ज्ञान-सिद्धिः

१। मन्त्रवादः नवशक्तिविधिप्रोक्तं नवमूलं तु यामलम् । तच्छाक्तं शाम्भवं शैवं तत्तत्त्वं सिद्धिशाम्भवम् ॥ १ मूलागमं तु सन्मार्गं सहमार्गं शिवागमम् । सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ॥ २ नवागमरहसयारथोद्भवोऽष्टाविंशतोदयः । शक्त्युक्तिं यामलोद्भेदं नवभेदमनेकधा ॥ ३

  • १। पारतत्त्वरागम्
  • २। परमागमम्
  • ३। शिवागमम्
  • ४। शक्तयागमम्
  • ५। कलागमम्
  • ६। देवप्रसादम्
  • ७। पारतन्त्रावतारम्
  • ८। शिवाज्ञासारम्
  • ९। शिवसादाख्यप्रसादम् ।
नवधा चेति संप्रोक्तो नवतन्त्रैकगोचरः । वामश्च मन्त्रवादश्च यन्त्रावादस्ततः परम् ॥ ४ तथा चौषधवादश्च कर्मवादस्तथैव च । अद्वैतवामसिद्धान्तो द्वैतवाममतः पुनः ॥ ५ मिश्रवाममतः पश्चाद्वामसिद्धान्त इत्यपि । वामं तु त्रिविधं प्रोक्तमनादिः पूर्वपश्चिमम् ॥ ६ न्यायो वैशेषिकशैव बौद्धश्चैवार्हतस्तथा । लोकायतश्च साङ्खयश्च मीमांसो वैष्णवस्तथा ॥ ७ न्यायाद्यष्ठकभेदोयं बहिःस्थाः समयार्थकः । शैवं शिवाद्वयं चैव शिवसंमेलनं त्रिधा ॥ ८ पश्चात्पाशुपतं चैव कालामुखमहाव्रतम् । वामभैरवयोर्भेदाः शैवसयाभ्यनतराष्टकः ॥ ९ शुद्धशैवस्य सम्बन्धं जटी केशधरोऽथवा । शिवपूजादि कर्तव्यं भस्मरुद्राक्षधारणम् ॥ १० ज्ञानदीक्षा पञ्चगुणाः सद्गुणाः करुणोदयाः । ज्ञानभेदं चतुष्पादं नित्यानुष्ठानसाधकम् ॥ ११ रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम् । भस्मापि शुद्धशैवानां पञ्च मुद्राः प्रकीर्तिताः ॥ १२ वामं हि शाम्भवं शास्त्रं भैरवं दक्षिणात्मकम् । १३आ सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् । इदं शास्त्रं शिवोद्गीर्णं मूलतन्त्रावतारकम् ॥ १४ कुलार्णवं कुलोत्तीर्णं कुलसम्भवं कुलामृतम् । परानुत्तरागमार्थ कौळिका कुळशासनम् ॥ १५ सिद्धामृताम्नायसिद्धिरित्यादि शाक्तवामजम् । नवयामळयोर्भेदं तत्तद्वेदमनेकधा ॥ १६ शाक्तेयं शाम्भवं शैवं शिवसम्बन्धकारणम् । त्रैसिद्धान्तमिति प्रोक्तमिदं शास्त्रं त्रिमेलनम् ॥ १७ शुद्धशैवमिति ख्यातं शुद्धशाम्भवसम्भवम् ॥ १८आ वेदस्य विहिताचारं दक्षिणाचारमुच्यते । विपरीतं वाममार्गं शाक्तेयं शैवगोचरम् ॥ १९ नवशक्तिविधिप्रोक्तं नवमूलं तु यामलम् । तच्छाक्तं शाम्भवं शैवं तत्तत्वं सिद्धिशाम्भवम् ॥ २० शक्त्यर्थं यामलोद्भेदं नवभेदमनेकधा । २१आ मूलागमं च सन्मार्गं सहमार्गं शिवागमम् । शिवसृष्टिः पञ्चमाका राश क्त्या सारैकया दश ॥ २२ वामभैरवयोर्भेदं गौतमं च गणेश्वरम् । नन्दिकेशं तथा पश्चादैन्द्रसारं तु षोडशम् ॥ २३ गौरीनरागमं पश्चान्महेशसारं ततः परम् । अघोरसारागर्मं पश्चाद्विष्णुसारमतः परम् ॥२४ ब्रह्मसारं ततः पश्चात्ततः समयसारकम् । महेश्वरोद्भवं चैव रुद्रावतारसम्भवम् ॥ २५ सौन्दर्यं सिद्धसारं च महाभैरवषष्ठकम् । सादाख्यं पार्वतीप्रोक्तं मन्त्रावतारयोनिकम् ॥ २६ देवसारं दशांशं च योगसारं च सम्मतम् । इत्यष्टाविंशतिर्भेदं मूलोपादानकारणम् ॥ २७ चतुर्विंशच्छतद्वयमष्टाविंशोपभेदकम् । २८आ शिवशक्तिस्वरूपेण शैवं शाक्तं मयोदितम् । शिवसम्बन्धतः शक्तिः शक्तिसम्बन्धतः शिवः ॥ २९ षड्वक्त्रेशानसम्बन्धं षट्शक्तिप्रभवोद्भवम् । षट्शक्तिप्रभवाकारे शैवादि समयोदितम् ॥ ३० शैवं पूर्वमुखोत्पन्न याम्ये कालामुखं तथा । पश्चात्पाशुपतं चैवमुक्त्तरे तु महाव्रतम् ॥ ३१ तदूर्ध्वे भैरवं प्रोक्तं पाताले वाममुच्यते । पातालशक्तिसम्बन्धं तदूर्ध्वं परमं पदम् ॥ ३२ पारतत्वरागम् परमागमम् शिवागमम् शक्तयागमम् । कलागमम् देवप्रसादम् पारतन्त्रावतारम् शिवाज्ञासारम् ॥ ३३ शिवसादाख्यप्रसादम् । …। …। …। मेद संक …। …। मष्टविद्येशरोदितम् ॥ ३४ एतेषां विंशतिर्भेदाः सारतन्त्रावतारकम् । सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ॥ ३५ मूलाष्टाविंशतिः शास्त्राञ्जातं सर्वत्र कारणम् । सद्यं वाममघोरं च पुरुषेशानपञ्चमम् ॥ ३६ अत्तत्प्रोक्तमतं शास्त्रं कामिकाद्यष्टविंशतिः । ३७आ कालोत्तरादि यद्भिन्न तन्मूलस्योपभेदकम् । कामिकादि विभेदार्थं शतद्वयं तथाधिकम् ॥ ३८ वेदसारागमं शास्त्रं वेदान्तं चागमान्तकम् । ३९आ अनन्तागमयोर्मध्ये सारात्साराष्टविंशतिः । तन्मूलागमतद्भेदा नवधा मूलकल्पना ॥ ४० तत्तत्सारांशसारार्थतन्त्रावतारशास्त्रकम् । वेदागमरहस्यार्थ वेदागमान्तविस्मयम् ॥ ४१ शुद्धशैवप्रकाशार्थं शुद्धशाम्भवसम्भवम् । शुद्धशैवस्तथा सारसारात्सारप्रकाशितम् ॥ ४२ सारात्सारतरं गुह्यं गुह्याद्गुह्यं प्रकाशितम् । शाक्तस्य शाम्भवं शैवं शैवं शाम्भवशाक्त्तकम् ॥ ४३ वेदान्तसिद्धान्तविज्ञानगम्यं वेदान्तसिद्धान्तकमेव तत्वम् । वेदान्तसिद्धान्तविभेदभिन्नं वेदान्तसिद्धान्तविश्रान्तिकं च ॥ ४४ शुद्धशैवः स्वसिद्धान्तमिदं शास्त्रप्रवर्तकम् । ४५आ न्यायं वैशेषिक चैव बौद्ध चैवार्हतं तथा । लोकायतं च सांख्यं च मीमांसा वैष्णवं तथा ॥ ४६ एवमष्टौ बहिर्भेदाः बाह्याभ्यन्तरं षोडश । शैवं शिवाद्वितं द्वेधा शिवसंमेलनं त्रयम् ॥ ४७ चतुर्थं पाशुपत्यं च पञ्चमं तु महाव्रतम् । षष्ठं कालामुखं चैव सप्तमं भैरवं तथा ॥ ४८ अष्टमं वामभेदोऽथ समयेत्यष्टमं भवेत् । एवमष्टौ बहिर्भेदा बाह्याभ्यन्तर षोडश ॥ ४९ भेदाभेदोभयज्ञानं मायावादप्रधानकम् । मन्त्रं यन्त्रं च चक्रं च कालः प्रारब्धकर्म च ॥ ५० न्येय यवादिन … । अष्टवादमिदं प्रोक्तं त्रियष्टश्वतुर्विशतिः ॥ ५१ तीर्थशास्त्रप्रमाणं च अर्चनाध्यात्मपञ्चमाः । बाह्याभ्यन्तरयोर्भेदः संकल्पा षट्प्रभेदकाः ॥ ५२ ॥॥॥ भेदाः षोडश समयास्तथा । ब्रह्मविद्यादिवादी च तत्त्ववादस्तु शून्यकः ॥ ५३ एवं पञ्चशिवोत्पन्नं श्रुत्वाऽऽगमान्यतन्त्रजम् । अष्टाविशत्प्रभेदार्थ मायाकुण्डलिनोद्भवम् ॥ ५४ वेदान्तं तत्त्वविज्ञानं तत्सिद्धान्तस्य साधनम् । वेदान्तार्थमयं ज्ञानं तज्ज्ञानं परमं पदम् ॥ ५५ अष्टाविंशतिज्ञानांशमेव मूलोदितागमम् । एवं शैवं त्रिधा भेदं चतुष्पादभवाश्रयम् ॥ ५६ चर्यादि ब्रह्मचर्यादिसिद्धान्ताश्रम उच्यते । ऊर्ध्वशैवं महाशैवं नादिशैवादिशैवकम् ५७ भेदाभेदद्वयं शैवं गुणशैवानुशैवकम् । आज्ञाशैवं क्रियाशैवमवान्तरं योगशैवकम् ॥ ५८ ज्ञानशैवं शिवशैवं शैवभेदं चतुर्दश । शुद्धशैवं तथामुख्यं चतुष्पाद्प्रणवान्तकम् ॥ ५९ शुद्धशैवं स्वसिद्धान्तं शैवभेदं किमुच्यते । अनादिशैवं मिश्रं च मिश्रामिश्रं त्रिधा हि च ॥ ६० गुणशैवं चतुर्थं च पञ्चमान्तरभेदकम् । महाशैवं षष्टकं तु भेदशैवं तु सप्तमम् ॥ ६१ अभेदं चाष्टमं विद्यात् योगशैवं नवं तथा । ज्ञानशैवं दशं विद्यादूर्ध्वमेकादशं भवेत् ॥ ६२ द्वादशं त्वाज्ञाशैवं स्यादनुशैवं त्रयोदशम् । अध्वशैवं चतुर्दश्यां तत्वशैवं तथान्यथा ॥ ६३ षोडशं शुद्धशैवं च शैवभेदमिति स्थितम् । ६४आ शैवं द्वादशयोर्भेदं द्वादशं पञ्चमोच्यते । कर्तव्ये कर्मकार्ये च ज्ञानकार्ये त्रिसाधनम् ॥ ६५ पाशं पशुपतिज्ञेयं सर्वशैवानुशासनम् । भस्म पञ्चमलं चैव सर्वशैवानुकूलकम् ॥ ६६ ऊर्ध्वशैवं तु प्रथमं अनादिशैवं द्वितीयकम् । आदिशैवं तृतीयं तु चतुर्थमनुशैवकम् ॥ ६७ अवान्तरं पञ्चमं च मिश्रकं शैवषष्टकम् । भेदशैवं तथा सप्त गुणशैवं तथाष्टमम् ॥ ६८ आज्ञाशैवं तु नवमं योगशैवं दशं भवेत् । एकादशं ज्ञानशैवं द्वादशं शुद्धशैवकम् ॥ ६९ एतत् द्वादश सर्वार्थं शुद्धशैवं प्रधानकम् । पूर्वोक्तपञ्चमं प्रोक्तमूर्ध्वशैवानुगो मनुः ॥ ७० अध्वशैवं तु सामान्यं द्विधा तद्भेदमुच्यते । ७१आ शैवमुद्रार्थसिद्धान्तं मन्त्ररूपमतः श्रृणु । सर्वकशजटामेकं भस्मोद्धलितविग्रहम् ॥ ७२ रुद्राक्षावृतगात्रश्च नित्यकर्मनुशासनम् । शिवार्चनकरः स्वामी समीपे गतिरूर्ध्वगः ॥ ७३ मन्त्रयोगपरः शीलगुरुवर्णपदार्थकः । एकादशजटाजूटभस्मरुद्राक्षधारणम् ॥ ७४ शिवकार्यगतिः शीलगुरुशुश्रुषया सह । शिवशशस्त्रपरिग्रह्यशिवयोगनिरूपकः ॥ ७५ अनादिव्यापको नित्यस्त्रिपदार्थस्वसाधकः। पाशाभावः स्थाणुपतेर्योज्याक्षार्थनिरूपकः ॥ ७६ नित्याचारतपः शीलोऽनादिशैवस्तथा इति ॥ ७७आ आदिशैवः स्वतन्त्रार्थसाधकाचार्यलक्षणः । तान्त्रिको मान्त्रिको वीर्यो यान्त्रिको गुणवान् प्रभुः ॥ ७८ द्वादशा जटिनोभावं भस्मरुद्राक्षधारणम् । क्रियाङ्गः सर्वगोद्धूलस्तत्त्वार्थस्य विचारकः ॥ ७९ शिवज्ञानगतश्चेष्टासाधको मोक्षकामिनः । एतल्लक्षणसंयुक्तः शैवसिद्धान्तगोचरः ॥ ८० दशभेदजटाजूटो भस्मरुद्राक्षधारणः । चर्यादि सादकेभ्यश्च भक्तिज्ञानविशारदः ॥ ८१ क्रियायोगस्तथाज्ञानं सामान्यं शैवसम्भवम् । नवभेदजटाजूटो भस्मरुद्राक्षधारणम् ॥ ८२ आद्यन्तशून्यः परमः शिवः कर्ता इति स्थितः । तद्भाव मुक्ति भावित्वमवा ॥॥। स्थितम् ॥ ८३ क्रिया पूजा समं कुर्यात्सद्भावहृदयः शिवः । अनाद्याश्रयसर्वार्थसाधको मिश्रशैवकः ॥ ८४ सर्वत्र शिवशक्त्यर्थपालनं परिपालनम् । सप्तभेदजटाजूटो भस्मरुद्राक्षधारणम् ॥ ८५ पदमुक्तिः सवमात्मानं भावितं भेदशैवकम् ॥ ८६आ जटाचूडामणिभस्मधारण भद्र ॥॥ श्रमम । त्रिगुणैसतु त्रिमूर्ति सयात् भावानां गुणशैवकम् ॥ ८७ पञ्चसादाख्य पञ्चकृत्यसिद्धसिद्धान्तसाधकः । त्रिजटां वा पञ्चजटां क्रियायोगविकल्पकः ॥ ८८ भक्तिं ज्ञानं च वैराग्यं क्रियाकाण्डस्य साधकम् । नित्यानुष्टानसम्बन्धानमुक्तिश्च प्राप्यते गुणे ॥ ८९ ज्ञानयोगक्रियाचार्यसाधकाऽऽज्ञार्थशैवकः । पदमुक्तिपदं प्राप्तः शिवाज्ञापरिपालनः ॥ ९० जटापञ्चसमायुक्तको यौगाङ्गाष्टस्य साधनम् । भस्म रुद्राक्षसम्बन्धं नित्यकर्मप्रवेशनम् ॥ ९१ शुद्धसत्यं समाश्रेयमहिंसाद्यर्थसम्भवम् । सारूप्यं सफलं प्राप्यं योगशैव इति स्थितम् ॥ ९२ चतुर्दशजटाजूटसययादि पंचसम्भवम् । लिङ्गार्चनसमायुकं भस्मरुद्राक्षधारणम् ॥ ९३ त्रिजटान्यशिवाकारभस्मरुद्राक्षधारणम् । पाशपञ्चमलत्याग पशुपाशविमोचनम् ॥ ९४ सर्वभावं परित्यज्य अभावे भावमाश्रितः । सदा समाधयो मुक्तस्थितचित्तप्रवृत्तकम् ॥ ९५ सन्यासो मुण्डनं चैव ईषणात्रयवर्जितः । एतल्लक्षणसम्युक्तं ज्ञानशैवप्रवर्तकम् ॥ ९६ चतुर्जटाजूटसम्बन्ध …। ।… पञ्चसम्भवम् । लिङ्गार्चनसमायुक्तं भस्मरुद्राक्षधारणम् ॥ ९७ प्रासादसम्बन्धविभवं प्रदक्षिणनमस्कृतम् । नित्यकर्म तथाचारः पदप्राप्त्यध्वशैवकम् ॥ ९८ पूर्वोक्तविधिना तत्र मन्त्रं विश्वादि साधनम् । पशुपत्यादयो भेदं शिववाक्यं शिवोद्भवम् ॥ ९९ जटी केशी शिखी मुण्डी चतुष्पादप्रयत्नतः । भस्मरुद्राक्षसम्बन्धः सामान्यशैवलक्षणम् ॥ १०० शुद्धशैवप्रवृत्यर्थं द्वादशैव तु कारणम् । सामान्याध्व ॥॥ च तस्माच्छैवं चतुर्दशम् ॥ १०१ शुद्धशैवस्य सम्बन्ध जटी केशधरोऽथवा । शिवपूजादि कर्तव्यं भस्मरुद्राक्षधारणम् ॥ १०२ ज्ञानदीक्षाः पञ्चगुणाः सद्गुणाः करुणोदयाः । ज्ञानभेदं चतुष्पादं नित्यानुष्टानसाधनम् । १०३ रुद्राक्षमुपवीतं च उष्णीषं चोत्तरीयकम् । भस्मापि शुद्धशैवानां पञ्चमुद्राः प्रकीर्तिताः ॥ १०४ शैववेष इति ख्यातं शैवभेद इति स्थितम्। शुद्धशैवं तथा मुख्यं चतुष्पाद् प्रणवान्तकम् ॥ १०५ त्रिवेदं कर्मकाण्डार्थं तत्सर्वं वेदरूपकम् । अन्तरं परजीवात्मद्वयोरैक्यं परात्परम् ॥ १०६ तत्संप्रदायसिद्धयर्थं दशावश्थाविवेचकम् । तत्तत्सन्मार्गसिद्धयर्थं तत्तत्सन्मार्गसाधनम् ॥ १०७ तत्तद्विद्या महाविद्या तद्वेदान्तविधिस्थिता । वेदान्तं शैवसिध्दान्तं द्वयोरैक्यं शिवात्परम् ॥ १०८ शुद्धशैवं सवसंवेद्यं शुद्धसन्मार्गरूपकम् । १०९आ परात्परात्परोत्पन्ना पराशक्तिस्तदुद्भवा । इच्छा ज्ञानक्रियाशक्तिस्तत्पराशक्तिसम्भवा ॥ ११० बिन्दुशक्तयुद्भवा माया मोहिनी मोहकारणम् । ज्ञानेच्छास्वक्रियामध्ये शिवशक्तिसदाशिवम् ॥ १११ नादबिन्दुविभेदोक्त षट्तत्त्वं तत्प्रकाशितम् । सदाशिवान्महेशस्य मध्ये रुद्रोद्भवं तथा ॥ ११२ रुद्रोत्पत्तिर्यथा विष्णुस्तथा चोत्पन्न आत्मभूः । सृष्टिकालविधानोक्तं सर्वतत्त्वंप्रकाशितम् ॥ ११३ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । बिन्दुनादद्विधाशक्ति ॥॥॥ पर परात्परम् ॥ ११४ सृष्टयादि पञ्चकृत्यर्थं ब्रह्मादि देवसम्भवम् । आत्मनः रवं ततो वायुः वायोरग्निः ततो जलम् ॥ ११५ पञ्चानामपि भूतानां द्विधा कृत्वा पृथक् पृथक् । तत्र यत्पंचधैकांशं प्रत्येकं तच्चतुर्विधम् ॥ ११६ पुनः कृत्वा विना स्वांशं चतुष्र्वन्येषु योजनम् । तथा चांशसमाधिक्यात् तत्तदाख्या व्यवस्थितिः ॥ ११७ इत्येवं पंचभूतोत्थं शरीरं भुवनादिकम् । ११८आ सत्वं रजसतमोभेदाद्भूतान्यत्र त्रिधा पुनः । जातानि सत्वभूतेभ्यः पंचज्ञानेन्द्रियाणि च ॥ ११९ श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमित्यथ पंच च । दिग्वाय्वर्कंजलाध्यक्षाश्विनस्तत्राधिदेवताः ॥ १२० मानोबुद्धिरहङ्कारश्चित्तं चैति चतुष्टयम् । भूतेभ्यः सात्विकेभ्योऽभूत क्रमात्तत्राधिदेवताः ॥ १२१ राजसेभ्यस्तु भूतेभ्यो भवेद्वागादिपंचकम् । वाक्पाणिपादसंज्ञानि पायूपस्थौ तु देवताः ॥ १२२ अग्नीन्द्रोपेन्द्रमृत्युश्च क्रमादेव प्रजापतिः । एतेभ्यश्चैव भूतेभ्यः प्राणाद्याः पंच वायवः ॥ १२३ प्राणोऽपानस्तथा व्यान उदानश्च समानकः । पंचीकृतानि भूतानि तमोभूतोद्भवानि वै ॥ १२४ पुनश्च कुत्रचिच्छ्रोत्रादिचतुर्दशकरणानामधिपतयः । दिक्वातार्कप्रचेता ।… …। इन्द्रोपेन्द्रमृत्युकाः ॥ १२५ चन्द्रो विष्णुः चतुर्वक्त्रः शङ्करश्चेति निश्चिताः । १२६आ अग्नीन्द्रोपेन्द्रमित्रश्च क्रमादेव प्रजापतिः । तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥ १२७ पृथिव्यप्तेजसी वायुराकाशं भूतपंचकम् । ब्रह्मा विष्णुस्ततो रुद्र ईश ईशानकारणम् । १२८ शब्दादिपंचतन्मात्रे आकाशादिसमुद्भवम् । आकाशाद्वायुरुत्पन्नो वायव्ये दहनोद्भवम् ॥ १२९ दहने जलमुत्पन्नं जले मेदिनिसंभवम् । पञ्चेन्द्रियग्रहावस्थाः पुरुषस्तत्त्वं उच्यते ॥ १३० अस्थि मांसत्वचं मेदो रोम मेदिनिपंचकम् । अन्न प्राणमनो विज्ञान आनन्दैः पञ्चकोशकम् ॥ १३१ जाग्रत्स्वप्न सुषुप्तं च तुर्यातीतं च पञ्चकम् ॥ १३२आ इडा च पिङ्गला चैव सुषुम्ना च तथैव च । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ १३३ अलम्बुषा कुहूश्चैव शङ्खिनी दश नाडिकाः । तत्र देहे समाख्यातं सूर्य सोमाग्नि मण्डलम् ॥ १३४ आणवादिमलं त्रेधा सात्विकादि गुणास्त्रिधा । १३५आ पंचविंशतिः पुरुषः परस्परं च व्योमकम् । व्योमातीताष्टविंशतिरित्येवं तत्वनिर्णयम् ॥ १३६ मूलप्रकृतिरव्यक्तं अव्यक्तात् तु महान्भवेत् । व्यक्ते चित्तं तदुत्पन्नं चिन्तितं चित्तरूपकम् ॥ १३७ सर्ववेदागमार्थस्य यत्सारंतत्परात्परम् । यत्तत्वं तत्पराकारं परबिन्दूद्भवं ततः ॥१३८ परात्परादि नादान्तं द्वादशं तत्वमुच्यते । परात्परात्परोत्पन्ना पराशक्तिस्तदुद्धवा ॥१३९ इच्छाज्ञानक्रियाशक्तिस्तत्पराशक्तिसम्भवा । ज्ञानेच्छास्वक्रियामध्ये शिवशक्तिसदाशिवम् ॥ १४० नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् । सदाशिवान्महेशस्य मध्ये रुद्रोद्भवं तथा ॥ १४१ रुद्रोत्पत्तिर्यथा विष्णुस्तथा उत्पन्न आत्मभूः । सृष्टिकालाविधानोक्तं सर्वतत्वप्रकाशितम् ॥ १४२ तन्मध्ये द्रुहिणादीनां चतुष्कं सकलोद्भवम् । सादाख्यं बिन्दुनादोक्तं सकलकलामुच्यते ॥ १४३ शिवं शत्किपरं त्रीणि परात्पर चतुर्थकम् । इच्छाज्ञानक्रियात्मानं नि ॥॥ कीर्त्यंते ॥ १४४ त्रिवर्गविस्तीर्णम (ध्य) (स्ंय) स्थे आत्मविद्याशिवत्रयम् । षट्त्रंशत्तत्वभेदोक्तं तन्त्राण्युद्भवसाधनम् ॥ १४५ एकान्ते अवश्तितश्चासौ शिवशक्ति समन्वितः। १४६आ शिवं परात्परं सूक्ष्मं नित्यं सर्वगताव्ययम् । अनिन्दितमनौपम्यमप्रमेयमनामयम् ॥ १४७ शुद्धत्वाच्छिवमुद्दिष्ट परादूर्ध्वंपरात्परम् । परात्पराशक्तिरुत्पन्ना ज्ञानशक्तिस्तदुद्भवा ॥ १४८ शिवमध्यगतं शान्तं शान्त्यतीतं परात्परम् । १४९आ अकारश्व उकारश्व मकारो बिन्दुरेव च । अर्धचन्द्रनिरोधी च नादान्त एव च ॥ १५० शक्तिश्व व्यापिनी चैव व्योमरूपा तथैव च । अनन्ता च तथाऽनाथाऽनाश्रिता समना तथा ॥ १५१ उन्मना च तदन्तश्च पराशक्तिः परान्तकम् । परशिवं तदन्तश्च शाम्भवं गुरुपादुका ॥ १५२ शिवः शाम्भव इति ज्ञेयो द्वाविंशद्भेद उच्यते । शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥१५३ परान्ताटादश प्रोक्ता उन्मन्यन्ते तु षोडश । १५४ बिन्दुतत्त्वं तथा मध्ये वैखर्यादि समुद्भवः । वैकरी मध्यमा चान्या पश्यन्ती सूक्ष्मसंज्ञिता ॥ १५५ व्योम वागीश्वरी संज्ञा पञ्चशक्तिसमुद्भवा । अतिसूक्ष्मा तथा भेद चतुर्णामपि कारणम् ॥ १५६ बैन्दवं कुण्ठलीव्याप्त बिन्दुनादोदयोदितम् । बैन्दवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ १५७ बिन्दुनादकलामध्ये अकारादिसमुद्भवम् । अकारोकारमकारथ बिन्दुनादत्रिपञ्चमम् ॥ १५८ कलाध्वा मध्यमे भागे पंचाध्वा चैवमुद्भवम् । अकारे बैखरी जाता उकारे मध्यमोदिता ॥ १५९ मकारे पश्यन्ती जाता बिन्दौ सूक्ष्मा तथोदिता । नादाचैवातिसूक्ष्मा वाकू जाता पंचकलोदिता ॥ १६० निवृत्यादि कलारूपा अकारादिकलोदिता । षट्त्रिंशत्तत्वसंभिन्ना कुटिलाशक्तिरुद्भवा ॥ १६१ कुटिला कुण्डली व्याप्ता कुण्डली प्रणवोदिता । जाता कुण्डलिनी शक्तिर्माया कर्मानुसारिणी ॥ १६२ नादबिंन्द्वादिकं कार्य तस्या इति जगत्स्थितिः । कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदिता ॥१६३ परात्परादि नादान्तं द्वादशं तत्वं उच्यते । १६४आ क्षित्यादि कुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् । शिवेच्छया कुटिलोत्पन्न नादतत्वं प्रधानकम् ॥ १६५ नादमध्योदितो बिन्दुः शिवशक्तयर्थनामकः । नादे तु ज्ञानमुत्पन्न कालेन शिवतत्वकम् ॥ १६६ बिन्दुक्रियासमुत्पन्नः कालो नाम स्वशक्तिकम् । ज्ञानक्रियासमावेशं सादाख्यं तत्वमुच्यते ॥ १६७ ज्ञानन्यूनं क्रियाधिक्यं महेशस्तत्वविग्रहः । ज्ञानाधिक्यं क्रियान्यून शुद्धविद्या प्रकाशिता ॥ १६८ शुद्धविद्यशसादाख्यं बिन्दुनादं च पंचकम् । शिवतत्वमिति प्रोक्तं बैन्दवं तत्र कारणम् ॥ १६९ बिन्दुशक्तयुद्भवं माया मोहिनी मोहकारणम् । मायोत्पन्नस्तथा कालस्त्रिकृत्यर्थविभेदकः ॥ १७० कालस्योत्पन्ननियतिर्यत्तु कर्मसु निश्चयः । कला नियतिरुत्पन्ना किंचि ॥॥ ॥॥ १७१ कलोत्पन्ना तथा विद्या नानाज्ञानोद्भवात्मिका । रागोऽपरितौषार्थं तु विद्या तत्वे च षष्टकम् ॥ १७२ विषयग्रहणे काले पुरुषः पञ्चकंचुकः । अविद्यातत्वमवव्यक्तकाले मूलप्रकृत्यर्थकम् ॥ १७३ मूलप्रकृतिरव्यक्तं व्यक्तं चित्तं महान्त्रिधा । पुरुषः कंचुको बुद्धिरष्टप्रकृतितत्वकम् ॥ १७४ अष्टप्रकृतयस्तत्वसूक्ष्मपुर्यष्टकं तथा । मायायुक्तं तद्व्यक्तं तद्व्यक्तं तु महानिति ॥ १७५ व्यक्ते तु चिन्तितं चित्तं बुद्धिर्निर्णयरूपिका । बुद्धिमध्ये ह्यहङ्कारमुद्भूतं तत्तृतीयकम् ॥ १७६ अहङ्कारे गुणोत्पन्नं तस्मात्सत्वं रजस्तमः । तत्त ॥॥ ॥॥ तेजसाहन्ता मध्ये मानसमुद्भवम् ॥ १७७ ज्ञानकर्मेन्द्रियाकारं वैखर्यन्तं द्वयोद्भवम् । शब्दादि पञ्चतन्मात्रं भूताहन्ततयोद्भवम् ॥ १७८ शब्दादिपञ्चतन्मात्रे आकाशादिसमुद्भवम् । आकाशाद्वायुरुत्पन्नो वायव्ये दहनोद्भवः ॥ १७९ दहने जलमुत्पन्नं जले मेदिनिसम्भवः । अन्तर्यामी तथा मुख्यः प्रपञ्चो वै रवस्तथा ॥ १८० भूतवर्णं च कोशं च बाह्या वै पञ्चविंशतिः । आभ्यन्तरं पञ्चविंशद्वातिभेदाश्चतुर्दश ॥ १८१ मलत्र्यं गुणास्त्रीणि आधारषट्कमात्मनः । अवस्थापञ्चकं चैव तत्वं षण्णवतिस्तथा ॥ १८२ तत्वनिर्णयसिद्धान्तं श्रृणु हैमवतीश्वरि । आत्मतत्वं चतुर्विशदात्ममध्ये लयोदितम् ॥ १८३ विद्यातत्वं तथा पंच मायामध्ये लयोदितम् । शिवतत्वं तथा पंच नित्यं सत्यस्य साधनम् ॥ १८४ शुद्धविद्यशसादाख्यं बिन्दुनादे लयोदितम् । बिन्दुनादं द्विधा तत्वं कुटिलायां लयोदितम् ॥ १८५ कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदितम् । इच्छाज्ञानक्रियाशक्तेः सर्वत्र जगदुद्भवः ॥ १८६ इच्छाज्ञानक्रियाशक्तिः पराशक्तिलयोदितम् । परापरविधाशक्तिः शिवतेजोमयोदितम् ॥ १८७ शिवमत्यन्तसंभिन्ने जातनाशविनाशनम् । अणौ महति तद्व्याप्तं सर्वात्मनां लयः प्रभुः ॥ १८८ जगच्छक्तिमयं व्याप्तं जगच्छक्तिमयं शिवम् । जगदुत्पद्यते शक्तेः शक्तिस्तु परमः शिवः ॥ १८९ एवं तत्वलयं सूक्षममेकं तत्वप्रवर्तकम् । एवं तत्वविधानोक्तमेवं तत्वस्य निर्णयं ॥ १९० आत्मतत्वं चतुर्विशदात्ममध्ये लयोदितम् । विद्यातत्वं तथा पंच (?) मायामध्ये लयोदितम् ॥ १९१ मूलप्रकृतिरव्यक्तं व्यक्तं चित्तं महान्त्रिधा । १९२आ पुरुषः पंचकंचुक इत्यर्थं तत्वमुद्भवम् । पुरुषः कंचुको बुद्धिरष्टप्रकृतितत्वकम् ॥ १९३ अष्टप्रकृतयस्तत्वसूक्ष्मपुर्यष्टकं तथा । बिन्दुशक्त्युद्भवं माया मोहिनी मोहकारणम् ॥ १९४ क्षित्यादिकुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् । शिवेच्छया कुटिलोत्पन्न नादतत्वं प्रधानकम् ॥ १९५ विद्यातत्वं तथा पञ्च मायातत्वे लयोदितम् । शिवतत्वं तथा पञ्च नित्यं सत्यस्य साधनम् ॥ १९६ अशुद्धं भोगखण्डं च आत्मतत्त्वस्य नामकम् । मिश्रं भोजयितृ खण्डं विद्या तत्त्वार्थनामकम् ॥ १९७ प्रेरकं शुद्धखण्डं च शिवतत्त्वस्य नामकम् । शुद्धविद्यशसादाख्यं बिन्दुनादे लयोदितम् ॥ १९८ बिन्दुनादं द्विधा तत्वं कुटिलामध्ये लयोदितम् । कुटिला कुण्डली बिन्दुरिच्छाज्ञानक्रियोदिता ॥ १९९ सृष्टिकाले त्रिबिन्द्वर्थे त्रिकोणाकारसम्भवम् । तन्नादादिधरण्यन्तं षट्त्रिंशत्तत्वरूपकम् ॥ २०० क्षित्यादिकुटिलान्तं तु षट्त्रिंशत्तत्त्वरूपकम् । २०१आ मूलाधारं चतुष्पत्रं तन्मध्ये वशषस्थजम्? । तन्मध्ये कुटिलाकारं त्रिकोणाकारसम्भवम् ॥ २०२ नाडीमूला वृताङ्गा हि कुण्डली हंसनिस्वना । कुण्डल्याकारमध्यस्थे प्राणं प्रणवसम्भवम् ॥ २०३ यथा कुण्डलिनी शक्तिमयाकर्मानुसारिणी । नादबिन्द्वादिकं कार्यं तस्या इति जगत्स्थितिः ॥ २०४ नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् । पृथ्व्यादिकुटिलान्तं तु तत्वं कुण्डलिनोदयम् ॥२०५ नादबिन्दुविभेदोक्तं षट्तत्वं तत्प्रकाशितम् । अकारोकारमकारश्च बिन्दुनादस्तदन्तकम् ॥ २०६ षट्कालशक्तिमध्यस्थे वैखर्यादिसमुद्भवम् । बैन्दवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ २०७ बिन्दुनादकालमध्ये अकारादिसमुद्भवम् । निवृत्यादिकलारूपा अकारादिकलोदिता ॥ २०८ पंचकृत्यं तदाकारं पंचवागवृत्तिकारणम् । पंचमाक्षरसंभिन्न सर्व बैन्दवमुद्भवम् ॥ २०९ अध्वषट्कमिति प्रोक्तं सर्वं पंचकलामयम् । बिन्दुमध्ये तथा नादंबिन्दुनादद्वयोदितम् ॥ २१० बिन्दुनादस्तथा मध्ये निवृत्यादिकलोदयम् । निवृत्यादिकलामध्ये वैखर्यादिसमुद्भवम् ॥ २११ वैखरी मध्यमा चान्या पश्यंती सूक्ष्मसंज्ञिका । तथा वागीश्वरी संज्ञा पञ्चशक्ति समुद्भवा ॥ २१२ अतिसूक्ष्म तथा भेद चतुर्णामपि कारणम् । वेखरी श्रोत्र विषया सविकल्पा तु मध्यमा ॥ २१३ निर्विकल्पा तृतीया च आसां कारण अन्तिमा । महा सूक्ष्मा बोधरूपा इति वाक् पञ्चमोद्भवाः ॥ २१४ नादाच्चैवाति सूक्षम जाता पञ्च कलोदिता । वैन्दवस्थानमध्यस्थे इच्छाज्ञानक्रियोद्भवम् ॥ २१५ विज्ञानादित्रयोत्पन्नमीशानक्रियोद्भवम् । कारकत्रयसभ्भिन्नं तत्वत्रयसमुद्भवम् ॥ २१६ कारत्रयसम्बनधादधः सर्वसमुद्भवम् । बिन्दुभेदमिति प्रोक्तं तद्भेदं पञ्चविंशतिः ॥ २१७ चतुर्विंशत्तथाभेदं नादरूपं कलामयम् ॥ २१८आ सूक्षमवाग्भवभेदं वाग्रूपं शक्तिषष्ठकम् । व्योमा बागीश्वरी श्क्तिः पञ्चवाहक्रमादिकम् ॥ २१९ उत्तर्रानुत्तरव्याप्तं पुर्वपश्चम ऊर्ध्वकम् । दिशः पञ्च तथा शक्तिरुद्रत्वं व्योमशक्तितः ॥ २२० तत्र कुण्डलिमध्ये तु नादबिन्दुद्वयोद्भवम् । तत्र कुण्डलिमध्ये तु अपराख्या परापरा ॥ २२१ मायायुक्तं तदव्यक्तं तद्व्यत्तं तु महानिति । आणवे जायते माया मायायां कालसम्भवः ॥ २२२ आणवं कुटिला शक्तिर्मायातत्वमयोदितम् । आणवान्माययोत्पन्नं तद्गुणं तु प्रकाशकम् २२३ माया कुण्डलिनी व्याप्तं जगदेतद्च्चराचरम् । आणवान्तर्गतं तत्वं बिन्दुनादकलात्मकम् ॥ २२४ शिवतत्वमिति प्रोक्तं प्रेरकं तदिहोच्यते । नादमध्योदितो बिन्दुः शिवशक्त्यर्थनामकम् ॥ २२५ षट्त्रिंशत्तत्वसंभिन्ना कुण्डली शक्तिरुद्भवा । कुटिला कुण्डिली व्याप्ता कुण्डली प्रणवोदिता ॥ जाता कुण्डलिनी शुक्तिर्मायाकर्मानुसारिणी ॥ २२६ नानावेदागमाद्यर्थ नानाशास्त्रार्थदर्शनम् । नानाशब्दप्रवाहार्थं बैन्दवः खल्विहोदितः ॥ २२७ बैनदवं कुटिला व्याप्तं बिन्दुनादोदयोदितम् । बैनदवं तत्वमध्यास्ते बिन्दुनादकलोदितम् ॥ २२८ बिन्दुनादकलामध्ये अकारादिसमुद्भवः । अकारोकारमकाराश्च बिन्दुनादत्रिपञ्चकम् ॥ २२९ कलाध्वा तन्मध्यमे भागे पढ्चाध्वा चैवमुद्भम् । अकार बैखरी जाता उकारे मध्यमोद्भवा ॥ २३० मकारे पश्यती जाता बिन्दो सूक्ष्मा तथोदिता । नादाज्जातातिसूक्ष्मा वाक् वाक् पंचमकलोदिता ॥ २३१ चिच्छक्तिर्ज्ञानपरा चिच्छत्तिः कुण्डली परा । तत्क्रियाशक्तिकरूपत्वं चिदचिद्बैन्दवं तथा । इच्छाशक्तिर्बैन्दवं तच्चिदचिन्मिश्रकैरिति ॥ २३३ इच्छाज्ञानक्रियाशक्तेः सर्वत्र जगदुद्भवः । इच्छाज्ञानक्रियाशक्तिः पराशक्तिलयोदितम् ॥ २३४ पराऽपरा द्विधा शक्तिः शिवतेजोमयोदिता । शिवमत्यन्तसंभिन्नं जातनाशविनाशनम् ॥ २३५ अणौ महति तद्वयाप्तं सर्वात्मनां लयः प्रभु- ॥ २३६आ बिन्दुशक्त्योद्भवं माया मोहिनी मोहकारणम् । शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥ २३७ पृथिव्यादिशिवान्तानि षट्त्रिंशत्तत्वसाधनम् । तन्मध्ये बिन्दुतत्वार्थे त्रिकोणगुणसम्भवम् ॥ २३८ तदग्रोभयकोणैश्र विज्ञानादि त्रिसाधनाम् ॥ २३९ बिन्दुर्भिद्यति नादेन तत्काले त्रीण्यणूद्भवम् । अनादिकाले क्रियात्मानं कुटिला कुण्डलिनी स्थितम् ॥ २४० बिन्दुशक्तिविभेदांशे बैन्दवं भावमाचरेत् । तत्काले मलसम्बन्धं तत्सृष्ट्यादि तथोदितम् ॥२४१ विज्ञानात्मा चतुर्थश्च प्रलयात्मा त्रिभेदकः । सकलात्मा त्रिभेदश्च तस्मात्त्रेधा दशा विधाः ॥ २४२ अनाद्यं कुटिला व्याप्तं पाशः पंचमलोदितः । नादबिन्दुद्धये नाशे भवे ॥॥॥॥। पंचकम् ॥ २४३ शक्तिमध्यस्थ इच्छाज्ञानादिकोद्भवम् ? । २४४‌आ आत्मना क्रियया बद्धं यतद्बिन्दुस्वरूपकम् । ज्ञानक्रियासमप्राप्तं सादाख्यं तत्वसम्भवम् ॥ २४५ ज्ञानन्यूनं क्रियाधिक्यं तत्वमीश्वरकारणम् । क्रियान्यूनाधिकं योगं रुद्रांशं शुद्धपंचकम् ॥ २४६ एवमात्मनि सम्भिन्नमाणवे ग्रन्थिरुद्भवः । आणवान्तर्गतं तत्वं बिन्दुनादकलात्मकम् ॥ २४७ बिन्दोर्विवेके सहसाच्छिद्यते मलकम्बुकम् । मायाविवेके तु यथा धर्माधर्मतुषक्षयः ॥ २४८ रुद्राणुरुक्तः प्रकृतेर्विवेके भार्गवागमे । निवृत्यादि पंचमांशे षडध्वोत्पतिसम्भवः ॥ २४९ शिवशक्तिर्द्विधा तत्र शिवादन्या चिदात्मिका । जडात्मिका शिवादन्या जगत्कारणरूपिणी ॥ २५० यथा स्वतः शुभ्रः पटः धौतः । अन्नलिप्तो घट्टितः । मष्याकारयुक्तो लाञ्छितः । वर्णपरिपूरितो सञ्जितः । इत्यवस्था चतुष्टयमेकस्यैव चित्रपटस्य । तथा परमात्मा मायातत्कार्योपादिरहितः । शुद्धमायोपहितः ईश्वरः । अपंचीकृतभूतकार्यसमष्टिसूक्ष्मशरीरोपहितो हिरण्यगर्भः । पंचीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट्पुरुषः । इत्यवस्थाचतुष्टयमेकस्यैव परमात्मनः । अस्मिश्वित्रपटस्थानीये परमात्मनि चित्रस्थानीयस्थावरजङ्गमात्मको निखिलः प्रपंचः । यथा चित्रार्पितमनुष्याणां, चित्राधारवस्त्रसदृशा वस्त्राभासा लिख्यन्ते तथा परमात्माध्यस्तदेहिनां अधिष्टानचैतन्यसदृशाः चिदाभासाः कल्प्यन्ते । ते च जीवनामानः संसरन्तीति । अध्यात्मं तु विश्वतैजसप्राज्ञभेदेन त्रीणि रूपाणि । तत्र सुषुप्तौ विलीनेऽन्तःकरणे अज्ञानमात्रसाक्षी प्राज्ञ आनन्दमय इहोक्तः । स्वप्ने समष्टिसूक्ष्मशरीराभिमानी तैजसः जागरे व्यष्टिस्थूलशरीराभिमानी विश्वः । तत्र माण्डूक्यश्रुतिः । अहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजसप्राज्ञतुर्यावस्थाभेदरूपं पादचतुष्ट्यं सोऽयमात्मा चतुष्पात् इत्युपक्षिप्य पूर्वपूर्वपादप्रविलापनेन निष्प्रपंचब्रह्मात्मक तुरीयपादप्रतिपत्तिसौकर्याय स्थूलसूक्ष्मसूक्ष्मतरोपाधीन् विराडादीन् विश्वादिष्वन्तभाव्य जागरितस्थानो बहिःप्राज्ञः इत्यादिना विश्वादिपदानि न्यरूपयत् । अतः प्राज्ञशब्दे आनन्दमयेऽव्याकृतस्येश्वरस्यान्तर्भावं विक्षितत्वात्तत्र सर्वेश्वरत्वादितद्धर्मवचनमिति । इत्थमेव भगवत्पादैगौडपादीयविवरणे व्याख्यातम् । दृग्दृश्यविवेके तु चित्रदीपव्युत्पादितं कूटस्थं जीवकोटौ अन्तभार्व्य चित्रत्रैविध्यप्रक्रियैवावलम्बिता इति विशेषः । तत्र मुक्त जलाशयतरङ्गबुद्वदन्यायेन उपर्युपरि कल्पनाज्जीवस्त्रिविधः पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति । तत्रावच्छिन्नः पारमार्थिकः जीवः तदवच्छेदकस्य कल्पितत्वेन ब्रह्मणोऽभिन्नत्वात् । तमावृत्य स्थितया मायया कल्पितेऽन्तःकरणे चिदाभासोऽन्तःकरणतादात्मम्यापत्या अहमित्यभिमन्यमानो व्यावहारिकः । तस्य मायिकत्वेऽपि यावद्व्यवहारमनुवृत्तेः स्वप्ने तमप्यावृत्य स्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वप्नदेहादौ अहमित्यभिमानी प्रातिभासिकः । स्वप्नप्रपञ्चेन सह तद्दृष्टस्य जीवस्यापि प्रबोधे निवृत्तेरिति । क्कचिच्चैतन्यं सप्तधा भिद्यते इत्युच्यते । शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ २५१ सप्तधा भिद्यते चैवं चैतन्यं व्यावहारिके । मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ २५२ मायासम्बन्धकांशोऽयं जीवो विद्यावशस्तथा । अन्तः करणसम्बन्धः प्रमातेत्यभिधीयते ॥ २५३ तदा तद्वृत्तिसम्बन्धः प्रमाणमिति कथ्यते । विषयागत चैतन्यं प्रमेयमिति कथ्यते ॥ २५४ इटानिष्टफलावाप्तौ फलचैतन्यमुच्यते । इति २५५आ त्वं पदमात्मरूपं तु तत्पदं परमात्मनः । असिपदं तयोरैक्यमेवं तत्वमसिक्रमः ॥ २५६ असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् । २५८आ जीवावस्था परावस्था शिवावस्थावसान्तकम् । नवतत्वं नवावस्था नवावस्थान्तगः शिवः ॥ २५८ ब्रह्मा विष्णुश्च रूद्रश्च ईश्वरश्च सदाशिवः । परबिन्दुः परो नादः पराशक्तिः परः शिवः ॥ २५९ नवतत्वलयस्थाने नृत्तानन्दमयो गुरुः । नृतानन्दपराविद्या नृतान्तं वागगोचरम् ॥ २६० एकैकविषयग्राह्यावस्थः पुरुषतत्वकः । त्रिखण्ड जीवब्रह्मार्थमेकोभावस्थितः ॥। ॥ २६१ ॥॥ संशयतः प्राज्ञा तदात्मा परसंस्थितः । तत्कालपरनामानि तत्तत्तत्वस्य कारणम् ? ॥ २६२ तत्प्रज्ञाभावसंसिद्धं शुद्धकेवलसंस्थितम् । परमे व्योम्नि सिद्ध्यर्थं जीवन्मुक्तिप्रकाशकम् ॥ २६३ तत्प्रकारस्वचैतन्यं परमात्मन्यवस्थितम् । परावस्थाप्रकाशस्तु अवस्थातीतगोचरम् ॥ २६४ आकाशशरीरं ब्रह्म तुर्यातीतं परं शिवम् । अणुर्महत्वं तद्व्याप्तं जीवात्मपरयोदितम् ॥ २६५ एतदर्थं तदर्थं च तत्परं परमं पदम् । विश्वग्रासपरं गुह्यं सर्वात्मशिवमुद्भवम् ॥ २६६ तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं व्याप्तिसम्भवम् । तच्छिवावस्थितं शान्तं शान्त्यतीतं परात्परम् ॥ २६७ ॥॥ ज्ञप्तितः प्राप्तं परजीवैक्यसाधनम् । आत्मा परशिवश्चैते त्रिपदार्थस्त्रिचैतनाः ॥ २६८ आत्मजाग्रं परजाग्रं शिवजाग्रं त्रिजाग्रकम् । आत्मस्वप्नं परस्वप्नं शिवस्वप्नं त्रिस्वप्नकम् ॥ २६९ आत्मसुप्तिः परसुप्तिः शिवसुप्तिस्त्रिसुप्तिकम् । आत्मतुर्यं परतुर्यं शिवतुर्यं त्रितुर्यकम् ॥ २७० एवं द्वादशधा भिन्नं दशावस्थाः प्रकल्पिताः । जाग्रज्जाग्रं जाग्रत्स्वप्नं जाग्रत्सुषुप्तिस्तृतीयकम् ॥ २७१ जाग्रतुर्यं चतुर्थच तत्कालपरपञ्चमम् । विश्वग्रासाष्टमं चैव उपशान्तो नवस्तथा ॥ २७२ शिवभ्रष्टा दशं चैव इत्यावस्था दशोरिताः ॥ २७३आ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्व बोधी न विद्यते ॥ २७४ परात्परतरं ज्ञेयं गुरुरूपं प्रकाशकम् । गुरुत्पन्न शिवं साक्षाच्छिवोत्पन्न ब्रह्म व्योमकम् ॥ २७५ व्योमोत्पत्तिः परमात्मा परमोत्पत्तिरात्मनः । आत्मनोत्पत्तिरव्यक्तमव्यक्ताज्जायते महान् ॥ २७६ महतोत्पत्तिरहङ्कारः अहङकारे गुणत्रयम् । गुणत्रये क्रियामूर्तिर्मूर्त्यर्धे तुजगत्त्रयम् ॥ २७७ जगन्मध्ये सर्वयोनिर्योनिमध्ये चराचरम् । बिन्दुर्भिद्यति नादेन तत्काले त्रीण्यणूद्भवम् ॥ २७८ अनादिकाले त्रिधात्मानं शक्तिभेदोदयं भवेत् । अनादिकाले क्रियात्मानं कुटिला कुण्डलिनां स्थितम् ॥ २७९ अष्टाविंश ॥॥ तत्ववाद वेदान्तपक्षकम् । अनादिकाले क्रियात्मानं कुटिला कुण्डलिनां स्थितम् ॥ २८० बिन्दुशक्तिबिभेदोशे बैन्दवं भावमाचरेत् । तत्काले मलसम्बन्ध तत्सृष्टयादि तथोदितम् ॥ २८१ अकारश्च उकारश्च मकारो बिन्दुरेव च । अर्धचन्द्रनिरोधी च नादो नादान्त एव च ॥ २८२ शक्तिश्च व्यापिनी चैव व्योमरूपा तथैव च । अनन्ता च तथानाथा नाश्रिता समना तथा ॥ २८३ उन्मना च तदनन्दश्च पराक्तिः परान्तकम् । परशिवस्तदन्तश्च शाम्भवं गुरुपादुका ॥ २८४ शिवः शाम्भव इति ज्ञेयो द्वाविंशद्भेद उच्यते । २८५आ सर्वावस्थाविनिर्मुक्तं गुरुरूपं परात्परम् । गुह्यं च शाम्भवं द्वेधा गुह्यागुह्यां परात्परम् ॥ २८६ अवस्थापरमिदं प्रोक्त श्रृणु देवि वरानने । अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिक ॥ २८७ केवलः सकलः शुद्धः अवस्था त्रिविधा मता । चतुर्थका चतुर्या च जाग्रातीतं च स्वप्नका ॥ २८८ तुर्यजाग्रामतीतं च जाग्रतुर्यः सुयोनकम् । अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिक ॥ २८९ शरीरमर्थं प्राणांश्व सद्गुरुभ्यो निवेदयेत् । दीर्घदण्डनमस्कारं नित्यं स्याद्गुरुसन्निधौ ॥ २९० पश्चात्तिष्ठेच्च तत्प्रोक्तं शिवहस्तस्थिरं भवेत् । करुणा दर्शिनी भावात्पुण्यपापद्व्यं हरम् ॥ २९१ श्रीपदं शिरसाऽराध्यं सोऽहमस्मीति भावयेत् । जीवन्मुक्तिः परामुक्तिस्तत्र संभावना द्वयम् ॥ २९२ शिवोऽहमस्मीति संचिन्त्य शिवज्ञानं प्रकाशितम् । शिवज्ञानं महाज्ञानं सोऽहमस्मीति भावितम् ॥ २९३ तत्पदं परमं गुह्यं तत्पदं परमं गुहा । तत्पदं परमं तत्वं तत्पदं सत्यशाम्भवम् ॥ २०४ तत्पदं परमं विद्यातत्पदं परमं गुरुम् । प्राक्पदं तत्पदं प्रोक्तं तस्मिन्सर्वं प्रतिष्ठितम् ॥ २९५ तत्पदं परमव्यक्तं शुद्धशैवमिति स्मृतम् । त्वंपदमात्मरूपं तु तत्पदं परमात्मनः ॥ २९६ असिपदं तयोरैक्यमेवं तत्वमसिक्रमम् । असिरूपं शिवरूपं द्वयोरैक्यं प्रकाशितम् ॥ २९७ तथा बद्धः स्थितः पाशैः यथा बद्धः तथा नरः । सर्वोपाधि विनिर्मुक्तं तत्पदार्थप्रकाशकम् ॥ २९८ पाशबद्धः तथा जीवः पाशमुक्तः तदा शिवः । त्वं पदं तु अशुद्धयर्थं सर्वोपाधिसमन्वितम् ॥ २९९ उपाधिशून्य जीवात्मा ॥॥ र्थस्य शुद्धिमान् । तत्सर्वं देहयोर्व्याप्तं जगदेतत् चराचरम् ॥ ३०० त्रिपदं त्रीणि खण्डान्यकारोकारमकारकम् ? । तुर्यगण्यः स्तथोबिन्दुरकारादिजमादिकम् ? ॥ ३०१ तुर्यातीतस्तथा नादो नादान्तं परमं पदम् । जाग्रत्स्थाने तथा पञ्च पञ्चावस्थाः परः शिवः ॥ ३०२ बिन्दुनादकलान्तस्थं समनाशक्तिरुद्भवम् । समनान्तं सर्वतत्वं विद्यादध्यर्थकारणम् ॥ ३०३ समनान्तं पाशजालमुन्मन्यन्ते परः शिवम् । परशिवस्तत्पराकारं परा ॥॥ ॥॥ शीरकम् ॥ ३०४ व्योमाकारं महाशून्यमनन्तं गुरुरूपकम् । परात्परतरंज्ञेयं गुरुरूपं प्रकाशकम् ॥ ३०५ श्रुणु देवि वरारोहे त्वंपदं त्वात्मरूपकम् । आत्मरूपं तथाभेदं त्रिविधं पाशबन्धकम् ॥ ३०६ आणवं मायया रूपं काम्यं मायेयकं त्विति । तिरोधानकराः पञ्च मलाः पाशं यदात्मनः ॥ ३०७ जगच्चित्रं समालिख्ये स्वात्मकूलिकयात्मनि । स्वयमेव समालिख्य प्रीणाति परमेश्वरः ॥ ३०८ त्वं तदस्येति तन्मध्ये मोचनं शुद्धमात्मनः । तत्वमस्येति यद्वाक्यं सोऽहमस्मि प्रभावितम् ॥ ३०९ त्वंपदमात्मरूपं तु तत्पदं परमात्मनः । असि पदं तयोरैक्यमेवं तत्वमसिक्रमम् ॥ ३१० असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् । पाशबद्धस्तथा जीवः पाशमुक्तस्तदा शिवः ॥ ३११ त्वं पदं तु अशुद्धयर्थं सर्वोपाधिसमन्वितम् । उपाधिशून्यजीवात्मा ॥॥ र्थस्य शुद्धिमान् ॥ ३१२ तत्सर्वं देहयोर्व्याप्तं जगदेतच्चराचम् । ३१३आ त्रिधात्मत्वं पदव्याप्तं त्रिधात्मत्वमवस्थितम् । त्रिधात्मासि पदं प्राप्तं नवात्मभेदमिति स्थितम् ॥ ३१४ त्रिपादी शोधनं प्रोक्तं लक्षणा च त्रिधा स्थिता । जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा त्रिधा ॥ ३१५ त्रिपादाः शुद्धयो ज्ञेयास्त्रिपदार्थस्वशोधनम् । मञ्चः क्रोशति गङ्गायां घोषः प्रवसतीति च ॥ ३१६ तस्मान्मूढैस्तु या प्रोक्ता विज्ञानद्वयकारणम् । तत्तन्मध्यस्थिताः पुंसो घोषयन्ति स्थितिं कुरु ॥ ३१७ एतत्प्रकरणैर्युक्तः सर्वदेहस्थितो गुरुः । तस्मान्मूढमतिः पुंसो वाचयित्वा स बोधकः ॥ ३१८ यथा कर्मस्थितो देही कुर्याद्देहादि कारकम् । इदं प्रोक्तं तथा ब्रह्म शोधनं लक्षणा जहत् ॥ ३१९ शोणतिष्ठति श्वेतस्तु धावतीत्यर्थको जवात् । तथैव परप्रोक्तेन प्रकाशेनात्मबोधकम् ॥ ३२० एतद्भावं तु सायुज्यं पशुपत्यैक्यसंस्थितम् । सोऽयं देवदत्त इति जहदजहालक्षणा ॥ ३२१ त्रिदशैकः पुमान्व्याप्तः शिवसायुज्यमाप्नुयात् । एवं तत्रिपदं शुद्धलक्षणार्थं तदुच्यते ॥ ३२२ शिवानन्दं महादेवि सत्यं ज्ञानमनन्तकम् । आनन्दान्तस्थितिप्राप्तेस्तत्स्वरूपं प्रकाशितम् ॥३२३ सर्वं सत्यं ज्ञानमनन्तं आनन्दं चतुरुद्भवम् । सत्यात्मतत्परज्ञानशिवानन्दस्त्रिधा गुणाः ॥३२४ आनन्द ॥॥ क्तयो योज्यं तत्प्राप्तं सद्गुरोः पदम् । स्वरूपं त ॥॥ पञ्चगुणत्रय विभूतयः ॥ ३२५ तच्चतुः प्रकारार्थं सत्यादिगुणसंपदम् । रूपं गन्धं गुणं शोभा यथा उद्भवमुत्पलम् ॥ ३२६ तथैवेत्यादि तद्भेदं स्वरूपं तस्य उद्भवम् । ज्ञानज्ञेयज्ञातृकं च त्रिपदार्थं स्वमुच्यते ॥ ३२७ तस्मात्स्वरूपं सर्वत्र प्रकाशानन्दविग्रहम् । तत्प्राप्तिस्तत्परामुक्तिः शिवजीवैक्यसम्भवम् ॥ ३२८ सदा ॥॥ यन्तु संप्राप्तिः शिवसायुज्यमाप्नुयात् । ३२९आ षट्त्रिंशत्तत्वबोधार्थ आत्मरूपं प्रकाशितम् । धातुरूपे स्थितं देहं मूलरुपोऽयमुच्यते ॥ ३३० पुर्यष्टकेस्थितं सूक्ष्मं प्रकृतित्रीणि देहजम् । पराणदेहं ततः पश्चात् धमां मोहिनिदेहजम् ? ॥ ३३१ पञ्चकंचुकयोर्देहं परितयज्य स्वरूपकम् । पञ्चभूतस्थितं देहं धातुरूपं प्रकल्पितम् ॥ ३३२ रसरुधिरमांसास्थि मेदोमज्जाशुक्लकम् । सप्तधातुं परित्यज्य श्रोत्रादि पञ्चकं त्यजेत् ॥ ३३३ वागादि पञ्चकं त्याज्यं शब्दादि पञ्चकं त्यजेत् । वागादि पञ्चकं त्याज्यं शब्दादि पुरुषपञ्चकम् ॥ ३३४ पुरुषार्थं परित्यज्यकेनलातीत सम्भवम् । एतस्तर्व परित्यज्य जाग्रज्जाग्रमिति स्थितम् ॥ ३३५ विद्या तत्वं परित्यज्य जाग्रस्वप्नस्थितं भवेत् । शिवतत्वं परित्यज्य मायामोहिनिसम्भवम् ॥ ३३६ तज्जाग्रत्सुप्तिर्यो भावः साक्षी पुरुषतत्वकः । पुरुषार्थं परित्यज्य केवलातीत सम्भवम् ॥ ३३७ जाग्रज्जाग्रादिकावस्था तिरोधादिमलक्षया । तिरोधाय जाग्रजाग्रे मायेयं जाग्रस्वप्नकम् ॥ ३३८ सुप्तिर्जगत्कर्म स्यान्मोहिनीजयात् ॥। । जाग्रातीताणवं बन्धं तत्याज्यमात्मनोदितम् ॥ ३३९ ए ॥॥ तत्वकः । त्रिवह्यकीं ब्रह्मार्थमेकोभावस्थितं नहि ॥ ३४० तस्मात् ॥॥ प्रज्ञा तदात्मा परमंस्थितः । तत्कालप ॥। ना त्वस्यकारणम् ॥ ३४१ प्रज्ञाभावसंसिद्वं शुद्धकेवलसंस्थितम् । ३४२आ जाग्रं तुर्यं चतुर्थं च तत्कालपरपञ्चकम् । परव्योमं तु षष्टं च परावस्था तु सप्तमम् ॥ ३४३ परमव्योग्नि सिद्ध्यर्थं जीवन्मुक्तिप्रकाशकम् । तत्प्रकाशकचैतन्यं परमात्मन्यवस्थितम् ॥ ३४४ परावस्थाप्रकाशस्तु अवस्थातीत गोचरम् । आकाशशरीरं ब्रह्म तुर्यातीतं परं शिवम् ॥ ३४५ परव्योमं तु षष्टं च परावस्था तु सप्तमम् । विश्वग्रासाष्टमं चैव उपशान्तो नवस्तथा ॥ ३४६ शिवभ्रष्टा दशं चैव वाक्यावस्था समीरिता । अणुर्महत्वं तद्वयाप्तं जीवात्मपरयोदितम् ॥ ३४७ एतदर्थं तदर्थं च तत्पदं परमं पदम् । विश्वग्रासं परं गुह्यं सर्वात्मशिवमुद्भवम् ॥ ३४८ विश्वग्रासं परं गुह्यं सर्वात्मशिवमुद्भवम् । तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं शान्तिसम्भवम् ॥ ३४९ तत्सर्वं व्याप्तिसंयुक्तं तच्छून्यं शान्तिसम्भवम् । तच्छिवावस्थितं शान्तं शान्त्यतीतं परात्परम् ॥ ३५० उपशान्तिज्ञप्तितः प्राप्त परजीवैक्यसाधनम् । आत्मा परशिवं चैते त्रिपदार्थत्रिशोधनम् ॥ ३५१ ज्ञानज्ञेयं ज्ञातृकान्तं त्रिपदार्थं समुच्यते । तस्मात् सवरूपं सर्वत्र प्रकाशानन्द विग्रहम् ॥ ३५२ तत्प्राप्तिः तत्परामुक्तिः शिवजीवैक्य सम्भवम् । द्वयोः एक्यं तु संप्राप्ते पराप ॥॥॥॥। पः ॥ ३५३ आसिपदं शिवरूपं द्वयोः ऐक्यं प्रकाशितम् । रक्तं शुक्लं द्विधामिश्र प्रभाकर प्रकाशकम् ॥ ३५४ पदं स्थितं ॥॥ ॥॥ जाग्रजाग्रस्थितं ब्रह्मा जाग्रत्सवप्नस्तितो हरिः । जाग्रसुप्तिस्थितो रुद्रस्तमसा मोहिनि तथा ॥ ३५५ जाग्रतुर्यंस्थितेशस्तु ॥॥ ॥॥ तद्वनध । गुरुकारुण्यमात्रेण वं मलोदयम् ॥ ३५६ ॥॥ प्रकाशार्थं जीवचैतन्यरूपकम् । जाग्र ॥॥ ॥॥ प्रोक्तं तुर्यात्मसमभवम् ॥ ३५७ तवं पदमात्मसम्भवम् । उपाधिशुन्यजीवात्मा त्वं पदार्थस्य शुद्धिमान् ॥ ३५८ देव्युवाच — परमेश महेशान परात्पर पराशिव । सिद्धान्तमार्गसम्बोध किंप्रकारं तदुच्यताम् ॥ ३५९ ईश्वर उवाच — शृणु देवि महाभागे शिवसिद्धान्तलक्षणम् । पाशः पशुः पतिर्ज्ञेयं त्रिपदार्थं त्रिनिर्णयम् ॥ ३६० पाशः पशुः पतिर्मध्ये तृतीयेच्छा तु दीक्षया । नवमं चैव सिद्धान्ताधिकारो भवतोदितः ॥ ३६१ तस्माद्दशविधा दीक्षा पशुपाशपतिक्रमात् । ३६२आ प्रथमं तत्वरूपं तु द्वितीयं तत्वदर्शनम् । तृतीयं तत्वशुद्धयर्थं चतुर्थं चात्मरूपकम् ॥ ३६३ पञ्चमं चात्मदृश्यं तु षष्टं चाप्यात्मशोधनम् । सर्वतत्वं चतुर्भेदं मायाकुण्डलिनोद्भवम् ॥ ३६४ पूर्वोक्तस्य स्वकर्तव्यं तत्वत्रयविशेषतः । तत्वरूपमिदं तत्र तत्वदर्शनभावनम् ॥ ३६५ तत्वशुद्धिः पृथग्भावं तत्वशून्यस्थितिं कुरु । अरूपा वर्णचैतन्यमविकारान्तगोचरम् । ३६६ अभिन्नभिन्नरूपत्वं तत्वमात्मस्वरूपकम् । अविकारोत्पन्नया तत्र प्रज्ञात्वं नाणुरूपकम् ॥ ३६७ तद्व्याप्तं चेतनारूपं तत्सर्वं सुप्रकाशितम् । तद्व्योमसम्भवत्यर्थं तदवस्थात्मशोधनम् ॥ ३६८ रूपारूपं द्विधा शून्यं तुर्यातीतं परं शिवम् । तत्पदं परमं स्थाणुं तत्वातीतं परं शिवम् ॥ ३६९ (अथ शिवदर्शनविवेकः) अणोरणीयान्महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः । उपाधिशून्यं स्वयमात्ममध्ये प्रकाशते ज्ञप्तिपरानुभावः ॥ ३७० स्वजीवपरयोरैक्यं शिवयोगं शिवोद्भवम् । दशावस्थामतिक्रान्तं ॥॥ ॥॥ मशनम् ॥ ३७१ स्वरूपसत्यादिगुणं वाक्यलक्षणशोधनम् । सत्यानन्दमहाज्योतिः शिवभोगानुभूतिकम् ॥ ३७२ जीवावस्था परावस्था शिवावस्था नवान्तकम् । नवतत्वं नवावस्था नवावस्थान्तगः शिवः ॥ ३७३ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । परबिन्दुः परो नादः परा शक्तिः परः शिवः ॥ ३७४ नवतत्वलयस्थाने नृत्तानन्दमयो गुरुः ॥ ३७५आ शिवः शक्तिर्द्विधानादबिन्दुः सादाख्यपञ्चमः । ईशो रुद्रस्तथा विष्णुर्वेधाग्रे मूर्तयो नव ॥ ३७६ इच्छाज्ञानक्रियामाया पराबैन्दवतारकाः । कुटिला कुण्डली भेदा नवप्रधानशक्तयः ॥ ३७७ नवं प्राधान्यमूर्तिश्च नव वै बन्धकारणम् । ३७८ एतच्छक्तिमयं विश्वं विश्वातीतं परात्परम् । शिवशक्तिद्विमध्यस्थे नादबिन्दुस्तथोदितः ॥ ३७९ नादबिन्दुद्विमध्यस्थे पञ्चसादाख्यमुद्भवम् । पञ्चसादाख्यमध्यरथे अष्टविद्येश्वरोदितम् ॥ ३८० अष्टविद्येश्वरमध्ये रुद्रभेदस्तथोदितः । रुद्रभेदस्वमध्यस्थे षट्कोटिविष्णुसम्भवः ॥ ३८१ षट्कोटिविष्णुमध्यस्थे शतकोटिब्रह्मणोद्भवः ॥ ३८२आ इच्छाज्ञानक्रियामध्ये नवशक्तिस्तदुद्भवा । इच्छाज्ञानक्रियामध्ये ॥॥ ॥॥ हप्रभुमान्त्रिका ॥ ३८३ क्रियाशक्त्युद्भवं शेषं वाक्शक्तिः पञ्चमस्तथा । परापरात्पराकारं शिवशक्तिस्तदुद्भवा ॥ ३८४ नवं प्राधान्यमूर्तिश्च नव वै बन्ध कारणम् । असिपदं शिवरूपं द्वयोरैक्यं प्रकाशितम् ॥ ३८५ जीवंश्चरत्वरहितः केवलः स्वप्रभः शिवः ॥ ३८६आ अकारोकारमकारश्च शिरसि प्रणवस्य तु । शिवजीवपरैरैक्यं स्यात् त्रुपादीलक्ष्यलक्ष्णा ॥ ३८७ शबला परितं भेदं तन्मध्ये ॥॥ ॥॥ द्धरोत्तमम् । जीवः परः शिवो मुक्तिस्तद् व्याप्यस्तस्य लक्षणम् ॥ ३८८ तत्पदं तु शिकारं स्याद्वाकारं त्वंपदं तथा । असिशब्दो यकारश्च महावाक्यस्वरूपकम् ॥ ३८९ आत्मा परःशिवश्चैते त्रिपदाथस्त्रिचेतनाः । त्रिशून्योदयसम्भिन्ने – त्वं तदसीतिसम्भवम् ॥ ३९० ॥॥ ॥॥ कादि मलत्रेधामस्याभिगुणत्रयः । त्वं तदस्येति तन्मध्ये मोचनं शुद्धमात्मनः ॥ ३९१ एवं तत्त्रिपदं शुद्धं लक्षणार्थं तदुच्यते । शिवानन्दं महादेवि सत्यज्ञानमनन्तकम् ॥ ३९२ आनन्दान्तस्थितज्ञप्तेस्तत्स्वरूपं प्रकाशितम् । सत्यं ज्ञानमनन्तं च आनन्दं चतुरुद्भवम् ॥ ३९३ सत्यात्मतत्परज्ञानशिवानन्दं त्रिधा गुणाः । आनन्दाः शक्तयो योज्यं तत्प्राप्तं सद्गुरोः पदम् ॥ ३९४ स्वरूपं तत्र रूपं च गुणत्रय विभूतयः । एतच्चतुष्प्रकारार्थं सत्यादिगुणसंपदम् ॥ ३९५ रूपं गन्धं गुणं शोभा यथा उद्भवमुद्भवम् । तथैवेत्यादि तद्भेदं स्वरूपं तस्य उद्भवम् ॥ ३९६ ज्ञानज्ञेयज्ञातृकान्तं त्रिपदार्थ समुच्यते । तस्मात्स्वरूपं तत्रापि प्रकाशानन्दविग्रहम् ॥ ३९७ तत्प्राप्तिसतत्परा परा मुक्तिः शिवजीवैक्यसम्भवम् । मुखस्वप्नमिवाहुर्निरतिशयानन्दमात्मविज्ञानम् ॥ ३९८ सत्यंप्रदायसिद्धं संततजातप्रकाशसद्भावम् ॥ ३९९आ गोदोहमिषुपातं वा नयनोन्मीलमात्रकम् । सकृत्परपदे युक्त न पुनर्भावमाप्नुयात् ॥ ४०० उदकेन विना सन्ध्या जपहोमैर्विंना तपः । सन्धीयते परे तत्वे सा सन्ध्या सद्भिरिष्यते ॥ ४०१ शास्त्रं कोटिषु कोटित्वं शिवज्ञानं तु दर्शनम् ॥४०२आ स्वानुभूत्या महात्मानः सदाभावं विचिन्तितम् । शास्त्राचारकथं चैव कर्मचारविवर्जितम् ॥ ४०३ समयाचारेण किं कार्य लोकोचारेण किं भवेत् । सर्वाचारविनिर्मुक्तं स्वयमाचारमाप्नुयात् ॥ ४०४ नात्र पूजा नमस्कारो न जपो ध्यानमेव च । केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन ॥ ४०५ ज्ञानमुद्राविधिःप्रोक्तस्तत्र सन्मार्गदर्शनम् । अनुभूतिप्रकर्तव्यं शिवानन्दोद्भवं सदा ॥ ४०६ द्वादशं मार्गसम्बन्ध श्रुणु देवि वरानने । मुखं पीठं मठं दैवं वर्गदर्शनषष्टकम् ॥ ४०७ आसनं गिरि चित्तं गुहाचारो वर्णषष्टकम् । एतत् द्वादशसन्मार्गप्रधानाचारमुत्तमम् ॥ ४०८ मूर्तिरूपं मुखं ज्ञेयं दशन्धारंतु पीठकम् । पराशक्तिर्मठं प्रोक्तं दैवं तत्र परात्परम् ॥ ४०९ ज्ञानिनां वर्गमाश्रित्य शुद्धशैवस्य दर्शनम् । आसनं ज्ञानशक्त्यर्थं गिरिपञ्चाक्षरोऽलयम् ॥ ४१० चित्तं बिन्दुस्वरूपं च उपशान्तिर्गुहा च वै । सर्वाचारविनिर्मुक्तं ज्ञानाचारप्रवर्तकम् ॥ ४११ वर्णमध्यात्मवर्णं तु एतद्द्वादशमुच्यते । प्रासादस्य कला एताश्चतुर्विशत्तथैव च । द्वाविंशदेकविंशच विंशदष्टादशं तथा ॥ ४१२ षोडशः पञ्चदशं च द्वादशो दशमो नव । अष्टमं पश्चिमं चैव कलाभेद इहोच्यते ॥ ४१३ अकारश्व उकारश्व मकारो बिन्दुरेव च । अर्धचन्द्रनिरोधी च नादो नादान्त एव च ॥ ४१४ शक्तिश्च व्यापिनी चैव व्योमरुपा तथैव च । अनन्ता च तथाऽनाथाऽनाश्रिता समना तथा ॥ ४१५ उन्मना च तदन्तश्च परा शक्तिः परान्तकः । परशिवस्तदन्तश्च शाम्भवं गुरुपादुका ॥ ४१६ शिवः शाम्भव एव स्याद् द्वाविंशद्भेद उच्यते । शिवान्तान्तैकविंशच्च शिवान्तो विंशत्कला तथा ॥ ४१७ परान्ताष्टादश प्रोक्ता उन्मन्यन्ते तु षोडश । समनान्ते षञ्चदशः विना शैवं चतुष्कलाः ॥ ४१८ कला द्वादश एवोक्तास्तत्प्रासादकलाः स्मृताः । ४१९आ इत्यथष्टाविंशतिः शास्त्रैरुपभेदागमक्रमम् । चतुर्विंशच्छतद्बेधा तत्तद्बेदापरिमिताः ॥ ४२० इत्यष्टाविंशतिभेदाः शैवसिद्धान्तकल्पनाः । पूर्वाष्टाविंशतिः प्रोक्ताश्चतुष्पाज्ज्ञेयकल्पनाः ॥ ४२१ अन्यथा आगमाः प्रोक्ताः शिवधर्मोत्तरं द्विधा । नानाचारप्रवृत्यरथा नानासिद्धान्तभेदकाः ॥ ४२२ पौष्करादिज्ञानसांखयारथास्तत्वसारादिभेदकाः । अनेकार्थागमाः सांख्याश्चतुष्पादाः शैवनिर्णयाः ॥ ४२३ देवीकालोत्तरस्कन्दकालोत्तर (द्वि) शतोत्तराः । सर्वज्ञानोत्तराः सांख्या इत्याद्या योगसांख्यकाः ॥ ४२४ नानाशैवप्रवृच्यर्था नानाशैवागमोदिताः । मन्त्रतन्त्रक्रियायोगा न शैवार्था …। ।… ज्ञेयाः ॥ ४२५ नन्दिकेश परं गुह्यं योगज्ञानप्रवर्तकम् । शिवसांख्यं योगसांख्यं सांख्यभेदागमद्वयम् ॥ ४२६ निर्वाणसारसांख्यैकं योगसांख्यं द्वितीयकम् । तत्वसारं त्रिधा भेदं देविविघ्नेश्वरगुहात् ॥ ४२७ कारणं भार्गवं शुद्धं कालकण्ठं ततोऽधिकम् । शैवभेदागमा इत्थं साक्षान्मोक्षप्रवेशकम् ॥ ४२८ पूर्वकाण्डमिति प्रोक्तं सूक्ष्मं सिद्धान्तशाम्भवम् । उत्तरं काण्डकं पश्चात् परमं कामिकादिकम् ॥ ४२९ शैवं शिवाद्वैतं चैव शिवसंमेळनं त्रिधा । पश्चात्पाशुपतं चैव कालामुखमहाव्रतम् ॥ ४३० वामभैरवयोर्भेदाः शैवस्याम्यन्तराष्टकाः । ऊर्ध्वं तु शैवं प्रथममनादि शैवं द्वितीयम् ॥ ४३१ आदिशैवं तृतीयं तु चतुर्थमनुशैवकम् । अवान्तरं पञ्चमं च मिश्रशैवं तु षष्ठकम् ॥ ४३२ भेदशैवं तथा सप्तगुणशैवं तथाष्टमम् । आज्ञाशैवं तु नवमं दशमं योगशैवकम् ॥ ४३३ एकादशं ज्ञानशैवं द्वादशं शुद्धशैवकम् । ईश्वरैक्यं तथाभिन्नमध्वशैवं प्रवर्तकम् ॥ ४३४ सर्वतत्वं चतुर्भेदं मायाकुण्डलिनोद्भवम् । पूर्वोक्तस्य सुकर्तव्यं तत्वत्रयविशेषतः ॥ ४३५ तत्वरूपमतसतत्रं तत्वदर्शनभावतः । तत्वशुद्धिः पृथक्भावं तत्वलीनस्थितिं कुरु ॥ ४३६ अरूपापन्नचैतन्यमविकारान्तगोचरम् । अभिन्नाभिन्नशून्यं च इत्थमात्मस्वरूपकम् ॥ ४३७ तद्व्याप्तं चेतनारूपं तत्सर्वं सुप्रदर्शनम् । तद्व्योम सम्भवत्यर्थं तदवस्थात्मशोधनम् ॥ ४३८ रूपारूपं तदाशून्यं तुर्यातीतं परं शिवम् । तत्वदं परमं स्थाणुं तत्वातीतं परं शिवम् ॥ ४३९ अणोरणीयान्महतो महीयान् आत्मा गुहायां निहितोऽप्यनन्तः । उपाधिशून्यं स्वयमात्ममध्ये प्रकाशकं ज्ञप्तिपरानुभावम् ॥ ४४० स्वजीव परयोरैक्यं शिवयोगं शिवोद्भवम् । सत्यानन्दमहाज्योतिः शिवभोगानुभूतिकम् ॥ ४४१ सनकादिमुनीनो तु वटछायाप्रबोधकम् । तज्ज्ञानदीक्षया वेद्य सत्यं च मौनमुद्रया ॥ ४४२ तज्ज्ञानं शिवसामर्थ्यं शिवभोग इहोच्यते । इत्येवं हि महादेवीं प्रतिवक्ति महेश्वरः ॥ ४४३ आदिकारणं मृद्रूपं तच्चक्रं सहकारणम् । कुलालोऽस्य निमित्तं स्यात् त्रिभिः मृद्भाण्डसम्भवः ॥ ४४४ तदेवं ग्रन्थिमृद्रपं कुण्डली चक्रसंस्थितम् । परमेश कुलालेन क्रियते तचाराचरम् ॥ ४४५ इच्छा ज्ञान क्रिया शक्तिः इति व्याप्तस्य कारणम् । ईश्वराच्छुद्धविद्या स्यात् ततो माया समुद्भवः ॥ ४४६ पृथ्व्यादिभूतशक्त्यर्थं निवृत्यादि पञ्चमाः कला । भूतांशं पञ्चविंशेति तद्देहोत्पत्तिकारणम् ॥ ४४७ पृथिवी वारिवाखग्नि गगनादीनि कीर्तितम् । अस्थिमांसत्वचं मेदो रोम मेदिनिपञ्चकम् ॥ ४४८ लाला मूत्रं तथा शुल्कं शोणितं मञ्चपञ्चमम् । क्षुधा तृष्णा तथा निद्रा आलस्यं मञ्जपञ्चमम् ॥ ४४९ षुधा तृष्णा तथा निद्रा आलस्यं रतमेव च । धावनं लङ्गनं पातं कुञ्चनं च प्रसारणम् ॥ ४५० रागद्वेषो तथा लज्जा लोभरोगौ तथैव च । एवं च पञ्चविंशार्थं भूतांशं बाह्यतत्त्वकम् ॥ ४५१ एवं तत्त्वक्रमं देहं भूतकारप्रवर्तकम् । श्रुतित्वक्घ्राणजिह्वाक्षिनामज्ञानेन्द्रियैस्तथा ॥ ४५२ अहङ्कारमनो बुद्धि चित्तैराभ्यन्तरैः स्थितम् । अन्नप्राणमनोविज्ञानानन्दैः पञ्चकोशकम् ॥ ४५३ प्राणापानव्यानोदानसमानाः पञ्च वायवः । नागश्च कूर्मः क्रकरो देवदत्तो धनंजयः ॥ ४५४ अन्तर्यमी तथा मुख्यः प्रपञ्चो वैरगस्तथा । एवं चतुर्दश वायुर्ज्ञानाज्ञानव्यवस्थितः ॥ ४५५ प्राणादिपञ्चमो वायुरज्ञानाज्ञानवयवस्थितः । प्राणादिपञ्चमो वायुर्ज्ञानवायुस्तदुच्यते ॥ ४५६ अन्तर्यामी तथा भेदश्चतुर्थावस्था मरुत् प्रिये । रागादिपञ्चको वायुः क्रियावायुः प्रकीर्तितः ॥ ४५७ प्राणवायुस्तथा मध्ये अन्यवायु स्वबन्धनम् । आणवादिमलं त्रेधा सात्विकादिगुणास्त्रिधा ॥ ४५८ मूलाधारस्वाधिष्ठानमणिपूरविंशुद्धिकाः । अनाहताज्ञास्थानं षडाधारं ब्रह्मरन्ध्रकैः ॥ ४५९ ब्रह्मा विष्णुश्च रुद्रश्च ईशः शक्तिः सदाशिवः । ४६० जाग्रत्स्वप्नसुषुप्तिश्च तुर्यातीतं च पञ्चमम् । एवं पञ्चमयो देह एवं भौदिकमुचयते ॥ ४६१ भूतवर्णं च कोशं च बाह्या वै पञ्चविंशतिः । आभ्यन्तरं पञ्चविशत् वायुभेदाश्चतुर्दशः ॥ ४६२ मलत्रयं गुणास्त्रेधा आधारषट्कमात्मनः । अवस्था पञ्चकेत्यर्थं षट्त्रिंशत्षष्टिकं तथा ॥ ४६३ एतत्सामान्यतत्वार्थदेहोत्पत्तिः स्वसाधनम् । देहोत्पत्तिंस्तथा तत्त्वं चतुष्कोटिस्तथा पुनः ॥ ४६४ तत्वरूपं श्रृणुत्वं वै हृद्व्यापकमनुत्तमम् । सवर्णश्वेतं च रक्तं च कृष्णधूम्रसवरूपकम् ॥ ४६५ श्रोत्रादि पञ्चमं रूपं धूम्रकृष्णादि पञ्चमम् । मनो बुद्धिरहंकारश्चितं पुरुषतत्त्वकम् ॥ ४६६ श्वेतं रक्तं तमः शुभ्र तमः शुभ्रं द्विमिश्रकम् । एकैकमिन्द्रियग्रह्यवस्थं पुरुषतत्त्वकम् ॥ ४६७ श्वेतानतः करणं व्याप्तं व्याप्तभेदमनेकधा । आत्मा श्वेतज अव्यक्तः कृषणरक्तार्थश्वेतजः ॥ ४६८ महान्शुवर्णः कञ्चुको धूम्रः प्रकृतिः शङ्कतुल्यकाः ।? विकृतिस्तिमिराकारा मनोन्मनि स्फटिकोपमा ॥ ४६९ उन्मनी निस्तुलाभासा नवशक्तेर्नवोदयः । नागस्तु तिमिराकारो दोषश्चाति तमस्तथा ॥ ४७० त्रिविधस्तत्त्वसम्बन्धस्वर्णश्वेततमोमयम् । अविद्या धूम्रभासा स्यात्कलाभा कुन्दपुष्पभा ॥ ४७१ नियतिः स्वर्णवर्णा च नियमस्तु तथागुणः । त्रिकालस्त्रिगुणो वर्णः सृष्ट्यादिभूतवर्णकम् ॥ ४७२ सृष्टिकारणयोर्वर्णस्तथा वर्णस्वरूपकम् । मायातितिमिरा शुद्धविद्या हिरण्मया ॥ ४७३ महेशस्तिमिराभासः सादाख्यः स्फटिकोपमः । बिन्दुनादं द्विधारूपं श्वेतरक्तप्रकाशकम् ॥ ४७४ नादोऽन्तः कोमलाकारः कुटिला भास्वरा सदा । शिवशक्तिर्द्विधाभासा अकलंङ्कशशिप्रभा ॥ ४७५ तटिदाकारवान्श्रेष्ठः सर्वात्मा स्वप्रकाशकः । एवं तत्त्वस्वरूपार्थं एवं तत्त्वप्रभुः शिवः ॥ ४७६