पना ॥ ४०
तत्तत्सारांशसारार्थतन्त्रावतारशास्त्रकम् ।
वेदागमरहस्यार्थ वेदागमान्तविस्मयम् ॥ ४१
शुद्धशैवप्रकाशार्थं शुद्धशाम्भवसम्भवम् ।
शुद्धशैवस्तथा सारसारात्सारप्रकाशितम् ॥ ४२
सारात्सारतरं गुह्यं गुह्याद्गुह्यं प्रकाशितम् ।
शाक्तस्य शाम्भवं शैवं शैवं शाम्भवशाक्त्तकम् ॥ ४३
वेदान्तसिद्धान्तविज्ञानगम्यं वेदान्तसिद्धान्तकमेव तत्वम् ।
वेदान्तसिद्धान्तविभेदभिन्नं वेदान्तसिद्धान्तविश्रान्तिकं च ॥ ४४
शुद्धशैवः स्वसिद्धान्तमिदं शास्त्रप्रवर्तकम् । ४५आ
न्यायं वैशेषिक चैव बौद्ध चैवार्हतं तथा ।
लोकायतं च सांख्यं च मीमांसा वैष्णवं तथा ॥ ४६
एवमष्टौ बहिर्भेदाः बाह्याभ्यन्तरं षोडश ।
शैवं शिवाद्वितं द्वेधा शिवसंमेलनं त्रयम् ॥ ४७
चतुर्थं पाशुपत्यं च पञ्चमं तु महाव्रतम् ।
षष्ठं कालामुखं चैव सप्तमं भैरवं तथा ॥ ४८
अष्टमं वामभेदोऽथ समयेत्यष्टमं भवेत् ।
एवमष्टौ बहिर्भेदा बाह्याभ्यन्तर षोडश ॥ ४९
भेदाभेदोभयज्ञानं मायावादप्रधानकम् ।
मन्त्रं यन्त्रं च चक्रं च कालः प्रारब्धकर्म च ॥ ५०
न्येय यवादिन … ।
अष्टवादमिदं प्रोक्तं त्रियष्टश्वतुर्विशतिः ॥ ५१
तीर्थशास्त्रप्रमाणं च अर्चनाध्यात्मपञ्चमाः ।
बाह्याभ्यन्तरयोर्भेदः संकल्पा षट्प्रभेदकाः ॥ ५२
॥॥॥ भेदाः षोडश समयास्तथा ।
ब्रह्मविद्यादिवादी च तत्त्ववादस्तु शून्यकः ॥ ५३
एवं पञ्चशिवोत्पन्नं श्रुत्वाऽऽगमान्यतन्त्रजम् ।
अष्टाविशत्प्रभेदार्थ मायाकुण्डलिनोद्भवम् ॥ ५४
वेदान्तं तत्त्वविज्ञानं तत्सिद्धान्तस्य साधनम् ।
वेदान्तार्थमयं ज्ञानं तज्ज्ञानं परमं पदम् ॥ ५५
अष्टाविंशतिज्ञानांशमेव मूलोदितागमम् ।
एवं शैवं त्रिधा भेदं चतुष्पादभवाश्रयम् ॥ ५६
चर्यादि ब्रह्मचर्यादिसिद्धान्ताश्रम उच्यते ।
ऊर्ध्वशैवं महाशैवं नादिशैवादिशैवकम् ५७
भेदाभेदद्वयं शैवं गुणशैवानुशैवकम् ।
आज्ञाशैवं क्रियाशैवमवान्तरं योगशैवकम् ॥ ५८
ज्ञानशैवं शिवशैवं शैवभेदं चतुर्दश ।
शुद्धशैवं तथामुख्यं चतुष्पाद्प्रणवान्तकम् ॥ ५९
शुद्धशैवं स्वसिद्धान्तं शैवभेदं किमुच्यते ।
अनादिशैवं मिश्रं च मिश्रामिश्रं त्रिधा हि च ॥ ६०
गुणशैवं चतुर्थं च पञ्चमान्तरभेदकम् ।
महाशैवं षष्टकं तु भेदशैवं तु सप्तमम् ॥ ६१
अभेदं चाष्टमं विद्यात् योगशैवं नवं तथा ।
ज्ञानशैवं दशं विद्यादूर्ध्वमेकादशं भवेत् ॥ ६२
द्वादशं त्वाज्ञाशैवं स्यादनुशैवं त्रयोदशम् ।
अध्वशैवं चतुर्दश्यां तत्वशैवं तथान्यथा ॥ ६३
षोडशं शुद्धशैवं च शैवभेदमिति स्थितम् । ६४आ
शैवं द्वादशयोर्भेदं द्वादशं पञ्चमोच्यते ।
कर्तव्ये कर्मकार्ये च ज्ञानकार्ये त्रिसाधनम् ॥ ६५
पाशं पशुपतिज्ञेयं सर्वशैवानुशासनम् ।
भस्म पञ्चमलं चैव सर्वशैवानुकूलकम् ॥ ६६
ऊर्ध्वशैवं तु प्रथमं अनादिशैवं द्वितीयकम् ।
आदिशैवं तृतीयं तु चतुर्थमनुशैवकम् ॥ ६७
अवान्तरं पञ्चमं च मिश्रकं शैवषष्टकम् ।
भेदशैवं तथा सप्त गुणशैवं तथाष्टमम् ॥ ६८
आज्ञाशैवं तु नवमं योगशैवं दशं भवेत् ।
एकादशं ज्ञानशैवं द्वादशं शुद्धशैवकम् ॥ ६९
एतत् द्वादश सर्वार्थं शुद्धशैवं प्रधानकम् ।
पूर्वोक्तपञ्चमं प्रोक्तमूर्ध्वशैवानुगो मनुः ॥ ७०
अध्वशैवं तु सामान्यं द्विधा तद्भेदमुच्यते । ७१आ
शैवमुद्रार्थसिद्धान्तं मन्त्ररूपमतः श्रृणु ।
सर्वकशजटामेकं भस्मोद्धलितविग्रहम् ॥ ७२
रुद्राक्षावृतगात्रश्च नित्यकर्मनुशासनम् ।
शिवार्चनकरः स्वामी समीपे गतिरूर्ध्वगः ॥ ७३
मन्त्रयोगपरः शीलगुरुवर्णपदार्थकः ।
एकादशजटाजूटभस्मरुद्राक्षधारणम् ॥ ७४
शिवकार्यगतिः शीलगुरुशुश्रुषया सह ।
शिवशशस्त्रपरिग्रह्यशिवयोगनिरूपकः ॥ ७५
अनादिव्यापको नित्यस्त्रिपदार्थस्वसाधकः।
पाशाभावः स्थाणुपतेर्योज्याक्षार्थनिरूपकः ॥ ७६
नित्याचारतपः शीलोऽनादिशैवस्तथा इति ॥ ७७आ
आदिशैवः स्वतन्त्रार्थसाधकाचार्यलक्षणः ।
तान्त्रिको मान्त्रिको वीर्यो यान्त्रिको गुणवान् प्रभुः ॥ ७८
द्वादशा जटिनोभावं भस्मरुद्राक्षधारणम् ।
क्रियाङ्गः सर्वगोद्धूलस्तत्त्वार्थस्य विचारकः ॥ ७९
शिवज्ञानगतश्चेष्टासाधको मोक्षकामिनः ।
एतल्लक्षणसंयुक्तः शैवसिद्धान्तगोचरः ॥ ८०
दशभेदजटाजूटो भस्मरुद्राक्षधारणः ।
चर्यादि सादकेभ्यश्च भक्तिज्ञानविशारदः ॥ ८१
क्रियायोगस्तथाज्ञानं सामान्यं शैवसम्भवम् ।
नवभेदजटाजूटो भस्मरुद्राक्षधारणम् ॥ ८२
आद्यन्तशून्यः परमः शिवः कर्ता इति स्थितः ।
तद्भाव मुक्ति भावित्वमवा ॥॥। स्थितम् ॥ ८३
क्रिया पूजा समं कुर्यात्सद्भावहृदयः शिवः ।
अनाद्याश्रयसर्वार्थसाधको मिश्रशैवकः ॥ ८४
सर्वत्र शिवशक्त्यर्थपालनं परिपालनम् ।
सप्तभेदजटाजूटो भस्मरुद्राक्षधारणम् ॥ ८५
पदमुक्तिः सवमात्मानं भावितं भेदशैवकम् ॥ ८६आ
जटाचूडामणिभस्मधारण भद्र ॥॥ श्रमम ।
त्रिगुणैसतु त्रिमूर्ति सयात् भावानां गुणशैवकम् ॥ ८७
पञ्चसादाख्य पञ्चकृत्यसिद्धसिद्धान्तसाधकः ।
त्रिजटां वा पञ्चजटां क्रियायोगविकल्पकः ॥ ८८
भक्तिं ज्ञानं च वैराग्यं क्रियाकाण्डस्य साधकम् ।
नित्यानुष्टानसम्बन्धानमुक्तिश्च प्राप्यते गुणे ॥ ८९
ज्ञानयोगक्रियाचार्यसाधकाऽऽज्ञार्थशैवकः ।
पदमुक्तिपदं प्राप्तः शिवाज्ञापरिपालनः ॥ ९०
जटापञ्चसमायुक्तको यौगाङ्गाष्टस्य साधनम् ।
भस्म रुद्राक्षसम्बन्धं नित्यकर्मप्रवेशनम् ॥ ९१
शुद्धसत्यं समाश्रेयमहिंसाद्यर्थसम्भवम् ।
सारूप्यं सफलं प्राप्यं योगशैव इति स्थितम् ॥ ९२
चतुर्दशजटाजूटसययादि पंचसम्भवम् ।
लिङ्गार्चनसमायुकं भस्मरुद्राक्षधारणम् ॥ ९३
त्रिजटान्यशिवाकारभस्मरुद्राक्षधारणम् ।
पाशपञ्चमलत्याग पशुपाशविमोचनम् ॥ ९४
सर्वभावं परित्यज्य अभावे भावमाश्रितः ।
सदा समाधयो मुक्तस्थितचित्तप्रवृत्तकम् ॥ ९५
सन्यासो मुण्डनं चैव ईषणात्रयवर्जितः ।
एतल्लक्षणसम्युक्तं ज्ञानशैवप्रवर्तकम् ॥ ९६
चतुर्जटाजूटसम्बन्ध …। ।… पञ्चसम्भवम् ।
लिङ्गार्चनसमायुक्तं भस्मरुद्राक्षधारणम् ॥ ९७
प्रासादसम्बन्धविभवं प्रदक्षिणनमस्कृतम् ।
नित्यकर्म तथाचारः पदप्राप्त्यध्वशैवकम् ॥ ९८
पूर्वोक्तविधिना तत्र मन्त्रं विश्वादि साधनम् ।
पशुपत्यादयो भेदं शिववाक्यं शिवोद्भवम् ॥ ९९
जटी केशी शिखी मुण्डी चतुष्पादप्रयत्नतः ।
भस्मरुद्राक्षसम्बन्धः सामान्यशैवलक्षणम् ॥ १००
शुद्धशैवप्रवृत्यर्थं द्वादशैव तु कारणम् ।
सामान्याध्व ॥॥ च तस्माच्छैवं चतुर्दशम् ॥ १०१
शुद्धशैवस्य सम्बन्ध जटी केशधरोऽथवा ।
शिवपूजादि कर्तव्यं भस्मरुद्राक्षधारणम् ॥ १०२
ज्ञानदीक्षाः पञ्चगुणाः सद्गुणाः करुणोदयाः ।
ज्ञानभेदं चतुष्पादं नित्यानुष्टानसाधनम् । १०३
रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम् ।
भस्मापि शुद्धशैवानां पञ्चमुद्राः प्रकीर्तिताः ॥ १०४
शैववेष इति ख्यातं शैवभेद इति स्थितम्।
शुद्धशैवं तथा मुख्यं चतुष्पाद् प्रणवान्तकम् ॥ १०५
त्रिवेदं कर्मकाण्डार्थं तत्सर्वं वेदरूपकम् ।
अन्तरं परजीवात्मद्वयोरैक्यं परात्परम् ॥ १०६
तत्संप्रदायसिद्धयर्थं दशावश्थाविवेचकम् ।
तत्तत्सन्मार्गसिद्धयर्थं तत्तत्सन्मार्गसाधनम् ॥ १०७
तत्तद्विद्या महाविद्या तद्वेदान्तविधिस्थिता ।
वेदान्तं शैवसिध्दान्तं द्वयोरैक्यं शिवात्परम् ॥ १०८
शुद्धशैवं सवसंवेद्यं शुद्धसन्मार्गरूपकम् । १०९आ
परात्परात्परोत्पन्ना पराशक्तिस्तदुद्भवा ।
इच्छा ज्ञानक्रियाशक्तिस्तत्पराशक्तिसम्भवा ॥ ११०
बिन्दुशक्तयुद्भवा माया मोहिनी मोहकारणम् ।
ज्ञानेच्छास्वक्रियामध्ये शिवशक्तिसदाशिवम् ॥ १११
नादबिन्दुविभेदोक्त षट्तत्त्वं तत्प्रकाशितम् ।
सदाशिवान्महेशस्य मध्ये रुद्रोद्भवं तथा ॥ ११२
रुद्रोत्पत्तिर्यथा विष्णुस्तथा चोत्पन्न आत्मभूः ।
सृष्टिकालविधानोक्तं सर्वतत्त्वंप्रकाशितम् ॥ ११३
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
बिन्दुनादद्विधाशक्ति ॥॥॥ पर परात्परम् ॥ ११४
सृष्टयादि पञ्चकृत्यर्थं ब्रह्मादि देवसम्भवम् ।
आत्मनः रवं ततो वायुः वायोरग्निः ततो जलम् ॥ ११५
पञ्चानामपि भूतानां द्विधा कृत्वा पृथक् पृथक् ।
तत्र यत्पंचधैकांशं प्रत्येकं तच्चतुर्विधम् ॥ ११६
पुनः कृत्वा विना स्वांशं चतुष्र्वन्येषु योजनम् ।
तथा चांशसमाधिक्यात् तत्तदाख्या व्यवस्थितिः ॥ ११७
इत्येवं पंचभूतोत्थं शरीरं भुवनादिकम् । ११८आ
सत्वं रजसतमोभेदाद्भूतान्यत्र त्रिधा पुनः ।
जातानि सत्वभूतेभ्यः पंचज्ञानेन्द्रियाणि च ॥ ११९
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमित्यथ पंच च ।
दिग्वाय्वर्कंजलाध्यक्षाश्विनस्तत्राधिदेवताः ॥ १२०
मानोबुद्धिरहङ्कारश्चित्तं चैति चतुष्टयम् ।
भूतेभ्यः सात्विकेभ्योऽभूत क्रमात्तत्राधिदेवताः ॥ १२१
राजसेभ्यस्तु भूतेभ्यो भवेद्वागादिपंचकम् ।
वाक्पाणिपादसंज्ञानि पायूपस्थौ तु देवताः ॥ १२२
अग्नीन्द्रोपेन्द्रमृत्युश्च क्रमादेव प्रजापतिः ।
एतेभ्यश्चैव भूतेभ्यः प्राणाद्याः पंच वायवः ॥ १२३
प्राणोऽपानस्तथा व्यान उदानश्च समानकः ।
पंचीकृतानि भूतानि तमोभूतोद्भवानि वै ॥ १२४
पुनश्च कुत्रचिच्छ्रोत्रादिचतुर्दशकरणानामधिपतयः ।
दिक्वातार्कप्रचेता ।… …। इन्द्रोपेन्द्रमृत्युकाः ॥ १२५
चन्द्रो विष्णुः चतुर्वक्त्रः शङ्करश्चेति निश्चिताः । १२६आ
अग्नीन्द्रोपेन्द्रमित्रश्च क्रमादेव प्रजापतिः ।
तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥ १२७
पृथिव्यप्तेजसी वायुराकाशं भूतपंचकम् ।
ब्रह्मा विष्णुस्ततो रुद्र ईश ईशानकारणम् । १२८
शब्दादिपंचतन्मात्रे आकाशादिसमुद्भवम् ।
आकाशाद्वायुरुत्पन्नो वायव्ये दहनोद्भवम् ॥ १२९
दहने जलमुत्पन्नं जले मेदिनिसंभवम् ।
पञ्चेन्द्रियग्रहावस्थाः पुरुषस्तत्त्वं उच्यते ॥ १३०
अस्थि मांसत्वचं मेदो रोम मेदिनिपंचकम् ।
अन्न प्राणमनो विज्ञान आनन्दैः पञ्चकोशकम् ॥ १३१
जाग्रत्स्वप्न सुषुप्तं च तुर्यातीतं च पञ्चकम् ॥ १३२आ
इडा च पिङ्गला चैव सुषुम्ना च तथैव च ।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ १३३
अलम्बुषा कुहूश्चैव शङ्खिनी दश नाडिकाः ।
तत्र देहे समाख्यातं सूर्य सोमाग्नि मण्डलम् ॥ १३४
आणवादिमलं त्रेधा सात्विकादि गुणास्त्रिधा । १३५आ
पंचविंशतिः पुरुषः परस्परं च व्योमकम् ।
व्योमातीताष्टविंशतिरित्येवं तत्वनिर्णयम् ॥ १३६
मूलप्रकृतिरव्यक्तं अव्यक्तात् तु महान्भवेत् ।
व्यक्ते चित्तं तदुत्पन्नं चिन्तितं चित्तरूपकम् ॥ १३७
सर्ववेदागमार्थस्य यत्सारंतत्परात्परम् ।
यत्तत्वं तत्पराकारं परबिन्दूद्भवं ततः ॥१३८
परात्परादि नादान्तं द्वादशं तत्वमुच्यते ।
परात्परात्परोत्पन्ना पराशक्तिस्तदुद्धवा ॥१३९
इच्छाज्ञानक्रियाशक्तिस्तत्पराशक्तिसम्भवा ।
ज्ञानेच्छास्वक्रियामध्ये शिवशक्तिसदाशिवम् ॥ १४०
नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् ।
सदाशिवान्महेशस्य मध्ये रुद्रोद्भवं तथा ॥ १४१
रुद्रोत्पत्तिर्यथा विष्णुस्तथा उत्पन्न आत्मभूः ।
सृष्टिकालाविधानोक्तं सर्वतत्वप्रकाशितम् ॥ १४२
तन्मध्ये द्रुहिणादीनां चतुष्कं सकलोद्भवम् ।
सादाख्यं बिन्दुनादोक्तं सकलकलामुच्यते ॥ १४३
शिवं शत्किपरं त्रीणि परात्पर चतुर्थकम् ।
इच्छाज्ञानक्रियात्मानं नि ॥॥ कीर्त्यंते ॥ १४४
त्रिवर्गविस्तीर्णम (ध्य) (स्ंय) स्थे आत्मविद्याशिवत्रयम् ।
षट्त्रंशत्तत्वभेदोक्तं तन्त्राण्युद्भवसाधनम् ॥ १४५
एकान्ते अवश्तितश्चासौ शिवशक्ति समन्वितः। १४६आ
शिवं परात्परं सूक्ष्मं नित्यं सर्वगताव्ययम् ।
अनिन्दितमनौपम्यमप्रमेयमनामयम् ॥ १४७
शुद्धत्वाच्छिवमुद्दिष्ट परादूर्ध्वंपरात्परम् ।
परात्पराशक्तिरुत्पन्ना ज्ञानशक्तिस्तदुद्भवा ॥ १४८
शिवमध्यगतं शान्तं शान्त्यतीतं परात्परम् । १४९आ
अकारश्व उकारश्व मकारो बिन्दुरेव च ।
अर्धचन्द्रनिरोधी च नादान्त एव च ॥ १५०
शक्तिश्व व्यापिनी चैव व्योमरूपा तथैव च ।
अनन्ता च तथाऽनाथाऽनाश्रिता समना तथा ॥ १५१
उन्मना च तदन्तश्च पराशक्तिः परान्तकम् ।
परशिवं तदन्तश्च शाम्भवं गुरुपादुका ॥ १५२
शिवः शाम्भव इति ज्ञेयो द्वाविंशद्भेद उच्यते ।
शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥१५३
परान्ताटादश प्रोक्ता उन्मन्यन्ते तु षोडश । १५४
बिन्दुतत्त्वं तथा मध्ये वैखर्यादि समुद्भवः ।
वैकरी मध्यमा चान्या पश्यन्ती सूक्ष्मसंज्ञिता ॥ १५५
व्योम वागीश्वरी संज्ञा पञ्चशक्तिसमुद्भवा ।
अतिसूक्ष्मा तथा भेद चतुर्णामपि कारणम् ॥ १५६
बैन्दवं कुण्ठलीव्याप्त बिन्दुनादोदयोदितम् ।
बैन्दवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ १५७
बिन्दुनादकलामध्ये अकारादिसमुद्भवम् ।
अकारोकारमकारथ बिन्दुनादत्रिपञ्चमम् ॥ १५८
कलाध्वा मध्यमे भागे पंचाध्वा चैवमुद्भवम् ।
अकारे बैखरी जाता उकारे मध्यमोदिता ॥ १५९
मकारे पश्यन्ती जाता बिन्दौ सूक्ष्मा तथोदिता ।
नादाचैवातिसूक्ष्मा वाकू जाता पंचकलोदिता ॥ १६०
निवृत्यादि कलारूपा अकारादिकलोदिता ।
षट्त्रिंशत्तत्वसंभिन्ना कुटिलाशक्तिरुद्भवा ॥ १६१
कुटिला कुण्डली व्याप्ता कुण्डली प्रणवोदिता ।
जाता कुण्डलिनी शक्तिर्माया कर्मानुसारिणी ॥ १६२
नादबिंन्द्वादिकं कार्य तस्या इति जगत्स्थितिः ।
कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदिता ॥१६३
परात्परादि नादान्तं द्वादशं तत्वं उच्यते । १६४आ
क्षित्यादि कुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् ।
शिवेच्छया कुटिलोत्पन्न नादतत्वं प्रधानकम् ॥ १६५
नादमध्योदितो बिन्दुः शिवशक्तयर्थनामकः ।
नादे तु ज्ञानमुत्पन्न कालेन शिवतत्वकम् ॥ १६६
बिन्दुक्रियासमुत्पन्नः कालो नाम स्वशक्तिकम् ।
ज्ञानक्रियासमावेशं सादाख्यं तत्वमुच्यते ॥ १६७
ज्ञानन्यूनं क्रियाधिक्यं महेशस्तत्वविग्रहः ।
ज्ञानाधिक्यं क्रियान्यून शुद्धविद्या प्रकाशिता ॥ १६८
शुद्धविद्यशसादाख्यं बिन्दुनादं च पंचकम् ।
शिवतत्वमिति प्रोक्तं बैन्दवं तत्र कारणम् ॥ १६९
बिन्दुशक्तयुद्भवं माया मोहिनी मोहकारणम् ।
मायोत्पन्नस्तथा कालस्त्रिकृत्यर्थविभेदकः ॥ १७०
कालस्योत्पन्ननियतिर्यत्तु कर्मसु निश्चयः ।
कला नियतिरुत्पन्ना किंचि ॥॥ ॥॥ १७१
कलोत्पन्ना तथा विद्या नानाज्ञानोद्भवात्मिका ।
रागोऽपरितौषार्थं तु विद्या तत्वे च षष्टकम् ॥ १७२
विषयग्रहणे काले पुरुषः पञ्चकंचुकः ।
अविद्यातत्वमवव्यक्तकाले मूलप्रकृत्यर्थकम् ॥ १७३
मूलप्रकृतिरव्यक्तं व्यक्तं चित्तं महान्त्रिधा ।
पुरुषः कंचुको बुद्धिरष्टप्रकृतितत्वकम् ॥ १७४
अष्टप्रकृतयस्तत्वसूक्ष्मपुर्यष्टकं तथा ।
मायायुक्तं तद्व्यक्तं तद्व्यक्तं तु महानिति ॥ १७५
व्यक्ते तु चिन्तितं चित्तं बुद्धिर्निर्णयरूपिका ।
बुद्धिमध्ये ह्यहङ्कारमुद्भूतं तत्तृतीयकम् ॥ १७६
अहङ्कारे गुणोत्पन्नं तस्मात्सत्वं रजस्तमः ।
तत्त ॥॥ ॥॥ तेजसाहन्ता मध्ये मानसमुद्भवम् ॥ १७७
ज्ञानकर्मेन्द्रियाकारं वैखर्यन्तं द्वयोद्भवम् ।
शब्दादि पञ्चतन्मात्रं भूताहन्ततयोद्भवम् ॥ १७८
शब्दादिपञ्चतन्मात्रे आकाशादिसमुद्भवम् ।
आकाशाद्वायुरुत्पन्नो वायव्ये दहनोद्भवः ॥ १७९
दहने जलमुत्पन्नं जले मेदिनिसम्भवः ।
अन्तर्यामी तथा मुख्यः प्रपञ्चो वै रवस्तथा ॥ १८०
भूतवर्णं च कोशं च बाह्या वै पञ्चविंशतिः ।
आभ्यन्तरं पञ्चविंशद्वातिभेदाश्चतुर्दश ॥ १८१
मलत्र्यं गुणास्त्रीणि आधारषट्कमात्मनः ।
अवस्थापञ्चकं चैव तत्वं षण्णवतिस्तथा ॥ १८२
तत्वनिर्णयसिद्धान्तं श्रृणु हैमवतीश्वरि ।
आत्मतत्वं चतुर्विशदात्ममध्ये लयोदितम् ॥ १८३
विद्यातत्वं तथा पंच मायामध्ये लयोदितम् ।
शिवतत्वं तथा पंच नित्यं सत्यस्य साधनम् ॥ १८४
शुद्धविद्यशसादाख्यं बिन्दुनादे लयोदितम् ।
बिन्दुनादं द्विधा तत्वं कुटिलायां लयोदितम् ॥ १८५
कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदितम् ।
इच्छाज्ञानक्रियाशक्तेः सर्वत्र जगदुद्भवः ॥ १८६
इच्छाज्ञानक्रियाशक्तिः पराशक्तिलयोदितम् ।
परापरविधाशक्तिः शिवतेजोमयोदितम् ॥ १८७
शिवमत्यन्तसंभिन्ने जातनाशविनाशनम् ।
अणौ महति तद्व्याप्तं सर्वात्मनां लयः प्रभुः ॥ १८८
जगच्छक्तिमयं व्याप्तं जगच्छक्तिमयं शिवम् ।
जगदुत्पद्यते शक्तेः शक्तिस्तु परमः शिवः ॥ १८९
एवं तत्वलयं सूक्षममेकं तत्वप्रवर्तकम् ।
एवं तत्वविधानोक्तमेवं तत्वस्य निर्णयं ॥ १९०
आत्मतत्वं चतुर्विशदात्ममध्ये लयोदितम् ।
विद्यातत्वं तथा पंच (?) मायामध्ये लयोदितम् ॥ १९१
मूलप्रकृतिरव्यक्तं व्यक्तं चित्तं महान्त्रिधा । १९२आ
पुरुषः पंचकंचुक इत्यर्थं तत्वमुद्भवम् ।
पुरुषः कंचुको बुद्धिरष्टप्रकृतितत्वकम् ॥ १९३
अष्टप्रकृतयस्तत्वसूक्ष्मपुर्यष्टकं तथा ।
बिन्दुशक्त्युद्भवं माया मोहिनी मोहकारणम् ॥ १९४
क्षित्यादिकुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् ।
शिवेच्छया कुटिलोत्पन्न नादतत्वं प्रधानकम् ॥ १९५
विद्यातत्वं तथा पञ्च मायातत्वे लयोदितम् ।
शिवतत्वं तथा पञ्च नित्यं सत्यस्य साधनम् ॥ १९६
अशुद्धं भोगखण्डं च आत्मतत्त्वस्य नामकम् ।
मिश्रं भोजयितृ खण्डं विद्या तत्त्वार्थनामकम् ॥ १९७
प्रेरकं शुद्धखण्डं च शिवतत्त्वस्य नामकम् ।
शुद्धविद्यशसादाख्यं बिन्दुनादे लयोदितम् ॥ १९८
बिन्दुनादं द्विधा तत्वं कुटिलामध्ये लयोदितम् ।
कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदिता ॥ १९९
सृष्टिकाले त्रिबिन्द्वर्थे त्रिकोणाकारसम्भवम् ।
तन्नादादिधरण्यन्तं षट्त्रिंशत्तत्वरूपकम् ॥ २००
क्षित्यादिकुटिलान्तं तु षट्त्रिंशत्तत्त्वरूपकम् । २०१आ
मूलाधारं चतुष्पत्रं तन्मध्ये वशषस्थजम्? ।
तन्मध्ये कुटिलाकारं त्रिकोणाकारसम्भवम् ॥ २०२
नाडीमूला वृताङ्गा हि कुण्डली हंसनिस्वना ।
कुण्डल्याकारमध्यस्थे प्राणं प्रणवसम्भवम् ॥ २०३
यथा कुण्डलिनी शक्तिमयाकर्मानुसारिणी ।
नादबिन्द्वादिकं कार्यं तस्या इति जगत्स्थितिः ॥ २०४
नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् ।
पृथ्व्यादिकुटिलान्तं तु तत्वं कुण्डलिनोदयम् ॥२०५
नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् ।
अकारोकारमकारश्च बिन्दुनादस्तदन्तकम् ॥ २०६
षट्कालशक्तिमध्यस्थे वैखर्यादिसमुद्भवम् ।
बैन्दवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ २०७
बिन्दुनादकालमध्ये अकारादिसमुद्भवम् ।
निवृत्यादिकलारूपा अकारादिकलोदिता ॥ २०८
पंचकृत्यं तदाकारं पंचवागवृत्तिकारणम् ।
पंचमाक्षरसंभिन्न सर्व बैन्दवमुद्भवम् ॥ २०९
अध्वषट्कमिति प्रोक्तं सर्वं पंचकलामयम् ।
बिन्दुमध्ये तथा नादंबिन्दुनादद्वयोदितम् ॥ २१०
बिन्दुनादस्तथा मध्ये निवृत्यादिकलोदयम् ।
निवृत्यादिकलामध्ये वैखर्यादिसमुद्भवम् ॥ २११
वैखरी मध्यमा चान्या पश्यंती सूक्ष्मसंज्ञिका ।
तथा वागीश्वरी संज्ञा पञ्चशक्ति समुद्भवा ॥ २१२
अतिसूक्ष्म तथा भेद चतुर्णामपि कारणम् ।
वेखरी श्रोत्र विषया सविकल्पा तु मध्यमा ॥ २१३
निर्विकल्पा तृतीया च आसां कारण अन्तिमा ।
महा सूक्ष्मा बोधरूपा इति वाक् पञ्चमोद्भवाः ॥ २१४
नादाच्चैवाति सूक्षम जाता पञ्च कलोदिता ।
वैन्दवस्थानमध्यस्थे इच्छाज्ञानक्रियोद्भवम् ॥ २१५
विज्ञानादित्रयोत्पन्नमीशानक्रियोद्भवम् ।
कारकत्रयसभ्भिन्नं तत्वत्रयसमुद्भवम् ॥ २१६
कारत्रयसम्बनधादधः सर्वसमुद्भवम् ।
बिन्दुभेदमिति प्रोक्तं तद्भेदं पञ्चविंशतिः ॥ २१७
चतुर्विंशत्तथाभेदं नादरूपं कलामयम् ॥ २१८आ
सूक्षमवाग्भवभेदं वाग्रूपं शक्तिषष्ठकम् ।
व्योमा बागीश्वरी श्क्तिः पञ्चवाहक्रमादिकम् ॥ २१९
उत्तर्रानुत्तरव्याप्तं पुर्वपश्चम ऊर्ध्वकम् ।
दिशः पञ्च तथा शक्तिरुद्रत्वं व्योमशक्तितः ॥ २२०
तत्र कुण्डलिमध्ये तु नादबिन्दुद्वयोद्भवम् ।
तत्र कुण्डलिमध्ये तु अपराख्या परापरा ॥ २२१
मायायुक्तं तदव्यक्तं तद्व्यत्तं तु महानिति ।
आणवे जायते माया मायायां कालसम्भवः ॥ २२२
आणवं कुटिला शक्तिर्मायातत्वमयोदितम् ।
आणवान्माययोत्पन्नं तद्गुणं तु प्रकाशकम् २२३
माया कुण्डलिनी व्याप्तं जगदेतद्च्चराचरम् ।
आणवान्तर्गतं तत्वं बिन्दुनादकलात्मकम् ॥ २२४
शिवतत्वमिति प्रोक्तं प्रेरकं तदिहोच्यते ।
नादमध्योदितो बिन्दुः शिवशक्त्यर्थनामकम् ॥ २२५
षट्त्रिंशत्तत्वसंभिन्ना कुण्डली शक्तिरुद्भवा ।
कुटिला कुण्डिली व्याप्ता कुण्डली प्रणवोदिता ॥
जाता कुण्डलिनी शुक्तिर्मायाकर्मानुसारिणी ॥ २२६
नानावेदागमाद्यर्थ नानाशास्त्रार्थदर्शनम् ।
नानाशब्दप्रवाहार्थं बैन्दवः खल्विहोदितः ॥ २२७
बैनदवं कुटिला व्याप्तं बिन्दुनादोदयोदितम् ।
बैनदवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ २२८
बिन्दुनादकलामध्ये अकारादिसमुद्भवः ।
अकारोकारमकाराश्च बिन्दुनादत्रिपञ्चकम् ॥ २२९
कलाध्वा तन्मध्यमे भागे पढ्चाध्वा चैवमुद्भम् ।
अकार बैखरी जाता उकारे मध्यमोद्भवा ॥ २३०
मकारे पश्यती जाता बिन्दो सूक्ष्मा तथोदिता ।
नादाज्जातातिसूक्ष्मा वाक् वाक् पंचमकलोदिता ॥ २३१
चिच्छक्तिर्ज्ञानपरा चिच्छत्तिः कुण्डली परा ।
तत्क्रियाशक्तिकरूपत्वं चिदचिद्बैन्दवं तथा ।
इच्छाशक्तिर्बैन्दवं तच्चिदचिन्मिश्रकैरिति ॥ २३३
इच्छाज्ञानक्रियाशक्तेः सर्वत्र जगदुद्भवः ।
इच्छाज्ञानक्रियाशक्तिः पराशक्तिलयोदितम् ॥ २३४
पराऽपरा द्विधा शक्तिः शिवतेजोमयोदिता ।
शिवमत्यन्तसंभिन्नं जातनाशविनाशनम् ॥ २३५
अणौ महति तद्वयाप्तं सर्वात्मनां लयः प्रभु- ॥ २३६आ
बिन्दुशक्त्योद्भवं माया मोहिनी मोहकारणम् ।
शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥ २३७
पृथिव्यादिशिवान्तानि षट्त्रिंशत्तत्वसाधनम् ।
तन्मध्ये बिन्दुतत्वार्थे त्रिकोणगुणसम्भवम् ॥ २३८
तदग्रोभयकोणैश्र विज्ञानादि त्रिसाधनाम् ॥ २३९
बिन्दुर्भिद्यति नादेन तत्काले त्रीण्यणूद्भवम् ।
अनादिकाले क्रियात्मानं कुटिला कुण्डलिनी स्थितम् ॥ २४०
बिन्दुशक्तिविभेदांशे बैन्दवं भावमाचरेत् ।
तत्काले मलसम्बन्धं तत्सृष्ट्यादि तथोदितम् ॥२४१
विज्ञानात्मा चतुर्थश्च प्रलयात्मा त्रिभेदकः ।
सकलात्मा त्रिभेदश्च तस्मात्त्रेधा दशा विधाः ॥ २४२
अनाद्यं कुटिला व्याप्तं पाशः पंचमलोदितः ।
नादबिन्दुद्धये नाशे भवे ॥॥॥॥। पंचकम् ॥ २४३
शक्तिमध्यस्थ इच्छाज्ञानादिकोद्भवम् ? । २४४आ
आत्मना क्रियया बद्धं यतद्बिन्दुस्वरूपकम् ।
ज्ञानक्रियासमप्राप्तं सादाख्यं तत्वसम्भवम् ॥ २४५
ज्ञानन्यूनं क्रियाधिक्यं तत्वमीश्वरकारणम् ।
क्रियान्यूनाधिकं योगं रुद्रांशं शुद्धपंचकम् ॥ २४६
एवमात्मनि सम्भिन्नमाणवे ग्रन्थिरुद्भवः ।
आणवान्तर्गतं तत्वं बिन्दुनादकलात्मकम् ॥ २४७
बिन्दोर्विवेके सहसाच्छिद्यते मलकम्बुकम् ।
मायाविवेके तु यथा धर्माधर्मतुषक्षयः ॥ २४८
रुद्राणुरुक्तः प्रकृतेर्विवेके भार्गवागमे ।
निवृत्यादि पंचमांशे षडध्वोत्पतिसम्भवः ॥ २४९
शिवशक्तिर्द्विधा तत्र शिवादन्या चिदात्मिका ।
जडात्मिका शिवादन्या जगत्कारणरूपिणी ॥ २५०
यथा स्वतः शुभ्रः पटः धौतः । अन्नलिप्तो घट्टितः । मष्याकारयुक्तो लाञ्छितः । वर्णपरिपूरितो सञ्जितः । इत्यवस्था चतुष्टयमेकस्यैव चित्रपटस्य । तथा परमात्मा मायातत्कार्योपादिरहितः । शुद्धमायोपहितः ईश्वरः । अपंचीकृतभूतकार्यसमष्टिसूक्ष्मशरीरोपहितो हिरण्यगर्भः । पंचीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट्पुरुषः । इत्यवस्थाचतुष्टयमेकस्यैव परमात्मनः । अस्मिश्वित्रपटस्थानीये परमात्मनि चित्रस्थानीयस्थावरजङ्गमात्मको निखिलः प्रपंचः । यथा चित्रार्पितमनुष्याणां, चित्राधारवस्त्रसदृशा वस्त्राभासा लिख्यन्ते तथा परमात्माध्यस्तदेहिनां अधिष्टानचैतन्यसदृशाः चिदाभासाः कल्प्यन्ते । ते च जीवनामानः संसरन्तीति । अध्यात्मं तु विश्वतैजसप्राज्ञभेदेन त्रीणि रूपाणि । तत्र सुषुप्तौ विलीनेऽन्तःकरणे अज्ञानमात्रसाक्षी प्राज्ञ आनन्दमय इहोक्तः । स्वप्ने समष्टिसूक्ष्मशरीराभिमानी तैजसः जागरे व्यष्टिस्थूलशरीराभिमानी विश्वः । तत्र माण्डूक्यश्रुतिः । अहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजसप्राज्ञतुर्यावस्थाभेदरूपं पादचतुष्ट्यं सोऽयमात्मा चतुष्पात् इत्युपक्षिप्य पूर्वपूर्वपादप्रविलापनेन निष्प्रपंचब्रह्मात्मक तुरीयपादप्रतिपत्तिसौकर्याय स्थूलसूक्ष्मसूक्ष्मतरोपाधीन् विराडादीन् विश्वादिष्वन्तभाव्य जागरितस्थानो बहिःप्राज्ञः इत्यादिना विश्वादिपदानि न्यरूपयत् । अतः प्राज्ञशब्दे आनन्दमयेऽव्याकृतस्येश्वरस्यान्तर्भावं विक्षितत्वात्तत्र सर्वेश्वरत्वादितद्धर्मवचनमिति । इत्थमेव भगवत्पादैगौडपादीयविवरणे व्याख्यातम् ।
दृग्दृश्यविवेके तु चित्रदीपव्युत्पादितं कूटस्थं जीवकोटौ अन्तभार्व्य चित्रत्रैविध्यप्रक्रियैवावलम्बिता इति विशेषः । तत्र मुक्त जलाशयतरङ्गबुद्वदन्यायेन उपर्युपरि कल्पनाज्जीवस्त्रिविधः पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति । तत्रावच्छिन्नः पारमार्थिकः जीवः तदवच्छेदकस्य कल्पितत्वेन ब्रह्मणोऽभिन्नत्वात् । तमावृत्य स्थितया मायया कल्पितेऽन्तःकरणे चिदाभासोऽन्तःकरणतादात्मम्यापत्या अहमित्यभिमन्यमानो व्यावहारिकः । तस्य मायिकत्वेऽपि यावद्व्यवहारमनुवृत्तेः स्वप्ने तमप्यावृत्य स्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वप्नदेहादौ अहमित्यभिमानी प्रातिभासिकः । स्वप्नप्रपञ्चेन सह तद्दृष्टस्य जीवस्यापि प्रबोधे निवृत्तेरिति । क्कचिच्चैतन्यं सप्तधा भिद्यते इत्युच्यते ।
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ २५१
सप्तधा भिद्यते चैवं चैतन्यं व्यावहारिके ।
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ २५२
मायासम्बन्धकांशोऽयं जीवो विद्यावशस्तथा ।
अन्तः करणसम्बन्धः प्रमातेत्यभिधीयते ॥ २५३
तदा तद्वृत्तिसम्बन्धः प्रमाणमिति कथ्यते ।
विषयागत चैतन्यं प्रमेयमिति कथ्यते ॥ २५४
इटानिष्टफलावाप्तौ फलचैतन्यमुच्यते । इति २५५आ
त्वं पदमात्मरूपं तु तत्पदं परमात्मनः ।
असिपदं तयोरैक्यमेवं तत्वमसिक्रमः ॥ २५६
असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् । २५८आ
जीवावस्था परावस्था शिवावस्थावसान्तकम् ।
नवतत्वं नवावस्था नवावस्थान्तगः शिवः ॥ २५८
ब्रह्मा विष्णुश्च रूद्रश्च ईश्वरश्च सदाशिवः ।
परबिन्दुः परो नादः पराशक्तिः परः शिवः ॥ २५९
नवतत्वलयस्थाने नृत्तानन्दमयो गुरुः ।
नृतानन्दपराविद्या नृतान्तं वागगोचरम् ॥ २६०
एकैकविषयग्राह्यावस्थः पुरुषतत्वकः ।
त्रिखण्ड जीवब्रह्मार्थमेकोभावस्थितः ॥। ॥ २६१
॥॥ संशयतः प्राज्ञा तदात्मा परसंस्थितः ।
तत्कालपरनामानि तत्तत्तत्वस्य कारणम् ? ॥ २६२
तत्प्रज्ञाभावसंसिद्धं शुद्धकेवलसंस्थितम् ।
परमे व्योम्नि सिद्ध्यर्थं जीवन्मुक्तिप्रकाशकम् ॥ २६३
तत्प्रकारस्वचैतन्यं परमात्मन्यवस्थितम् ।
परावस्थाप्रकाशस्तु अवस्थातीतगोचरम् ॥ २६४
आकाशशरीरं ब्रह्म तुर्यातीतं परं शिवम् ।
अणुर्महत्वं तद्व्याप्तं जीवात्मपरयोदितम् ॥ २६५
एतदर्थं तदर्थं च तत्परं परमं पदम् ।
विश्वग्रासपरं गुह्यं सर्वात्मशिवमुद्भवम् ॥ २६६
तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं व्याप्तिसम्भवम् ।
तच्छिवावस्थितं शान्तं शान्त्यतीतं परात्परम् ॥ २६७
॥॥ ज्ञप्तितः प्राप्तं परजीवैक्यसाधनम् ।
आत्मा परशिवश्चैते त्रिपदार्थस्त्रिचैतनाः ॥ २६८
आत्मजाग्रं परजाग्रं शिवजाग्रं त्रिजाग्रकम् ।
आत्मस्वप्नं परस्वप्नं शिवस्वप्नं त्रिस्वप्नकम् ॥ २६९
आत्मसुप्तिः परसुप्तिः शिवसुप्तिस्त्रिसुप्तिकम् ।
आत्मतुर्यं परतुर्यं शिवतुर्यं त्रितुर्यकम् ॥ २७०
एवं द्वादशधा भिन्नं दशावस्थाः प्रकल्पिताः ।
जाग्रज्जाग्रं जाग्रत्स्वप्नं जाग्रत्सुषुप्तिस्तृतीयकम् ॥ २७१
जाग्रतुर्यं चतुर्थच तत्कालपरपञ्चमम् ।
विश्वग्रासाष्टमं चैव उपशान्तो नवस्तथा ॥ २७२
शिवभ्रष्टा दशं चैव इत्यावस्था दशोरिताः ॥ २७३आ
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
कार्यकारणतां हित्वा पूर्व बोधी न विद्यते ॥ २७४
परात्परतरं ज्ञेयं गुरुरूपं प्रकाशकम् ।
गुरुत्पन्न शिवं साक्षाच्छिवोत्पन्न ब्रह्म व्योमकम् ॥ २७५
व्योमोत्पत्तिः परमात्मा परमोत्पत्तिरात्मनः ।
आत्मनोत्पत्तिरव्यक्तमव्यक्ताज्जायते महान् ॥ २७६
महतोत्पत्तिरहङ्कारः अहङकारे गुणत्रयम् ।
गुणत्रये क्रियामूर्तिर्मूर्त्यर्धे तुजगत्त्रयम् ॥ २७७
जगन्मध्ये सर्वयोनिर्योनिमध्ये चराचरम् ।
बिन्दुर्भिद्यति नादेन तत्काले त्रीण्यणूद्भवम् ॥ २७८
अनादिकाले त्रिधात्मानं शक्तिभेदोदयं भवेत् ।
अनादिकाले क्रियात्मानं कुटिला कुण्डलिनां स्थितम् ॥ २७९
अष्टाविंश ॥॥ तत्ववाद वेदान्तपक्षकम् ।
अनादिकाले क्रियात्मानं कुटिला कुण्डलिनां स्थितम् ॥ २८०
बिन्दुशक्तिबिभेदोशे बैन्दवं भावमाचरेत् ।
तत्काले मलसम्बन्ध तत्सृष्टयादि तथोदितम् ॥ २८१
अकारश्च उकारश्च मकारो बिन्दुरेव च ।
अर्धचन्द्रनिरोधी च नादो नादान्त एव च ॥ २८२
शक्तिश्च व्यापिनी चैव व्योमरूपा तथैव च ।
अनन्ता च तथानाथा नाश्रिता समना तथा ॥ २८३
उन्मना च तदनन्दश्च पराक्तिः परान्तकम् ।
परशिवस्तदन्तश्च शाम्भवं गुरुपादुका ॥ २८४
शिवः शाम्भव इति ज्ञेयो द्वाविंशद्भेद उच्यते । २८५आ
सर्वावस्थाविनिर्मुक्तं गुरुरूपं परात्परम् ।
गुह्यं च शाम्भवं द्वेधा गुह्यागुह्यां परात्परम् ॥ २८६
अवस्थापरमिदं प्रोक्त श्रृणु देवि वरानने ।
अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिक ॥ २८७
केवलः सकलः शुद्धः अवस्था त्रिविधा मता ।
चतुर्थका चतुर्या च जाग्रातीतं च स्वप्नका ॥ २८८
तुर्यजाग्रामतीतं च जाग्रतुर्यः सुयोनकम् ।
अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिक ॥ २८९
शरीरमर्थं प्राणांश्व सद्गुरुभ्यो निवेदयेत् ।
दीर्घदण्डनमस्कारं नित्यं स्याद्गुरुसन्निधौ ॥ २९०
पश्चात्तिष्ठेच्च तत्प्रोक्तं शिवहस्तस्थिरं भवेत् ।
करुणा दर्शिनी भावात्पुण्यपापद्व्यं हरम् ॥ २९१
श्रीपदं शिरसाऽराध्यं सोऽहमस्मीति भावयेत् ।
जीवन्मुक्तिः परामुक्तिस्तत्र संभावना द्वयम् ॥ २९२
शिवोऽहमस्मीति संचिन्त्य शिवज्ञानं प्रकाशितम् ।
शिवज्ञानं महाज्ञानं सोऽहमस्मीति भावितम् ॥ २९३
तत्पदं परमं गुह्यं तत्पदं परमं गुहा ।
तत्पदं परमं तत्वं तत्पदं सत्यशाम्भवम् ॥ २०४
तत्पदं परमं विद्यातत्पदं परमं गुरुम् ।
प्राक्पदं तत्पदं प्रोक्तं तस्मिन्सर्वं प्रतिष्ठितम् ॥ २९५
तत्पदं परमव्यक्तं शुद्धशैवमिति स्मृतम् ।
त्वंपदमात्मरूपं तु तत्पदं परमात्मनः ॥ २९६
असिपदं तयोरैक्यमेवं तत्वमसिक्रमम् ।
असिरूपं शिवरूपं द्वयोरैक्यं प्रकाशितम् ॥ २९७
तथा बद्धः स्थितः पाशैः यथा बद्धः तथा नरः ।
सर्वोपाधि विनिर्मुक्तं तत्पदार्थप्रकाशकम् ॥ २९८
पाशबद्धः तथा जीवः पाशमुक्तः तदा शिवः ।
त्वं पदं तु अशुद्धयर्थं सर्वोपाधिसमन्वितम् ॥ २९९
उपाधिशून्य जीवात्मा ॥॥ र्थस्य शुद्धिमान् ।
तत्सर्वं देहयोर्व्याप्तं जगदेतत् चराचरम् ॥ ३००
त्रिपदं त्रीणि खण्डान्यकारोकारमकारकम् ? ।
तुर्यगण्यः स्तथोबिन्दुरकारादिजमादिकम् ? ॥ ३०१
तुर्यातीतस्तथा नादो नादान्तं परमं पदम् ।
जाग्रत्स्थाने तथा पञ्च पञ्चावस्थाः परः शिवः ॥ ३०२
बिन्दुनादकलान्तस्थं समनाशक्तिरुद्भवम् ।
समनान्तं सर्वतत्वं विद्यादध्यर्थकारणम् ॥ ३०३
समनान्तं पाशजालमुन्मन्यन्ते परः शिवम् ।
परशिवस्तत्पराकारं परा ॥॥ ॥॥ शीरकम् ॥ ३०४
व्योमाकारं महाशून्यमनन्तं गुरुरूपकम् ।
परात्परतरंज्ञेयं गुरुरूपं प्रकाशकम् ॥ ३०५
श्रुणु देवि वरारोहे त्वंपदं त्वात्मरूपकम् ।
आत्मरूपं तथाभेदं त्रिविधं पाशबन्धकम् ॥ ३०६
आणवं मायया रूपं काम्यं मायेयकं त्विति ।
तिरोधानकराः पञ्च मलाः पाशं यदात्मनः ॥ ३०७
जगच्चित्रं समालिख्ये स्वात्मकूलिकयात्मनि ।
स्वयमेव समालिख्य प्रीणाति परमेश्वरः ॥ ३०८
त्वं तदस्येति तन्मध्ये मोचनं शुद्धमात्मनः ।
तत्वमस्येति यद्वाक्यं सोऽहमस्मि प्रभावितम् ॥ ३०९
त्वंपदमात्मरूपं तु तत्पदं परमात्मनः ।
असि पदं तयोरैक्यमेवं तत्वमसिक्रमम् ॥ ३१०
असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् ।
पाशबद्धस्तथा जीवः पाशमुक्तस्तदा शिवः ॥ ३११
त्वं पदं तु अशुद्धयर्थं सर्वोपाधिसमन्वितम् ।
उपाधिशून्यजीवात्मा ॥॥ र्थस्य शुद्धिमान् ॥ ३१२
तत्सर्वं देहयोर्व्याप्तं जगदेतच्चराचम् । ३१३आ
त्रिधात्मत्वं पदव्याप्तं त्रिधात्मत्वमवस्थितम् ।
त्रिधात्मासि पदं प्राप्तं नवात्मभेदमिति स्थितम् ॥ ३१४
त्रिपादी शोधनं प्रोक्तं लक्षणा च त्रिधा स्थिता ।
जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा त्रिधा ॥ ३१५
त्रिपादाः शुद्धयो ज्ञेयास्त्रिपदार्थस्वशोधनम् ।
मञ्चः क्रोशति गङ्गायां घोषः प्रवसतीति च ॥ ३१६
तस्मान्मूढैस्तु या प्रोक्ता विज्ञानद्वयकारणम् ।
तत्तन्मध्यस्थिताः पुंसो घोषयन्ति स्थितिं कुरु ॥ ३१७
एतत्प्रकरणैर्युक्तः सर्वदेहस्थितो गुरुः ।
तस्मान्मूढमतिः पुंसो वाचयित्वा स बोधकः ॥ ३१८
यथा कर्मस्थितो देही कुर्याद्देहादि कारकम् ।
इदं प्रोक्तं तथा ब्रह्म शोधनं लक्षणा जहत् ॥ ३१९
शोणतिष्ठति श्वेतस्तु धावतीत्यर्थको जवात् ।
तथैव परप्रोक्तेन प्रकाशेनात्मबोधकम् ॥ ३२०
एतद्भावं तु सायुज्यं पशुपत्यैक्यसंस्थितम् ।
सोऽयं देवदत्त इति जहदजहालक्षणा ॥ ३२१
त्रिदशैकः पुमान्व्याप्तः शिवसायुज्यमाप्नुयात् ।
एवं तत्रिपदं शुद्धलक्षणार्थं तदुच्यते ॥ ३२२
शिवानन्दं महादेवि सत्यं ज्ञानमनन्तकम् ।
आनन्दान्तस्थितिप्राप्तेस्तत्स्वरूपं प्रकाशितम् ॥३२३
सर्वं सत्यं ज्ञानमनन्तं आनन्दं चतुरुद्भवम् ।
सत्यात्मतत्परज्ञानशिवानन्दस्त्रिधा गुणाः ॥३२४
आनन्द ॥॥ क्तयो योज्यं तत्प्राप्तं सद्गुरोः पदम् ।
स्वरूपं त ॥॥ पञ्चगुणत्रय विभूतयः ॥ ३२५
तच्चतुः प्रकारार्थं सत्यादिगुणसंपदम् ।
रूपं गन्धं गुणं शोभा यथा उद्भवमुत्पलम् ॥ ३२६
तथैवेत्यादि तद्भेदं स्वरूपं तस्य उद्भवम् ।
ज्ञानज्ञेयज्ञातृकं च त्रिपदार्थं स्वमुच्यते ॥ ३२७
तस्मात्स्वरूपं सर्वत्र प्रकाशानन्दविग्रहम् ।
तत्प्राप्तिस्तत्परामुक्तिः शिवजीवैक्यसम्भवम् ॥ ३२८
सदा ॥॥ यन्तु संप्राप्तिः शिवसायुज्यमाप्नुयात् । ३२९आ
षट्त्रिंशत्तत्वबोधार्थ आत्मरूपं प्रकाशितम् ।
धातुरूपे स्थितं देहं मूलरुपोऽयमुच्यते ॥ ३३०
पुर्यष्टकेस्थितं सूक्ष्मं प्रकृतित्रीणि देहजम् ।
पराणदेहं ततः पश्चात् धमां मोहिनिदेहजम् ? ॥ ३३१
पञ्चकंचुकयोर्देहं परितयज्य स्वरूपकम् ।
पञ्चभूतस्थितं देहं धातुरूपं प्रकल्पितम् ॥ ३३२
रसरुधिरमांसास्थि मेदोमज्जाशुक्लकम् ।
सप्तधातुं परित्यज्य श्रोत्रादि पञ्चकं त्यजेत् ॥ ३३३
वागादि पञ्चकं त्याज्यं शब्दादि पञ्चकं त्यजेत् ।
वागादि पञ्चकं त्याज्यं शब्दादि पुरुषपञ्चकम् ॥ ३३४
पुरुषार्थं परित्यज्यकेनलातीत सम्भवम् ।
एतस्तर्व परित्यज्य जाग्रज्जाग्रमिति स्थितम् ॥ ३३५
विद्या तत्वं परित्यज्य जाग्रस्वप्नस्थितं भवेत् ।
शिवतत्वं परित्यज्य मायामोहिनिसम्भवम् ॥ ३३६
तज्जाग्रत्सुप्तिर्यो भावः साक्षी पुरुषतत्वकः ।
पुरुषार्थं परित्यज्य केवलातीत सम्भवम् ॥ ३३७
जाग्रज्जाग्रादिकावस्था तिरोधादिमलक्षया ।
तिरोधाय जाग्रजाग्रे मायेयं जाग्रस्वप्नकम् ॥ ३३८
सुप्तिर्जगत्कर्म स्यान्मोहिनीजयात् ॥। ।
जाग्रातीताणवं बन्धं तत्याज्यमात्मनोदितम् ॥ ३३९
ए ॥॥ तत्वकः ।
त्रिवह्यकीं ब्रह्मार्थमेकोभावस्थितं नहि ॥ ३४०
तस्मात् ॥॥ प्रज्ञा तदात्मा परमंस्थितः ।
तत्कालप ॥। ना त्वस्यकारणम् ॥ ३४१
प्रज्ञाभावसंसिद्वं शुद्धकेवलसंस्थितम् । ३४२आ
जाग्रं तुर्यं चतुर्थं च तत्कालपरपञ्चकम् ।
परव्योमं तु षष्टं च परावस्था तु सप्तमम् ॥ ३४३
परमव्योग्नि सिद्ध्यर्थं जीवन्मुक्तिप्रकाशकम् ।
तत्प्रकाशकचैतन्यं परमात्मन्यवस्थितम् ॥ ३४४
परावस्थाप्रकाशस्तु अवस्थातीत गोचरम् ।
आकाशशरीरं ब्रह्म तुर्यातीतं परं शिवम् ॥ ३४५
परव्योमं तु षष्टं च परावस्था तु सप्तमम् ।
विश्वग्रासाष्टमं चैव उपशान्तो नवस्तथा ॥ ३४६
शिवभ्रष्टा दशं चैव वाक्यावस्था समीरिता ।
अणुर्महत्वं तद्वयाप्तं जीवात्मपरयोदितम् ॥ ३४७
एतदर्थं तदर्थं च तत्पदं परमं पदम् ।
विश्वग्रासं परं गुह्यं सर्वात्मशिवमुद्भवम् ॥ ३४८
विश्वग्रासं परं गुह्यं सर्वात्मशिवमुद्भवम् ।
तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं शान्तिसम्भवम् ॥ ३४९
तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं शान्तिसम्भवम् ।
तच्छिवावस्थितं शान्तं शान्त्यतीतं परात्परम् ॥ ३५०
उपशान्तिज्ञप्तितः प्राप्त परजीवैक्यसाधनम् ।
आत्मा परशिवं चैते त्रिपदार्थत्रिशोधनम् ॥ ३५१
ज्ञानज्ञेयं ज्ञातृकान्तं त्रिपदार्थं समुच्यते ।
तस्मात् सवरूपं सर्वत्र प्रकाशानन्द विग्रहम् ॥ ३५२
तत्प्राप्तिः तत्परामुक्तिः शिवजीवैक्य सम्भवम् ।
द्वयोः एक्यं तु संप्राप्ते पराप ॥॥॥॥। पः ॥ ३५३
आसिपदं शिवरूपं द्वयोः ऐक्यं प्रकाशितम् ।
रक्तं शुक्लं द्विधामिश्र प्रभाकर प्रकाशकम् ॥ ३५४
पदं स्थितं ॥॥ ॥॥
जाग्रजाग्रस्थितं ब्रह्मा जाग्रत्सवप्नस्तितो हरिः ।
जाग्रसुप्तिस्थितो रुद्रस्तमसा मोहिनि तथा ॥ ३५५
जाग्रतुर्यंस्थितेशस्तु ॥॥ ॥॥ तद्वनध ।
गुरुकारुण्यमात्रेण वं मलोदयम् ॥ ३५६
॥॥ प्रकाशार्थं जीवचैतन्यरूपकम् ।
जाग्र ॥॥ ॥॥ प्रोक्तं तुर्यात्मसमभवम् ॥ ३५७
तवं पदमात्मसम्भवम् ।
उपाधिशुन्यजीवात्मा त्वं पदार्थस्य शुद्धिमान् ॥ ३५८
देव्युवाच —
परमेश महेशान परात्पर पराशिव ।
सिद्धान्तमार्गसम्बोध किंप्रकारं तदुच्यताम् ॥ ३५९
ईश्वर उवाच —
शृणु देवि महाभागे शिवसिद्धान्तलक्षणम् ।
पाशः पशुः पतिर्ज्ञेयं त्रिपदार्थं त्रिनिर्णयम् ॥ ३६०
पाशः पशुः पतिर्मध्ये तृतीयेच्छा तु दीक्षया ।
नवमं चैव सिद्धान्ताधिकारो भवतोदितः ॥ ३६१
तस्माद्दशविधा दीक्षा पशुपाशपतिक्रमात् । ३६२आ
प्रथमं तत्वरूपं तु द्वितीयं तत्वदर्शनम् ।
तृतीयं तत्वशुद्धयर्थं चतुर्थं चात्मरूपकम् ॥ ३६३
पञ्चमं चात्मदृश्यं तु षष्टं चाप्यात्मशोधनम् ।
सर्वतत्वं चतुर्भेदं मायाकुण्डलिनोद्भवम् ॥ ३६४
पूर्वोक्तस्य स्वकर्तव्यं तत्वत्रयविशेषतः ।
तत्वरूपमिदं तत्र तत्वदर्शनभावनम् ॥ ३६५
तत्वशुद्धिः पृथग्भावं तत्वशून्यस्थितिं कुरु ।
अरूपा वर्णचैतन्यमविकारान्तगोचरम् । ३६६
अभिन्नभिन्नरूपत्वं तत्वमात्मस्वरूपकम् ।
अविकारोत्पन्नया तत्र प्रज्ञात्वं नाणुरूपकम् ॥ ३६७
तद्व्याप्तं चेतनारूपं तत्सर्वं सुप्रकाशितम् ।
तद्व्योमसम्भवत्यर्थं तदवस्थात्मशोधनम् ॥ ३६८
रूपारूपं द्विधा शून्यं तुर्यातीतं परं शिवम् ।
तत्पदं परमं स्थाणुं तत्वातीतं परं शिवम् ॥ ३६९
(अथ शिवदर्शनविवेकः)
अणोरणीयान्महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः ।
उपाधिशून्यं स्वयमात्ममध्ये प्रकाशते ज्ञप्तिपरानुभावः ॥ ३७०
स्वजीवपरयोरैक्यं शिवयोगं शिवोद्भवम् ।
दशावस्थामतिक्रान्तं ॥॥ ॥॥ मशनम् ॥ ३७१
स्वरूपसत्यादिगुणं वाक्यलक्षणशोधनम् ।
सत्यानन्दमहाज्योतिः शिवभोगानुभूतिकम् ॥ ३७२
जीवावस्था परावस्था शिवावस्था नवान्तकम् ।
नवतत्वं नवावस्था नवावस्थान्तगः शिवः ॥ ३७३
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
परबिन्दुः परो नादः परा शक्तिः परः शिवः ॥ ३७४
नवतत्वलयस्थाने नृत्तानन्दमयो गुरुः ॥ ३७५आ
शिवः शक्तिर्द्विधानादबिन्दुः सादाख्यपञ्चमः ।
ईशो रुद्रस्तथा विष्णुर्वेधाग्रे मूर्तयो नव ॥ ३७६
इच्छाज्ञानक्रियामाया पराबैन्दवतारकाः ।
कुटिला कुण्डली भेदा नवप्रधानशक्तयः ॥ ३७७
नवं प्राधान्यमूर्तिश्च नव वै बन्धकारणम् । ३७८
एतच्छक्तिमयं विश्वं विश्वातीतं परात्परम् ।
शिवशक्तिद्विमध्यस्थे नादबिन्दुस्तथोदितः ॥ ३७९
नादबिन्दुद्विमध्यस्थे पञ्चसादाख्यमुद्भवम् ।
पञ्चसादाख्यमध्यरथे अष्टविद्येश्वरोदितम् ॥ ३८०
अष्टविद्येश्वरमध्ये रुद्रभेदस्तथोदितः ।
रुद्रभेदस्वमध्यस्थे षट्कोटिविष्णुसम्भवः ॥ ३८१
षट्कोटिविष्णुमध्यस्थे शतकोटिब्रह्मणोद्भवः ॥ ३८२आ
इच्छाज्ञानक्रियामध्ये नवशक्तिस्तदुद्भवा ।
इच्छाज्ञानक्रियामध्ये ॥॥ ॥॥ हप्रभुमान्त्रिका ॥ ३८३
क्रियाशक्त्युद्भवं शेषं वाक्शक्तिः पञ्चमस्तथा ।
परापरात्पराकारं शिवशक्तिस्तदुद्भवा ॥ ३८४
नवं प्राधान्यमूर्तिश्च नव वै बन्ध कारणम् ।
असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् ॥ ३८५
जीवंश्चरत्वरहितः केवलः स्वप्रभः शिवः ॥ ३८६आ
अकारोकारमकारश्च शिरसि प्रणवस्य तु ।
शिवजीवपरैरैक्यं स्यात् त्रुपादीलक्ष्यलक्ष्णा ॥ ३८७
शबला परितं भेदं तन्मध्ये ॥॥ ॥॥ द्धरोत्तमम् ।
जीवः परः शिवो मुक्तिस्तद् व्याप्यस्तस्य लक्षणम् ॥ ३८८
तत्पदं तु शिकारं स्याद्वाकारं त्वंपदं तथा ।
असिशब्दो यकारश्च महावाक्यस्वरूपकम् ॥ ३८९
आत्मा परःशिवश्चैते त्रिपदाथस्त्रिचेतनाः ।
त्रिशून्योदयसम्भिन्ने – त्वं तदसीतिसम्भवम् ॥ ३९०
॥॥ ॥॥ कादि मलत्रेधामस्याभिगुणत्रयः ।
त्वं तदस्येति तन्मध्ये मोचनं शुद्धमात्मनः ॥ ३९१
एवं तत्त्रिपदं शुद्धं लक्षणार्थं तदुच्यते ।
शिवानन्दं महादेवि सत्यज्ञानमनन्तकम् ॥ ३९२
आनन्दान्तस्थितज्ञप्तेस्तत्स्वरूपं प्रकाशितम् ।
सत्यं ज्ञानमनन्तं च आनन्दं चतुरुद्भवम् ॥ ३९३
सत्यात्मतत्परज्ञानशिवानन्दं त्रिधा गुणाः ।
आनन्दाः शक्तयो योज्यं तत्प्राप्तं सद्गुरोः पदम् ॥ ३९४
स्वरूपं तत्र रूपं च गुणत्रय विभूतयः ।
एतच्चतुष्प्रकारार्थं सत्यादिगुणसंपदम् ॥ ३९५
रूपं गन्धं गुणं शोभा यथा उद्भवमुद्भवम् ।
तथैवेत्यादि तद्भेदं स्वरूपं तस्य उद्भवम् ॥ ३९६
ज्ञानज्ञेयज्ञातृकान्तं त्रिपदार्थ समुच्यते ।
तस्मात्स्वरूपं तत्रापि प्रकाशानन्दविग्रहम् ॥ ३९७
तत्प्राप्तिसतत्परा परा मुक्तिः शिवजीवैक्यसम्भवम् ।
मुखस्वप्नमिवाहुर्निरतिशयानन्दमात्मविज्ञानम् ॥ ३९८
सत्यंप्रदायसिद्धं संततजातप्रकाशसद्भावम् ॥ ३९९आ
गोदोहमिषुपातं वा नयनोन्मीलमात्रकम् ।
सकृत्परपदे युक्त न पुनर्भावमाप्नुयात् ॥ ४००
उदकेन विना सन्ध्या जपहोमैर्विंना तपः ।
सन्धीयते परे तत्वे सा सन्ध्या सद्भिरिष्यते ॥ ४०१
शास्त्रं कोटिषु कोटित्वं शिवज्ञानं तु दर्शनम् ॥४०२आ
स्वानुभूत्या महात्मानः सदाभावं विचिन्तितम् ।
शास्त्राचारकथं चैव कर्मचारविवर्जितम् ॥ ४०३
समयाचारेण किं कार्य लोकोचारेण किं भवेत् ।
सर्वाचारविनिर्मुक्तं स्वयमाचारमाप्नुयात् ॥ ४०४
नात्र पूजा नमस्कारो न जपो ध्यानमेव च ।
केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन ॥ ४०५
ज्ञानमुद्राविधिःप्रोक्तस्तत्र सन्मार्गदर्शनम् ।
अनुभूतिप्रकर्तव्यं शिवानन्दोद्भवं सदा ॥ ४०६
द्वादशं मार्गसम्बन्ध श्रुणु देवि वरानने ।
मुखं पीठं मठं दैवं वर्गदर्शनषष्टकम् ॥ ४०७
आसनं गिरि चित्तं गुहाचारो वर्णषष्टकम् ।
एतत् द्वादशसन्मार्गप्रधानाचारमुत्तमम् ॥ ४०८
मूर्तिरूपं मुखं ज्ञेयं दशन्धारंतु पीठकम् ।
पराशक्तिर्मठं प्रोक्तं दैवं तत्र परात्परम् ॥ ४०९
ज्ञानिनां वर्गमाश्रित्य शुद्धशैवस्य दर्शनम् ।
आसनं ज्ञानशक्त्यर्थं गिरिपञ्चाक्षरोऽलयम् ॥ ४१०
चित्तं बिन्दुस्वरूपं च उपशान्तिर्गुहा च वै ।
सर्वाचारविनिर्मुक्तं ज्ञानाचारप्रवर्तकम् ॥ ४११
वर्णमध्यात्मवर्णं तु एतद्द्वादशमुच्यते ।
प्रासादस्य कला एताश्चतुर्विशत्तथैव च ।
द्वाविंशदेकविंशच विंशदष्टादशं तथा ॥ ४१२
षोडशः पञ्चदशं च द्वादशो दशमो नव ।
अष्टमं पश्चिमं चैव कलाभेद इहोच्यते ॥ ४१३
अकारश्व उकारश्व मकारो बिन्दुरेव च ।
अर्धचन्द्रनिरोधी च नादो नादान्त एव च ॥ ४१४
शक्तिश्च व्यापिनी चैव व्योमरुपा तथैव च ।
अनन्ता च तथाऽनाथाऽनाश्रिता समना तथा ॥ ४१५
उन्मना च तदन्तश्च परा शक्तिः परान्तकः ।
परशिवस्तदन्तश्च शाम्भवं गुरुपादुका ॥ ४१६
शिवः शाम्भव एव स्याद् द्वाविंशद्भेद उच्यते ।
शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥ ४१७
परान्ताष्टादश प्रोक्ता उन्मन्यन्ते तु षोडश ।
समनान्ते षञ्चदशः विना शैवं चतुष्कलाः ॥ ४१८
कला द्वादश एवोक्तास्तत्प्रासादकलाः स्मृताः । ४१९आ
इत्यथष्टाविंशतिः शास्त्रैरुपभेदागमक्रमम् ।
चतुर्विंशच्छतद्बेधा तत्तद्बेदापरिमिताः ॥ ४२०
इत्यष्टाविंशतिभेदाः शैवसिद्धान्तकल्पनाः ।
पूर्वाष्टाविंशतिः प्रोक्ताश्चतुष्पाज्ज्ञेयकल्पनाः ॥ ४२१
अन्यथा आगमाः प्रोक्ताः शिवधर्मोत्तरं द्विधा ।
नानाचारप्रवृत्यरथा नानासिद्धान्तभेदकाः ॥ ४२२
पौष्करादिज्ञानसांखयारथास्तत्वसारादिभेदकाः ।
अनेकार्थागमाः सांख्याश्चतुष्पादाः शैवनिर्णयाः ॥ ४२३
देवीकालोत्तरस्कन्दकालोत्तर (द्वि) शतोत्तराः ।
सर्वज्ञानोत्तराः सांख्या इत्याद्या योगसांख्यकाः ॥ ४२४
नानाशैवप्रवृच्यर्था नानाशैवागमोदिताः ।
मन्त्रतन्त्रक्रियायोगा न शैवार्था …। ।… ज्ञेयाः ॥ ४२५
नन्दिकेश परं गुह्यं योगज्ञानप्रवर्तकम् ।
शिवसांख्यं योगसांख्यं सांख्यभेदागमद्वयम् ॥ ४२६
निर्वाणसारसांख्यैकं योगसांख्यं द्वितीयकम् ।
तत्वसारं त्रिधा भेदं देविविघ्नेश्वरगुहात् ॥ ४२७
कारणं भार्गवं शुद्धं कालकण्ठं ततोऽधिकम् ।
शैवभेदागमा इत्थं साक्षान्मोक्षप्रवेशकम् ॥ ४२८
पूर्वकाण्डमिति प्रोक्तं सूक्ष्मं सिद्धान्तशाम्भवम् ।
उत्तरं काण्डकं पश्चात् परमं कामिकादिकम् ॥ ४२९
शैवं शिवाद्वैतं चैव शिवसंमेळनं त्रिधा ।
पश्चात्पाशुपतं चैव कालामुखमहाव्रतम् ॥ ४३०
वामभैरवयोर्भेदाः शैवस्याम्यन्तराष्टकाः ।
ऊर्ध्वं तु शैवं प्रथममनादि शैवं द्वितीयम् ॥ ४३१
आदिशैवं तृतीयं तु चतुर्थमनुशैवकम् ।
अवान्तरं पञ्चमं च मिश्रशैवं तु षष्ठकम् ॥ ४३२
भेदशैवं तथा सप्तगुणशैवं तथाष्टमम् ।
आज्ञाशैवं तु नवमं दशमं योगशैवकम् ॥ ४३३
एकादशं ज्ञानशैवं द्वादशं शुद्धशैवकम् ।
ईश्वरैक्यं तथाभिन्नमध्वशैवं प्रवर्तकम् ॥ ४३४
सर्वतत्वं चतुर्भेदं मायाकुण्डलिनोद्भवम् ।
पूर्वोक्तस्य सुकर्तव्यं तत्वत्रयविशेषतः ॥ ४३५
तत्वरूपमतसतत्रं तत्वदर्शनभावतः ।
तत्वशुद्धिः पृथक्भावं तत्वलीनस्थितिं कुरु ॥ ४३६
अरूपापन्नचैतन्यमविकारान्तगोचरम् ।
अभिन्नाभिन्नशून्यं च इत्थमात्मस्वरूपकम् ॥ ४३७
तद्व्याप्तं चेतनारूपं तत्सर्वं सुप्रदर्शनम् ।
तद्व्योम सम्भवत्यर्थं तदवस्थात्मशोधनम् ॥ ४३८
रूपारूपं तदाशून्यं तुर्यातीतं परं शिवम् ।
तत्वदं परमं स्थाणुं तत्वातीतं परं शिवम् ॥ ४३९
अणोरणीयान्महतो महीयान् आत्मा गुहायां निहितोऽप्यनन्तः ।
उपाधिशून्यं स्वयमात्ममध्ये प्रकाशकं ज्ञप्तिपरानुभावम् ॥ ४४०
स्वजीव परयोरैक्यं शिवयोगं शिवोद्भवम् ।
सत्यानन्दमहाज्योतिः शिवभोगानुभूतिकम् ॥ ४४१
सनकादिमुनीनो तु वटछायाप्रबोधकम् ।
तज्ज्ञानदीक्षया वेद्य सत्यं च मौनमुद्रया ॥ ४४२
तज्ज्ञानं शिवसामर्थ्यं शिवभोग इहोच्यते ।
इत्येवं हि महादेवीं प्रतिवक्ति महेश्वरः ॥ ४४३
आदिकारणं मृद्रूपं तच्चक्रं सहकारणम् ।
कुलालोऽस्य निमित्तं स्यात् त्रिभिः मृद्भाण्डसम्भवः ॥ ४४४
तदेवं ग्रन्थिमृद्रपं कुण्डली चक्रसंस्थितम् ।
परमेश कुलालेन क्रियते तचाराचरम् ॥ ४४५
इच्छा ज्ञान क्रिया शक्तिः इति व्याप्तस्य कारणम् ।
ईश्वराच्छुद्धविद्या स्यात् ततो माया समुद्भवः ॥ ४४६
पृथ्व्यादिभूतशक्त्यर्थं निवृत्यादि पञ्चमाः कला ।
भूतांशं पञ्चविंशेति तद्देहोत्पत्तिकारणम् ॥ ४४७
पृथिवी वारिवाखग्नि गगनादीनि कीर्तितम् ।
अस्थिमांसत्वचं मेदो रोम मेदिनिपञ्चकम् ॥ ४४८
लाला मूत्रं तथा शुल्कं शोणितं मञ्चपञ्चमम् ।
क्षुधा तृष्णा तथा निद्रा आलस्यं मञ्जपञ्चमम् ॥ ४४९
षुधा तृष्णा तथा निद्रा आलस्यं रतमेव च ।
धावनं लङ्गनं पातं कुञ्चनं च प्रसारणम् ॥ ४५०
रागद्वेषो तथा लज्जा लोभरोगौ तथैव च ।
एवं च पञ्चविंशार्थं भूतांशं बाह्यतत्त्वकम् ॥ ४५१
एवं तत्त्वक्रमं देहं भूतकारप्रवर्तकम् ।
श्रुतित्वक्घ्राणजिह्वाक्षिनामज्ञानेन्द्रियैस्तथा ॥ ४५२
अहङ्कारमनो बुद्धि चित्तैराभ्यन्तरैः स्थितम् ।
अन्नप्राणमनोविज्ञानानन्दैः पञ्चकोशकम् ॥ ४५३
प्राणापानव्यानोदानसमानाः पञ्च वायवः ।
नागश्च कूर्मः क्रकरो देवदत्तो धनंजयः ॥ ४५४
अन्तर्यमी तथा मुख्यः प्रपञ्चो वैरगस्तथा ।
एवं चतुर्दश वायुर्ज्ञानाज्ञानव्यवस्थितः ॥ ४५५
प्राणादिपञ्चमो वायुरज्ञानाज्ञानवयवस्थितः ।
प्राणादिपञ्चमो वायुर्ज्ञानवायुस्तदुच्यते ॥ ४५६
अन्तर्यामी तथा भेदश्चतुर्थावस्था मरुत् प्रिये ।
रागादिपञ्चको वायुः क्रियावायुः प्रकीर्तितः ॥ ४५७
प्राणवायुस्तथा मध्ये अन्यवायु स्वबन्धनम् ।
आणवादिमलं त्रेधा सात्विकादिगुणास्त्रिधा ॥ ४५८
मूलाधारस्वाधिष्ठानमणिपूरविंशुद्धिकाः ।
अनाहताज्ञास्थानं षडाधारं ब्रह्मरन्ध्रकैः ॥ ४५९
ब्रह्मा विष्णुश्च रुद्रश्च ईशः शक्तिः सदाशिवः । ४६०
जाग्रत्स्वप्नसुषुप्तिश्च तुर्यातीतं च पञ्चमम् ।
एवं पञ्चमयो देह एवं भौदिकमुचयते ॥ ४६१
भूतवर्णं च कोशं च बाह्या वै पञ्चविंशतिः ।
आभ्यन्तरं पञ्चविशत् वायुभेदाश्चतुर्दशः ॥ ४६२
मलत्रयं गुणास्त्रेधा आधारषट्कमात्मनः ।
अवस्था पञ्चकेत्यर्थं षट्त्रिंशत्षष्टिकं तथा ॥ ४६३
एतत्सामान्यतत्वार्थदेहोत्पत्तिः स्वसाधनम् ।
देहोत्पत्तिंस्तथा तत्त्वं चतुष्कोटिस्तथा पुनः ॥ ४६४
तत्वरूपं श्रृणुत्वं वै हृद्व्यापकमनुत्तमम् ।
सवर्णश्वेतं च रक्तं च कृष्णधूम्रसवरूपकम् ॥ ४६५
श्रोत्रादि पञ्चमं रूपं धूम्रकृष्णादि पञ्चमम् ।
मनो बुद्धिरहंकारश्चितं पुरुषतत्त्वकम् ॥ ४६६
श्वेतं रक्तं तमः शुभ्र तमः शुभ्रं द्विमिश्रकम् ।
एकैकमिन्द्रियग्रह्यवस्थं पुरुषतत्त्वकम् ॥ ४६७
श्वेतानतः करणं व्याप्तं व्याप्तभेदमनेकधा ।
आत्मा श्वेतज अव्यक्तः कृषणरक्तार्थश्वेतजः ॥ ४६८
महान्शुवर्णः कञ्चुको धूम्रः प्रकृतिः शङ्कतुल्यकाः ।?
विकृतिस्तिमिराकारा मनोन्मनि स्फटिकोपमा ॥ ४६९
उन्मनी निस्तुलाभासा नवशक्तेर्नवोदयः ।
नागस्तु तिमिराकारो दोषश्चाति तमस्तथा ॥ ४७०
त्रिविधस्तत्त्वसम्बन्धस्वर्णश्वेततमोमयम् ।
अविद्या धूम्रभासा स्यात्कलाभा कुन्दपुष्पभा ॥ ४७१
नियतिः स्वर्णवर्णा च नियमस्तु तथागुणः ।
त्रिकालस्त्रिगुणो वर्णः सृष्ट्यादिभूतवर्णकम् ॥ ४७२
सृष्टिकारणयोर्वर्णस्तथा वर्णस्वरूपकम् ।
मायातितिमिरा शुद्धविद्या हिरण्मया ॥ ४७३
महेशस्तिमिराभासः सादाख्यः स्फटिकोपमः ।
बिन्दुनादं द्विधारूपं श्वेतरक्तप्रकाशकम् ॥ ४७४
नादोऽन्तः कोमलाकारः कुटिला भास्वरा सदा ।
शिवशक्तिर्द्विधाभासा अकलंङ्कशशिप्रभा ॥ ४७५
तटिदाकारवान्श्रेष्ठः सर्वात्मा स्वप्रकाशकः ।
एवं तत्त्वस्वरूपार्थं एवं तत्त्वप्रभुः शिवः ॥ ४७६