श्रीगणेशाय नमः ।
अथ श्रीदक्षिणकालीकापूजाप्रयोगः ।
जलपात्रं करे कृत्वा पूजा द्वारि गत्वा । ॐ वज्रोदके हूँ फट् स्वाहा । इत्यनेन
जलमधिष्ठाय तत्रासनमास्तीर्य फट् इत्यासनमभ्युक्ष तत्रोपविश्य ।
ॐ ह्रीँ विशुद्धसर्वपापनिशमया शेषविकल्पमपनय हूँ । इत्यनेन हस्तौ
पादौ च प्रक्षाल्य ह्रीँ आचमेन ॐ ह्रीं स्वाहा । इति त्रिर्जलं पीत्वा । ॐ इति
ओष्ठौ द्विरुन्मृज्य ह्रीँ इति हस्तौ प्रक्षाल्य ह्रीँ इत्यनेन मुखनासिकाद्वय
कर्णद्वय नाभिहृदय शिरः स्कन्धद्वयेषु तत्वमुद्रया स्पृशेदिति
द्विराचम्य । ॐ मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूँ फट् स्वाहा ।
इत्येन शिखां वध्नीयात् । वस्त्राञ्चले वा ग्रन्थि वध्नियात् । ततो
मन्त्राचमनं कुर्यात् । क्लीँ स्वाहा । इति त्रिजलं पिबेत् । क्रीँ काल्यै नमः । क्रीँ
कपालिन्यै नमः । इति दौष्टौ द्विरुन्मृजेत् । क्रीँ कुल्लायै नमः । इति हस्तौ
क्षालयेत् । ॐ रक्ष २ हूँ फट् स्वाहा । इति भूमि संशोध्य ।
प्। १ब्)
ॐ पवित्रवज्रभूमे हूँ हूँ फट् स्वाहा । इति वामपादेन भूमिं सन्ताड्य
चतुर्दिक्षु मण्डलं पूजयेत् । ॐ वास्त्वीशाय नमः । ॐ ब्रह्मणे नमः । ॐ
सर्वविघ्नानुत्सारय हूँ फट् स्वाहा । ततः मन्त्रं जपेत् । ॐ ग्लूँ स्लूँ प्लूँ
गाँ गणपतये नमः । ततः संवित्साधनं कुर्यात् ।
अथ संवित्सोधनं ।
ॐ आसुरेखे वज्ररेखे हूँ फट् स्वाहा । इत्यनेन चतुर्दिक्षुमण्डलं कृत्वा ।
ततः विनियोगं कुर्यात् ।
ॐ अस्य श्रीसंविदोऽस्य मन्त्रस्य दक्षिणामूर्ति ऋषिपङ्क्तिछन्दः सदाशिवो
देवता संवित्सान्निध्यारोपणे विनियोगः ।
अथ ध्याने तु ।
सिद्धाद्यां शिवमोहिनीं करलसत्पाशाङ्कुशां भैरवीं
भक्ताभीष्टफलप्रदासु कुशलां संसारवन्ध छिदा ॥
पीयूषाम्बुधिमन्थनोद्भवरसां संविद्विलासास्पदं
वीराराधितपादुकां सुविजयां ध्यायेज्जगन्मोहिनीं …
इति ध्यात्वा प्रत्येकं शोधयेद्यथा ।
ॐ संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवानां च तृप्त्यर्थं पवित्री भव सर्वदा ॥
प्। २अ)
ॐ ब्राह्मण्यै नमः स्वाहा ॥ १ ॥
ॐ सिद्धिमूलिक्रिये देवि हीनबोध प्रबोधिनि ।
राजप्रजावशकरि शत्रुकण्ठत्रिशूलिनि ॥
ऐँ क्षत्रियायै नमः स्वाहा ॥ २ ॥
ॐ अज्ञानेन्धन दीप्ताग्ने ज्ञानाग्ने ज्ञानरूपिणी ।
आनन्दस्याहुतिं मत्वा सम्यग् ज्ञानं प्रयच्छ मे ॥
ह्रीँ वैश्यायै नमः स्वाहा ॥ ३ ॥
ॐ नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।
त्रैलोक्य विजये मातः समाधिकूलदा भव ॥
क्लीँ शूद्रायै नमः स्वाहा ॥ ४ ॥
ततो ह्रीँ श्रीँ ऐँ अमृते अमृतोद्भवे अमृतवर्षिणि महत्प्रकाशयुक्ते अमृतं
श्रावय २ श्रीमद्दक्षिणकालिकां मे वशमानय स्वाहा । फट् इति सम्प्रोक्ष
। हूँ इति अवगुण्ठ्य । वँ धेनुमुद्रयाऽमृतीकृत्य । मूलेन योनिमुद्रया
सन्दीप्य षडङ्ग मन्त्रैः सकलीकृत्य मत्स्यमुद्रया आछाद्य । तत्र
मूलमन्त्रं दशधा जपेदिति । जातिभेदो ज्ञानेन ह्रीँ श्रीँ ऐँ अमृते
अमृतोद्भवे इत्यादि मन्त्रेण शोधयेत् । ततस्तर्पणं कुर्यात् । ऐँ ह्रीँ
प्। २ब्)
श्रीँ अमुकानन्दनाथ अमुकी देव्यम्बा श्रीपादुकां तर्पयामि नमः । इति
शिरसि त्रिवारं सन्तर्प्य । ऐँ श्रीँ गुरूंस्तर्पयामि नमः । ऐँ
परमगुरूंस्तर्पयामि नमः । ऐँ परापर गुरूंस्तर्पयामि नमः ।
ॐ परमेष्ठिगुरूंस्तर्पयामि नमः । इति शिरसि सकृत्सकृत् तर्पयित्वा ततो हृदि
मूलमुच्चार्य्य । श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति त्रिःसन्तर्प्य
महाकालमन्त्रमुच्चार्य्य श्रीमन्महाकालभैरवं तर्पयामि नमः । इति
त्रिः सन्तर्प्यमूलमुच्चार्य सायुधा सवाहनां सपरिवारां
श्रीमन्महाकालभैरवसहितां श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।
इति त्रिः सन्तर्प्य वामहस्त तत्वमुद्रया विजया पात्रं धृत्वा । दक्षिणेन
जलं गृहीत्वा मूलमुच्चार्य । एष विजया श्रीमद्दक्षिणकालिकायै
निवेदयामि । इति निवेद्य । यथाशक्ति मूलमन्त्रं जप्त्वा समर्प्य प्रणम्य
तत्रस्थ शक्तिवीरेभ्य परिवेश्य स्वीयपात्रे नीत्वा ध्यात्वा स्तुत्वा नमस्कृत्य ।
कुं
फ़ोऴीओ णो। ३ ईष् ंईष्षीण्ङ्
प्। ४अ)
फट् इति अर्घपात्रं प्रक्षाल नमः । इति आधारोपरिसंस्थाप्य । अं
अर्कमण्डलाय द्वादशकलात्मने नमः । इत्यर्घपात्रं सम्पूज्य नमः ।
इति जलेनापूर्य । उं सोममण्डलाय षोडशकलात्मने नमः । इति जलं
सम्पूज्य ।
ॐ गङ्गे च यमुने चैव गोडावरी सरस्वती ।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु ॥
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ।
ब्रह्माण्डोदर तीर्थानि करपृष्ठानि ते रवे ॥
तेन सत्येन ते देवि तीर्थं देहि दिवाकर ।
इत्यनेनाङ्कुशमुद्रया तत्र तीर्थान्याबाह्य । ॐ इति
गन्धपुष्पबिल्वपत्रदुर्वाक्षतान् दत्वा हूँ इत्यवगुण्ठ्य वं धेनुमुद्रया
अमृतीकृत्य मत्स्यमुद्रया आछाद्य । तत्र ॐ इति दशधा जपेदिति
सामान्यार्घ्यं । तेनोदकेन द्वारमभ्युक्ष्य द्वारदेवताः पूजयेत् । यथा
द्वारोर्द्धे एते गन्धपुष्पे गां गणेशाय नमः । वामे क्षां
क्षेत्रपालाय नमः । दक्षिणे वां वटुकाय नमः । अधो यां योगिनीभ्यो
नमः । वामोर्द्धकोणे गां गङ्गायै नमः । तथा दक्षिणे यां
यमुनायै नमः ।
प्। ४ब्)
वामाधः कोणे श्रीलक्ष्म्यै नमः । तथा दक्षिणे ऐँ सरस्वत्यै नमः ।
देहल्यां ॐ अस्त्राय नमः । इति गन्धपुष्पवारिभिः सर्वत्र पूजयेत् । ततो
वामाङ्गं सङ्कोचयन दक्षिणपाद पुरःसरं दक्षिणशाखां स्पृशन्
मण्डपान्तः प्रविश्य । नै-ऋत्या
अपसर्वन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यं तु शिवाज्ञया ॥
इति मन्त्राभ्यां दिग्विदिक्षु विकीर्य फट् इति उर्द्ध्वोर्द्ध तालत्रयं दत्वा
मूलमुच्चार्य अस्त्राय फट् इति जलेनान्तरीक्ष तान् विघ्नानुत्सार्य फट् इति
वामपादपार्ष्णिर्घातत्रयेन भौमान् विघानुत्सार्य । तत्र
त्रिकोणमण्डलं विलिख्य । एते गन्धपुष्पे । ह्रीँ आधारशक्तये नमः । इति
मण्डलं सम्पूज्य । तत्र विहितासनमास्तीर्य । तत्र ह्सौः बीजं विलिख्य । तत्र
दूर्वा त्रयं दत्वासनं शोधयेत् । कृताञ्जलिः आसनं धृत्वा अस्यासन
मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मोदेवता आसनारोपणे
विनियोगः ।
ॐ पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता ।
प्। ५अ)
त्वं च धारय मां नित्यं पवित्रं कुरु चासनं ॥
इति पठित्वा एते गन्धपुष्पे ह्सौँः आधारशक्ति कमलासनाय नमः ।
इत्यासनं सम्पूज्य ।
तत्र कुशपत्रत्रयं दत्वा सामान्यार्घ्यं संस्थाप्य तेनोदकेनात्मानं
पूजोपकरणान्यभ्युक्ष्य पुनर्मूलेन पूजाद्रव्याणि सम्प्रोक्ष्य पुष्पाणि
शोधयेत् । शताभिषेक समय प्रिये समाश्रये शताभिषेक हूँ फट् स्वाहा ।
इत्यनेन पुष्पमधिष्ठाय । ॐ पुष्पकेतु राजार्हते शताय सम्यक्
सम्बन्धाय हूँ पुष्पे २ महापुष्पे सुपुष्पे पुष्पसम्भवे
पुष्पसञ्चयावसङ्कीर्णे हूँ फट् स्वाहा । इति पुष्पमभिमन्त्रमूलान्ते
फट् । इति पूजाद्रव्याणि सम्प्रोक्ष्य । वँ धेनुमुद्रया अमृती कुर्यात् । ततो
गन्धपुष्पाक्षताभ्यां करौ संशोध्य हूँ फट् स्वाहा । इति तत्
पुष्पनै-ऋत्यां निक्षिप्य फट् इति । उर्द्ध्वोर्द्धतालत्रयं दत्वा फट् इति
छोटिकाभिर्दशदिग्बन्धनं कृत्वा । रं इति दिग्विदिक्षु जलधारां
वेष्टयित्वा वह्नेः प्राकारं विचिन्त्य प्राणायामं कुर्याद् यथा
दक्षिणाङ्गुष्ठेन
प्। ५ब्)
दक्षनासिकां धृत्वा । क्रीँ इति षोडशवारं जपन् वामनासया
वायुमापूर्य्य अङ्गुष्ठानामाकनिष्ठाभिः उभय नासिकां धृत्वा ।
तस्य चतुःषष्ठिवारं जपन् वायुं कुम्भकं कृत्वा । तस्य
द्वात्रिंशद्वारं जपन् दक्षनासाया वायुं रेचयेत् । पुनः
पूर्ववद्दक्षनासाया वायुमापूर्य कुम्भकं कृत्वा । वामनासाया
वायुं रेचयेत् । पुनः पूर्ववद्वामनासया वायुमापूर्यकुम्भकं
कृत्वा दक्षनासया वायुं रेचयेत् । एतदशक्तश्चेत् चतुर्वार जपेन
वायुमापूर्य षोडशवारजपेन कुम्भकं कृत्वा अष्टवारजपेन वायुं
रेचयेत् । इति प्राणायामः ।
अत भूतशुद्धिं कुर्यात् । स्वाङ्के उत्तान करौ कृत्वा नयननिमील्यमन्त्रेण
हृदयादीपकलिकारं जीवात्मानं मूलाधारस्थ कुण्डलिन्या सह
मूलाधार स्वाधिष्ठानमणिपूर अनाहत विशुद्धाज्ञाख्य षट्चक्राणि
भित्वा शिरःस्थ सहस्रदलकमले यस्य शिवे संयोज्य तत्रैव पृथिव्यप्तेजो
वाय्वाकाशरूपरसगन्धस्पर्शशब्दानासिकाजिह्वाचक्षुस्त्वक्श्रोत्र
वाक्पाणिपादपायुपश्च
प्। ६अ)
प्रकृति मनोबुद्धि अहङ्काररूप चतुर्विंशति तत्वानि लीनानि विभाव्य शुद्ध
सच्चिन्मयो भूत्वा ॥
वामकुक्षि स्थितं पापमङ्गुष्ठपरिमानकं ।
ब्रह्महत्या शिरस्कं च स्वर्णस्तेय भुजद्वयं ॥
मदिरापानहृदयं गुरुतल्पकटिद्वयं ।
पापसङ्गपदद्वन्द्वमुपपातकलोम किं ॥
खड्गचर्मधरङ्क्रुद्धमधो वक्त्रांसु दुःसहं ।
एवं पापपुरुषं ध्यात्वा । दक्षाङ्गुष्ठेन दक्षिणनासिकां धृत्वा ।
यं इति वायुबीज धूम्रवर्ण विचिन्त्य । तस्य षोडशवारं जपन् वामनासया
वायुमापूर्य पापपुरुषेण सहदेहं संशोष्य उभयनासिकां धृत्वा ।
रं इति वह्निबीजं रक्तवर्णं विचिन्त्य कुम्भकं कृत्वा । तस्य
चतुःषष्ठिवारं जपन् । जातवह्निना पापेन सहदेहं सन्दह्य वँ इति
वरुणबीजं शुक्लवर्णविचिन्त्य । तस्य द्वात्रिंशद्वारजपेन ललाटचन्द्रादलित
सुधयामातृकावर्णात्मिकया तथा तद्भस्मराशिं
प्रक्षाल्यदक्षिणनासया वायुं रेचयेत् । ततः सोहमिति आत्मानं देवता
मयं
प्। ६ब्)
उत्पन्नं नवीनदेहं विचिन्त्य जलं इति पृथिवीजं पीतवर्णं विचिन्त्य । तेन
शरीरं सुदृढं विभाव्य जीवात्मानं कुण्डलिनीं चतुर्विंशति तत्वैः
सह यथास्थानमानयेदिति । भूतशुद्धिः ।
ततो जीवन्यासं कुर्यात् । लेलिहान मुद्रया हृदिहस्तं दत्वा । आँ ह्रीँ क्रीँ हं
सः श्रीमद्दक्षिणकालिकायाः प्राणा इह प्राणाः । ॐ आँ ह्रीँ क्रीँ हं सः
श्रीमद्दक्षिणकालिकायाः जीव इह स्थितः । आँ ह्रीँ क्रीँ हं सः
श्रीमद्दक्षिणकालिकाया सर्वेन्द्रियाणि । पुनः आँ ह्रीँ क्रीँ हं सः
श्रीमद्दक्षिणकालिकाया वाङ्मनोनयनश्रोत्रघ्राणप्राणा इहागत्य
सुखं चिरं तिष्ठन्तु स्वाहा । इति जीवन्यासः ।
ततः ॐ आँ हूँ फट् स्वाहा । इति व्यापकेन कायवाक्चित्तशोधनं कुर्यात् ।
ॐ रक्ष २ हूँ फट् स्वाहा इति हृदि हस्तं दत्वा आत्मरक्षां कुर्यात् ।
तत ऋष्यादि न्यासं कुर्यत् ।
अस्य श्रीमद्दक्षिणकालिकामन्त्रस्य भैरव ऋषिरुष्णिक्छन्दः
श्रीमद्दक्षिणकालिका देवता ह्रीँ बीजं हूँ शक्तिः क्लीँ कीलकं
प्। ७अ)
धर्मार्थकाममोक्ष चतुर्वर्गसिद्धये विनियोगः ॥
इति कृताञ्जलिः पठित्वा जलं त्यक्त्वा न्यसेत् ।
शिरसि भैरव ऋषये नमः । मुखेरुष्णिक्छन्दसे नमः । हृदि
श्रीमद्दक्षिणकालिका देवतायै नमः । गुह्ये ह्रीँ बीजाय नमः । पादयोः
हूँ शक्तये नमः । सर्वाङ्गे क्लीँ कीलकाय नमः । धर्मार्थकाममोक्ष
चतुर्वर्गसिद्धये विनियोगः ।
ततः कराङ्गन्यासौ कुर्यात् ।
ॐ क्रीँ अङ्गुष्ठाभ्यां नमः । ॐ क्रीँ तर्जनीभ्यां नमः । ॐ क्रूँ
मध्यमाभ्यां वषट् । ॐ क्रैँ अनामिकाभ्यां हूँ । ॐ क्रौँ
कनिष्ठिकाभ्यां वौषट् । ॐ क्रः करतलकरपृष्ठाभ्यां फट् । ॐ क्रीँ
हृदयाय नमः । ॐ क्रीँ शिरसे स्वाहा । ॐ क्रूँ शिखायै वषट् । ॐ क्रैँ
कवचाय हूँ । ॐ क्रौँ नेत्रत्रयाय वौषट् । ॐ क्रः अस्त्राय फट् । फट् इति
ऊर्द्ध्वोर्द्ध तालत्रयं दत्वा छुटिकाभिर्दशदिग्बन्धनं कुर्यात् ।
ततो वर्णन्यासं कुर्यात् ।
अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ ऌँ ॡँ नमः हृदि । दक्षहस्ते । एँ ऐँ ओँ औँ अँ अःँ कँ खँ गँ
घँ नमः । वामहस्ते । ङँ चँ छँ
प्। ७ब्)
जँ झँ ञँ टँ ठँ डँ ढँ नमः । दक्षपादे । णँ तँ थँ दँ धँ नँ पँ फँ बँ
भँ नमः । वामपादे । मँ यँ रँ लँ वँ शँ षँ सँ हँ क्षँ नमः ।
ततो मातृकान्यासं कुर्यात् ।
अस्य श्रीमातृकामन्त्रस्य ब्रह्मा ऋषिर्गायत्रीछन्दो मातृका सरस्वतीदेवता
हलो बीजानि स्वराः शक्तयः सर्गः कीलकं मातृकान्यासे विनियोगः । शिरसि ।
ब्रह्म ऋषये नमः । मुखे । गायत्रीछन्दसे नमः । हृदि ।
श्रीमातृकासरस्वती देवतायै नमः । गुह्ये । हलोभ्यो बीजेभ्यो नमः ।
पादयोः स्वरेभ्यः शक्तिभ्यो नमः । सर्वाङ्गे । गर्गाय कीलकाय नमः
मातृकान्यासे विनियोगः ।
मातृका कराङ्गन्यासौ यथा ।
अँ कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । इं चं छं
जं झं ञं ईं तर्जनीभ्यां स्वाहा । उं टं ठं डं ढं णं
ऊं मध्यमाभ्यां वषट् । एं तं थं दं धं नं ऐं
अनामिकाभ्यां हूँ । ॐ पं फं बं भं मं औं कनिष्ठकाभ्यां
वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अः
करकलकरपृष्ठाभ्यां फट् । अं कं खं गं घं ङं आं हृदयाय
नमः । इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
प्। ८अ)
उं टं ठं डं ढं णं ऊं शिखायै वषट् । एं तं थं दं धं
नं ऐं कवचाय हूँ । ॐ पं फं बं भं मं औं नेत्रत्रयाय
वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अंः अस्त्राय
फट् ।
अथान्तर्मातृका ध्यानं ।
आदिक्षान्तमयीं नवारुणरुचिं षट्पद्मपत्रासनां
नीलाम्भोरुहलोचनत्रययुतांराकाब्जरूपाननां पीयूषां शुसमां
शुगुष्ठमुकुटां वक्षोजभारालसाम्मालाटङ्ककुरङ्गपुस्तकधरां
ध्यायेन्तरणेश्वरीं ।
एवं ध्यात्वा मानसोपचारैः सम्पूज्य अन्तर्मातृकां न्यसेत् । कण्ठे ।
विशुद्धचक्रे षोडशदले अं नमः आं नमः इं नमः ईं नमः उं
नमः ऊं नमः ऋं नमः ॠं नमः ऌं नमः ॡं नमः एं नमः ऐं
नमः ॐ नमः औं नमः अं नमः अः नमः । हृदये अनाहतचक्रे
द्वादशकले कं नमः खं नमः गं नमः घं नमः ङं नमः
चं नमः छं नमः जं नमः झं नमः ञं नमः टं नमः ठं
नमः । नाभौ मणिपूरचक्रे दशदले डं नमः ढं नमः णं नमः
तं नमः थं नमः दं नमः धं नमः नं नमः पं नमः फं
नमः । लिङ्गे स्वाधिष्ठानचक्रे
प्। ८ब्)
षट्दले बं नमः भं नमः मं नमः यं नमः रं नमः लं नमः
। मूलाधारे चतुर्दले वं नमः शं नमः षं नमः सं नमः
भ्रुवोर्मध्ये आज्ञाचक्रे द्विदले हं नमः क्षं नमः । शिरोवस्थित
सहस्रदलकमलकर्णिकान्तर्गत अकथादि त्रिकोणमण्डले वामरेखादि
प्रादक्षिण्येन अं नमः आं नमः इं नमः ईं नमः उं नमः ऊं
नमः ऋं नमः ॠं नमः ऌं नमः ॡं नमः एं नमः ऐं नमः ॐ
नमः औं नमः अं नमः अः नमः ऊर्ध्वरेखायां कं नमः खं
नमः गं नमः घं नमः ङं नमः चं नमः छं नमः जं
नमः झं नमः ञं नमः टं नमः ठं नमः डं नमः ढं
नमः णं नमः तं नमः थं नमः दं नमः धं नमः नं
नमः पं नमः फं नमः बं नमः भं नमः मं नमः यं
नमः रं नमः लं नमः वं नमः शं नमः षं नमः सं नमः ।
अधःकोणे हं नमः वामकोणे लं नमः दक्षकोणे क्षं नमः ।
तन्मध्ये परबिन्दुं च सृष्टिस्थिलयात्मकं ।
तेनामृतेन दिव्येन तर्पयेत् परमेश्वरीं ॥
एवं समाहित मनाध्यायेन्न्यासो यमान्तरः ।
प्। ९अ)
अथ बहिर्मातृकासृष्टिध्यानम् ।
पञ्चाशल्लिपिभिर्विभक्तसुखदोः यन्मध्यवक्षस्थलां
भास्वन्मौलिनि वद्धचन्द्रसकलामापीनतुङ्गस्तनीं ।
मुद्रामक्षगुणं सुधाढ्य कलशं विद्या च हस्ताम्बुजैर्
विभ्राणाविशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥
एवं ध्यात्वा मानसोपचारैः सम्पूज्य न्यसेत् ।
ललाटमुखवृत्तदक्षवामनेत्रद्वय कर्णद्वय नासिकाद्वय गण्डद्वय
ओष्ठाधर ऊर्द्ध्वोधो दन्तपङ्क्ति ब्रह्मरन्ध्रजिह्वाकासु । अं नमः आं
नमः इं नमः ईं नमः उं नमः ऊं नमः ऋं नमः ॠं नमः ऌं
नमः ॡं नमः एं नमः ऐं नमः ॐ नमः औं नमः अं नमः अः
नमः । दक्षिणबाहुमूलकूर्परमणिबन्ध अङ्गुलिमूलाग्रेषु । चं नमः
छं नमः जं नमः झं नमः ञं नमः । दक्षिण
ऊरुमूलजानुसन्धिगुल्फाङ्गुलिमूलाग्रेषु । टं नमः ठं नमः डं
नमः ढं नमः णं नमः ।
वामोरुमूलजानुसन्धिगुल्फाङ्गुलिमूलाग्रेषु । तं नमः थं नमः दं
नमः धं नमः नं नमः ।
प्। ९ब्)
दक्षवामपार्श्वयोः । पं नमः फं नमः पृष्ठे वं नमः नाभौ
भं नमः जठरे मं नमः हृदि यं त्वगात्मने नमः । दक्षस्कन्धे
रं असृगात्मने नमः । ककुदि लं मांसात्मने नमः । वामस्कन्धे वं
मेद आत्मने नमः । हृदयादि दक्षहस्ते शं अस्थ्यात्मने नमः । हृदयादि
वामहस्ते षं मज्जात्मने नमः । हृदयादि दक्षपादे सं शुक्रात्मने
नमः । हृदयादि वामपादे हं जीवात्मने नमः । हृदयादि जठरे लं
प्राणात्मने नमः । हृदयादि मुखे क्षं परमात्मने नमः । इति
सृष्टिन्यासः ।
अथ स्थितिमातृकाध्यानं ।
सिन्दूरकान्तिममिताभरणं त्रिनेत्रं
विद्याक्षसूत्र मृगपोतवरान्दधानं ।
पार्श्वस्थितां भगवतीमपि काञ्चनाङ्गीं
ध्यायेत् कराब्जधृतपुस्तकवर्णमालां ॥
एवं ध्यात्वा मानसोपचारैः सम्पूज्य । दक्षगुल्फादि दक्षजानुपर्यन्तं
। डकारादि वकारान्तान् वर्णान् मातृकास्थाने न्यसेत् तद्यथा । दक्षगुल्फे
। डं नमः तदङ्गुलिमूलाग्रयोः
प्। १०अ)
ढं नमः णं नमः वामोरुजानुसन्धि गुल्फापादाङ्गुलिमूलाग्रेषु ।
तं नमः थं नमः दं नमः धं नमः नं नमः ।
दक्षवामपार्श्वयोः । पं नमः फं नमः पृष्ठे वं नमः ।
नाभिजठरयोः । भं नमः मं नमः । हृदयं त्वगात्मने नमः ।
दक्षस्कन्धे रं असृगात्मने नमः । ककुदि लं मांसात्मने नमः ।
वामस्कन्धे वं मेद आत्मने नमः । हृदादिदक्षहस्ते शं अस्थ्यात्मने
नमः । हृदादि वामहस्ते षं मज्जात्मने नमः । हृदादि दक्षपादे शं
शुक्रात्मने नमः । हृदादि वामपादे हं जीवात्मने नमः । हृदादि जठरे
लं प्राणात्मने नमः । हृदादि मुखे क्षं परमात्मने नमः ।
ललाटमुखवृत्तदक्षवामनेत्र तथा कर्णद्वय नासिकाद्वय गण्डद्वय
ओष्ठाधर ऊर्द्धाधो दन्तपङ्क्ति ब्रह्मरन्ध्र जिह्वासु । अं नमः आं
नमः इं नमः ईं नमः उं नमः ऊं नमः ऋं नमः ॠं नमः ऌं
नमः ॡं नमः एं नमः ऐं नमः ॐ नमः औं नमः अं नमः अः
नमः दक्षवाहुमूलकूर्परमणिबन्ध हस्ताङ्गुलिमूलाग्रेषु । कं
नमः खं नमः गं नमः घं नमः ङं नमः ।
वामबाहुमूलकूर्परमणिबन्धकराङ्गुलिमूलाग्रेषु ।
प्। १०ब्)
चं नमः छं नमः जं नमः झं नमः ञं नमः ।
दक्षोरुमूलजानुनोः । टं नमः ठं नमः । इति स्थितिमातृकान्यासः ॥
अथ संहारमातृकाध्यानं ।
अक्षस्रजं हरिणपोतमुदग्रटङ्कं विद्यां करैरविरतं दधतीं
त्रिनेत्रां ।
अर्धेन्दु मौलिमरुणामरविन्दरामावर्णेश्वरीं
प्रणमतस्तनभारनम्रां ॥
इति ध्यात्वा मानसोपचारैः सम्पूज्य न्यसेत् ।
क्षकारादि अकारान्तान् वर्णान्मुखादि ललाटान्त स्थानेषु न्यसेत् तद्यथा ।
हृदादिमुखे क्षं परमात्मने नमः । हृदादिजठरे लं प्राणात्मने
नमः । हृदादिवामपादे हं जीवात्मने नमः । हृदादिदक्षपादे सं
शुक्रात्मने नमः । हृदादिवामहस्ते षं मज्जात्मने नमः । हृदादि
दक्षहस्ते शं अस्थ्यात्मने नमः । वामस्कन्धे वं मेदात्मने नमः ।
ककुदि लं मांसात्मने नमः । दक्षस्कन्धे रं असृगात्मने नमः ।
हृदयं त्वगात्मने नमः । जठरनाभिपृष्ठवामदक्षिणपार्श्वेषु मं
नमः भं नमः वं नमः फं नमः पं नमः ।
वामपादाङ्गुल्यग्रमूलगुल्फजानुसन्धि उरुमूलेषु । नं नमः धं
नमः दं नमः थं नमः तं नमः ।
दक्षपादाङ्गुल्यग्रमूलगुल्फजानुसन्धि
प्। ११अ)
उरुमूलेषु । णं नमः ढं नमः डं नमः ठं नमः टं नमः ।
वामहस्ताङ्गुल्यग्रमूलमणिबन्धबाहुमूलेषु । ञं नमः झं नमः
जं नमः छं नमः चं नमः ।
दक्षहस्ताङ्गुल्यग्रमूलमणिबन्धकूर्परबाहुमूलेषु । ङं नमः
घं नमः गं नमः खं नमः कं नमः । जिह्वा ब्रह्मरन्ध्र अध
उर्द्ध्वदन्तपङ्क्ति अधरौष्ठवामदक्षगण्डद्वय तथा नासिकाद्वय
कर्णद्वय नेत्रद्वय मुखवृत्तललाटेषु । अः नमः अं नमः औं नमः ॐ
नमः ऐं नमः एं नमः ॡं नमः ऌं नमः ॠं नमः ऋं नमः ऊं
नमः उं नमः ईं नमः इं नमः आं नमः अं नमः । इति
संहारमातृकान्यासः ॥
गृहस्थः पुनः सृष्टिस्थितीन्यासौ कुर्य्यात् । प्रणामन्तन्त्रान्तरे पञ्चधा
मातृका न्यासः । सृष्टिस्थितिश्च संहृति । पुनः सृष्टिस्थिती कुर्यादेवं
पञ्चविधः स्मृतः गौतमीयेपि ।
संहृतिर्दोष संहानां हारिणी परिकीर्तिता ।
विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्ध चेतसां ॥
स्थित्यन्तःस्यागृहस्थानां त्रयं काम्यानुरूपतः ।
सहजानौ वानप्रस्थे स्थित्यन्तः कश्चिदिच्छति ॥
संहारान्तो मुनीनां च विरक्तस्य च सर्वशः ।
प्। ११ब्)
न्यासत्रयं सदाकार्यमशक्तामेकमेव हि ॥
केचित् तु सर्ववर्णाश्रमेषु । पञ्चधा विन्यसेद्वापि त्रिधावापि च विन्यसेदिति ।
काम्यादि पूजायामत्र श्रीकण्ठादि मातृकान्यासः । षोढान्यासौ
विधेयौ किन्तु बाहुल्य भयादन्नं न लिखितौ ।
अथ सामान्यबीजषोढान्यासौ ।
यथा । शिरसि ॐ नमः भ्रुवोर्मध्ये । ॐ ह्रीँ स्त्रीँ हूँ फट् नमः कण्ठे । एं
नमः । हृदि क्लीँ नमः । नाभौ ऐं नमः । लिङ्गे क्लीँ नमः । गुह्ये सौं
नमः । दक्षहस्ते हूँ नमः । वामहस्ते श्रीँ नमः । दक्षपादे ह्रीँ नमः ।
वामपादे क्लीँ नमः । पृष्ठे क्रीँ नमः । इति ततः सकलायां विद्यायां
तत्वन्यास बीजन्यासौ कर्त्तव्यौ तद्यथा । नाभ्यादि हृदयान्नं दक्षिणे
कालिके ओंँ विद्यातत्वाय नमः । हृदादि ब्रह्मरन्ध्रान्तं । क्रीँ क्रीँ क्रीँ हूँ
हूँ ह्रीँ ह्रीँ कुर्यात् । ब्रह्मरन्ध्रे क्रीँ नमः । भ्रुवोर्मध्ये क्रीँ नमः ।
ललाटे क्रीँ नमः । नाभौ हूँ नमः । गुह्ये हूँ नमः । मुखे ह्रीँ नमः ।
सर्वाङ्गे ह्रीँ नमः । इति बीजन्यासः ॥
ततो मूलमन्त्रेण शीर्षादि पादपर्यन्तं पादादि शिरोन्तं
प्। १२अ)
सप्तधा मुखादि जठरान्तं जठरादिमुखान्तं सप्तधा
व्यस्तहस्ताभ्यां व्यापक न्यासं कुर्यात् ।
ततः ॐ ह्रीँ मूलं ह्रीँ इति सप्तधा सप्तछदां जपेत् । ततः पीठन्यासं
कुर्यात् । हृत्पद्म कर्णिकायां ॐ आधारशक्तये नमः । ॐ प्रकृत्यै नमः ।
एवं कमठाय शेषाय पृथ्विसुधाम्बुधये मणिद्वीपाय
चिन्तामणिगृहाय श्मशानाय पारिजाताय तन्मूले ॐ रत्नवेदिकायै नमः ।
तस्योपरि ॐ मणिपीठाय नमः । चतुर्दिक्षु ॐ मुनिभ्यो नमः । एवं देवेभ्यो
नमः । शवमुण्डेभ्यो नमः । दक्षस्कन्धे ॐ धर्माय नमः ।
वामस्कन्धे ज्ञानाय नमः । वामोरौ ॐ वैराग्याय नमः ।
दक्षपार्श्वे ॐ अनैश्वर्याय नमः । सर्वत्र प्रणवादि नमोन्तेन न्यसेत् ।
पुनः कर्णिकायां । अं अनन्ताय नमः । पं पद्माय नमः । आं
आनन्दाय नमः । सं संविन्नालाय नमः । पं प्रकृतिमय पत्रेभ्यो
नमः । विं विकारमय केशरेभ्यो नमः । तं तत्वरूपकर्णिकायै नमः ।
अं अर्कमण्डलाय द्वादशकलात्मने नमः ।
प्। १२ब्)
ॐ सोममण्डलाय षोडशकलात्मने नमः । मं वह्निमण्डलाय
दशकलात्मने नमः । सं सत्वाय नमः । रं रजसे नमः । तं तमसे
नमः । आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः
। ह्रीँ ज्ञानात्मने नमः ।
ततो हृत्पद्मकेशरेषु पूर्वादितः प्रादक्षिण्येन पीठशक्तिर्न्यसेत् ।
ॐ इच्छायै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ कामिन्यै
नमः । ॐ कामदायिन्यै नमः । ॐ रत्यै नमः । ॐ रतिप्रियायै नमः । ॐ
आनन्दायै नमः । मध्ये मं मनोन्मन्यै नमः । तदुपरि ऐं परायै
अपरायै परापरायै ह्सौः सदाशिव महाप्रेतपद्मासनाय नमः । इति
पीठन्यासः ॥
ततः प्राणायामं षडङ्गन्यासं कृत्वा देवीं ध्यायेत् । ध्यानं यथा
।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषितां ॥
सद्यश्छिन्नशिरः खड्ग वामाधोर्द्ध्व कराम्बुजां ।
प्। १३अ)
अभयं वरदं चैव दक्षिणोर्द्ध्वाध पाणिकां ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरां ।
कण्ठावसक्तमुण्डाली गलद्रुधिर चर्चितां ॥
कर्णावतं सतान्नीत शवयुग्मभयानकां ।
घोरदंष्ट्रा करालास्यां पीनोन्नत पयोधरां ॥
सर्वालङ्कारभूषाङ्गी सर्वाशुभ विनाशिनी ।
शवानां करसङ्घातैः कृत काञ्ची हसन्मुखीं ॥
सृक्कद्वयगलद्रक्त धाराविस्फुरिताननां ।
घोररावां महारौद्रीं श्मशानालयवासिनीं ॥
बालार्कमण्डलाकार लोचनत्रितयान्वितां ।
दन्तुरां दक्षिणव्यापि मुक्तालम्बिक चोच्चयां ॥
शवरूप महादेव हृदयोपरिसंस्थितां ।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्वितां ॥
मदिराघूर्णनयनां ललज्जिह्वाट्टहासिनीम् ।
महाकालेन च समं विपरीत एतातुरां ॥
सुखप्रसन्ननयनां स्मेरानन सरोरुहां ॥
नागयज्ञोपवीताङ्गी चन्द्रार्धकृतशेखरां ।
एवं सञ्चिन्तयेत् कालीं धर्मकामार्थमोक्षदां ॥
ध्यानानन्तरं यथा ।
अञ्जनाद्रि निभां देवीं करालवदना शिवां ।
मुण्डमालावतीरम्यां मुक्तकेशी स्मिताननां ॥
प्। १३ब्)
महाकाल हृदाम्भोज स्थितां पीतपयोधरां ।
विपरीतरतासक्तां घोरदंष्ट्रां शिवैः सह ॥
नागयज्ञोपवीतां च चन्द्रार्द्धकृतशेखरां ।
सर्वालङ्कारसंयुक्तां मुक्तामणिविभूषितां ॥
मृतहस्त सहस्रैस्तु बद्धकाञ्चीं दिगम्बरां ।
शिवाकोटिसहस्रैस्तु योगिनीभिर्विराजितां ॥
रक्तपानमुखाम्भोजां मधुपानप्रमत्तिकां ।
वह्न्यर्क शशि नेत्रां च रक्तविस्फुरिताननां ॥
विगतासु किशोराभ्यां कृतकर्णावतंसिनीं ।
कण्ठावसक्तमुण्डालि गलद्रुधिर चर्चितां ॥
श्मशानं वह्निमध्यस्थां ब्रह्मकेशव वन्दितां ।
सद्यःकृत शिरःखड्ग वराभीतिकराम्बुजां ॥
ध्यानान्तरं यथा ।
भिन्नाञ्जन च य प्रख्यां प्रवीनशवसंस्थितां ।
गलच्छोणितधाराभि स्मेरानन सरोरूहां ॥
पीनोन्नत कुचद्वन्द्वां पीनवक्षो नितम्बिनीं ।
दक्षिणां मुक्तकेशालि दिगम्बर विनोदिनीं ॥
महाकाल शवाविष्टां स्मेरानन्दोपरिस्थितां ।
आरक्तमुखनेत्राभिर्योगिनीभिविराजितां ॥
शवद्वयकृतोन्तंसां सिन्दूरतिलकोज्ज्वलां ।
प्। १४अ)
पञ्चाशन्मुण्डघटितं मालाशोणित लोहितां ॥
नानामणिविशोभाढ्यां नानालङ्कारभूषितां ।
शवास्थि कृतकेयूरं शङ्खकङ्कणमण्डितां ॥
शववक्षः समासीनां लेलिहानां शवं क्वचित् ।
शवमांसकृतग्रासां साट्टहासां मुहुर्मुहुः ॥
खड्गमुण्डधरां वामे दक्षे भयवरप्रदां ।
दन्तुरां च महारौद्रीं चण्डनादाति भीषणां ॥
शिवाभिर्घोरारावाभिर्वेष्टितां भयनाशिनीं ।
माभै माभैः स्वभक्तेभ्यो जल्पन्ती घोरनिःस्वनैः ॥
यूयं किमिछथवरं ददामीति प्रभाषिणीं ॥
ध्यानान्तरं ॥
सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं विभ्रतीं
घोरास्यां शिरसः स्रजां सुरुचिरामुन्मुक्तकेशावलीं ।
सृक्कासृक्प्रवहां श्मशाननितपांश्रुत्योशवांलङ्कृतीं
श्यामाङ्गीकृतमेखलां शवकरैर्देवीं भजे कालिकां ॥
ध्यानान्तरं ॥
मेघाङ्गीं विगतांवरां शवशिवारूढा त्रिनेत्रां परां
कर्णालम्बितवाणयुग्मभयदां मुण्डस्रजां मालिनीं ।
वामाधोर्द्धकराम्बुजे नरशिरः खड्गं च सव्येतरे
दानाभीति विमुक्तकेश निचयां वन्दे सदा कालिकां ॥
प्। १४ब्)
एतेषामेकतमेन ध्यात्वा स्वशिरसि पुष्पं दत्वा मनसोपचारैः
पूजयेद्यथा ।
हृत्पद्ममासनं दद्यात् सहस्राराच्युतामृतैः ।
पाद्यं चरणयोर्दद्यान्मनस्त्वर्घ्यं निवेदयेत् ॥
स्वर्णपात्रे तज्जलं च दद्यादाचमनं मुखे ।
मधुपर्कं मुखे दद्यात् पुनराचमनीयकं ॥
तेनामृतेन सर्वाङ्गे स्नानीयमपि कल्पयेत् ।
आकाशतत्वं वसनं नानाभरणमेव च ॥
चतुर्विंशति तत्वेन गन्धं दशाद्विचक्षणः ।
स्वयम्भू कुसुमं दद्यात् कुङ्कुमं रक्तचन्दनं ॥
चित्तं प्रकल्पयेत् पुष्पं धूपं प्राणान्ति योजयेत् ।
तेजस्तत्वं प्रदीपं च नैवेद्यं च सुधाम्बुधिं ॥
प्रदद्यान्मांसशौन च भर्जितं मीनपर्वतं ।
मुद्राराशीं सभक्तं च घृताक्तं व्यञ्जनान्वितं ॥
सुरक्तं चरुकं चैव घृताक्तं परमान्नकं ।
दधिक्षीरसागरं च नानामूलफलानि च ॥
भक्ष्यं भोज्यं तथा लेह्यं पेयं चर्वणं परामृतं च पानीयं
भावपुष्पैः सुवासितं ।
कुलामृतं च तत्पुष्पं कुतक्षातं न वारि च ।
पुनराचमनं दत्वा ताम्बूलं च निवेदयेत् ॥
कामक्रोधौ विघ्नकृतौ वलिं दत्वा जपं चरेत् ।
प्। १५अ)
वर्णमाला यथा । अकारादि क्षकारान्ते वर्णात्मिकां बिन्दुयुतां
शिवशक्त्यात्मकसूत्रे ग्रन्थितां कुण्डलीग्रन्थियुतां मालां विभाव्य
जपेत् । अं मूलं आं मूलं इत्यादि लकारान्तेषु वर्णेषु प्रतिवर्णान्तरं
मन्त्रं जप्त्वा क्षकारं मेरुरूपं केवलमुच्चार्य अन्तिमवर्णेषु
एकैकमन्त्रं जपेत् । एवमष्टोत्तरशतं मन्त्रं जप्त्वा समर्पयेदनेन । ॐ
सर्वान्तरात्मनिलये स्वान्तर्ज्योतिः स्वरूपिणी । गृहाणान्तर्जपं मातराद्ये
कालि नमोस्तुते । इति जपं समर्प्य प्रणमेत् ॥
अथान्तर्होमो यथा । आत्मानमपरिछिन्नं विभाव्य ।
आत्मान्तरात्मपरमात्मज्ञानात्मस्वरूपं चतुरस्रं चित्कुण्डं
आनन्दमेखलारम्यं बिन्दु त्रिबलयाङ्कितं । अर्धमात्रो योनिरूपं
चित्कुण्डं नाभौ विभाव्य तत्र संविदग्नौ जुहुयात् मूलमुच्चार्य
नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा । ज्ञानप्रदीपिते
नित्यमक्षवृत्तिर्जुहोम्यहं स्वाहा । इति प्रथमाहुतिः ।
मूलमुच्चार्य ।
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहं ॥
प्। १५ब्)
स्वाहा २ इति द्वितीयाहुतिः । मूलमुच्चार्य ।
प्रकाशाकाशहस्ताभ्यामवलंव्योन्मनी स्रुवा ।
धर्माधर्म कलास्नेह पूर्णमग्नौ जुहोम्य हं ॥
स्वाहा । इति तृतीयाहुतिः । मूलमुच्चार्य ।
अन्तर्निरन्तरनिरिन्धन एधमाने माद्यान्धका *? परिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वजुहोमि वसुधादि शिवावसानं
स्वाहा । इति चतुर्थ पूर्णाहुतिः ।
ततः पयः केन निभां शय्यां परिष्टुत्य तत्र महाकालेन सह देविं
निवेश्व शृङ्गादि रसोद्भवैर्नानागीतवाद्यनृत्यादिभिर्भगवतीं तोषयेत् ।
प्रणमेदिति मानसयागः । ततो वाह्यपूजामारभेत् । तत्रादौ
अर्घ्यस्थापनं कुर्यात् । स्ववामे त्रिकोणवृत्त चतुरस्रमण्डलं विलिख्य फट्
। इति मण्डलं सम्प्रोक्ष्य ।
एते गन्धपुष्पे ह्रीँ आधारशक्तये नमः । इति मण्डलं सम्पूज्य
त्रिपदिकाद्यासनं फट् । इति प्रक्ष्याल्य नमः । इति मण्डलोपरिसंस्थाप्य ।
मं वह्निमण्डलाय दशकलात्मने नमः । इति आधारं सम्पूज्य फट् ।
प्। १६अ)
शङ्खादिपात्रं प्रक्षाल्य नमः । इति तत्राध? *? संस्थाप्य । अं
अर्कमण्डलाय द्वादशकलात्मनि नमः । इति अर्घ्यपात्रं सम्पूज्य नमः ।
इति जलेनापूर्य तत्र किञ्चित् कारणं निक्षिप्य । ॐ
सोममण्डलाय षोडशकलात्मने नमः । इति अर्घ्यामृतं सम्पूज्य । ॐ
गङ्गे चेत्यादिनाङ्कुशमुद्रया तत्र तीर्थान्या वाह्यरक्तादि
पुष्पबिल्वपत्रदूर्वाक्षतश्वेतरक्तचन्दनशुद्धिमीनमुद्रकुलकुसुमानि
निक्षिप्य तत्र देवीमावाह्य हुं । इति अवगुण्ठ्य वं
धेनुमुद्रयामृतीकृत्यमूलेन योनिमुद्रया सन्दीप्य । ॐ इति शङ्खमुद्रां
प्रदर्श्य षडङ्ग मन्त्रैः सकलीकृत्य मत्स्यमुद्रया आछाद्य । तत्र
मूलमन्त्रं दशधा जप्त्वा देवीरूपमर्घ्यं विभाव्य ।
गन्धपुष्पधूपदीपैस्तत्र देवीं सम्पूज्य पूजा समाप्ति
पर्यन्तमर्घ्यपात्रं न चालयेदित्यर्घ्यस्थापनं ।
तत्र सामान्यार्घ्यवत् प्रोक्षणी पात्रमेकं संस्थाप्य ।
तत्रार्घ्यपात्रस्थं जलं किञ्चित् प्रोक्षणी पात्रे निक्षिप्य तेनोदकेनात्मानं
पूजोपकरणान्यस्युक्ष्य सम्मुखे सिंहासनादौ
प्। १६ब्)
प्रतिमा यन्त्रं वा स्थापयेत् । यन्त्रं यथा । स्वर्णपात्रे रजते ताम्रे
श्मशानकाष्ठनिर्मिते यज्ञदारुमये नृकपाले वा स्वयम्भु
कुसुमकुण्डगोलरक्तचन्दनादि विलेपिते पात्रे सुवर्णशलाकया
बिल्वकण्ठकेन वा अधोमुखयन्त्रत्रिकोणं तद्वाह्ये वृतं । तद्वाह्ये
अष्टदलपद्मं तद्वाह्ये वृतं तद्वाह्ये भूपुरं चतुर्द्वारयुतं मध्ये
बिन्दुचक्रं । बिन्दुचक्रस्य वामे । क्लीँ बीजं दक्षिणे ह्रीँ बीजं एवं
यन्त्रं लिखेत् । अथवा पार्थिवेतर शिवलिङ्गे स्फाटिकादिषु विनिर्मित प्रतिष्ठित
यन्त्रे पुष्पादि यन्त्रे वा पूजयेत् । एवं यन्त्रं प्रतिमा वा संस्थाप्य
तत्र पीठपूजां कुर्यात् । यथा कर्णिकायां । ॐ आधारशक्तये नमः । ॐ
प्रकृत्यै नमः । एवं कमठाय शेषाय पृथिव्यै सुधाम्बुधये
मणिद्वीपाय चिन्तामणिगृहाय श्मशानाय पारिजाताय तन्मूले
रत्नवेदिकायै । ॐ मणिपीठाय चतुर्दिक्षुमुनिभ्यो नमः । ॐ वेदेभ्यो नमः
। ॐ शवमुण्डचिताङ्गारास्थिभ्यो नमः ।
प्। १७अ)
बहुमांसास्थिमादमान शिवाभ्यो नमः । अग्न्यादिकोणचतुष्टयेषु
प्रादक्षिण्येन धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय पूर्वादि चतुर्दिक्षु
अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय सर्वत्र प्रणवादि नमोन्तेन
पूजयेत् । पुनः कर्णिकायां अं अनन्ताय नमः । पं पद्माय नमः । आं
आनन्दकन्दाय नमः । सं सविन्नालाय नमः । प्रं प्रकृतिमय पत्रेभ्यो
नमः । बिं बिकारमयकेशरेभ्यो नमः । तं तत्वरूपकर्णिकायै नमः ।
अं अर्कमण्डलाय द्वादशकलात्मने नमः । उं
सोममण्डलाय षोडशकलात्मने नमः । मं वह्निमण्डलाय
दशकलात्मने नमः । सं सत्वाय नमः । रं रजसे नमः । तं तमसे
नमः । आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः ।
ह्रीँ ज्ञानात्मने नमः । केशरेषु पूर्वादितः प्रादक्षिणेन पीठशक्तीः
पूजयेत् ।
ॐ इच्छायै नमः । ॐ कामदायिन्यै नमः । ॐ रत्यै नमः । ॐ रतिप्रियायै
नमः । ॐ आनन्दायै नमः । मध्ये मं मनोन्मन्यै नमः ।
प्। १७ब्)
तदुपरि ऐं परायै नमः । अपरायै परापरायै ह्सौं सदाशिव
महाप्रेतपद्मासनाय नमः । इति पीठपूजा ॥
अत्र विशेषरहस्य पूजायां कारणादि पञ्चतत्वशोधनादिकं कुर्यात् ।
अथ कारणकुम्भस्थापनं यथा ।
तत्रादौ स्ववामे सुलक्षणं स्वीयशक्तिं संस्थाप्य । ततः स्ववामे
देव्यादक्षिणे भूमौ बिन्दुगर्भषट्कोणचतुरस्रमण्डलं विलिख्य फट् ।
इति मण्डलं सम्प्रोक्ष्य । ह्रीँ आधारशक्तये नमः । इति मण्डलं
सम्पूज्य फट् । इति आधारसम्प्रोक्ष्य नमः । इति मण्डलोपरिसंस्थाप्य ।
मं वह्निमण्डलाय दशकलात्मने नमः । इत्याधारं सम्पूज्य फट् । इति
कुम्भं प्रक्षाल्य नमः । इति तत्र संस्थाप्य रक्तवस्त्रं
माल्यसिन्दूरादिभिः कुम्भं भूषयित्वा । अं अर्कमण्डलाय
द्वादशकलात्मने नमः । इति कलशं सम्पूज्य ।
क्षं लं हं सं षं शं वं लं रं यं मं भं बं फं पं
नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं
चं ङं घं गं खं कं अंः अं औं ॐ ऐं एं ॡं ऌं ॠं ऋं
ऊं उं ईं इं आं अं । इति विलोममातृकां
प्। १८अ)
मूलमन्त्रं अपठन् कारणेन घटमापूर्य । उं
सोममण्डलाय षोडशकलात्मने नमः । इति कारणं सम्पूज्य । क्रोँ गङ्गे
चेत्यादिनाङ्कुशमुद्रया सोममण्डलाय । तत्र तीर्थान्या
वाह्यपञ्चमुद्रयाभिः प्रणमेत् । भूमौ करतलद्वयं दत्वा द्रां
नमः । इति चतुस्रा २ भूमौ पुटाकारकरद्वयं दत्वा द्रां नमः । इति
संवृत्ताख्या भूमौ पुटाञ्जलिना क्लीँ नमः इति सम्पूटाख्या ३ भूमौ
कनिष्ठाद्वयमूलन्यस्त वृद्धाङ्गुलिकाजलिना ब्लूँ नमः । इति
पुटाञ्जलाख्या ४ । भूमौ योनिमुद्रां निधाय सः नमः । इति योन्याख्या ४
। इति पञ्चमुद्रा प्रणामः । ततः पञ्चीकरणं कुर्याद्यथा । फट् इति
दर्भेण ताडनं । हुं इति अवगुण्ठनं । मूलेन वीक्षणं नमः ।
इत्यर्घोदकेन प्रोक्षणं ४ । मूलेन त्रिवारं गन्धमाजिघ्रेत् । ततः ॐ इति
कुम्भे पुष्पं दत्वा ब्रह्म ऋचात्रिधाभिमन्त्रयेद्यथा ।
ॐ हं सः शुचिसद्वसुरन्तरीक्ष सद्धोता वेदी सदतिदिर्दुरोण
सन्नृसद्वरसदृतसघ्नोमस इवज्वा गोजा ऋतजा अद्रिजा ऋतं वृहत् ।
१८ब्)
ततः शापमोचनं कुर्यात् ।
ॐ एकमेव परम्ब्रह्म स्थूलसूक्ष्ममयं ध्रुवं ।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहं ॥
इति त्रिवारं ।
ॐ सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यतां ॥
इति त्रिः ।
ॐ वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु ॥
इति त्रिः ।
ॐ वाँ वीँ वूँ वैँ वौँ वः ब्रह्मशापविमोचितायै सुधादेव्यै नमः । इति
दशधा ।
ॐ शाँ शीँ शूँ शैँ शौँ शः शुक्रशापविमोचितायै सुधादेव्यै नमः । इति
दशधाशुक्रशापमोचनं ।
ऐँ ह्रीँ श्रीँ क्रोँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः सुधाकृष्णशापं विमोचय २
अमृतं श्रावय २ स्वाहा । इति कृष्णशापं द्वादशधा ।
ऐँ ह्रीँ श्रीँ आनन्देश्वराय विद्महे सुधादेव्यै धीमहि तन्नोर्धनारीश्वर
प्रचोदयात् । इत्यानन्दगायत्रीं त्रिवारं पठेत् । ततो द्रव्यमध्ये
अकथादिशक्तिमण्डलं लिखेत् यथा । आदिषोडशवारं वामरेखाकादि-
प्। १९अ)
षोडश ऊर्द्धरेखाथादि षोडश दक्षिणरेखा त्रिकोणेषु हं लं क्षं
एवं सर्वान् बिन्दुयुक्तान् वर्णान्मध्ये ह्सौँ बीजं लिखेत् । ह्सौः मण्डलाय
नमः । इति मण्डलं सम्पूज्य । तत्रानन्दभैरवानन्दभैरव्यौ ध्यायेत्
।
सूर्य्यकोटि प्रतीकाशं चन्द्रकोटि सुशीतलं ।
अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनं ॥
अमृतार्णव मध्यस्थं ब्रह्मपद्मोपरिस्थितं ।
वृषारूढं नीलकण्ठं सर्वाभरणभूषितं ॥
कपालखट्वाङ्गधरं घण्टाडमरूपादिमं? ।
पाशाङ्कुशधरं देवं गदामुशलधारिणं ॥
खड्गखेटकपट्टिशमुद्गरंशूलदण्डधृक् ।
विचित्रखेटकं मुण्डं वरदाभय पाणिनं ॥
लोहितं देवदेवेशं भावयेत् साधकोत्तमः ।
एवं ध्यात्वा । हसक्षमलवरयूँ आनन्दभैरवाय वषट् । इति
मन्त्रमुच्चार्य एते गन्धपुष्पे आनन्दभैरवाय नमः । इति त्रिः सम्पूज्य
। आनन्दभैरवीं ध्यायेत् ।
भावयेच्च सुधां देवीं चन्द्रकोट्ययुतप्रभां ।
हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनां ॥
प्। १९ब्)
अष्टादशभुजैर्युक्तां सर्वानन्दकरौद्यतां ।
प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीं ॥
इति ध्यात्वा । सहक्षमलवरयीं आनन्दभैरव्यै वौषट् । इति मन्त्रमुच्चार्य
एते गन्धपुष्पे आनन्दभैरव्यै नमः । इति त्रिः पूजयेत् । ईं क्रीं
परमस्वामिनि परमाकाशशून्यवाहिनि चन्द्रसूर्याग्नि भक्षिणि पात्रं
विश २ स्वाहा । इति त्रिः । ह्रीँ श्रीँ ऐँ अमृते अमृतोद्भवे अमृतवर्षिणि
महत्प्रकाशयुक्ते अमृतं श्रावय २ स्वाहा । इति त्रिः । यं रं वं इति
मन्त्रैर्द्रव्यस्य दोषं शोषणदहनामृतीकरणानि कुर्यात् । ततो हुं इति
अवगुण्ठ्य धेनुमुद्रयामृतीकृत्य मत्स्यमुद्रया आछाद्य तत्र वं इति
वरुणबीजं अष्टधा मूलमन्त्रं चाष्टधा जपेदिति कारणशुद्धिः । ततो
मांसमीनमुद्राकुलकुसुमानि त्रिकोणवृत्तचतुरस्रमण्डलोपरिसंस्थाप्य
प्रत्येकं शोधयेत् । ॐ प्रत्यद्विष्णुस्तव तेन वीर्येण मृगो न भीमः
कुचरोगीरिष्ठाय स्वोरुषुत्रिषु विक्रमेष्वधिक्षिपन्ति भुवनानि विश्वाः ।
प्। २०अ)
इति मांसशोधनम् ।
ॐ त्र्यम्बकं यजामहे सुङ्गन्धिं पुष्टिवर्द्धनं ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् ॥
इति मीनशोधनं ।
ॐ तद्विष्णुः परमं पदं सदा पस्यन्ति शूरयः दिवीवचक्षुराततं ।
ॐ तद्विप्रासो विपरायवोजागृवांसः समिन्धतेर्विष्णोर्यत्परमं पदं ।
इति मुद्राशोधनं ।
ॐ विष्णुर्योनिकल्पयतु त्वष्टारूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता
गर्भं दधातु मे ।
ॐ गर्भं धेहिसिनीवाली गर्भं धेहि सरस्वती ।
गर्भं ते अश्विनौ देवा वाधतां पुष्परस्रजौ ॥
ग्लूं न्लूं स्लूं प्लूं स्लूं अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि
अमृतं स्रावय २ स्वाहा । इति कुलकुसुमशुद्धिः ॥
अथ शक्तिशोधनं यथा ।
अदिक्षीता शक्तिश्चेत् फट् इत्यर्घ्योदकेन शक्तिं सम्प्रोक्ष्य
हूमित्यवगुण्ठ्ययोनिमुद्रां प्रदर्श्य तस्या अङ्गे ऋष्यादिकराङ्ग
न्यासान् कृत्वा ऐं क्लीँ सौः त्रिपुरायै नमः । इमां शक्तिं मम शक्तिं
कुरु कुरु स्वाहा । इति पठित्वा वामकर्णे
प्। २०ब्)
ह्रीं बीजं त्रिवारं श्रावयेत् । तस्या शिरसि मूलमन्त्रं दशधा जपेत् ।
दितिदिक्षिता अभिषिक्तां चेत् तस्या स्वेष्टदेवतायाः न्यासादिकं स्वयमेव
कुर्यादिति शक्तिशुद्धिः । ततः प्रत्येकं यं इति वा बीजेन दोषं संशोष्य
रं इति वह्निबीजेन सन्दह्य । वं इति धेनुमुद्रयामृतीकृत्य । हूं इति
अवगुण्ठ्य । पुनः वं इति धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रया
सन्दीप्य षडङ्गैः सकलीकृत्य मत्स्यमुद्रया आछाद्य तेषु प्रत्येकं
मूलमन्त्रं दशधा जप्त्वा पात्रान्तरैः विदध्यादिति शुद्ध्यादि शुद्धिः
॥
अथ श्रीपात्रस्थापनं कुर्याद्यथा ।
आत्मयन्त्रयोर्मध्ये हूं गर्भत्रिकोणवृत्त षट्कोण चतुरस्रं मण्डलं
विलिख्य । फट् इति अर्घ्योदकेन सम्प्रोक्ष्य चतुरस्रेषु पूर्वादितः
प्रादक्षिण्येन उं उर्द्ध्विपानाय नमः । पूं पूर्णशौलाय नमः । जां
जालेन्धराय नमः । कां कामरूपाय नमः । इति
सम्पूज्य षट्कोणेषु षडङ्गानि सम्पूज्य त्रिकोणेषु
मूलमन्त्रस्याद्यखण्डमुच्चार्य आत्मतत्वाय नमः । द्वितीय
खण्डमुच्चार्य विद्यातत्वाय नमः ।
प्। २१अ)
तृतीय खण्डमुच्चार्य शिवतत्वाय नमः । मध्ये हूं आधारशक्तये
नमः । इति मण्डलं सम्पूज्य फट् इति श्रीपात्रासनं प्रक्षाल्य नमः । इति
मण्डलोपरिसंस्थाप्य ।
तत्र त्रिकोणवृत्त षट्कोणमण्डलं विलिख्य षट्कोणेषु षडङ्गानि सम्पूज्य
मूलेन त्रिकोणं सम्पूज्य । वृत्तोपरि पूर्वादितः प्रादक्षिण्येन
वह्नेर्दशकलाः पूजयेत् । यं धूम्रार्चिषे नमः । रं ऊष्मायै नमः ।
लं ज्वलिन्यै नमः । वं ज्वालिन्यै नमः । शं विस्फुलिङ्गिन्यै नमः । षं
सुश्रियै नमः । संसुरूपीयै नमः । हं कपिलायै नमः । लं हव्यवहायै
नमः । क्षं कव्यवहायै नमः । तदुपरि मं वह्निमण्डलाय
दशकलात्मने नमः । इति सम्पूज्य । फट् इति महाशङ्खादिपात्रं
प्रक्षाल्य नमः । इति आधारोपरिसंस्थाप्य ।
तत्र त्रिकोणवृत्त षट्कोणं विलिख्य । षट्कोणेषु षडङ्गानि मूलेन त्रिकोणं
सम्पूज्य वृत्तोपरि पूर्ववत् । सूर्यस्य द्वादशकलाः पूजयेत् । कं भं
तपिन्यै नमः । खं वं तापिन्यै नमः । गं फं
प्। २१ब्)
धूम्रायै नमः । घं पं मरीच्यै नमः । ङं नं ज्वालिन्यै नमः ।
चं धं रुच्यै नमः । छं दं सुषुम्नायै नमः । जं थं भोगदायै
नमः । झं तं विश्वायै नमः । ञं णं बोधिन्यै नमः । टं ठं
धारिण्यै नमः । ठं डं क्षमायै नमः । तदुपरि अं अर्क्कमण्डलाय
द्वादशकलात्मने नमः । इति सम्पूज्य क्षकारादि अकारान्तां
विलोममातृकां मूलमन्त्रं चोच्चार्यघटस्थ कारणेन श्रीपात्रं
त्रिभागमापूर्य शेषं जलेनापूर्य तत्र त्रिकोणवृत्त षट्कोणं विलिख्य
। षट्कोणेषु षडङ्गानि मूलेन त्रिकोणं सम्पूज्य । वृत्तोपरि पूर्ववत् ।
चन्द्रस्य षोडशकलाः पूजयेत् । अं अमृतायै नमः । आं मानदायै नमः
। इं पूषायै नमः । ईं तुष्ट्यै नमः । उं पुष्ट्यै नमः । ऊं रत्यै नमः
। ऋं धृत्यै नमः । ॠं शशिन्यै नमः । ऌं चन्द्रिकायै नमः । ॡं
कान्त्यै नमः । एं ज्योत्स्नायै नमः । ऐं श्रियै नमः । ॐ प्रीत्यै नमः ।
औं अङ्गायै नमः । अं पूर्णायै नमः । अंः पूर्णामृतायै नमः ।
तदुपरि उं सोममण्डलाय षोडशकलात्मने नमः । इति सम्पूज्य ॥
प्। २२अ)
तत्र क्रों गङ्गे चेत्यादिनाङ्कुशमुद्रया चन्द्रमण्डलात्तीर्थमावाह्य ।
रक्तपुष्पश्वेतरक्तचन्दनदूर्वाक्षतान् तत्र निक्षिप्य मूलेन शुद्धि
मीनमुद्रा कुलकुसुमानि किञ्चित् तत्र निक्षिप्य पूर्ववत् । अकथादि
शक्तिमण्डलं तत्र विलिख्य । ह्सौः मण्डलाय नमः । इति मण्डलं
सम्पूज्य ।
तत्र पूर्ववत् आनन्दभैरवं । आनन्दभरवीं च ध्यात्वा पूजयेत् ।
ततः श्रीपात्रं धृत्वा अभिमन्त्रयेदेभिर्मन्त्रैः ऐं क्लीं सौंः
ब्रह्माण्डरससम्भूतमशेषरससम्भवं ।
आपूरितं महापात्रं पीयूषरसमावहं ॥
ऐं अखण्डैकरसानन्दकरे परसुधात्मनि स्वछन्दस्फुरणा मन्त्र
निधेहि कुलरूपिणी ।
क्लीँ अकुलस्थामृताकारे शुद्धज्ञानकलेवरे ।
अमृतत्वं निधे ह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥
सौः तद्रूपेणैकरस्यं च कृत्वा स्यैक स्वरूपिणि ।
भूत्वा कुलामृताकारं मयि विष्करणं कुरु ॥
ॐ असन्तापात्र भवितामिदन्ता परमामृतं । पराहन्तामये वह्नौ होम
प्। २२ब्)
स्वीकारलक्षणं । ऐँ वद वद वाग्वादिनि क्लीं क्लिन्ने क्लेदिनि क्लेदय २ ह्सौः
महाक्षोभं कुरु कुरु ह्सौंः महामोक्षं कुरु २ स्वाहा ।
ग्लूँ स्लूँ न्लूँ प्लूँ म्लूँ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि
महाप्रकाशयुक्ते अमृतं स्रावय २ स्वाहा ।
ततः श्रीपात्रे पञ्चरत्नानि पूजयेत् । ग्लूँ गगनरन्तेभ्यो नमः । स्लूं
स्वर्गरत्नेभ्यो नमः । प्लूं पातालरत्नेभ्यो नमः । म्लूं मर्त्यरत्नेभ्यो
नमः ।
ततः पुनस्तत्र आनन्दभैरवं आनन्दभैरवीं च पूजयेत् । ततस्तत्र
स्वेष्ट देवीमावाह्य हुं इति अवगुण्ठ्य वं धेनुमुद्रया अमृतीकृत्य
मूलेन योनिमुद्रया सन्दीप्य । षडङ्गैः सकलीकृत्य मत्स्यमुद्रया
आछाद्य तत्र मूलमन्त्रं दशधा जप्त्वा देवीरूपं श्रीपात्रं
विभाव्य । गन्धपुष्पधूपदीपैस्तत्र देवीं सम्पूज्य । तेनोदकेनात्मानं
पूजोपकरणान्यभ्युक्षयेत् । इति श्रीपात्रस्थापनं ॥
ततो गुर्वादि पात्राणि स्थापयेत् । घटसमीपे गुरुपात्रं ततो भोगपात्रं ।
ततः शक्तिपात्रं ।
प्। २३अ)
ततो योगिनीपात्रं । ततो वीरपात्रं । ततो बलिपात्रं । ततः पाद्यपात्रं । तत
आचमनीपात्रं । श्रीपात्रेण नवपात्राणि भवन्ति । तदभावे श्रीपात्रं
गुरुपात्रं भोग शक्ति योगिनी वीर बलि सप्तपात्राणि । तदभावे
श्रीगुरुभोगयोगिनी बलि पञ्चपात्राणि । तदभावे श्रीगुरुभोग त्रिपात्राणि ।
एषां स्थापन क्रमो यथा । भूमौ त्रिकोणवृत्त चतुरस्रमण्डलानि
सम्पूज्य । फट् इति साधारण पात्राणि प्रक्षाल्य नमः । इति
मण्डलोपरिसंस्थाप्य कारणेनापूर्य आधारपात्रा । तीर्थेषु वह्नि
सूर्यशशिमण्डलानि सम्पूज्य । तत्र शुद्धि मीनमुद्रया कुलकुसुमानि
निक्षिप्य हूं इति अवगुण्ठ्य । वं धेनुमुद्रया अमृतीकृत्य मूलेन
योनिमुद्रया सन्दीप्य । षडङ्गैः सकलीकृत्य । मत्स्यमुद्रया आछाद्य । तत्र
मूलमन्त्रं दशधा जपेदिति । ततस्तर्पणं कुर्यात् । यथा
वामहस्ततत्वमुद्रया । श्रीपात्रस्थकारणं शुद्ध्यादि सहितं गृहीत्वा
प्। २३ब्)
शिरसि सहक्षमलवरयूं आनन्दभैरवाय वषट् । एतत्सशुद्ध्या सवं
आनन्दभैरवं तर्पयामि नमः । इति त्रिवारं सन्तर्प्य सहक्षमलवरयीं
आनन्दभैरव्यै वषट् । एतत् सशुद्ध्या सवं आनन्दभैरवीं तर्पयामि
स्वाहा । इति त्रिवारं तर्पयेत् ।
ततो गुरुपात्रामृतेन एवं ऐं ह्रीं श्रीं अमुकानन्दनाथ श्री
अमुकीदेव्यंवा श्रीपादुकां तर्पयामि नमः । इति त्रिः । ततो ऐं श्रीं गुरुं
तर्पयामि नमः । ऐं परमगुरुं तर्पयामि नमः । ऐं परापरगुरुं
तर्पयामि नमः । ऐं परमेष्ठिगुरुं तर्पयामि नमः । श्रीपात्रामृतेन ॐ
देवांस्तर्पयामि नमः । ॐ ऋषींस्तर्पयामि नमः । ॐ पितॄंस्तर्पयामि
नमः । इति सकृत सकृत तर्पयेत् । ततः श्रीपात्रामृतेन मूलमूचार्य एतत्
सशुद्ध्यासवं श्रीमद्दक्षिणकालिकां तर्पयामि नमः स्वाहा । इति
सप्तपञ्चत्रिधा वा तर्पयेत् । ततो भोगपात्रामृतेन
महाकालमन्त्रमुच्चार्य । एतत् सशुद्ध्यासवं श्रीमन्महाकालभैरवं
तर्पयामि नमः । इति त्रिस्तर्पयेत् ।
ततः शक्तिपात्रामृतेन योगिनी
प्। २४अ)
पात्रामृतेन वा मूलमुच्चार्य एतत् सशुद्ध्यासवं सायुधां सवाहनां
सपरिवारां श्रीमन्महाकालभैरवसहितां श्रीमद्दक्षिणकालिकां
तर्पयामि स्वाहा । इति त्रिवारं तर्पयेदिति तर्पणं । ततस्तत्वशुद्धिं कुर्यात् ।
कृताञ्जलिः ॐ प्राणापान समानोदानव्याना मे शुद्ध्यतां ज्योतिरहं
विरजाविपाप्मा भूयासं स्वाहा ॥ १ ॥
ॐ पृथिव्यप्तेजोवाय्वाकाशानि मे शुद्ध्यन्ताम्मित्यादि ॥ २ ॥
ॐ प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे शुद्ध्यन्तामित्यादि ॥ ३ ॥
ॐ त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे शुद्ध्यन्तामित्यादि ॥ ४ ॥
ॐ पाणिपादपायूपस्थशब्दा मे शुद्ध्यन्तामित्यादि ॥ ५ ॥
ॐ स्पर्शरूपरसगन्धाकाशनि मे शुद्ध्यतामित्यादि ॥
इति सप्त ऋग्भिरवमृष्यकारणेन करतले सम्मार्ज्य दक्षिणहस्ततले अधोमुख
त्रिकोणं विलिख्य त्रिकोणेषु मध्ये च शुद्धि खण्डानि संस्थाप्य
मूलमन्त्रान्ते ह्रीँ श्रीँ आत्मतत्वेन स्थूलदेहं शोधयामि स्वाहा ।
इत्यनेन भगमुद्रया अधस्थां शुद्धिं स्वीकुर्यात् । मूलान्ते ह्रीँ श्रीँ
विद्यातत्वेन सूक्ष्मदेहं शोधयामि स्वाहा । इत्यनेन
प्। २४ब्)
दक्षिणस्थां शुद्धिं स्वीकुर्यात् । मूलान्ते ह्रीँ श्रीँ शिवतत्वेन परदेहं
शोधयामि स्वाहा । इत्यनेन वामस्थां शुद्धिं स्वीकुर्यात् । मूलान्ते ह्रीँ
श्रीँ सर्वतत्वेन तनु तत्रयाश्रयं जीवं शोधयामि स्वाहा । इत्यनेन
मध्यस्थां शुद्धिं स्वीकुर्यादिति तत्वशुद्धिः । ततो भोगपात्र तत्वमुद्रया
त्रिवारं बिन्दू स्वीकारं कुर्यात् यथा । मूलं आर्द्रं ज्वलति ज्योतिहमस्मि
ज्योतिर्ज्वलनि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि योहमस्मि सोहमस्मि
ब्रह्माहमस्मि अहमेव हि मां जुहोमि स्वाहा ॥ १ ॥
मूलं त्वमेव प्रत्यक्षं ब्रह्मासित्वामेव प्रक्षं वदिष्यामि त्वं
मामवतु त्वद्वक्तारमवतु आवतु मामवतु वक्तारं स्वाहा ॥ २ ॥
मूलं परश्छन्दशामृषभो
विश्वरूपश्छन्दोभ्योध्यमृतात्संवभूव समेन्दोमेधया स्पृणोति
अमृतस्य देवधारणो भूयासं शरीरे मे विचर्षणं जिह्वा मे
मधुमत्तमाकर्णाभ्यां भूरि विश्रुवं ब्रह्मणः कोशोसि मेधया पिहित
श्रुतं मे गोपाय स्वाहा ॥ ३ ॥
इति मन्त्रत्रयेण त्रिवारं विदु स्वीकुर्यात् । ततो वटुकादिभ्यो बलिं दद्यात् ।
प्। २५अ)
सिंहासनस्य पूर्वादिदिक्षु त्रिकोणवृत्त चतुरस्रमण्डलं चतुष्टयं
निर्माय । अथवा स्ववामे तन्मण्डलम्मेकं निर्माय फट् इति अर्घ्योदकेन
सम्प्रोक्ष्य एते गन्धपुष्पे । ॐ मण्डलाय नम इति मण्डलं सम्पूज्य तत्र
मांसमीनमुद्रा बलिपात्र कारणादि सहित बलिचतुष्टयं संस्थाप्य
पूर्वे एते गन्धपुष्पे वां वटुकाय नमः । इति वटुकं सम्पूज्य
वामहस्त तत्वमुद्रया बलिं धृत्वा । दक्षिणे नवपात्रकारणं
अर्घ्योदकं वा गृहीत्वा बलिमुत्सृजेत् । एहि एहि देवी पुटवटुकनाथ
कपिलजटाभार भास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय
बलिं गृह्ण गृह्ण स्वाहा । एष बलिर्वटुकनाथाय नमः । दक्षिणे यां
योगिनीभ्यो नमः । इति सम्पूज्य दक्षिणहस्ताङ्गुष्ठोनामिकाभ्यां बलिं
वामहस्तेन कारणं जलं वा गृहीत्वा बलिमुत्सृजेदनेन उर्द्धे
ब्रह्माण्डतो वा दिविगगनतले भूतले निष्कले वा पाताले वा वने वा
सलिलपवनयोर्यत्र कुत्र स्थिता
प्। २५ब्)
वा क्षेत्रे पीठोपपीठादिषु च कृतपरा धूपदीपादिकेन प्रीता देव्यः
सदानः शुभ बलि विधिना पान्तु वीरेन्द्रवन्द्याः । यां योगिनीभ्यः
स्वाहा । सर्वयोगिनीभ्यो हुं फट् स्वाहा । एष बलिर्योगिनीभ्यो नमः । पश्चिमे
क्षां क्षेत्रपालाय नमः । इति पूर्ववत् सम्पूज्य वाममुष्टिकृत
तर्जनीशरलीकृत्य बलिं धृत्वा उत्सृजेत् । अनेन
त्रिशूलं डमरूं चैव कपालं शङ्खमेव च ।
दधानं कृष्णवर्णान्तं भजेहं क्षेत्रपालकं ॥
क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्थानक्षेत्रपाल
धूपदीपादिसहितं बलिं गृह्ण २ स्वाहा । एष बलि क्षेत्रपालाय नमः । उत्तरे
गां गणेशाय नमः । इति गणेशं सम्पूज्य वाममुष्टि
मध्यमाङ्गुष्ठशरलयोगाद्बलिमुत्सृजेदनेन । गां गीं गूं गैं गौं
गः गणपतये वरद सर्वगनं मे वशमानय बलिं गृह्ण २ स्वाहा । एष
बलिर्गणेशाय नमः । ततः स्ववामे चतुरस्रं मण्डलं विलिख्य । फट् इति
मण्डलं सम्प्रोक्ष्य । ॐ व्यापकमण्डलाय इति सम्पूज्य ।
तत्र पूर्ववद्बलि संस्थाप्य । एते गन्धपुष्पे ह्रीं श्रीं
प्। २६अ)
सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हूं फट् स्वाहा । एष बलिः
सर्वभूतेभ्यो नमः । पञ्चबलिदाने अशक्तश्चेत् सर्वभूतेभ्यो बलिमेकं
दद्यात् । इति बलिदानविधिः ।
ततः प्राणायामं षडङ्गन्यासं च कृत्वा कामकलारूपमात्मानं
भावयेत् । कामकलाबीजं तु ईं अस्या ध्यानं विचिन्तयेत् सुन्दरीं देवीं
सर्वव्यापकरूपिणीं । इकारभूतमन्तः स्थावयवं चं चतुष्टयं ।
बिन्दुत्रयेण देवेशि प्रथमं देवि वक्त्रकं ।
बिन्दुद्वयं स्तनद्वन्द्वं हृदिस्थाने नियोजयेत् ॥
हकारार्धकलां सूक्ष्मां योनिमध्ये विचिन्तयेत् ।
तथा कामकलारूपां मदनाङ्कुर गोचरां ॥
उद्यदादित्यसङ्काशां सिन्दूराभां स्तनद्वयं ।
बिन्दुसङ्कल्प्य वक्त्रे तु स्फुरद्दीपशिखां प्रिये ॥
आधाराद्ब्रह्मरन्ध्रान्तं तन्त्रमार्गेण भावयेत् ।
कामो बिन्दुरहं देवि तत्रस्था परमेश्वरी ॥
शिवशक्तिमयं देवि तदधस्थात् कुचद्वयं ।
तदधः सपरार्द्धं च चिद्रूपां परमां कलां ॥
सापि कुण्डलिनी शक्तिः कामकलास्वरूपिणी ।
सापि च त्रिविधा सृष्टिर्ब्रह्मविष्णुशिवात्मिका ॥
प्। २६ब्)
तां चिन्त्यसाधक श्रेष्ठस्त्रैलोक्यं वशमानयेत् ।
शक्त्यभावे महाशक्तिर्महांसिद्धिप्रदायिनीं ॥
एवं कामकलारूपमात्मानं विचिन्त्य । पूर्ववद्देवीं ध्यात्वा ।
मूलाधारस्थ कुण्डलिनीं षट्चक्रभेदक्रमेण सहस्रारे नीत्वा तत्रस्थ
परमशिवे संयोज्य तत्रैव क्षणमात्रं रमयित्वा तदुद्भवामृतेनाप्लाव्य
आनन्दलोलीभूतां ब्रह्ममयीं हृदयाष्टदले समानीय श्वासमार्गेण
दीपाद्दीपान्तरमिव करस्थमातृकां भोजस्वरूप पुष्पाञ्जलावानीय
तत्पुष्पं यन्त्रादौ संस्थाप्य मूलमन्त्रेण देवीमूर्त्तिं सङ्कल्प्य
कृताञ्जलिः ।
ॐ देवेशि भक्तिसुलभे परिवारसमन्विते ।
यावत् त्वां पूजयिष्यामि तावत् त्वां सुस्थिरा भव ॥
इति सम्प्रार्थ्य आवाहयेत् ।
पञ्चमुद्राभिर्यथा । भगवति श्रीमद्दक्षिणकालिके सायुधे सवाहने
सपरिवारे श्रीमन्महाकालभैरव सहिते इहागच्छ इह तिष्ठ इह सन्निधै हि
इह सन्निरूद्धस्व इह सम्मुखी भव ।
प्। २७अ)
कृताञ्जलिः । अत्राधिष्ठानं कुरु मम पूजां गृहाण । ततो
लेलिहानमुद्रया यन्त्रं धृत्वा प्राणप्रतिष्ठां कुर्यात् । यथा आं ह्रीं
क्रों हं सः श्रीमद्दक्षिणकालिकायाः प्राणा इह प्राणाः पुनः आं
ह्रीं क्रों हं सः श्रीमद्दक्षिणकालिकायाः जीव इह स्थितः आं ह्रीं क्रों
हं सः श्रीमद्दक्षिणकालिकायाः सर्वेन्द्रियाणि आं ह्रीं क्रों हं सः
श्रीमद्दक्षिणकालिकाया वाङ्मनोनयनश्रोत्र घ्राण प्राणा इहागत्य
सुखं चिरं तिष्ठन्तु स्वाहा । ततोर्घ्योदकेन मातृकां बिन्दुयुक्तां
मूलमन्त्रं चोच्चार्य्य देवीं सम्प्रोक्ष्य परमीकरणी महामुद्रां
प्रदर्श्य । हूं इति अवगुण्ठ्य धेनुमुद्रया अमृतीकृत्य मूलेन योनिमुद्रया
सन्दीप्य महायोनिभूतिनी मुद्रे प्रदर्श्य षडङ्गमन्त्रैः सकलीकृत्य
पूजयेत् । पूजा तु षोडशोपचारा यथा ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकं ।
मधुपर्काचमनस्नानं वसनाभरणानि च ॥
गन्धपुष्पधूपदीपनैवेद्यचन्दनानि च ।
प्। २७ब्)
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥
पाद्यार्घ्याचमनीयानि मधुपर्काचमनं तथा ।
गन्धादयो नैवेद्यान्ता उपचारा दश क्रमात् ॥
गन्धपुष्पं तथा धूपो दीपोनैवेद्यमेव च ।
नियोजयेदर्चनायां पूजापञ्चोपचारिका ॥
आदौ मूलं समुच्चार्य उपचारं ततो वदेत् ।
ता स्वदेवता नाम्ना उपचारात् समर्पयेत् ॥
तत्रादौ षोडशोपचारिका पूजा यथा । स्वर्णाद्यासनमानीय पात्रान्तरे
संस्थाप्य । फट् इति अर्घ्योदकेन सम्प्रोक्ष्य हूं इति अवगुण्ठ्य वं
धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रां प्रदर्श्य मूलमुच्चार्य । एतत्
अमुकायनं श्रीमद्दक्षिणकालिकायै नमः । ततः कृताञ्जलिः
मूलमुच्चार्य श्रीमद्दक्षिणकालिके स्वागत्यन्ते सुस्वागतं । ततो
मूलमुच्चार्य । एतत्पाद्यं श्रीमद्दक्षिणकालिकायै नमः । इति जलं
पादयोर्दद्यात् । एवं इदमर्घ्यं श्री० स्वाहा । इति
पुष्पबिल्वपत्रदुर्वाक्षताश्वेतरक्तचन्दनजलानि एकत्रीकृत्यार्घ्यं शिरसि
दद्यात् । इदमाचमनीयं श्री० स्वधा । इति सुगन्धिजलं मुखे । एष
प्। २८अ)
तैलसाधारमधुपर्कः श्री० स्वधा । इति मुखे । मूलं एतत्पुनराचमनीयं
श्री० स्वधा । इति मुखे । इदं स्नानीयोदकं श्री० नमः । इति सर्वाङ्गे । एतत्
पुनराचमनीयं पूर्ववत् । एतद्वस्त्रं श्री० नमः । एतत् पुनराचमनीयं
श्री० स्वधा । इति मुखे । एतन्मुखे स्वर्णाद्याभरणं श्री० नमः । इति
नानाभरणानि । एष गन्धः श्री० नमः इति सर्वाङ्गे । इदं रक्तानुलेपनं
श्री० नमः पूर्ववत् । एतत् सिन्दूरं श्री० नमः इति ललाटे सीमन्ते च दद्यात् ।
एतत् पुष्पं श्री० वौषट् इति नानाविधपुष्पाणि शिरोहृद्गुह्यं पाद
सर्वाङ्गेषु पञ्चवारं दद्यात् । एतत् स चन्दनबिल्वपत्रं श्री० नमः । इति
चरणयोः अग्नौ धूपं दत्वा प्रोक्षणादिभिः संस्कृत्य एष धूपः श्री०
नमः इति धूपं निवेद्य फट् इति घण्टां सम्प्रोक्ष्य एते गन्धपुष्पे ॐ
जपध्यानमन्त्रमातः स्वाहा । इति घण्टां सम्पूज्य वामहस्तेन
घण्टां वादयन् दक्षिणेन धूपमुत्तोल्पनीचैर्नासिका पर्यन्तं
त्रिवारं धूपयेत् । घृतादि दीपं प्रज्वाल्य प्रोक्षणादिभिः संस्कृत्य एष
दीपः श्री नमः पूर्ववत्
प्। २८ब्)
घण्टां वादयन् उच्चैर्दृष्टिपर्यन्तं सप्तवारं दीपं दर्शयेत् । ततः
सुधापात्रं वामहस्तपानमुद्रया धृत्वा दक्षिणेदशुद्ध्यादिकं
गृहीत्वा करौ संयोज्य हृदि लग्नौ कृत्वा
ॐ मर वं वारुणीकल्पं कोटिकल्पान्तकारिणी ।
गृहाणशुद्धिसहितं देहि मे मोक्षमव्ययं ॥
इति पठित्वा आधारे पात्रं संस्थाप्य मूलमुच्चार्य । एतत् सुद्ध्यासवं
श्री० निवेदयामि । इति निवेद्य कृताञ्जलिः ।
ॐ शुद्ध्यासवरसस्वादु परमानन्दनिर्भरे ।
अपारे भवसंसारे त्राहि मां परमेश्वरि ॥
ततः सम्मुखे त्रिकोणवृत्तचतुरस्रं मण्डलं विलिख्य । तदुपरि
नानास्वादुपदं सनैवेद्यं साधारं संस्थाप्य । एते गन्धपुष्पे
ॐ नैवेद्याय नमः । इति नैवेद्य सम्पूज्य फट् इति सम्प्रोक्ष्य । हूं इति
अवगुण्ठ्य वं धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रया
सन्दीप्य षडङ्गैः सकलीकृत्य मत्स्यमुद्रया आछाद्य तत्र मूलमन्त्रं
दशधा जप्त्वा वामहस्त तत्वमुद्रया धृत्वा । मूलमुच्चार्य एतत्सोपकरण
नैवेद्यं श्रीमद्दक्षिणकालिकायै निवेदयामि ।
प्। २९अ)
इति निवेद्य ।
ॐ अमृतोपस्तरणमसि स्वाहा । इति जलषडङ्गं दद्यात् । ॐ प्राणाय स्वाहा । ॐ
अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय
स्वाहा । इति प्राणादि मुद्राः प्रदर्श्य । ॐ निवेदयामि भगवत्यै जुषानेदं
हविर्मम । इति ग्रासमुद्रां प्रदर्श्य मूलं एतत्पानार्थोदकं श्री०
निवेदयामि । मूलं एतत्पुनराचमनीयं श्री० स्वधा नैवेद्य च ताम्बूलं
संस्कृत्यमूलं एतत् ताम्बूलं श्री० निवेदयामि । ततः श्रीपात्रामृतेन
त्रिवारं सन्तर्प्य देवीं गुरुं च प्रणमेत् । ततो मूलमुच्चार्य एष
पुष्पाञ्जलिः श्रीमद्दक्षिणकालिकायै वौषट् । इति शिरोहृद्गुह्यपाद
सर्वाङ्गेषु पञ्चपुष्पाञ्जलिः दद्यत् । ततः कृताञ्जलिः ।
संविन्मये महाशान्ति परामृतचरु प्रिये ।
अनुज्ञां कालिके देहि परिवारार्चनायते ॥
इत्यनुज्ञां लब्ध्वा आवरणपूजामारभेत् ।
तत्रादौ षडङ्ग ध्यानं ।
तुषारस्फटिक श्यामनीलकृष्णारुण त्विषः ।
वरदाभय धारिण्यः प्रधानतनवः स्त्रियः ॥
इति देव्याः शिरः शिखा कवच
प्। २९ब्)
नेत्रास्तेषु । अथवाष्टदलपद्मं केशरेषु अग्नीशा सुखाय मध्येषु
पूर्वादिदिक्षु चक्रां हृदयाय नमः । क्रीं शिरसे स्वाहा नमः । क्रूं
शिखायै वषट् नमः । क्रैं कवचाय हूं नमः । क्रौं नेत्रत्रयाय
वौषट् नमः । क्रः अस्त्राय फट् नमः । इति गन्धपुष्पाक्षतैः
प्रत्येकमङ्गानि सम्पूज्य पुनः एते गन्धपुष्पे श्रीमद्दक्षिणकालिकायाः
षडङ्ग देवताभ्यो नमः । इति वारद्वयं सम्पूज्य । क्रीँ
श्रीमद्दक्षिणकालिकायाः षडङ्ग देवतास्तर्पयामि । इति त्रिवारं सन्तर्प्य
मूलं एष पुष्पाञ्जलिः श्रीमद्दक्षिणकालिकायै वौषट् ।
इत्येकपुष्पाञ्जलिं दत्वा मूलं श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।
इति सकृत्सन्तर्प्य देवीं प्रणमेत् । ततः श्रीमन्महाकालभैरवं पूजयेत् ।
अस्य मन्त्रा यथा । ॐ महाकालाय नमः । हूं महाकालाय नमः ।
इत्यष्टाक्षर द्वयं । हूं हूं महाकाल प्रसीद प्रसीद ह्रीं ह्रीं
स्वाहा । ह्रीं ह्रीं हूं महाकाल ह्रीं ह्रीं हूं १० ॐ ह्रीं
महाकालाय नमः । ॐ ह्रीं क्रीं महाकालाय स्वाहा । एतेषां
प्। ३०अ)
मन्त्राणां दक्षिणकालिका ऋषिर्विराट्छन्दः सर्वव्यापि निरञ्जन
श्रीमहाकालभैरवो देवता हूं बीजं ह्रीँ शक्तिः स्वाहा कीलकं
धर्मार्थ काममोक्ष चतुर्वर्गसिद्धये विनियोगः । शिरसि
श्रीमद्दक्षिणकालिका ऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि
सर्वव्यापि निरञ्जन श्रीमन्महाकालभैरवदेवतायै नमः । गुह्ये हूं
बीजाय नमः । पादयोः ह्रीं शक्तये नमः । सर्वाङ्गे स्वाहा कीलकाय
नमः । पूर्ववद्विनियोगः । ततः कराङ्गन्यासौ यथा । गन्धपुष्पे ऐं
ह्रीं श्रीं ब्रह्मानन्दनाथादिसिद्धौघगुरुभ्यो नमः । इति वारद्वयं
सम्पूज्य प्रत्येकं पूजयेत् । एते गन्धपुष्पे ऐं ह्रीं श्रीं
ब्रह्मानन्दनाथ श्रीपा० पू० एवं पूर्णादेवानन्दनाथ श्रीपा० पू०
चलच्चित्तानन्दनाथ श्रीपा० पू० चलाचलानन्दनाथ श्रीपा० पू०
कुमारानन्दनाथ श्रीपा० पू० क्रोधनानन्दनाथ श्रीपा० पू०
वरदानन्दनाथ श्रीपा० पू० स्मरदीपनानन्दनाथ श्रीपा० पू०
मायाम्बा श्रीपा० पू० मायावत्यम्बा
प्। ३०ब्)
श्रीपा० पू० इति सम्पूज्य गुरुपात्रामृतेन ऐं ह्रीं श्रीं
ब्रह्मानन्दनाथादि सिद्धौघ गुरुंस्तर्पयामि नमः । इति त्रिवारं
सन्तर्प्य प्रणमेदिति सिद्धौघाः । तत एते गन्धपुष्पे ऐं ह्रीं श्रीं
विमलानन्दनाथ श्रीपादुकां पूजयामि नमः । एवं कुशलानन्दनाथ
श्रीपा० पू० । भीमसेनानन्दनाथ श्रीपा० पू० । सुधाकरानन्दनाथ
श्रीपा० पू० । मीनानन्दनाथ श्रीपा० पू० । गोरक्षकानन्दनाथ श्रीपा०
पू० । भोगदेवानन्दनाथ श्रीपा० पू० । प्रजापत्यानन्दनाथ श्रीपा०
पू० । मूलदेवानन्दनाथ श्रीपा० पू० । रन्तिदेवानन्दनाथ श्रीपा०
पू० । विघ्नेश्वरानन्दनाथ श्रीपा० पू० । हुताशनानन्दनाथ श्रीपा०
पू० । समयानन्दनाथ श्रीपा० पू० । सन्तोषानन्दनाथ श्रीपा० पू० ।
सर्वत्र ऐं ह्रीं श्रीं आदिश्रीपा० पू० नमोन्तेन पूजयेत् । गुरुपात्रामृतेन
ऐं ह्रीं श्रीँ विमलानन्दनाथादि मनवौघगुरुंस्तर्पयामि नमः । इति
त्रिवारं सन्तर्प्य प्रणमेत् । ततः काल्पादि
प्। ३१अ)
पञ्चदशनित्या अन्तस्त्रिकोणाक्षरभ्य वामावर्त्तेन पूजयेत् । अस्या ध्यानं
यथा । सर्वाः श्यामां असिकरा मुण्डमालाविभूषणाः । तर्जनीं
वामहस्तेन धारयन्त्यः शुचि स्मिताः । दिगम्बरा हसन्मुख्यः
स्वस्वभर्तृसमन्विताः । इति ध्यात्वा । एतत् पाद्यं क्रीं काल्पादि
पञ्चदशशक्तिभ्यो नमः । एवं क्रमेण नैवेद्यताम्बूलान्तैः सम्पूज्य
पुनः एते गन्धपुष्पे क्रीं काल्यै नमः । एवं कपालिन्यै कुल्लायै
तद्वहिस्त्रिकोणे कुरु कुल्लायै विरोधिन्यै विप्रचित्तायै तद्वहिस्त्रिकोणे
उग्रप्रभायै दीप्तायै तद्वहिस्त्रिकोणे नीलायै घनायै वलाकायै
तद्वहिस्त्रिकोणे मात्रायै मुद्रायै मितायै । एताः क्रीं बीजादि नमोन्तेन
पूजयेत् । तथा प्रमाणमुक्तं रुद्रयामले काल्पाद्याः शक्तयः पूज्या
कालीबीजेन केवलं । अन्यथा सिद्धिहानिः स्यात् कालिका पूजने परमिति । ततः
क्रीं काल्पादि पञ्चदशशक्तीस्तर्पयामि स्वाहा । इति त्रिवारं सन्तर्प्य
प्रणमेत् ।
प्। ३१ब्)
ततो मूलमुच्चार्य एष पुष्पाञ्जलिः त्रिपञ्चारपीठे काल्पादि
पञ्चदशशक्ति सहिते श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पाञ्जलिं दत्वा
सकृत् तर्पयेत् । ततोष्टदलेषु वामावर्त्तेन ब्राह्माद्यष्टशक्तिः पूजयेत् ।
तत्रादौ एतत्पाद्यं ह्रीं ब्रह्माद्यष्टशक्तिभ्यो नमः । इत्यादि
नैवेद्यताम्बूलान्तैः सम्पूज्य । पुनः एते गन्धपुष्पे ह्रीं
ब्रह्माद्यष्टशक्तिभ्यो नमः । इति सम्पूज्य प्रत्येकं पूजयेत् । पूर्वादितः
एते गन्धपुष्पे आं ब्राह्म्यै नमः । एवं ईं नारायण्यै नमः । जं
माहेश्वर्यै नमः । ऋं चामुण्डायै नमः । ऌं कौमार्य्यै नमः । ऐं
अपराजितायै नमः । औं वाराह्यै नमः । अंः नारसिंह्यै नमः । इति
सम्पूज्य ह्रीं ब्रह्माद्यष्टशक्तीस्तर्पयामि नमः । इति त्रिः सन्तर्प्य
प्रणमेत् । ततो मूलमुच्चार्य एष पुष्पाञ्जलिः अष्टदलपत्रे
ब्रह्माद्यष्टशक्तिसहिते श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पाञ्जलिं
दत्वा मूलमुच्चार्य श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति
प्। ३२अ)
सकृत्तर्पयेत् । ततोष्टदलाग्रे एतत्पाद्यं ॐ असिताङ्गाद्यष्टभैरवेभ्यो नमः
। इति नैवेद्यताम्बूलान्तैः सम्पूज्य । पुनः एते गन्धपुष्पैः ॐ
असिताङ्गाष्टभैरवेभ्यो नमः । इति सकृत्सम्पूज्य पूर्वादि वामावर्त्तेन
प्रत्येकं पूजयेत् । अं असिताङ्गभैरवाय नमः । इं रुरुभैरवाय नमः
। ठं चण्डभैरवाय नमः । ऋं क्रोधभैरवाय नमः । ऌं
उन्मत्तभैरवाय नमः । एं कपालीभैरवाय नमः । ॐ भीषणभैरवाय
नमः । अं संहारभैरवाय नमः । इति गन्धपुष्पैः सम्पूज्य । ॐ
असिताङ्गाद्यष्टभैरवांस्तर्पयामि नमः । इति त्रिः सन्तर्प्य प्रणमेत् । ततो
मूलमुच्चार्य एष पुष्पाञ्जलिः अष्टदलाग्रे असिताङ्गाद्यष्टभैरवसहित
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पाञ्जलि दत्वा मूलमुच्चार्य
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति सकृत्सन्तर्प्य प्रणमेत् ।
तद्वाह्ये भूपुरं देशे पूर्वादि प्रादक्षिण्येन इन्द्रादि
दशदिक्पालान्पूजयेत् । एतत् पाद्यं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः । इति
पूर्ववत्
प्। १३२ब्)
सम्पूज्य एते गन्धपुष्पे । ॐ इन्द्रादि दशदिक्पालेभ्यो नमः । इति सम्पूज्य एते
गन्धपुष्पैः प्रत्येकं पूजयेत् । लं इन्द्राय नमः । रं अग्नये नमः ।
मं यमाय नमः । क्षं नि-ऋतये नमः । वं वरुणाय नमः । यं वायवे
नमः । कुं कुबेराय नमः । हुं ईशानाय नमः । पूर्वेशानयोर्मध्ये
आं ब्रह्मणे नमः । निर्-ऋति वरुणयोर्मध्ये ह्रीं अनन्ताय नमः । इति
सम्पूज्य । ॐ इन्द्रादि दशदिक्पालांस्तर्पयामि । इति त्रिः सन्तर्प्य प्रणमेत् ।
ततो मूलमुच्चार्य एष पुष्पाञ्जलिः इन्द्रादि दशदिक्पालसहित
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पाञ्जलिं दत्वा मूलमुच्चार्य
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति सन्तर्प्य प्रणमेत् । ततो
भूपुरवाह्ये एतत् पाद्यं । ॐ वज्रादि अस्त्रेभ्यो नमः इत्यादि पूर्ववत्
सम्पूज्य एते गन्धपुष्पे ॐ वज्रादि अस्त्रेभ्यो नमः । ततः प्रत्येकं
गन्धपुष्पैः पूजयेत् । एते गन्धपुष्पे वं वज्राय नमः । एवं शं
शक्तये नमः । इं दण्डाय नमः । खं खड्गाय नमः । पां पाशाय
नमः । अं अङ्कुशाय नमः । ॐ गं गदायै नमः । शूं शूलाय नमः ।
प्। ३३अ)
पूर्वेशानयोर्मध्ये पं पद्माय नमः । नि-ऋति वरुणयोर्मध्ये । चं
चक्राय नमः । ततः ॐ वज्रांयदि अस्त्राणि तर्पयामि । इति त्रिः सन्तर्प्य
प्रणमेत् । ततः पूर्ववत् देव्यै पुष्पाञ्जलिं दत्वा सन्तर्प्य प्रणमेत् ततो
देव्या अस्त्राणि पूजयेत् । वामाधोहस्ते एते गन्धपुष्पे । मुं मुण्डाय
नमः । इति त्रिः । मुं मुण्डं तर्पयामि । इति त्रिः । एवं वामोर्द्धहस्ते खं
खड्गाय नमः । खं खड्गं तर्पयामि । इति स्त्रिः । तदूर्द्ध्वहस्ते अं
अभयाय नमः । अं अभयं तर्पयामि । इति त्रिः । ततो गन्धादि
पञ्चोपचारैः सायुधां सपरिवारां देवीं पूजयेत् । मूलं एष
गन्धः सायुधायै सवाहनायै श्रीमद्दक्षिणकालिकायै नमः । एवं
क्रमेण ताम्बूलायै सम्पूज्य । एष स चन्दनपुष्पाञ्जलिः सायुधायै
सवाहनायै सपरिवारायै श्रीमन्महाकालभैरवसहितायै
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पाञ्जलि त्रयं दत्वा । मूलमुच्चार्य
सायुधां सवाहनां सपरिवारां श्रीमन्महाकालभैरवसहितां
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।
प्। ३३ब्)
इति त्रिः सन्तर्प्य प्रणमेत् । बलिं दद्यात् । देव्याग्रे भूमौ त्रिकोणवृत्त
चतुरस्रं मण्डलं निर्माय सुरामांसान्नादि बलि संस्थाप्य वामहस्त
तत्वमुद्रया धृत्वा दक्षिणहस्तेन बलिपात्र कारणं गृहीत्वा क्रीं ॐ ह्रीं
श्रीं श्रीमद्दक्षिणकालिकायै स्वाहा एष बलि नमः । इति नैवेद्यादिभिर्बलिं
दद्यादिति सात्विक बलिः ।
अथ राजसि बलिर्यथा ।
सुलक्षणं छागादि पशुं स्नापयित्वा देव्या अग्रे संस्थाप्य
मूलमुच्चार्य वीक्ष्य फट् इति अर्घोदकेन सम्प्रोक्ष्य फट् इति कुशैः
सन्ताड्य हूं इति अवगुण्ठ्य दक्षिणकर्णे ॐ पशुपाशाय विद्महे
विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् । इति कर्णे त्रिवारं वामकर्णे
एकवारं पशुगायत्री श्रावयेत् । तत एतत्पाद्यं ॐ छागपशवे नमः ।
एवं इदमर्घ्यं इदमाचमनीयं एष गन्धः एतत्स चन्दनपुष्पां एष
धूपः एष दीपः एतत्सोपकरण नैवेद्यं पानार्थ जलं इदमाचमनीयं ।
एतत् ताम्बूलं । इति सम्पूज्य खड्गं सम्पूजयेत् । एतत्पाद्यं हूं
खड्गाय नमः ।
प्। ३४अ)
इत्यादि नैवेद्यताम्बूलान्तैः सम्पूज्य । ततः खड्गाग्रे एते गन्धपुष्पे ॐ
वागीश्वरी ब्रह्मभ्यां नमः । एवं खड्गमध्ये । ॐ
लक्ष्मीनारायणाभ्यां नमः । खड्गमूले
ॐ उमामहेश्वराभ्यां नमः । ततः ॐ ब्रह्मविष्णुशिवशक्तियुक्ताय
खड्गाय नमः । इति सम्पूज्य । ॐ खड्गाय शरनाशायशक्तिकार्याय तत्पर
पशुश्छेद्यस्त्रयाशीघ्रं खड्गं नाथ नमोस्तुते । इत्यनेन प्रणमेत् ।
ततस्ताम्रादि पात्रे तिलकुशजलान्यादाय दक्षिणहस्तेन गृहीत्वा वामहस्तेन
पशुं धृत्वा । ॐ अद्यामुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे
अमुक्यां तिथौ अमुकगोत्रः श्री अमुकशर्मा श्रीमद्दक्षिणकालिका प्रीतये
इमं छागपशुमेषपशुं वा वह्नि दैवतं मृगपशुं वा वायुदैवतं
महिषपशुं यमदैवतं वा भगवत्यै श्रीमद्दक्षिणकालिकायै
तुभ्यमहं घातयिष्ये । परार्थे घातयिष्यामि इति विशेषः । इत्यकृत्य
कृताञ्जलिः । ॐ यथोक्तेन विधानेन तुभ्यमस्तु समर्पितं । इति पठेत् । ततः
खड्गमुत्तोल्य
प्। ३४ब्)
ॐ छिन्दि छिन्दि हूं फट् इति मन्त्रेण पशुस्कन्धे नियोजयेत् । ततः पशुं
पूर्वमुखं कृत्वा स्तम्भादौ बध्वा छेत्ता उत्तरमुखो भूत्वा देवी
ध्यान परायणः एकाघातेन छिन्द्यात् । ततः खर्परादौ समांसरुधिरं
नीत्वा मूलमुच्चार्य्य । एष समांसरुधिर बलिः भगवत्यै
श्रीमद्दक्षिणकालिकायै तुभ्यमहं सम्प्रददे । इत्युत्सृज्य छिन्नशीर्षोपरि
सघृतवर्त्यादीपं नियोज्य मूलमुच्चार्य एष सप्रदीप छागशीर्षबलिः
श्रीमद्दक्षिणकालिकायै तुभ्यमहं सम्प्रददे इत्युत्सृजेत् । ततो भूमौ पतित
रुधिरं पञ्चभागं कृत्वा । पूर्वादि प्रादक्षिण्येन पूर्वोक्त
बलिमन्त्रैर्बटुका योगिनी क्षेत्रपालगणेशेभ्यो बलिं दत्वा मध्ये
सर्वभूतेभ्यो बलिन्दद्यात् । इति बलिदान विधिः ॥
ततः प्राणायामं कृत्वा अष्टोत्तरशतं सहस्रं वा मूलमन्त्र जप्त्वा
अशक्तश्चेत् अष्टत्रिंशद्वारं जप्त्वा । पुनः प्राणायामादिकं कृत्वा
सपुष्पार्घ्योदकं गृहीत्वा गुह्यातीत्यादिना तेजोरूपं जपफलं
प्। ३५अ)
देव्याः वामकरे समर्प्य । ॐ मूलं ॐ इति अशौचभङ्गं सप्तवारं जप्त्वा
प्रणमेत् । विशेषजपक्रमन्भू अग्रे लिखिष्यामि । शक्तश्चेन्नित्य होमं कुर्यात्
तद्यथा । कुण्डे वा स्थण्डिले समभूमौ वा प्रादेशप्रमाण
प्रागग्रास्त्रिस्रोरेखाविलिख्य मूलमन्त्रेण वीक्ष्य । फट् इति अर्घ्योदकेन
सम्प्रोक्ष्य फट् इति कुशैः सन्ताड्य हुं इति अभ्युक्ष्य । एते गन्धपुष्पे
श्रीमद्दक्षिणकालिकायाः स्थण्डिय नमः । इति सम्पूज्य अग्निमानीय
पूर्ववद्वीक्षणादिभिः संस्कृत्य । तत्रस्थ प्रज्वलित काष्ठमेकं हूं
फट् क्रव्यादिभ्यो नमः स्वाहा । इति मन्त्रेण नै-ऋत्यां क्रव्यादांशं
परित्यजेत् । तत आत्मानोभिमुखं वह्निस्थण्डिल संस्थाप्य ह्रीं
वह्निमूर्त्तये नमः । रं वह्नि चैतन्याय नमः । इति सम्पूज्य । अग्नेर्मूर्ति
चैतन्यं परिकल्प्य । ॐ चित्पिङ्गल हन हन दह दह पच पच मथ मथ
सर्वज्ञापय ज्ञापय स्वाहा । इति ज्वालिनीमुद्रया अग्निं प्रज्वालयेत् ।
ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं ।
प्। ३५ब्)
सुवर्णवर्णममलं समिद्धं विश्वतो मुखं ॥
इति कृताञ्जलिर्वह्निं प्रणम्य ॐ अग्नेत्वं श्रीमद्दक्षिणकालिका नामासि । इति
अग्नेर्नाम कृत्वा वैश्वानर जातवेद इहा वह लोहिताक्ष सर्वकर्माणि
साधय स्वाहा । एते गन्धपुष्पै श्रीमद्दक्षिणकानामाग्नये नमः ।
इत्यादि सम्पूज्य घृतमानीय । मूलेन वीक्ष्य फट् इति सम्प्रोक्ष्य फट् इति
कुशैः सन्ताड्य हूं इति अभ्युक्ष्य तत्र प्रादेशप्रमाण कुशपत्रद्वयं
शुक्लकृदमरूपं कुशद्वयं दत्वा । घृतं त्रिभागं कृत्वा । वामे
इडां दक्षिणे पिङ्गलां मध्ये सुषुम्नां ध्यात्वा नमः । इति
दक्षभागादाज्यं गृहीत्वा । ॐ अग्नये स्वाहा । इत्यग्ने दक्षनेत्रे जुहुयात्
नमः । इति वामभागादाज्यं गृहीत्वा ॐ सोमाय स्वाहा । इति वामनेत्रे नमः
। इति मध्यभागादाज्यं गृहीत्वा । ॐ अग्निषोमाभ्यां स्वाहा । इति ललाटे नेत्रे
पुनर्नमः । इति दक्षभागादाज्यं गृहीत्वा ॐ अग्नये स्वीष्टिकृते स्वाहा । इति
तन्मुखे जुहुयात् । ततो महाव्याहृति होमं कुर्यात् ।
प्। ३६अ)
ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ भूर्भुवः स्वः स्वाहा इति
त्रिर्जुहुयात् । ततो अग्नौ देवीं ध्यात्वा आवाह्य गन्धादि पञ्चोपचारैः
सम्पूज्य षडङ्गांहुतिर्जुहुयात् । ॐ क्रां हृदयाय नमः स्वाहा । ॐ क्रीं
शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् स्वाहा । ॐ क्रैं कवचाय हुं स्वाहा
। ॐ क्रौं नेत्रत्रयाय वौषट् स्वाहा । ॐ क्रः अस्त्राय फट् । ततो
महाकालमन्त्रमुच्चार्य श्रीमन्महाकालभैरवाय स्वाहा । इति त्रिर्जुहुयात् ।
असिताङ्गाद्यष्टभैरवेभ्यो जुहुयात् । अं असिताङ्गभैरवाय स्वाहा । इं
रुरुभैरवाय स्वाहा । उं चण्डभैरवाय स्वाहा । ऋं क्रोधभैरवाय
स्वाहा । ऌं उन्मत्तभैरवाय स्वाहा । एं कपालीभैरवाय स्वाहा । ॐ
भीषणभैरवाय स्वाहा । अं संहारभैरवाय स्वाहा । ततो
मूलमुच्चार्य श्रीमद्दक्षिणकालिकायै स्वाहा । इति षोडशाहुतिः ।
पञ्चविंशति आहुतिर्वाहुत्वा पूर्णाहुतिं दद्यात् । स्रुवेण स युष्माज्यं
गृहीत्वा मूलमन्त्रमुच्चार्य्य इतः पूर्वं प्राण
बुद्धिदेहधर्माधिकारतो
प्। ३६ब्)
जाग्रत्स्वप्नसुषुप्त्यावस्थासुमनसावाचाकर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं
ब्रह्मार्पणमस्तु । मां मदीयं च सकलं परमदेवता
श्रीमद्दक्षिणकालिकाचरणे समर्पयामि स्वाहा । ॐ तत्सत् । ततः
संहारमुद्रया अग्नेः सकाशादेवीं स्वहृदयमानीय अग्ने क्षमस्व । इति
अग्निं विसर्ज्य दध्ना जलेन वा ॐ पृथ्वित्वं शीतला भव इति शीतलीकृत्य
स्रुवलग्न भस्मरा पं यं इत्यादि मन्त्रेण ललाटे तिलकं कुर्यात् । इति
नित्यहोमं विधिः ॥
ततो विशेषेण मूलमन्त्रं जपेत् ।
अथ जपक्रमो यथा ।
पूजाकालादन्यत्र यदि जपेत् तदा आचम्य भूतापसारणं कृत्वा । आसनं
संशोध्य तत्र उपविशेत् । ततो वामकर्णोर्द्धे गुरु चतुष्टयं दक्षिणे
गणेशं । मध्ये इष्टदेवीं प्रणम्य प्राणायाम ऋष्यादिकं
अङ्गन्यासान् कृत्वा मन्त्रशिखा भावयेत् । हं सः इति मन्त्रेण
मूलाधार * * * *? मूलाधारादि षट्चक्रमेद? क्रमेण शिरोवस्थित
सहस्रदल-
प्। ३७अ)
कमलकर्णिकान्ताति परमशिवे संयोज्य तत्रैव क्षणमात्रं रमित्वा
तदुद्भवामृते प्लाव्य पुनः मूलाधारे आनयेत् । एवं क्रमेण सप्तवारं
कृत्वा यत्तेजो भवति सा मन्त्रशिखा । ततो मन्त्रचैतन्यं भावयेत् ।
पूर्ववत्कुण्डलिनीं सहस्रारे परमशिवे संयोज्य तेन रमयित्वा
तदुद्भवामृतेनाप्लाव्य पुनर्मूलाधारमानीय हं हं इति बीजद्वयं
चन्द्रसूर्याग्निरूपायां सुषुम्नायां विभाव्य तत पुटितं
मूलमन्त्रं तेजोरूपं विचिन्त्य । पुनः सहस्रारे अकथादि त्रिकोणमण्डले
तद्बीजद्वयपुटितं मूलमन्त्रं विभाव्य चन्द्रामृतेनाप्लावयेत् । इति
मन्त्रचैतन्यं ततो मन्त्रार्थं भावयेत् । मूलाधारादि षट्चक्रेषु
सहस्रारेपि मन्त्रस्वरूपां इष्टदेवीं भावयेदिति मन्त्रार्थः । ततः
सहस्रदलकमले श्रीगुरुं ध्यात्वा मानसोपचारैः पूजयेत् । हृदये
इष्टदेवीं ध्यात्वा मानसोपचारैः पूजयेत् । क्रीँ हूं स्त्रीं ह्रीँ फट् इति
कुल्लुकां मूर्द्ध्नि दशधा जपेत् । हृदये ऐँ हूँ ऐँ इति सेतुं दशधा
प्। ३७ब्)
क्रीँ इति महासेतुं कण्ठे दशधा जपेत् । ऐं मूलं ऐं इति शापोद्धारं
दशधा जपेत् । क्लीँ ऐँ ऐँ ब्लूँ ब्लूँ ह्रीं श्रीं हूं ॐ स्त्रीँ स्वाहा । इति
अजामन्त्रं दशधा जपेत् । ततो निर्वाणं नाभौ दशधा एकधा जपेत् ।
यथा
ॐ अं मूलं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ॐ औं अं
अंः कं खं गं घं ङं चं छं जं झं
ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं
भं मं यं रं लं वं शं षं सं हं लं क्षं ।
ॐ मूलं । ॐ क्षं लं हं सं षं सं वं लं रं यं मं भं बं
फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं
जं छं चं ञं घं गं खं कं अंः अं औं ॐ ऐं
एं ॡं ऌं ॠं ऋं ऊं उं आं अं मूलं ।
ॐ ततो लिङ्गमूले । शिरसि ललाटे च क्रीं इति दशधा जपेत् । ततो देवतायाः
शीर्षादि पादपर्यन्तं मूलमन्त्रस्वरूपां देवता भावयेदिति मन्त्र
सङ्केतः ततो मन्त्रा? वयवज्ञानं ।
श्रोत्रादीनां ज्ञा * भावे मन्त्रजापं करोति यः ।
दारिद्र्यं च विपत्तिश्च नरकं प्राप्तिरेव च ॥
बिन्दुश्रोत्रं नाद आस्यं ककारं हृदयं विदुः ।
वह्निनेत्रं कीलकं तु दीर्घे कालं प्रियं वदे ॥
मन्त्राणां स्थानध्यानं यथा ।
प्। ३८अ)
स्थानस्था वरदा मन्त्राध्यानस्थाश्च वरप्रदाः ।
स्थानध्यानविनिर्मुक्ता विशुद्धा अपि वैरिणः ॥
प्रसङ्गेनापि तत्स्थानं कथयामि वरानने ।
सकलं निष्फलं सूक्ष्मं तथा सकलनिष्फलं ॥
बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्ध्वतः ।
कुलकुण्डलिनी सैव नादशक्तिः शिवोदिताः ॥
एतत् स्थान स्थिता मन्त्र्या स्थानस्थाः परिकीर्त्तिताः ।
ध्यानं तु ।
मन्त्रसङ्केतकं चैव तथा वयवचिन्तनं ।
तन्मन्त्रध्यानमीशानि कथितं शम्भुनापुरा ॥
ततो झिल्लिरा पुटितं मन्त्रं दशधा एकधा वा जपेत् । यथा । हं श्रीं
क्लीं ॐ क्लीं क्लीं ह्रीं ह्रीं श्रीं श्रीं हूं हूं स्त्रीं स्त्रीं स्वाहा
मूलं स्वाहा । स्त्रीं स्त्रीं हूं हूं श्रीं श्रीं ह्रीं ह्रीं क्लीं
क्लीं ॐ एं क्लीं श्रीं हं । ततो भूतलिप्यापुटं मूलं मन्त्रं जपादौ
जपान्ते च त्रिस्त्रिवारं जपेद्यथा । अं इं उं ऋं ऌं एं ऐं ॐ औं हं
यं रं वं लं ङं कं खं घं गं ञं चं छं झं
जं णं टं ढं ठं डं नं तं थं धं दं मं पं फं
भं बं शं षं सं मूलं सं षं शं वं भं फं पं मं
दं धं थं तं नं डं ठं ढं णं जं झं छं ञं गं
घं खं कं ङं
प्। ३८ब्)
लं वं रं यं हं औं ॐ ऐं एं ऌं ऋं उं इं अं इति भूतलिपिः ।
ततो डाकिन्यादि मन्त्रं दशधा एकधा वा जपेत् । यथा
। डां डिं डमरवरयीं डाकिनी मां रक्ष रक्ष दुर्गात्मिके
मूलं डाकिन्यै नमः । रां रीं रमरवरयीं राकिनी मां रक्ष रक्ष
दुर्गात्मिके मूलं राकिन्यै नमः लां लीं लमरवरयीं लाकिनी मां
रक्ष रक्ष दुर्गात्मिके मूलं लाकिन्यै नमः । कां कीं कमरवरयीं
काकिनी मां रक्ष रक्ष दुर्गात्मिके मूलं काकिन्यै नमः । शां शीं
शमरवरयीं शाकिनी मां रक्ष रक्ष दुर्गात्मिके मूलं शाकिन्यै नमः
। हां हीं हमरवरयीं हाकिनि मां रक्ष रक्ष दुर्गात्मिके मूलं
राकिन्यै नमः ।
ततो मुखशोधनं क्रीं क्रीं क्रीं ॐ क्रीं क्रिं क्रीं इति मुखे दशधा
जपेत् । ततश्चौर मन्त्रं प्रतिद्वारे दशधा एकैकधा वा जपेद्यथा ।
ब्रह्मरन्ध्रे क्रौं नेत्रद्वयं ह्रीं ह्रीं कर्णद्वये ह्रीं ह्रीं नासिका
द्वये । हुं हुं मुखे । श्रीं श्रीं नाभौ ह्सौः ह्सौः लिङ्गे क्लीं क्लीं
गुह्ये ब्लूं ब्लूं भ्रुवोर्मध्ये हूं फट् । ततो हृदि गुरुमन्त्र
देवतात्मनां तेजोरूपमैक्यं भावयेत् ।
प्। ३९अ)
ततो योनिमुद्रां चिन्तयेद्यथा ।
त्रियोनिं मूर्द्ध्निं सञ्चिन्त्य महायोनिं हृदि स्मरेत् ।
नवकोणं नाभिमूले मूलाधारे त्रिकोणकं ॥
लिङ्गशक्तिं सहस्रारे भावयेत् साधकाग्रणीः ।
मूलपद्मे कामयोनिं तडित्कोटि निभां प्रिये ॥
हंसयोनिं नाभिमूले विद्यायोनिं स्मरेद्धृदि ।
जगद्योनिं सहस्रारे योनिबीजां नितां स्मरेत् ॥
योनिबीजं तु ह्ला योनिमुद्रा चिन्तन शक्तश्चेत् ह्लां मूलं ह्लीं इति
योनिबीजपुटित मन्त्रं दशधा जपेदिति । ततः श्री ॐ श्रीं ॐ
हूं ॐ ठं ठं ठं मन्त्रमुच्चार्य्य जलेन जिह्वां शोधयेत् । ह्रीं
मूलं ह्रीं इति प्राणयोगं सप्तधा जपेत् । क्लीं मूलं क्लीं इति दीपनी
सप्तधा० । इं मूलं इं इति निद्राभङ्गं सप्तधा० । ॐ मूलं ॐ इति
अशोचभङ्गं सप्तधा जपेत् । जीवतत्वं यथा
अं कं चं टं तं पं यं शं मूलं शं यं पं तं टं चं
कं अं इति दशधा त्रिधा वा जपेत् । ततो वर्णमालाया नरदन्तादि
रहस्यमालया स्फाटिकादिमालया करमालया वा जपेत् । करमालाशोधनं
यथा । क्रीं क्रीं क्रीं करमाले फट् स्वाहा ।
प्। ३९ब्)
इति प्रतिपर्वणि मेरौ च एकैकशो जप्त्वा । ॐ ह्रीं श्रीं हूं स्त्रीं इति पूर्ववत्
प्रतिपर्वणि मेरौ च एकैकवारं जप्त्वा शोधयेत् । स्फाटिकादि मालां तु ।
ह्रीं माले माले महामाले सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदा भव ॥
इति मन्त्रेण अर्घ्यादि परमामृतेन त्रिवारं स्नापयित्वा । एतत् पाद्यं ह्रीं
अक्षमालिकायै नमः । इति नैवेद्यताम्बूलान्तैः सम्पूज्य । ह्रीं
अक्षमालिकां तर्पयामि स्वाहा । इति त्रिवारं सन्तर्प्य प्रणमेत् ।
ह्रीं अविघ्नं कुरु मालेत्वं जपकाले सदा मम ।
निर्विघ्नं कुरु देवेशि अक्षमाले नमोस्तुते ॥
महाशङ्खमालाया विशेषवति मन्त्रो यथा ।
हूं ह्रीं हूं ॐ हूं हूं ॐ हूं फट् हुं ॐ स्वाहा । ॐ हूं
महायोगिनि त्रिभुवनतारिणि महाशङ्खास्थि मध्ये निवासं कुरु कुरु
सर्वसिद्धिं देहि देहि सुरामांसोपहारान् गृह्ण २ गृह्णापय २ ह्रीं श्रीं
हुं फट् स्वाहा । एष सुरामांसोपहार
प्। ४०अ)
बलिर्महाशङ्खाक्ष मालिकायै नमः । अकाम? सर्वं पूर्ववदिति । इति
प्रणम्य । गुरुमन्त्र देवतात्मनां तेजोरूपमैक्यं विभाव्य
अष्टोत्तरशतं सहस्रं अयुतं वा जप्त्वा शिरसि मालां संस्थाप्य
कृताञ्जलिः ॥
ह्रीं त्वं माले सर्वदेवानां प्रीतिदा शुभदा मता ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ॥
इति स्तुत्वा प्राणायाम ऋष्यादि न्यासं कृत्वा । शिरसि कुल्लुकां दशधा हृदि
सेतुं कण्ठे महासेतुं दशधा धूतलिष्या पुटं मूलमन्त्रं च
त्रिवारं जप्त्वा सपुष्यार्घोदकं दक्षिणहस्ते निधाय ॥
गुह्याति गुह्यगोप्त्रीत्वं गृहाणा स्मत्कृतं जपं ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥
इति मन्त्रेण तेजोरूपं जप फलं देव्या वामहस्ते समर्प्य ।
ॐ मूलं ॐ इति अशौचभङ्गं सप्तधा जप्त्वा । पूर्वोक्त जीवतत्वं त्रिवारं
जप्त्वा शिरःस्थमुत्तार्य प्रणमेत् ।
त्वं कालिकालरात्रिस्त्रिभुवन वरदा सिद्धिभूता त्वमेव ।
एकाशक्तिस्त्रिभेदा परम?परवशा सा महाहंसरूपा
प्। ४०ब्)
कामस्तम्भाक्षितिजलमनलंवायुराकाशतत्वं ।
सर्वस्यैवोदरस्था त्रिभुवनजननी ब्रह्मविष्णु स्वरूपा
कुण्डल्याकारसंस्था कुलमकुल गता पातु मामुग्रतारा ॥
प्रणामस्य मन्त्रान्तरं तन्त्ररत्ने ।
कृपामयि हरे मातः सर्वाशापरिपूरणि ।
वरदे भोगदे देवि कालिकायै नमोस्तुते ॥
इत्यनेन प्रणम्य । सर्वमङ्गलेत्यादिना वापि त्रिवारं प्रणमेत् ।
अखण्डमण्डलेत्यादिभि गुरुमपि त्रिवारं प्रणमेत् । प्रणाम त्रिविधादि
लक्षणमाह ।
नमनं मानसं दिव्यं कायिकं वाचिकं तथा ।
त्रिविधे च नमस्कार कायिकाश्चोत्तमः स्मृतः ॥
एकहस्तप्रणामश्च एकं वापि प्रदक्षिणं ।
अकाले दर्शनं विष्णो इति पुण्यं पुराकृतं ॥
तन्त्रान्तरे ।
कायिको वाचिकश्चैव मानसस्त्रिविधः स्मृतः ।
नमस्कारस्तु तत्वज्ञैरुत्तमो मध्यमो धमः ॥
पौराणिकैर्वैदिकैर्वा मन्त्रैर्वा क्रियते नरैः ।
मध्यमोसौ नमस्कारो भवेत् तद्वाचिकः सदा ॥
या स्वयं गद्य पद्याभ्यां घटिताभ्यां नमस्कृतिः ।
प्। ४१अ)
क्रियते भक्ति युक्तेन वाचिकस्तूत्तमः स्मृतः ॥
जानुभ्यामवनी गत्वा शिरसा स्पृश्य मेदिनीं ।
क्रियते यो नमस्कार उत्तमः कायिक स्मृतः ॥
अ * *? पुटीकृत्य करौ शीर्षे दीयते तद्यथा तथा ।
न स्पृष्ट्वा जानुजङ्घाभ्यां क्षितिंसोधम उच्यते ॥
पञ्चाङ्ग प्रणामो यथा ।
बाहुभ्यां च स जानुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामश्च विद्वद्भिः परिकीर्तितः ॥
अष्टाङ्ग प्रणामो यथा ॥
दोर्भ्यां पद्भ्यां समंशामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोष्टाङ्ग ईरितः ॥
हरिशक्तिभिलासे ।
सकृद्भूमौ निपतितो नशाक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनं ॥
अन्यत्रापि ।
अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ।
जपहोमनमस्कारान्न कुर्याद् देवतालये ॥
वाराहीये ।
वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत मां स्वित्री सजायते मूर्खा
सप्तजन्मनि भाविनि । प्रदक्षिणं यथा कालिकापुराणे ।
प्रसार्य दक्षिणं हस्तं स्वयं नम्रायनः पुनः ।
दक्षिणं दर्शयेत् पार्श्व मनसापि च दक्षिणः ॥
प्। ४१ब्)
त्रिधा च वेष्टयेत् सम्यक् कालिकायाः प्रदक्षिणं ।
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघ तुष्टिदः ॥
मन्त्रदर्पणे ।
अर्घ्यपात्रं करे कृत्वा वामे घण्टां प्रवादयन् ।
कुर्यात् प्रदक्षिणं मन्त्री सर्वत्रायं विधिः स्मृतः ॥
रहस्ये च ।
अष्टोत्तरशतं यस्तु कालिकायाः प्रदक्षिणं ।
सर्वान्कामानवाप्नोति पश्चान्मोक्षमवाप्नुयात् ॥
लिङ्गपुराणे ।
प्रदक्षिण त्रयं कुर्याद् यः प्रसादे समं ततः ।
पदे पदे श्वमेधस्य यज्ञस्य फलमश्नुते ॥
तारारहस्य वृत्तौ ।
वेदविद्भ्योदरां दत्वा सम्यक् यज्ञस्य यत्फलं ।
तत्फलं समवाप्नोति सकृत्कृत्वा प्रदक्षिणं ॥
एकं चण्ड्यां रवौ सप्त त्रीणि कुर्याद् विनायके ।
चत्वारि केशवे कुर्याच्छिवे चार्द्ध प्रदक्षिणमिति ॥
नमस्कारस्थानमाह । सिद्धान्तशेखरे ।
अग्ने मृत्युमवाप्नोति पृष्ठे चापचयः स्मृतः ।
वामभागे भवेन्नाशो दक्षिणे सर्वकामदः ॥
इति ततः स्तवकवचादिकं पठित्वा देव्यै पुष्पाञ्जलि त्रयं दत्वा पूउर्ववत् ।
पुनः प्रणम्य धूपदीपौ प्रज्वाल्य देव्यै निवेद्य आरार्त्तिकं कुर्यात् ।
प्। ४२अ)
यथा । घण्टादिवादनपूर्वकं धूपै धूपयित्वा दीपमुत्तोल्यपादादि
शीर्षपर्यन्तं । दशधा दर्शयित्वा शीर्षोपरि त्रिवारं भ्रामयेत् । जलं
त्रिवारं दत्वा आर्द्रवस्त्रेण निर्मछयेदिति । ततः पुनः प्रणम्य
विशेषार्घ्यमुत्तोल्य संहारार्घ्यं दत्वा चिलुकोदकं गृहीत्वा
आत्मसमर्पणं कुर्याद् यथा । इतः पूर्वं
प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यावस्था सुमनसा
वाचाकर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं । यदुक्तं
यत्कृतं । तत्सर्वं ब्रह्मार्पणमस्तु मां मदीयं च सकलं
परमदेवता श्रीमद्दक्षिणकालिका चरणे समर्पयामि स्वाहा । मूलं ॐ तत्
सत् इति समर्प्य कृताञ्जलिः ।
ॐ जानताजानता वापि यन्माया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे ॥
इति पठित्वा ।
आवरण देवतागणान् देवी शरीरे प्रविलाप्य संहारमुद्रया देवि
निर्माल्यमेकं गृहीत्वा ।
ॐ उत्तरे शिखरे देवि भूम्यां पर्वतवासिनि ।
ब्रह्मयोनि समुत्पन्ने गछ देवि ममान्तरे ॥
प्। ४२ब्)
इति पठित्वा तत्पुष्पमाघ्राय श्वासमार्गेण देवीं स्वहृदयमानीय ।
ऐशान्यां त्रिकोणमण्डलं निर्माय । तत्पुष्पं तत्र संस्थाप्य । तत्र
देव्या निर्माल्य नैवेद्यादिभिरुच्छिष्टचण्डालिनीं पूजयेत् । तस्या ध्यानं
यथा ।
शवोपरि समासीनां रक्तांवरपरिछदां ।
रत्नालङ्कारसंयुक्तां गुञ्जाहारविभूषितां ॥
षोडशाब्दां च युवतीं पीनोन्नतपयोधरां ।
कपालकर्तृकाहस्तां परं ज्योतिः स्वरूपिणी ॥
वामदक्षिणयोर्नेत्र ध्यायेन्मन्त्रविदुत्तमः ।
इति ध्यात्वा । एतत्पाद्यं ह्रीं उच्छिष्टचाण्डालिन्यै नमः । इत्यादि
ताम्बूलान्तैः सम्पूज्य देव्या उच्छिष्टबलिना बलिं दद्यात् । अस्या
विशेषमन्त्रस्तु । उच्छिष्टचाण्डालिनि सुमुखिं देवि महापिशाचिनि ।
ह्रीं ठः ठः ठः ततो मूलमुच्चार्य श्रीमद्दक्षिणकालिके पूजितासि क्षम
स्वाहा । इति देवीं विसर्ज्य चरणामृतं गृह्णीयात् । अनेन मन्त्रेण ।
गङ्गापुष्करनर्मदासु यमुना गोदावरी गोमती ।
गङ्गाद्वार प्रयागतीर्थ वदरी वाराणसी सिन्धुषु ॥
प्। ४३अ)
रेवासेतु सरस्वती प्रभृतिषु ब्रह्माण्डभाण्डोदरे ।
तीर्थस्नान सहस्रकोटिफलदं श्रीचक्रपादोदकं ॥
ततो निर्माल्यं शिरसि धारयेत् । यन्त्रलेपं ललाटे तिलकं कुर्यात् । नैवेद्यं
तद्भक्तेभ्यो दत्वा स्वयमपि गृह्णीयात् । पूजास्थानं परिस्कृत्य तत्र हूं
बीजं विलिख्य । तत्रस्थ कर्दमं वामहस्तकनिष्ठया गृहीत्वा ।
यं यं स्पृशामि * * * * *? पश्यामि चक्षुषा ।
स एव दासतां यातु यदि शक्र समो भवेत् ॥
इति मन्त्रेण ललाटे तिलकं कुर्यात् । निर्माल्यादिकं बिल्वादिमूले जले वा । यत्र
कुत्र पवित्रस्थाने स्थापयेत् । सोहं इति आत्मानं विचिन्त्य ।
वैष्णवाचार तत्परो भूत्वा यथासुखं विहरेत् ।
इति श्रीमद्दक्षिणकालिकापूजापद्धति समाप्ता ।
ॐ तत्सत् गुरवे नमः ।
शुभम् ।