दक्षिणामूर्तिसंहिता

Source: TW

दक्षिणामूर्तिसंहिता

पृ० १अ) ओंश्रीगणेशायनमः

०१

श्रीमच्छीकोशहृदयम्पञ्चसिंहासनात्मकम्
फलङ्कल्पलतानाञ्चपञ्चरत्नस्फुरत्कलं १
चतुरायतनानन्दिचतुरन्वयकोशगम्
नित्यानन्दिपरब्रह्मधामनौमिसुखाप्तये २
श्रीदेव्युवाच
कृपाङ्कुरुमहादेवकथयानन्दसुन्दर
किन्तद्व्रह्ममयन्धामश्रीतुमिच्छामितत्वतः ३
कथंश्रीसहितन्देवश्रीकोशहृदयकथम्
पञ्चसिंहासनेसेव्यङ्कथङ्कल्पलतात्मकम् ४
कथंरत्नात्मकन्देवकथमायतनात्मकं
कथमान्प्रापसंसेव्यङ्कथन्नित्यात्मकम्प्रभो ५
श्रीईश्वरौवाच
एतत्सर्वात्मकंवस्तुत्रिपुरापरमेश्वरी
चतुर्लक्ष्मीसेव्यमानातदाकामदुघावरा ६
श्रीविद्याचतथालक्ष्मीर्महालक्ष्मीस्तथैवच
त्रिशक्तिःसर्वसाम्राज्यलक्ष्मीःपञ्चप्रकीर्तिताः ७
वारुणातंवह्निसंस्थन्दीर्घनेत्रसमन्वितम्
विन्दुनादात्मकंवीजंलक्ष्मीमन्त्रौदाहृतः ८
ऋषिर्भृगुर्निवृच्छन्दस्तथाश्रीदेवताप्रिये
शतुर्यौवीजशक्तीचकीलकंरेफौच्यते ९
द्वितीयेनचतुर्थेनषष्टेनार्केणसुन्दरि
इन्द्रेणचन्द्रकलयाविद्यांसंसेव्यसुन्दरि १०
षडङ्गानित्यसेन्मन्त्रीहृछिरश्चशिखाततः

पृ० १ब्) कवचन्नेत्रमस्त्रञ्चनमःस्वाहाक्रमेणच ११
वषठुंवौषडस्त्रञ्चफडेभिःसहविन्यसेत्
अष्टपत्रंलिखेयन्त्रंवहिर्भूविंवमालिखेत् १२
मध्येपुष्पंविनिःक्षिप्यपीठशक्तिःसमर्चयेत्
विभूतिरुत्ततिःकान्तिःसृष्टिःकीर्तिश्चसन्ततिः १३
व्युष्टिरुत्कृष्टिऋद्धिश्चवसुदिक्षुप्रपूजयेत्
मध्येसिंहासनम्पूज्यंसर्वशक्तिमयम्प्रिये १४
ध्यायेत्ततःश्रियंरम्यांसर्वदेवनमस्कृतां
तमकार्तस्वराभासान्दिव्यरत्नविभूषिताम् १५
असिञ्च्यमानाममृतैर्मुक्तारत्नद्रवैरपि
शुभ्राभाभेभयुग्मेनमुहुर्मुहुरपिप्रिये १६
रत्नौघवद्धमुकुटांशुद्धक्षौमाङ्गरागिणीं
पद्माक्ष्मीम्पद्मनाभेनहृदिचिन्त्यांस्मरेद्वुधः १७
एवन्ध्यात्वायजेद्देवीम्पद्मयुग्मधरांसदा
वरदाभयशोभाढ्याञ्चतुर्वाहुन्त्रिलोचनाम् १८
आवाहनादिमुद्राश्चक्रमेणैवप्रदर्शयेत्
उच्चाञ्जलिमधःकुर्यादिहमावाहनीभवेत् १९
इयन्तुविपरीतास्यात्तदावैस्थापनीभवेत्
उर्द्धाङ्गुष्टौमुष्टियुगन्तदेयंसन्निधापनी २०
अन्तरङ्गुष्टमुष्टिभ्यान्तदेयंसन्निरोधिनी

पृ० २अ) तर्जनीभ्याम्परिभ्राम्यसकलीकरणम्भवेत् २१
अञ्जलीञ्चार्घ्यवत्कृत्वापरमीकरणम्भवेत्
परिवर्त्यकरौमन्त्रीतर्जनीचकनिष्टिके २२
मध्यमानामयुगलेस्थापयेतुपरस्परं
अमृतीकरणन्देविमुद्रेयन्धेनुरूपिणी २३
एतासामान्यमुद्रास्तुदर्शयित्वायजेत्प्रिये
गन्धपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धये २४
अग्नेशासुरवायव्यमध्येदिक्ष्वङ्गपूजनं
चलाकाविमलाचैवकमलाचनमालिका २५
विभीषिकामालिकाचशाङ्करीचसुमालिका
पुरस्तादिक्रमेणैवप्रादक्षिण्येनपूजयेत् २६
इन्द्राग्नियमनैरृत्यवरुणानिलसञ्ज्ञकान्
कुवेरेशानलोकेशान्भूर्विवेचक्रमाद्यजेत् २७
ब्रह्माविष्णुश्चलोकेशश्चोर्द्धाधःक्रमतोयजेत्
अर्कलक्षञ्जपेन्मन्त्रन्तद्वशांशेनहोमयेत् २८
पद्मैस्त्रिमधुमिश्रैस्तुपुरश्चारीततोभवेत्
एवंसंसिद्धमन्त्रस्तुसर्वसाम्राज्यदोभवेत् २९

०२

ईश्वरौवाच
अ*(थ) वक्ष्येमहेशानिलक्ष्मीहृदयमुत्तमं

पृ० २ब्) यस्यविज्ञानमात्रेणपलायन्तेमहापदः १
प्रणटम्पूर्वमुच्चार्यहरीमात्मकमक्षरं
श्रीपुटंवाथकमलेव्रह्माभानुस्तथैवच २
लापेमध्यगताम्भूमिंरुद्रस्थानेतुयोजयेत्
प्रसीदयुगलम्पूर्ववीजानिसम्पुटेनच ३
महालक्ष्मीहृदन्तोयमष्टाविंशतिवर्णवान्
दक्षप्रजापतिश्चास्यऋषिःछन्दस्तथैवच ४
गायत्रीदेवतालक्ष्मीहृदयम्परिकीर्तितं
द्वितीयञ्चतृतीयञ्चवीजशक्तेक्रमेणच ५
प्रणवःकीलकन्देविततोङ्गानिप्रविन्यसेत्
अङ्गानिपूर्ववद्देविन्यसेन्मन्त्रीसमाहितः ६
रलोघद्दसुपत्रान्तपद्मयुग्मञ्चहेमजं
अग्ररत्ना(ला) वलीराजदादर्शन्दधतीम्परां ७
चतुर्भुजांस्फुरद्रत्ननूपुराम्मुकुटोज्ज्वलां
ग्रैवेयाङ्गदहाराढ्याङ्किङ्किणीरत्नकुण्डलां ८
पद्मासनसमासीनान्दूतीभिर्मण्डितांसदा
शुल्काङ्गरागवसनाम्महादिव्याङ्गताननां ९
एवन्ध्यात्वाच्चयेद्देवीम्पूर्वयन्त्रेचपूर्ववत्
आदावङ्गानिसम्पूज्यपूर्ववत्परमेश्वरी १०
भारतीम्पार्वतीञ्चण्डींशचीन्दिक्षुप्रपूजयेत्

पृ० ३अ) श्रीधरश्चहृषीकेशोवैकुण्ठोविश्वरूपधृक् ११
विदिक्षुपूजयेदेताःसर्वसिद्ध्यर्थहेतवे
अनुरागोविसंवादोविजयोवल्लभोमदः १२
हर्षोबलञ्चतेजस्वीपुरआरभ्यपूजयेत्
इन्द्रादींश्चैवसम्पूज्यपुनर्द्देवीयजेत्सुधीः १३
लक्षत्रयञ्जपेन्मन्त्रन्नियमेनतुसाधकः
तद्दशांशेनपद्मैस्तुहुनेत्सम्पतिमिच्छता १४
महागजतुरङ्गाश्चजायन्तेतस्यमन्दिरे
सुवर्णरत्नभूषादिमण्डितःसाधकोभवेत् १५

०३

ईश्वरौवाच
त्रिशक्तियजनंवक्ष्येसर्वसिद्धिप्रदन्नृणां
श्रीवीजञ्चपरावीजङ्कामवीजंसमालिखेत् १
इयन्त्रिशक्तिर्देवेशित्रिषुलोकेषुदुर्लभा
ऋषिर्व्रह्मास्यगायत्रीछन्दोपिकथितम्प्रिये २
त्रिशक्तिर्देवताङ्गानिद्विरावृत्याजपेत्प्रिये
अथयन्त्रम्प्रवक्ष्यामिसाधकानांहितायच ३
षट्कोणम्पूर्वमालिख्यमध्येतुविलिखेत्सुधीः
वीप्सयातान्तुषट्कोणेकोणेषुक्रमतोयजेत् ४
वाह्येवसुदलङ्कुर्याद्दीर्घस्वरविभूषितं
चतुरस्रञ्चतुर्द्वारम्भूषितम्मण्डलंलि*(खे) त् ५

पृ० ३ब्) मध्येसमावाह्यदेवीन्ध्यायेत्सर्वसमृद्धिदां
नवहेमस्फुरद्भूमिरत्नकुद्धिममण्डपे ६
महाकल्पवनान्तस्थेरत्नसिंहासनेवरे
कमलासनशोभाढ्यांरत्नमञ्जीररञ्जितां ७
स्फुरद्रत्नलसन्मौलिंरत्नकुण्डलमण्डितां
अनन्तरत्नघटितनानाभूषणभूषितां ८
दधतीम्पद्मयुगलम्पाशोङ्कुशन्धनुःशरान्
षड्भुजामिन्दुवदनान्दूतीभिःपरिवारितां ९
चारुचामरहस्ताभारत्नादर्शसुपाणिभिः
तांवूलस्वर्णपात्रीभिर्भूषापेटीसुपाणिभिः १०
तप्तकार्तस्वराभासाम्पूर्वोक्तेमण्डलेयजेत्
उपचारैःसमाराध्यततोङ्गावरणंयजेत् ११
पूर्ववत्परमेशानिपरिवारांस्ततोर्चयेत्
लक्ष्मींहरिञ्चगिरिजांशिवंरत्यङ्गजौक्रमात् १२
अग्रकोणादिसम्पूज्यततःषट्कोणपार्श्वयोः
शङ्खपद्मनिधीपूज्यौवसुपत्रेषुमातरः १३
व्राह्मीमाहेश्वरीचैवकौमारीवैष्णवीतथा
वाराहीचैवमाहेन्द्रीचामुण्डासप्तमीभवेत् १४
महालक्ष्मीर्महादेवीपुरस्तादिप्रपूजयेत्
इन्द्रादयस्तुसम्पूज्याकामिनीरूपधारिणः १५

पृ० ४अ) उत्तङ्गयौवनोत्मत्तादेव्याराधनतत्पराः
लक्षत्रयञ्जपेन्मन्त्रीनियमेनजितेन्द्रियः १६
तद्दशांशेनदेवेशिकिंशुकैर्होमयेत्सुधीः
अनेनविधिनामन्त्रीपुरश्चारीभवेत्प्रिये १७

०४

ईश्वरौवाच
अथवक्ष्येमहादेविसर्वसाम्राज्यदेवतां
यस्याआराधनाद्विष्णुरभूल्लक्ष्मीपतिःस्वयं १
चन्द्रशमादनङ्क्ष्मेशवह्निर्दीर्घाक्षिमण्डितं
विदुकूटेश्वरीयुक्तंविद्येयंवैष्णवीप्रिये २
श्रीवीजसम्पुटङ्कुर्यात्सार्वसाम्राज्यदायिनी
ऋषिर्हरिस्तथाछन्दोगायत्रीचास्यसम्मता ३
देवतामोहिनीलक्ष्मीमहासाम्राज्यादायिनी
वीजङ्कूटंसमाख्यातंशक्तिश्रीवीजमुच्यते ४
षड्भिरायैःस्वरैर्भित्वाषडङ्गानिप्रविन्यसेत्
अतसीपुष्पसङ्काशांसर्वरत्नविभूषितां ५
शङ्खचक्रगदापद्मशार्ङ्गवाणधराङ्करैः
खड्गिःकराभ्यान्देवेशिवरदाभयशोभितां ६
एवमष्टभुजान्ध्यात्वारविलक्षञ्जपेद्वुधः
तद्दशांशेनपद्मैस्तुहुनेत्साम्राज्यसिद्धये ७

पृ० ४ब्) जितेन्द्रियःसविधिवद्यन्त्रोद्धारंशृणुप्रिये
त्रिकोणञ्चाष्टयन्त्रञ्चभूविम्बञ्चततोलिखेत् ८
चतुर्द्वारंसुशोभाढ्यंयन्त्रमेतत्समालिखेत्
अस्मिन्समावाह्यदेवीम्पूजयेदुपचारकैः ९
पूर्ववत्परमेशानिषडङ्गाचरणंयजेत्
गायत्रीचैवसावित्रिसरस्वत्यग्रभागतः १०
क्रमेणपूजयेद्देविव्राह्म्यायाश्चस्वरैःपृथक्
अष्टपत्रेषुभूविंवेत्वेकोच्चारेणपूजयेत् ११
अष्टादशमहाकोटियोगिनीभ्योनमोलिखेत्
अनेनमनुनापश्चादिन्द्रादीन्पूजयेत्ततः १२
पुनर्देवींसमभ्यर्च्यगन्धपुष्पाक्षतादिभिः
वटुकक्षेत्रपालेभ्योयोगिनीभ्योवलिंहरेत् १३

०५

ईश्वरौवाच
अथश्रीकोशविद्यानाञ्चतुष्कंशृणुपार्वति
यस्यविज्ञानमात्रेणपुनर्जन्मनविद्यते १
श्रीविद्याचपरञ्ज्योतिःपरन्निष्कलदेवताः
अजपामातृकाचैवपञ्चकोशाःप्रकीर्तिताः २
प्रणवम्पूर्वमुच्चार्यमायाहंसःपदंलिखेत्
ततःसोहंशिरोदेविवसुवर्णेयमीरिताः ३

पृ० ५अ) प्रणवश्चित्कलाज्ञेयामाययाव्यामरूपिणी
हंसःपदेतदेवेशिसाक्षादात्मस्वरूपिणी ४
तत्रत्यविन्दुत्रितयासृष्टिस्थितिलयात्मिका
प्रसूतेविन्दुनादेनवामेयंव्रह्मरूपिणी ५
विन्दुनाथद्वितीयेनपालयन्तीजगत्त्रयम्
ज्येष्टेयंवैष्णवीमायाआद्यासत्वगुणाप्रिये ६
त्र्यंशेनविन्दुनासर्वङ्ग्रसन्तीतमसावृता
रौद्रीविन्दुत्रयेदेविप्रसूतेचांविकातदा ७
आत्मानन्दर्शयत्येषाहंसाख्यासंहृतिर्यदा
तदेर्यदर्पणाकाराततोज्योतिर्मयीभवेत् ८
वर्णाभ्यांवह्निजायायाःपरञ्ज्योतिरियम्प्रिये
एवंविचारयन्मन्त्रीसाक्षाद्व्रह्मभवेतुसः ९
ऋषिर्ब्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते
परञ्ज्योतिर्मयीसाक्षाद्देवतापरिकीर्तिता १०
प्रणवान्त्यद्वयंवीजंशक्तीशेषञ्चकीलकं
स्वाहातुहृदयंसोहंशिरोहंसःशिखाभवेत् ११
माययाकवचन्तारवीजेननयनत्रयम्
स्पृष्ट्वामन्त्रेणदेवेशिसमग्रेणासुकम्भवेत् १२
ज्ञानाग्नौमातृकावर्णहविषाचाक्षराहुतीः
अनेनमनुनाहुत्वाक्षणन्निर्वाणगोभवेत् १३

पृ० ५ब्) ##

ईश्वरोवाच
अथवक्ष्येमहादेविपरनिष्कलदेवतां
यस्याःस्मरणमात्रेणविदानन्दायतेतनुः १
अनुग्रहादिदेवेशिविन्दुनादकलात्मकं
परनिष्कलदेवीयम्परब्रह्मस्वरूपिणी २
शुक्लांवरपरीधानाशुक्लमाल्यानुलेपना
ज्ञानमुद्राङ्कितायोगीपतिवृन्देनसेविता ३
ऋषिर्ब्रह्मास्यगायत्रीमनोःछन्दःक्रमाद्भवेत्
ब्रह्मैवदेवतावीजंशक्तिस्तत्रक्रमेणतु ४
मकारकीलकम्मोक्षफलज्ञानप्रदायिनी
स्वरद्वन्द्वस्यमध्येतुक्षिप्त्वात्यक्ताचतुष्टयम् ५
ॠऌॡचदेवेशिषडङ्गानिप्रविन्यसेत्
ततोयन्त्रंलिखेन्मन्त्रीत्रिकोणञ्चाष्टपत्रकम् ६
चतुरस्रञ्चतुर्द्वारमण्डितञ्ज्ञानदम्भवेत्
ब्रह्मरन्ध्रेविचिन्त्याथतत्रावाह्यपरमेश्वरीम् ७
गन्धपुष्पादिभिःसम्यङ्मनोज्ञैरुपचारकैः
अग्नीशासुरवायव्यमध्यदिक्ष्वगपूजनम् ८
अकारेणचऋग्रूपम्ब्रह्माणम्पुरतोयजेत्
सामवेदेनसहितमुकारेणहरिंयजेत् ९

पृ० ६अ) देवीदक्षिणतःपश्चादन्त्यकोणेशिवंयजेत्
यजुःस्वरूपङ्कालेनत्रिकोणेकथितम्प्रिये १०
अष्टपत्रेचतुर्दिक्षुपुरआदिक्रमेणतु
आत्मान्तरात्मापरमज्ञानात्मानोयजेत्प्रिये ११
निवृत्तिश्चप्रवृत्तिश्चविद्याशान्तिचतुष्टयम्
विदिक्षुपूजयेन्मन्त्रीततोव्रह्मादिकान्यजेत् १२
तेष्वेववसुपत्रेषुचतुरस्रेततःपरम्
इन्द्रादींल्लोकपालांश्चपूर्वादिक्रमतोयजेत् १३
गन्धपुष्पादिनैवेद्यतर्पणैःपरितोषयेत्
ज्ञानरूपोभवेन्मन्त्रीमोक्षस्तस्यकरेस्थितः १४

०६

ईश्वरौवाच
अजपाराधनन्देविकथयामितवानघे
यस्यविज्ञानमात्रेणपरब्रह्मैवदेशिकः १
हंसःपरम्परेशानिप्रत्यहञ्जपतेनरः
मोहवद्धोनजानातिमोक्षस्तस्यनजायते २
श्रीगुरोःकृपयादेविज्ञायतेजप्यतेतदा
उच्छासनिश्वासतयातदाबन्धःक्षयोभवेत् ३
उच्छासेचैवनिश्वासेहंसैत्यक्षरद्वयं
तस्मात्प्राणस्तुहंसाख्यःआत्माकारेणसंस्थिताः ४

पृ० ६ब्) षष्टिश्वासैर्भवेत्प्राणःषट्प्राणानाडिकामताः
षष्टिनाड्यास्तुहोरात्रञ्जपसङ्ख्याजपामनोः ५
एकविंशतिसाहस्रंषट्शताधिकमीश्वरि
जपतेप्रत्यहम्प्राणेसदानन्दमयीम्पराम् ६
उत्पत्तिर्जपआरम्भोमृतिरस्यनिवेदनम्
विनाजपेनदेवेशिजपोभवतिमन्त्रिणः ७
अजपेयन्ततःप्रोक्ताभवपाशनिकृन्तनि
श्रीगुरोःकृपयादेविलभ्यतेनान्यथाप्रिये ८
एनञ्जपम्महेशानिप्रत्यहंविनिवेदयेत्
गणेशब्रह्मविष्णुभ्योहरायचमहेश्वरि ९
जीवात्मनेक्रमेणैवतथैवपरमात्मनि
षट्शतानिसहस्राणिषडैवञ्चतथापुनः १०
षट्सहस्राणिविमलेसहस्रञ्चैकमेवहि ११
पुनःसहस्रङ्गुरवेक्रमेणैवनिवेदयेत्
आधारेस्वर्णवर्णेस्मिन्वादिशान्तानिसंस्मरेत् १२
द्रुतसौवर्णवर्णानिवर्णानिपरमेश्वरि
स्वाधिष्टानेविद्रुमाभेवादिलान्तानिसंस्मरेत् १३
विद्युत्पुञ्जप्रभाभानिसलिलेमणिपूरके
उफान्तानिमहानीलप्रभानिचविचिन्तयेत् १४
पिं*वर्णेमहावह्निकर्णिकाभानिचिन्तयेत्

पृ० ७अ) कादिगन्तानिवर्णानिचतुर्थेनाहतेप्रिये १५
विशुद्धेधूम्रवर्णेतुरक्तवर्णान्स्वरान्न्यसेत्
आज्ञयांविद्युदाभायांशुभ्रौहङ्क्षौविचिन्तयेत् १६
कर्पूरद्युतिसंराजत्सहस्रदलनीरजे
नादात्मकम्ब्रह्मरन्ध्रेजानीहिपरमेश्वरि १७
एतेषुसप्तचक्रेषुस्थितेभ्यःपरमेश्वरि
जपन्निवेदयित्वातुमहोरात्रभवम्प्रिये १८
सहजम्परमेशानिन्यासङ्कुरुविचक्षणे
ऋषिर्हंसोव्यक्तपूर्वगायत्रीछन्दौच्यते १९
देवतापरमात्मातुहंसोहंवीजमुच्यते
सःशक्तिःकीलकंसोहम्प्रणवस्तत्वमेवहि २०
नादस्थानन्तथाश्वेतोवर्णस्तुपरमेश्वरि
उदातःस्वरैत्येवम्मनोरस्यप्रकीर्तितः २१
मोक्षार्थीविनियोगःस्यादेवञ्जानीहिपार्वती
ततःषडङ्गविन्यासङ्कुर्यादेहस्यशुद्धये २२
सूर्यंसोमन्तथादेविनिरञ्जनमतःपरम्
निराभासञ्चतुर्थ्यन्तस्वाहान्तान्क्रमतोन्यसेत् २३
कवचान्तानिविन्यस्यततोनन्तपदंस्मरेत्
तनुसूक्ष्मचतुर्वर्णानुक्तादेवीप्रचोदयात् २४
स्वाहान्तेनैचनयनमव्यक्तपदपूर्वकः

पृ० ७ब्) प्रवोधात्माचतुर्थ्यग्निजपान्तोस्त्रेनिगद्यते २५
प्राणानायम्यविधिवन्मन्त्रीसम्यक्समाहितः
मूलमन्त्रेणदेविशिवामेनापूर्यचोदरम् २६
कुम्भकेतन्निरावृत्यदक्षिणेनचरेचयेत्
कनिष्टानामिकाङ्गुष्टैर्यन्नासापुटधारणं २७
प्राणायामःसविज्ञेयःस्तर्जनीमध्यमेविना
अस्यहंसस्यदेविशिनिगमागमपक्ष्मकौ २८
अग्नीषोमावथोवापिपक्ष्मौतारःशिरोभवेत्
विन्दुत्रयंशिखानेत्रेमुखेनादःप्रकीर्तितः २९
शिवशक्तिपदन्द्वन्द्वङ्कालाग्निपार्श्वयुग्मकं
अयम्परमहंसस्तुसर्वव्यापीप्रकाशवान् ३०
सूर्यकोटिप्रतीकाशःस्वप्रकाशोनभासते
संसाररूपीहंसोयंविवेकन्दर्शयत्यपि ३१
अजपानामगायत्रीत्रिषुलोकेषुदुर्लभा
अजपाञ्जपतोनित्यम्पुनर्जन्मनविद्यते ३२
षट्शतान्यधिकान्यत्रसहस्राण्येकविंशति
अहोरात्रञ्चरेद्वायुःसजपोमोक्षदायकः ३३

०७

ईश्वरौवाच
अथवक्ष्येमहेशानिमातृकांलोकमातरम्

पृ० ८अ) अकारादिक्षकारान्तांवर्णावयवदेवतां १
ऋषिर्व्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते
मातृकादेवतादेविहलोवीजास्तुशक्तयः २
स्वरास्तुपरमेशानिजाताव्यक्तस्तुकीलकं
अनिर्वाच्याहलोवर्णाशक्त्याव्यक्ताभवन्तिहि ३
शक्त्याविनाशिवेसूक्ष्मेनामधामनविद्यते
असद्रूपाहलोवर्णाःशक्त्यासत्तापराङ्मुखाः ४
स्फुरन्मात्रासदोच्चार्यासम्मुखाव्यक्तिवर्णकाः
ॠऌॡपरित्यज्यषण्मुखस्वरमध्यगाः ५
वर्गाषट्कक्रमेणैवसप्तमःक्रोधसंयुतः
अन्तेनिक्षिप्यदेवेशिषडङ्गानिप्रविन्यसेत् ६
कलापत्राम्वुजेकण्ठेस्वराःसम्यक्प्रविन्यसेत्
सूर्यपत्राम्म्वुजेनित्येनाहतेद्वादशन्यसेत् ७
मणिपूरेमहादेविदशपत्रेप्रविन्यसेत्
दशवर्णांलिङ्गमध्येषट्दलेषट्तथेश्वरि ८
चतुर्दलेतथाधारेचतुर्वर्णांस्तथान्यसेत्
भ्रूमध्येद्विदलेहङ्क्षौविचिन्त्यमातृकान्न्यसेत् ९
व्रह्मरन्ध्रेतथाचक्रवेष्टनेनयनद्वये
श्रुतिनासापुटद्वन्द्वेगण्डोष्टद्वयकेषुच १०
दन्तयुग्मेचमूर्द्धास्यद्वयेषोडशविन्यसेत्

पृ० ८ब्) दीःपत्सन्धिषुसाग्नेषुपार्श्वयुग्मेन्यसेत्क्रमात् ११
पृष्टनाभिद्वयेचैवजठरेविन्यसेदथ
त्वगसृङ्नासमेदोस्थिमज्जाशुक्राणिधातवः १२
प्राणजीवौचपरमौपकारादिषुसंस्थितः
क्रमेणदेवेदेवेशिन्यस्तव्याएतदात्मकाः १३
हृदोमूलेषुसन्न्यस्यतथापरगलेन्यसेत्
कक्षाद्वयेहृदारभ्यपाणिपादद्वयेतथा १४
जठराननयोर्व्यामिन्यसेदित्यर्णरूपिणीम्
अनेनन्यासरूपेणमन्त्रीवर्णस्वरूपवान् १५
ध्यायेद्वर्णास्वरूपाढ्यांस्वरवक्राङ्क्रमेणहि
कचवर्गकरारम्यान्तदवर्गपदांवुजं १६
पवर्गचारुपार्श्वाङ्गलसच्छातोदरीम्पराम्
य*वर्गाङ्गशुभर्गापीनोजतघनस्तनीम् १७
नितंवविंवगहनांशुक्लाक्षीङ्क्षाममध्यमाम्
शुक्लमाल्यानुरागाङ्गीमक्षसृक्कटिशोभितां १८
चिन्तालिखितसत्पाणिंसमग्रवरदायिनीम्
एवन्ध्यात्वाततोदेवींयजनञ्चसुधीश्वरेत् १९
आदौवृत्तङ्कर्णिकाख्यंहंसानुग्रहसर्गवान्
वाह्येष्टदलमालिख्यकेसरेषुस्वरान्न्यसेत् २०
युग्मयुग्मप्रभेदेनततोवसुदलेषुच
कादिवर्गाष्टकम्पीत्यलक्षान्तम्परमेश्वरि २१

पृ० ९अ) चतुरस्रन्ततःकुर्यात्सिद्धिदन्दिक्षुसंलिखेत्
ठकाराणाञ्चतुष्कञ्चरेखान्तंवाह्यतस्तथा २२
वारुणञ्चसमालिख्यदेवीमावाहयेत्सुधीः
आदौपीठेर्चनङ्कृत्वानवशक्तिपुरस्कृतं २३
मेधाप्रज्ञाप्रभाविद्याधीर्धृतिस्मृतिवुद्धयः
विद्येश्वरीञ्चपूर्वादिदिक्षुमध्येप्रपूजयेत् २४
पश्चादावाह्यगन्धादीनुपचारान्प्रकल्पयेत्
अग्नीशास्त्ररवायव्यमध्यदिक्ष्वङ्गपूजनं २५
नियोज्यस्वरयुग्मान्तेनमस्कारम्पृथक्पृथक्
अष्टधापूजयेद्देविकेसरेषुपृथक्पृथक् २६
तथैवकादिवर्गेषुनमस्कारङ्क्षिपेत्पृथक्
अष्टधावर्गपूजेयन्ततोव्राह्म्यादिभिर्यजेत् २७
लोकपालैस्ततोदेवींसमासद्ययजेत्सुधीः
लक्षमात्रन्दशांसेनहुनेत्पालाशपुष्पकैः २८
त्रिमध्वक्तैर्मिताहारःपुरश्चारीततोभवेत् २९

०८

ईश्वरौवाच
पञ्चसिंहासनगताविद्याजप्यामहेश्वरि
मयातत्पुरुषास्येनजप्यतेतछृणुप्रिये १

पृ० ९ब्) अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा
एवार्यविन्द्वनादसहितङ्कुरुसुव्रते २
एतद्वाग्भवमुच्चार्यसकलङ्कामवीजकम्
वामनेनेत्रेनुविन्दन्तसर्गवान्भृगुरव्ययः ३
अनुग्रहेणसंयुक्तोविद्येर्यत्र्यक्षरीभवेत्
ऋषिस्तुदक्षिणामूर्तिःशिरसिविन्यसेत्ततः ४
छन्दःपङ्क्तिस्तुविज्ञेयम्मुखेविन्यस्यदेवताम्
हृदयेपरमेशानिवाग्भवंवीजमुच्यते ५
शक्तिवीजंशक्तिरेवकामवीजञ्चकालकं
एषाविद्यामहेशानिपुरुषार्थप्रदायिनी ६
पादादिनाभिपर्यन्तमायन्नाभेस्तथागलम्
मध्यमंशक्तिवीजञ्चगलादामस्तुकन्न्यसेत् ७
वामपादतलेतद्वदक्षपाणौद्वयन्न्यसेत्
करयोःसम्पुटेचैवमेवन्न्यासद्वयम्भवेत् ८
एतत्सम्पुटिताम्पश्चात्मातृकांविन्यसेत्सुधीः
नवयोन्यङ्कितन्न्यासेकुर्यात्कमललोचने ९
कर्णयोश्चिबुकेदेविशङ्खास्येषुदृशोर्नसि
अंसयोर्हृदयेद्देविन्यसेत्कूर्परकुक्षिषु १०
जानुद्वयान्धुपद्वन्द्वगुह्येषुक्रमतोन्यसेत्
पार्श्वहृत्स्वस्तनद्वन्द्वकण्ठेष्वपिचविन्यसेत् ११
वीजत्रकङ्क्रमेणैवनवधाविन्यसेत्प्रिये

पृ० १०अ) वीप्सयाङ्गानिविन्यस्यपञ्चवाणान्न्यसेत्सुधीः १२
दकारन्तुसमालिख्यद्विधावह्निसमन्वितम्
अनन्तवामनेत्राभ्यान्द्विविन्दुपरिभूषितम् १३
कामवीजञ्चकालादितवादिपृथिवीयुतं
दीर्घकर्णेतुविन्द्वाढ्यमजपातङ्क्रमात्लिखेत् १४
ललाटगलहृन्नाभिमूलाधारेषुविन्यसेत्
पुनरेतेषुवीजानिपञ्चसङ्ख्यानिविन्यसेत् १५
ह्रीङ्क्लीम्मात्मकवावीजञ्चतुर्थंवाणमालिखेत्
ततस्त्रीमात्मकम्पञ्चकामाएतेप्रकीर्तिताः १६
एवंविन्यस्तदेहःसन्प्राणानायम्यपार्वति
ध्यायेद्देवीम्महेशानिकदंववनमध्यगाम् १७
रत्नमण्डपमध्येतुमहाकल्पवनान्तरे
मुक्तातपत्रच्छायायांरत्नसिंहासनेस्थिताम् १८
अनर्घ्यरत्नघटिताम्मुकुटाङ्कुण्डलोज्वलाम्
हारग्रैवेयसद्रत्नचित्रिताङ्कङ्कणोज्वलाम् १९
हारमुक्तालसद्भूषांशुद्धक्षौमविराजिताम्
हारमञ्जीरसुभगांरक्तोत्पलपदाम्बुजां २०
शुद्धाङ्गरागसुभर्गाकर्पूरसकलोज्वला
पुस्तकञ्चाभयंवामेदक्षिणेचाक्षमालिकां २१

पृ० १०ब्) वरदानरतान्देवींसम्यक्सारस्वतप्रदाम्
एवन्ध्यात्वाजपेन्मन्त्रंवर्णलक्ष्यंसमाहितः २२
अथवादेवदेवेशनन्दवेयंयदाभवेत्
तदासर्वार्थदाविद्याभुक्तिमुक्तिफलप्रदाः २१
श्रीगुरोःकृपयालव्धासर्वकामार्थसिद्धये
अथवादेवेदेवेशिपद्मरागप्रभांस्मरेत् २३
रक्तवस्त्रम्परीधानांरक्ताभरणमण्डितां
हकारार्द्धस्वरूपाञ्चविन्दुत्रययुतांशिवे २४
एवङ्कामकलाध्यानंसदांवापाःसमुद्यतम्
तदशांशेनजुहुयात्किंशुकैस्त्रिमधूत्कटैः
तर्पणञ्चदशांसेनलक्षञ्चायुतसङ्ख्यया
वर्णानुक्रमयोगेनगङ्गातोयेनवाप्रिये
तर्पणञ्चतथाभूयःकर्पूरवासितैर्जलैः
अथवक्ष्येन्महेशानियन्त्रंसर्वार्थसिद्धिदं २७
आदौशक्तिंसमालिख्यतस्यानुपरिसंलिखेत्
तामेवविस्तृताङ्किञ्चित्सम्पुटीकृत्यवह्निना २८
सन्धिभेदक्रमेणैवनवयोनिर्यथाभवेत्
हसौङ्कारंलिखेन्मध्येकामाख्यञ्चाष्टयोनिषु २९
वह्निर्वृतंसमालिख्यदलैराजितमष्टभिः
केशरेषुस्वरान्योज्यद्वन्द्वशःपरमेश्वरि ३०
कचटास्तपयावर्णःसलक्षापरमेश्वरी

पृ० ११अ) अष्टपत्रेषुसंलिख्यततःशूलाष्टकंलिखेत् ३१
पत्राग्रेषुततोमन्त्रीलिखेद्वर्णान्क्रमेणतु
तेषुशूलेषुखगद्यान्पूर्वतःक्रमतोलिखेत् ३२
ङछजानग्निदिग्भागेझञठान्दक्षिणेलिखेत्
डढणान्नैऋतेभागेथदधान्पश्चिमेलिखेत् ३३
नफवान्वायुदिग्भागेभमरानुत्तरेलिखेत्
लवशानीशदेशेतुतत्तोवृत्तंसमालिखेत् ३४
वृत्तम्मातृकयावीजन्ततोभूविंवमालिखेत्
चतुर्द्वारविशोभाढ्यम्मध्येपुष्पंविनिक्षिपेत् ३५
पीठार्चनन्ततःकुर्यान्मन्त्रीदेविमनोहरम्
वामाज्येष्टाचरौद्रीचअंविकेच्छाततःपरम् ३६
ज्ञानाक्रियाकुञ्चिकाचविश्वादेवीविषघ्निका
दूतरीवतथानन्दासम्पूज्याःअभितःप्रिये ३७
सिंहासनञ्चसम्पूज्यमध्यवीजेनमन्त्रिकः
सदाशिवमहाप्रेतपद्मासनपदंलिखेत् ३८
ङेन्तन्नमोन्तकन्देवियजेत्सिंहासनम्प्रिये
मुक्ताछत्रंशरच्चन्द्रचन्द्रिकाकारचामरे ३९
उशीरक्षिप्तसच्चन्द्रकलाव्यजनयुग्मकम्
प्रान्तमु?क्तावलीराजन्स्वर्णादर्शञ्चपीठिकां ४०

पृ० ११ब्) अलङ्कारमयीम्पेटीङ्करण्डंशशिपूरकं
कर्पूरक्षोदभरितञ्चषकंस्वर्णकङ्कती ४१
सत्पुष्पापूर्णकाश्मीरपात्रञ्चदधतीक्रमात्
ध्यात्वावामादिकापश्चाद्देवीमावाहयेत्प्रिये ४२
उपचारैःसमाभ्यर्च्यतर्पणानिसमाचरेत्
लयाङ्गंविन्यसेद्देविदेहेमुद्राश्चदर्शयेत् ४३
अग्नीशास्त्ररवायव्यमध्यदिक्ष्वङ्गपूजनं
क्रमेणपुरआरभ्यरतिप्रितिमनोभवाः
त्रिकोणाग्रेषुदेविशितद्वाह्येवाणदेवताः
देवतायादक्षिणेद्वेद्वेवामेएकमग्रतः
अनङ्गानङ्गकुसुमातथाचानङ्गमेखला
अनङ्गमदनादेवीसुभागचभगातथा
भगसर्पिण्यथोदेवितथाचभगमालिनी
पुरआरभ्यदेविशिप्रादक्षिण्येनपूजयेत्
अष्टकोणेषुतद्वाह्येवसुपत्रेषुचार्चयेत्
असिताङ्गन्तथाव्राह्मींरुंरुम्माहेश्वरीन्तथा ४४
चण्डङ्कौमारिकाञ्चैवक्रोधचैचतुवैष्णवीम्
उन्मत्तञ्चैववाराहीन्तथाचैवकपालिनीं ४५
माहेन्द्रीभीषणन्देविचामुण्डाञ्चततःपरम्
संहारभैरवन्देविमहालक्ष्मीङ्क्रमाद्यजेत् ४६

पृ० १२अ) युग्मायुग्मप्रभेदेनस्वरैर्दैवीस्तुभैरवान्
कामरूपन्तथादेविमलयञ्चद्वितीयकम् ४७
पीठङ्कोलगिरिम्पीठङ्कुलान्तकमतःपरम्
चौहारञ्चैवदेवेशिजालन्धरमतःपरम् ५०
कपालिनञ्चैकपादम्भीमरूपमतःपरम्
अचलंहाटकञ्चैवपुरआरभ्यपूजयेत् ५१
अधऊर्द्धस्ततोदेविचतुरस्रेक्रमेणतु
इन्द्रादयस्तुसम्पूज्यास्ततस्तुवटुकादयः ५२
वटुकंयोगिनीङ्क्षेत्रेपालङ्गणपतिंयजेत्
पूर्वादिदिक्षुकोणेषुवसूनर्क्काक्रमात्प्रिये ५३
रुद्राश्चसर्वभूतांश्चपुनर्देवीसमर्चयेत्
वनस्पतिरसोत्पन्नोगन्धाढ्योगन्धौत्तमः ५४
आघ्नेयःसर्वभूतानान्धूपोयम्प्रतिगृह्यताम्
एवम्मनुन्त्रिवीजान्तेधूपमन्त्रौदाहृतः
सुप्रकाशोमहादीपःसर्वतस्तिमिरापहः
सवाह्याभ्यन्तरञ्ज्योतिर्दीपोयम्प्रतिगृह्यताम् ५६
तथैवदीपमन्त्रोयंशृणुचारार्तिकम्प्रिये
समस्तचक्रसुद्रस्मिन्मण्डलेब्रह्मरूपिणी ५७
आरार्तिकङ्गृहाणेदन्त्रिपुरेममसिद्धये
आरार्तिकेमिदन्देविविद्यान्तेमनुरीरितः ५८

पृ० १२ब्) हेमपात्रगतन्दिव्यम्परमान्नंसुसंस्कृतम्
पञ्चधाषड्रसोपेतङ्गृहाणपरमेश्वरि ५९
उपहारमनुर्देविविद्यन्तेस्वयमीरितः
यथाशक्तिजपङ्कृत्वानित्यहोमंसमाचरेत् ६०
पञ्चाहुतिस्तुमूलेनषडङ्गानिचहोमयेत्
नित्यहोमप्रकारोयंसर्वविघ्नतपोहयेत् ६१
यथान्यासम्प्रवक्ष्यामिसर्वविघ्ननिवृत्तये
अग्निराक्षसवायव्यशिवकोणेषुमन्त्रवित् ६२
त्रिकोणवृतभूविंवमण्डलातिसमालिखेत्
मण्डलानिचचत्वारितत्रपात्राणिसङ्क्षिपेत् ६३
षट्कायनमोह्यन्तेगान्तेगणपतिन्तथा
आद्यौसविन्दूपञ्चैवयोगिनीभ्योनमःस्मरेत् ६४
(मेवशञ्चानयःप्रान्तेततःसर्वोपचारतः
सहितञ्चवलिङ्गृह्णगृह्णस्वाहामनुःप्रिये )
क्षमन्तेक्षेत्रपालायनमोमन्त्रचतुष्टयम्
एवम्मन्त्रैर्वेदसङ्ख्यैर्मण्डलानिप्रपूजयेत्
एह्येहिदेवीपुत्रान्तेवटुकान्तेचनाथच
कपिलान्तेजटाभासुरान्तेत्रिनेत्रच ६६
ज्वालामुखततःसर्वविघ्नान्नाशयन्नाशय
सर्वोपचारसहितंवलिङ्गृह्णपदद्वयम् ६७

पृ० १३अ) वह्निजायान्वितोमन्त्रोवटुकस्यौदाहृतः
ऊर्द्धंव्रह्माण्डतोवान्तेदिव्यन्तेगगनेतिच ६८
तलेभूपदमालिख्यतलेचैवतुनिष्कले
वापातालेतलेवान्तेसलिलान्तेचवालिखेत्
पवनान्तेचयोर्यत्रकुत्रान्तेचस्थिताइति
वाक्षेत्रेचैवपीठोपपीठादिषुचसंलिखेत् ७०
ततःकृतपदाधूपदीपादिचपदंलिखेत्
केनप्रीताश्चदेव्यश्चसदानःशुभसंलिखेत् ७१
वल्यन्तेविधिनाचैवपातुदेवेन्द्रसंलिखेत्
वन्द्याश्वयांसमुच्चार्ययोगिनीभ्योग्निवल्लभा ७२
सर्वान्तेयोगिनीताञ्चकवचास्त्राग्निवल्लभा
योगिनीनामयम्मन्त्रःक्षेत्रपालमनुंशृणु ७३
षड्दीर्घस्वरभेदेनक्षकारम्भेदयेत्प्रिये
कवचंस्थानशव्दान्तेक्षेत्रपालसमालिखेत् ७४
धूपदीपादिविहितंवलिङ्गृह्णद्विधालिखेत्
सर्वान्कामान्पूरयाग्निवल्लभाक्षेत्रयोमनुः ७५
गाङ्गीङ्गूंसमालिख्यगणपान्तेततोलिखेत्
वरशव्दन्द्विधादान्तेततःसर्वजनम्पदम् ७६
मेवशञ्चानयःप्रान्तेततःसर्वोपचारतः
सहितञ्चवलिङ्गृह्णगृह्णस्वाहामनुःप्रिये ७७

पृ० १३ब्) गणेशस्यवरारोहेमन्त्रैरेभिर्बलिंहरेत्
वटुकस्यतुतर्जन्यासहाङ्गुष्टेनवाप्रिये ७८
वामाङ्गुष्टानामिकाभ्याङ्क्षेत्रपालस्यकथ्यते
तर्जनीकेवलाचाथगणेशस्यतुमध्यमा
जगवक्त्राकृतिर्देवियोगिनीनान्तुकथ्यते
तर्जनीमध्यमानामयोन्याकारेणयोजयेत्
बलिदानविधौमन्त्रीमुद्रांसुन्दर्शयेत्क्रमात्
स्तुत्वानत्वापुनर्देवीदेवीमात्मनियोजयेत् ८०
आत्मविद्याशिवैस्तत्वैर्गुरुंसन्तोष्यदेवताम्
आनन्दसहितोमन्त्रीसर्वकर्माणिसाधयेत् ८१

इतिश्रीत्रिपुरासमाराधनविधिः

०९

ईश्वरौवाच
महासिंहासनगताविद्येयन्त्रिपुरेश्वरी
पूर्वाम्नायेश्वरीवन्द्याविद्येयम्परमेश्वरी १
शिवचन्द्राग्निवामाक्षिविन्दुनादमयम्प्रिये
शक्तिःकलाभ्याम्मन्तेचतुर्यवीजमुदाहृतम् २
श्रीवीजङ्कुरुतार्तीयंविद्यावेदाक्षरीभवेत्
उन्मनीनामविद्येयम्पूर्वाम्नायाधिदेवता ३
अनयाविययादेविदेवीसम्मानिताप्रिये
पूर्वसिंहासनगताभोगमोक्षफलप्रदा ४
मधैषापूर्ववक्त्रेणजप्यतेद्यापिसुन्दरी
इति

पृ० १४अ) श्रीदक्षिणामूर्तिसंहितायाम्पूर्वाव्रायसिंहासनविद्यावर्णनन्नामनवमःपटलः ९

१०

ईश्वरौवाच
दक्षिणास्येनदेवेशिललितात्रिपुरापुरा
कामेश्वरीरक्तनेत्रामद्याद्यापिप्रजप्यते १
शक्तिवीजंवाग्भवेतुकामराजन्तुपूर्ववत्
अन्त्यंशिवसमायुक्तन्त्रिपुरापरमेश्वरी २
इयन्तुललितादेवीमहासौभाग्यवर्धिनी
न्यासपूजादिकंसर्वन्त्रिपुरेशीवनान्यथा ३
ध्यानमस्याःप्रवक्ष्यामिसाधकानान्तुसिद्धये
उद्यत्सूर्यसहस्राभाम्माणिक्यमुकुटोज्वलां ४
रत्नकुण्डलमुक्तालीपदकाङ्गदभूषिताम्
रत्नमञ्जीरसुभगांरक्तवस्त्रानुलेपनां ५
पाशाङ्कुशौपुस्तकञ्चदधतीमक्षमालिकाम्
सर्वाङ्गसुन्दरीध्यायेत्सर्वसम्पत्तिहेतवे ६

इतिललितापूजाविधिः १०

११

ईश्वरौवाच
केवलङ्कामवीजन्तुकामेशीवीजमुच्यते
ऋषिःकामोस्यमन्त्रस्यगायत्रञ्छन्दौच्यते १
कामेश्वरीदेवतास्यात्कर्तुर्येवीजशक्तिके
पृथ्वीवीजङ्कीलकीक्तम्महावश्यकरीपरा २
षट्दीर्घस्वरभेदेनषडङ्गानिप्रविन्यसेत्

पृ० १४ब्) पूर्वोक्तपञ्चवाणांश्चपूर्ववद्विन्यसेत्प्रिये ३
जपाकुसुमसङ्काशान्धनुर्बाणधरांस्मरेत्
नानालङ्कारसुभगाम्मोहयन्तीजगत्त्रयम् ४
अर्कलक्षञ्जपेन्मन्त्रंवन्धूककुसुमैर्हुनेत्
तद्दशांशेनदेवेशिपुरश्वारीततोभवेत् ५
अथयन्त्रम्प्रवक्ष्यामित्रैलोक्याकर्षणक्षमं
त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत् ६
मध्येविदर्भितंवीजंसाध्यसाधकलक्षितं
कोणत्रयाग्रेविद्याञ्चपृथगष्टदलेषुच ७
दलाग्रेषुचसंलिख्यचतुरस्रेष्टधालिखेत्
त्रैलोक्यमोहनंयन्त्रन्त्रिषुर्लोकेषुदुर्लभं ८
मध्येपुष्पंविनिक्षिप्यततःपीठार्चनञ्चरेत्
मोहितीक्षोभिणीचैववशिनीस्तम्भिनीतथा ९
आकर्षिणीद्राविणीचतथैवाह्लादिनीपरा
क्लिन्नाचक्लेदिनीचैवदिक्षुमध्येतुपूजयेत् १०
ततःसिंहासनेपश्चाद्देवीमावाहयेत्प्रिये
उपचारैःसमाराधागुह्यमुद्राम्प्रदर्शयेत् ११
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं
त्रिपुरेशीचवर्णानामर्चनम्परमेश्वरि १२
आदावनङ्गरूपाञ्चअनङ्गमदनान्तथा
अनङ्गमन्मथाञ्चैवअनङ्गकुसुमाम्प्रिये १३

पृ० १५अ) पञ्चमीञ्चयजेत्तद्वदनङ्गकुसुमातुरां
अनङ्गशिशिराञ्चैवतथाचानङ्गमेखलां १४
अनङ्गदीपिकामष्टदलेषुक्रमतोयजेत्
इन्द्रादयश्चसम्पूज्यापुनराराधयेच्छिवां १५

१२

ईश्वरौवाच
रक्तनेत्राम्प्रवक्ष्यामिसर्वकामफलप्रदाम्
त्रिपुरेशींसमालिख्यवाग्भवेशशिमण्डितां १
जीवाग्निमण्डिताङ्कामवीजेचाथक्रमोन्तके
रक्तनेत्रामहाविद्याविद्याचत्रिपुरेश्वरी २
ललितावदिमान्ध्यायेल्ललितातुकुमारिका
इयन्तुयौवनप्रौढापीनोन्नतघनस्तनी ३
नितंविनीक्षाममध्याप्रान्तरक्तसुलोचना
पूजान्यासादिकंसर्वन्त्रिपुरेशीवसुन्दरि ४
इतिरक्तनेत्रापूजाविधिः

१३

ईश्वराउवाच
अथवक्ष्येमहादेविदक्षिणाम्नायदेवतान्
ऐमुक्ताचततःक्लिन्नेकामवीजन्ततोलिखेत् १
मदद्ववेकुलेचोल्कात्रिपुरेश्यासनम्प्रिये

पृ० १५ब्) वह्निमद्वद्रवर्णेयन्दक्षिणाम्नायदेवताम् २
भोगिनीनामविद्येयन्त्रिषुलोकेषुविश्रुता
अनयाविद्ययादेविदेवाःसम्मानितास्त्रयः ३
ध्यानपूजादिकंसर्वंवालावत्समुदाहृतम्
इतिश्रीभोगिनीविद्याविधिः

१४

ईश्वरौवाच
देविपश्चिमवक्त्रेणमयाद्यापिप्रजप्यते
विद्याचतुष्टयंसाक्षादमृतानन्दविग्रहम् १
महासिंहासनगतान्तत्रसञ्जीवनींशृणु
शक्तिवीजंसमालिख्यशिवचन्द्रौसमालिखेत् २
अनुसारविसर्गाभ्याम्मन्त्रितौक्रमतःप्रिये
सञ्जीवनिचजूञ्जीवम्प्राणग्रन्थिस्यमालिखेत् ३
कुरुशव्दम्भृगुःसर्गीवक्तिजायान्वितोमनुः
विंशत्यर्णऋषिशुक्रोगायत्रञ्छन्दौच्यते ४
सञ्जीवनीदेवतास्याच्छक्तिरन्त्यादिवीजकम्
तृतीयञ्चचतुष्कञ्चद्वितीयम्पञ्चकन्तथा
चतुर्द्धिकञ्चक्रमतःषडङ्गानिप्रविन्यसेत्
भूर्जेक्षीरेणविलिखेत्षट्कोणेमण्डलंसुधीः
कर्पूराभांहारमुक्ताभूषणैर्भूषिताम्परां
ज्ञानमुद्राक्षमालाञ्चदधतीञ्चिन्तयेत्परां
एवन्ध्यात्वावाह्यमध्येपूजयेदुपचारकैः

पृ० १६अ) आदावङ्गानिसम्पूज्यषट्कोणेषुचपूजयेत्
सञ्जीवनीतथाबुद्धिम्पूर्वसञ्जीवनीन्ततः
अहङ्कारमयीन्तद्वत्सतुसञ्जीविनीम्प्रिये
सर्वसञ्जीविनीञ्चैवराजसञ्जीवनीङ्क्रमात्
शक्तिवीजन्नदेवेशिङेनमोन्ताःप्रपूजयेत्
वर्णलक्षञ्जपेन्मन्त्रम्पुरश्चरणहेतवे
तद्दशांशेनजु*(हु) यादूर्वात्रिमधुरान्विताः
इतिसाधारणीपूजाविशेषंशृणुपार्वति
इतिपूजाम्पुराकृत्वात्वन्यदावरणंशृणु
प्राणापानतथाव्यानमुदानञ्चसमानकं
अग्निकोणेततश्चैवविततञ्चतथाद्यनं ८
सुखिरंवैखरीशद्वन्द्वितीयेकोणकेयजेत्
पृथिव्यप्तेजआख्यातंवाय्वाकाशौतृतीयके
शव्दस्पर्शश्वरूपञ्चरसगन्धौचतुर्थके
इच्छाज्ञानाक्रियाचैवपरामायाचपञ्चमे
भूर्भुवःस्वस्तपःसत्यंषष्टकोणेक्रमाद्यजेत्
सर्वस्यान्तेवदेदेविद्विठःसञ्जीविनीपदम्
त्रिशःसञ्जीवनीपूजामृत्युसञ्जीविनीतथा

इतिसञ्जीविनीपूजाविधिः

१५

ईश्वरौवाच
अथवक्ष्येमहेशानिमृत्युञ्जयपराम्परां
वदद्वन्द्वंवादिनीतिवाङ्मुध्येनिक्षिपेत्प्रिये १

पृ० १६ब्) सहस्रंवान्भवेदेविक्लिन्नेक्लेदिनिचालिखेत्
महाक्षोभङ्कुरुद्वन्द्वंशिवचन्द्रकलानलात् २
वामाक्षिविन्दुनादाङ्कांस्तारवीजन्ततोवदेत्
मोक्षङ्कुरुयुगंहंसःशक्रस्वरविसर्गमत् ३
इयंसञ्जीविनीदेविऋषिरस्यासितप्रिये
गायत्रञ्छन्दआख्यातन्देवतेयन्तुभैरवी ४
आदिकूटम्भवेद्वीजम्मध्यकूटन्तुकीलकं
अन्यकुटम्भवेच्छक्तिःसाक्षान्मृत्युविनाशिनी ५
नवशक्राष्टवर्णैस्तुन्यसेद्धृदिशिरःशिखां
क्रमेणानेनचोच्चार्य्यपुनरन्त्यत्रयन्न्यसेत् ६
अथत्रिकोणमालिख्यततःषट्कोणमालिखेत्
वहिरष्टदलम्पद्मञ्चतुरस्रञ्चसंलिखेत् ७
वसुपत्रेकामपीठंषट्कोणेजालपीठकम्
ओड्डियानन्त्रिकोणेतुविद्याभागत्रयेणतु ८
ध्यात्वाचावाहयेद्देवीङ्कदंववनमध्यगां
पुस्तकंवामहस्तेचदक्षिणेचाक्षिमालिकां ९
विभ्रतीङ्कुन्दधवलाङ्कुमारीञ्चितयेत्परात्
सर्वोपचारैःसन्तर्प्यषडङ्गाचरणंयजेत् १०
वसन्तम्मदनञ्चन्द्रंविद्याभागत्रयेणतु
त्रिकोणेपूजयेन्मन्त्रीप्रादक्षिण्येनचाग्रतः ११

पृ० १७अ) ब्रह्मविश्वीशशव्दान्तेयजेत्सञ्जीविनीत्रयम्
इतिसञ्जीविनीषट्कन्त्रिकोणेपूजयेत्सुधीः १२
धर्मार्थकाममोक्षान्तेजपान्तेविज्जपान्तिके
सञ्जीविनीपदञ्चोक्ताषट्कोणेषुप्रपूजयेत् १३
अष्टकान्तेतुमातृणाङ्कुर्यात्सञ्जीविनीपदम्
अनेनविधिनाविद्वान्पूजयेद्वसुपत्रके १४
नियोज्यलोकपालान्तेपदंसञ्जीविनीतिच
क्रमेणानेनदेवेशिपूजयेच्चतुरस्रके १५
तारवीजंशक्तिवीजंश्रीवीजञ्चादिमङ्कुरु
इतिजप्त्वामहेशानिपुरषार्थप्रदाभवेत् १६
पुनश्चाराधयेद्देवीङ्गन्धपुष्पादिभिःप्रिये
पुरश्चरणरीतिस्तुपूर्वसञ्जीविनीवहिः १७

इतिश्रीभैरवीसञ्जीविनीविधिः

१६

ईश्वरौवाच
पराङ्क्लिन्नेवाग्भवञ्चकरोमात्मकमक्षरम्
ततोनित्यमदप्रान्तेद्रवेमायाञ्चसंलिखेत् १
वज्रेशीरविवर्णेयंऋषिर्ब्रह्मास्यसन्मनोः
छन्दोविराट्चवज्रेशीदेवतापरिकीर्तिता २
पञ्चपञ्चचतुर्थञ्चवीजशक्तीक्रमेणतु
तार्त्तीयङ्कीलकन्देव्यास्तुतोङ्गानिप्रविन्यसेत् ३

पृ० १७ब्) आद्यन्तवीजंसन्त्यज्यद्विकञ्चैकञ्चरूपकम्
द्विकन्द्विकन्द्विकन्देविषडङ्गानिप्रविन्यसेत् ४
वृतङ्कृत्वामनोरम्यङ्कर्णिकाष्टकशोभितम्
कामवीजेनतन्मध्येमहासिंहासनंयजेत् ५
रविपत्रविशोभाढ्यन्तत्रविद्यांसमालिखेत्
चतुरस्रन्ततःकृत्वामध्येपुष्पंविनिःक्षिपेत् ६
ध्यात्वाचावाहयेद्देवीङ्कदंववनमध्यगां
रक्ताञ्चन्द्रकलाचाहमुकुदांवरभूषणाम् ७
महातारुण्यगर्वाढ्यांलोचनत्रयभूषिताम्
शोणिताव्धितरत्योतमहायन्त्रोपरिस्थितां ८
दाडिमीसापकञ्चैवपाशञ्चैवसृणिन्तथा
चापङ्कलापन्दधतीशोणमालानुलेपनाम् ९
स्मरेद्रत्नभरान्देवीम्मुपचारैःसमर्चयेत्
आदावङ्गानिसम्पूज्यरविपत्रेप्रपूजयेत् १०
हृल्लेखाङ्क्लेदिनीन्नन्दाङ्क्षोभिणीम्मदनातुराम्
निरञ्जनांरागवतीङ्क्लिन्नाञ्चमदनावतीम् ११
खेचरीन्द्राविणीञ्चैवक्रमाद्वेगवतींयजेत्
कामवीजेनसम्पूज्यसम्प्रदायान्तरंशृणु १२
विरव्यभूमिविम्बंहिअष्टपत्रंसमालिखेत्
मातरस्तत्रसम्पूज्याभूविंवेलोकपालकान् १३

पृ० १८अ) पुनर्देवींसमभ्यर्च्यवर्णलक्षञ्जपेछविः
तद्दशाण्णेनजुद्रपादम्बुजैरक्तसुन्निभैः १४

इतिवज्रेशीपूजाविधिः

१७

ईश्वरौवाच
अथवक्ष्येमहेशानिभैरवीन्त्रिपुराम्पराम्
पञ्चमुद्रासमासीनाम्मुण्डमालाविभूषिताम् १
आताम्नार्कायुताभासांरत्नभूषणभूषिताम्
पाशाङ्कुशभयवरांसाक्षाद्भुवनमातृकाम् २
हंसाद्यंवाग्भवंवह्निवचन्द्रकलापराम्
त्रिपुरेशीशक्तिवीजंशिवाद्यैभैरवीमनुः ३
सर्वमस्याविधानन्तुत्रिपुरेशीवविद्धिहिः
अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा ४

इतित्रिपुराभैरवीपूजाविधिः

१८

ईश्वरौवाच
एतच्चतुष्टयन्देविपश्चिमाम्नायसागरे
वाग्भवंशक्तिवीजञ्चश्रीवीजंहसफानलम् १
रुद्रस्वरेणसम्मेद्यंविन्दुनादाङ्कितेहसौः
एतत्सम्पुटितांविद्यान्द्वात्रिंशार्णालिखेद्वुधः २
नमोभगवतिप्रातेचतुर्थम्प्रणवंलिखेत्
ईश्वराख्यङ्क्रमेणैवकुव्जिकायैपदन्ततः ३
ह्रीमात्मकम्पदम्पश्चाद्रुमात्मकमतःपरम्
अघोरेयघोरेपश्चादघोरमुखिसंलिखेत् ४

पृ० १८ब्) छीञ्छीङ्किणियुगंविच्चेकुव्जिकासाम्भवी
पश्चिमान्नायदेवेशिभोगमोक्षप्रदायिनी ५
महासिंहासनाख्यन्तुकथितंयच्चतुष्टयम्
अनयाविद्ययागौरीसम्यक्सम्मानितासदा ६

१९

ईश्वरौवाच
उत्तरास्येनदेवेशिमयाद्यापिप्रजप्यते
महासिंहासनगतौभैरवीडामरीश्वरी १
पूर्वोक्तभैरवीदेव्याःकामकूटेपरांशिवं
हित्वोच्चरेतदाविद्यामहासिंहासनेश्वरी २
उत्तराम्नायविद्येशीभोगमोक्षफलप्रदा
वन्धूककुसुमप्रीतांवन्धूककुसुमार्चिताम् ३
वन्धूककुस्वमाभासाम्पञ्चमुण्डाधिवासिनीम्
स्फुरच्चन्द्रकलारत्नमुकुटाम्मुण्डमालिनीम् ४
त्रिनेत्रांरक्तवसनाम्पीनोन्नतघनस्तनीम्
पुस्तकञ्चाक्षमालाञ्चवरदञ्चाभयङ्क्रमात् ५
दधतींसंस्मरेन्नित्यमुत्तराम्नायमानिताम्
मदनान्तफरेमात्ममहाचण्डंसमालिखेत् ६
योगेश्वराग्न्यक्षियुतावियेयङ्कालिकामता
नवाक्षरीमहेशानिस्मरेदुत्तरनायिकां ७
अनयाविद्ययादेविसम्यक्सम्मानिताभवेत्

पृ० १९अ) न्यासपूजादिकंसर्वन्त्रिपुरेशीवसुन्दरि ८
महासम्पत्प्रदादेविमहाभयविनाशिनी ९

२०

ईश्वरौवाच
चतुःसिंहासनेष्टायाभैरव्याःपरमेश्वरि
वाग्भवंसर्वसाम्राज्यदापिन्यामध्यमंलिखेत् १
दक्षिणाम्नायरुद्रार्णासर्वात्पञ्चसमालिखेत्
चैतन्यम्भैरवीन्ध्यायेत्पाशाङ्कुशकपालिकाम् २
रक्तमुण्डस्रजाञ्चैवपञ्चप्रेतासनस्थिताम्
कामेश्वरीञ्चसम्पूज्यपूर्वसिंहासनाश्रयाम् ३

इतिचैतन्यभैरवीविधिः

२१

ईश्वरौवाच
उरक्ष्मामादनञ्जीवःशिवएवत्रिधालिखेत्
अर्कतूर्येन्द्रकलयाक्रमात्तत्पिण्डितङ्कुरु ४
विन्दुनादात्मकञ्चाद्यंयुग्मसत्यंविसर्गवत्
ध्यानन्त्रिभुवनेश्वर्याभैरव्याइवसुन्दरि ५
षट्कूटाभैरवीदेवीदक्षिणाम्नायसेविता
त्रिकोणञ्चैवषट्कोणंवस्रपत्रङ्क्षमात्मकम् ६
ऋष्यादित्रिपुरेशीवपूजाचैवनिगद्यते

पृ० १९ब्) त्रिकोणेक्रमतोदेविरतिप्रीतिमनोभवाः ७
डाकिनीशाकिनीचैवलाकिनीकाकिनीतथा
राकिनीहाकिनीचैवषट्कोणेषुयजेत्क्रमात् ८
अष्टपत्रेषुदेवेशितथानङ्गादिपूजनम्
मातरोभैरवःसार्धन्तथापीठादिभैरवाः ९
इन्द्रादयश्चसम्पूज्यादक्षिणाम्नायमानिता

इतिषट्कूटभैरवीविधिः

२२

ईश्वरौवाच
षट्कूटभैरवीवर्णात्संहारक्रमतोलिखेत्
तथासंयोज्यनित्येयम्भैरवीभयहारिणी ११
षट्कूटभैरवीयच्चविद्यानपूजनादिकम्
पश्चिमाम्नायसामर्थ्याद्कुर्वितेपीसुरीश्वरी १३
अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा
इतिनित्याभैरवीविधिः

२३

ईश्वरौवाच
डामरैश्वरभैरव्याकादिहित्वासुरेश्वरि
विन्दुनादकलाक्रान्तंशक्तिवीजंसमुच्चरेत् १४
भयविध्वंसिनीनामभैरवीपरिकीर्तिता
उत्तराम्नायगम्भीराडामरेशीचपूजयेत् १५
इतिभयविध्वंसिनीविधिः

२४

ईश्वरौवाच
हसास्वान्तेफरेमात्मवीजंसंलिख्यमन्त्रवित्
भयविध्वंसिनीनामभैरव्याद्रूपमालिखेत् १६
मध्यमञ्चातिमञ्चैवविद्येयम्भोगमोक्षदा

पृ० २०अ) अघोरभैरवीदेवीश्यामामुण्डह्मगाकुला १७
दक्षिणोत्तरयोःप्रौढापञ्चमुण्डाधिवासिनी
पुस्तकञ्चाक्षमालाञ्चपाशञ्चैवाङ्कुशन्तथा १८
खड्वाङ्गण्डमरुञ्चैवकपालंशूलमेवच
दधतीम्परमेशानींषट्कूटामिवपूजयेत् १९

इतिघोरभैरवीविधिः

२५

ईश्वरौवाच
चतुःसिंहासनसमांश्रीसम्पद्भैरवीं(य) यजेत्
भयविध्वंसिनीनामभैरवीपूर्वमालिखेत् २०
आद्येत्रितीयेदेवेशिवह्निवीसमासनम्
इयंसम्पत्प्रदानामत्रिषुलोकेषुदुर्लभा २१
चतुःषष्टिमहाकोटिद्योगिनीशासनङ्क्षमा
अताम्रार्कसहस्राभाञ्चन्द्रमण्डलसन्मुखीं २२
चन्द्रखण्डस्फुरद्रत्नमुकुटाङ्क्षाममध्यमां
नितंविनींस्फुरद्रक्तवसनांरक्तभूषणाम् २३
उन्मत्तयौवनप्रौढाम्पीनौन्नतघनस्तनीम्
असृक्यङ्काढामुण्डस्रक्मण्डिताङ्गींसुभूषणां २४
पुस्तकञ्चाभयंवामेदक्षिणेचाक्षमालिकां
वरञ्चदधतीम्पूज्यात्रिपुरेशीचनान्यथा २५

इतिदक्षिणामूर्तिसंहितायाम्भैरवीवर्णनन्नामचतुर्दशःपटलः १४

२६

ईश्वरौवाच
अथेशानेनवक्त्रेणमपायापिप्रजप्यते
विद्यानाम्पञ्चकन्देवित्रिषुलोकेषुदुर्लभां १
वाग्भवंशिवसंयुक्तंवाग्भवम्मध्यमंशृणु

पृ० २०ब्) हकलान्तेमहेशानिशिववीजत्रयंलिखेत् २
रेफवामाक्षिविद्धिन्दुघटितन्तुतृतीयकं
हसानुग्रहसर्गाद्यंविद्यैकासुन्दरीप्रिये ३
हसान्योजपेन्मन्त्रीरवितुर्यमनुस्वरैः
अन्त्यंससर्गमायेद्धेविन्दुनादकलात्मके ४
इयन्द्वितीयादेवेशिसुन्दरीपरिकीर्तिता
केवलंवाग्भवन्देविवाग्भवेमध्यमेशृणु ५
हसराहसहस्रांशुवाग्भवेनचयोजयेत्
हत्रयङ्कलहृल्लेखाशक्तिकूटंशृणुप्रिये ६
चतुष्कंशिववीजानांरेफानुग्रहसर्गमत्
इयन्तृतीयादेवेशिसुन्दरीचतुरक्षरा ७
कलन्तिशिवयुग्मंव्रुतथावीजत्रयेशिवम्
परयापिण्डितङ्कुर्यात्क्रूटमेतत्त्रिधाप्रिये ८
वाग्भवेकामवीजेचशक्तिवीजेचसंलिखेत्
चतुर्थीसुन्दरीख्याताभोगमोक्षप्रदायिनी ९
जीवःशिवयुगञ्जीवःक्ष्माक्षकारशिवेनुमत्
एतदाद्यञ्चमध्यञ्चहसयुक्ष्माक्षमेन्दुमत् १०
अन्यन्तुहसलक्षेन्द्रुहेन्द्वाकाशविभूषितं
त्रिपुरेशीमनोरेखापञ्चमीसुन्दरीस्मृता ११
सम्पत्प्रदाम्भैरवीञ्चध्यायेत्पञ्चकमुत्तम्
ऋष्यादिपूजाविज्ञेयात्रिपुरेशीचनान्यथा १२

पृ० २१अ)

२७

ईश्वरौवाच
अथवक्ष्येमहेशानिविद्याकल्पलताप्रिये
यासाविज्ञानमात्रेणपलायन्तेमहापदः १
श्रीविद्यापारिजातेशीपञ्चकामेश्वरीतथा
पञ्चवाणेश्वरीदेवीकुमारीपञ्चकीर्तिताः २
सम्पत्प्रदायाभैरव्यावाग्भवंवीजमालिखेत
तारेणपरयादेविसम्पुटीक्रतुमन्त्रवित् ३
सरस्वतीहृदन्तोयंरुद्रार्णैर्मनुरीरितः
ऋषिऽस्याद्दक्षिणामूर्तिर्गायत्रीछन्दौच्यते ४
पारिजातेश्वरीवाणीदेवतापरिकीर्तिता
द्वितीयेचतृतीयञ्चवीजशक्तीचतारकं ५
कीलकञ्चमहेशानिमहासारस्वतप्रदम्
षड्दीर्घस्वरसम्भिन्नवीजेनाङ्गानिसन्न्यसेत् ६
ब्रह्मरन्ध्रेभ्रुवोर्मध्येनेत्रश्रोत्रपुटेक्रमात्
नासारन्ध्रयुगेजिह्वांलिङ्गयापुषुविन्यसेत् ७
वर्णान्वितास्यदेवेशीन्ध्यायेत्सारस्वतप्रदां
हंसारूढांलसन्मुक्तान्धवलांशुभ्रवाससं ८
शुचिस्मिताञ्चन्द्रमौलिंवज्रमुक्ताविभूषणां
विद्यांवीणास्वधाकुम्भमक्षमालाञ्चविभ्रतीं ९

पृ० २१ब्) एवन्ध्यात्वाजपेन्मन्त्रंरविलक्षंसमाहितः
हुनेत्सहस्रदशकंसितपद्मैःप्रसन्नधीः १०
अथवादेवदेवेशिजुहुयान्नागपञ्चकैः
मातृकावल्लिखेयन्त्रम्पीठेतद्वत्प्रपूजयेत् ११
तत्रावाणींसमावाह्यपूजयेदुपचारकैः
आदावङ्गानिसम्पूज्यपरिवारान्समर्चयेत् १२
पार्श्वर्योर्देवतायास्तु***संस्कृतांयजेत्
प्रजामेधास्तुतिःशक्तिःस्मृतिर्वागीश्वरीतिच १३
सुमतिस्वस्त्रिरित्येतावसुपत्रेषुपूजयेत्
श्वातरस्तुदलाग्रेषुसम्पूज्यापरमेश्वरि १४
इन्द्रादयश्चभूविंवेपुनर्देवीसमर्चयेत्
पारिजातेश्वरीविद्यादुर्लभाभुवनत्रये १५

इतिपारिजातेश्वरीवाणीयजनविधिः

२८

ईश्वरौवाच
अथवक्ष्येमहेशानिपञ्चवाणीश्वरीशिवां
तैरेवपञ्चभिर्वाणैर्विद्यापञ्चाक्षरीभवेत् १६
ऋषिरस्यास्तुमदनोगायत्रीछन्दौच्यते
कामेश्वरीववीजानिदेवताचेयमीश्वरि १७
व्यस्तैःसमस्तैरङ्गानिवाणैःपञ्चभिरर्चयेत्
पूर्ववत्पञ्चवर्णानान्न्यासङ्कुर्वादिचक्षणः १८
पञ्चकामांश्चविन्यस्यपूर्ववत्परमेश्वरि
उद्यदिवाकराभासान्नानालङ्कारभूषिताम् १९

पृ० २२अ) वन्धूककुसुमाकाररक्तवस्त्राङ्गरागिणीम्
इक्षुकोदण्डपुष्पेषुविराजितभुजद्वयाम् २०
एवन्ध्यात्वाजपेन्मन्त्रंवर्णलक्षंसमाहितः
तद्दशांशेनजुहुयाद्वन्धूककुसुमैःप्रिये २१
कामेश्वरीवसम्पूज्याविशेषोवाणपूजनम्
त्रिपुरेशीवसम्पूज्यमोहयेजगतीमिमाम् २२

इतिपञ्चवाणेश्वरीयजनविधिः

२९

ईश्वरौवाच
अथवक्ष्येपञ्चकामनापिकांविश्वमातरां
पूर्वोक्तपञ्चकामैस्तुपञ्चकामीश्वरीभवेत् २३
ऋषिःसम्मोहनोनामगायत्रञ्छन्दौच्यते
देवतेयङ्काममाद्यंवीजंशक्तेतुकीलकं २४
अन्त्यमेतैर्न्यसेन्मन्त्रीव्यस्तैश्चैवसमस्तकै
अङ्गानिपूर्ववत्कामवाणन्यासद्वयंयजेत् २५
रक्तांरक्तदुकुलाङ्गंलेपनांरक्तभूषणां
पाशाङ्कुशौधनुर्वाणान्पुस्तकञ्चाक्षिमालिकान् २६
वराभीतिञ्चदधतीन्त्रैलोक्यवशकारिणीम्
अन्यत्सर्वम्पूजनादिपञ्चवाणेश्वरीचतु २७
पञ्चकामैःपरिवृताविशेषोयन्निगद्यते

इतिपञ्चकामेश्वरीयजनविधिः

ईश्वरौ०

पृ० २२ब्) अथवक्ष्येमहेशानिकुमारींविश्वमातरम्
कामेश्वरीम्भगवतीन्त्रैलोक्याकर्षणक्षमाम् २९
वाग्भवन्त्रिपुरेशान्यांहित्वातत्सङ्क्षिपेत्सुधीः
कामशक्तिद्वयान्तस्थंविद्येयन्द्व्यक्षरीभवेत् ३०
त्रिपुरेशीचऋष्यादिवीजशक्तीक्रमेणतु
आद्यन्तेकीलकंसध्यम्महावश्यकरीप्रिये ३१
द्विरावृत्याषडङ्गानिपञ्चवाणान्प्रविन्यसेत्
पञ्चकामांश्चविन्यस्यमूलेनव्यायकन्न्यसेत् ३२
कामेश्वरीमहायन्त्रमध्येदेवीम्प्रपूजयेत्
विशेषंशृणुतत्रैववाणस्थानेषुपार्वति ३३
पञ्चकामान्प्रपूज्याथरत्यादित्रितयंयजेत्
ततोनङ्गायगाद्यष्टकंस्याद्भैरवैःसहमातरः ३४
अष्टपत्रेषुचाग्रेषुयजेत्पीठाष्टकम्प्रिये
इन्द्रादयश्चसम्पूज्यामध्येदेवींसमर्चयेत् ३५
पुरश्चरणकृत्यन्तुत्रिपुरेशीवसुन्दरि
एतांस्मरन्महेशानिमोहयेजगतीमिमाम् ३६
उद्यत्सूर्यसहस्राभाम्माणिक्यवरभूषणान्
स्फुरद्रत्नदुकूलाढ्यान्नानालङ्कारभूषणां ३७
इक्षुकोदण्डवाणांश्चपुस्तकञ्चाक्षिमालिकां
दधतीञ्चिन्तयेन्नित्यंसर्वराजवशङ्करीम् ३८

पृ० २३अ) इतिकुमारीयजनविधिः

३०

देव्युवाच
पञ्चरत्नमहाविद्यासूचितानप्रकाशिता
श्रोतुमिछामिदेवेशकृपाङ्कुरुमहेश्वर १

ईश्वरौवाच
सिद्धविद्याम्प्रवक्ष्यामिस्मरणेनापिसिद्धिदाम्
कामदामत्तदानित्यंसर्वैश्वर्यप्रदाप्रिये २
श्रीविद्यासिद्धविद्याचमातङ्गीभुवनेश्वरी
वाराहीतिचसम्प्रोक्तापञ्चरत्नम्प्रकीर्तितम् ३
शिवाग्निवामनयनविन्दुनादकलात्मकं
श्रीकामयुगलञ्चोक्ताहृदन्तेभगवत्यपि ४
माहेश्वरीचतुर्वर्णमत्रपूर्णन्ततोलिखेत्
चतुवर्णंवह्निजायाताराद्योमनुरीरितः ५
द्विदशार्णम्महेशानिप्रातरेवसमर्चयेत्
अस्याःस्मरणमात्रेणपलायन्तेमहापदः ६
ऋषिर्ब्रह्मास्यमन्त्रस्यौष्णिक्छन्दोभिधीयते
अन्नपूर्णेश्वरीसिद्धविद्येयन्देवताप्रिये ७
वीजशक्तीःकीलकञ्चहृल्लेखादिकमुच्यते
षड्दीर्घस्वरसम्भिन्नंहृल्लेखाङ्कुरुपार्वती ८
एभिरङ्गानिविन्यस्यवर्णन्यासंसमाचरेत्
व्रह्मरेध्रेचसीमन्तेभालेभ्रूमध्ययोर्नसि ९

पृ० २३ब्) वक्त्रेकण्ठेचहृदयेकुक्षिनाभिषुलिङ्गके
आधारेस्फिक्द्वयेचोरुद्वयेजानुद्वयेतथा १०
पादयोर्देवदेवेशिपदन्यासन्ततोन्यसेत्
नवद्वारेषु(हृदयेकुक्षिनाभिषुलिङ्गके
आधारेस्फिक्द्वयेचोरुद्वयेजानु) देवेशिपदन्यासमुदाहृताः ११
मूलेनव्यापकन्न्यासङ्कुर्याद्देहस्यशुद्धये
अथयन्त्रम्प्रवक्ष्यामिभोगमोक्षफलप्रदम् १२
त्रिकोणंषोडशारञ्चततोष्टदलनीरजं
भूविंवम्परमेशानितारम्मध्येविनिक्षिपेत् १३
कोणत्रयेत्रिवीजानिप्रादक्षिण्येनयोजयेत्
अग्रमारभ्यपूर्वादिकलापत्रेशृणुप्रिये १४
अवशिष्टात्कलावर्णान्पूर्वादिक्रमतोलिखेत्
अष्टपत्रस्यपत्रेषुलिखेदीर्घस्वरात्प्रिये १५
एतत्पीठंसमभ्यर्च्यप्रणवेनत्रिधावुधः
तत्रावाह्यान्नदान्देवीम्मुद्रासाधारणंयजेत् १६
गन्धपुष्पादिभिःसम्यगभ्यर्च्यपरितोयजेत्
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् १७
ध्यात्वादेवींसिद्धविद्याम्महाक्षीरार्णवेवुधः
रत्नद्वीपेलसद्वर्णप्राकारभवनोज्वले १८
कल्पद्रुमविशोभाढ्यसिंहासनसमन्विते

पृ० २४अ) उद्यत्सूर्यसमाभासांविचित्रंवसनोज्वलां १९
चन्द्रचूडामन्नदाननिरतांरत्नभूषिताम्
सुवर्णकलशाकारस्तनभारभरोलताम् २०
रुद्रताण्डवसानन्दन्द्विभुजाम्परमेश्वरीम्
वरदाभयशोभाढ्यामन्नदानरतांसदा २१
अथवादक्षिणेहस्तेदेवीध्यायेत्सुवर्णजाम्
दुग्धान्नभरिताम्पात्रन्दिव्यरत्नादिभूषिताम् २२
वामहस्तेमहेशानिध्यात्वेमाम्परमेश्वरीम्
पुरतस्ताण्डवप्रौढंरुद्रंसम्पूजयेत्प्रिये २३
द्वितीयेनतुवीजेनतृतीयेनहरिंयजेत्
ब्रह्माणन्तुर्यवीजेनकलापत्रन्ततोयजेत् २४
आदौनतसुरामोक्षदायिनीभयहारिणी
गतिहंसीवराक्षीचतीर्थरूपाततःपरम् २५
मानदाहेमदास्वर्णदात्रीरिपुनिकृतनी
अनर्थध्वंसिनीदेवीमननानन्ददायिनी २६
पूतमूर्तिऋणघ्रीचस्वामिनीहरसुन्दरी
शोडशान्तेन्न्नपूर्णायैनमस्कारक्रमेणतु २७
वर्णदेवींसमभ्यर्च्यवसुपत्रन्ततोयजेत्
ब्राह्म्यष्टकेनदेवेशिचतुरस्रेततोयजेत् २८
लोकपालैःपुनर्देवीङ्गन्धपुष्पादिभिर्यजेत्

पृ० २४ब्) लक्ष्यञ्जपेत्सुनियमंस्तद्दशांशेनहोमयेत् २९
रम्यपापससर्पिभ्यांसिद्धिदम्भवतिध्रुवम्
इतितेकथितासिद्धविद्यात्रफलदायिनी ३०

३१

ईश्वरौवाच
अथातःसम्प्रवक्ष्यामिमातङ्गींरत्नदेवताम्
वाग्भवङ्कामवीजञ्चसर्गवान्भृगुरुत्तमे १
अनुग्रहेणसंयुक्तःपुनराद्यम्परांलिखेत्
श्रीवीजन्तारकञ्चैवनमोभगवतीतिच २
मातङ्गीश्वरिसर्वान्तेमनोहरिजनादिके
सर्वराजवशञ्चान्तेकरिसर्वनुखान्तकं ३
रञ्जनीतिततःसर्वस्त्रीशव्दञ्चततोवदेत्
पुरुषान्तेवशञ्चोक्ताकर्यन्तेसर्वदुष्टच ४
मृगन्नेवशमालिख्यसर्वलोकपदंवदेत्
ततश्चवशमालिख्यकरिशव्दन्ततोलिखेत् ५
परांश्रियङ्कामवीजंवाग्भवञ्चततोलिखेत्
सप्ततिश्चत्रयोवर्णामातङ्गीविग्रहाप्रिये ६
इयंसमस्तविद्यानांराज्ञीमोक्षार्थसिद्धिदा
ऋषिर्मतङ्गोभगवान्गायत्रञ्छन्दौच्यते ७
देवतानादमूर्तिस्तुमातङ्गीपरमेश्वरी
कामवीजंवाग्भवञ्चवीजशक्तीचकीलकम् ८

पृ० २५अ) तार्तीयन्देवदेवेशिषडङ्गान्यथविन्यसेत्
आद्यवीजत्रयेणैवद्विरावृत्याषडङ्गकम् ९
अम्भोजार्पितदक्षाघ्रिङ्क्षामान्ध्यायेन्मतङ्गिनीं
कणद्वीणालसन्नादश्लाघ्यान्दोलितकुण्डलाम् १०
दन्तपङ्क्तिप्रभारम्यांशिवांसर्वाङ्गसुन्दरीम्
कदंवपुष्पदामाघ्यांवीणावादनतत्पराम् ११
श्यामाङ्गींशङ्खवलयान्ध्यायेत्सर्वार्थसिद्धये
अथयन्त्रम्प्रवक्ष्यामित्रिकोणम्पञ्चकोणकम् १२
वसुपत्रङ्कलापत्रवसुपत्रञ्चतुर्दलम्
चतुरस्रञ्चतुर्द्वारमेवम्मण्डलमालिखेत् १३
आवाह्यदेवतांसम्यगुपचारैःसमर्चयेत्
अग्नेशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं १४
अथवक्ष्येमहेशानिचरप्रत्यपूजनम्
अग्रद्वाराचतुर्दिक्षुप्रादक्षिण्येनपूजयेत् १५
सरस्वतीञ्चलक्ष्मींश्चशङ्खपद्मनिधीप्रिये
विदिक्षुवामभागादिप्रादक्षिण्येनपूर्ववत् १६
वटुकङ्गणराजञ्चक्षेत्रपालञ्चयोगिनीः
ततश्चतुर्दलाग्रेषुसिद्धमातङ्गिनीङ्क्रमात् १७
महालक्ष्मीमयींसिद्धलक्ष्मीमातङ्गिनींयजेत्
महामातङ्गिनीन्देवीम्प्रादक्षिण्येनपूजयेत् १८

पृ० २५ब्) अष्टपत्रेमहेशानित्वसिताङ्गादिभैरवान्
असिताङ्गोरुरुश्चण्डःक्रोधौन्मत्तभैरवः १९
कपालीभीषणश्चैवसंहारश्चाष्टभैरवाः
प्रादक्षिण्येनदेवेशिपुरआरभ्यपूजयेत् २०
वामाज्येष्टाचरौद्रीचशान्तिःश्रद्धाचपञ्चमी
वागीश्वरीक्रियाशक्तिर्लक्ष्मीःपुष्टिस्तथैवच २१
मोहिनीप्रमथास्वासाचीचीवैविन्दुमालिनी
स्वरानन्दानागवुद्धिरेताःषोडशकीर्तिताः २२
पुरआरभ्यदेवेशिप्रादक्षिण्येनपूजयेत्
षोडशारेततोदेविलक्ष्मीचैवसरस्वति
रतिःप्रीतिःकीर्तिशान्तिःतुष्टिपुष्टिश्चपूर्ववत्
पत्राष्टकेषुदेवेशिमातृणाञ्चाष्टकंयजेत्
पूर्ववत्पञ्चपत्रेषुद्राविणोशोषिणीतथा
स्तम्भिनीमोहिनीचैवतथाचाकर्षकारिणी २६
त्रिकोणेपिहिदेवेशियजेदग्नेपिपूर्ववत्
प्रादक्षिण्येनमनुनारतिप्रीतिमनोभवाः २७
पुनःसम्पूज्यदेवेशींसर्वोपस्करकैःप्रिये
पुनश्चरणकार्येषुलक्षत्रयमुदाहृतम् २८
प्रवालमालयादेविदशांशेनतुहोमयेत्
वन्धूककुसुमैर्मन्त्रीत्रिकोणेकुण्डकेशुचिः २९

पृ० २६अ) एवंसंशुद्धमन्त्रस्तुसर्वकर्माणिसाधयेत्
राज्यार्थीमल्लिकाजातीपुन्नागैःश्रीफलछदैः ३०
श्रीकामुकःशुभ्रपद्मैःपङ्कजैर्वापिशुप्रभे
उत्पलैर्भोगकामस्तुलक्ष्मीपुष्पश्चसुब्रते ३१
जपावन्धूकवकुलकिञ्जल्कैर्वशकारिणी
वश्यार्थीमधुसंयुक्तैर्मधूककुसुमैर्हुनेत् ३२
आकर्षणेतुलवणतिलैस्त्रिमधुसंयुतैः
वञ्जुलैर्वृष्टिकामस्तुधनार्थीहेमपुष्पकैः ३३
वश्येकदंवकुसुमैराज्यार्थीधान्यतण्डुलैः
साज्यान्नैरलकामस्तुवश्येकुङ्कुमरोचनैः ३४
गन्धद्रव्यैस्तुसौभाग्येनन्द्यावर्त्तैस्तुवाङ्मुये
करिपुष्पैःसम्पदर्थीपालाशैस्तेजसेहुनेत् ३५
कापिलेनघृतेनाथतेजस्वीहवनाद्भवेत्
उन्मादनकरोहोमौन्मत्तकुसुमैर्भवेत् ३६
विषवृक्षैश्चनिवैश्चश्लेष्मान्तकविभीतकैः
उलूकगृद्ध्रकाकैस्तुनिंवतैलपरिस्तुतैः ३७
होमयेद्रिपुनाशायनराश्रेवह्निकुण्डके
यमाशाभिमुखोनग्नोभूत्वादृष्टिमलीमसः ३८
उच्चाटनंवायुभागेविद्धेशोरक्षसोभवेत्
इन्द्राग्नेयविभागेपिशान्तिकेप्राङ्मुखोभवेत् ३९

पृ० २६ब्) पश्चिमेस्तम्भनञ्चोक्तमुत्तरस्यान्तुदेशिकः
साधयेत्सर्वकर्माणिपौष्टिकादीनिसाधकः ४०
पायसैर्गुडखण्डैश्चकुर्यादिक्षुरसैरपि
पित्तशान्तिकरोहोमस्तन्यङ्केवलमेवच ४१
उन्मादनाशनन्तूर्णम्पायसङ्घृतसंयुतं
मरीचतिलतैलाक्तङ्कासश्वासहरम्भवेत् ४२
निर्गुण्डीमूलहोमेनवातदोषविनाशनं
शृण्वथाकर्षणंशीघ्रमाकृतित्रितयङ्कुरु ४३
जीवन्यासन्ततःकृत्वामृदाचक्रीगृहोत्थया
मधूछिष्टेनचान्यापिलवणेनापिपुत्रिका ४४
कृत्वातन्नामसङ्कल्पमृद्रूपाङ्कुङ्कुमेन्यसेत्
सप्ताङ्गुलमधःपश्चाल्लावणीमेखलागतां ४५
लंवयेदूर्द्धतःपश्चाद्वृक्षेमाक्षिकसम्भवाम्
लवणम्पेष्यमधुनालावन्याहोमयेत्सुधीः ४६
आरभ्यदक्षिणम्पादंवामपादावधिप्रिये
मनुजानामयंहोमःस्त्रीणान्देविविपर्ययः ४७
सप्तरात्रान्महादेविक्षुभ्यन्तिविरहातुराः
पतन्तिसाधकस्याङ्केभयलज्जाविवर्जिताः ४८
लवणन्निंवतैलेनहोमयेछत्रुनाशने
हरिद्राचूर्णसंयुक्तंलवणंस्तभनेहुनेत् ४९

पृ० २७अ) पूर्वाह्नेपूर्वरात्रौचशुभार्थञ्चयजेद्वुधः
मध्याह्नेमध्यरात्रेतुकुर्यादुच्चाटनादिकं ५०
मातङ्गीविग्रहोभूत्वासर्वकर्माणिसाधयेत्
आवेशनन्ततःकुर्यात्कन्न्यानांसन्निधःसुधी ५१
कन्यापूजाचकर्तव्यायोगिनीनांविशेषतः
अष्टाष्टाकंसमभ्यर्च्यमातङ्गीतृप्तिकृत्सुधीः ५२
वलिन्निवेदयेत्पश्चात्मातङ्ग्यास्तुवरानने
देविशक्तिनमश्चान्तेभगवत्यपिसंलिखेत् ५३
मातङ्गीचततोब्रूयाच्चण्डालीचसमालिखेत्
ततःसर्वजनञ्चोक्तमेवशंवसमालिखेत् ५४
आनयेतिचसंलिख्यद्विठान्तोमनुरुच्यते
अनेनबलिदानंस्यान्मातङ्ग्यासिद्धिहेतवे ५५
वटुकादिवलिन्तद्वत्सम्यगुक्षिप्यमान्त्रिकः
साधयेत्सर्वकर्माणिमातङ्ग्यास्तुप्रसादतः ५६

३२

ईश्वरौवाच
शृणुदेविप्रवक्ष्यामिभुवनानन्दमन्दिरं
यस्यविज्ञानमात्रेणपलायन्तेमहापदः १
शिवंवह्निसमारुढंवामाक्षिपरिभूषितम्
ऋषिःशक्तिर्वसिष्टस्यसुतछन्दोत्रकथ्यते २

पृ० २७ब्) गायत्रीदेवतावोधवाचिसंवित्कलापरा
शिवतूर्येवीजशक्तीकीलकंरेफौच्यते ३
ददातिभुवनेशानीपुरुषार्थचतुष्टयं
अनन्तवामनेत्राभ्यांवामश्रुत्याधरेणच ४
अनुग्रहविसर्गाभ्यांविद्यांसम्भेद्यमन्त्रवित्
षडङ्गानिचविन्यस्यहृल्लेखादिमनुन्न्यसेत् ५
अकाराद्यर्णपर्यन्तंविपरीतक्रमेणच
मातृकांसंहरेन्नद्वन्नद्वद्वर्गैविलोमतः ६
गुरुपदेशविधिनाविलोमस्वरमार्गतः
संहारमातृकान्यासोव्रह्मानन्दरसोज्वलः ७
एवम्भूत्वाततोमन्त्रीषडङ्गैरङ्गुलीर्न्यसेत्
पुनरङ्गानिविन्यस्यचिदानन्देनतेजसा ८
कास्यहृद्गुह्यपादेषुन्यसेत्पञ्चपरेश्वरी
हृल्लेखाङ्गगनांरक्ताञ्चतुर्थीञ्चकरालिकां ९
महोक्षुष्माम्प्रविन्यस्यतिस्रःशक्तिश्चविन्यसेत्
गायत्रीञ्चैवसावित्रीन्तृतीयाञ्चसरस्वतीम् १०
कण्ठेवामस्तनेदक्षस्तनेदेवत्रयन्त्ततः
ब्रह्माविष्णुशिवाख्यञ्चवामांशेहृदयेतथा ११
दक्षांशेचततोन्यासम्मातृणांविन्यसेत्प्रिये
ललाटेत्येवामभागेपार्श्वेकुक्षौचदक्षिणे १२

पृ० २८अ) कुक्षौपार्श्वेचकेशान्तेमूलेनव्यापकन्न्यसेत्
पाशाङ्कुशवराभीतिमुद्रासन्नद्धविग्रहः १३
कुङ्कुमादिभिरन्यच्चसुद्रव्यैर्विलिखेत्पटे
सुवर्णरौप्यताम्रादिरचितेदेशिकोत्तमः १४
इन्द्रराक्षसवायव्यरेखाभिर्वह्निमण्डलं
तन्मध्येसाध्यनामाङ्कंशक्तिंसंलिख्यमान्त्रिकः १५
ठकारवेष्टितङ्कृत्वाकोणाग्रेषुपरालिखेत्
स्थानत्रयेपिवन्धस्तुकथ्यतेसिद्धिदायकः १६
तद्वीजत्रयरेखाग्रम्पादक्षिण्येनवेष्टयेत्
इतरत्रितयेचास्यमायाग्रेणैववेष्टयेत् १७
अन्योन्यकलयारम्याशक्तिवन्धौदाहृतः
त्रिकोणस्यान्तरालेषुवामनेत्रंसविन्दुकं १८
प्रत्येककोणपार्श्वेषुहर्पर्णञ्चहराक्षरं
पुनरेतद्भयम्मध्येतुर्यञ्चसविसर्गकम् १९
इत्यर्णैवेष्टयेद्वाह्येवृत्तङ्कृत्वावहिस्ततः
पद्मंविरव्यवस्वस्रङ्केसरस्थानकेपुनः २०
हर्पणञ्चहरार्णञ्चलिखेत्प्रतिदलंसुधीः
तुर्यस्वरंहरन्तुर्यंहरिरित्यपिसंलिखेत् २१
दलेषुचदलाग्रेषुवानेत्रञ्चसंलिखेत्
एतत्रिगुणितंयन्त्रंवहिरास्वर्णवेष्टितं २२

पृ० २८ब्) कामदम्मोक्षदंरम्यंसर्वैश्वर्यप्रवर्तकम्
अस्मिन्सम्पूजयेत्पीठेशक्तीःसर्वार्थसिद्धये २४
जयाञ्चविजयाञ्चैवअजिताञ्चापराजिताम्
नित्यांविलासिनीन्दोग्ध्रीम्मघोरांसर्वमङ्गलां २५
अभ्यर्च्यपरितःपीठन्नन्दिनम्पीठमूलगम्
ध्यात्वाकुण्डलिनींरूपाम्मुद्यत्भास्वत्समद्युतिः २६
पाशाङ्कुशावराभीतिचतुर्वाहुत्रिलोचनं २७
अभ्यर्च्यपरिवाह्ययजेद्देवीमुपचारैर्मनोहरैः
आवाहनादिमुद्रांश्चदर्शयेदेशिकोत्तमः
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् २८
पूजयेद्देशिकवरोभोगाङ्गम्भोगसिद्धये
उऊओगजडावर्णादवललास्तुपार्थिवाः २९
ॠउऔघझढावर्णाधभवाःशश्चनीरजाः
इईऐखछदाथश्चफरक्षावह्निसम्भवाः ३०
अआएकचटा१तश्चपयषावायुसम्भवाः
ऌॡअङ्ङञणनमसहानाभसामताः ३१
उर्द्धेन्द्रयाम्यसौम्यादिप्रत्यक्दिक्षुप्रपूजयेत्
वर्णान्समाहितोमन्त्रीहृल्लेखाद्यन्ततःपरं ३२
पञ्चकम्पूजयेतेषुस्थानेषुनिजसिद्धये
ऐन्द्रनैऋत्यवायव्यकोणेषुक्रमतोयजेत् ३३

पृ० २९अ) गायत्र्यादित्रयम्पश्चाद्व्राह्म्यादित्रयमर्चयेत्
आग्नेयवारुणेशानन्दिक्षुपूज्यास्ततःपरं ३४
दलेषुमातरःपूज्यालोकपालार्चनन्ततः

इतिभुवनीश्वरीत्रिगुणितयन्त्रोद्धारः ३५

ईश्वरौवाच
अथातःसम्प्रवक्ष्यामियन्त्रंषट्गुणितम्प्रिये
यस्यविज्ञानमात्रेणसर्वसिद्धिश्वरोभवेत् ३६
पुटितंवह्निमालिख्यमध्येशक्तिन्नियोजयेत्
तछक्तिरेफभागेतुसाध्यनामाक्षरंलिखेत् ३७
तुरीयस्वरभागेतुसाधकस्यवशङ्कुरु
साध्यस्योपरिसंस्पृष्टंविलिखेत्सर्वसिद्धये ३८
टकारवेष्टितङ्कृत्वावहिःशक्तिन्तुपञ्चधा
विलिख्यतद्वहिस्तद्वच्छ्रीवीजङ्कामवीजकं ३९
पङ्क्तिशःपञ्चधालिख्यततःषट्कोणसाधनं
षट्कोणकोणषट्केपिवामनेत्रंसविन्दुकं ४०
षट्कोणसन्धिषुपुनःशक्तिवीजंसमालिखेत्
पूर्ववच्छक्तिवीजस्तुकार्यःसंस्पर्शवर्जितः ४१
ऊर्द्धकोणत्रयस्यान्तेरालेषुविलिखेद्वुधः
साधकस्यसविदूतिनामोर्णानिततःपरम् ४२
शक्तिश्रीकामवीजानिलिखेतत्रैवदेशिकः
अधःकोणेत्रयस्याथत्वन्तरालेषुमन्त्रवित् ४३

पृ० २९ब्) साध्यक्षराशिशक्तिश्रीकामवीजानिचक्रमात्
सविसर्गानिसंलिख्यविदर्भ्यगुरुसेविकः ४४
कोणपार्श्वेषुसर्वत्रहरिवर्णहराक्षरैः
विलिख्यचततोवाह्येवृत्तम्पूर्णेनुवत्कुरु ४५
अनुलोमेनतद्वृत्यमध्येपञ्चाशदक्षराः
तद्वृत्तवाह्यतस्तद्वद्विलोमेनचमातृका ४६
विक्षेपावेष्टनेदेविततोभूयुगलंलिखेत्
सम्पुटत्वेनदेवेशिवसुकोणन्तदाभवेत् ४७
मध्येदिक्षुनृसिंहस्यवीजमन्त्रंसमालिखेत्
क्षौमात्मकन्नृसिंहस्यवीजञ्जानीहिपावति ४८
रक्षत्रपवनार्षीशमनुस्वरविभूषितः
विन्दुनादकलाक्रान्तअयञ्चिन्तामणिःप्रिये ४९
कोणेषुविलिखेन्मन्त्रीततस्तुकोणसन्धिषु
विलिख्यशूलान्प्रणवैस्ततःपद्मंसमालिखेत् ५०
हलैर्द्वादशभिरम्यंराश्यर्णपरिजृम्भितं
एतत्वद्भुणितंयन्त्रंसर्वैश्वर्यप्रवर्तकं ५१
तत्रपीठंसमभ्यर्च्यसमावाह्यचपूर्ववत्
उपचारैर्गन्धपुष्पैर्धूपैर्दीपैर्मनोहरैः ५२
आवाहनादिमुद्राश्चदर्शयित्वार्चनम्भवेत्
षट्कोणाग्नीशनैरृत्यवायुमध्येचदिक्षुच ५३

पृ० ३०अ) षडङ्गावरणङ्कुर्याद्वितीयाचरणन्ततः
व्रह्मणासहगायत्रीसावित्रीविष्णुनासह ५४
सरस्वतीशिवेनैवश्रीस्तुथाधनदेनच
मदनेनरतिःपुष्टिर्गणपेनसमर्चयेत् ५५
षट्कोणपूर्वकोणादिप्रादक्षिणोनपूजयेत्
रक्तानङ्गादिकुसुमातृतीयाकुसुमेतरा ५६
नित्यानङ्गादिमदनाषष्टीतुमदनातुरा
गौरीचगगनाचैवतथागगनवेगिनी ५७
पद्माभयप्रमथिनीतथाचशशिशेखरा
एताद्वादशपात्रेषुपूर्वादिक्रमतोयजेत् ५८
चतुर्दलानिसम्पूज्यदिक्षुब्राह्म्यादिकायजेत्
भूगृहेलोकपालाश्चएतत्षड्गुणितम्प्रिये ५९
वागादिसिद्धयःसर्वाजायन्तेसाधकस्यतु
पुनराराध्यनैवेद्यमुखैराराधयेत्पराम् ५९

३३

ईश्वरौवाच
अथार्कगुणितंवक्ष्येयन्त्रंसर्वोत्तमोत्तमम्
यस्यविज्ञानमात्रेणभुवनाधीश्वरोभवेत् ५८
षट्कोणम्पूर्वमुद्धृत्यपश्चातत्सन्धिदेवता
षट्कोणान्तरमुत्पाद्यभवेद्वादशकोणकं ५९

पृ० ३०ब्) तन्मध्येशक्तिमालिख्यपूर्वोक्तेनविधानतः
ठकारमध्येतद्वाह्यवेष्टयेत्प्रतिलोमतः
सम्यग्व्याहृन्निभिर्मन्त्रास्ततःषट्कोणसन्धिषु
विलिख्यभुवनेशानीन्द्वादशस्थानञ्जृम्भितं
पूर्ववच्छक्तिवन्धस्तुकुर्याद्वादशधाप्रिये
एकैकान्तरितङ्कुर्वन्मनोज्ञमण्डितङ्कुरु ६२
द्रुमात्मकन्द्वादशारेसविन्दुन्तूर्यमालिखेत्
तदूर्द्धंरविकोणेषुसर्वकामार्थसिद्धये ६३
अथद्वादशकोणस्यसन्धिवीजान्तरालकः
शूलानिविलिखेन्मन्त्रीततःकोणकपोलयोः ६४
एकैकस्यचकोणस्यगायत्रीञ्चसमालिखेत्
तत्पदंसवितुर्वीतेणियंरेव्युत्क्रमालिखेत् ६५
भर्गोदेवस्यधीमहिधियोयोनःप्रचोदयात्
एतदष्टाक्षरन्देविमह्यादिपरिकीर्तितम् ६६
चतुर्विंशाक्षरेचेयङ्गायत्रीदेवमातृकां
द्वन्द्वंशोविलिखेद्वर्णान्गायत्र्यास्तुविलोमतः ६७
तद्वहिःकोणपार्श्वेषुविलोमाग्नेयसन्मुखम्
प्रणवम्भूर्भुवःस्वोग्नेर्लिखेदेतत्षडक्षरं ६८
जातवेदैहालिख्यवहसर्वचतुष्टयम्
कर्माणिसाधयस्वाहाविद्याग्नेयस्यदुर्लभा ६९
लिखेत्ततःपरन्देविसर्वकार्यार्थसिद्धये

पृ० ३१अ) अनुलोमंविलोमञ्चमातृकांवेष्टयेत्ततः ७०
भूपुटम्पूर्ववद्वीजमण्डितम्मण्डलंलिखेत्
तद्वहिस्तुकलापत्रन्द्वात्रिंशत्केसरान्वितम् ७१
महार्कगुणितन्देविनिगमागममन्दिरम्
पूर्ववत्पीठमभ्यर्च्यदेवीमावाह्यपूर्ववत् ७२
परिवारार्चनङ्कुर्यादादावन्तेर्चनम्प्रिये
हृल्लेखापञ्चकंवर्णसहितम्पूर्ववद्यजेत् ७३
ब्रह्मादियुगषट्कन्तुपृथग्द्वादशधायजेत्
कोणेषुपूर्वकोणादिकलास्त्राणिततोयजेत् ७४
करालीविकरालीचतथोमाचसरस्वती
दुर्गाशचीतृषालक्ष्मीश्रुतिस्मृतिधृतित्रयम् ७५
श्रद्धामेधाधृतिःकान्तिरार्याषोडशकीर्तिताः
पूर्वादिक्रमतःपूज्यादलाग्रेषुचसन्धिषु ७६
श्रीह्रीःपुष्टीःप्रजाश्चैवशिनीवालीकुहूस्तथा
रुद्रवीर्यप्रभानन्दाषोषणीशुद्धिदातथा ७७
कालरात्रीमहारात्रीर्भद्रकालीकपालिनी
विकृतिर्नन्दिनीचैवमुडिन्नीचततःपरम् ७८
इन्द्रखण्डाशिखण्डिन्योनिशुम्भमथिनीतथा
मर्दिनीमहिषस्यापितथैन्द्राणीततःपरं ७९

पृ० रू३१ब्) रुद्राणीशङ्करर्द्धादिशरीरिण्यपिकीर्तिता
नारीनारायणीचेयन्त्रिशूलिन्यपिपालिनीं ८०
अम्विकाह्लादिनीज्ञेयन्द्वात्रिंशच्छक्तिमण्डलं
तद्वहिःपिङ्गलाक्षीचविशालाक्षीततःप्रिये ८१
सबुद्धिवृद्धीचस्वधास्वाहाश्रद्धातथैवच
नित्यावसुन्धराचैवधात्रीत्रैलोक्यपूर्विका ८२
गायत्रीचैवसावित्रीतथाचत्रिदिवेश्वरी
सुरूपावररूपाचतथाचबहुरूपिका ८३
स्कन्दमाताच्युतप्रीतिविमलाचामलातथा
अरुणीवारुणीचैवप्रकृतिर्विकृतिस्तथा ८४
सृष्टिस्थितिःसंहृतिश्चसन्ध्यामातासतीतथा
तथाभगवतीचैवदेवकीकमलासना
त्रिमुखीचतथासप्तमुखीदेशिकवन्दिते ८६
सुरास्वरादिसहितामर्दिनीचततःपरम्
लंवोष्टीचोर्द्धकेशीचवहुशीर्षावृकोदरी ८७
वृकोदरीतथारेखारथादिशशिरेखिका
अपरागमनादिश्चवेगापवनवेगिका ८८
तथाभुवनपालाचतथाचमदनातुरा
अनङ्गानङ्गमदनातथानङ्गादिमेखला ८९

पृ० ३२अ) अनङ्गकुसुमाचैवविश्वरूपाभयङ्करी
असुराणातथाक्षोभ्यातथावैसत्यवादिनी ९०
वसुरूपतराचैवसुवृत्तापरमेश्वरी
वरदाचैववागीशीचैताःशक्तीस्तुपूजयेत् ९१
प्रादक्षिण्यक्रमेणैवसर्वकामार्थसिद्धिदा
चतुःषष्टिमहाशक्तिपूजनङ्कथितन्तव ९२
तद्वहिर्लोकपालांश्चभूविंवेपूजयेत्सुधीः
पुनर्देवींसमभ्यर्च्यनैवेद्यादिसमर्पयेत्
इतितेकथितंसम्यग्देवानामपिदुर्लभम् ९४

३४

ईश्वरौवाच
मुखवृत्तंविन्दुनादकलाढ्यम्पाशौच्यते
सामाग्नितारसहितमङ्कुशंविद्धिपार्वति १
एतन्मध्यगताविद्यायदापूज्यासुरेश्वरीः
प्रक्षरावापञ्चवर्णाताभ्यांसम्पुटितम्प्रिये २
तदाद्यगर्गलोद्धारःकथितोभुविदुर्लभः
येनानुष्टितमात्रेणत्रैलोक्याकर्षणम्भवेत् ३
सम्प्रदायेनदेविशिश्रीगुरोऽकृपयान्वितः
सम्यक्सूत्रेणरचयेत्सुवृत्तंवृत्तमुत्तमम् ४

पृ० ३२ब्) ततोभूविंवयुगलंसम्पुटीकृत्ययोजयेत्
अष्टकोणन्तथादेवीजायतेदिङ्मनोहरम् ५
अष्टदिक्षुतदंशाभ्यारेखेआकृक्ष्यमान्त्रिकः
रेखाभ्यामर्गलन्देविजायतेतीवसुन्दरः ६
एकैनैवतुमानेनरचयेदर्गलाष्टकम्
वृत्तन्तदग्रेचन्द्रस्यविंववद्रचयेद्वुधः ७
पुनरेखासमाकृष्यपूर्ववृत्तमुत्तमम्
विरच्यसाधकेन्द्रस्तुवसुकोष्टयुगङ्क्रमात् ८
व्यक्तंयथाभवेद्देविकेसुराणांवसुद्वयम्
अर्गलानिचरम्यानिवथीसम्यग्भवन्तिहि ९
तथाकार्यम्महेशानित्रैलोक्याकर्षणम्भवेत्
शक्तिवीजंसाध्यन्ममसाधकेनसमन्वितम् १०
पाशाङ्कुशमहावीजयुगसम्पुटितञ्चयत्
कर्णिकायाम्मध्यवृत्तेसंलिखेत्साधकोत्तमः ११
अष्टकोणेषुविलिखेत्षडङ्गानियथाक्रमं
अग्नीशासुरवायव्यकोणेषुमनुवित्तमः १२
कवचान्तानिसंलिख्यमध्येनेत्रंयजेद्वुधः
चतुर्दिगन्तकोणेषुचतुर्द्धास्त्रंलिखेत्प्रिये १३
वृत्तादिवसुकोणान्तंलिखेद्वस्वर्गलेषुच
वीजर्वृदम्महेशानिसम्प्रदायक्रमेणहि १४
वह्निशक्तिपरित्यज्यतत्रभूभूषितङ्कुरु

पृ० ३३अ) तद्वीजंस्वरसम्भिन्नंॠऌॡविवर्जितं १५
एवन्द्वादशधातत्रचतुर्धाकुरुसुन्दरी
आद्यत्रिकम्पूर्वमुखंलिखेदुत्तरतःप्रिये १६
द्वितीयम्पूर्वमुखान्तुलिखेदक्षिणतःसुधीः
तृतीयम्पश्चिमेभागेतथादक्षिणतोलिखेत् १७
चतुर्थमर्गलन्तद्वत्पश्चिमेतूत्तरान्तकः
भूवंहित्वार्कवीजानान्तत्रवायुन्नियोजयेत् १८
अग्न्यार्गलायान्त्रितयमाद्यम्पूर्वतआलिखेत्
तथापश्चिमतोप्यन्यतत्रिकंलिष्यमान्त्रिकः १९
मारुतार्गलकेतद्वल्लिखेत्पश्चिमतत्प्रिये
पूर्वतोपिचदेवेशिसर्वकार्यार्थसाधकः २०
यमार्गलायान्देवंशिकथयामिवरानने
वायुंहित्वार्कवीजानांवरुणन्तत्रःनिःक्षिपेत् २१
पूर्वतस्त्रितयंयाम्येद्वितीयम्पश्चिमान्तगं
ततोत्ररर्गलायाञ्चलिखेत्पश्चिमतःसुधीः २२
चतुर्थम्पूर्वतोदेविगुरुमार्गेणसुन्दरि
नीरंहित्वार्कवीजानांरेफन्तत्रविनिक्षिपेत् २३
लिखेद्रक्षोर्गलायान्तुत्रिकमाद्यन्त्रिकम्परं
दक्षिणोत्तरतोमन्त्रीक्रमाच्छैवार्गलम्पुनः २४

पृ० ३३ब्) आदावुत्तरतोदेविपश्चाद्दक्षिणमार्गतः
अन्तराष्टसुकोष्टेषुकेसुराख्येषुसंलिखेत् २५
पाशश्रीभुवनेशानीकामवीजचतुष्टयं
विपरीतञ्चमन्त्रज्ञोवस्वर्णमिदमालिखेत् २६
अन्त्यपाशम्परित्यज्यशृणिंसयोज्यसाधकः
तद्वहिर्वसुकोणेषुविलिखेतुक्रमेणहि २७
कामिन्यन्तेरञ्जिनीस्थात्ततोग्रेप्यत्रिवल्लभा
अष्टवर्णानुक्तरूपाअपराकेसरेषुच २८
अन्तकोष्टस्वरूपेषुचन्द्रकात्यानीमनुं
शक्तिगौरित्रिकेरुद्रदयितेपञ्चवर्णकम् २९
योगीश्वरींसमालिख्यकवाचास्त्राग्निवल्लभा
चण्डीकात्यायनीदेवीत्रिषुलोकेषुदुर्लभा
अथातःसम्प्रवक्ष्यामिवहिरस्येववेष्टतत् ३०
हंसःपदंवामनेत्रंविद्विन्दुपरिभूषितम्
पुनर्हंसपदञ्चैतत्पञ्चार्णमनुमालिखेत् ३१
स्वरद्वन्द्वोदरगतंसप्तार्णञ्चाष्टधाभवेत्
वहिःपद्मञ्चाष्टपत्रमतिसुन्दरमालिखेत् ३२
दलेषुकर्णिकामन्त्रीस्त्रियन्त्माञ्चाष्टसुक्रमात्
पाशाङ्कुशाभ्यान्तद्वाह्येवृत्ताकारेणवेष्टयेत् ३३
अनुलोमप्रकारेणमात्रिकावेष्टनंलिखेत्

पृ० ३४अ) तथैवप्रतिलोमञ्चमातृकावेष्टनम्प्रिये ३४
एतत्सर्वण्ठकारेणवेष्टयेन्महताप्रिये
घटार्गलम्महायन्त्रम्पुरुषार्थफलप्रदं ३५
अस्मिन्समावाह्यदेवीमुपचारैःसमर्चयेत्
आदार्वगानिदेवेशिकराङ्गेषुचविन्यसेत् ३६
आनन्दरूपिणीन्ध्यात्वामुद्रासमद्धविग्रहः
परिवारार्चनङ्कुर्यात्प्रथमाचरणंशृणु ३७
हृल्लेखापञ्चकञ्चायन्द्वितीयाङ्गादतिप्रिये
कोणाष्टकेयथापूर्वन्ततःपद्मदलेषुच ३८
मातरोदेवदेवेशिपूर्वादिपरिपूजयेत्
लोकपालांश्चतद्वाह्येपुनरंवाममर्चयेत् ३९
उपचारैर्मनोरम्यंस्तांवूलान्तैःपृथक्पृथक्
यथाशक्तिजपङ्कृत्वानियमेनतुसुन्दरि ४०
अयन्नित्यप्रकारस्तुपुरश्चरणकंशृणु
रविलक्षञ्जपेद्विद्यान्तद्दशांशेनहोमयेत् ४१
त्रिमध्वक्तैःक्षीरवृक्षैःसमिद्भिश्चतथातिलैः
समासेनहुनेत्सम्यक्पुरश्चारीततोभवेत् ४२
जातीपुष्पैर्वश्यकामोसम्पत्यैकमलैःप्रिये
समिद्भिःपुष्टिकामस्तुखादिरैर्जुहुयात्प्रिये ४३
एकाक्षरेपिदेवेशिसन्त्यत्रभुवनानितु
व्योमवीजेमहेशानिकैलासादिप्रतिष्टितं ४४
ब्रह्मवीजान्न्यवर्णादिनिष्पन्नम्बहुधाप्रिये

पृ० ३४ब्) तेनायंवर्ततेलोकेभूमण्डलसमस्थितिः ४५
तुर्यस्वरेणपातालेशेषरूपेणधार्यते
महाभूमण्डलन्तस्मात्पातालस्यापिनायिका ४६
अतेवमहेशानिभुवनाधीश्वरीभवेत्
हकारेव्योमतुर्येणस्वरेणानिलसम्भवाः ४७
विकारेसतिरेफेणसाक्षाद्वह्निस्वरूपिणी
वह्निवीजंवसुज्ञेयन्तस्माद्रेफंवस्वन्धरा ४८
अतेवमहेशानिरन्तयोःसमताभवेत्
विन्दुश्चन्द्रामृताद्देवीप्लावयन्तीजगत्त्रयम् ४९
द्रवरूपाभवेतस्मात्सृजन्तीचार्द्धमात्रया
अतेवमहेशानिभुवनेशीतिकथ्यते ५०

३५

ईश्वरौवाच
पञ्चमीरत्नविद्येशीङ्कथयामिशृणुप्रिये
यस्याःस्मरणमात्रेणपवनोपिस्थिरोभवेत १
वाग्भवंवीजमुच्चार्यगलानुग्रहविन्दुभिः
नादेनभूषितंवीजम्पार्थिवञ्चोच्चरेत्ततः २
पुनराद्यन्नमोन्तेभगवतीतिसमालिखेत्
वार्तालियुग्मंवाराहिपुनरेतत्त्रयंलिखेत्
वाराहमुखिचद्वन्द्वंसन्धिहीनन्ततःपरम् ३

पृ० ३५अ) अन्धेचान्धिनिसप्तार्णंहृदन्तेनभवेत्प्रिये
रुन्धेरुन्धिन्यतोह्यच्चजम्भेजम्भिनिहृतथा ४
मोहेमोहिनिहृच्चापिस्तम्भेस्तम्भिनिहृततः
एतदुक्त्वामहेशानिसर्वदुष्टान्प्रदुष्टच ५
सहानन्तेनाकारेणवर्ततेइतिसानन्तम्
सानन्तन्नाञ्चसर्वेषांसर्ववागितिचित्तच ६
चक्षुर्मुखगतिम्प्रोक्ताजिह्वास्तम्भङ्कुरुद्वयं
शीघ्रंवश्यङ्कुरुद्वन्द्वंवाग्भवम्पार्थिवम्पुनः ७
टकारस्यचतुष्कान्तेकवचास्त्राग्निवल्लभा
चतुर्दशोत्तरशतम्मन्वर्णाचभवन्तिहि ८
चतुश्चत्वारिंशतिभिःपदैर्न्यासस्तुकीर्त्यते
मातृकांविन्यसेद्वक्रीपदानिदशमन्त्रवित् ९
दोःपत्सन्धिषुसाग्नेषुन्यसेद्विंशतिसङ्ख्यकान्
यदार्णान्यपिविन्यस्यपार्श्वयोरेकमुत्तमं १०
अनेनैवप्रकारेणमातृकांविन्यसेत्सुधीः
ततःषडङ्गविन्यासङ्कुर्याद्देहस्यशुद्धये ११
वार्ताल्यास्तुपदद्वन्द्वंहृदयेचततःपरम्
वाराहियुगलन्देविशिरोमन्त्रौदाहृतः १२
वाराहमुखियुग्मन्तुशिक्षासप्ताक्षरन्ततः
कवचन्ततःसप्तवर्णैर्नेत्रन्न्यसेत्क्रमात् १३

पृ० ३५ब्) ततःसप्ताक्षरञ्चासुंषडङ्गानिन्यसेत्प्रिये
सर्वेणव्यापकन्न्यासंआचरेत्सर्वसिद्धये १४
यत्रोद्धारम्प्रवक्ष्यामियेनत्रैलोक्यमोहनं
ताम्रेवाराजतेस्वर्णमयेवैभूर्जपत्रके १५
लिखेद्रोचनपावापिकुङ्कुमागुरुचन्दनैः
हरिद्रयावरुणयालिखेच्चक्रम्मनोहरं १६
त्रिकोणम्पञ्चकोणञ्चषट्कोणंवसुपत्रकं
शतपन्त्रंसहस्रारङ्गतोभूविंवमालिखेत् १७
चतुर्द्धारंविशोभाढ्यम्मध्येसिंहासनंयजेत्
वाणीभूवीजयुग्मेनसम्पूज्यासर्वमातरः १८
स्फटिकाचलमध्यस्यम्पीठमेतद्विचिन्तयेत्
देवीमावाहयेत्तत्रध्यानङ्कुर्य्याद्विचक्षणः १९
प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थितां
इन्द्रनीलमहातेजःप्रकाशांविश्वमातरम् २०
कदंवमुण्डमालाढ्यान्नवरत्नविभूषितां
अनर्घ्यरत्नघटितम्मुकुटश्रीविराजितां २१
कौशेयद्वारुकाञ्चारुप्रवालमणिभूषणां
हलेनमुशलेनापिवरदेनाभयेनच २२
विराजितचतुर्वाहुङ्कपिलाक्षींसुमध्यमां
नितंविनीमुत्पलाभाङ्कठोरघनसत्कुचां २३

पृ० ३६अ) कोलाननांयजेद्देवींउपचारैःसहेतुभिः
गन्धपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धिदां २४
सप्ततिश्चसहस्राणिपुरश्चरणसिद्धये
तद्दशांशेनहोमस्तुतिलैर्वन्धूकपुष्पकैः २५
त्रिमधुक्तैर्हेतुभिश्चहरिद्राखण्डकैर्हुनेत्
लाक्षागरुपुरद्रव्यैःपिसितैर्विविधैरपि २६
सिद्धिर्भवतिदेवेशिमन्त्रिणोनात्रसंशयः
शृणुपूजाविधानन्तुदेवीमावाह्यसिद्धये २७
आदावङ्गावृतिंयष्ट्वात्वग्नीशासुरवायुषु
मध्येदिक्षुत्रिकोणान्तस्त्रिषुकोणेषुसंशृणु २८
वामवामेत्तराग्नेषुक्रमेणत्रितयंयजेत्
जम्भिनीस्तम्भिनीचैवमोहिनीसर्वसिद्धये २९
रुन्धिन्याद्यास्तुदेवेशिस्तम्भिन्यास्तान्प्रपूजयेत्
पञ्चकोणेमहादेविपुरआदिक्रमेणतु ३०
मृत्युस्थानेतुतद्वाह्येततोमात्रार्चनम्भवेत्
षडारेपुरआरभ्यप्रादक्षिण्येनपूजयेत् ३१
डाकिनीराकिनीदेवीलाकिनीकाकिनीतथा
साकिनीहाकिनीचैवततःषट्कोणकेयजेत् ३२
षट्कोणपार्श्वयोःपूज्येदेव्यौसर्वार्थसिद्धये
हलङ्कपालन्दधतीङ्क्रोधिनींवामतोयजेत् ३३

पृ० ३६ब्) मुशलेष्टकरान्देवींस्तम्भिनीदक्षिणेयजेत्
चण्डोच्चण्डमहेशानिषट्कोणपुरतोयजेत् ३४
नागङ्कपालण्डमरुन्त्रिशूलन्दधतम्प्रिये
नग्नन्नीलजटाराजन्मस्तकम्पञ्चमीसुतं ३६
ततोष्टदलपत्रेषुवार्ताल्याषष्टकंयजेत्
शृणुत्वमेवतस्यार्येपूजयेन्महिचाष्टकं ३७
श्रृङ्गायान्तान्त्ररिक्तानिकुक्षिचक्रनिकृन्तनं
नीलजीमूतसङ्काशंरिपुम्भूयतक्षमं ३८
शतम्पत्रङ्क्रमात्पूज्यंरुद्रार्कवसुदस्त्रकैः
त्रयस्रिंशद्दलगतैःत्रिवारोच्चारितैःपृथक् ३९
अवशिष्टदलेयोज्यास्तम्भिनीजम्भिनीयुता
शतादग्रेमहेशानिमहासिंहंसमर्चयेत् ४०
सहस्रपत्रेसम्पूज्यावाराहीनांसहस्रकं
अङ्कुशातेमहादेविवाराह्यैनमआलिखेत् ४१
अनेनमनुनादेविपूजयेतुसहस्रधा
भूविम्बवटुकङ्क्षेत्रंयोगिनीङ्गणपान्यजेत् ४२
पुनर्देवींसमाध्यगन्धपुष्पादितर्पणैः
अक्षमालाहरिद्रायामुख्यास्तम्भनकारिणी ४३
स्फाटिकीवाथपद्माक्षरुद्राक्षारिसमुद्रवा
पुरश्चरणकार्यार्थञ्जपेद्विद्यान्तदात्मिकां ४४

पृ० ३७अ)

३६

ईश्वरौवाच
अथातःसम्प्रवक्ष्यामितर्पणम्भुविदुर्लभं
तिलमैरेयवन्धूककुसुमैस्तर्पयेच्छिवां १
मनोहरेसुवर्णादिपात्रेसम्पूज्यपूर्ववत्
अनेनविधिनाविप्रोप्रियोभवतिनिश्चयात् २
एतस्याएवविद्यायाकुण्डोस्तिपरमेश्वरि
विशेषःकथ्यतेसोत्रसर्ववैरिनिकृन्तनः ३
एकहस्तमितङ्कुण्डमधोहस्तेनविस्तरम्
हस्तखातम्मनोरम्यंहोमश्चात्रनिगद्यते ४
स्तम्भनेशिवदिग्भागेनिग्रहेयमदिग्भवेत्
अस्मिन्कुण्डेमहेशानिभैरवाग्निम्प्रपूजयेत् ५
लौकिकामिंयजेत्मन्त्रैर्वक्ष्यमाणैःपरेश्वरि
हृदयम्भुवनेशान्याभुवनेशीञ्चसंलिखेत् ६
तस्याएवशिखान्देविवीजत्रयमिदम्प्रिये
उक्ताभैरवमुच्चार्य्यचतुर्थ्यन्तेनमोलिखेत् ७
इत्यग्निपूजनङ्कृत्वाततोग्नेराहुतिंयजेत्
पूर्ववीजत्रयम्भैरवाग्नयेद्विठमालिखेत् ८
अनेनैकाहुतिन्दत्वानीलोत्पलशुभानने
नीलोत्पलैर्भैरवाग्निन्तापिछैरपिवायजेत् ९

पृ० ३७ब्) तापिछैःस्तम्भनेहोमेविज्ञेयस्तुचतुःशतं
देवदारुतिलैर्लाक्षाहरिद्राभिस्तथाभवेत् १०
त्रिसप्तमध्यरात्रेषुप्रत्येकंसाष्टयुक्शतं
हरिणीमुद्रयाहोमकथितस्तत्रसुन्दरि ११
दक्षिणेहोमकुण्डस्यहस्तिमात्रतिलात्प्रिये
प्रसार्पभाण्डेस्वर्णादिमृज्जीवालोहसम्भवैः १२
कृष्णशाटीपरिछिप्तोत्पलतापिछपुष्पिणीं
तिलमिश्रैरंवुभिस्तम्पूजयेन्मनुवित्तमः १३
वाग्भवन्धरणीमुक्त्वाकर्षणादिहलायच
नवाक्षरमिदञ्चोक्तंहृदन्तम्मन्त्रमालिखेत् १४
अङ्कुशङ्क्रोधितन्देविमुशलायनमोलिखेत्
सप्तविंशतिकृत्वातुदेवीमन्त्रसमुच्चरेत् १५
घटंस्पृष्ट्वाहृदिध्यात्वापञ्चमीम्परमेश्वरीं
तद्घटस्थोदकैःशत्रुमभिषिञ्चेद्विचक्षणः १६
कफान्वितःछयीवैरिवश्योभवतिनिश्चयात्
अथनिग्रहहोमस्यविधिंवक्ष्येशृणुप्रिये १७
खरमेषाङ्गरक्तेनलाजाश्चूर्णतिलैःसह
मिश्रम्पिण्डन्तुपिण्डेनमेलयेद्धेतुनाप्रिये १८
पिशितैःगन्धपुष्पायैःधूपदीपैश्चसाधकः
तर्पयेद्योगिनीपिण्डम्परमानन्दसुन्दरं १९
सपलवेश्मसङ्कल्पमृदावालोहकेनवा

पृ० ३८अ) निवेद्यङ्कुण्डवक्त्रेचाहुतेल्लाजरजःकणैः २०
अयुतंसञ्जपेद्देवित्रिपक्षक्षणदांहुनेत्
त्वगसृग्मांसमेदोस्थिमज्जाशुक्राणिवैरिणः २१
योगिनीनाम्मुखेदेविपतन्त्यत्रनसंशयः
अथातःसम्प्रवक्ष्यामिसाधकानन्दकारकं २२
प्रणवम्प्रणवेनैवसम्पुटीकृत्ययोजयेत्
औभ्याङ्ग्लौभ्याञ्चसाध्याख्यण्ठकारेणचवैष्टयेत् २३
अष्टभिःकुलिशैहुत्वाग्लौङ्क्रौंइतितदन्तरे
कुलिशाग्नेतारवीजम्पार्थिवम्मण्डलन्ततः २४
कुलिशान्तेलिखेत्साध्यंवाह्यंविद्यांसमालिखेत्
चतुरङ्कुशसंरुद्धंसर्वमेववरानने २५
रुद्रस्वरेसमारोप्यपीतपुष्पैःसमर्चयेत्
पञ्चमीशकटंयन्त्रन्त्रिषुलोकेषुदुर्लभं २६
सहस्रसङ्ख्ययाजप्तन्निशाभाण्डेक्षिपेद्वुधः
खनेद्रात्रौभुर्जपत्रेलिखित्वास्थापयेत्स्वधीः २७
श्यामलोहितमन्त्रज्ञोरक्तपुष्पैःसमर्चयेत्
प्रेतधूमानलेक्षिप्त्वायजेद्गुरुविधानतः २८
सौवर्णेराजतेताम्रेक्रमेणैतत्समर्चयेत्
कटकार्थीहरिद्राभैःपुष्पैराराधयेच्छिवां २९

पृ० ३८ब्) धान्यराशौचसायाह्नेविनिक्षिप्यचतद्भवेत्
नूतनेकुम्भकारस्यखर्प्परेयन्नुमालिखेत् ३०
अञ्जनाभैःसमभ्यर्च्यकुसुमैःपथिदेशिकः
उच्चाटयेत्तदाशीघ्रङ्कोटस्थंसुस्थिरंरिपुं ३१
तद्भाण्डेतुमशीद्रव्यैर्भिन्नम्भिन्नाञ्जनप्रभैः
समुद्धृत्यसमभ्यर्च्यलोहकारगृहेक्षिपेत्
वाध्यमानोरोगजास्वैर्मरणम्प्राप्नुयाद्रिपुः ३२
निशाचेपटहेवाद्येविलिखेन्मनुवित्तमः
युद्धेतध्वनिमाकर्ण्यपलायन्तेमहाबलाः ३३
धूम्रभित्तौसमालिख्यधूम्राभैरर्चयेत्प्रिये
नश्यन्तिदृष्टयस्तेषांशत्रूणान्नान्यथाभवेत् ३४
हरिद्रायाशिलामध्येसमालिख्यार्चयेत्प्रिये
पीतपुष्पैश्चतद्यन्त्रंअधोचक्रंविनिक्षिपेत् ३५
वाक्स्तम्भोजायतेशीघ्रंवादीनाम्परमेश्वरी
अथसीसेसमालिख्यशमीपुष्पैर्यजेत्प्रिये ३६
शिलाधस्तादिनिक्षिप्यव्यवहारीजयीभवेत्
सर्वलोहमयेपात्रेसितपुष्पैःसमर्चयेत् ३७
वाक्यनिर्जायतीमन्त्रीपञ्चसारेथसंलिखेत्
पञ्चवर्णैःप्रसूनैश्चपूजयेत्सर्वकर्मकृत ३८
अथातस्तिमिरामिश्रेसीसयुग्मेलिखेद्वुधः

पृ० ३९अ) अभ्यर्च्यकुसुमैरम्यैःप्रेतभूमौप्रजापयेत् ३९
तेनाकृष्टिर्भवेदाशुयूनांवायोषितामपि
वृक्षगर्भेन्यसेच्चक्रंसीसपात्रेषुरञ्जितं ४०
वहिष्टाग्रामभागेभ्यसम्प्रविष्टाभवन्तिहि
साध्यनक्षत्रवृक्षस्यगर्भेचक्रम्प्रविन्यसेत् ४१
वृषस्ययत्कृतन्देविसाध्यस्यभवतिस्फुटं
जलेक्षिप्तन्दोषदायिवह्नौक्षिप्तन्तुतापकृत ४२
रोगदम्भस्मनिक्षिप्तंहितदम्भूमिगम्प्रिये
अत्रगङ्कामिनीन्दध्यात्कुम्भेक्षिप्तंसुतप्रदं ४३
पूर्वस्यान्दिशिनिक्षिप्तंरिपूणाम्भयदम्भवेत्
आग्नेयेयमदिग्भागेवैरिणीमृत्युदम्भवेत् ४४
तथानैरृतिदिग्भागेशत्रून्मादनकारणं
पश्चिमेरोगदन्तेषाङ्गदितंवायुदिग्गतं ४५
धनदञ्चोत्तरेभागेभागेसाधकस्यनसंशयः
ईशानगम्भ्रान्तिकरंवैरिणाम्परमेश्वरि ४६
मध्यगंसर्वकार्याणिशत्रूणान्नाशयेध्रुवं
एतस्याएवविद्यायामध्यरात्रेर्चनम्भवेत् ४७
अन्यथादेवताशापोजायतेतीवदुस्तरः
तस्मादेनाम्मध्यरात्रेजपेत्सम्पूजयेदपि ४८

३७

पृ० ३९ब्) ईश्वरौवाच
पञ्चरात्रेमहातन्त्रेकथितावैष्णवागमः
एनामाराध्यदेवीशीम्पालकोभूजगत्त्रये १
विद्याकदेवचक्रस्थाःशिवविद्यामयेरिताः
ताःसन्तिवैन्दवेचक्रेतस्माच्छिवमयीशिवा २
सिद्धरत्नेमहातन्त्रेकथितागणपागमः
सप्तकोटिमहातन्त्रैर्मण्डितस्तन्मयीशिवा ३
वामदेवमहातन्त्रैसौरज्ञानप्रकाशकाः
मनवस्तुन्मयीदेवीज्ञानशक्तिरितीरिता ४
अतःसंसेव्यतेदेवीचतुरायतनैःसदा
सिंहासनप्रसङ्गेनचतुरान्वयदेवताः ५
कथिताःपरमेशानिसम्पदेषान्नसंशयः
यस्याःस्मरणमात्रेणपलायन्तेमहापदः ६

३८

ईश्वरौवाच
अथवक्ष्येमहादेविनित्याविवरणङ्क्रमात्
कामेश्वरीमन्त्रभेदाःवहवःसन्तिपार्वति १
तत्रकामेश्वरीविद्याकथ्यतेभुविदुर्लभा
त्रिपुरेशींसमुच्चार्यतारान्तेहृत्पदन्ततः २
कामेश्वरिपदञ्चोक्ताइच्छाज्ञानफलप्रदे
सर्वसत्ववशञ्चोक्ताकरिसर्वजगत्पदं ३
क्षोभणान्तेकरिहुंहुञ्चाणश्चत्रिपुरेश्वरीं

पृ० ४०अ) विपरीतंसमालिख्यविद्याषट्त्रिंशदक्षरीं ४
आद्यभागत्रयेणैवद्विरावृत्याषडङ्गकं
कामेश्वरीचऋष्यादिध्यानयन्त्रार्चनादिकं ५

इतिश्रीकामेश्वरीनित्याविधिः

३९

ईश्वरौवाच
अथवक्ष्येमहेशानिविद्यांश्रीभगमालिनीं
वाग्भवम्भगशब्दान्तेभगेवान्भवमेवच १
भगिन्यन्तेवान्भवञ्चभगोदरिचवाग्भवं
भगमालेवाग्भवञ्चवाग्भवादौभगावहै २
भगङ्गुह्येवाग्भवञ्चभगयोनिचवाग्भवं
भगन्यन्तेपातिनीतिवाग्भवम्भगसर्वच ३
पदंवाग्भवमालिख्यततोभगवशङ्करि
वाग्भवम्भगरूपेतद्भगिन्येचैववाग्भवं ४
भगक्लिन्नेवाग्भवञ्चभगश्चान्तेसमालिखेत्
रूपेसर्वभगानीतिमेह्यानयचवाग्भवं ५
वाग्भवादौभगवतिभगवान्तेवदेच्चतत्
भगरेतेवाग्भवञ्चभगेषुचसमालिखेत् ६
रेतेवाग्भवमालिख्यभगक्लिन्नेथवाग्भवं
भगक्लिन्नैवेचान्तेभगवान्तेवदेच्चतत् ७
भगन्द्रावयचालिख्यभगमोन्धेभगेतिच

पृ० ४०ब्) विच्चेभगङ्क्षोभयेतिसर्वसत्वान्भगेश्वरि ८
वाग्भवञ्चभगक्लञ्चवाग्भवङ्गजेंलिखेत्
वाग्भवञ्चभगब्लूञ्चवाग्भवम्भगभेंलिखेत् ९
वाग्भवम्भगब्लूञ्चवाग्भवम्भगमालिखेत्
वाग्भवम्भगञ्चैववाग्भवम्भगमोंलिखेत्
वाग्भवञ्चभगब्लूञ्चवाग्भवम्भगहेलिखेत्
भगक्लिन्नेचसर्वाणिभगन्यथचमेलिखेत्
वशमानयचालिख्यभगपञ्चकमन्मथा
भूविंवेलोकपालास्युःपुनर्देवीम्प्रपूजयेत् १०
इतिनित्यातृतीयेयम्भोगमोक्षप्रदायिनी
कथितादेवदेवेशित्रैलोक्यवशकारिणी
भगान्तरेभगान्तेचहरन्लेमात्मकंलिखेत्
भगान्तेपञ्चमङ्कामन्ततोवैभगमालिनीं ११
ङेतामुच्चार्यविद्येयन्त्रैलोक्यवशकारिणी
चतुराधिकविंशत्याद्विशतेनचमण्डिता १२
वर्णानाम्भगमालेयन्नित्यासकलसिद्धिदा
ऋषिरस्यास्तुसुभगोगायत्रीछन्दौच्यते १३
देवतेयञ्चवीजन्तुहरन्लेमात्मकम्प्रिये
शक्तिस्त्रीवीजकन्न्लून्तुकीलकम्परमेश्वरि १४
षड्दीर्घस्वरभेदेनन्यसेदङ्गानिदेशिकः
कामन्यासन्तथावाणन्यासङ्कुर्यात्पूर्ववत् १५

पृ० ४१अ) कदंववनमध्यस्थामुद्यत्सूर्यसमद्युतिं
नानाभूषणसम्पन्नान्त्रैलोक्यकर्षणक्षमा १६
पाशाङ्कुशौपुस्तकञ्चतौलिकीनखलेखिनीं
वरदञ्चाभयञ्चापिदधतींविश्वमातरम् १७
एवन्ध्यात्वाततोलक्षञ्जिताहारोजपेन्नरः
तदशांशेनवन्धूकैस्त्रिमध्वक्त्रैर्हुनेद्वुधः १८
त्रिकोणञ्चैवषट्कोणन्ततःषोडशपत्रकं
ततोष्टपत्रम्भूविंवमेवम्मण्डलमालिखेत् १९
मध्यदेवींसमभ्यर्च्यततोङ्गावरणंयजेत्
विद्यादिशक्तित्रितयन्त्रिकोणेषुप्रपूजयेत् २०
चाग्रमारभ्यकोणस्यपुनस्तेषुसमर्चयेत्
शुभगाञ्चभगाञ्चैवतथाचभगसर्पिणीं २१
वाणांश्चदेवितत्रैवपूर्ववत्पूजयेत्सुधीः
भगमालादिषट्कञ्चकोणषट्केप्रपूजयेत् २२
वशङ्करीचरूपाञ्चनित्याक्लिन्नास्वरूपिणीं
तथाभगवतीञ्चैववरदाम्परमेश्वरीं २३
रेतांस्वरेताङ्क्लिन्नाञ्चतथाक्लिन्नद्रवामपि
अमोघाञ्चैवविद्याञ्चतथैवक्लिन्नदेवतां २४
एताषोडशदेवेशिभगशव्देनयोजयेत्

पृ० ४१ब्) अष्टपत्रेषुदेवेशिमातरःपरिपूजयेत्
इन्द्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् २५

इतिभगमालिन्याविधिः

४०

ईश्वरौवाच
भुवनेशींसमुच्चार्यनित्यक्लिन्नेमदद्रवे
वह्निजायांश्चविद्येयंरुद्रवर्णामहोत्कदा १
ब्रह्माऋषिःसमुदिष्टोविराट्छन्दैतीरितं
नित्यक्लिन्नादेवतोक्तावनिताद्राविणीपरा
वीजमाद्यंवह्निजायाशक्तिर्न्तेकीलकम्मतम्
एकेनचतथाद्वाभ्यान्द्वाभ्यान्द्वाभ्याङ्क्रमात्प्रिये
द्वाभ्यान्द्वाभ्यांषडङ्गानिविन्यसेदेशिकोत्तमः २
रक्ताङ्गींरक्तवसनाञ्चन्द्रचूडान्त्रिलोचनां
स्वियद्वक्त्राम्मदाचूर्णलोचनांरक्तभूषणां ३
पाशाङ्कुशौकपालञ्चमहाभीतिहरन्तथा
दधतींसंस्मरेन्नित्याम्पद्मासनविराजितां ४
वर्णलक्षञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत्
तिलैस्त्रिमधुसम्मिश्रैपुरश्चारीभवेद्वुधः ५
मधूकपुष्पैर्वाहोमोहविषावाथनीरजैः
त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत् ६
आदौदेवींसमभ्यर्च्यततोङ्गाचरणंयजेत्
त्रिकोणेपूजयेदेवीनित्याङ्क्लिन्नाम्मदद्रवां ७

पृ० ४२अ) मातरोदलमूलेषुदलमध्येषुपूजयेत्
नित्यानिरञ्जनाङ्क्लिन्नाङ्क्लेदिनीम्मदनातुरां
मदद्रवान्द्राविणीञ्चक्षोभिणीञ्चप्रपूजयेत् ८

इतिनित्याक्लिन्नानित्याविधिः

४१

ईश्वरौवाच
अथवक्ष्येमहेशानिभेरुण्डाम्परमेश्वरीं
भरौकारंसमुच्चार्यत्वङ्कुशाभ्यांसुवेष्टितं १
अन्त्यहीनञ्चवर्णञ्चचतुर्द्धारेफमण्डितं
अनुग्रहेन्दुविन्द्वाढ्यन्तारस्वाहोदरस्थितः २
मनुर्दशार्णोदेवेशिमहाविषहरोभवेत्
ऋषिरस्यामहाविष्णुर्गायत्रीछन्दौच्यते ३
देवतेयम्पराशक्तिस्तृतीयंवीजमुच्यते
वह्निजायातुशक्तिःस्यात्कीलकंशृणिरेवच ४
षड्दीर्घस्वरभेदेनवीजेनैवषडङ्गकं
चन्द्रकोटिप्रतीकाशांस्रवन्तीममृतद्रवैः ५
नीलकण्ठीत्रिनेत्राञ्चनानाभरणभूषिताम्
इन्द्रनीलस्फुरत्कान्तिशिखिवाहनशोभितां ६
पाशाङ्कुशौकपालञ्चछुरिकाञ्चवराभयौ
विभ्रतींहेमसंवह्यगरुडोद्गारभूषिताम् ७
एवन्ध्यात्वाजपेद्वर्णलक्षन्तुविजितेन्द्रियः
तद्दशांशेनजुहुयात्स्वेतपद्मैःसुरेश्वरि ८

पृ० ४२ब्) त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत्
मध्येप्रणववीजेनत्रिकोणस्यचपार्श्वयोः ९
शृणिद्वयन्त्रिकोणेषुपञ्चमादित्रयन्न्यसेत्
अवशिष्टन्त्रिकोणाग्रकोट्यग्रेषुचसंलिखेत् १०
मालामन्त्रङ्क्रमेणैववसुपत्रेषुविन्यसेत्
वस्वक्षरविभागेनचतुःषष्ट्यर्णविग्रहां ११
भेरुण्डांसंलिखेन्मन्त्रीमहाविषहराम्प्रिये
भुवनेशींसमुच्चार्य्यततास्त्रिभुवनेतिच १२
विद्येनमस्ततःसिद्धेत्वजितेलोकपूजिते
भ्रमभ्रममहामोहेद्विधाहूमात्मकंलिखेत् १३
विच्चेयुगङ्कुलेकौलेकुरुमालेततःपरं
भेरुण्डेशिखिचालिख्यवाहिनीतिततःपरम् १४
नीलकण्ठेचरौद्रेचततोवेतालसोमच
मातकेभुवनेशीचचतुःषष्टार्णविग्रहः १५
छन्दोनुष्टुपृषिर्ब्रह्मावीजन्तुभुवनेश्वरी
भेरुण्डादेवताज्ञेयापुरुषार्थप्रदायिनी १६
षड्दीर्घस्वरभेदेनवीजेनैवषडङ्गकं
ध्यानन्तुपूर्वदेविपूजाद्वन्द्वेसमालिखेत्
महीविञ्चेमातृकायावर्णालेख्याक्रमेणतु
तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् १७
अङ्गानाम्पूर्ववत्पूजात्रिकोणेषुततःशृणु
त्रिशिखान्नीलकण्ठीञ्चऐन्द्रीचैवक्रमाद्यजेत् १८

पृ० ४३अ) त्रिकोणपार्श्वयोःपूज्येवैतालींसोममातृकां
ततस्त्रिभुवनेशानींसिद्धाञ्चैवाजितामपि १९
लोकपूज्याम्महामोहाङ्कुलाङ्कौलान्तथैवच
कुस्वमालामष्टपत्रेपुरआदिप्रपूजयेत् २०
ततश्चमातरःपूज्यावसुपत्रेषुसुन्दरि
इन्द्रादयस्तुभूविंवेपुनर्देविंसमर्चयेत् २१

इतिभेरुण्डानित्याविधिः

४२

ईश्वरौवाच
शृणुदेविप्रवक्ष्यामिनित्याञ्चवह्निवासिनीम्
परांविलिख्यवह्न्यन्तेवासिन्यैनमैत्यपि १
अष्टार्णोयम्महेशानिपुरुषार्थप्रदोमनुः
ऋषिरस्यवसिष्टःस्यात्गायत्रीछन्दौच्यते २
विद्वद्भिःकथितादेविदेवतावह्निवासिनी
आद्यन्तेवीजशक्तिःस्यात्कीलकम्मध्यएवच ३
देवीपदत्रयेनैवद्विरावृत्याङ्गकन्न्यसेत्
पदत्रयन्देहभागेत्रयेविन्यस्यदेशिकः ४
ध्यायेत्तप्तसुवर्णाभान्नानालङ्कारभूषिताम्
पाशाङ्कुशौस्वस्तिकञ्चशक्तिञ्चवरदाभयौ ५
दधतींरत्नमुकुटान्त्रैलोक्यतिमिरापहाम्
वर्णलक्षञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत् ६

पृ० ४३ब्) घृतात्केनवरारोहेततःसिद्धोभवेन्मनुः
अष्टपत्रंलिखेत्पद्मंविद्याम्प्रतिदलेलिखेत् ७
एकैकाक्षरभेदेनततोभूबिम्बमालिखेत्
मध्येपीठंसमभ्यर्च्यदिक्षुमध्येचपार्वति ८
पीतास्वेतारुणाकृष्णाधूम्रातीव्रास्फुलिङ्गिनी
रुचिराज्वालिनीचैवततःसिंहासनंयजेत् ९
देवीमावाहयेमत्रौपचारैःसमर्चयेत्
आदावङ्गानिसम्पूज्यवसुपत्रेषुपूजयेत् १०
जातवेदाःसप्तजिह्वोहव्यवाहनएवच
अश्वोदरभवश्चैवतथावैश्वान्नरःप्रिये ११
कौमारतेजादेवेशितथाविश्वमुखःक्रमात्
ततोमुखोदेविवसुपत्रेषुपूजयेत् १२
व्राह्म्यादयस्तुसम्पूज्यावसुपत्रेषुदैशिकः
इन्द्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् १३
साक्षाद्वह्निमहापीठकलादशकमण्डितां

इतिवह्निवासिनीनित्याविधिः

४३

ईश्वरौवाच
अथवक्ष्येमहादेविमहाविद्येश्वरीम्परां
नित्यक्लिन्नांसमालिख्यमुखेतारंसमालिखेत् १
हृल्लेखान्तेफरेमात्माचन्द्रवीजंविसर्गवान्
चतुर्दशाक्षरीविद्याऋषिर्ब्रह्मानिगद्यते २

पृ० ४४अ) गायत्रीछन्दआख्यातन्देवतापरमेश्वरी
आद्यन्तेवीजशक्तेचहृल्लेखाकीलकम्भवेत् ३
चतुष्केनचयुग्मेनयुग्मेनयुगलेनच
युगलेनचयुग्मेनन्यसेदङ्गानिदेशिकः ४
जवाकुसुमसङ्काशांरक्तांशुकविराजितां
माणिक्यभूषणान्नित्यान्नानाभूषाविभूषिताम् ५
पाशाङ्कुशौकपालञ्चसुरपापरिपूरितं
अभयन्दधतीन्ध्यात्वाच्चतुर्लक्षञ्जपेत्सुधीः ६
दशांशेनैवजुहुयाद्वविषातिलतण्डुलैः
त्रिकोणंवेदपत्रञ्चवसुपत्रञ्चभूगृहं ७
एवम्मण्डलमालिख्यमध्येदेवींसमर्चयेत्
आदावङ्गानिसम्पूज्यत्रिकोणेषुप्रपूजयेत् ८
ब्रह्माणीवैष्णवीरौद्रीततोवेदास्त्रपूजनं
वेदमाताचहृल्लेखायोगिनीचन्द्रशेखरा ९
पुरआदिक्रमेणैववेदास्रेषुप्रपूजयेत्
नित्यानिरञ्जनाक्लिन्नाक्लेदिनीमदनातुरा १०
मदद्रवाद्राविणीचक्षोभिणीचस्वरेर्चयेत
मातरश्चैवसम्पूज्याभूविंवेलोकपालकाः ११

इतिमहाविद्येश्वरिविधिः

४४

ईश्वरौवाच
अथदूतीम्प्रवक्ष्यामित्रैलोक्याकर्षणक्षमां

पृ० ४४ब्) भुवनेशींसमुच्चार्यशिवदूत्यैनमोलिखेत् १
सप्तार्णाशिवदूतीयन्त्रैलोक्यस्वामिनीप्रिये
ऋषीरुद्रस्तुगायत्रीछन्दःस्याद्देवताशिवा २
आद्यन्तेवीजशक्तीचमध्यङ्कीलकमुच्यते
विद्याभागत्रयेणैवद्विरावृत्याङ्गकन्न्यसेत् ३
दुर्वानिभान्त्रिनेत्राञ्चमहासिंहासनासनां
शङ्खारिचापवाणांश्चशृणिपाशौवराभये ४
दधतीञ्चिन्तयेन्नित्यंसप्तलक्षञ्जपेत्ततः
तद्दशांशेनजुहुयातिलैर्मधुघृताप्लुतैः ५
अष्टपत्रंलिखेत्पद्मम्बहिर्भूविंवमालिखेत्
तत्रदेवींसमभ्यर्च्यसोपचारैःसमर्चयेत् ६
आदावङ्गानिसम्पूज्यवसुपत्रेषुपूजयेत्
जयाचविजयाचैवकीर्तिःप्रीतिःप्रभातथा ७
श्रद्धामेधाधृतिश्चाष्टौभूविम्बेतुदिगीश्वराः
पुनर्देवींसमभ्यर्च्यसुखीभूयान्नरेश्वरः ८

इतिशिवदूतीनित्याविधिः

४५

ईश्वरौवाच
अथवक्ष्येमहादेवीन्त्वरितांसिद्धिदायिनीम्
तारम्पराञ्चकवचङ्खेचछेक्षःसमालिखेत् १
स्त्रींहूमात्मकमुच्चार्य्यक्षेपरामस्त्रकंलिखेत्
त्वरितारुद्रवर्णेयम्भोगमोक्षफलप्रदा २

पृ० ४५अ) ऋषिरीशोविराट्छन्दोदेवतीपञ्चपार्वती
कवचंस्त्रीशक्तिवीजेकीलकञ्चप्रकीर्तितं ३
चच्छेयुगंहृच्छिरस्तुछेक्षयुग्मंशिखाततः
क्षस्त्रीयुगञ्चकवचंस्त्रीहूमात्मयुगन्तथा ४
ह्वङ्क्षेनेत्राणिविन्यस्यक्षेफौस्त्रम्प्रकीर्तितं
श्यामाङ्गीरक्तसत्पाणिचरणांवुजशोभितां ५
वृषलाहिसुमञ्जीरांस्फणारत्नविभूषितां
स्वर्णांशुकांस्वर्णभूषांवैश्यादिद्वन्द्वमेखलां ६
तनुयुग्माम्पीनवृत्तकुचयुग्माञ्चराभये
दधतींशिखिपिच्छानांवलयाङ्गदशोभितां ७
गुञ्जारुणान्तृपाहीशकेयूरांरवभूषणां
द्विजनागस्फुरत्कर्णभूषाम्मत्तारुणेक्षणाम् ८
नीलकुञ्चितधस्मिल्लवनपुष्पाङ्कपालिनीं
कैरातींशिक्षिपत्राक्षनिकेतनविराजितां ९
स्फुरत्सिंहांसनप्रौढ्यांस्मरेद्भयविनाशिनीम्
रविलक्षञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत् १०
मधूकपुष्पैर्देवेशीम्पुरश्चारीततोभवेत्
अष्टपत्रंलिखेत्पद्मंवहिर्भूविम्वमालिखेत् ११
प्रत्येकंवसुकोणेषुकवचञ्चाष्टधालिखेत्
मध्येतुभुवनेशानींवेष्टयेत्मातृकांवहिः १२

पृ० ४५ब्) सर्वरक्षाकरन्नामचक्रमेतदुदाहृतं
तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् १३
आदावङ्गानिसम्पूज्यवसुपत्रेषुपूजयेत्
हुङ्कारीखेचरीञ्चण्डाञ्छेदनीङ्क्षेपणीन्तथा १४
स्त्रियंहुङ्कारिणीङ्क्षेमकारिणीङ्क्रमतोयजेत्
श्रीवीजेनैवदेवेशिलोकपालस्ततःपरं १५
अग्नेफट्कारिणीपूज्यासरासनधराप्रिये
स्वर्णरत्नमयीवेत्रयष्टिहस्तेसुभूषिते १६
द्वारपार्श्वयुगेपूज्येविजयाचजयातथा
कृष्णोवर्वरकेशश्चलकुटेनविराजिता १७
किङ्करःपुरतःपूज्यस्तद्वहिःपूजयेत्क्रमात्
धातारञ्चविद्यारञ्चपुनर्देवींसमर्चयेत् १८
गन्धपुष्पादिनैवेद्यैर्महारक्षाकरीयजेत् १९

इतिनित्यात्वरिताविधिः

४६

ईश्वरौवाच
अथवक्ष्येमहेशानिविद्यांश्रीकुलसुन्दरीम् १
अथवक्ष्येपरान्नित्याम्पुरुषार्थप्रदायिन्नी २
त्रिपुरेशींसमुच्चार्यनित्याख्याम्भैरवीन्तथा
हुङ्कारत्रितयंवाणविद्येयंवासवाक्षरी ३
त्रिपुरेशीवयन्त्रन्तुऋष्यादियजनम्प्रिये
पञ्चाक्षरीवाणवीजोनित्येयम्परमाभवेत् ४

पृ० ४६अ) इतिनित्याद्वयविधिः

४७

ईश्वरौवाच
अथवक्ष्येमहेशानींविद्यान्नीलपताकिनीं
तारंहृत्पदमाभाष्यकामेश्वरिपदन्ततः १
कामाङ्कुशेपदञ्चोक्ताततःकामपताकिके
भगवत्पथनीलान्तेपताकेतिभगान्तिके २
वतिहृन्मन्त्रमालिख्यततोस्त्रीतिचतेलिखेत्
परमान्तेतथागुह्येहुङ्कारत्रितयंलिखेत् ३
मदनेमदनान्तन्थदेहेत्रैलोक्यमालिखेत्
द्रावयेतितथालेख्यङ्कवचास्त्राप्रिवल्लभा ४
षष्टार्णापरमेशानीदेवीनीलपताकिनी
कामेश्वरीवयन्त्रन्तुध्यानमस्यानिगद्यते ५
रक्तांरक्तांशुकप्रौढान्नानारत्नविभूषितां
इन्द्रनीलस्फुरन्नीलपताकाङ्कमलेस्थितां ६
कामग्रैवेयसंलग्नश्रृणिञ्चवरदाभये
दधतीम्परमेशानीन्त्रैलोक्याकर्षणक्षता ७
ध्यात्वाजपेच्चतुर्लक्षन्दशांशेनतिलैर्हुनेत्
एषाविद्यावरारोहेकामेशीचप्रपूजयेत् ८

इतिनीलपताकानित्याविधिः

४८

ईश्वरौवाच
अथवक्ष्येपरांविद्याञ्जयदांविजयांसदा
शिवचन्द्रस्वर्याताग्निरुद्रस्वरविभूषितं १

पृ० ४६ब्) विन्दुनादकलाक्रान्तंविजयायैनमोलिखेत्
ऋषिरस्याअहञ्छन्दोगायत्रीदेवतास्वयं २
वीजहृन्मध्यवर्णास्ववीजशक्तीतुकीलकं
षड्दीर्घस्वरसम्भिन्नंवीजेनैवषडङ्गकं ३
एकवक्त्रान्दशभुजांसर्पयज्ञाम्पवीतिनीम्
दंष्ट्राकरालवदनान्नरमालाविभूषितां ४
अस्थिचर्मावशेषान्तांवहिकूटसमप्रभाम्
व्याघ्रचर्माम्महाप्रौढांशवासनविराजितां ५
रणेस्मरणमात्रेणभक्तेभ्योविजयप्रदाम्
शूलञ्चर्मघटङ्कासिशृणीघण्टाशनिद्वयं ६
पाशमग्निमभीतिञ्चदधतीञ्जयदांसदां
लक्षत्रयञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत् ७
महापद्मैस्त्रिमध्वक्तैस्ततःसिद्धाभवेदियम्
त्रिकोणञ्चैवषट्कोणंवसुपत्रम्महीगृहम् ८
मध्येवीजंसमालिख्यत्रिकोणेषुचवीजकं
षडक्षराणिषट्कोणेवस्वपत्रेषुवैस्वरान् ९
युग्मयुग्मप्रभेदेनपत्राग्रेषुचवैलिखेत्
नारसिंहम्महावीजम्मातृकांवेष्टयेत्ततः १०
अत्रावाह्यमहादेवीमुपचारैःसमर्चयेत्
आदाषडङ्गावरणन्त्रिकोणेपूजयेत्ततः ११

पृ० ४७अ) ब्रह्मविष्णुमहेशांश्चषट्कोणेषुततोयजेत्
षडयोगिनीरष्टपत्रेमातरःपूजयेत्क्रमात् १२
चतुरस्रेलोकपालान्पुनर्देवींसमर्चयेत्

इतिविजयानित्याविधिः

४९

ईश्वरौवाच
अथवक्ष्येमहानिनित्यांवैसर्वमङ्गलां
जीववारुणताराढ्यंसर्वान्तेमङ्गलापदं १
ङेतंहृदयमालिख्यनवार्णासर्वमङ्गला
ऋषिच्चन्द्रोमहेशानिगायत्रीछन्दौच्यते २
देवीयंवीजशक्तीतुवीजंहृदयमेवच
विद्याभागत्रयेणैवद्विरावृत्याषडङ्गकं ३
शुभ्रपद्मासनांरम्याञ्चन्द्रकुन्दसमद्युतिं
सुप्रसन्नाञ्चवरदान्नानारत्नविभूषितां ४
अनन्तमुक्ताभरणंश्रवन्तीममृतद्रवं
वरदाभयशोभाढ्यांस्मरेत्सौभाग्यवर्धिनीं ५
एवन्ध्यात्वाजपेद्वर्णलक्षंविजितमन्मर्थः
तद्दशांशेनजुहुयाच्छुभ्रपद्मैर्घृतस्वतैः ६
अष्टपत्रञ्चभूविंवन्तत्रावाह्यसुरेश्वरीम्
उपचारैःसमभ्यर्च्यषडङ्गाचरणंयजेत् ७
अष्टपत्रेषुसम्पूज्यापुरआदिक्रमेणतु
राकाक्रमुद्वतीनन्दाशुद्धासञ्जीविनीक्षमा ८

पृ० ४७ब्) अध्यापिनीचन्द्रिकाचह्लादिनीपुरतोयजेत्
ततोव्राह्म्यादयःपूज्याभूविंवेककुचीश्वराः ९
पुनःसम्पूज्यवहुदाचन्द्रमण्डलवासिनी १०

इतिसर्वमङ्गलानित्याविधिः

५०

ईश्वरौवाच
ज्वालामालाम्प्रवक्ष्यामिपुरुषार्थप्रदाम्परां
ओङ्कारवीजमुच्चार्यनमोभगवतीतिच १
ज्वालामालिनीदेवीतिसर्वभूतन्तुसंलिखेत्
हारिकारिचकेजातवेदसीतिज्वलन्तिच २
ज्वलयुग्मम्प्रज्वलेतियुगंहुनात्मकन्द्विधा
वह्निन्द्विदाचकवचमस्त्रञ्चापिसमालिखेत् ३
चत्वारिंशद्वर्णरूपास्ववर्णाचक्रमाद्भवेत्
ऋषिस्तुकश्यपछन्दीगायत्रीदेवतात्वियं ४
रेफास्त्रेवीजशक्तीचकीलकङ्कवचम्प्रिये
रविसूर्य्यशरर्य्यष्टवेदैरङ्गानिविन्यसेत् ५
चत्वारिंशद्दलम्पद्मञ्चतुराधिकमीश्वरि
वहिरष्टदलम्पद्मंवाह्येभूविंवमालिखेत् ६
कर्णिकायाम्महाविद्यान्दलेषुक्रमतोलिखेत्
दुर्गावर्णास्तुतोदेवीवसुपत्रेस्वरान्लिखेत् ७
द्वन्द्वशःपरमेशानिवह्निवर्णेनवेष्टयेत्
जातवेदसआलिख्यपुनवामचमोमम ८
रातीयतोनिदहातिवेदःसनश्चआलिखेत् ९

पृ० ४८अ) वर्षान्तेदतिसंलिख्यदुर्गाणीतिसमालिखेत्
विश्वानावेचसिन्धुञ्चद्वरितात्यग्निरालिखेत् १०
एषादुर्गावरारोहेजातवेदस्वरूपिणी
अस्मिन्यन्त्रेसमासीनाञ्ज्वालामालाम्प्रपूजयेत् ११
आदौपीठंसमभ्यर्च्यदिक्षुमध्येचशक्तिभिः
जयाचविजयाभद्राभद्रकालीसमुख्यपि १२
दुर्मुखीचतथाव्याघ्रमुखीसिंहमुखीतथा
दुर्गाचैतासुसम्पूज्यदेवीमावाह्यपूजयेत् १३
आदावङ्गानिसम्पूज्यततोदेवींसमर्चयेत्
जागतीतापिनीवेदगर्भादहनरूपिणी १४
सेतुखण्डायातुहन्त्रीनरमुखीतथाचवै
वागीश्वरीमदवहासोमरूपामनोजया १५
मरुद्वेगाचरात्रिश्चतीव्रकोपायशोवती
तोयात्मिकाचनित्याचदयावत्पथहारिणी १६
निरस्कृयावेदमातातथाचमदनप्रिया
समाराध्यानन्दिनीचपराचरिपुमर्दिनी १७
वरामुखीदण्डिनीतिदुर्गागायत्रीकातथा
निरवद्याविशालाक्षीश्वासोद्वाहाचनन्दिनी १८
वेदनावह्निगर्भाचसिंहवाहातथैवच

पृ० ४८ब्) धुर्याचदुर्वहाचैवरिरंसातापहारिणी १९
त्यक्तदोवानिसम्पलापुरआदिप्रपूजयेत्
अष्टारेमातरःपूज्याभूविंवेककुचीश्वराः २०
पुनर्देवींसमभ्यर्च्यस्वर्णाभरणभूषितां
उद्यद्विद्युल्लताकान्तिंस्वर्णांषुकविराजितां २१
महासिंहासनेप्रौढाञ्ज्वालामालाकरालिनीं
अरिशङ्खङ्खड्गखेटेत्रिशूलण्डमरुन्तथा २२
पानपात्रञ्चवरदन्दधतींसंस्मरेद्यजेत्
ज्वालामालामहाविद्यारिपुहन्त्रीनसंशयः २३

इतिज्वालामालिनीनित्याविधिः

५१

ईश्वरौवाच
अथवक्ष्येमहेशानिविचित्रांविश्वमातरं
यस्याःस्मरणमात्रेणपलायन्तेमहापदः १
चकानुग्रहविद्विन्दुभूषितम्मनुमालिखेत्
ऋषिर्ब्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते २
चित्राचदेवतावीजङ्ककारःकीलकञ्चत
तारानुजस्तुशक्तिःस्यात्पुरुषार्थप्रदायिनी ३
षड्दीर्घस्वरभेदेनन्यसेदङ्गानिदेशिकः
यन्त्रेतुमातृकायास्तुपूजादेव्यास्तथाभवेत् ४
मातरीलोकपालांश्चपूज्यदेवीञ्जपेद्वुधः
रविलक्षन्दशांशेनहुनेद्वृततिलैर्यवैः ५

पृ० ४९अ) स्तम्भनेपीतवर्णेयंवश्येवन्धूकसन्निभा
मारणेश्यामलाङ्गीयमुच्चाटेधूम्रसन्निभा ६
शुभ्राङ्गीज्ञानदानित्यंविचित्रवसनासदा
विचित्रभूषणानित्यंविचित्रकुङ्कुमोज्वलां ७
वरदाभयशोभाढ्यानानावस्त्रधराक्वचित्
क्रमेणकथितानित्यासर्वसौभाग्यदाप्रिये ८

५२

ईश्वरौवाच
एतत्सर्वात्मकंवस्तुत्रिपुरेत्यभिधीयते
एषासत्वान्वितादेवीजाग्रदित्यभिधीयते १
तदेयंशक्तिरूपात्मासृजन्तीभुवनत्रयं
उत्पत्तिर्जागरोवोधोव्यावृत्तिर्मनसःसदा २
कलाचतुष्टयञ्जाग्रदवस्थायांव्यवस्थितां
एषैवतुसमायुक्ताशिवरूपान्निगद्यते ३
मरणांविस्मृतिर्मूर्छानिद्राचतमसावृत्ता
सुषुप्तेषुकलाज्ञेयासुषुप्तिःशिवरूपिणी ४
पदाद्वन्द्वात्मिकादेवीरजोरूपाभयात्मिका
संयोगःसत्वतमसोरजैत्यभिधीयते ५
सुषुप्त्यन्तेजागरादौस्वप्नावस्थारजोमयी
अभिलाषम्भ्रमच्चिन्ताविषयेषुमनःस्मृतिः ६

पृ० ४९ब्) कलाचतुष्टयंस्वप्नावस्थायान्तुविधायते
गुणातीतापदादेवीसातुर्येत्यभिधीयते ७
सुषुप्त्यादौजागरान्तेस्फुरतामात्रलक्षणा
अवस्थाशेषताम्प्राप्तातुर्यातुकमलाकला ८
भावाभावविनिर्मुक्तागुणातीतानिगद्यते
वैराग्यञ्चमुमुक्षुत्वंशमादिविमलम्मनः ९
सदसद्वस्तुनिर्द्वारस्तुर्यायास्तुकलाइमाः
तुर्य्यैवपरिपाकेनकलासप्तदशीभवेत् १०
कतुरम्भाफलादीनाम्पाकेनमधूरोरसः
अतएवमहेशानीकलासप्तदशीभवेत् ११
उच्चार्य्यमाणायेमन्त्रास्तेमन्त्रावाचकाम्प्रिये
उच्चाररहितंवस्तुचेतसैवविचिन्तयेत् १२
चिन्तनात्सामरस्येनसाच्छाद्व्रह्मैचकेवलं
अतएवमहाविद्यातूर्यरूपावरानने १३
कलाषोडशकञ्चैतछीविद्यार्णेषुसंस्थितं
निःसरन्तिमहामन्त्रामहाग्नेर्विस्फुलिङ्गवत् १४
तथैवमातृकावर्णानिःसृतावाग्भवात्प्रिये
अतएवतदेवास्यावीजंवाग्भवमुच्यते १५
तेनैववाड्मयेनासौत्रैलोक्यंसचराचरम्
मोहयन्तीतदादेवीकामेशीवीजरूपिणी १६

पृ० ५०अ) पुरुषस्त्रीमयेनासौस्फुरन्तीविन्दुमातृकां
महामोहेनदेवेशिकीलयन्तिजगत्त्रयं १७
अतस्तत्कीलकन्देवितेनसौभाग्यगर्विता
पालयन्तिजगत्सर्वन्तेनेयंशक्तिरुच्यते १८
एवङ्कूटत्रयकलामहासाम्राज्यदायिनी
तदालक्ष्मीमयीदेवीजागर्तिभुवनत्रये १९
महाकोशेश्वरीवृन्दमण्डिताभुवनेश्वरी
एषैवकोषसम्पन्नाकामान्पूरयतेपरा २०
कामेश्वरीतदादेवीकामान्पूरयतेसदा
महासिंहासनप्रौढाविश्वगाविश्वरूपिणी
अकथादिमहापीठेहलक्षवर्णरूपिणी
तदाकल्पलतादेवीवाक्पुष्पाज्ञानमत्कला
सौभाग्यदायिनीनित्यंरत्नतेजोविभूषिता २१
जीवानुग्रहसर्गेणस्फुरन्तीविश्वमातृका
चतुरायतनेनैवचतुर्वेदनमस्कृतां २२
साम्राज्यभूत्तदादेवीभुवनानन्दमन्दिरा
अतस्त्रैलोक्यसाम्राज्यप्रदानित्यात्मिकाप्रिये २३
एतत्सर्वम्पुरस्कृत्यवर्ततेत्रिपुराशिवा
प्रपञ्चमध्येदेवेशिकेवलाव्रह्मरूपिणी २४
अतेवमहादेवीकलासप्तदशीभवेत्

पृ० ५०ब्) षोडशार्णस्वरूपापिनित्याषोडशत्कात्मिका २५

इतिनित्याविवरणम्

५३

पार्वत्युवाच
त्रिपुरापरमेशानीसर्वमन्त्रमयीशिवा
संविद्रूपात्ककथिताकथम्पूज्यांसदाशिव १

ईश्वरौवाच
प्रातरुत्थायशिरसिसंस्मरेत्पद्ममुज्वलं
कर्पूराभंस्मरेतत्रश्रीगुरुन्निजरूपिणं २
स्वप्रसन्नंलसद्रूपम्मण्डितंशान्तिभूषितं
वराभयकरन्नित्यन्नमस्कृत्यामुनायजेत् ३
हस्रौमात्मकमालिख्यहसक्षमलवातिलान्
वह्नियुक्तांस्त्रिधालिख्यस्विधासम्भूष्यचस्वरैः ४
मुखवेष्टनवामाङ्गश्रुतिनेत्रैश्चमण्डितैः
वीजत्रयमिदम्भद्रेविन्दुनादकलात्मकं ५
श्रीपरान्तेपावकेतिसर्वाराधापदंलिखेत्
सर्वमूर्द्धपुरीतेचनाथसर्वगुरुस्वयं ६
गुरुश्रीगुरुनाथान्तेहसक्षमलवपान्
रेफदीर्घश्रुतिगुतान्विन्दुनादकलात्मकान् ७
पिण्डीकृत्यलिखेदाद्यञ्चतुर्थञ्चततोलिखेत्
तृतीयम्पूर्ववल्लेख्यन्द्वितीयमपिपार्वति ८
ततःश्रीशम्भुगुर्वन्तेपुनराद्यंसमालिखेत्
आद्यकूटचतुष्कान्तेचाद्यतार्तीयमालिखेत् ९
वसुसङ्ख्यैश्चदेवेशिचत्वारिंशद्भिरक्षरैः

पृ० ५१अ) मण्डितोयमनुर्देविस्मरेन्निजगुरुम्प्रिये १०
मूलादिब्रह्मरन्ध्रान्तंविषतन्तु*नीयसीं
उद्यदादित्यरुचिरांस्मरेदशुभशान्तये ११
क्लीमात्मकङ्कामदेवसर्वान्तेजनमालिखेत्
प्रियादिहृदयान्तोयम्मनुर्दन्तविशुद्धये १२
चतुर्लक्ष्याणुनावक्त्रङ्क्षालयेत्सिद्धिहेतवे
स्नानकर्मततःकुर्यान्मूर्द्धानम्प्रोक्षयेत्तनुं १३
सम्प्रोक्ष्यगुह्यमुद्राढ्योमन्त्रीपापनिकृन्तनः
आत्मविद्याशिवैस्तत्वैराचमेद्विद्ययात्रिधा १४
त्रिविधन्तर्पणङ्कुर्याद्देवर्षिपितृपूर्वकं
विद्यपाथततोमन्त्रीसर्वालङ्कारभूषणः १५
रक्तवस्त्राङ्गरागन्तुरक्तासनगृहेस्थितः
विद्यायातत्वरूपिण्यात्रिधाचम्याभिषेचनं १६
विद्ययैवत्रिधादेविचुलकीनोदकंसुधीः
गृहीत्वाचिन्तयेत्तत्रवहन्नाडीगतम्प्रिये १७
वामकुक्षिगतम्पापम्पुरुषङ्कज्जलप्रभम्
ब्रह्महत्याशिरोयस्यस्वर्णस्तेयकटिद्वयं १८
सुरापानहृदङ्गानिपातकानिबहून्यपि
उपपातकसङ्घ्रास्तुरोमापिपरमेश्वरि १९

पृ० ५१ब्) नानापातकसङ्घास्तुसर्वाङ्गानिविचिन्तयेत्
खड्गचर्मधरन्देविमनसाचिन्तयेद्वुधः २०
भूमौवज्रशिलान्ध्यात्वाघातयेतत्रसुन्दरि
अथार्घ्यंरवयेदद्यात्रिधासौरमनुंस्मरन् २१
हृल्लेखाहृदयन्देविशिरोहंसस्ततोवदेत्
वेदाक्षरीमहाविद्यासर्वसौराधिदेवता २२
भास्वद्रत्नौघमुकुटांस्फुरच्चन्द्रकलाधरां
सद्यःसन्तप्तहेमाभांसूर्यमण्डलरूपिणीं २३
पाशाङ्कुशाभयवरास्मरन्नथजपेत्ततः
गायत्रीशुभगायास्तुत्रिधावीजस्वरूपिणी २४
वाग्भवान्तेलिखेद्देविवाग्भवेश्वरिविद्महे
द्वितीयकूटमुच्चार्यकामिनीश्वरिधीमहि २५
तृतीयङ्कूटमुच्चार्यततःशक्तिप्रचोदयात्
यथाशक्तिजपङ्कुर्याच्छ्रीविद्याञ्चततोजपेत् २६
अथयागगृहंयायादलक्तकविभूषितं
अनेकचित्रशुभगम्भूमौगोमयचर्चितम् २७
उपरिष्टालसत्पुष्पशुभगन्धूपधूपितं
दीपमालावलीरम्यंविकीर्णकुसुमोज्वलं २८
तत्रागत्ययजेद्विद्वान्मौनीज्ञानीसदाशुचिः
सर्वाभरणसम्पन्नन्त्रिपुरार्चनमण्डपं २९

पृ० ५२अ) ङेनमोन्तेनपूजास्यात्मण्डपस्यसुलोचने
गणपङ्क्षेत्रपालञ्चधातारञ्चविपूर्वकं ३०
गङ्गाञ्चयमुनाञ्चैवतथाशङ्खनिधिङ्क्रमात्
ततःपद्मनिधिञ्चेष्ट्वावास्तन्तेपुरुषंयजेत् ३१
द्वारश्रियङ्गणेशञ्चपूजयेच्चसरस्वतीम्
देहलीमपिसम्पूज्यपूजयेद्वारमण्डले ३२
हृल्लेखाञ्चश्रियोवीजमादौसंयोजयेत्ततः
नामान्तेश्रीपदंवाच्यम्पादुकाम्पूजयामिच ३३
अनेनक्रमयोगेनसम्पूज्यासर्वमातरः
रक्तासनोपविष्टस्तुचक्रोद्धारंसमाचरेत् ३४
शक्त्योपरिष्टाछक्तिन्तुविलिखेद्विस्तृतांसकृत्
वह्निनातेपुटीकुर्यात्सन्धिभेधक्रमेणतु ३५
अग्नीशासुरवायव्यरेखांविस्तार्ययोजपेत्
दशकोणंयथादेविजायतेतद्वदेवहि ३६
मध्यकोणचतुष्कस्यरेखेआकृष्यवुद्धिमान्
तत्तत्सन्धिविभेदेनमन्वस्रञ्जायतेतथा ३७
समत्रिकोणशक्त्यैकंसुखदन्नेत्रयोर्यथा
सुश्रीकंसन्धिभेदेनऋजुरेखाविजृम्भितं
वहिरष्टदलम्पद्मंसुवृत्तेनसमालिखेत् ३८
तद्वत्षोडशपत्रंहिविलिखेत्पद्ममुत्तमं
त्रिवृत्तम्परमेशानिततोभूविंवमालिखेत् ४०

पृ० ५२ब्) चतुर्द्वारंविशोभाढ्यम्पुष्पन्तत्रविनिक्षिपेत्
गण्डकीभवपाषाणेस्वर्णेरजतताम्रजे
काश्मीरदर्पणेभूर्जेअघीपीठंलिखेद्वुधः ४१
शलाकयासुवर्णस्यमिश्रयाचुसृणेन्दुभिः
सिन्धूररजसामिश्रैःपट्टेधातुमयेलिखेत् ४२
अथवाभूतलेदेविसुरेखङ्कुङ्कुमेनवा
सिन्धूररजसाचापिलिखेत्सर्वार्थसिद्धये ४३
एतच्चक्रम्महेशानिमध्येविन्दुविराजितं
ततस्त्रिकोणञ्चाष्टारन्दशारञ्चदशारकं ४४
मनुकोणम्महेशानिमध्यचक्रमिदम्प्रिये
वैन्दवादष्टकोणान्तंसर्वम्मध्यंसुरेश्वरि ४५
चत्वारिंशद्भगैर्युक्तन्त्रिभगैरपिपार्वति
वसुपत्रङ्कलापत्रञ्चतुरस्रङ्क्रमात्प्रिये ४६
भगात्मकमिदम्भद्रेनवयोन्यङ्कितम्भवेत्
यथोष्टाशामुखोमन्त्रीतत्तत्कर्मविधौसुधीः ४७
प्राङ्मुखःसम्यगासीनोगुरुन्नत्वानिजन्ततः
पूर्वोक्तमनुनासम्यक्गुरुनामचसंस्मरेत् ४८
पार्ष्णिघातकरास्फोटैरुर्धाचक्रस्तुमान्त्रिकः
सर्वभूतानिसन्त्रास्यकरशुद्ध्यादिकञ्चरेत् ४९

पृ० ५३अ) आद्यद्वितीयवर्णाभ्यान्त्रिपुरेस्यन्तिसंलिखेत्
आद्यद्वयंविन्दुनादकलास्त्रन्त्रिपुराभवेत् ५०
मन्त्रमस्यामहेशानित्रिपुरेशीवनान्यथा
मध्यमादितलान्तन्तुकरशुद्धिविधौयजेत् ५१
ततआत्मासनन्दद्यात्सुन्दर्यापरमेश्वरि
वाग्भवन्त्रिपुरेश्वर्याहित्वातत्रविनिक्षिपेत् ५२
हृल्लेखांसुन्दरीन्नामत्रिपुरेशीचपूजनं
चक्रासनन्ततोदद्यात्पुरवासिन्यधिष्टितं ५३
शिववीजादिमंवीजन्त्रयमेतदुदाहृतम्
त्रिपुरेस्यास्तुविद्येयन्त्रिपुरेशीचपूजनं ५४
त्रिपुरेशीहमाद्यास्याद्वीजयुग्मेतथान्तिमे
शिवाद्याश्रीरियंसर्वमन्त्रासनविधौयजेत् ५५
सुन्दर्याश्रन्तिमंहित्वावलेमात्मकमक्षरं
संयोज्यमालिनीदेवीसाध्यसिद्धासनस्थिता ५६
मन्त्रमस्यामहेशानित्रिपुरेशीचसम्भवेत्
आत्मरक्षाम्प्रकुर्वीतत्रिपुरेश्यामहेश्वरि ५७
सम्पत्प्रदाभैरवीयमन्तेसर्गसमन्विता
मूर्त्यावाहनविद्यातुसिद्धांवापरमेश्वरी ५८
सम्पत्प्रदाभैरवीचयजनम्परमेश्वरी ५९

५४

पृ० ५३ब्) ईश्वरुवाच
शिवचन्द्रौमन्मथोरःशक्तिर्वैविन्दुमालिनी
क्षमाविन्द्वर्द्धमात्राश्चनववर्णाभवन्तिहि १
शिवाच्छून्यमयीदेवीव्योमाकारेणसंस्थिता
विश्वंस्वात्मनिचिद्रूपेवहन्तिसकलालया २
चन्द्रेणद्रावयन्तीयम्मूलादिब्रह्ममन्दिरात्
आप्लावयन्तीसकलंसृजन्तीविश्वमातृकां ३
मन्मथेनमनोरूपातस्मात्तेजोमयीततः
विस्तारयन्तीसकलंविस्वयोनिरितीरिता ४
अन्तःकरणवृत्यातुविश्वान्तर्मातृकाभवेत्
अन्तर्मायेतिविख्याताययेदन्धार्यतेजगत् ५
अतएवक्षमारूपाजगद्धात्रीपराभवेत्
विन्दुरूपापराशक्तिर्नादरूपामहेश्वरी ६
नादातीताविचारेतुविचारागोचराततः
एवम्ब्रह्ममयैर्वर्णैर्जायतेत्रिपुरामनुः ७
नान्यैःवर्णैर्महामन्त्राःसुभगायाभवन्तिहि
शुद्धाश्चसकलामन्त्रास्तथाचोभयसञ्ज्ञकाः ८
शुद्धविद्याशृणुप्रौढेसर्वाम्नायैर्नमस्कृताः
कामाकासौशक्तितुर्यभूमायावाग्भवंयजेत् ९
अनेनचविलिख्यन्तेविद्यासर्वागमेश्वरि
मदनानुजतःकामोमदनाग्रजौच्यते १०

पृ० ५४अ) हित्वानुजंशिवंसाग्रंविद्येयम्मनुहृद्गता
कामःसहाग्रजोवापिशिवङ्कामानुजंविना ११
सहाद्यम्मदनेशक्तौहसाद्यङ्कानुजंविना
चन्द्राराधितविद्येयम्भुक्तिमुक्तिफलप्रदा १२
अनुजेनविनाकामोहसादिवाग्भवंस्मरेत्
हसादिसहकःशक्तावहस्यैतिगीयते १३
कुवेराधिष्टिताविद्याभुक्तिमुक्तिफलप्रदा
हित्वाहंवाग्भवेकामेहसादिकोमहामनुः १४
तुर्यैकादशमेहित्वाशक्तिकुटेप्पयंलिखेत्
कामानुजन्त्रयंहित्वासहसाद्योअजस्तथा १५
लोपामुद्रोपाशितेयम्भुक्तिमुक्तिफलप्रदा
इयंविद्याशक्तिकुटेसहकेनार्थसिद्धिदा १६
कामराजाराधितेयम्भुक्तिमुक्तिफलप्रदा
एतस्याएवविद्यायाःशक्तिविन्दुमताद्वयं १७
हित्वाहसादिर्गदिताऽगस्त्याराधितदेवता
धर्मार्थकाममोक्षाणाम्मालयंसम्प्रदायतः १८
हित्वाययुगलंवाचिसाद्यङ्कामेशिवादिकं
शक्तिविन्दुस्रजन्त्यक्ताकामन्तत्रविनिक्षिपेत् १९
शक्त्यावगस्त्यविद्येयन्नन्द्याराधितदेवता

पृ० ५४ब्) कानुजानान्त्रयन्त्यक्ताहसाद्यंवाचिमन्मथे २०
सहाद्यमन्तेसहयोर्मध्येकःसूर्यपूजिता
अगस्त्यकुटत्रितयंसूर्यकामंसमालिखेत् २१
पुनस्तत्कलमध्येशन्त्तार्त्तीयञ्चसमालिखेत्
सहाद्यंविष्णुपूज्येयंषट्कूटापरमेश्वरि २२
अगस्त्याद्यंवाग्भवंस्यादेतदेवसकादिकं
विष्णुविद्यापञ्चगञ्चस्कन्दाराधितदेवता २३
अगस्त्यस्यद्विधाविद्यांविलिख्यमनुवित्तमः
चतुर्थीपञ्चमीमायान्त्यजेच्छिवहृदिस्थितां २४
वाग्भवंश्चचतुष्कञ्चकामराजस्यपञ्चकं
शक्तिकूटत्रिकार्णञ्चकामराजस्यसंलिखेत् २५
मायास्थानेहरीवर्णयुगलञ्चक्रमालिखेत्
दुर्वाससापूजितेयम्पुरुषार्थप्रदायिनी २६
एतेद्वादशमन्त्राःस्पुःशुद्धाःसर्वार्थसिद्धिदाः
अन्येपिशुद्धभेदास्युःकथ्यन्तेकृपयातव २७
भेदस्तुमनुविद्यायाःनास्तिसर्वागमेष्वपि
शिवचन्द्रकशक्तिस्तुहृल्लङ्खावाग्भवोभवेत् २८
जीवेशमादनेकारविन्दुसृक्पृथिवीपरा
एतत्कामेचतार्तीयेद्वितीयाचन्द्रपूजिता २९
कुवेरशक्तिकुटञ्चकामकूटंसमालिखेत्

पृ० ५५अ) वाग्भवेकामराजञ्चशक्तिवीजमथोलिखेत् ३०
शिवकामेशशक्तिलपराधनदपूजिता
विष्णन्तिमवाविकामेसादिकामस्यमन्मथं ३१
सहकामान्त्ययुग्मादिशक्तौनन्दीशपूजिता
भेदस्तुसूर्यविद्यायानास्त्येवपरमेश्वरि ३२
विष्णुविद्यान्तरंवक्ष्येकूटत्रयविराजितं ३३
जीवेशक्ष्मापरावाचिकामेस्याद्विष्णुपञ्चमं
शक्तौकामान्तिमंविद्याद्वितीयाविष्णुपूजिता ३४
हसशक्तिकभूमायाकूटमेतत्रिकंलिखेत्
वाचिकामेतथाशक्तौस्कन्दपूज्यापराभवेत् ३५
अगस्त्यस्यमनौज्ञेयापरावाचिहलान्तगा
कामत्रयान्तेभूजीवौत्रिकुटाशिवपूजिता ३६
एतेभेदावरारोहेशुद्धाःसिद्धिप्रदायकाः
शुद्धभेदद्वयंवक्ष्येभोगमोक्षफलप्रदं ३७
जीवेशकामभूमायावाचिकामेपिसंलिखेत्
इदमेवपुनःशक्तौविद्येयंशक्तपूजिता ३८
कशक्तिर्विन्दुमाललीशक्तीकूटंषडक्षरं
वाचिकामेहकाकाशक्ष्माकासाग्निसमन्वितं ३९
शक्तौकामकलाकाशवह्निमत्परमेश्वरि
उन्मनीनामविद्येयङ्केवलम्मोक्षदायिनी ४०

पृ० ५५ब्) एतेशुद्धाःसदाजप्याःसिद्धिदानात्रसंशयः
अथवक्ष्येमहेशानिमन्त्रान्सकलसञ्ज्ञकान् ४१
कामराजस्यविद्यायामध्यञ्जीवंविनोच्चरेत्
अन्तेजीवऽशिवस्यातुविद्यावरुणपूजिता ४२
एतस्याएवविद्यायाहित्वाविन्दुत्रयङ्क्षिपेत्
तत्रैवकामविद्येयन्धर्मराजप्रपूजिता ४३
कसकक्ष्मादिहृल्लेखाहसलस्मरतक्षमाः
हृल्लेखामन्मथेशक्तौसकलाग्नीमहीपरा ४४
वह्निनापूजिताविद्यामहाविघ्नौघघातिनी
अगस्तिकूटयुगलंवह्निपूज्यान्तिमंलिखेत् ४५
विद्यापन्नगराजेनपूजिताभुक्तिमुक्तिदा
कशक्तिवह्नियुगलम्भूवह्निभुवनेश्वरी ४६
हकलाग्निहलामायासरकक्ष्माग्निमण्डिता
मायावायुप्रपूज्येयम्माहपापौघभञ्जिनी ४७
कशक्तिवैन्दवीवह्निक्ष्मामायाकहालरा
मायासहकशक्राग्निमायेयंसौम्यपूजिता ४८
कामाकासक्षमामायाशिवकामहभूलरा
मायाकामेशक्तिकूटेसकलाभुवनेश्वरी ४९
ईशानाधिष्टिताविद्यासर्वकामप्रपूरिणी
कामराजस्ययुग्मान्तेजीवक्ष्मामदनापरा ५०

पृ० ५६अ) रत्याराधितविद्येयंसर्वकामार्थसाधिका
कामाधिष्टितविद्यान्तेविलोप्तान्तासमालिखेत् ५१
नारायणाधिष्टितेयंषट्कूटापरमेश्वरी
कामाद्यंवाग्भवेकामेहकहक्ष्मापराभवेत् ५२
शक्त्यावागस्त्यकूटंवाविद्येयंव्रह्मपूजिता
अगस्त्यंवाग्भवंवाचिव्रह्मविद्यान्तिमद्वयं ५३
जीवार्चितामहाविद्यासर्वकामप्रपूरिणी
एतैर्द्वादशभिर्भेदैःसवलापरमेश्वरी ५४
शुद्धाशुद्धामहाभेदाज्ञातव्यापरमेश्वरि
विद्यासंलिख्यशुद्धास्तुविपरीतास्ततोलिखेत् ५५
ताएवहितथाशुद्धाशुद्धाभेदाभवन्तिहि
यावन्तशुद्धभेदास्युःतावन्तस्तुक्रमात्प्रिये ५६
तथैवसवलद्वन्द्वभेदादेविभवन्तिहि
भेदाःसर्वेत्वयापीड्यमाययातुर्यसञ्ज्ञकाः ५७
सर्वातिज्ञानगहनाव्रह्मरूपासुरेश्वरी
ज्ञातव्यागुरुवक्त्रेणत्वन्यथापाशमाप्नुयात् ५८
अथवक्ष्येमहेशानिचतुर्द्धाज्ञानमुत्तमं
एकधाकथितञ्चैतत्प्रकारान्तरमुच्यते ५९
यस्याःस्मरणमात्रेणवाजपेयशतम्भवेत्
वक्ष्यमाणंवीजयुग्ममादौसंयोज्यसंस्मरेत् ६०

पृ० ५६ब्) परासरेस्वरेन्द्वादिद्वितीयेभेदौच्यते
एतद्वेदादिसंसेव्यन्तृतीयोभेदौच्यते
स्वयंव्रह्मामहेशानिसकृदुच्चारणाद्वुधः ६१
अथतुर्यप्रकारश्वकथ्यतेभुविदुर्लभः
यस्यस्मरणमात्रेणपलायन्तेमहापदः ६२
स्वयंव्रह्मास्वयंविष्णुःस्वयंरुद्रोनसंशयः
किम्पुनर्देवदेवेशिस्वयङ्कामेश्वरोविभुः ६३
अश्वमेधसहस्राणिवाजपेयस्यकोटयः
नरमेधसहस्राणिसकृदुच्चारणात्प्रिये ६४
काश्यादितीर्थयात्रास्तुप्रादक्षिण्यम्भुवस्तथा
गङ्गास्नानसहस्राणिनामोच्चारणमात्रतः ६५
किम्पुनर्देविसाछातुमन्त्रीव्रह्मनसंशयः
द्वितीयस्यादियुग्मन्तुविपरीतंलिखेत्सुधीः ६६
वालाञ्चान्तर्मुखङ्कृत्वाविलिखेत्तदनन्तरं
एतत्सम्पुटिताङ्कुर्यात्तृतीयाम्परमेश्वरि ६७
श्रीविद्येयम्मयाख्यातावर्णितुन्नैवशक्यते
जिह्वाकोटिशतैर्देविवक्त्रकोटिशतैरपि ६८
पञ्चाश्येनकथन्देविवर्णितुंशक्यतेमया
श्रीविद्यासर्वविद्यानांराज्ञीस्तोतुन्नशक्यते ६९
षोडशाक्षरसम्पन्नास्वयम्पञ्चदशीकला ७०

पृ० ५७अ) श्रीगुरोःकृपयालव्धाऋद्धिसिद्धिप्रदायिने
अन्तेनिरामयंव्रह्ममन्त्रीभवतिनान्यथा ७१
व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान्
उपपातकलक्ष्याणिहन्तिश्रीस्मरणङ्क्षणात् ७२
सर्वेकल्याणमन्त्रास्तुभवन्तिपरमेश्वरी
एकोनविंशद्वर्णस्त्वनारायणहरिद्वयोः ७३
शिवविद्यामहेशानिसिद्धिःसप्तदशाक्षरी
द्वन्द्वविद्यास्तुसकलाएकोनविंशदक्षरा ७४
नारायणीवैष्णवीचपञ्चविंशतिवर्णका
ज्ञातव्यागुरुवक्त्रेणचान्यथाशापमाप्नुयात् ७५
चतुःषष्टियतःकोट्योयोगिन्योमातृमण्डलैः
विनागुरूपदेशेनसाधकन्नाशयन्तिहि ७६

५५

ईश्वरौवाच
श्रीविद्यामानसोभूत्वावामभागेमहेश्वरि
चतुरस्रञ्जलेनैवमण्डलम्पूरयेत्प्रिये १
गन्धपुष्पाक्षतैःस्वत्रयन्त्रिकाम्पूजयेत्तथा
शङ्खन्तत्रतुसंस्थाप्यजलपूर्णंसहेतुकं २
सम्यगभ्यर्च्यतेनैवपुरतोमण्डलंयजेत्
चतुरस्रंयजेत्तत्रयन्त्रिकास्थापयेत्सुधीः ३

पृ० ५७ब्) त्रिकोणवृत्तषट्कोणमण्डलम्पूजयेत्क्रमात्
समस्तांव्यस्तरूपाञ्चत्रिकोणेपूजयेच्छुचिः ४
द्विरावृत्याषडङ्गैस्तुषट्कोणेषुप्रपूजयेत्
आद्यवीजेनवह्निन्तुयन्त्राकारेणपूजयेत् ५
हेमादिनिर्मितम्पात्रन्नारिकेलोद्भवम्प्रिये
महाशङ्खंविशेषेणभुक्तिमुक्तिफलप्रदम् ६
नारिकेलोद्भवम्पात्रंसर्वैश्वर्यसुखप्रदम्
मुक्तिदन्तुविशेषेणसर्वसम्पत्करंसदा ७
गन्धादिचर्चितन्धूपधूपितम्पात्रमुत्तमम्
यन्त्रिकायाम्प्रतिष्टाप्यपूर्वोक्तंयन्त्रमालिखेत् ८
तथैवपूजयेत्कामकूटमुच्चार्यसुन्दरि
स्तर्प्यम्पात्रमयन्तत्रविशेषेणचपूजयेत् ९
भागत्रयंविशेषस्यभागमात्रञ्जलङ्क्षिपेत्
तत्रापिसंलिखेत्पूर्वयन्त्रम्पूजाञ्चकारयेत् १०
त्रिकोणेपूजयेद्विद्याम्मयाकोणत्रयेततः
कूटत्रयङ्क्रमेणैवयथाविद्यातथाविधो ११
श्रीविद्याविषयेदेविसम्पुटत्वेनपूजयेत्
सर्वत्रायङ्क्रमोदेव्यानात्रालस्यञ्चरेत्प्रिये १२
देवीमूलषडङ्गानिक्रमेणपरिपूजयेत्
शक्तिकूटंसमुच्चार्यतज्जलञ्चन्द्ररूपकम् १३

पृ० ५८अ) सम्पूज्यमध्येक्रमतःमातृकात्मकमाचरेत्
पञ्चकोशमहाविद्यांसंस्मरेत्तत्रसुन्दरि १४
तार्तीयंश्रीगुरोर्वीजंहंसविद्यामनुञ्जपेत्
वारत्रयञ्चदेवेशिश्रीविद्यांसप्तधायजेत् १५
स्पृष्ट्वार्घ्यकन्ततोगन्धपुष्पाद्यैरर्चयेत्ततः
चिदानन्दमयन्धामनेत्रद्वारगतंस्मरेत् १६
प्रोक्षयेत्तेनसकलम्पूजाद्रव्यान्तरन्ततः
आत्मानमपिसर्वन्तद्विधारूपम्भवेत्प्रिये १७
अङ्गुष्टानामिकाभ्यान्तुवाममार्गेणसुन्दरी
तत्वमुद्रेयमाख्यातामहापापनिकृन्तनी १८
अङ्गुष्टातर्जनीभ्यान्तुज्ञानमुद्रेयमीरिता
अनयापुष्पपूजास्यात्तथातर्पणपूजने १९
भूतशुद्धिविधिङ्कुर्यात् मन्त्रीदेहस्यशुद्धये
वायुबीजेन देहस्य धातवः पापसंयुताः २०
संशोष्य वह्निबीजेन पापेनसहितन् दहेत्
पापं विना पुनर्देहम् अमृतीकृत्य जीवयेत् २१
जलबीजेन देवेशि पार्थिवेन स्थिरीकुरु
ततो देहस्य सन्नाहं सम्यग् न्यासं समाचरेत् २२
कर-शुद्धिविधिङ् कृत्वाचतुरासनदेवताः
पादयोर्जङ्घयोर्जान्वोर्मूलाधारेचविन्यसेत् २३

पृ० ५८ब्) कनिष्टाङ्गुष्टरहितैस्त्रिभिस्तुहृदिविन्यसेत्
मध्यमानामिकाभ्यान्तुन्यसेच्छिरसिमन्त्रवित् २४
शिखाङ्गुष्टेनविन्यस्यदशभिःकवचन्न्यसेत्
हृद्गतैर्नेत्रविन्यासंविन्यसेत्परमेश्वरि २५
तर्जनीमध्यमाभ्यान्तुततोस्त्रंविन्यसेत्प्रिये
आत्मरक्षाकरींविद्यान्द्विरुच्चार्यन्यसेद्वुधः २६
व्यापकत्वेनमूर्तिन्त्वविन्यसेत्सिद्धिहेतवे
अथवक्ष्येमहेशानिश्रीविद्यान्यासमुत्तमं २७
सम्पूर्णाञ्चितयेद्विद्यांव्रह्मरन्ध्रेणसुप्रभां २८
स्रवत्सुधांषोडशार्णाम्महासौभाग्यदांस्मरेत्
वामांशदेशेसौभाग्यदण्डिनीभ्रामयेत्ततः २९
रिपुजिह्वाग्रहाम्मुद्राम्पादमूलेविनिक्षिपेत्
त्रैलोक्यस्यत्वहङ्कर्ताध्यात्वैवन्तिलकेन्यसेत् ३०
सम्पूर्णामेववदनेवेष्टनत्वेनविन्यसेत्
पुनःसम्पूर्णवदनेगलोर्धेविन्यसेत्तथा ३१
सम्पूर्णयाचदेहेत्वव्यापकत्वेनविन्यसेत्
व्यापकान्तेयोनिमुद्राम्मुखेक्षिप्त्वाभिर्वद्यच ३२
त्रैलोक्यङ्क्षोभयत्याशुन्याससन्नद्धविग्रहः
मुष्टिंवध्वोच्चरेन्मन्त्रीतर्जनीदण्डवत्तथा ३३
सौभाग्यदण्डिनीनामरिपून्दण्डयतेक्षणात्
अङ्गुष्टम्मुष्टिगङ्कुर्याद्रिपुजिह्वाग्रहाभवेत् ३४

पृ० ५९अ) संयोज्यहस्तौदेविशितर्जन्यानामिकांयजेत्
तद्वद्वामेचसङ्घृष्ट्ययोन्याकारेणयोजयेत् ३५
उपर्य्यङ्गुष्टयोगेनयोनिमुद्रेयमीरिता
अनयामुद्रयादेवित्रैलोक्यंवशमानयेत् ३६
परिभ्राम्यानामिकान्तुमूर्द्धानम्परितःप्रिये
व्रह्मरन्ध्रेक्षिपेद्देविमणिवन्धेन्यसेत्ततः ३७
ललाटेनामिकाङ्कुर्यात्षोडशार्णांस्मरेत्प्रिये
त्रैलोक्यमरुणन्ध्यायेन्न्याससम्मोहनाभिधः ३८
पादयोर्जङ्घयोर्जान्वोकट्योरन्धुनिपृष्टके
नाभौपार्श्वद्वयेचैवस्तनयोरंशयोस्तथा ३९
कर्णयोर्व्रह्मरन्ध्रेचवदनेन्धुनिपार्वति
ततःकर्णप्रदेशेतुकरवेष्टनयोःक्रमात् ४०
संहारोयम्महान्यासोवीजैःषोडशभिःस्मृतः
गोलकञ्चततःकुर्यात्रैलोक्यक्षोभकारकं ४१
मातृकांविन्यसेत्पश्चाद्गणेशग्रहरूपिणीम्
नक्षत्रयोगिनीराशिपीठवर्णस्वरूपिणीं ४२
सकलाम्नायविद्याभीरङ्कितांविश्वमातरं
शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे ४३
आधारेव्यूहकंयावद्रहस्यायोगिनीर्न्यसेत्
सृष्टिन्यासन्ततःकुर्यात्सर्वसिद्धिःप्रदायकं ४४

पृ० ५९ब्) ब्रह्मरन्ध्रेलिकेनेत्रेश्रुतिघ्राणोष्टकेषुच
ओष्टयोर्दन्तयोर्देविजिह्वायाञ्चोरकूपके ४५
पृष्टेसर्वाङ्गहृदयस्तनकुक्षिषुलिङ्गके
श्रीविद्यार्णैन्यसेद्देविमन्त्रीसर्वसमृद्धये ४६
काननाक्षिश्रुतिघ्राणगण्डोष्टेषुमुखान्तरे
नेत्रयोर्वदनेवर्णान्न्यसेत्सौभाग्यहेतवे ४७
कसीमन्तललाटेषुभ्रूयुगेघ्राणवक्त्रयोः
करसन्धिषुसाग्रेषुशोडषार्णान्क्रमान्यसेत् ४८
शिरोललाटहृद्वक्त्रेजिह्वाषत्सन्धिकोटिषु
षोडशार्णान्न्यसेद्वक्त्रेस्वरस्थानेषुचक्रमात्
ललाटगलहृन्नाभिमूलाधारेषुपञ्चकं ४९
व्रह्मरन्ध्रेमुखेवस्तिवीजत्रयमथोन्यसेत्
आधारेहृदयेव्रह्मरन्ध्रेवीजत्रयन्ततः ५०
करपादेषुहृदयेपञ्चवीजानिविन्यसेत्
व्यापकङ्गोलकङ्कुर्यात्महासौभाग्यहेतवे ५१
श्रीविद्यांहृदयेदेविसम्पूर्णांविन्यसेत्सुधीः
पुष्पैरनामयावापिमनसावान्यसेदणुः ५२
एवंविन्यस्तदेहःसन्मुद्राःसञ्चारयेत्क्रमात्
पूर्वोक्तयोनिमुद्रायाःपृथक्खण्डत्रयङ्कुरु ५३

पृ० ६०अ) अङ्गुष्टाभ्याङ्कनिष्टाभ्याम्मध्यमाभ्याङ्क्रमेणतु
त्रिखण्डानाममुद्रेयन्त्रिपुराह्वानकर्मणि ५४
अनामाभ्याङ्कनिष्टाभ्याम्मध्यमेरोधयेत्ततः
अङ्गुष्टावनिजालग्नौदण्डवतर्जनीद्वयं ५५
क्षोभिणीयम्महामुद्राद्राविणीयन्निगद्यते
एतस्याएवमुद्रायाःतर्जनीमध्यमायुतं ५६
अङ्कुशाकाररूपेणयोजयेत्परमेश्वरि
त्रैलोक्याकर्षिणीमुद्रातृतीयापरिकीर्तिता ५७
पुटाकारौकरौकुर्यात्तर्जन्यावङ्कुशाकृति
परिस्पष्टक्रमेणान्यमध्यमेतदधोगते ५८
क्रमेनतेनमनुवित्कनिष्टानामिकाद्वयं
संयोज्याद्यर्षयेत्सर्वाअङ्गुष्टौचाग्रदेशगौ ६०
सर्ववश्यकरीमुद्राचतुर्थीपरमेश्वरि
सम्मुखौतुकरौयोज्यौमध्यमागर्भगेनुजे ६१
तर्जनीभ्यांवहिर्युक्तअनामेसरलेकुरु
मध्यमानखदेशेतुततोङ्गुष्टौचदण्डवत् ६२
उन्मादिनीनाममुद्रापञ्चमीपरिकीर्तिताः ६३
एतस्याएवमुद्रायाःतर्जन्यौमध्यमानुजे
कुर्वन्महाङ्कुशाकारौमुद्रेयन्तुमहाङ्कुशा ६४
अङ्कुशाख्यम्महावीजम्मनुरस्याःप्रकीर्तितं

पृ० ६०ब्) वामोदक्षिणवाहौतुदक्षिणंसव्यहस्तगं ६५
वाहुङ्कुर्यात्ततोदेविहस्तौसंवर्त्तयेत्क्रमात्
कनिष्टानामिकाद्वन्द्वम्मध्यमापृष्टगन्ततः ६६
तर्जनीमध्यगङ्कुर्यादुभयत्रमहेश्वरि
अङ्गुष्टौसरलौकृत्वापार्थिवेयोजपेदिमां ६७
खेचरीयम्महामुद्रात्रैलोक्यक्षोभकारिणी
विजयायम्महावीजम्मनुरस्याःप्रकीर्तितः ६८
एषासमयमुद्रेयंसर्वासाम्परिकीर्तितां
परिस्पष्टकरौदेवित्वर्धचन्द्राकुतौततः
तर्जन्याङ्गुष्टयुगलंयुगपत्कारयेदथ ६९
अधःकनिष्टावेष्टत्वेमध्यमेचतुयोजयेत्
अनामिकेचकुटिलेसर्वाधस्तुनियोजयेत् ७०
वीजमुद्रेमयाख्यातामनुरस्याहसौमिति
पूर्वोक्तयोनिमुद्रातुनवमीपरिकीर्तिता ७१
शक्तिवृन्देस्फुरन्तीयन्तस्यात्साधारणीभवेत्
वाग्भवम्मनुरेतस्याअतोविश्वस्यमातृका ७२

५६

ईश्वरौवाच
श्रीखण्डरक्तश्रीखण्डश्रीपर्णींसभवेपदे

पृ० ६१अ) चक्रंसंस्थापयेद्देविनान्यत्रपरमेश्वरी १
एवंसन्यस्तदेहःसन्ध्यायेद्व्रह्माण्डमण्डलम्
क्षित्यञ्च्चग्न्यनिलाकाशचित्स्वरूपप्रकाशकं २
चतुरस्रञ्चकोदण्डन्त्रिकोणन्तत्पुटम्मुखं
निरालंवमितिख्यातःमेतद्वैमेरुमण्डलं ३
अस्योर्द्धेव्यापकञ्चक्रंवाक्षट्कपदजृम्भृतं
लीनावाग्वस्तुनिर्देशादपरायोगिषुस्मृता ४
पराश्रीसाम्भवेज्ञानेवानस्पत्यषुमध्यमा
सर्वजन्तुषुपश्यन्तीवैखरीज्ञानयोनिषु ५
एवंवाक्पदसम्पन्नंसहस्रदलनीरजम्
एतस्योर्ध्वेपरञ्चक्रम्परपीयूषमन्दिरम् ६
चतुरस्रन्द्यष्टपत्रञ्चतुःषष्टिदलंशुभम्
शतपत्रंसहस्रारायुतारंलक्षपत्रकम् ७
कोटिपत्रंसुशोभाढ्यन्दीप्यमानन्नभस्तले
तत्कर्णिकापीठमध्येसंस्मरेचक्रनायकं ८
महाषडध्वजननंस्फुरन्तंसर्वतोमुखम्
षडध्वरूपमधुनाशृणुयोगेषुसाम्प्रतम् ९
पदावाचक्रपत्रेषुभुवनाच्चात्रिसन्धिषु
वर्णाध्वामातृकापीठेसर्वमन्त्रविजृम्भिते
षड्विंशतत्वभरितञ्चक्रमूलानुरूपतः १०

पृ० ६१ब्) पञ्चसिंहासनोन्नद्धःकलाध्वाचक्रशासनः
नवधाचक्रभरितातथान्यापरयायुता ११
षोडशार्णास्वरूपाचचक्रंव्याप्यविजृम्भते १२
मन्त्राध्वेतितथाख्यातानीरजायतलोचने
एवंषडध्वसञ्चारीश्रीचक्रम्परिचिन्तयेत् १३
कर्णिकायाम्परंवास्तुततश्चैतन्यमक्षरम्
ततश्चात्मपरन्तत्रस्फुरणंवैन्दवन्ततः १४
ततःस्वरूपममलन्ततःसत्वादिसम्भवम्
चैतन्याकोशपीठञ्चस्वात्मकात्पञ्चशासनम् १५
स्फुरणावल्लभापीठंस्वधापीठन्तुवैन्दवात्
स्वरूपाद्रत्नपीठन्तुतत्वाद्विश्वम्प्रकीर्तितं १६
श्रीविद्यापरमस्थानेचक्रपूर्वादितःप्रिये
महाकोशेश्वरींवृन्दमण्डितासनसंस्थिता १७
सर्वसौभाग्यजननीपादुकाम्पूजयामिच
इत्युच्चार्यपरञ्ज्योतिःपादुकाम्पूजयेत्सुधीः १८
अनेनैवप्रकारेणपूजयेत्पञ्चपञ्चिकाम्
एतत्सर्वात्मकंवस्तुसंलीनम्परवस्तुनि १९
एतत्सर्वात्मकंवस्तुसर्वसौभाग्यसुन्दरी
विन्दुत्रयसमायोगात्रिविधात्रिपुरास्थिता २०

पृ० ६२अ) विन्दुंसङ्कल्पयेद्वक्त्रन्तस्याधस्तात्कुचद्वयं
दधतःसपरार्धञ्चचिन्तयेतदधोमुखम् २१
एवङ्कामकलारूपासाक्षदक्षररूपिणी
विन्दुत्रयार्धमात्राभिःकेवलंविश्वमातृका २२
तत्तस्मात्कारणाद्देवित्रिपुराशक्तिरुच्यते
अन्यासान्त्रैपुरंविन्दुत्रयन्नास्त्येवशाश्वते २३
तदिच्छयाभवेत्सृष्टिर्लयन्तत्रैवगच्छति
सैवदेवीमहेशानीस्वात्मानमितिचिन्तयेत् २४
ओजापूकामरूपाख्याभापीठोपरिसंस्थिते
तिथिसङ्ख्यफणाहीरमध्यमौलिसरोरुहे २५
तत्रास्तेवैन्दवीपीठेतत्तन्नित्याकलांवुजे
ततुकामेश्वरीपीठेनिषण्णान्तत्सधर्मिणीं २६
आज्ञालोकत्रयेशानींव्रह्मविल्वीशशासिनीं
अकारादिक्षकारीतवर्णावयवसुन्दरीं २७
मूलादिव्रह्मरन्ध्रान्तंविसतन्तुस्वरूपिणीं
उद्यद्भास्वत्समाभासाञ्जपाकुसुमसन्निभां २८
सद्यःसन्तप्तहेमाभान्दाडिमीकुसुमोज्वलां
सुङ्गधोद्दामकुसुमपूर्णधम्मिलराजितां २९
तनुङ्कैशकसंराजन्नीत्वभ्रमरकुन्तलां
भङ्गरेखास्फुरन्मुक्तामाणिक्यतिलकोज्वलां ३०

पृ० ६२ब्) स्फुरद्रत्नावलीरम्याम्मुकुटोज्वलकिङ्किणीं
अलक्तकस्फुरच्चन्द्रवदनांविन्दुमादरां ३१
राजश्चन्द्रकलास्फुर्तितिलकाञ्चापसम्भुवं
कर्णचुंविविस्फुरन्नेत्रलोलभ्रूक्षेपसुन्दरीं ३२
हीरमुक्तावलीराजत्स्वर्णटङ्कविराजितां
कर्णभूषणतेजोभिःकपोलस्थलमञ्जरीं ३३
मुखचन्द्रोज्वलच्छक्राकारमौक्तिकनासिकां
स्मितमाधुर्यविजितव्रह्मविद्यारसप्रभां ३४
रक्तोत्पलदलाकारसुकुमारकरांवुजां
करांवुजनखज्योत्स्नावितानितनभस्थलीं ३५
सुवृत्तनिविडोतुङ्गकुचभारालसांशिवां
नवमुक्तामहाहारपदकोन्नतवक्षसां ३६
शातोदरीन्निम्ननाभीङ्क्षाममध्यमसुन्दरीं
अनर्घ्यारत्नघटितमेखलारत्नकिङ्किण्णी ३७
नितंवविंवसुभगांरोमराजीविराजितां
रक्तांशुकस्फुरत्तेजोव्याप्तत्रैलोक्यमण्डलां ३८
दिव्यकञ्चुकसंराजद्रत्नचित्रविराजितां
कदलीललितस्थम्भसूक्ष्मोदरविराजितां ३९
नवरत्नस्फुरतेजोमञ्जीरव्याप्तदेवतां
व्रह्मविष्णुमहेशानस्फुरन्मौलिपदांवुजां ४०

पृ० ६३अ) कर्पूरसकलोन्मिश्रतांवूलपूरिताननां
प्रवालवल्लीघटितपाशक्षौमारुणान्वितां ४१
द्वितीयचन्द्रलेखाङ्कसृणिमाकर्षणक्षमां
सद्विद्याभ्रमरीभूतगुणमिछुसरासनां ४२
कमलाकरसंराजत्पञ्चवाणांश्चविभ्रतीं
महामृगमहोदारकुङ्कुमारुणविग्रहां ४३
सर्वाभरणशोभाढ्यांसर्वालङ्कारभूषितां
सर्वदेवमयीन्देवींसर्वमन्त्रमयीम्परां ४४
सर्वतीर्थमयीन्देवींसर्वशास्त्रमयीम्परां
सर्वतीर्थमयीन्देवीसवाधारस्वरूपिणीं ४५
सर्वसौभाग्यजननींसर्वसौभाग्यसुन्दरीं
एवन्ध्यायेन्महादेवीङ्कदंववनमध्यगां ४६
वहन्नाडिपुटद्वारेनिर्गताचिन्तयेत्ततः
कामेश्वरशिवस्याङ्केस्थापयेत्कुलसुन्दरीं ४७
विद्ययाह्वानरूपिण्यामुद्रयाचतयाप्रिये
मुद्रासन्दर्शयेद्विद्वांस्तर्पणञ्चत्रिधाचरेत् ४८
सर्वोपचारैःराराध्यमानसैःप्रकटैःशुभैः
धुपैर्दीपैर्निवेद्यान्तैःपुनर्मुद्रास्तुदर्शयेत् ४९
पुनःसन्तर्प्यदेवेशितिथिनित्याम्प्रपूजयेत्
एतस्मिन्समयेदेवितत्तत्तिथिमयींयजेत् ५०

पृ० ६३ब्) प्रतिपत्पौर्णमास्यन्तेमेकैकाम्पूजयेत्तुयः
सौभाग्यंलभतेमन्त्रीमहदैश्वर्यमाप्नुयात् ५१
एकादिवृध्याहान्याचदर्शान्तङ्क्रमतोयजेत्
विभाव्यचमहान्मस्रंस्वरैःपञ्चदशात्मकैः ५२
पञ्चपञ्चविभेदेनसर्वान्त्यम्मध्यमेयजेत्
मध्येदेवीम्मयीन्देविमहानित्याम्प्रपूजयेत् ५३
कामेश्वर्यादिकानित्याविचित्रान्ताःक्रमाद्यजेत्
विमलाजयिनीमध्येपूजयेद्गुरुमण्डलं ५४
परादिव्यादिगुरवःसिद्धादेविपरावराः
अपरामानवाज्ञेयामुनिवेदाष्टसङ्ख्यया ५५
आनन्दनाथशव्दान्तापुरुषाःपरिकीर्तिताः
आवान्तागुरवोज्ञेयास्त्रीलिङ्गापरमेश्वरि ५६
कामराजस्यगुरवःकथ्यन्तेशृणुसुन्दरी
परप्रकाशसञ्ज्ञश्चततःपरशिवोगुरुः ५७
पराशक्तिश्चकौलेशःशुक्लादेव्यंविकातथा
कुलेश्वरस्तथादेविकामेश्वर्यांविकागुरुः ५८
अथभोगस्तथाक्लिन्नःसमयसहजस्तथा
गगनोविश्वविमलोमदनोभुवनोगुरुः ५९
लीलास्वात्मप्रियादेविक्रमेणपरिकीर्तिताः
लोपामुद्रागस्त्ययोश्चपरम्पर्यसमोभवेत् ६०

पृ० ६४अ) परमाद्यशिवःपश्चाकामेश्वर्यांविकाततः
दिव्यौघाश्चमहौघाश्चसर्वश्चगुरवःक्रमात् ६१
प्रज्ञादेवीप्रकाशस्तुचतुष्कङ्कथ्यतेशृणु
दिव्यश्चित्रश्चकैवल्यदेव्यंवाचमहोदयः ६२
चिद्धिश्वशक्तिश्चरकःकमलश्चमनोहरः
परस्वात्मागुरुद्वन्द्वम्प्रतिभौष्टौतुमानवे ६३
अन्यासांसर्वविद्यानांसमानागुरवःक्रमात्
अथोपरमकाशश्चपरादिर्विमृशस्तथा ६४
तृतीयःपरमेशानिकामेश्वर्यादिकान्ततः
मोक्षञ्चामृतसञ्ज्ञश्चपुरुषोघोरएवच ६५
अथवासद्गुरुश्चापिसिद्धौश्चश्चोत्तरक्रमात्
उद्भवःपर*श्चैवसर्वज्ञःस्वस्थएवच ६६
सिद्धस्तथाचगोविन्दशङ्करोमानवौघकः
ओद्यत्रयावसानेतुस्वगुरुत्रितयम्भवेत् ६७
यदाद्वादशसङ्ख्यातागुरवस्तुभवन्तिहि
मानवौघाष्टकान्तेतुयुग्मंसङ्कोचयेत्तदा ६८
गुरुत्रयन्तदायोज्यमन्यथानष्टसन्ततिः
जातोमन्त्रीतदादेविपङ्क्त्यर्होनभवत्यसौ ६९
अन्यथागुरुसङ्कोचोनकर्तव्यःकदाचन
परम्पर्यविहीनायेज्ञानमात्रेणगर्वितः ७०

पृ० ६४ब्) तेषांसमयलोपेनकिङ्कुर्वन्तिमरीचयः
गुरुंविनाक्रमंयस्तुकुरुतेपरमेश्वरि ७१
महाहानिस्तस्यदेविजायतेनात्रसंशयः
आलित्रयेणगुरवःसम्पूज्यासिद्धिहेतवे
गुरुमन्त्रेणदेविशिनिजसम्पूजयेद्गुरुम् ७२

५७

ईश्वरौवाच
अथवक्ष्येमहेशानिश्रीविद्याक्रममुत्तमम्
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं १
स्वस्वमुद्राक्रमेणैवपूजयेन्मनुवित्तमः
भूविंवंशोडशारञ्चवसुपत्रङ्क्रमेणतु २
सृष्टिचक्रम्भवेदत्रपूजनङ्कथ्यतेप्रिये
मन्वस्रन्दशकोणञ्चद्वितीयन्दशकोणकं ३
स्थितिचक्रम्पूजनञ्चविभेदेनयजेत्तथा ४
अष्टकोणन्त्रिकोणञ्चवैदवंसंहृतिर्भवेत्
तृतीयःसकलापूज्याअनाख्यंसकलम्भवेत् ५
तुर्याविद्यास्तुसकलाःपूजयेत्क्रमतःसुधीः
अनेनैवप्रकारेणविद्यावृन्दम्प्रपूजयेत् ६
श्रीकोशंसिंहासनगतन्तथाकल्पलतात्मकं
तथारत्नात्मकन्देविचतुरायतनात्मकं ७

पृ० ६५अ) चतुरन्वयगम्भीरंसर्वञ्चपूजयेत्सुधीः
त्रैलोक्यमोहनेचक्रेपञ्चाशद्वर्णविग्रहे ८
प्रकटास्तत्रसंयोज्यासिद्धयोदशसुन्दरि
सद्यःसन्तप्तहेमाभाःपाशाङ्कुशधराप्रिये ९
महाभाण्डाररत्नानिससुवर्णानिवैनिधीन्
प्रयछन्त्यःसाधकभ्योपद्महस्तास्तुपूजयेत् १०
अणिमालघिमासिद्धिर्महिमेशित्वरूपिणी
वशित्वसिद्धिप्राकाम्याभुक्तिरिछाष्टमीभवेत् ११
प्राप्तिसिद्धिसर्वकामासिद्धयःप्रकटायजेत्
द्वारदक्षिणभागेषुतथाकोणेषुचक्रमात् १२
अधऊर्ध्वक्रमात्पूज्यापश्चिमाशादिदेशिकैः
व्राह्मीमाहीश्वरीचैवतथेन्द्राणीतृतीयके १३
कौमारीवैष्णवीचैवषष्टीवाराहिकाभवेत्
चामुण्डाचतथालक्ष्मीःअपरेणचभागतः १४
पाशाङ्कुशधरासर्वाक्रमेणदधतीस्मरेत्
विद्यांशूलञ्चवज्रञ्चशक्तिञ्चक्रङ्गदान्तथा १५
धैर्यान्त्रमालिकम्पद्मङ्क्रमेणपरमेश्वरि
सर्वाभरणसम्पन्नासंस्मरेत्सिद्धिहेतवे १६
सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा
धैर्यान्त्रमालिकम्पद्मङ्क्रमेणपरमेश्वरि १७
सर्वाभरणसम्पन्नासंस्मरेत्सिद्धिहेतवे

पृ० ६५ब्) सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा १८
वश्योन्मादाङ्कुशाख्याचतथामुद्राचखेचरीं
वीजयोनीत्रिखण्डाचपूर्वपश्चिमभागतः १९
पद्मरागप्रतीकाशासिन्दूरतिलकान्विताः
रक्तवस्त्रपरीधानारक्तमालाविभूषिताः २०
स्वस्वमुद्राङ्किताःसर्वाःपाशाङ्कुशलसत्कराः
पूज्यामुद्राप्रयत्नेनस्वेष्टसंसिद्धिहेतवे २१
पश्चिमादिक्रमेणैवप्रकटाचतुरस्रके
सर्वाशापूरकेचक्रेकलास्वरविजृम्भृते २२
पश्चिमादिविलोमेनगुप्ताःसम्पूजयेत्क्रमात्
कामादिकर्षिणीन्नित्यांवुध्याकर्षणिकान्तथा २३
अहङ्काराकर्षिणीचशव्दाकर्षणिकातथा
स्पर्शाकर्षणिकातद्वद्रूपाकर्षणिकान्तथा २४
रसाकर्षणिकान्देविगन्धाकर्षणिकान्तथा
चित्ताकर्षणिकान्तद्वद्वैर्याकर्षणिकाम्प्रिये २५
नामाकर्षणिकाञ्चैववीजाकर्षणिकान्तथा
अमृताकर्षणीञ्चैवस्मृत्याकर्षणिकाम्प्रिये २६
शरीराकर्षणीन्नित्यामात्माकर्षणिकान्ततः
एतानित्याकलादेविचन्द्रमण्डलमध्यगा २७

पृ० ६६अ) स्वरलग्नाःस्मरेन्नित्यंश्रवत्पीयूषवर्षिणीः
पाशाङ्कुशसुधापूर्णकाश्मीरघटदानदा २८
सर्वसङ्क्षोभणेचक्रेकादिलक्षान्तवर्गिणीः
देवीगुप्ततरापूज्यावन्धूककुसुमप्रियाः २९
पाशाङ्कुशास्फुरल्लीलनीलोत्पलकरास्मरेत्
पूर्वादिषुचतुर्दिक्षुकोणेष्वग्न्यादिषुक्रमात् ३०
अनङ्गकुसुमाचैवतथाचानङ्गमेखला
तथानङ्गादिमदनाअनङ्गमदनातुरा ३१
अनङ्गरेखाचानङ्गवेगाचानङ्गपूर्विका
अङ्कुशाचतथानङ्गमालिनीपरमेश्वरी ३२
महासौभाग्यदाचक्रेकटवर्णविराजिते
सम्प्रदायाख्ययोगिन्यःसर्वाभरणभूषिता ३३
इन्द्रगोपनिभाःसर्वाःसगर्वोन्मत्तयौवनाः
पाशाङ्कुशौदर्पणञ्चपानपात्रंसुधामयं ३४
विभृत्यःसर्वसुभगाःपश्चिमादिविलोमतः
शक्तीःप्रपूजयेद्देविसम्प्रदायेनसिद्धये ३५
सर्वसङ्क्षोभिणीशक्तिःसर्वविद्राविणीतथा
सर्वाकर्षणिकाशक्तिःसर्वाह्लादकरीप्रिये ३६
सर्वसम्मोहिनीशक्तिःसर्वस्तम्भनकारिणी
सर्वजम्भनिकानामशक्तिःसर्ववशङ्करी ३७

पृ० ६६ब्) सर्वार्थरञ्जिनीशक्तिःसर्वोन्मादनकारिणी
सर्वार्थसाधकोशक्तिःसर्वसम्पत्तिरूपिणी ३८
सर्वमन्त्रमयीशक्तिःसर्वद्वन्द्वक्षयङ्करी
सर्वार्थसाधकेचकेणभवर्णविशोभिते ३९
जपाकुसुमसङ्काशास्फुरन्मणिविभूषिता
महासौभाग्यगम्भीरापीनवृतघनस्तनी ४०
रत्नपेदीविनिक्षिप्तसाधकेप्सितभूषणान्
नानारत्नमयान्दिव्यान्ददतीतिस्मिताननाः ४१
पाशाङ्कुशौचदधतीसंस्मरेत्कुलयोगिनीः
पश्चिमादिविलोमेनपूजयेत्सर्वसिद्धिदाः ४२
सर्वसिद्धिप्रदादेवीसर्वसम्पत्प्रदाततः
सर्वप्रियङ्करीचैवसर्वमङ्गलकारिणी ४३
सर्वकामप्रदादेवीसर्वदुःखविमोचिनी
सर्वमृत्युप्रशमनीसर्वविघ्ननिवारिणी ४४
सर्वाङ्गसुन्दरीदेवीसर्वसौभाग्यदायिनी
सर्वरक्षाकरेचक्रेमक्षवर्णविभूषिते ४५
पश्चिमादिविलोमेननिगर्भायोगिनीर्जपेत्
उद्यद्भास्वत्सहस्राभामुक्तालङ्कारभूषिता ४६
पाशण्टङ्कायुधज्ञानमुक्तावरलसत्कराः
देवीप्रपूजयेदेताःयथेप्सितफलप्रदाः ४७

पृ० ६७अ) सर्वज्ञासर्वशक्तिश्चसर्वैश्वर्यफलप्रदा
सर्वज्ञानमयीदेवीसर्वव्याधिविनाशिनी ४८
सर्वाधारस्वरूपाचसर्वपापहरातथा
सर्वानन्दमयीदेवीसर्वरक्षास्वरूपिणी ४९
सर्वेप्सिताफलप्रदादशमीपरमेश्वरि
सर्वरोगहरेचक्रेवर्गाष्टकविजृम्भृते ५०
पश्चिमादिविलोमेनरहस्यायोगिनीर्यजेत्
श्रीपीठपरितोधस्ताद्दाडिमीकुसुमप्रभाः ५१
रक्तवस्त्रपरीधानारक्तगन्धानुलेपनाः
रक्तपुष्पाक्षतैःसम्यक्पूजयेत्सर्वसिद्धिदाः ५२
नानाभरणगम्भीरापञ्चवाणधनुर्धराः
पुस्तकंवरदानञ्चदधतीर्वर्गसंस्थिताः ५३
वर्गाष्टकमहावर्णेविन्दुनादाङ्कितालिखेत्
अवर्गान्तेरेफवक्ष्मावामकर्णेन्दुविन्दुमत् ५४
देवीवाग्देवतापूज्यावशिनीनामसुन्दरी
कवर्गान्तेकुलयुताम्पराङ्कामेश्वरींलिखेत् ५५
चवर्गान्तेनवक्ष्माढ्यंवामनेत्रंशशीसमं
अनेनमोहिनीपूज्याटर्गान्तेततःपरम् ५६
वायुक्ष्मावामकर्णेन्दुनादमद्विमलांयजेत्
तवर्गान्तेजकालाग्निवामाक्षीदुकलात्मिकां ५७

पृ० ६७ब्) अरुणाम्पूजयेद्देविपवर्गान्तेथकथ्यते
व्योमजीवमहीनीरवायुमर्घाशभूषितम् ५८
अनेनजपिनीपूज्यापवर्गान्तेथकथ्यते
फरेफकालपवनश्रवणान्तेनपूजयेत् ५९
सर्वेश्वरींसवर्गातेङ्क्षमावह्निसविन्दुमत्
अनेनकौलिनीन्देवीम्पूजयेदष्टमींवुधः ६०
अष्टकान्तेमहेशानिएतावाग्देवतायजेत्
सर्वसिद्धिप्रदेचक्रेत्वकथैश्चमहाक्षरैः ६१
त्रिरेखासर्वशोभाढ्येसमस्तार्णविजृम्भृते
परापररहस्याख्यायोगिनीपूजयेत्क्रमात् ६२
पश्चिमादिक्रमेणैवयुग्मयुग्मविभेदतः
कामेशस्यचकामेशावाणाःसाधारणाप्रिये ६३
ततुर्यन्तद्वितीयञ्चविन्दुनादाङ्कितङ्क्रमात्
कामेश्वरस्यकामेस्याःचापयुग्मंयजेत्प्रिये ६४
अनन्तोविन्दुनामाढ्योहृल्लेखापाशवीजकं
कामेश्वरस्यकामेश्याःक्रमेणपरमेश्वरी ६५
अङ्कुशस्तुसमानंस्यादुभयोपूजयेत्सुधी
चतुर्दिक्षुविशोभाढ्यायौवनोन्नतविग्रहाः ६६
रक्तविद्युल्लताकाणुदामकुसुमान्विताः
नवरत्नविशोभाढ्यास्वस्वायुधकराःक्रमात् ६७

पृ० ६८अ) जम्भमोहवशस्तम्भपदमन्त्रान्विताःशुभाः
अङ्गाचरणवाह्येतुआयुधाष्टकमर्चयेत् ६८
कोणत्रयेषुसम्पूज्यास्तिस्रःकूटत्रयान्विताः
कामेश्वरीचवज्रेशीतृतीयाभगमालिनी ६९
कामेश्वरीशुक्लवर्णाशुक्लमानुलेपना
मुक्ताफलस्फुरद्भूषानानाभरणभूषिता ७०
पुस्तकञ्चाक्षसूत्रञ्चवरदञ्चाभयङ्क्रमात्
द(द) धतीञ्चाग्रतःपूज्यारुद्रशक्तिःप्रकीर्तिताः ७१
वज्रेश्वरीकुङ्कुमाभ्यास्फुरद्रत्नविभूषिताः
वालार्कवसनानीलकर्णकुञ्चितलोचना ७२
इक्षुकोदण्डपुष्पेषुवरदाभयशोभिता
वज्रेश्वरीदक्षभारीविष्णुशक्तिर्महेश्वरि ७३
उत्तरेभगमालांवासद्यःसन्तप्तहेमभा
अनर्घ्यरत्नरचितभूषणाभुवनेश्वरी ७४
पाशाङ्कुशज्ञानमुद्रावरवाणकरांवुजा
व्रह्मशक्तिर्महेशानीतापत्रयनिकृन्तिनी ७५
सर्वानन्दमयीनादरूपेशव्दातिगोचरे
परापररहस्याख्यायोगिनीरतिपूर्विका ७६
त्रिकूटायातुसम्पूज्यामहात्रिपुरसुन्दरी
श्रीविद्यापूजयेद्देविचिन्मयींव्रह्मरूपिणीं

पृ० ६८ब्) तर्पणानिपुनर्दद्याद्गन्धपुष्पाक्षतैर्यजेत् ७७
मानसैःप्रकटैर्देवीम्पूजयेद्वहुभिःप्रिये
मुद्रासन्दर्शयेन्मन्त्रीवन्धूककुसुमप्रभा ७८
नानालङ्कारसुभगास्त्रैलोक्यवशकारिणी
स्वस्वमुद्राःकराःसर्वाःश्रीविद्यासम्मुखाःस्मरेत् ७९
प्रतिचक्रतुमुद्रास्तुक्रमाच्चक्रेश्वरींयजेत्
ततश्चक्रस्यमध्येतुत्वाद्यपूजागताप्रिये ८०
त्रिपुरास्फटिकाभासामुक्तारत्नविभूषिता
पुस्तकञ्चाक्षमालाञ्चकलशम्पद्ममुत्तमं ८१
दधतीञ्चिन्तयेन्नित्याम्महापापविनाशिनीं
त्रिपुरेशीपूर्वरूपासुन्दरीकुङ्कुमप्रभा ८२
सर्वालङ्कारसम्पन्नापुस्तकञ्चाक्षमालिकां
वराभयौचदधतींसामर्थ्यसुसिताननां ८३
अनयासदृशीदेवीध्येयात्रिपुरवासिनी
आरक्तलोचनाप्रान्तेमहामदविघूर्णिता ८४
त्रिपुराश्रीर्महेशानिपीनवृत्तघनस्तनी
उद्यद्भासुत्सहस्राभादिव्यालङ्कारमण्डिता ८५
पुस्तकञ्जपमालाञ्चवरदञ्चाभयङ्करैः
दधतीसकलानन्दामलिनीकथ्यतेपुनः ८६
इन्द्रगोपप्रभादेवीपाशाङ्कुशकपालिनी
महाभीतिहरासम्यक्साधकानन्ददायिनी ८७

पृ० ६९अ) सिद्धांवापरमेशानिध्यायेद्विषविनाशिनीं
सम्पत्प्रदाभैरवीचमहासिद्धिप्रदायिनी ८८
क्रमेणसिद्धिसहिताप्रतिचक्राधिदेवता
अत्युपह्वरमेवेदञ्ज्ञात्वाचक्रंसमर्चयेत् ८९
पादुकाम्पूजयामीतिनमस्कारस्ततोभवेत्
स्वाहाहोमेतर्पणेतुतर्पयामीतिसंस्मरेत् ९०
अथवारस्मयःसर्वादेवीरूपेणचिन्तयेत् ९१
श्रीचक्रेपरमेशानिस्वमन्त्रेस्वस्वसन्निभाः
गोपितव्यन्त्वयाभद्रेस्वयोनिरिवपार्वति ९२

५८

श्रीईश्वरौवाच
नैवेद्यंषड्सोपेतङ्कामधेनुपवित्रितम्
दत्वाकर्पूरसहितन्तांवूलम्परशक्तये १
नित्यहोमम्प्रकुर्वीतपूर्वोक्तविधिनाप्रिये
यथाशक्तिजपङ्कुर्यात्स्तुतिञ्चपरमेश्वरि २
आदिश्लोकद्वयेनापितथासौभाग्यदेवताम्
सुवर्णरौप्यकांस्यादिपात्रेवसुदलंलिखेत् ३
गन्धेनचरुकम्मध्येमुद्रांवातत्रवैन्यसेत्

पृ० ६९ब्) वसुपत्रेषुचाज्येनपूरितातवदीपिकान् ४
भ्रामयेद्रत्नविद्याभिस्त्रिधाध्यात्वातुमस्तके
मूलेनवास्मरेदन्तेसर्वविघ्नोपशान्तये ५
समस्तचक्रचक्रेशीयुतेदेविनवात्मके
आरार्तिकमिदन्देविगृहाणममसिद्धये ६
मण्डलंवामतःकुर्यात्साधकोभूमिजानुमान्
वहत्पुटेनहस्ताभ्याम्मण्डलोद्धारलक्षणं ७
चतुरस्रेव्योमचक्रम्मन्त्रेणानेनपूजयेत्
तारञ्चभुवनेशानीव्यापकादिचमण्डलं ८
ङेतंवर्णचहृन्मन्त्रोमनुःसूर्याक्षरोभवेत्
अत्रोदमिश्रम्भागेनसाधारम्पुष्पपूजितं ९
संस्थाप्यपात्रन्तत्रैवकलार्णेनवलिंहरेत्
तारम्परासर्वविघ्नकृद्भयःसर्वञ्चभूलिखेत् १०
तेभ्योहुंवह्निजायाच्चत्रिवारोच्चारणाद्वलिः
पूर्वोक्तवलिदानन्तुकुर्याद्विघ्नोपशान्तये ११
चतुर्द्धावलिदानन्तुत्रिषुलोकेषुदुर्लभम्
ततःकुमारींसन्तर्प्यत्रिपुरेस्यानपाथवा १२
मयूषान्परमेशान्यासम्भाविमनुवित्तमः
खेचर्य्याशक्तिचक्रस्यस्वामिनीसंविदम्परां १३
योजयेदात्मनिज्ञानगहनेकृपयागुरोः

पृ० ७०अ) शिवकोणेशेषिकाभ्योनिर्माल्यंसिद्धयेक्षिपेत् १४
अर्घपात्रन्ततोदेविगुरवेगुरुमन्त्रवित्
नाममन्त्रेणचस्वस्यस्तर्पयेदुपदेशतः १५
वाममार्गेणदेवेशितत्वमुद्राधरोशुचिः
पुनराधारगङ्कुर्यादाधारन्दीपलक्षणम् १६
आरार्त्रिकस्यमध्यस्थम्मूलेनैवतुभक्षयेत्
कपालिन्यावापिपात्रन्त्वयावापिसमुद्धरेत् १७
द्वितीयन्तत्वयादक्षेसंयोगेनैवपार्वति
तत्वत्रयेणसंयोगातर्पयेत्स्वान्तवासिनीं १८
प्रथमंव्रह्मरूपत्वन्द्वितीयंसर्वमन्त्रवित्
तृतीयमीशरूपञ्चविज्ञेयम्मनुवित्तमैः १९
किञ्चिदुल्लास्यमुद्राभिःपञ्चभिःपरमेश्वरि
आकृष्यमन्त्रान्तत्रस्थांशेषिकाभ्योक्षितादिकं
हत्वातुपरमेशानिसुखीभूयान्नसंशयः
अनिर्वाच्यमविज्ञेयमक्षरैकथितम्मया २२
जालाक्षरेणन्यायेनचन्द्रदीपन्नचप्रिये
गोपितव्यन्त्वयाभद्रेजननीजारगर्भवत् २३

५९

पार्वत्युवाच
होमादिसूचिन्तदेवसम्यग्विस्तारितन्नहि

पृ० ७०ब्) साधकानांहितार्थायक्रिययाकथयप्रभोः १

श्रीईश्वरौवाच
शृणुदेविप्रवक्ष्यामिश्रीविद्यामन्त्रसाधनं
शमीदूर्वाङ्कुराश्वत्थपल्लवैरर्कसम्भवैः २
श्रीचक्रम्पूजयेद्देवीमासमात्रंसमाहितः
सहस्रजन्मजम्पापंहन्तिमासेनदेशिकः ३
पूजयेद्रत्नखचितञ्चम्पकैःस्वर्णजैःप्रिये
अवश्यंसर्वकालेषुपरमाज्ञाधरोभवेत् ४
नाशयेत्सर्वपापानिकोटिजन्मभवान्यपि
समुद्रवलयाम्पृथ्वींसम्प्राप्यसुखमेधते ५
नित्यंयःपूजयेद्देविचम्पकैःरजतोद्भवैः
सवुद्धिमान्भवेदेवीसर्वत्रविजयीभवेत् ६
पश्चिमाभिमुखंलिङ्गन्दृवशून्यमथापिवा
स्वयम्भूवाणदेशेवाशैवस्थानेमहेश्वरि ७
तत्रस्थित्वाजपेन्मन्त्रम्प्रवालाक्षस्रजातथा
मुक्तारुद्राक्षपद्माक्षस्फुटिकोद्भवयाथवा ८
माणिक्यपद्मरागादिमनोहर्य्याजपेद्वुधः
जप्तेलक्षैकमात्रेतुभूचर्योविघ्नकारकाः ९
तासामपियदानासौक्षोभयातिमनागपि
तदालक्षत्रयङ्कुर्यान्नियमेनशुचिर्वुधः १०
भानसेनाथवावाचोपांशुनावाजपेद्वुधः

पृ० ७१अ) मानसोच्चारणन्देविजपकोटिफलप्रदं ११
उपांशूच्चारणादेविवाचिकंशतधाभवेत्
वाचिकन्तुसुमन्त्रंस्यात्श्रीगुरोराज्ञयाप्रिये १२
तद्दशांशेनहोमंस्यात्कुसुमैर्व्रह्मवृक्षजैः
कुसुम्भपुष्पैर्जुहुयान्मधुत्रितयसम्प्लुतैः १३
सिद्धाभवतिविद्येयमविद्यानाशिनीसतां
योनिकुण्डेभगाकारेवर्तुलेत्वर्धजेप्रिये १४
नवत्रिकोणचक्रेवाचतुरस्रेथवाप्रिये
वाक्पतिर्योनिकुण्डेतुभगेचाकर्षणम्भवेत् १५
वर्तुलंश्रीप्रदन्देविराश्यर्घेतुभयम्भवेत्
नवत्रिकोणेमहतिखेचरीसिद्धवान्भवेत् १६
चतुरस्रेतुसकलंशुभजातम्भवेत्सदा
शान्तिकम्पौष्टिकंलक्ष्मीरारोग्यञ्चसुखादिकं १७
पद्माङ्केदशसिद्धिस्तुसाधयेन्नात्रसंशयः
मल्लिकामालतीभिश्चत्रिमध्वाक्तैर्वचःपतिः १८
करवीरैर्जपापुष्पैसघृतैर्भुवनत्रये
योषिद्वश्यन्ततोदेविकर्पूरङ्कुङ्कुमन्नदं १९
मृगस्यमिश्रितङ्कृत्वाकामसौभाग्यवान्भवेत्
चम्पेयैःपाटलैरम्यैस्ताम्रैरन्यैफलैर्हुनेत् २०
सप्ताहमात्रंयोनित्यंलक्ष्मीप्राप्नोतिमन्त्रिणं

पृ० ७१ब्) श्रीखण्डमङ्गुरुन्देविकर्पूरङ्गुगुलंहुनेत् २१
समग्रपुरसुन्दर्योवश्यास्तनभवन्तिहि
हुत्वापलन्त्रिमध्वक्तङ्खेचरत्वञ्चतुष्पथ २२
दधिक्षीरमधुसर्पिःलाजाहुत्वानकालभाक्
अथवानवलक्षन्तुजपेद्विद्यांसमाहितः २३
तद्दशांशेनहोमस्तुपूर्वोक्तविधिनायजेत्
साधयेत्सर्वभूर्लोकपातालतलवासिनः २४
राजिकालवणाभ्यान्तुक्षोभयेज्जगतीमिमां
दध्नाशताष्टकंहुत्वाकालमृत्युंविनाशयेत् २५
घृतक्षीरद्वयादायुततोष्टशतकम्भवेत्
मध्वाज्यगुग्गुलेनैवराजेन्द्रंवशमानयेत् २६
आरोग्यङ्घृतदूर्वाभ्यांहवनेनशताष्टकं
मध्वाज्याक्तैरक्तवर्णैःकरवीरैःसगुग्गुलैः २७
हुनेल्लक्षंवशीकुर्यात्विंशतिन्धरणीम्भुजां
मध्वाक्तकरवीरेस्तुसाङ्गन्धूपंवशन्नयेत् २८
सप्तरात्रेणचाज्येनशशिनापूर्ववयजेत्
पाटलैर्यूथिकाकुन्दैःशतपत्रैश्चजातिभिः २९
मालतीनवमल्लीमिमल्लिकापद्मकिंसुकैः
पूजनाद्धनवान्वापिमिश्रैर्वामिश्रितैरपि ३०

पृ० ७२अ) सर्वसौभाग्यमाप्नोतिवुध्यावाक्पतिरुच्यते
मुचुकुन्दैःर्विल्वपत्रैःफलैरमितनीरजैः ३१
जगरैराजपैश्चापिसिद्धयोष्टौभवन्तिहि
नारिकेलैश्चखर्जूरैर्द्राक्षाभिश्चूतसत्फलैः ३२
मनसाचिन्तितङ्कार्यंसाधकस्यतुहोमतः
पूजनेनचहोमेनश्रीविद्याम्परितोषयेत् ३३
चरुंविकीर्यसर्वत्रकुमारीपूजनादिभिः
पूर्वोक्तवलिदानेनगुरुंसन्तोष्यचक्रमात् ३४
सुवासिनीश्चसम्पूज्यादद्याद्भूरिधनंसतां
समग्रङ्कुसुमंहोमेकुसुमावहुधाहुनेत् ३५
नारिकेरान्तरपलैःसकलैस्तुमनःप्रिये
समग्रेणैवभूतस्यफलेनवरदन्तथा ३६
पनसैर्फलगर्भस्यैर्गरैर्वीजोझितैर्हुनेत्
जांवूफलंसमग्रंस्यात्द्राक्षाञ्चैवतथाहुनेत् ३७
रम्भाफलम्मनोभागंलचुचेत्खण्डितन्नहि
फलंलघुसमग्रंस्यात्कस्तूरीकुङ्कुमंशशी ३८
गुञ्जामात्रंहुनेदेवितिलराशतंहुनेत्
तथैवलवनंलाजामुष्टिमात्रंहुनेद्वुधः ३९
अन्नन्तुग्रासमात्रन्तुपक्वान्नञ्चतथाभवेत्
पुरन्तुक्रमुकार्धेनश्रीखण्डङ्क्रमुकाकृतिः ४०

पृ० ७२ब्) तथागुरुंहुनेदाज्यम्मनःसन्तोषकारिभिः
तच्चतुर्गुणभेदेनदधिदुग्धेहुनेत्सदा ४१
सर्वासाप्तहुतीनान्तुमातन्देविमनःप्रियं
कुण्डस्यपूजनंवक्ष्येमहाविघ्नविनाशनं ४२
चतुर्विंशतिसङ्ख्याभिरङ्गुलीभिसुविस्तृतं
खातञ्चरचयेकुण्डंसर्वत्रसुमनोहरं ४३
चतुरस्रंसर्वनेत्रसुभगम्मेखलाततः
सर्वत्रैकाङ्गुलन्त्यक्तातिस्रःकार्यासुशोभना ४४
आदित्यवसुवेदानांसङ्ख्यागुलिभिरुत्ततः
चतुरङ्गुलविस्तारास्तिस्रोपिपरमेश्वरि ४५
कुण्डस्यपश्चिमेभागेयोनिङ्कुर्यात्सलक्षणां
रव्यङ्गुलस्तुविस्तारंवस्वङ्गुलस्वविस्तृतां ४६
मध्येषडङ्गुलन्देविद्व्यङ्गुल्युच्चाम्मनोरमां
लक्षणञ्चतुरस्रस्यकथितन्तवसुन्दरि ४७
एतस्मिन्न्यातियद्धान्यन्तदन्येषुतथाभवेत्
तेनमानेनसर्वाणिकुण्डानिरचयेद्वुधः ४८
गोमयोदकसंलिप्तेपूर्वात्पश्चिमदिग्गता
दक्षिणायुत्तरान्तातुतिस्रस्तिस्रश्चकारयेत् ४९
प्रणवेनाभ्युक्ष्यमध्येकल्पयेद्यागविष्टरं
शर्करांविकरेत्तत्रत्रिकोणन्तत्पुटंलिखेत् ५०

पृ० ७३अ) तद्वहिर्वसुपत्रञ्चततोभूमण्डलंलिखेत्
उपर्युपरिभेदेनततपीठंसमर्चयेत् ५१
मण्डूकञ्चतथारुद्रङ्कालाग्न्याद्यन्ततःपरं
आधारशक्तिङ्कूर्मञ्चततोनन्तंवराहकं ५२
पृथिवीञ्चतथाकन्दन्नालपद्मञ्चकर्णिकं
पत्राणिकेशराण्येवन्ततस्थानेषुपूजयेत् ५३
धर्मञ्ज्ञानञ्चवैराग्यंऐश्वर्यम्पीठदिक्ष्वच
नञर्थास्तेचकोणेषुपीठस्योपरिपूजयेत् ५४
पुनस्तारेणसम्पूज्ययागविष्टरकंयजेत्
मध्येऋतुमतिंविश्वमातरंवेदमस्तकं ५५
पुरुषाधिष्टितान्ध्यात्वातद्यौनौसम्पुटस्थितां
वह्निकुण्डेपरिभ्राम्यकिञ्चिदङ्गारकन्त्यजेत् ५६
अस्त्रमन्त्रेणसकलान्भूतान्सन्त्राशयेत्सुधीः
पश्चात्प्रज्वालयेद्वह्निञ्ज्ञानाग्निंसङ्क्रमय्यतु ५७
दीपाद्दीपान्तरन्यायास्फुरन्तंसर्वतोमुखं
स्वासमार्गेणमनुवियोनिमार्गेणसङ्क्षिपेत् ५८
कुण्डन्त्रिकोणमध्येतुतत्रप्रज्वालयेच्छुचिं
आदौव्याहृतिभिःपश्चावह्निमन्त्रेणचक्रमात् ५९
चित्पिङ्गलहनद्वन्द्वन्दहद्वन्द्वंयचद्विधा
सर्वज्ञाज्ञापयस्वाहामनुनाप्रार्थयेन्नतः ६०

पृ० ७३ब्) अग्निम्प्रज्वलितंवन्देजातवेदंहुतासनं
सुवर्णवर्णममलंसमिद्धंविश्वतोमुखं ६१
उपस्थानंविद्यायेत्थञ्जिह्वाङ्गानिप्रविन्यसेत्
शषष्णवलरायश्चषष्टस्वरसमन्विताः ६२
विन्दुनादाङ्किताःसप्तजिह्वार्णाःपरिकीर्तिताः
पद्मरागासुवर्णाचतृतीयाभद्रलोहिता ६३
लोहिताचतथास्वेताधूमिनीचकरालिका
क्रमेणयोजयेद्वीजैर्विन्यसेत्परमेश्वरि ६४
पल्लिङ्गगुदमूर्धास्यनासानेत्रेषुवैक्रमात्
सुराश्चपितरश्चैवगन्धर्वायक्षपन्नगाः ६५
पिशाचाराक्षसाश्चैवस्मर्तव्यास्तास्तुसप्तसु
सहस्रार्चिस्वस्तिपूर्णौत्तिष्टपुरुषस्तथा ६६
धूमव्यापीसप्तजिह्वोधनुर्धरैतीरिताः
ङेहृदन्तैःषडङ्गानिततोमूर्त्यष्टकन्न्यसेत् ६७
जातवेदःसप्तजिह्वोहव्यवाहनएवच
विस्वोदरश्चतुर्थःस्यात्वैश्वानरौभेततः ६८
षष्टःकौमारतेजाश्चविश्वदेवमुखान्यसेत्
मूर्धांसपार्श्वकट्युञ्चुकटिपार्श्वांशकेषुच ६९
ङेतास्तुसकलाज्ञेयाअग्निमूर्त्यङ्गकाक्रमात्
एवंविन्यस्तदेहःसन्पर्य्याभ्युक्ष्यजलेनच ७०

पृ० ७४अ) दिक्षुदर्भैःपरिस्तीर्य्यततस्तुपरिशेषयेत्
वैश्वानरन्ततोजातवेदपश्चादिहावह ७१
लोहिताक्षचसर्वान्तेकर्माण्यपिचसाधय
स्वाहान्तोणुरयन्तारवक्त्रश्चित्पिङ्गलेनच ७२
अनेनवह्निमभ्यर्च्यततोजिह्वासमर्चयेत्
मध्येचकोणषट्केचततोङ्गानिप्रपूजयेत् ७३
मूर्तयोवसुपत्रेषुभूविंवेदिगधीश्वराः
पुनर्वैश्वानरंयष्ट्वात्रिकोणमरुणप्रभं ७४
शुक्लांवरंरक्तरत्नभूषणम्पद्मसंस्थितं
वरम्पद्मंस्वस्तिकञ्चाभीतिंहस्तैश्चविभ्रतं ७५
अनेकहेममालाभिरङ्कितंसंस्मरेद्वुधः
अर्घ्योदकेनपात्राणिप्रोक्षयेच्छुद्धयेततः ७६
उन्मुखीकृत्यसर्वाणितत्रविनिक्षिपेत्
प्रणीताप्रोक्षणीयुग्मेजलंस्थाल्यान्धृतन्तथा ७७
अन्यत्सर्वेषुपात्रेषुहोमद्रव्याणिसङ्क्षिपेत्
श्रुक्पात्रेचश्रुवेपात्रेघृतेपुष्पंविनिक्षिपेत् ७८
स्थालीम्पूर्वान्विताङ्कुर्यात्सर्वतोधूपयेत्प्रिये
मेखलासुचसर्वासुवेष्टयेद्दीपमालिकाः ७९
त्रिपङ्क्त्याचाभितःकुण्डन्ततोव्याहृतिभिर्हुनेत्
व्रह्माणन्दक्षिणेभ्यर्च्यहुनेद्वैश्वानराणुना ८०

पृ० ७४ब्) गर्भाधानादिसंस्कारञ्चिन्तयेत्सिद्धिहेतवे
अनेनविधिनाभ्यर्च्यश्रीचक्रन्तत्रचिन्तयेत् ८१
तदन्तरेसमावाह्यमहात्रिपुरसुन्दरीं
समस्तचक्रचक्रेशींसहितांहोमयेत्ततः ८२
दशाज्याहुतिभिःपश्चात्यजनादिक्रमेणतु
समस्तचक्रचक्रेशीप्रकटाद्याश्चयोगिनीः ८३
होमयेच्चघृतेनैवचैकैकामाहुतिङ्क्रमात्
ततःपूर्वोक्ततद्द्रव्यैःहोमयेत्स्वभगाम्परां ८४
हवनम्पद्मरागायांसर्वसिद्धिप्रदम्भवेत्
रुद्रारक्तासुवर्णाचसर्वकामफलाप्तये ८५
लोहितायाम्भवेच्छान्तिस्तम्भनञ्चक्रमाद्भवेत्
उच्चाटनन्तुधूमिन्यान्द्वेषणञ्चैवमारणं ८६
इतितेकथितन्देविहोमलक्षणमुत्तमं
भूतविघ्नौघशमनीनान्यथावरवर्णिनी ८७
दीपस्थानंसमाश्रित्यजपहोमसमाचरेत्
वसुकोष्टंलिखेत्कूर्मम्मध्येस्थानम्प्रकल्पयेत् ८८
स्वरान्द्वन्द्वविभागेनपूर्वादिक्रमतोलिखेत्
कायावर्गास्तुसप्तैतेपूर्वादिक्रमतोलिखेत् ८९
लक्षवर्णौष्टमेयोज्यःकूर्मचक्रमिदम्भवेत्
स्थानाक्षरंयत्रदेवीसिद्धिस्तत्रनसंशयः ९०

पृ० ७५अ) स्थानाक्षरम्मुखेज्ञेयापार्श्वयोस्तस्यवैकरौ
तत्रशून्यम्फलम्मध्येकोष्टयुग्मन्तुमृत्युदं ९१
उदरङ्कच्छपश्यैतत्पादौतुपश्चिमौक्रमात्
रोगहानिकरौपुछन्तयोर्मध्यगतम्भवेत् ९२
दारिद्र्यदन्दुःखदञ्चतस्माद्वक्त्रंसमाश्रयेत्
तत्रैवसिद्धिर्नान्यत्रश्रीगुरोराज्ञयाप्रिये ९३
देशंवाकल्पयेत्स्थानन्नगरङ्ग्राममेवच
दीपेवासोपिकर्तव्यःकिम्पुनर्हवनंयजेत् ९४

६०

श्रीईश्वरौवाच
अथातःसम्प्रवक्ष्यामिचक्रराजस्यसाधनं
एवंसंसिद्धविद्यायाविनियोगक्रमंशृणु १
कृत्वासिन्दूररजसाचक्रन्तत्रविचिन्तयेत्
साध्यप्रतिकृतिर्नामलेखिनीकांशुभान्ततः २
ज्वलन्तीतत्क्षणादेवमोहिताभयवर्जिता
त्यक्तालज्जासमायातिअथान्यत्कथ्यतेप्रिये ३
तत्मध्यसंस्थितोमन्त्रीचिन्तयेदरुणप्रभं
आत्मानञ्चतथासाध्यन्तदासौभाग्यसुन्दरः ४
अरुणैरूपचारैस्तुपूजयेन्मुद्रयावृतः
यस्यनाम्नायुतःसम्यक्सभवेद्दासएवहि ५

पृ० ७५ब्) अदृष्टस्त्रीनामवर्णीश्चक्रमध्येविलिख्यतु
योनिमुद्राधरोभूत्वावेगादाकर्षणम्भवेत् ६
देवकन्यांराजकन्यांवैश्यकन्यामथापिवा
गोरोचनाकुङ्कुमाभ्यांसमभागञ्चचन्दनं ७
अष्टोत्तरशतावृत्यातिलकंसर्वमोहनं
पुष्पम्फलञ्जलञ्चान्नङ्गन्धवस्त्रञ्चभूषणं ८
तांवूलम्पूर्वजप्तञ्चयस्मैसम्प्रोष्यतेसतु
अङ्गनावीक्षणन्देविदासीवत्सापिजायते ९
करवीरैरक्तवर्णैःत्रिमध्वक्तैःप्रपूजयेत्
चिन्तयन्मासमात्रंहिसाध्याख्यांललनान्ततः १०
इतिकुर्वन्महेशानिपूजयेदरुणप्रभां
सिन्दूररचितेचक्रेराजानम्मोहयेत्क्षणात् ११
त्रैलोक्यदुर्लभाञ्चापिरम्भाञ्चाकर्षयेद्रुतं
चिन्तागारेणचक्रन्तुलिखेद्रक्तद्रवेणहि १२
वध्वावाहौथवाक्वावाज्वरन्नाशयतिक्षणात्
अर्कनिंवद्रवाभ्यान्तुलेखिन्यार्कस्यसंलिखेत् १३
द्वयोर्नामसाध्यवाह्यन्देशेचक्रस्यसंलिखेत्
गोमूत्रेस्थापयेत्तच्चभवेद्विद्वेषणङ्क्षमात् १४
धूपयेच्चन्दनंरात्रौवस्त्रंवाधारयेत्ततः
अष्टोत्तरशतावृत्यामोहयेद्भुवनत्रयम् १५
लिप्तङ्गोमयभूमौतुलिखेद्रोचनयाततः

पृ० ७६अ) सरूपाम्प्रतिमांरम्याम्भूषाढ्याम्परिचिन्तयेत् १६
तद्भालगलहृन्नाभिजन्ममण्डलयोजितां
जन्मनाममहाविद्यांसङ्कुसान्तविदर्भितां १७
सर्वाङ्गसन्धिसंलीनाङ्कामकूटंसमालिखेत्
साध्यासाभिमुखीभूत्वाश्रीविद्यान्यासविग्रहः १८
क्षोभिणीवीजमुद्रायांविद्यामष्टशतञ्जपेत्
योजयेताङ्कामगेहेचन्द्रसूर्यकलात्मके १९
सानुरागातिविकलाकामसायकपीडिता
त्रैलोक्यसुन्दरीनामक्षणादायातिमोहिता २०
अथवामात्रिकाञ्चक्रवाह्येसंवेष्ट्यमन्त्रवित्
चक्रम्प्रपूजयेत्सम्यक्विद्याम्पूर्णाञ्चधारयेत् २१
अवध्यःसर्वदुष्टानांव्याघ्रादीनान्नसंशयः
श्रीखण्डागरुकस्तूरीकर्पूरैश्चसकुङ्कुमैः २२
स्वनामक्रमतोलेख्यम्पूर्ववन्मातृकांलिखेत्
तेनाजरामरत्वन्तुसाधकस्यनसंशयः २३
कामकूटेनदेवेशिसन्दर्भ्यपृथगक्षरम्
साध्यनामत्रिकोणान्तम्मातृकांवेष्टयेद्वहिः २४
स्वर्णमध्यगतन्धार्यंशिखायांयत्रकुत्रचित्
लोकपालाश्चराजानोदुष्टास्त्रैलोक्यपूजिता २५

पृ० ७६ब्) तेसर्वेवशमायान्तिसन्निपातादयोज्वराः
अनेनविधिनासाधुपुरीसन्दर्भ्यसङ्क्षिपेत् २६
चतुष्पथेमध्यदेशेदिक्षुपूर्वादिषुक्रमात्
तस्यसौभाग्यमायातिराजानःकिङ्कराःसदा २७
स्फुरत्तेजोमयीम्पृथ्वीम्प्रज्वलन्तिचराचरं
चक्रान्तश्चिन्तयेन्नित्यम्मासषट्कन्ततोनरः २८
तेनकन्दर्प्यसुभगोलोकेभवतिनिश्चयात्
दृष्ट्वाकर्षयतेलोकान्विषन्नाशयतिज्वरान् २९
तथाविषैञ्चहरतिदृष्ट्यावेशङ्करोतिच
रात्रौसिन्दूरलिखितम्पूजयेदेकचित्ततः ३०
करोत्याकर्षणन्दूरायोजनानांशतादपि
अखण्डदिक्षुकोणेषुकमेणपरिपूजयेत् ३१
यदातदैवलोकोयंवश्यो***नान्यथा
भूर्जपत्रेलिखेच्चक्रंरोचनागुरुकुङ्कुमैः ३२
स्वनामदर्भितङ्कुर्याद्देशंवापुटभेदनम्
मण्डलंविषमस्थानम्भूमौचक्रन्निधापयेत् ३३
धारयेद्वाततोमन्त्रीपुरङ्क्षोभयतिक्षणात्
उन्मत्तरसलाक्षार्कक्षीरकुङ्कुमरोचना ३४
कस्तूर्यंलक्तसहिताएकीकृत्यतुसंलिखेत्
यन्नाम्नातस्यदेविशिचौरजंव्याधिजम्भयं ३५

पृ० ७७अ) ग्रहजंव्याधिजञ्चैवरिपुजंसिंहजम्भयम्
अहिजंवाजिजंवापिसर्वान्मोहयतिक्षणात् ३६
रोचनाकुङ्कुमाभ्यान्तुमध्यगासंलिखेद्वुधः
त्रिकोणोभयगाञ्चैवसाध्यनामाङ्कितामधः ३७
तच्चक्रन्धारयेत्तस्मात्सप्ताहात्किङ्करोभवेत्
पीतद्रव्येणचक्रान्तेलिखेद्विद्यामधस्ततः ३८
साध्यनामविलिख्यैतत्पूर्वस्यान्दिशिसङ्क्षिपेत्
तस्माद्व्रह्मापिजीवोपिसर्वज्ञोमूकतांव्रजेत् ३९
अनेनविधिनानीलीरसेनविलिखेच्चतत्
दक्षिणाभिमुखोमन्त्रीवह्नौदग्धारिपून्दहेत् ४०
महिषाश्वपुरीषेणगोमूत्रेणचसंलिखेत्
आरनालास्थितङ्कुर्यात्भवेद्विद्वेषणङ्क्षणात् ४१
साध्यनामलिखेन्मध्येकाममध्येनसञ्चयेत्
संलिख्यरोचनाद्रव्यैराकाशेदृष्टिगन्तथा ४२
शत्रूवच्चाटयेदाशुहठोच्चाटोयमीरितः
महानीलीरसोद्भिन्नारोचनादुग्धमिश्रितैः ४३
लाक्षारसैर्लिखेच्चक्रञ्चतुर्वर्णान्वशन्नयेत्
अनेनविधिनानीरेस्थापयेत्तज्जलेनतु ४४
सौभाग्यम्महदाप्नोतिस्नानपानान्नसंशयः
पीतञ्चक्रंयजेत्पूर्वेस्तम्भयेत्सर्ववादिनः ४५

पृ० ७७ब्) सिन्दूर*लितञ्चक्रमुत्तरेलोकवश्यकृत्
पश्चिमेपूजितञ्चक्रङ्गैरिकालिखितन्ततः ४६
मन्त्रिणोदेवतावश्याकिम्पुनर्योषितःप्रिये
स्तम्भंविद्वेषणंव्याधिमुच्चाटङ्कुरुतेनरः ४७
दुग्धेवश्यकरङ्क्षिप्तंरोचनालिखितंहठात्
दग्ध्वातद्वह्निमध्यस्थंसर्वशत्रून्विनाशयेत् ४८
गोमूत्रमध्यगञ्चेतद्भवेदुच्चाटनंरिपोः
विद्वेषणम्भवेच्चक्रेतेनैवपरमेश्वरि ४९
सिन्दूरेणलिखेच्चक्रन्निर्जनेचचतुष्पथे
सर्ववाह्यतआरभ्यमध्यान्तम्मातृकांलिखेत् ५०
कुलाचारक्रमेणैवरात्रौसम्पूजयेत्क्रमं
साधकःखेचरोदेविजायतेनात्रसंशयः ५१
चतुर्दश्यान्निशिस्वस्थोरुद्रभूमौप्रपूजयेत्
षण्माससङ्ख्ययातेनसाक्षाद्रुद्रैवापरः ५२
अञ्जनंविवरंसिद्धिङ्गुलिकाम्पादुकाञ्जपं
खड्गसौभाग्यवेतालयक्षिणीञ्चेटकादिकं ५३
सकलंसिद्धिजननम्मन्त्रीमाप्नोतिनान्यथा
चतुर्दश्याञ्चतुर्दश्याम्प्रत्यष्टम्यांसमाहितः ५४
एकविंशतिरात्रन्तुनिशिप्रेतशिलातले
श्रीचक्रम्पूजयेत्तद्वत्सुरपूज्यस्तुसाधकः ५५

पृ० ७८अ) पाशाङ्कुशधनुर्वाणैःपौरुषेयैर्महेश्वरि
कामोभूत्वास्वर्गभूस्तुपातालतलयोषितां ५६
हर्ताकर्तास्वयञ्चैवमहदाकर्षणम्भवेत्
तद्वत्कामेश्वरीशस्रैर्देव्यात्माभुवनत्रये ५७
पुरुषाकर्षणञ्चैतद्राजानःकिङ्कराप्रिये
एतत्कामकलाध्यानङ्कथितंवीजभेदतः ५८
वाग्भवाराधनेदेविज्ञानंसारस्वतम्भवेत्
श्वेताभरणवस्त्राढ्यांस्वेतपुष्पैःसमर्चयेत् ५९
अनेनविधिनादेविवाग्भवाराधनम्भवेत्
अथकामकलानामसामर्थ्यंशृणुपार्वति ६०
काममन्मथकन्दर्प्यमकरध्वजएवच
महाकामश्चपूर्वोक्तपञ्चकामाःक्रमेणतु ६१
कामम्मन्मथमध्यस्थदेविकन्दर्प्यवेश्मगं
तत्पुटस्थम्मीनकेतुम्महाकामेशसप्तकं ६२
अनेनकामतत्वेनमोहयेज्जगतीमिमाम्
मूलादिसृष्टिसंहारविसतन्तुतनीयसीम् ६३
तस्मात्कुण्डलिनीशक्तिःशक्तिकूटेमहेश्वरि
त्रिकुटात्रिपुरादेविसर्वसिद्धिप्रदाभवेत् ६४
चतुःषष्टिर्यतःकोट्योयोगिनीनाम्महौजसां
चक्रमेतत्समाश्रित्यसतांसिद्धिप्रदासदा ६५

पृ० ७८ब्)

६१

श्रीईश्वरौवाच
अथदीक्षाविधिंवक्ष्येदुर्लभाम्भुवनत्रये
पूर्वोक्तेनप्रकारेणनवयोन्यङ्कितान्तरं १
वुध्यासंयोजयेन्मन्त्रीयथात्र्यस्त्रम्प्रजायते
वसुकोणन्द्वादशारंषोडशारन्ततःप्रिये २
द्विदशारंवृत्तयुग्मन्ततोष्टदलमालिखेत्
भूविंवञ्चततोमध्येपूजयेत्त्रिपुराम्पराम् ३
आदावङ्गानिसम्पूज्यत्रिकोणेपुरतित्रयम्
मातरोष्टारपत्रेषुवामाद्यानवयोनिषु ४
नित्यानिरञ्जनाक्लिन्नाक्लेदिनीमदनातुरा
मदद्रवाद्राविणीचरुचिराभगवत्पथ ५
कामेश्वरीतथाकामदीपिनीकामुकेश्वरी
ललिताक्षोभिणीमुद्रास्वछन्दललिताक्रमात् ६
शङ्करीभीमभावाचकमलाकमलेश्वरी
नीलग्रीवाविशालाक्षीभेरुण्डापरमेश्वरी ७
कलायोनिषुसम्पूज्याततोविंशतियोनिषु
मायावतीमहाक्षीचततःसर्ववशङ्करी ८
समयासमयीशानीनित्यानन्दामहोदया
सर्वसौभाग्यदानन्दाचन्द्रिकाचन्द्रशेखरा ९

पृ० ७९अ) सर्वेश्वरीचंसम्पूज्यापीठानिवसुपत्रके
भूगृहेत्रिपुरेशीञ्चदीक्षायोन्याङ्कितांयजेत् १०
एतदग्रेषुधान्यैस्तुसाधारङ्कलशंयजेत्
विशेषगन्धपुष्पैश्चस्वर्णरत्नैश्चपूरयेत् ११
समीपेचक्रराजञ्चसम्यगभ्यर्च्यदेशिका
आद्याक्षरेणसंलग्नंसुन्दरन्नामकल्पयेत् १२
आत्मानंयोजयित्वातुगुरुभिस्तैश्चवैततः
स्मर्तव्यागुरवःसर्वेसम्यक्प्रणतिपूर्वकं १३
भूमौलिखित्वाविद्याञ्चसम्यक्पुष्पादिभिर्यजेत
शिष्यायदर्शयेद्विद्याम्प्रजप्तांशतधाप्रिये १४
यदिस्यान्महतीप्रीतिःशिष्यस्यप्राणदस्यतु
तदैकोच्चारमात्रेणदक्षकर्णेजपेत्परां १५
षोडशार्णाम्परांविद्यान्नदद्यात्कस्यचित्प्रिये
राज्ञेराज्यप्रदायापिपुत्रायप्राणदायच १६
शाम्भवज्ञाम्प्रकुर्वीततादृक्खेचरसञ्ज्ञकां
अनिर्वाच्योपदेशस्तुह्यर्शनाद्व्राह्मणोभवेत् १७
कलशस्थैःपल्लवैस्तुत्रिवारम्प्रोक्षयेत्स्वतं
भवेत्तदाभिषिक्तस्तुतदासौदेशिकाग्रणी १८
गण्डूषतत्वसंयुक्तस्तदार्होयंशिवार्च्चने

पृ० ७९ब्) अन्यथानैवसिद्धिस्तुसविकल्पस्यपार्वति १९
नसिद्धिस्तस्यकुत्रापिश्रीविद्याचपराङ्मुखी
गुरवेदीयतेसर्वमज्ञानक्षालयेदपि २०
तस्माद्दीक्षेयमाख्यातामन्त्रसिद्धिकरीप्रिये
दीक्षितःसन्महेशानिविनियोगंसमाचरेत् २१
विशेषार्घविधिङ्कुर्यात्पश्चादूतींसमानयेत्
समयाचारविधिनामण्डितांसुन्दरानना २२
अष्टक्षेत्रकुलोद्भृतान्तरुणीञ्चारुलोचनाम्
आनन्दमुदिताङ्ग्राह्यांविरूपांविकृताननां २३
व्यङ्गांवृद्धांविविक्ताञ्चक्रुद्धाञ्चैवविवर्जयेत्
भगमालांसमुच्चार्यतस्यायोनिम्प्रपूजयेत् २४
श्रीविद्याम्पूजयेत्तत्रनवचक्रक्रमोदितां
स्कलिङ्गेपूजयेद्देविश्रीविद्यांषोडशाक्षरीं २५
कामेश्वरीस्वरूपाञ्चकामशस्त्रविराजितां
कामेश्वरम्प्रवक्ष्यामितत्रभेदेनसुन्दरी २६
वेदादिपीठसंराजत्परापीठनिवासिनीम्
त्रिकूटाहृत्कलादेवीशिवायचजपन्मनुं २७
स्वाधिष्टानञ्चस्वार्णेननवचक्रेश्वरेणहि
पूजयेत्कामरूपःसन्कामशास्त्रीर्च्चितःप्रिये २८
सीत्कारःप्रणवोदेविभाषणञ्जपौच्यते
नित्यानन्दश्चुवनंस्यात्कुचमर्दःशिवार्चनम् २९

पृ० ८०अ) नखदन्तक्षतादीनिपुष्पमालादिपूजनम्
ताडनंहवनंविद्धिवीर्जपुष्पेविसर्जनम् ३०
वीर्जरेतःसमादायविशेष्यार्घेनिधापयेत्
तेनामृतेनश्रीदेवीतर्पयेत्कुलमार्गतः ३१
अतिःप्रगटनाद्देवीविण्मूत्रेस्त्रीरजस्तथा
नखादिरेतोमुख्यानिकुलद्रव्याणिभाग्यतः ३२
भैरवोयदिसञ्जातःसिद्धिस्तस्यनसंशयः
निर्विकल्पस्तुमन्त्रज्ञोव्रह्मसाक्षान्नसंशयः ३३
काम्यन्नैमित्तकञ्ज्ञात्वाश्रीविद्याम्परितोषयेत्
दीक्षितस्याधिकारोत्रनान्यस्यपरमेश्वरि ३४
पुस्तकेलिखितन्दृष्ट्वास्वयञ्ज्ञात्वाकरोतियः
व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः
लिप्यतेनात्रसन्देहोनरकेनिवसत्यसौ ३५

६२

श्रीईश्वरौवाच
अथवक्ष्येमहेशानिपवित्रारोपणम्महत्
यस्मिन्कृतेकृतंसर्वम्मन्यथाशून्यमुच्यते १
गतेसंवत्सरेयस्तुनकरोतिपवित्रकं
एकीकृत्यफलन्तस्यनीयतेदुर्मनैर्वलात् २

पृ० ८०ब्) आषाढौत्तमोमासःश्रावणोमध्यमप्रिये
हीनोभाद्रपदोमासःपक्षेसितसितेतरे ३
प्रशस्तःशुक्लपक्षस्तुतदालाभेसितेतरः
चतुर्दश्यष्टमीपूर्णःमसीतिथिषुपूजयेत् ४
पट्टसूत्रंविशिष्टन्तुकार्पासजनितन्तथा
त्रिगुणन्त्रिगुणीकृत्यप्रक्षाल्यामलवारिणा ५
पश्चिमास्यैक्तमनुभिःदक्षिणैःशोषयेत्ततः
मन्त्रैरथपवित्राणिमनोरम्यानिकारयेत् ६
अष्टोत्तरशतंश्रेष्टन्तदर्धम्मध्यमम्प्रिये
तदर्धञ्चकनिष्टंस्यायथाशक्त्याथवाप्रिये ७
उत्तरास्योदितैर्मन्त्रैर्दशग्रन्थीस्तुकारयेत्
विचित्रयाचित्रयाचकुङ्कुमादिभिरद्रिजे ८
पवित्रदानदिवसात्पूर्वेद्युरधिवासिनी
सद्योधिवासनंवापिकुर्याच्चपरमेश्वरि ९
रात्रौसमयिभिःसार्धन्नित्यपूजादनन्तरं
ऊर्द्धसिंहासनैर्मन्त्रैसूत्रपात्रन्तुवामतः १०
प्रार्थयित्वासुवर्माभ्याङ्कृत्वारक्षावगुण्ठनं
दन्तकाष्टन्तथागन्धभस्मचन्दनमृत्तिकाः ११
सिद्धार्थश्चतथाधात्रीफलञ्चकुलमष्टसु
पूर्वादिक्षुक्रमतःपवित्रंसूत्रभाजनम् १२

पृ० ८१अ) अश्वत्थपत्रपत्रीषुप्रछिपेत्सिद्धिहेतवे
कुमारःसोमस्वाहेशव्रह्मनागशिखीध्वजा १३
सूर्य्यःसदाशिवःसर्वःदेवतास्युर्नवासराः
सूत्रेषुपूजयेद्व्रह्मविष्ण्वींशाश्चत्रिसूत्रके १४
क्रियाचपौरुषीवीरगायत्रीचापराजिता
जयाचविजयादेवीमुक्तिदाचसदाशिवाः १५
मनोन्मनीचनवमीदशमीसर्वतोमुखी
ग्रन्थिस्थादेवताःसर्वाउपचारैःसमर्चयेत् १६
मूलमन्त्रेणचामन्त्र्यपवित्रेषुकलायजेत्
नित्याषोडशदेवेशिश्रीविद्याञ्चस्मरेत्प्रिये
अधिवासविधिःप्रोक्तःपश्चादाराधनम्भवेत् १८
नित्यार्चनानन्तरन्तुनैमित्तिकमिदम्भवेत्
समस्तेभ्यःपवित्राणिकन्यकाभ्यःसभोजनं १९
स्वगुरुम्पूजयेत्पश्चाद्वस्त्रालङ्कारगोधनैः
यथाशक्तिनमस्कृत्यदेवीरूपेणचिन्तयेत् २०
आरोपयेत्पवित्रन्तुवित्तशाठ्यविवर्जितः
गुरुःसम्पूज्यतेयत्रतत्कर्मसफलम्भवेत् २१
सर्वाभावेर्चयेदन्यङ्गुरुगोत्रंसमुद्भवम्
पूजयेत्स्वगुरुंयत्रतत्रयत्रैताःसफलाक्रियाः २२
नपूज्यतेनिष्फलास्तुभवन्तिपरमेश्वरि

पृ० ८१ब्) हुत्वापूर्णाहुतिम्पश्चादग्नौदद्यात्पवित्रकं २३
श्रीचक्रसाध्यसिद्धायैपूजयेत्तान्निवेदयेत्
पर्वैतन्नकरोत्येवतस्यपूजातुनिष्फला २४

इतिपवित्रार्पणविधिः

६३

श्रीईश्वरौवाच
अथवक्ष्येमहेशानिदमनारोपणम्प्रिये
पवित्रपर्ववत्सापिकर्तव्यासाधकैःप्रिये १
चैत्रादयस्त्रयोमासाःपक्षौसितसितेतरौ
एतेषाम्पूर्वपूर्वस्तुकालःसर्वोत्तमोभवेत् २
अष्टम्याञ्चचतुर्दश्याम्पौर्णमास्यामथापिवा
पूर्वरात्रौप्रकुर्वीतसद्योवावाधिवासनम् ३
आमन्त्र्यदमनञ्चाद्यञ्चतुःकल्पलतादिभिः
कामनेत्रसमुद्भूतरतिनेत्रजलाप्लुतः ४
ऋषिगन्धर्वसिद्धानांविमोहकनमोस्तुते
शिवकार्यंसमुदिश्यतेनव्योसिशिवाज्ञया ५
इत्यामन्त्र्यरतिङ्कामन्तत्रसम्पूजयेत्सुधीः
स्वयमुत्पाट्यदमनंसमूलम्पल्लवैर्युतं ६
आनीतमथवान्येनमौल्यादानीतमीश्वरी
वामतस्थापयेद्देविसर्वतोभद्रमण्डले ७
वस्वारेदमनम्पात्रंस्थापयेत्पूजयेत्ततः
प्रणवम्भुवनेशानीरतयेनमैत्यपि ८
इतिमन्त्रोमहेशानिकाममन्त्रस्तुकथ्यते

पृ० ८२अ) प्रणवःकामवीजञ्चकामायनमैत्यपि ९
मन्त्राभ्याम्पूजयेत्तत्रमदनङ्कलिकागतं
ततस्तत्पद्मपूर्वादिदलेषुपुटिकान्यसेत् १०
अष्टस्पष्टाष्टभिर्मन्त्रैरष्टद्रव्ययुताक्रमात्
कामोभस्मशरीरश्चतथानङ्गश्चमन्मथः ११
वसन्तःसखसञ्ज्ञश्चस्मरैक्षुधनुर्धरः
पुष्पवाणःसताराद्याःङेहृदन्ताःप्रकीर्तिताः १२
कर्पूररोचनायुग्मङ्कस्तूरीचततःप्रिये
अगरुङ्कुङ्कुमन्धात्रीफलञ्चन्दनमेवच १३
सुगन्धम्पुष्पनिकरमष्टद्रव्याणिपार्वति
सम्पूज्यदमनंसम्यक्गन्धपुष्पाक्षतादिभिः १४
जपेदनङ्गगायत्रींयथाशक्त्याप्रसन्नधीः
कामदेवायैत्युक्ताविद्महेतिवदेत्ततः १५
पुष्पवाणायधीमहितन्नोनङ्गःप्रचोदयात्
नमोस्तुपुष्पवाणायजगदानन्दकारिणे १६
मन्मथायजगन्नेत्रेरतिप्रीतिप्रियायच
अनेनमनुनादेविनमस्कुर्याततःपरं १७
अथविज्ञापनङ्कुर्याद्देव्यैमदनपाणियुक्
आमन्त्रितासिदेविशिसद्यःकालेमयाशिवे १८

पृ० ८२ब्) कर्तव्यन्तुयथालाभम्पूर्णपर्वतचाज्ञया
विज्ञापनाख्यामन्त्रेणत्रिपुराम्परितोषयेत् १९
ततःसम्पूज्यदेवेशिगन्धपुष्पाक्षतादिभिः
षोडशार्णेजगन्मातुर्वाञ्छितार्थफलप्रदे २०
हृत्स्थान्पूरयमेदेविकामान्कामेश्वरीश्वरी
अनेनप्रार्थयेद्देविपश्चाद्दमनमीश्वरी २१
वर्मावगुण्ठितङ्कुर्यादस्त्रेणापिचरक्षितम्
ततोजागरणङ्कुर्यात्सद्यश्चेज्जागरोनहि २२
अथप्रातसमुत्थायकुर्याद्वैनित्यपूजनम्
ततोनैमित्तिकङ्कुर्याद्दमनेनसुपूजयेत् २३
तेनैवसहिताम्पूजाम्मध्यमम्पुष्पमिश्रितम्
मनोहरञ्चविधिवत्कृत्वानैवेद्यमुत्तमम् २४
सकर्पूरञ्चतांवूलन्दद्यात्सम्प्रार्थयेत्ततः
समस्तचक्रचक्रेशिसर्वविद्याशरीरिणि २५
वेदमातर्ममैतन्तुभवत्विष्टन्तवाज्ञया
ततःस्वगुरुमभ्यर्च्यपुष्पभूषाम्बरादिभिः २६
दत्वादमनकन्तस्मैनमस्कृत्यप्रसाध्यच
जलकेलिन्ततःकुर्यात्शाकंसमयिभिःसुखम् २७
अन्नदानम्प्रकुर्वीतरसैःषड्भिःसमन्वितम्

पृ० ८३अ) एवंयःकुरुतेविद्वान्दमनारोपणक्रमं
तस्यसांवत्सरीपूजाश्रीविद्याधिष्टिताभवेत् २८

सम्पूर्णैषान्दक्षिणामूर्तिसंहिता
शुभम्
जम्वूमध्येलिप्ता१९५०चैत्रे