कुलप्रदीप

श्रीगणेशाय नमः

गुरुं प्रणम्य प्रथमं ततोऽहं गणाधिपं श्रीपरदेवतां च ।
मुदे महोपासककौलिकानां निबन्धमेकं रचयामि रम्यम् ॥ १-१ ॥

ग्रन्थेषु येष्वेषु सदाशिवेन सविस्तरः श्रीकुलमार्ग उक्तः ।
प्रायः कलौ ते सुलभा न सन्ति ज्ञानं च तेषां परमं दुरापम् ॥ १-२ ॥

गुरोः कृपा यत्र भवेत् प्रभूता श्रीदेवतायाश्च महान् प्रसादः ।
तस्यैव पुंसः कुलशास्त्रबोधस्तस्यात्र भक्तिर्न खलापनोघा ॥ १-३ ॥

येषां दृढा भक्तिरिहास्ति शास्त्रे विदन्ति सम्यक् सकलं रहस्यम् ।
प्राग्जन्मपुण्याद् विमला मनीषा तै निन्दकानांस्य भवन्ति लोकाः ॥ १-४ ॥

भीताः पशुभ्ये निजगोपनार्थं निदन्ति केचित् कुलशास्त्रमेतत् ।
केचित् तु निन्दानिरता अबोधा दौष्ट्यैन ये ते निरये नवस्तुम् ॥ १-५ ॥

साधस्य भक्तिः सुदृढात्र शास्त्रे प्रवर्त्ततां स्वस्वशुभापनूनम् ।
यस्यास्ति सा नैवसभिन्नशास्त्रे प्रवर्ततां निन्दकता तु नार्हाः ॥ १-६ ॥

मार्गा दक्षिणवामसञ्ज्ञौ प्रमाणभूतौ वचनैरनेकैः ।
शास्त्रैश्च शैवैरपि वैष्णवैश्च सर्वैर्निषव्यौ समयादिभेदात् ॥ १-७ ॥

ब्रह्मैता पादकहेतुयुक्तं श्राव्यं समस्तागमसारभूतम् ।
कूलप्रदीपाख्यमिदं निबन्धं विलोक्य कौलाः सुखिनो भवन्तु ॥ १-८ ॥

तत्रादौ कुलधर्मप्रसंसा ॥ श्रीकुलार्णवे ॥

श्रीदेव्युवाच

कुलेश श्रोतुमिछामि सर्वभूतदयानिधे ।
कुलधर्मस्त्वया देव सूचिता नप्रकाशिता ॥ १-९ ॥

तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।
वद मे परमेशान यदितेस्तिष्टं या मयि ॥ १-१० ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिप्रछसि ।
तस्या श्रवणमात्रेण योगिनीनां प्रियो भवेत् ॥ १-११ ॥

ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा ।
कथयामि तव स्नेहा शृणुष्वेकाग्रचेतसा ॥ १-१२ ॥

पारम्पर्यक्रमायातं वक्त्राद् वक्त्रेषु संस्थितम् ।
अकथ्यं पारमार्थेन तथापि कथयामि ते ॥ १-१३ ॥

त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् ।
देषम्भक्ताय शिष्याय अन्यथा पतनं भवेत् ॥ १-१४ ॥

सर्वेभ्यश्चोत्तमा वेदावेदेभ्यो वैष्णवं परम् ।
वैष्णवादुत्तमं शैवं शैवाद् दक्षिणमुत्तमम् ॥ १-१५ ॥

दक्षिणादुत्तमं वामं वामात् सिधांअतमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥ १-१६ ॥

गुह्या गुह्यतरं देवि सारात् सारतरं परम् ।
साक्षात् परशिवं देवि कर्णात् कर्णगतं कुलम् ॥ १-१७ ॥

मथित्वा ज्ञानदण्डेन वेदागममहार्णवे ।
सारज्ञेन मया देवि कुलधर्मः समुद्धृतः ॥ १-१८ ॥

एकतः सकला धर्माः यज्ञतीर्थव्रतादयः ।
एकतः कुलधर्मस्तु तत्र कौलोधिक प्रिये ॥ १-१९ ॥

प्रविशन्ति यथा नद्यः समुद्रं तुछचक्रगाः ।
तथैव समयाः सर्वे प्रविष्टाः कुलमेव हि ॥ १-२० ॥

यथा हस्तिपदे लीनं सर्वप्राणिपदं भवेत् ।
दर्शनानि च सर्वाणि समयान्यः समो भवेत् ॥ १-२१ ॥

यथा मरतुरङ्गिन्या न समाः सकलायगाः ।
तथैव समयाः सर्वे कुलधर्मेण नोसमाः ॥ १-२२ ॥

मेरुसर्वपयोर्यद्वत् सूर्यखद्योतयोरिव ।
तथा च समयास्यां च कुलस्य महदन्तरम् ॥ १-२३ ॥

अस्तिचेत्वत् समानारी मत्समः पुरुषोस्ति चेत् ।
कुलेन समधर्मं तु कथयेत् तदा प्रिये ॥ १-२४ ॥

कुलधर्मं हि मोहेन योन्य धर्मेणदुर्मतिः ।
सकृत् साधारतां ब्रूयात् सोत्यजोनां त्यजोत्यजः ॥ १-२५ ॥

यो वै कुलाधिकं धर्ममज्ञानाद्वदति प्रिये ।
ब्रह्महत्याधिकं पापं समाप्नोति न संशयः ॥ १-२६ ॥

कुलधर्मप्रवहणं समारुह्यनरोत्तमः ।
स्वर्गद्वीपान्तरं गत्वा मोक्षरत्नं समुक्त ते ॥ १-२७ ॥

दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः ।
मोक्षं लभन्ते कौले तु सद्य एव न संशयः ॥ १-२८ ॥

बहुने हि किमुक्ते न शृणुमत्प्राणवल्लभे ।
न कौलसमध्र्मोस्ति त्वां शपे कुलनायिके ॥ १-२९ ॥

योगी चैन्नैव भोगी स्याद् भोगी चैन्नैव योगवित् ।
भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये ॥ १-३० ॥

भोगो योगायते साक्षात् पातकं सुकृतायते ।
मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ॥ १-३१ ॥

ब्रह्मेन्द्राच्युतरुद्रादि देवतामुनिराक्षसाः ।
कुलधर्मपरा देवि मानवेषु च काकथा ॥ १-३२ ॥

विहाय सर्वधर्मांश्च नानागुरुमतानि च ।
कुलमेव हि जानीयाद् यदिछेत् सिद्धिमात्मनः ॥ १-३३ ॥

पूर्वजन्मकृताभ्यासात् कुलज्ञानप्रकाशिते ।
सुप्तोत्थितप्रदुद्धिर्वा उपदेशादिकं विना ॥ १-३४ ॥

जन्मान्तरसहस्त्रेषु या वुद्धिर्विहितानृणाम् ।
तामेव लभते जन्तु रूपदेशोनिरर्थकः ॥ १-३५ ॥

शैववैष्णवदौर्गार्क गणपत्येन्दुसम्भवैः ।
एतैर्विशुद्धचित्तस्य कौलज्ञानप्रकाशते ॥ १-३६ ॥

सर्वधर्माश्च देवेशि पुसरावर्तका स्मृताः ।
कुलधर्मे स्थिता ये च ते सर्वेप्यनिवर्तकाः ॥ १-३७ ॥

पुरा कृत तपोदानं यज्ञतीर्थजपव्रतैः ।
क्षीणाद्यानां नृणां देवि कुलज्ञानं प्रकाशते ॥ १-३८ ॥

शुद्धचित्तस्य शान्तस्य धर्मिणो गुरुसेविन ।
अपि गुह्यस्य भक्तस्य कौलज्ञानं प्रकाशते ॥ १-३९ ॥

ससद्भाविनि हर्षाढ्ये सदाचारे दृढव्रतै ।
गुर्वाज्ञा पालके धन्ये कौलज्ञानं प्रकाशिते ॥ १-४० ॥

अनर्हेकुलविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्षवक्तव्यं कुलज्ञानं मयोदितम् ॥ १-४१ ॥

न ब्रूयाछिवधर्मं तु अयोग्ये शिवशासनम् ।
आज्ञाभङ्गहियः कुर्या देवताशापमाप्नुयात् ॥ १-४२ ॥

अबोध्य समयाचारं कुलधर्मं वदेद्यदि ।
सगुरुश्चापिशिष्यश्च योगिनीनां भवेत् पशुः ॥ १-४३ ॥

बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् ।
लभते ता बुभौसाक्षात् योगिनीवीरमेलनम् ॥ १-४४ ॥

अनायसेन संसारसागरं यस्तितीर्यति ।
कुलधर्ममिमं ज्ञात्वा मुच्यते नात्रसंशयः ॥ १-४५ ॥

कुलधर्ममहामार्गगन्ता मुक्तिपुरीं ब्रजेत् ।
अचिरान्नात्रसन्देह तस्मात्कौलं समाचरेत् ॥ १-४६ ॥

कुलशास्त्रमनादृत्य पशुशास्त्राणियोभ्यसेत् ।
स्वगृहे पाय सङ्क्ता भिक्षाअटतिदुर्मतिः ॥ १-४७ ॥

विहायकुलधर्मं यः पशुधर्मं परो भवेत् ।
करस्थं रत्नमुत्सृज्य काचखण्डं समृग्धते ॥ १-४८ ॥

सन्त्यज्य कुलमन्त्राणि पशुमन्त्राणि योभ्यसेत् ।
प्। ४) सधान्यराशिमुत्सृज्य पांशुशाशेञ्जिघृक्षति ॥ १-४९ ॥

कुलान्ययन्तिरस्कृत्य योवानान्वयमीक्षते ।
तडागं त्यज्य नृष्णार्ता मृगतृष्णां प्रधावति ॥ १-५० ॥

पथेन्द्रजालजलभाः क्षणमेव सुखावहा ।
श्रीकौलादन्य समयास्तादृशाः कुलनायिके ॥ १-५१ ॥

कुलधर्ममजनन्यो मोक्षमिछति दुर्मतिः ।
पारावारमपारं सपाणिभ्यां तत् तु मिछति ॥ १-५२ ॥

योवान्य दर्शनेभ्यश्च भुक्तिमुक्तिं च काङ्क्षति ।
स्वप्नलब्धे धनेनैव धनव्यान सभद् यदि ॥ १-५३ ॥

सुक्तौ रजतविभ्रान्तिर्यथा जायेत् पार्वति ।
तथान्य समयेभ्यश्च भुक्तिर्मुक्तिः प्रसस्यते ॥ १-५४ ॥

सर्वकर्मवहीनोपि वर्णाश्रमविवर्जितः ।
कुलनिष्टः कुलेशानि भुक्तिमुक्त्योः सभाजन ॥ १-५५ ॥

कुलज्ञानविहीनोपि कुलभक्त्याः श्रयोभवेत् ।
योपितद्गतिमाप्नोति किमुतास्य परायणः ॥ १-५६ ॥

कुलधर्मोहितोहन्ती रक्षितो रक्षति प्रिये ।
पूजितः पूजयात्याशु तस्मात् त न परित्यजेत् ॥ १-५७ ॥

निन्दन्तु बान्धवा सर्वे त्यजन्तु स्त्रीसुतादयः ।
जनासन्तु मां दृष्ट्वा राजिनो दण्डयं तु वाः ॥ १-५८ ॥

सेवे सेवे पुनः सेवेत् वामेव परदेवते ।
त्व धर्मं नेवमुचामि मनोवाक्काय कर्मभिः ॥ १-५९ ॥

एवमापद्गतस्यापि यस्य बुद्धिः सुनिश्चिताः ।
स तु सम्पूज्यते देविरमुत्राम्ब शिवो भवेत् ॥ १-६० ॥

रोगादारिद्र्यदुःखाद्यैः पाडितोप्यनिशं शिवे ।
यस्त्वामुपासतं भक्त्या शश्वत्पदमाप्नुयात् ॥ १-६१ ॥

जनास्तुवन्तुनिन्दन्तु लक्ष्मीस्तिष्ठतु गछतु ।
मृत्युरद्ययुगान्ते स्यात् कुलं नपरिबर्जयेत् ॥ १-६२ ॥

यो जातो नार्चयेत् त्वा तु कुलधर्मं समाश्रितः ।
कुंसितो जातमात्रेण भूभारेणात्मशत्रुणा ॥ १-६३ ॥

पुलाका इव धान्येषु पूज्यं धा-ई च जन्तुषु ।
वुद्बुदा इव तोयेषु ये कौलविमुखाहि ते ॥ १-६४ ॥

तरवोपि हि जीवन्ति जीवन्ती मृगपक्षिणः ।
सजीवतिमनो यस्य कुलधर्मे व्यवस्थितम् ॥ १-६५ ॥

कुलधर्माविहीनस्य दिनान्यायान्ति यान्ति च ।
प्। ५) सलोहकारभस्नेव श्वसन्नपि नजीवति ॥ १-६६ ॥

गछततिष्ठतोच्यापि जाग्रतो स्वपतोपि वा ।
कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम् ॥ १-६७ ॥

विद्वानपि च मूखोसौधार्मिकोवाप्यधार्मिकः ।
व्रतस्थोप्यव्रतस्थः स्याद् यः कौलविमुखोजनः ॥ १-६८ ॥

जातास्त एव जगतिजन्तवः साधुजीविनः ।
कुलधर्मपरा देवि शेषा जठरगर्द्दभाः ॥ १-६९ ॥

सुषुमानुच्यते सद्भिः कुलधर्मपरायणाः ।
अपरस्तु परं पृष्ट्या मत्स्यकूटत्वचावृतः ॥ १-७० ॥

चतुर्वेदिकलाज्ञानीश्चपचादधमः प्रिये ।
श्चपचोपिकुलज्ञानी ब्राह्मणादितिरिच्यते ॥ १-७१ ॥

गुरुकारुण्यपूतस्तु दीक्षानिर्धूतकल्मषः ।
कुलपूजारतो देवि कायकायो नचेतरः ॥ १-७२ ॥

कौलिकः कुलज्ञानं नपश्यन्ति कदा नवन्दिते ।
नपूजयति शाक्तस्य तत् काकस्येव जीवितम् ॥ १-७३ ॥

ते वन्द्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः ।
येषां भाग्यवशाद् देवि कुलज्ञानं प्रकाशते ॥ १-७४ ॥

ते धन्यास्ते महात्मानः कृतार्थास्तेनरोत्तमाः ।
येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम् ॥ १-७५ ॥

सर्वप्राकारगमनं सर्वतीर्थावगाहनम् ।
यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम् ॥ १-७६ ॥

प्रविशन्ति कुलधर्मं ये चासुकृतिनोनराः ।
ते पुनः जननीगर्भं नविशन्ति कदाचन ॥ १-७७ ॥

प्रसङ्गेनापि यत्किञ्चित् कुलङ्कुलमितारयेत् ।
कुलं तस्या कुलं देवि भवति त्वदनुग्रहात् ॥ १-७८ ॥

कुलज्ञस्य कुलेशानि नान्यधर्मैः प्रयोजनम् ।
कुलाज्ञस्यापि च तथा नान्यधर्मैः प्रयोजनम् ॥ १-७९ ॥

कुलेशिकुलनिष्टानां कौलिकानां महात्मनाम् ।
ददामि परमं ज्ञानमन्त्यः काले न संशयः ॥ १-८० ॥

चिरायासोनकलदं काङ्क्षान्तसमयं जनाः ।
सुख्येन सर्वफलदं कौलं कोपिन वेत्यहो ॥ १-८१ ॥

कुलज्ञो हि ससर्वज्ञौ वेदशास्त्रोद्गितोपि वा ।
वेदशास्त्रागमज्ञोपि कुलाज्ञोप्यज्ञ एव हि ॥ १-८२ ॥

जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे ।
चकारा एव जानन्ति नान्ये चन्द्ररुचीरुचिः ॥ १-८३ ॥

कुलज्ञान एव तुष्यन्ति श्रुत्वा कुल कथं प्रिये ।
प्। ६) अल्पाकूपायि विवर्द्धन्ते ज्योत्स्ना या किं समुद्रवत् ॥ १-८४ ॥

नान्य धर्ममपेक्षन्ते कौलिकाः साखेदिनः ।
भृङ्गाः पुष्पान्तरं यद्वन् मन्दारामोदसेविन ॥ १-८५ ॥

मानयन्ति हि सर्वज्ञा कुलधर्मानेचेतरे ।
शिवः शिरसि धत्तेन्दु सैहिवेयोगिलत्यहो ॥ १-८६ ॥

अभिज्ञा एव जानन्ति नाभिज्ञाः कुलदर्शनाम् ।
जलमिश्रपयः पानं पक्षी किं वेत्ताहं सवति ॥ १-८७ ॥

शिवशक्तिमयोलोकः कौलप्रतिष्ठितः ।
तस्मात् सर्वाधिकं कौलं सर्वसाधाधारणं कथम् ॥ १-८८ ॥

षद्रर्*?नानिमेङ्गानि पादौ कुक्षिः करौशिरः ।
तेषु भेदं तु यः कुर्यान् मदङ्गछेदको हि सः ॥ १-८९ ॥

एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि ।
तस्मान्मदात्मकं कौलं कौलात्मकः प्रिये ॥ १-९० ॥

दर्शनेष्वखिलेद्येक फलदचैक दैवतम् ।
भुक्तिं मुक्तिप्रदं चाम्बकुलेस्मिन्दैवत प्रिये ॥ १-९१ ॥

लोकधर्मविरुद्धोपि सिद्धयोगीश्वरीमते ।
कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः ॥ १-९२ ॥

प्रत्यक्षं च प्रमाणानां सर्वेषां प्रवरं प्रिये ।
उपलब्धे वलात् तस्य हताः सर्वे कुतार्किकः ॥ १-९३ ॥

परोक्षे कोनुजानीते ककिन्नुभविष्यति ।
यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् ॥ १-९४ ॥

कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः ।
इति मत्वा महेशानि मया लोके विगर्हितम् ॥ १-९५ ॥

यस्य जन्मान्तरे पापकर्मबाधोधिकं भवेत् ।
न तस्य गुरुकारुण्यं कौलज्ञानं न जायते ॥ १-९६ ॥

त्वत् कारुण्यविहीनानां कुलज्ञानविरोधिनाम् ।
पशूनामनभिज्ञानां कुलधर्मोविगर्हितः ॥ १-९७ ॥

यथान्धातै?वपश्यन्ति सूर्यं सर्वप्रकाशकम् ।
तथा कुलं न जानन्ति तव माया विमोहिताः ॥ १-९८ ॥

शैव वैष्णव बौद्धादि दर्शनान्यति भक्तितः ।
भजन्ते मानवा नित्यं पृथायासफलानिवौ ॥ १-९९ ॥

वेदशास्त्रगमप्रोक्त भोगमोक्षैकसाधनम् ।
मूढा निदन्ति हाहन्तमत् प्रियं तव दर्शनम् ॥ १-१०० ॥

वामिताश्च मया देवि पशवः शास्त्रकोटिषु ।
कुलधर्मं नजानन्ति वृथा ज्ञानाभिमानिनः ॥ १-१०१ ॥

पशुशास्त्राणि सर्वाणि मयैव कथिता न हि ।
प्। ७) मूर्त्यन्तरं तु गत्वैव मोहनाय दुरात्मनः ॥ १-१०२ ॥

महापापवशान्नृणां तेषु वाञ्छा विजायते ।
तेषां हि सद्गतिर्नास्ति कल्पकोटिशतैरपि ॥ १-१०३ ॥

प्रर्यमाणोपि पापात्मा कुले नैव प्रवर्तते ।
वार्यमाणोपि पुण्यात्मा कुलमेवाबलम्वतो ॥ १-१०४ ॥

कुलधर्मेण दूतत्वं देवाः सम्प्रतिपेदिरे ।
मुनीयोगीश्वराद्यास्तु संसिद्धिं परमां गताः ॥ १-१०५ ॥

पशुव्रतादिनिरताः सुलभामां दाम्भिका भुवि ।
ये कौलमेव सेवन्ते ते महान्तो हि दुल्लभाः ॥ १-१०६ ॥

मानवाबहवः सन्ति मिथ्या तत्त्वार्थवादिन ।
दुर्ल्लभोऽयं कुलेशानि कुलतत्त्वविशारदः ॥ १-१०७ ॥

दुर्ल्लभं सर्वलोकेषु कुलाचारस्य दर्शनम् ।
विपाके नैव पुण्यानां लभते नान्यथा प्रिये ॥ १-१०८ ॥

कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति ।
प्रमाणानि नसन्देहो नहन्तव्यानि हेतुभिः ॥ १-१०९ ॥

इति कुलधर्मप्रसंसा ।

इति श्रीशिवानन्दाचार्य विरचिते कुलप्रदीपे प्रथमप्रकाशः ॥ १ ॥

द्वितीयः पटलः

अथ कौलिकप्रसंसा

कुलपूजा समं नास्ति पुण्यमन्यज्जगत्त्रये ।
तस्माद् यः पूजयेद् भक्त्या भुक्तिमुक्त्योः सभाजनम् ॥ २-१ ॥

अनधीतोप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ।
कुलपूजारतोयस्तु समे प्रियतमो भवेत् ॥ २-२ ॥

कीर्त्यमाने कुले येषां रोमाञ्चोगद्गदस्वरः ।
आनन्दः श्रूयते देवि कथिताः कौलिकेश्वराः ॥ २-३ ॥

सर्वधर्माधिको लोके कुलधर्मः शिवोदितः ।
इति ये निश्चतधीयः प्रोक्तास्ते कौलिकोत्तमाः ॥ २-४ ॥

यो भवेत् कुलतत्त्वज्ञः कुलधर्मविशारदः ।
कुलार्चनरतः सस्यात् कौलिकोदाम्भिकाः प्रिये ॥ २-५ ॥

कुलभक्तान् कुलाचारान् कुलज्ञानान् कुलव्रतान् ।
प्रीतो भवति यो दृष्ट्वा कौलिकः सतु मे प्रियः ॥ २-६ ॥

संस्मृत्य कीर्तितो दृष्ट्वा वन्दितो भाषितोपि वा ।
पुनाति कुलधर्मीष्टश्चाण्डालोपि यदछया ॥ २-७ ॥

सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाधमोऽपि वा ।
देवि यत्र कुलज्ञानी तत्राहं च त्वया सह ॥ २-८ ॥

नाहं वसामि कैलाशे न मेरौ न च मन्दिरे ।
प्। ८) कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनी ॥ २-९ ॥

तत्वत्रय श्रीचरणमूलमन्त्रार्थतत्ववित् ।
देवता गुरुभक्तश्च कौलिकः स्यान्नदीक्षया ॥ २-१० ॥

कुलयोगी चरेद् यत्र ससन्मार्गः कुलेश्वरि ।
सदूरमपिगन्तव्यं यत्र माहेश्वरोजनः ॥ २-११ ॥

इष्टव्यश्च प्रयत्नेन तत्र सन्निहितस्त्वयम् ।
अतिदूरस्थितो वापि दृष्टव्यः कुलदेशिकः ॥ २-१२ ॥

समीपे वर्तमानोऽपि न दृष्टव्य पशुः प्रिये ।
कुलज्ञानी भवेद् यत्र सदेशः पुण्यभाग्जनः ॥ २-१३ ॥

दर्शनादर्चनात् तस्य त्रिसप्तकुलमुद्धरेत् ।
कुलज्ञानि नमालोक्य स्वसन्तानगृहस्थितम् ॥ २-१४ ॥

नृत्यन्ति पितरः सर्वे यास्याम परमां गतिम् ।
सम्यक् संशन्ति पितरः सुवृष्टिर्मिववर्षिकाः ॥ २-१५ ॥

कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् ।
सधन्यः खलुलोकेस्मिन् पुरुषः क्षीणकल्मषः ॥ २-१६ ॥

यत् समीपं समायान्ति कुलाचार्या मुदा प्रिये ।
कौलिकेन्द्रि समायाते कौलिका व सथं प्रति ॥ २-१७ ॥

समायान्ति मुदादेवि योगिन्यो योगिभिः सह ।
प्रविश्य कुलयोगीशं भुञ्जेते पितृ देवताः ॥ २-१८ ॥

तस्मात् सम्पूजयेद् भक्त्या कुलज्ञाने व ना परान् ।
अभ्यर्च्ययित्वा त्वां देवि त्वद्भक्त्यान्नार्चयेति ये ॥ २-१९ ॥

पापाष्टास्त्वत् प्रदत्तस्य भाजनं न भवन्ति ते ।
यत् कृतं कुलनिष्टानां तद्देवानां कृतं भवेत् ॥ २-२० ॥

देवाः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् ।
नतुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः ॥ २-२१ ॥

कौलिकैर्चितः सम्यग् यथा तुष्यामि पार्वति ।
यत् फलं कौलिकेन्द्राणां पूजनाल्लभते प्रिये ॥ २-२२ ॥

तत्फलं नाप्नुयात्तीर्थतपोदानयमब्रतैः ।
दत्तमिष्टं हुतं जप्तं पूजितं तप्तमम्बिके ॥ २-२३ ॥

कौलिकस्य भवद्व्यर्थं कौलिकं यो व मानयेत् ।
श्मशानं तद्गृहं देवि भस्मनी बहुतं यथा ॥ २-२४ ॥

यथा शक्त्या तु यत् किञ्चिद् योदद्यात् कुलयोगिने ।
विशेषतिथिषु प्रीत्या तत् फलं नैव गण्यते ॥ २-२५ ॥

यो देवि स्वयमाद्गायकुलज्ञाना शुभे दिने ।
अभ्यर्च्य देवता बुध्या गन्धपुष्पाक्षतादिभिः ॥ २-२६ ॥

मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् ।
तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः ॥ २-२७ ॥

प्। ९) भगनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने ।
मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते ॥ २-२८ ॥

अनिखातविनिक्षिप्तम् अप्रयत्नेन वर्द्धितम् ।
परलोकस्य पाथेयं वीरवक्त्रेर्पितं मधु ॥ २-२९ ॥

पापाचारसमायुक्तं सर्वलोकबहिष्कृत ।
त्रायते हि कुलद्रव्यं कुलगीश्वरार्पितम् ॥ २-३० ॥

यस्मिन् देशे वसेद्वीरः कुलपुजारतः प्रिये ।
सोपि देशो भवेत् पूतः किं पुनस्तत् पुरस्थितः ॥ २-३१ ॥

कौलिकेन्द्रे सकृद् भक्ते पुण्यं कोटिगुणं भवेत् ।
किं पुनर्बहुभिर्मुक्तैस्तत् पुण्यं नैव गण्यते ॥ २-३२ ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलधर्मरतोभूयात् कुलज्ञानिनमर्चयेत् ॥ २-३३ ॥

यो निन्दास्तुतिं शीतोष्णसुखदुःखादिबन्धुषु ।
नाशक्तः स तु योगीशो हर्षाहर्षविवर्जितः ॥ २-३४ ॥

निःसङ्कल्पविकल्पश्च निलोनोपाधिवासतः ।
निजस्वरूपनिर्मायाः सयोगी परतत्त्ववित् ॥ २-३५ ॥

यथा पग्बन्धवधीरक्लीवमूकजडादयः ।
निवसन्ति कुलेशानि यथा योगी च तत्ववित् ॥ २-३६ ॥

पञ्चमुद्रा समुत्पन्न परमानन्दनिर्भरः ।
य आस्ते स तु योगीन्द्रः पश्यन्नात्मानमात्मनि ॥ २-३७ ॥

सदा मांसासवोल्लासः सदा चरणाचिन्तकः ।
सदा संश्यय हीनोयः कुलयोगीस उच्यते ॥ २-३८ ॥

पिवन्मद्यं पलं खादं स्वेछाचारपरायणः ।
अहन्तर उभयोरैक्यं भावयन्निवसे सुखम् ॥ २-३९ ॥

आमिषा सवसौरभ्यहीनं यस्य मुखं भवेत् ।
प्रायश्चित्ती सर्वर्ज्यश्च पशुरेव न संशयः ॥ २-४० ॥

यावदा सवगन्धस्यात् पशुः पशुपतिः स्वयम् ।
विना लि मांसगन्धेन साक्षात्पशुपतिः पशुः ॥ २-४१ ॥

लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् ।
कुलमार्गे समुद्दिष्टं भैरवेण महात्मना ॥ २-४२ ॥

अनाचारः सदाचारस्त्वकार्यं कार्यमुत्तमम् ।
असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि ॥ २-४३ ॥

अपेयमपि पेयं स्याद् अभक्षं भक्ष्यमेव च ।
अगम्यमपि गम्यं च कौलिकानां कुलेश्वरि ॥ २-४४ ॥

नविधिर्ननिषेधश्च न पुण्यं न च पापकम् ।
न स्वर्गो नैव नरकः कौलिकानां कुलेश्वरि ॥ २-४५ ॥

शत्रवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः ।
बान्धवन्ति जनाः सर्वे कालिकानां कुलेश्वरि ॥ २-४६ ॥

प्। १०) दुर्मुखाः सुमुखाः सर्वे गर्बिताः प्रणमन्ति च ।
बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि ॥ २-४७ ॥

दुर्गुणाः सद्गुणायन्ते अकुलं सकुलायते ।
अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि ॥ २-४८ ॥

मृत्युर्वैद्यायते देवि स्वर्गः साक्षाद्गृहायते ।
पुण्यायतेगं नासङ्गः कौलिकानां कुलेश्वरि ॥ २-४९ ॥

अनभिज्ञा अभिज्ञन्ति दरिद्राधनदन्ति च ।
विनष्टापि वर्द्धन्ते कौलिकाः कुलनायके ॥ २-५० ॥

बहुनात्र किमुक्तेन कुलयोगीश्वरः प्रिये ।
सदा सङ्कल्प संसिद्धो नात्र कार्या विचारणा ॥ २-५१ ॥

येन केनापि वेषेण येन केनाप्य लक्षितः ।
यत्र कुत्राश्रमं तिष्टं कुलयोगी प्रवर्तते ॥ २-५२ ॥

योगिनो विविधैर्वेषैर्नराणामुपकारिणः ।
भ्रमन्ति पृथिवीमे नामविज्ञात स्वरूपिणाः ॥ २-५३ ॥

अलक्ष हि यथा लोके व्योम्नि चन्द्रार्कयोर्गतिः ।
नक्षत्राणां तथा वृत्तं तथा वृत्तं च योगिनाम् ॥ २-५४ ॥

आकाशे पक्षिणां चैव जलेऽपि जलचारिणाम् ।
यथा गतिर्न दृश्येत तथा वृत्तं महात्मनाम् ॥ २-५५ ॥

असन्त इव भाषन्ते कुलयोगविशारदाः ।
जना यथा व मन्यन्ते गछेसुर्नैव सङ्गति ॥ २-५६ ॥

मुक्ते बालवक्त्रीडेकुशलो ज उ वच्चरेत् ।
वदे उन्मत्त वद्विद्वान् कुलयोगी कुलेश्वरि ॥ २-५७ ॥

यथा हसति लोकोयं जुगुप्सति च कुत्सति ।
विलोक्य दूरतो याति तथा योगी प्रवर्तते ॥ २-५८ ॥

क्वचिछिष्टः क्वचिद्भृष्टः क्वचिद्भूतपिशाचवत् ।
नानावेषधरोयोगी विचरेत महातले ॥ २-५९ ॥

योगी लोकोपकाराय भोगान्भूक्तान काङ्क्षया ।
अनुगृहान् जनान् सर्वान् क्रीडते जगतीतले ॥ २-६० ॥

सर्वपायी यथा सूर्यः सर्वभक्षी यथा नलः ।
योगि भुत्त्काखिलान्भोगांस्तथा पापानलिप्यते ॥ २-६१ ॥

यथा ग्रामगतं तोयं नदीयुक्तं भवेछुचि ।
तथाम्लेछगृहान्नादि योगी हस्तार्पितं शुचिः ॥ २-६२ ॥

श्रीरुद्रयामले

कन्याकोटि प्रदानस्य हेमभारशतस्य च ।
फलमाप्नोति देवेशि कौलिके बिन्दुदानतः ॥ २-६३ ॥

द्वितीयं प्रथमायुक्तं यो दद्यात्कुलयोगिनम् ।
तृप्यन्ति मातरासर्वाः योगिन्यो भैरवादिकाः ॥ २-६४ ॥

पृथिवीहेमसम्पूर्णं दत्वा यत् फलमाप्नुयात् ।
तत्पुण्यं कलिके दत्वा त्रतीयं * थमायुतम् ॥ २-६५ ॥

अश्वमेधादिकं पुण्यमन्नदानान्महर्षिणाम् ।
तत्फलं लभते विप्रो कौलिके दत्तमुद्रया ॥ २-६६ ॥

गवां कोटि प्रदानेन यत्पुण्यं लभते नरः ।
तत्पुण्यं कौलिके देवि पञ्चमस्य प्रदानदः ॥ २-६७ ॥

तिश्रः कोट्योर्द्धकोटी च तीर्थस्नानेन यत् फलम् ।
तत्पुण्यं लभते देवि कौलिकः शक्तियोगतः ॥ २-६८ ॥

ब्रह्मयामले

माहेश्वरसमालोक्य पूजयेद्विधिपूर्वकम् ।
यथा विभव पूर्वेण पञ्चतत्त्वं निवेद्य च ॥ २-६९ ॥

तदा तु भवेद् देवि सर्वान् कामान् वाप्नुयात् ।
अन्यथा नैव सिद्धिस्यात् क्रुद्धाभवति चण्डिका ॥ २-७० ॥

मेदिनीं यस्तु सम्पूर्णां ब्राह्मणे वेदपारगे ।
दत्वा यत्फलमाप्नोति तत् फलं कौलिकार्चने ॥ २-७१ ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।
द्रष्ट्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने ॥ २-७२ ॥

मेरुतुल्यसुवर्णं तु ब्राह्मणे वेदपारगे ।
दत्वा यत् फलमाप्नोति तत् फलं कौलिकार्चने ॥ २-७३ ॥

वापी कूपतडागादि कृत्वा यत् फलमाप्नुयात् ।
तत् फलं लक्षगुणितं कौलिकानां प्रपूजने ॥ २-७४ ॥

कौलिकं निन्दयेद्यस्तु कुलशास्त्रपरायणः ।
सयाति नरके घोरे सत्यमेव न संशयः ॥ २-७५ ॥

इति कौलिकप्रसंसा ।

अत कुलपूजा प्रसंशा ।

कुलपूजासुनियमं यः करोति हि कौलिकः ।
कुलेशि समवाप्नोति योगिनी वीरमेलनम् ॥ २-७६ ॥

नीचो वापि सकृद् भक्त्या कारयेद् यः कुलार्चनम् ।
ससद्गतिमवाप्नोति किमुत्तान् ये द्विजातयः ॥ २-७७ ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलपूजारतो भूयाद् अभीष्टफलसिद्धये ॥ २-७८ ॥

कुलपूजाधिकोयज्ञः कुलपूजाधिकं व्रतम् ।
कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः ॥ २-७९ ॥

कुलपूजाधिकं दानं कुलपूजाधिका क्रिया ।
कुलपूजाधिकं ध्यानं कुलपूजाधिकोजपः ॥ २-८० ॥

कुलपूजाधिकोलाभः कुलपूजाधिकं सुखम् ।
कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् ॥ २-८१ ॥

प्। १२) कुलपूजाधिकं ज्ञानं कुलपुजाधिकं पदम् ।
कुलपूजाधिको योगः कुलपूजाधिकं गतिः ॥ २-८२ ॥

कुलपूजाधिकं भाग्यं कुलपूजाधिकं धनम् ।
कुलपूजाधिका विद्या कुलपूजाधिकार्चनम् ॥ २-८३ ॥

नास्ति नास्ति पुनर्नास्तित्वांशपेकुलनायिके ।
बहुनात्र किमुक्तेन रहस्यं शृ * प्रार्वती ॥ २-८४ ॥

देवि शास्त्रोक्तमार्गेण कुलपूजा करोति यः ।
तत् समीपे स्थितं मां तु विधिनान्यत्र भामिनी ॥ २-८५ ॥

इदं सत्यमिदं सत्यमिदं सत्यं न शंशयः ।
आगमोक्तेन विधिना पूर्ववत् तद् विधानवित् ॥ २-८६ ॥

पदार्थैस्तोषयेत् सम्यक् यथा विभवविस्तरम् ।
भवन्ति देवताः प्रीताः सर्वकामफलप्रदाः ॥ २-८७ ॥

देवेशि साधकाभिष्टं प्रयछन्ति न संशयः ।
इत्यादि देवता पूजां विशेष दिवसेषु यः ॥ २-८८ ॥

करोति शास्त्रविधिना सभवेदावयोः प्रियः ।
श्रीचक्रं कौलिकोमोहाद् विशेषदिवसेषु य ॥ २-८९ ॥

नकारोति समर्थः सन्सभवेद्योगिनी पशुः ।
कुलपूजान्तरायं तु यः करोति हि दुर्मतिः ॥ २-९० ॥

सपातिनरके घोरे मेकविंशतिभिः कुलैः ।
तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् ॥ २-९१ ॥

लभते सर्वसिद्धिं च नात्रकार्या विचारणा ।
आराधनासमर्थश्चेदद्यादर्चनसाधनम् ॥ २-९२ ॥

यो दातुं नैव शक्तोति कुर्यादर्चनदर्शनम् ।
सम्यक् शतक्रतूनां च कृत्वा यत् फलमाप्नुयात् ॥ २-९३ ॥

तत् फलं समवाप्नोति सकृत्कृत्वा क्रमार्चनम् ।
यत् कृत्वा षोडश महादानानि लभते प्रिये ॥ २-९४ ॥

तत् फलं समवाप्नोति सकृत्कृत्वा क्रमार्चनम् ।
सार्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् ॥ २-९५ ॥

तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ।
बहुनोक्तेन किं देवि यथा शक्त्या ददाति यः ॥ २-९६ ॥

कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् ।
शैवे वैष्णवशाक्ते च सौरे सुगतदर्शने ॥ २-९७ ॥

वौद्धे पाशुपते साङ्ख्ये मन्त्रे काली मुखे तथा ।
सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति ॥ २-९८ ॥

विनालिपिशिताभ्यां च या पूजा निःफला भवेत् ।
कुलद्रव्यैर्विना कुर्याज्जपपूजा तपोव्रतम् ॥ २-९९ ॥

निःफलं तद् भवेद् देवि भस्मनी व यथा हुतम् ।

कुलचूडामणौ ।

नित्य श्राद्धं यथा सन्ध्या वन्दनं पितृतर्पणम् ॥ २-१०० ॥

त?थेयं कुलसेव्यानां नित्यता कुलपूजने ।
मद्यं मांसं विनावत्स कुलपूजां समाचरेत् ॥ २-१०१ ॥

जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति ।
विनामद्येन मांसेन पुष्कली सेवनं विना ॥ २-१०२ ॥

नमन्त्रः सिद्धिमाप्नोति तस्माद् यत्नपरोभवेत् ।

इति कुलपूजा प्रसंसा ।

अथ समयापूजानि रूपणं यथा ।

उत्तमा नित्यपूजा स्यात् पर्वपूजा च मध्यमा ॥ २-१०३ ॥

मासपूजाधमा देवि मासादूर्धपशुर्भवेत् ।
विहितैर्मादिभिर्द्रव्यै मासादूर्धमनर्चनात् ॥ २-१०४ ॥

पशुर्भूयः प्रवेशे चेद् इछा स्याद् दीक्षयेत् पुनः ।
कृष्णाष्टमीचतुर्दश्यावमावास्या च पूर्णिमा ॥ २-१०५ ॥

सङ्क्रान्तिः पञ्चपर्वाणि तेषु पुण्यदिनेषु च ।

पुण्यदिनानि तु कुलमूलावतारे यथा ।

देवता तिथिनक्षत्रवारयोगेषु चेश्वरि ॥ २-१०६ ॥

सोमसूर्योपरागेषु मन्वादिषु युगादिषु ।
देशिकागमने चैव वीरस्वजनदर्शने ॥ २-१०७ ॥

गुरुजन्मदिने प्राप्तेस्तद्गुरोस्तद्गुरोरपि ।
मानवौघादि पुंसां च स्वजन्मदिवसेपि च ॥ २-१०८ ॥

सम्पत्तौ च जपौ लाभै तपोदीक्षाव्रतोत्सवे ।
पीठोपपीठगमने वीरस्वजनदर्शने ॥ २-१०९ ॥

देशिका गमने पुण्ये तीर्थदैवतदर्शने ।
य एवमादिषु देवेशि विशेषदिवसेषु च ॥ २-११० ॥

रोगेष्वापत्सुदोषेषु दुःसङ्गेदुर्निमित्तके ।
यथा बलं यथा श्रद्धा यथा द्रव्यं यथोचितम् ॥ २-१११ ॥

यथा कालं यथा देशं तथा पूजां समाचरेत् ।

लिङ्गागमे ।

सङ्क्रान्तिनवमीं पूर्णां चाष्टमीं च चतुर्दशीम् ॥ २-११२ ॥

एकादशी व्यतीपाते कर्मलोपं न कारयेत् ।
तत्त्वहीनां कृतं कर्मजपपूजा च निःफलम् ॥ २-११३ ॥

शाम्भवी कुप्यते तस्मै ब्रह्महत्यां पदे पदे ।

तन्त्रराजे ।

गुरोस्तु जन्मदिवसे विद्यां प्राप्तदिनं तथा ॥ २-११४ ॥

स्वजन्मदिवसं नाथ व्याप्ति वासरमेव च ।
अक्षरत्रयसम्पातदिनं पूर्णादिनं तथा ॥ २-११५ ॥

षट्पर्वाणि वसिष्टानि सदर्शसप्तपर्वकम् ।

यामले ।

प्। १४) दमना रोपणं चैत्रे श्रावणे च पवित्रकम् ॥ २-११६ ॥

कुलार्णवे ।

स्वाचार्येणाथवान्येन कारयेत् तत् कृमार्चनम् ।
स्वयं वा पूजयेद् देवि वृन्दपूजा पुरःसरम् ॥ २-११७ ॥

सतेलोकमवाप्नोति पुनरावृत्तिवर्जितम् ।
नित्यार्चनं दिवा कुयाद् रात्रौ नैमित्तिकार्चनम् ॥ २-११८ ॥

उभयोः काम्यकर्माणि इति शास्त्रस्य निश्चयः ।

स्वतन्त्रे ।

रात्रावेव महापूजा कर्तव्या वीरवन्दिते ॥ २-११९ ॥

नदिने सर्वथा कार्या शासनान्मम सुव्रते ।

कुलचूडामणौ ।

कुलवारे कुलाष्टम्यां चतुर्दश्या विशेषतः ॥ २-१२० ॥

योगिनी पूजनं तत्र प्रधानं कुलपूजनम् ।
यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितो प्रदः ॥ २-१२१ ॥

तथा कुलतिथौ शक्तिः पूजिता वाञ्छित प्रदा ।

कुलवारादि लक्षणं तु यामले ।

रविश्चन्द्रोगुरुः सौरी चत्वारश्चाकुला स्मृताः ॥ २-१२२ ॥

भौमशुक्रौ कुलाख्यौ तौ बुधवारकुला कुला ।
द्वितीयादशमीषष्ट्यः कुलाकुलमुदाहृताः ॥ २-१२३ ॥

विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुला ।
वारुणाद्रीभिजिन्मूलं कुलाकुलमुदाहृतम् ॥ २-१२४ ॥

कुलानिसमसङ्ख्यानि शेषभान्यकुलानि च ।
तिथिवारे च नक्षत्रे कुलस्थेजयिनोयोतः ॥ २-१२५ ॥

कुलाख्ये जयिनो नित्यं सौम्यं चैव कुलाकुले ।
कुलवारादिकं ज्ञात्वा साधकः कर्मकारयेत् ॥ २-१२६ ॥

इति कुलपूजा समयनिरूपणम् ।

इति श्रीशिवानन्दाचार्य विरचिते कुलप्रदीपे द्वितीयः प्रकाशः ॥ २ ॥
तृतीयः पटलः

अथ पूजा द्रव्यनिरूपणम् ॥

श्रीसमयाचारतन्त्रे

शिव उवाच

पूजा द्रव्यं प्रवक्ष्यामि पूजकाभिष्टसिद्धये ।
यद् ज्ञात्वा मन्त्रवित्सम्यक् फलमाप्नोति पूजने ॥ ३-१ ॥

मद्यं मान्सं तथा मत्स्यं मुद्रामैथुनमेव च ।
मकारः पञ्चसुभगे साङ्गकर्मसुहेतवे ॥ ३-२ ॥

श्रीकुलार्णवेऽपि

मद्यं मान्सं च मत्स्यं च मुद्रामैथुनमेव च ।
मकारः पञ्चसुभगे देवता प्रीतिकारणम् ॥ ३-३ ॥

अथ प्रथममकारनिरूपणं समयाचारतन्त्रे ।

श्रीरुद्रयामले

तीर्थं यद्ज्ञानमुक्तिदम्

गौडी पैष्टी तथा माध्वी द्राक्षावृक्षसमुद्भवा ॥ ३-४ ॥

अर्चने चक्रराजस्य वारुणी पञ्चधा स्मृता ।

श्रीकुलार्णवे

पत्रं पुण्यां कुरफलमूलवत् फलधान्यजम् ॥ ३-५ ॥

रसवृक्षलताजातमद्यं दशविधं स्मृतम् ।
आत्मेछां पूरयेत् पीतं परमानन्ददं परम् ॥ ३-६ ॥

एतत् युक्त * द्रव्यं सर्वदेव प्रियं प्रिये ।
इत्यादिमदहेतू निमद्यान्यन्यानि कारयेत् ॥ ३-७ ॥

पनसद्राक्षमाधुकं खर्जूरं तालमैक्षवम् ।
मधुत्थसिन्धुमाध्वीकं मैरेयं नालिकेरजम् ॥ ३-८ ॥

मघान्येकादशैतानि भुक्तिमुक्तिप्रदानि च ।
द्वादशं तु सुरामद्यं सर्वेषामुत्तम प्रिये ॥ ३-९ ॥

गौडीपैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
सर्वसिद्धिकरी पैष्टी गौडीभोगप्रदायिनी ॥ ३-१० ॥

माध्वी मुक्तिकरी ज्ञेया सुराख्या देवता प्रिया ।
मधुजाता ज्ञानकरी चारिष्टरोगनाशिनी ॥ ३-११ ॥

मैरीयी च कुलेशानि स चापापहारिणी ।
यत् सानन्दं रुचिकरं सा मोदं च मनोहरम् ॥ ३-१२ ॥

मद्यं तदुत्तमं देवि देवता प्रीतिकारणम् ।
सुरादर्शनमात्रेण सार्वपापैः प्रमुच्यते ॥ ३-१३ ॥

तद् गन्धा घ्राणमात्रेण शतक्रत्तुफलं लभेत् (११) ।
तत् संस्पर्शनमात्रेण कोटितीर्थफलं लभेत् ॥ ३-१४ ॥

देवि तत् पानतः साक्षाल्लभेत् मुक्तिचतुर्विधाम् ।
इछाशक्तिः सुरामोदे ज्ञानशक्तिस्तु तद्रसे ॥ ३-१५ ॥

तत् स्वादे च क्रियाशक्तिस्तदुल्लासे परे स्थिता ।
मदिरावृक्षजावाह्यः श्वेतः शोधनसाधनाः ॥ ३-१६ ॥

तासामेकां समाहृत्य पूजाकर्मं समाचरेत् ।
असंस्कृता सुरापानात् कलहव्याधिदुःखदा ॥ ३-१७ ॥

आयुः श्रीकीर्तिसौभाग्य धर्मविद्याविनाशिनी ।
सुसंस्कृता सुरारोगदुःखपापापहारिणी ॥ ३-१८ ॥

आयुः श्रीकीर्तिसौभाग्य धर्मविद्याविवर्धिनी ।
तस्मात् संस्कृत्यविधिवत् कुलद्रव्यं ततोर्चयेत् ॥ ३-१९ ॥

अन्यथा नरकं याति तदा भोक्ता नसंशयः ।
विना द्रव्याधिवासेन नस्मरेन् नजपेत् प्रिये ॥ ३-२० ॥

ये स्मरन्ति महामूढास्तेषां दुःखं पदे पदे ।
नासवेन विना मन्त्रं नमन्त्रेणविनासवम् ॥ ३-२१ ॥

परस्परविरोधित्वा कथं पूजा भवेत् प्रिय (१९) ।
तत् संशय निवृत्तं च ज्ञात्वा गुरुमुखाद् यजेत् ॥ ३-२२ ॥

वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधितम् ।
द्रव्यं तर्पणयोग्यं स्याद् देवता प्रीतिकारणम् ॥ ३-२३ ॥

मन्त्रपूतं कुलद्रव्यं गुरुदेवापितं प्रिये ।
ये पबन्ति जनास्तेषां स्तन्यपानं न विद्यते ॥ ३-२४ ॥

तमः परिवृतं वेश्म यथा दीपेनदृश्यते ।
तथा माया वृतोत्द्यात्मा दिव्यपानेन दृश्यते ॥ ३-२५ ॥

मद्यं तु भैरवो देवो मदशक्तिः समीरिता ।
महामुक्तं च मद्यं च मोहयेत् त्रिदशानपि ॥ ३-२६ ॥

तन्मैरेयं शिवे पीत्वा योनविक्रियते नरः ।
मध्यानैकपरोभूयात् समुक्तः स च कौलिकः ॥ ३-२७ ॥

सुराशक्ति शिवो मांसं तद्भोक्ता भैरवः स्वयम् ।
तयोरैक्यं समुत्पन्नम् आनन्दोमोक्ष उच्यते ॥ ३-२८ ॥

आनन्दोब्रह्मणो रूप तव देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं मध्यं योगिभिस्तेन पीयते ॥ ३-२९ ॥

कुण्डीकम्बुकपालानि मधुपूर्णानिविभ्रतः ।
किं न पश्यति लोकोयं ब्रह्माविष्णुमहेश्वरान् ॥ ३-३० ॥

निःशङ्को निर्मलोधीरो निर्लजोनिःकुतूहलः ।
निर्णीतवेदशास्त्रार्था वरदां वारुणीं पिबेत् ॥ ३-३१ ॥

मन्त्रसंस्कारसंसिद्धा मृतपानेन पार्वति ।
जायते देवता भावो भवबन्धभवमोचकः ॥ ३-३२ ॥

ब्राह्मणस्य सदापेयं क्षत्रियस्य रणागमे ।
गोलम्भनेषु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि ॥ ३-३३ ॥

देवान्पितॄन्समभ्यर्च्य देविशास्त्रोक्तवर्त्मना ।
गुरुं स्मरेत् पिबेन्मद्यं खादन्मांसं नदोषभाक् ॥ ३-३४ ॥

तृप्यर्थ सर्वदेवानां ब्रह्मध्यानस्थिराय च ।
सेवेतमधुमांसानि तृष्णायाचेत्सपातकी ॥ ३-३५ ॥

मन्त्रार्थस्फुरणार्थं च मानसस्थिरहेतवे ।
भवयाशनिवृत्यर्थमलिपानसमाचरेत् ॥ ३-३६ ॥

सेवतात्मसुखार्थं यो मद्यादीनिसपातकी ।
प्राशयेद् देवता प्रीत्यै ह्यभिलाषविवर्जितः ॥ ३-३७ ॥

मत्स्यमांस्या सवादीनां पदार्थानां निषेवणम् ।
यागकालं विनान्यत्रमयानकथितं प्रिये ॥ ३-३८ ॥

यथा क्रतुषु विप्राणां सोमपानं नदूषितम् ।
मन्त्रपानं तथा कार्यं समये भोगमोक्षदम् ॥ ३-३९ ॥

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञायवासनाम् (३७) ।
पञ्चमुद्रां निषेवे तु चान्यथा पतितो भवेत् ॥ ३-४० ॥

आवृत्तिगुरुपङ्क्तिं च वटुकादीन पूज्ययः ।
वीरोऽयं च वृथापानी देवताशापपाप्नुयात् ॥ ३-४१ ॥

अजुह्या भैरवं देवम कृत्वा मन्त्रतर्पणम् ।
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ॥ ३-४२ ॥

अज्ञात्वा कौलिकाचारमजप्तगुरुपादुकाम् ।
योस्मिन् शास्त्रे प्रवर्तन्ते तत्त्वं पीडयसे ध्रुवम् ॥ ३-४३ ॥

समयाचारहीनस्य स्वैरवृत्तैदुरात्मनः ।
न सिधयः कलभ्रंशस्तत् संसर्गं न कारयेत् ॥ ३-४४ ॥

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
ससिद्धिमिहनाप्नोति परत्रं च पराङ्गति ॥ ३-४५ ॥

कौलज्ञानेह्यसिधोयस्तद् द्रव्यं भोक्तमिछति ।
समहापातकी देवि सर्वकर्मवहिष्कृतः ॥ ३-४६ ॥

स्वेछया वर्तमानो यो दीक्षाचारविवर्जितः ।
न तस्य सद्गतिः क्वापि पस्तीर्थव्रतादिभिः ॥ ३-४७ ॥

असंस्कृतं पिवेन्मद्यं बलात्कारेणमैथुनम् ।
स्वप्रियेणहतं मांसं रौरवं नरकं व्रजेत् ॥ ३-४८ ॥

कौलाः पशुवत्तस्थाश्चेत्यक्षद्वयविडम्बकाः ।
दशसङ्ख्या स्मृता या च वृत्तावष्टितिरौरवे ॥ ३-४९ ॥

कुलद्रव्याणि सेवेत योन्यदर्शनमाश्रितः (४७) ।
तदङ्गरेणु सङ्ख्यातं भूतयोनिषुजायते ॥ ३-५० ॥

मदप्रछादितात्मा च नकिञ्चिद्ऽपि वेति हि ।
न ध्यानं न तपो नार्चानध्र्मो न च सत्क्रिया ॥ ३-५१ ॥

न देवो न गुरुर्नात्मा विचारो न च कौलिकः ।
केवलं विषया सक्तः पत्तत्येव नसंशयः ॥ ३-५२ ॥

मद्यासक्तः प्रमत्तश्च मांसाशीस्त्रीनिषेवकः ।
कौलोपदेशहीनोयः सोक्षयं नरकं व्रजेत् ॥ ३-५३ ॥

असंस्कारी तु यो लौल्यात् पञ्चमुद्रानिषेवयेत् ।
कुलेशिब्रह्महासस्या नित्यन्तामधिगछति ॥ ३-५४ ॥

रुद्रयामले

सत्यक्रमा चतुर्वर्णैः क्षीराज्यमधुपिष्टकैः ।
त्रेतायां पूजयेद् देवि घृतेन सर्वजातिभिः ॥ ३-५५ ॥

मधुभिः सर्ववर्णैश्च पूजयेद्वापरे युगे ।
पूजनीया कलौदेवी कैवलैरासवैश्चतैः ॥ ३-५६ ॥

कुलामृते च

सौत्रामण्यां कुलाचारे ब्रह्मणः प्रपिबेत् सुराम् ।
अन्य प्रकामतः पीत्वा प्रायश्चिती भवेन्नरः (५५) ॥ ३-५७ ॥

समयाचारतन्त्रे

आचारोविविधो देवि वामदक्षिणभेदतः ।
पञ्चमुद्रादिसंयुक्तो वामा चाप्रकीर्तितः ॥ ३-५८ ॥

पञ्चमुद्रादिरहितो दक्षिणाचारसञ्ज्ञकः ।
आर्द्रशुष्कविभागेन द्विधाचारः शृणु प्रिये ॥ ३-५९ ॥

आर्द्राचारः सविज्ञेयो मकारैः पञ्चभिर्युतः ।
मकारपञ्चरहितः शुष्काचारप्रकीर्तितः ॥ ३-६० ॥

कलौविशेषदो देवि आर्द्राचारफलप्रदः (५९) ।
अथ प्रथमस्य संस्कारविधिः ललिता विलासे ॥ ३-६१ ॥

पक्षकर्दममापाद्य पूजां गवेनकल्पयेत् ।
तल्पाङ्कलिप्तवामाग्रे भूतले मण्डलं लिखेत् ॥ ३-६२ ॥

मण्डलेन विना पूजा विफला कथिता यतः ।
तस्मात् मण्डलमालिख्य विधिवत् तत्र पूजयेत् ॥ ३-६३ ॥

अखण्डमण्डलाकारं विश्वं व्याप्यव्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् ॥ ३-६४ ॥

उड्यानं चतुरस्रं स्यात् कामरूपं च वर्तुलम् ।
जालन्धरर्मर्द्धचन्द्रं स्याअ अस्रपूर्णगिरिर्भवेत् ॥ ३-६५ ॥

तल्लेखनक्रमं वक्ष्ये यथा शास्त्रेषु भाषितम् ।
उपविश्यासने मन्त्री जानुभ्यां मवनीगतः ॥ ३-६६ ॥

वहत्करोर्ध्वहस्ताभ्यां जपंस्तारत्रयं वुधः ।
चतुरस्रं वर्तुलं च षट्कोणं च त्रिकोणकम् ॥ ३-६७ ॥

अन्तरन्तर्विलिख्याथ मध्ये कामकलां लिखेत् ।
इत्थं मण्डलमालिख्य पूजयेद् गन्धपुष्पकैः ॥ ३-६८ ॥

शङ्खमुद्रा मुद्रितेन संस्पृशन्न्वामपाणिना ।
मण्डलं विधया मध्यं त्रिभिः कूटैस्त्रिकोणकम् ॥ ३-६९ ॥

द्विरावृत्या च षट्कोणे षडङ्गैश्चतुरस्रकम् ।
षडासनानि षट्कोणे ष्वभ्यर्च्याग्रादितः क्रमात् ॥ ३-७० ॥

उड्याणं कामरूपं च जालन्ध्रं पूर्णशैलकम् ।
अभ्यर्च्यचतुरस्रादि ष्वर्चयेद्रत्नपञ्चकम् ॥ ३-७१ ॥

चतुर्दिक्षु च मध्ये च प्रादक्षिण्येन पूजयेत् ।
तारसम्पुटितैस्तारैरर्चयेच्चतुरस्रके ॥ ३-७२ ॥

सर्वशक्तिमयी श्री च महात्रिपुरसुन्दरि (११) ।
षष्ट्यान्तं पीठशब्दान्ते चतुष्टयात्मकाय च ॥ ३-७३ ॥

महाकलशधारां ते मण्डलाय नमोर्चयेत् ।
अनेन मण्डलं स * गन्धपुष्पाक्षतैर्वुधः ॥ ३-७४ ॥

आधारं च समादाय क्षालितं मूलविद्यया ।
त्रिवारवाग्भावान्ते श्री महात्रिपुरशब्दतः ॥ ३-७५ ॥

सुन्दर्याश्च महाशब्दं कलशाधारमित्यधा ।
स्थापयामीति संस्थाप्यमरन्धर्मप्रदं ततः ॥ ३-७६ ॥

प्रदान्ते दशशब्दान्ते कलात्माङे युतस्ततः ।
विघ्न्यन्ते मण्डलायेति प्रोक्ता साधकसत्तम ॥ ३-७७ ॥

श्रीमहात्रिपुरान्ते च सुन्दर्याः पदमुच्चरेत् ।
महान्तकलशाधाराय नमो तेन प्रपूजयेत् ॥ ३-७८ ॥

गन्धाद्यैस्तत्र सम्पूज्या कलावह्नेर्दशक्रमात् ।
हुं हुं ब्रह्माण्डभाण्डान्ते चषकायाग्निवल्लभा ॥ ३-७९ ॥

कलशस्थापने मन्त्रः शिवेन परिकीर्तितः ।
वाग्भावान्ते दीपनीति प्रोक्ता ज्वालाथमालिनी ॥ ३-८० ॥

व्योमषष्टस्वराद्धेन्दु हंसश्चास्त्रान्तिको मनुः (१९) ।
माया वीजान्तकः प्रोक्तः पात्राणां शोधते मनुः ॥ ३-८१ ॥

मन्त्रमेन न्यसेत् कुम्भे मुद्रया योनिसञ्ज्ञका ।
कवचे नावगुण्ठ्याथ विन्यस्य प्रणवं ततः ॥ ३-८२ ॥

माया ह्रक्षूंहं च सं च न मोतं तत्र विन्यसेत् ।
आदायकलशं चन्द्र चन्दनाद्यैः सुपूजितम् ॥ ३-८३ ॥

त्रितारमध्यकूटान्ते श्रीमहात्रिपुरेति च ।
सुन्दर्याः पदमुच्चार्य महाकलशमित्यथ ॥ ३-८४ ॥

स्थापयामीति संस्थाप्य तस्मिन्नाधारके ततः ।
अहमर्थपदेत्युक्ता द्वादशान्ते कलात्मने ॥ ३-८५ ॥

सूर्यमण्डल ङे श्रीमाहान्ते त्रिपुरावृतः ।
सुन्दर्याः पदमाभाष्य महाकलशङे नमः ॥ ३-८६ ॥

अभ्यर्च्य कलशं त्वित्थं तन्मध्ये भावयेत् ततः ।
भूमिस्थं मण्डलं मन्त्री तत् तथैव समर्चयेत् ॥ ३-८७ ॥

तत्र सूर्यकला पूज्या वृत्ताकारेणमण्डले ।
भाण्डकारेणतोयाड्यं सकृद् अभ्यर्च्यलनतः ॥ ३-८८ ॥

चन्द्रचन्दनकस्तूरी सुमनोभिः सुवासितः ।
तेनासवेनकलशं पूरयेत् पुण्यगन्धिना ॥ ३-८९ ॥

द्वितीयस्पृष्टधारेण दक्षहस्तो धृतेन च ।
मूलविद्यां समुच्चार्य तदन्ते मातृकां जपन् ॥ ३-९० ॥

विलोमांसावधानेन स्पन्दस्कन्नादिवर्जितम् ।
पात्रस्पन्दे मृतस्कन्न्ने प्रणवं शतधाजपेत् ॥ ३-९१ ॥

श्रीमहात्रिपुरान्ते च सुन्दर्याः कलशामृतम् ।
पूरर्यामीति चाम्पूर्यतार्तीयं कूटमुच्चरन् ॥ ३-९२ ॥

उसङ्कामप्रदपदं षोडशान्ते कलात्मने ।
सोमान्ते मण्डलाय श्रीमहायत्रिपुरेति च ॥ ३-९३ ॥

सुन्दर्याः कलशामृताय नमः पूजयेज्जलम् ।
तत्र माषप्रमाणं तु मांसं मत्स्यं च निःक्षिपेत् ॥ ३-९४ ॥

वाग्भवं कूटमुच्चार्य पुष्पेणालोड्यतज्जलम् ।
वहिर्निरस्य तत् पुष्पमष्टगन्धयुतं क्षिपेत् ॥ ३-९५ ॥

मधुकूटेन कुसुमं तार्तीयेन प्रदर्शयेत् ।
ततो योगालिनीं मुद्रां पूर्वोक्ताभावयेत् ततः ॥ ३-९६ ॥

मण्डलं जलमध्यं तु पूजयेत् तत्र पूर्ववत् (३५) ।
तन्मण्डले तु सोमस्य कलाः षोडशपूजयेत् ॥ ३-९७ ॥

आदौ तु वैदिकैर्मन्त्रै संस्कृत्यकलशोदकम् ।
संस्कुर्यात् तान्त्रिकैः पश्चाद् इति शास्त्रस्य निश्चयः ॥ ३-९८ ॥

दशदोषान्निरस्याथ सहजात् कलशामृतात् ।
संस्कुर्याद् उक्त विधिना पूजार्हन्तज्जलं भवेत् ॥ ३-९९ ॥

व्योमेन्दु कान्तरौद्र्याग्नि*इ? छीशाक्रूरनादकै ।
उधृत्य कूटमेवैतन्नामादौ योजयेत् पृथक् ॥ ३-१०० ॥

पथिकान्ते दताभ्यो ग्रामचण्डालिनी ततः ।
क्रोधचण्डालिनी पश्चाद् दष्टिचण्डालिनी ततः ॥ ३-१०१ ॥

स्पर्शचण्डालिनी पश्चात् सृष्टिचण्डालिनी ततः ।
एव वगन्ते तपनवेधान्ते च विचक्षणः ॥ ३-१०२ ॥

सर्वजनदृष्टि स्पर्शदोषान्ते पशुपाशतः ।
हुफडित्यक्षरान् क्षिप्त्वा तीक्ष्यादृष्ट्या विलोकयन् ॥ ३-१०३ ॥

एवं निरस्य तदोषान् शुक्रशापविमोचयेत् ।
शुक्रशापात् सुराजाता ह्ययेयेति प्रथाकिल ॥ ३-१०४ ॥

पुराणेषु च तन्त्रेषु तन्त्रोक्तं तन्निगद्यते ।
कुलपञ्चामृते तत्र देवी प्रतिशिवोदितम् ॥ ३-१०५ ॥

भार्गवेण पुराशप्ता सुरादेवीति वारुणी ।
ब्रह्मज्ञानमयी देवी कुलाचारे निपुज्यते ॥ ३-१०६ ॥

सेयं शप्ता त्वया ब्रह्मस् तस्याः शापं प्रमोचय ॥ ३-१०७ ॥

ब्रह्माणं प्रणिपत्याह ब्राह्मणोभृगुनन्दनः ।
मद्वाक्यं निःफलं न स्याद् वाक्यं त च पितामह ॥ ३-१०८ ॥

अमोघं च करिष्यामि तदर्थं नियमः कृतः ।
सौत्रामण्यां कुलाचारे सुराशापं विमुक्तये ॥ ३-१०९ ॥

मन्त्रमन्त्र प्रवक्ष्यामि शृणुष्वेकमना प्रभो ।
एकाक्षरं परं ब्रह्म स्थूलसूक्ष्ममयध्रुवम् ॥ ३-११० ॥

कचोद्भवं ब्रह्महत्यां तेन ते नाशयाम्यहम् ।
सूर्यमण्डलसम्भूते वरुणालयसम्भवे ॥ ३-१११ ॥

अमा बीजमये देवि शुक्रशापाद् विमुच्यताम् ।
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ॥ ३-११२ ॥

तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहति ।
इत्युक्ता भार्गवोमन्त्रान् प्रणिपत्यपितामह ॥ ३-११३ ॥

जगामभवनं देवि ब्रह्मा स्वभवनं ययौ ।
अथ वैदिकमन्त्रैस्तु संस्काराः शम्भुनोदिताः ॥ ३-११४ ॥

लक्ष्मी कुलार्णवतन्त्रे यथावत् तदहं ब्रुवे ।
स्वादिष्टयादिभिः पूर्वमग्निः पञ्चभिरायतः ॥ ३-११५ ॥

विष्णुर्योनित्रयेणैव त्रिभिष्ट्वादित्रयेण च ।
इमं म इति च द्वाभ्यां तामं देत्येक यासृ च ॥ ३-११६ ॥

शोणमेकेन चैकेन शुक्रशापं विमोचयेत् ।
एभिः सकृत् सकृन्मन्त्रैर्जलं तदभिमन्त्रयेत् ॥ ३-११७ ॥

तेन पूतं भवेत् तोयं शुक्रशापाद् विमुच्यते ।
षड्दीर्घस्वरसम्भिन्नं ककारं विलिखेत् ततः ॥ ३-११८ ॥

तोयमिक्षियुतं सृष्टि मानदाढ्याग्निरस्थि च ।
सद्ययुक्तं ततः पीता रतिरक्षिसमन्विताम् ॥ ३-११९ ॥

निवृत्तिश्चक्षुधा युक्ता स्वरूपातोयमक्षियुक् ।
क्रोधीशोनन्तसंयुक्तो मनन्ताढ्यो वह्निरीरितः ॥ ३-१२० ॥

दीर्घोथकेवला व्योम दीर्घाचेत द्वयं पुनः ।
वह्निजायेति मन्त्रोऽयं त्रिरेतेनापि मन्त्रयेत् ॥ ३-१२१ ॥

जलस्थं व्योमषड्दीर्घस्वरभिन्नं समुद्धरेत् (५६) ।
श्रीकण्ठेशोमहाकालोरेचिकाद्यंश्च पूतना ॥ ३-१२२ ॥

योत्स्नाया युक्ता सप्ताष्टमकौ वर्णौ च पूतना ।
सद्ययुक्ताथ निद्रास्था ह्लादिनी जाल मण्डिकै ॥ ३-१२३ ॥

सप्तमादि त्रयं वा स्थितजलं वह्निरक्षि युक् ।
सप्तमादिद्वयं * षां टीशांवुविश्वरानलः ॥ ३-१२४ ॥

पीता पूषान्विता काकोदरी विधान्न्विता ततः ।
सप्तमाष्टमकौवर्णौ पूतनां बुयुतो भृगुः ॥ ३-१२५ ॥

वामश्रुतियुतो वह्निस्तीक्ष्णवह्नि समन्विता ।
काकोदरी सनयना सप्तमाष्टमकौपुनः ॥ ३-१२६ ॥

स विन्दू पूतनाश्चेता नन्ताग्निस्थां बुमारुतः ।
पुनरेतत् त्रय चास्थि कर्णयुग्रेवतीगतः ॥ ३-१२७ ॥

क्रोधीशोस्थि प्रतिष्टयालोहितोनन्तसंयुतः ।
पूतनां विश्वराप्रोक्ता भृगुरुक्तः स कर्णक ॥ ३-१२८ ॥

धकारः स्याद् अनन्ताढ्यो विन्दुमांसद्ययुग्विषम् ।
कूर्मश्च पवनश्चैतत् त्रयं भूयो विशेषतः ॥ ३-१२९ ॥

सध्यान्वितं सदृक्कूर्मः क्रोधीदीर्घसमन्वितः (६५) ।
पवनोभौतिकेशाढ्यो हृदयं प्रणवस्ततः ॥ ३-१३० ॥

मायास्छिराघीशयुतां सबिन्दुः सर्गवान् भृगुः ।
सुन्दरी पावकस्येति विद्याशापविमोचिनी ॥ ३-१३१ ॥

अनया विद्यया चाष्टवारं तदभिमन्त्रयेत् ।
पूजयेद्गन्धपुष्पाद्यैरनयातां विमोचिनी ॥ ३-१३२ ॥

सिद्धां रक्तां च शुक्लां च पूजयेदुत्पलामपि ।
चतुरस्रे चतुर्दिक्षुप्रादक्षिण्येन चा यतः ॥ ३-१३३ ॥

ततो मण्डलमध्यस्थत्रिकोणं परिभावयेत् ।
अकथादित्रिरेखाद्यं विद्याकूटत्रयान्वितम् ॥ ३-१३४ ॥

त्रिषुकोणेषुमध्यस्थ विन्दौकामकलान्वितम् ।
ह्सौ तत् पार्श्वयो बिन्दुयुक्तौ तत् पृष्टतः पुनः ॥ ३-१३५ ॥

लकारं बिन्दुसहितं संहवर्णौ च पार्श्वयोः ।
विभाव्यतत्र चाताह्ययजेदानन्द भैरवम् ॥ ३-१३६ ॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
अष्टादशभुजं देवं पञ्चवक्त्रत्रिलोचनम् ॥ ३-१३७ ॥

वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् (७२) ।
कपालखट्वाङ्गधरं घण्टाडमरुवादिनम् ॥ ३-१३८ ॥

पाशाङ्कुशं धरं देवं गदामुशलधारिणम् ।
लोहितं देवदेवस्य ध्यानं तु परिकीर्तितम् ॥ ३-१३९ ॥

तस्योत्सङ्गे सुरां देवीं चन्द्रकोटियुतप्रभाम् ।
हेमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् ॥ ३-१४० ॥

भुजाष्टादशसंयुक्तां सर्वायुधकरोद्यताम् ।
प्रहसन्ती विशालाक्षी देवदेवस्य सम्मुखीम् ॥ ३-१४१ ॥

इति ध्यात्वार्चयेद् देवं गन्धपुष्पैश्चसाक्षितैः ।
कपिलाभृगुसंवर्तविषभूजलवह्निभिः ॥ ३-१४२ ॥

सवायुवामकर्णेन्दु नादैः कूटं समुद्धरेत् ।
आनन्दभैरवायाथ वौषडित्यर्चयत्रिशः ॥ ३-१४३ ॥

नाम श्रीसप्तवर्णैश्च सम्पूज्याथ प्रतर्पयेत् ।
तर्पयामीति तत् पात्रं विष्टद्भिर्वामपाणिना ॥ ३-१४४ ॥

अनामिकाङ्गुष्टधृतद्वितीयाखण्डमिश्रितैः ।
प्रोक्तकूटं तु भृग्वाद्यं कर्णे वामाक्षिसंयुतम् ॥ ३-१४५ ॥

कूटं कृत्वा तु तन्नाम्ना चतुर्थ्यान्तेन साधकः (८०) ।
वौषस्थाने वषडिति देवीं सम्पूज्यतर्पयेत् ॥ ३-१४६ ॥

प्राग्वन्तं परितः पश्चाद् अष्टदिक्षुसमर्चयेत् ।
सुरामृतौ च तरुण उन्मनज्ञानसञ्ज्ञकौ ॥ ३-१४७ ॥

मुक्तिः परमकालौ चेत्यभिनाष्टभैरव्यै व षडन्तकैः ।
भैरव्यष्टकमित्येव मध्यर्च्यथिथुनाष्टकम् ॥ ३-१४८ ॥

मूलविद्यां स्मरन्विक्ष्य तज्जलं वीक्षणाख्याया ।
मुद्रया साण सम्प्रोक्षा जलेस्तेनैव ताडयेत् ॥ ३-१४९ ॥

कुशैस्त्रिः कवचाभ्युक्ष वामनाड्या प्रवेश्य च ।
नीत्वा ब्रह्मविलं तच्च तत्रस्थें चन्द्रमण्डलम् ॥ ३-१५० ॥

पीयूषसागरेणैकीभूतं ध्यात्वाथतन्मयम् ।
राजदन्तं विलान्नेत्र मार्गान्निःसार्यतं घटम् ॥ ३-१५१ ॥

पूरयित्वानुसंरुध्य संरोधिन्या तु मुद्रया ।
कवचेनावगुण्ठ्याथ चावगुण्ठन मुद्रया ॥ ३-१५२ ॥

बम्बीजेनामृती कृत्य मुद्रया धेनुसञ्ज्ञया ।
परमामृततां कुर्यात् परमीकरणाह्वया (८९) ॥ ३-१५३ ॥

मुद्रया तत्र सञ्चिन्त्य ललितां गन्धपुष्पकैः ।
धूपदीपादिभिः सम्यग्भ्यर्च्याथाभिमन्त्रयेत् (९०) ॥ ३-१५४ ॥

अष्टधा विद्यया पश्चाद् विधया वीक्ष्यमाययाम् ।
प्रणवो हृदयं निद्रां स्मृति रञ्च *? कामिका ॥ ३-१५५ ॥

सनेत्रास्मृतिरग्निस्था सप्रतिष्टा स-एयुतः ।
तोयस्थमस्थिनेत्राढ्यो वह्निर्वारिसमानदम् ॥ ३-१५६ ॥

सकर्णोग्निस्तुष्टियुतारतिश्च जलमूर्ति ये ।
अर्घीशोग्निः केवलें वुमतोमीनोक्षिणी मया ॥ ३-१५७ ॥

सेन्दुश्चात्रियुतापुष्टिरग्निस्था मृत्तिरायुता ।
कपिलानेत्रसंयुक्ता रतिरक्षिसमन्विता ॥ ३-१५८ ॥

जया च कपिलामात् तदा व्योभूः कालगोत्यकः ।
जलस्थमस्थिदृग्युको वह्निपरमधाम्नि च ॥ ३-१५९ ॥

परमाकाशभासुरि सोमसूर्याग्निभक्षिणी ।
विरजा च स्मृतिर्भूतमालातं च युता पुनः ॥ ३-१६० ॥

स्मृतिश्च भूतमाता च तोयमक्षियुतम्बकः ।
भृगुर्जलस्थस्तन्द्रा च सद्ययुक्त स्मृतिस्ततः (९७) ॥ ३-१६१ ॥

वह्निस्थो त्रिवीयुगतं जलं बिन्दुः समन्वितम् ।
पञ्चातकोरेचिकाढ्यो न कुलीरतिसंस्थितः ॥ ३-१६२ ॥

पुनरेतद्वयं वह्नि वल्लभेति समीरिता ।
वामाङ्गुष्टानामिकाभ्यां घृतेन शकलेन च ॥ ३-१६३ ॥

कलशाद्बिन्दुमादाय द्वितीयेनोर्ध्वमुक्षिपेत् ।
ततः कलशवक्त्रं तु पात्रेणाछाद्यकेनचित् (१००) ॥ ३-१६४ ॥

जलोद्धरणपात्रं तु सूक्ष्मं तस्योपरिन्यसेत् ।
तस्मिन्नमोघां सूक्ष्मां चानन्दां शान्तिं प्रपूजयेत् ॥ ३-१६५ ॥

चतुर्थ्यान्तां नमोयुक्तां गन्धपुष्पाक्षतैर्गुरुः ।
नवत्युद्वासनादर्वाक् घटमेनं तु चालयेत् ॥ ३-१६६ ॥

चालितोपि जपेद् विद्यां प्रणवं वा शतं गुरुः (१०२) ।

इति श्रीशिवानन्दाचार्यरचिते कुलप्रदीपे तृतीयः प्रकाशः ॥ ३ ॥

चतुर्थः पटलः

अथ कलशस्थापन प्रयोगः ।

तत्र साधकः स्वासन उपविश्य स्ववामभागे कर्पूरागुरुमृगमदकङ्कोलात्मक यक्षकर्दमाख्यगन्धेन वहछासोर्ध्व कराभ्यां ॐ ऐं ह्रीं श्रीम् इति जपन् चतरस्रवृत्त षट्कोणत्रिकोणात्मकं मण्डलं विधाय तन्मध्ये सबिम्बतुर्यस्वरूपां कामकलां विलिख्य तन् मण्डलं शङ्खमुद्रित वाम * णा वष्टभ्यमूलेन मण्डलमध्यं सम्पूज्य श्रीविद्योपासकश्चेत् ।

त्रिभिकूटैस्त्रिकोणं त्रिकूट द्वया वृत्त्या षट्कोणं च सम्पूज्यान्य देवतो पासकरक्तमूलमन्त्रावृत्त्यैवत्रिकोणषट्कोणं चेस्वाग्रादि प्रादक्षिण्येन सम्पूज्या चतुरस्त्रे अग्नीशासुरवायव्या मध्यचतुर्दिक् क्रमेण षडङ्गानि सम्पूज्य श्रीविद्योपासकश्चेत् ।

षट्कोणेषु स्वाग्रमारभ्य अम् आं सौः त्रिपुरा सुधार्ह्या वासनाय नमः ।

ऐं क्लीं सौः त्रिपुरेशी पोताम्बुजासनाय नमः ।
ह्रीं क्ली- सौः त्रिपुरसुन्दरी देव्यात्मासनाय नमः ॥ ४-१ ॥

हैं हं क्लीं ह्सौंः त्रिपुरवालिनी सार्धवक्त्रसनाय नमः ।
ह्सैं हृ क्लीं ह्सौं त्रिपुरा श्रीसर्वमन्त्रासनाय नमः ॥ ४-२ ॥

ह्रीं क्लीं व्लूं त्रिपुरमालिनी साध्यसिधासनाय नमः ।

इति षडासनानि सम्पूज्य ।

चतुरस्रा वृत्तषट्कोणत्रिकोणेषु कामरूपपीठाय नमः ।

जालन्धरपीठाय नमः ॥

पूर्णगिरिपीठाय नमः ॥

उड्यानपीठाय नमः ॥

इति पीठचतुष्टयं सम्पूज्य ।

चतुरस्रे स्वाग्रादि चतुर्दिक्षुमध्ये च प्रादक्षिण्येन ग्लूं गगनरत्नाय नमः ॥

स्लूं स्वर्गरत्नाय नमः ॥

म्लूं मर्त्यरत्नाय नमः ॥

प्लूं पातालरत्नाय नमः ॥

न्लूं नागरत्नाय नमः ॥

इति पञ्चरत्नानि सम्पूज्य ततः मूलं सर्वशक्तिमय श्रीपरदेवतायाः पीठचतुष्टयात्मक महाकलशाधार मण्डलाय नमः ॥

इति समस्तमण्डलं सम्पूज्य तत्र मूलेन प्रक्षालितमाधारं श्रीपरदेवताया महाकलशाधारं स्थापयामिति संस्थाप्यमंरं धर्मप्रददशकलात्मनेन वह्निमण्डलाय श्रीपरदेवता या महाकलशाधाराय नम ।

इति सम्पूज्य तदुपरि धूम्रार्चिरादिदशकला इहागछतेत्यावाह्य ।

यं धूम्रार्चिषे नमः ॥

र उष्मायै ० ॥

लं ज्वलिन्यै ० ॥

वं ज्वालिन्यै ० ॥

शं विस्फुलिङ्गिन्यै नमः ॥

षं सुश्रियै ०

सं स्वरूपयै नमः ॥

हं कपिलायै नमः ॥

लं हव्यवाहायै ० ॥

क्षं कव्यवाहायै नमः ॥

इति दशकलाः सम्पूज्य ॥ ततः सुवर्णादिरचितं कलशं धूपवासितं हं ह ब्रह्माण्ड चषकाय स्वाहा ॥

इति वामकरेण क्षालितम् ऐं सन्दीपिनि ज्वालामालिनी ह्रीम् इति सन्दीपिनी विद्यामायोनिमुद्रया सन्दीपतं कवचेनावगुण्ठितं ॐ नमः ह्न क्षूं नमः हं नमः सं नमः इति विन्यस्त पञ्चमुद्रामन्त्रं ॐ इ श्रीमहात्रिपुरसुन्दर्या महाकलशं स्थापयामिति तत्र कलशं संस्थाप्य ततः

अं हम् अर्थप्रदं द्वादशकलात्मने अर्कमण्डलाय श्रीपरदेवतायामा कलशाय नमः ॥

इति कलशमध्ये सम्पूज्य । तत्र पूर्वोक्तं मण्डलं विभाव्य पूर्ववत्पञ्चरत्नां तं सम्पूज्य तत्र सूर्यस्य द्वादशकलाः समावाह्य ॥

कम्भन्तपिन्यै नमः ।

खं वं तापिन्यै नमः ।

गं कं धूम्रायै नमः ।

घं मं मरीच्यै नमः ।

ङं नं ज्वालिन्यै नमः ।

छं दं सुषुम्णायै नमः ।

जं धं भोगदायै नमः ।

झं तं विश्वायै नमः ।

जं णं वोधिन्यै नमः ।

टं ठं धारिण्यै नमः ।

ठं डं क्षमायै नमः ।

इति सम्पूज्य ततः तीर्थधाम् उं रक्तवस्त्रावृतं रक्तमाल्यभूषितं सकृदभ्यर्च्य चन्द्रचन्दनाकस्तूरी सुमनोभिः सुवासितेन दक्षहस्तोधृते न द्वितीयस्पृष्टधारेण तेन तीर्थेन मूलमन्त्रं विलोममातृकां च जपन् श्रीपरदेवतायाः कलशं पूरयामि या पूर्वम् उं सं कामप्रदषोडशकलात्मने श्रीपरदेवतायाः कलशामृताय नमः ॥

इति तीर्थसम्पूज्य ।

तत्र माषमात्रं मांसं मत्स्यं च निक्षिप्य मूलमुच्चार्य पुष्पेण तत् तीर्थमालोड्य तत् पुष्पं वहिनिरस्य क्लीम् इत्यष्टगन्धलोहितं पुष्पं तत्र निक्षिप्यसौरिति गालनीमुद्रया निरीक्ष्य ।

पूर्वोक्तं मण्डलं तीर्थे पूर्वोक्तप्रकारेण सम्पूज्य तत्र सोमकला समावाह्य ।

अम् अमृतायै नमः ।

आं मानदायै नमः ।

इं पूषायै नमः ।

ईं तुष्ट्यै नमः ।

उं पुष्ट्यै नमः ।

ऊं रत्यै नमः ।

ऋं धृत्यै नमः ।

ॠं शशिन्यै नमः ।

ऌं चन्द्रिकायै नमः ।

ॡं कान्त्यै नमः ।

एं ज्योत्स्नायै नमः ।

ऐ श्रियै नमः ।

ॐ प्रीत्यै नमः ।

औम् अङ्गदायै नमः ।

अं पूर्णायै नमः ।

अः पूर्णामृतायै नमः ।

इति सम्पूज्यतच्चतुरस्रं परितः ।

ॐ ईं हसखफ्रें पथिकदेवताभ्यो हुं फट् स्वाहा नमः ।

हसखफ्रें ग्रामचण्डालिनी हुं फट् स्वाहा नमः ।

हसखफ्रें क्रोधचण्डालिनी हुं फट् स्वाहा नमः ।

हसखफ्रें दृष्टिचण्डालिनी हु फट् स्वाहा नमः ।

हसखफ्रें स्पर्शचं० ।

हसखफ्रें सृष्टि चं० ।

हसखफ्रें घं यं चं हसखफ्रें सर्वजनदृष्टि स्पर्शदोष चं० ।

हसखफ्रे पशुपाश चं० ।

इति प्रादक्षिण्येन सम्पूज्य दशदोषान्निरस्य ॐ कां कीं कूं कैं कौं कः विकारशोषिणि अस्य विकारान् हन् हन् स्वाहा ।

इति मध्ये सम्पूज्य ।

एकाक्षरं परम्ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।

कचोद्भवां ब्रह्महत्यां तेन तेनाशयाम्यहम् ।

सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।

अमावीजमये देवि शुक्रशापाद्विमुच्यताम् ।

वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि ।

तेन सत्येन ते देवि ब्रह्महत्यां व्यपोह तु ।

इति मन्त्रैरभिमन्त्र्य ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षणि अमृतं स्रावय २ शुक्रशापात् सुधां मोचय २ मोचिकायै नमः ।

ॐ जूं सः स्वाहा इति विद्ययाष्टवारमभिमन्त्र्य ततः ॐ शां शीं शूं शैं शौं शः शापं विमोचि सा वै सुरां देव्यै नमः ।

इति त्रिवारमभिमन्त्र्य ततः ॐ क्लीं श्रीं क्रीं श्रीं क्रूं क्रैं क्रौं क्रः सुरेकृष्णशापं विमोचय २ अमृतं स्रावय स्रावय स्वाहा इति वारत्रयमभिमन्त्र्य ततः स्वादिष्टया यवस्व सोमधारया इन्द्रोय पातवे सुतः ।

रक्षोहा विश्ववर्षणिरभियोनिमयो हत्तं द्रोण्यसद्यस्थमासदत् ।

वरिषोघातमोभवमंहिष्तो वृत्तहन्त्तमः ।

पर्षिराद्यो मधोनम् अभ्यर्ष महानां देवानांवीति मन्धसा ।

पभिवाजसुतश्रवः ॥ ४ ॥ त्वामत्छाचरामसिर्वदितन्थ दिवे दिवे ।

इन्द्रोत्वेन आशसः ॥ ५ ॥ विष्णुर्योनिकल्प य तु त्वष्टारूपाणि पिंशतु आसिञ्चतु प्रजापति धातागर्भं दधातु मे ।

गर्भं देहि सिनीबाली गर्भधे हि सरस्वति ।

गर्भं ते अश्विनौ देवा वाधत्तां पुष्करस्रजाहिरण्मयी ।

अरर्णायन्तिर्मन्थतो अश्विना तते गर्भहवा महे दशमासि सूतवे । ३ ।

त्रिभिष्टं देव सवितर्वर्षिष्टैः सोमधामभिः ।

अग्ने दक्षैः पुनीहिनः । पुनन्तु मा देव जनाः पुनन्तु वसवोधिया विश्वे देवाः पुनीतमाजात पुनीहिमाम् ।

प्रप्यायस्व प्रस्यदस्वे सोमविश्वेभिरशुभिः ।

देवेभ्य उत्तमं हविः । ३ । इमं मे गङ्गेयमुने सरस्वतिभ्युतुद्रः स्तोमं सं च तापरुष्ट्या असिक्त्या मरुद्वृद्धे विस्तया जीकीये शृणु ह्यासुषो मया ।

सिता सिते सरिते यत्र सम्मते तत्राप्लुता सो । देव मुर्त्यतन्ति ।

ये वै तन्वा विसृजन्ति धीरास्ते जनसो मृतत्वं भजन्ते ।

तामं क्षसाना मानुषो डुणेण आद्यत्तंरंयि सहवीरं वचस्य वे ।

कृतं तीर्थं सुप्रमाणं शुभस्यतीस्थाणुं पथेष्वामपद्रुर्मतिहन्तम् । १ ।

श्रोणामेकमुदकं गामवाजति सांसमेकः पिशति सूमया भृतम् । १ ।

आनिस्रुचः सव्वदेवा को अपाभरत् ।

किं स्वित् पुत्रेभ्यः पितरा उपावतुः ।

इत्याभिमन्त्र्य ततः ॐ सिद्धायै नमः ।

ॐ रक्तायै नमः । ॐ शुक्लायै नमः । ॐ उत्पलायै नमः ।

इति चतुरस्रस्य चतुर्दिक्षु प्रादक्षिण्येन स्वाग्रतः सम्पूज्य तन्मध्ये त्रिकोणमकथादि त्रिरेखं विभाव्य तत् कोणत्रये मूले मन्त्रं मध्यस्थ बिन्दौ कामकलान्तपार्श्वयोः सविन्दुहक्षौ तत् पृष्टे लकारं तत् पार्श्वयोः हंसः इति विभाव्य पुष्पाक्षत गर्भितां योनि मुद्रां वध्वा गुरुपदिष्टप्रकारेण मूलाधारात् कुण्डलिनीमुत्थाप्य षट्चक्रभेदक्रमेण सुषुम्णा वर्त्मना ब्रह्मरन्ध्रस्था चिच्चन्द्रमण्डलसम्भूतम् अशेषरससम्भूतम् ।

आपूरितं महापात्रं पीयूषरसमाय है ।

ऐं फ्लूं ह्सौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षणि अमृतं स्रावय २ स्वाहा ।

इति पुष्पाक्षत प्रक्षपेणामृतधारां संयोज्य मातृकयाद्विरभिमन्त्र्य ।

ऐम् अखण्डैकरसानन्दकरे परसुधात्मनि ।

स्वछन्दस्फुरणामन्त्रनिधे ह्यकुलरूपिणी इत्यनेन त्रिरभिमन्त्र्य सौः तद्रूपेणैकरस्यत्वं दत्वार्पे तत् स्वरूप्णिणी ।

भूता परामृताकारामपि चित्स्फुरणं कुरु इति त्रिरभिमन्त्र्य ततः ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु २ क्लीं सौः मोक्षं कुरु २ सौः ह्सौः इति दीपिनी विद्यया पञ्चवारमभिमन्त्र्य ततः ।

ॐ ऐं ह्रीं श्रीं हसक्षमलवरयूम् आनन्दभैरवाय वौषट् आनन्दभैरव श्रीपादुकां पूजयामि नमः ।

सहक्षमलवरयीम् आनन्दभैरव्यै वषट् सुरानन्दभैरव्यै वषट् । ४ ।

अमृतानन्दभैरवाय वौषट् अमृतानन्दभैरव्यै वषट् ।

तरुणानन्दभैरवाय तरुणानन्न्दभैरव्यै उन्मनानन्दभैरवाय उन्मानानन्दभैरव्यै ।

ज्ञानानन्दभै * वाय ज्ञानानन्दभैरव्यै ।

मुक्तानन्दभैरवाय मुक्तानन्दभैरव्यै ।

परमानन्दभैरवाय परमानन्दभैरव्यै ।

कालभैरवाय कालभैरव्यै । ४ ।

इति भैरव थिथुननवकं मध्ये ष्वसुदिक्षु च सम्पूज्य सन्तर्प्य मूल विद्यया वीक्ष्ण मुद्रया संवीक्ष्यास्त्रमन्त्रेण प्रोक्षास्त्र सस्त्रेन कुशैस्त्रिः सन्ताड्य कवचे मन्त्रेणाभ्युक्ष्यार्घ्रार्य वामनासारन्ध्रेण प्रविश्य ब्रह्मरन्ध्रं गत्वा तत्रस्थ चिच्चन्द्रमण्डलमध्यगतपरमामृतवारिधौ निलित्वा तन्मध्ये न राजदन्तविवरान्नेत्रमार्गेण विनिर्गतं तज्जलविभाव्य संरोधनमुद्रया संरुध्य कवचमन्त्रेणावगुण्ठणमुद्रयावगुण्ठ्य वमिति धेनुमुद्रया मृती कृत्य परमीकरणमुद्रया परमीकृत्य तत्र देवी ध्यात्वा गन्धपुष्पादिभिः सम्पूज्य मूलविद्ययाष्टवारमभिमन्त्र्य नमो भगवति ग्रामेश्वरि वारुणी जलमूर्तये ऊर्ध्वबिन्दुग्राहिणी महालक्ष्मीश्वरि परमधाम्नि परमाकाशभासुरि सोमसूर्याग्निभक्षिणि आगछागछ विशस्वभोगद्रव्यं गृह्न गृह्ण स्वाहा ।

इति तत् कलशाद्विन्दुं वामाङ्गुष्टानामिकाभ्यां धृत द्वितीयखण्डे नादायोर्ध्वमुत् क्षिपेत् ।

तत कलशवन्दनं पात्रान्तरेणाछाद्योद्ध्ररणपात्रमादाय वामकरे निधाय ।

अमोघायै नमः । सूक्ष्मायै आनन्दायै । शान्त्यै नमः ।

इति शक्तिचतुष्टयं वामकरस्य पात्रे सम्पूज्य कुम्भस्था छादनपात्रोपरिस्थापयेदिति कलशस्थापन विधिः ।

कुलार्णव ।

मद्यमांसादि विजया चाष्टगन्धैः सुमिश्रितम् ।
समर्घवटिकां कृत्वा सङ्गृह्याथविचक्षणः ॥ ४-३ ॥

मद्या भावे तु वटिकां जले संलोड्यतर्पयेत् ।
गुडमिश्रेण तत्क्रमेण दध्न्या च मधुना सह ॥ ४-४ ॥

दुग्धं च ताम्रपारेण पूजयेत् कुलसुन्दरी ।
प्रमादाद्यदि तु प्येत देवता शापमाप्नुयात् ॥ ४-५ ॥

इति प्रथममकारनिरूपणम् ।

समयाचारतन्त्रे ।

द्रव्यं चतुर्दशविधं शृणु देवि पृथक् पृथक् ।
तेषां मध्ये तु द्रव्ये द्वेनग्राह्ये तु कदाचन ॥ ४-६ ॥

क्षीरं दधि च तक्रं च घृतं क्षौद्रं गुडं तथा ।
शर्कराशीतलं तोयं मैरेमप्यारनालकम् ॥ ४-७ ॥

आफकं समया चैव धतूरं च विषं तथा ।
धत्तूरं च विषं देवि द्रव्यं प्राणप्रहारकम् ॥ ४-८ ॥

अन्यानियानि द्रव्याणि चानन्दार्थं पिबेन्नरः ।
आनन्दः परमं ब्रह्म पराशक्तिः सदाशिवः ॥ ४-९ ॥

द्रव्य शुद्धादि सकलमानन्दार्थं च भक्षयेत् ।
आनन्दे जायमाने तु भक्षयेन् न कदाचन ॥ ४-१० ॥

अतिपानाद्भवेत् सद्यो जपपूजादिनिःफलम् ।
बुद्धिनाशो भवेद्देवि ततो मात्रां मितां चरेत् ॥ ४-११ ॥

सा मात्रा वर्तते देवि य या नन्दः प्रवर्तते ।
अतिमात्राद् भवेदुःखं लोके निन्दा प्रवर्तते ॥ ४-१२ ॥

गुरोः सकाशाद् यन् मन्त्रं नित्यं जपति यो नरः ।
ते नैव मनुनामन्त्री षडङ्गन्यास माचरेत् ॥ ४-१३ ॥

न्यासं कृत्वा पुनर्मन्त्री द्रव्यादीनाभिमन्त्रयेत् ।

अथ भङ्गा या विशेषविधिर्लिख्यते ।

यथा बिजया कल्पे ।

संविदासवयोर्मध्ये संविदे व गरीयसी ॥ ४-१४ ॥

संवित्प्रयोगस्ते नादौ पूजयाः साधकोत्तमैः ।

समयाचा तन्त्रे ।

अस्य श्रीवाग्वादिनी मन्त्रस्य ब्रह्मा ऋषिः देवी विजया गायत्री छन्दः वाग्वादिनी देवता ऐं वीजं क्लीं कीलकं सौः शक्ति वाग्वादिनी देवता प्रीत्यर्थे जपे विनियोगः ।

एतै न्यासं कृत्वा संविद्गृहीत्वा पठनीयो मन्त्रस्तु ।

ऐं वद वद क्लीं वाग्वादिनी सौः स्वाहा ॥ ४-१५ ॥

इत्यनेन सम्पत्पद्याभिमन्त्रितां भक्षयेत् ।

अथवा ।

ऐं जय जय विजय विजय परब्रह्मस्वरूपिणी सर्वजनमे वशमानय ॐ जूं सः स्वाहा ।

इत्यनेन वा जपित्वा भक्षयेत् । विजयाकल्पे विजया चतुर्था ब्राह्मणी क्षत्रीया वैश्या शूद्रा च श्वेतरक्तपीतकृष्णपुष्पभेदात् ।

संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे भैरवानं च दत्तां त्वं पवित्री भव सर्वदा ।

ब्राह्मण्यै नम्ः ।

स्वाहेति मन्त्रेण शोधयेत् ।

सिद्धिमूलिन्दिये देवि हीनवोधप्रवोधिनि ॥ ४-१६ ॥

राजप्रजा वशङ्करी शत्रुकण्ठत्रिशूलिनी ।

ऐं क्षत्रियायै नमः ।

अज्ञानेद्यं न दीप्ताग्ने ज्वालाग्ने ज्ञानरूपिनी ॥ ४-१७ ॥

आनन्दस्याहत्ति सम्यक् ज्ञान देवी प्रयछमे ।

ह्रीं वैश्यायै नमः स्वाहा ।

नमस्यामि नमस्यामि योगमार्गप्रदर्शिनी । । ४-१८ ॥

त्रैलोक्य विजये मातः समाधिफलदा भव ।

क्लीं शूद्रायै नमः ।

ओ अमृते अमृतोद्भवे मृतवर्षिणि पदं ततः ॥ ४-१९ ॥

अमृतं वर्षपदद्वन्द्वं सिद्धिदेहिं ततः परम् ।
अमुकं मेततो ब्रूयाद् वशमानय तत्परम् ॥ ४-२० ॥

द्विठान्तोयं मनुप्रोक्तश्च तसृणां च शोधने ।

उत्तरतन्त्रे ।

मूलमन्त्रं सप्तवारं तस्योपरिनियोजयेत् ॥ ४-२१ ॥

आवाहनादिमुद्राश्च धेनुयोनिं ततः परम् ।
दिग्बन्धछोटोकाभिश्च तत्त्वत्रयपुरः सरम् ॥ ४-२२ ॥

दिव्यदृष्ट्वा तथा पार्ष्णि यातैर्विघ्नान् विद्यातयेत् ।
सप्तधा तर्पयेद् ब्रह्मरन्ध्रे मूलमनुजपन् ॥ ४-२३ ॥

गुरुं पद्मे सहस्रारे तथा सङ्केतमुद्रया ।
विधेवतर्पयेद् भक्त्या साधकः सिद्धिमानसः ॥ ४-२४ ॥

ऐं वद वद ततो व्रूयाद् वाग्वादिनि ततः पदम् ।
मम जिह्वाग्रे स्थिरी भव सर्वदेति पदं तथा ॥ ४-२५ ॥

सत्ववशङ्करि स्वाहा मन्त्रेण जुहुयान्मुखे सङ्केतमुद्रया ।
तत्त्वमुद्रया पद्मपुराणे सनत्कुमार नारदसंवादे ॥ ४-२६ ॥

सनत्कुमार उवाच

देवर्षे वैद्विजश्रेष्ट ब्रह्मपुत्र महामते ।
प्रष्टमिछामि किं चित्त्वां तन्मेशंसि तु मर्हसि ॥ ४-२७ ॥

मुनेकस्य प्रभावे नमस्ते निश्चलं सदा ।
एकनिष्टं सेक्षो हुष्टं नेत्रे चातीवलो हि ते ॥ ४-२८ ॥

मुनीनां मुनिवर्योसि ब्राह्मणानां द्विजोत्तमः ।
ज्ञानिनां ज्ञानवाश्चासि स्मर्तानां स्मृति वित्तरः ॥ ४-२९ ॥

स्मात् त्वं कस्य वीर्येण दृश्यते पूर्णितेक्षणः ।
एतत् मम समाचक्ष्व शाम्पितोसिमुरद्विषा ॥ ४-३० ॥

सूत उवाच

इति पृष्टस्तदा विप्रः कुमारेणविनीतवत् ।
एकान्ते समुपविश्य व च नन्दमप्रवीत् ॥ ४-३१ ॥

नारद उचाच

गोपनीयम् इदं ब्रह्मन् नवक्तु महमुत्सृहे ।
आज्ञया देव देवस्य पुरारात्तेर्महौजसः ॥ ४-३२ ॥

एतत्यन्तगोप्यं मे किं करोमि वदामि ते ।
इदं तु परमं गुह्यं गुह्याद्गुह्यतरं मम ॥ ४-३३ ॥

यो वदिष्यति सर्वत्र ससिद्धिमवाप्स्यति ।
एकदा पर्यटन्लोकान् कैलाससमगम द्विज ॥ ४-३४ ॥

तत्रापश्य विरूपाक्षं कर्पूरा पाण्डुविग्रहम् ।
त्रिनेत्रकृतिवसनं मुण्डमाला विभूषितम् ॥ ४-३५ ॥

नन्दिकेश्वमुख्यैश्च गणैः सुपरिवेष्टितम् ।
शेषस्योपरिपार्वत्यो सूपविष्टजगत् प्रभुम् ॥ ४-३६ ॥

तत् समीपमथो गत्वा नत्वादण्डवदानतः ।
स्वागतं तेन सम्पृष्टं पर्यावोचिमथा त्विदम् ॥ ४-३७ ॥

भगवन् देव देवेश लोकनाथजगद्गुरो ।
प्रष्टुमिछाम्यहं किं चित्तन्मेयाख्या तु मर्हसि ॥ ४-३८ ॥

भगवंस्त्वं परन्धामतेजस्तेजस्विनामसि ।
वेदानामादि कर्तासि योगानां प्रभवस्तथा ॥ ४-३९ ॥

भगवन्ये नमनसः स्यैर्यं हर्षश्च जायते ।
तन्मे वद महाबाहो येन श्रेयोहमाप्नुयाम् ॥ ४-४० ॥

ईश्वर उवाच

शृणु नारदवक्ष्यामि तवानुग्रहकारणात् ।
यामे गोप्यतरावार्तातां तुभ्यं कथयाम्यहम् ॥ ४-४१ ॥

नेयं प्रकाश्या सर्वस्य प्राणान्तेपि कदाचन ।
तुभ्यं तु शिष्यभूताय ब्रह्मक्ष्याम्यन सूपवे ॥ ४-४२ ॥

महौषधी मयात्वेषा तां विधानेन साधय ।
साधिता ज्ञानफलदा भविष्यति न संशयः ॥ ४-४३ ॥

यन्नाम्ना विजया देवी ब्रह्मपुत्री जयावहा ।
भङ्गाभर्गप्रिया ब्राह्मी प्राणमार्गप्रदर्शिनी ॥ ४-४४ ॥

तस्या विधाने वक्ष्यामि शृणु तत्त्वेन सक्रमम् ।
ओङ्कार त्रययुक्तेन कामवीजेन मन्त्रिताः ॥ ४-४५ ॥

समानीता गृहे पश्चाज्जयायै ते नमोनमः ।
ह्रीङ्कारं पूर्वमन्त्रेण चूर्णयेद्विद्धिवत् पुनः ॥ ४-४६ ॥

सूक्ष्मवस्त्रेण सञ्चाल्य भर्जयेन् मन्दवाह्निना ।
ॐ कारेण च मन्त्रेण निर्जने यत्नमा स्थितः ॥ ४-४७ ॥

ॐ क्लीं श्रीं ह्नीं चं हूङ्कारं ब्लूं क्ष्म्रौं स्फ्रें हुं फडित्यमुम् ।

मनुमुच्चार्य विधिवन्निर्भयेमामनुस्मरन् ।
ज्ञानसिद्धिप्रदा तस्य भवत्येव न संशयः ॥ ४-४८ ॥

विजये त्वं महादेवी महादेवेन सेविता ।
नानासिद्धिप्रदा सिद्धा समाधिफलदा भव ॥ ४-४९ ॥

ब्रह्मपुत्रि सुरश्रेष्ट सेविते विजयप्रदे ।
भुक्तिमुक्तिप्रदे तुभ्यं नमोऽस्तु ज्ञानदा भव ॥ ४-५० ॥

भर्गप्रिये ज्ञानमार्गप्रदर्शिनि ।

नमोऽस्तु ते ज्ञानमार्गप्रयच्छं स्वविजये त्वां नमाम्यहम् ।

इमान् मन्त्रान् समुच्चार्य त्रिराचम्य पुनर्जपेत् ।
वाग्भवं पूर्वमुच्चार्य वदशब्दं ततो द्विधा ॥ ४-५१ ॥

बाग्वादिनि वदेद्वह्नि जयान्तो मनुरीतम् ।
जपेदष्टोत्तरशतं सर्वसिद्धिप्रदं मुने ॥ ४-५२ ॥

अनेन क्रमयोगेन भक्षयित्वा महौषधम् ।
योमयुक्तो मुनिर्ब्रह्मन्नचिरेनाधि गछति ॥ ४-५३ ॥

अस्याः प्रसादाद् वे वर्षे योगवानस्मिनिवृतः ।
एतेत् ते सर्वमाख्यातं यत् पृष्टोहम् इह त्वया ॥ ४-५४ ॥

गोपनीयं प्रयत्नेन ह्यनाख्येयमिदं व च ।
शृणु भूयः प्रवक्ष्यामि वीयं मस्याः समासतः ॥ ४-५५ ॥

त्रिविधेयं तो लोकेस्मिन् प्रख्याता तु महौषधी ।
राक्षसी मानुषी देवी तस्या लक्षलणमीरयेत् ॥ ४-५६ ॥

यस्या मर्त्यस्य सानुराक्षसिकामता ।

यातु भक्षितमात्रैव कामसं भोगलालसम् ।
कुर्यात् पुमांसमस्थेयं मानुषी परिकीर्तिता ॥ ४-५७ ॥

यातु भक्तितमात्रेण सम्यक् ज्ञानं प्रयछति ।
नविवर्णमुखं कुर्यान् नचोद्वन्तं विलोचनम् ॥ ४-५८ ॥

सा तस्य दैवीज्ञिय्या यथा वदनुपूर्वशः ।
गोपिता गोपनीये यं नानासिद्धि प्रयछति ॥ ४-५९ ॥

प्राकाशिता तु हास्याय तस्माताम्परि गोपयेत् ।
यो वा मूढम् अतिः सम्यम् इमां प्रगटयिष्यति ॥ ४-६० ॥

असूयकेभ्यो मूढेभ्यो रौरवं सपतिष्यति ।

नारद उवाच

एता वदुक्ता वचनं समाचास्य च मां द्विज ॥ ४-६१ ॥

सगणः पश्यतोमेसौ तत्रैवान्तरधीयते ।
ततोऽहं तस्य देवस्योपदेशेन महौषधीम् ॥ ४-६२ ॥

भक्षयन् रममाणश्च सञ्चरामि जगत्त्रयम् ।

सूत उचाच

श्रुत्वै तद् वचनं विप्रः कुमारो हृष्टमानसः ॥ ४-६३ ॥

नमश्चकारदेवेशं वाक्यं चेदमुवाच ह ।
धन्योसि कृत कृत्योसि मुक्तोसिमुनिसत्तम ॥ ४-६४ ॥

यस्य ते सिद्धिदा धन्या मान्याचेयं महौषधी ।
यस्या विना प्रसादेन वयं पशुवदा स्थिताः ॥ ४-६५ ॥

संशीलने न तु पुनर्भवतानुग्रहः कृतः ।
एतावन्त महाकालं विधिनावञ्चिता वयम् ॥ ४-६६ ॥

यदियं नश्रुता देवी न चैव परिशीलता ।
यस्याः शीलनमात्रेण ज्ञानं नाशमितं मम ॥ ४-६७ ॥

निशायां निचितं प्रातस्तमः सूर्योदये यथा ।

अथ भङ्गा स्तोत्रम्

समयाचारतन्त्रे

अथानन्तरतो देवि समयास्तोत्रमुत्तमम् ॥ ४-६८ ॥

येन स्तुता सिद्धि मूलीभक्षितां फलदा भवेत् ।
संविदे ब्रह्मसम्भूते ब्रह्मपुत्रिसदानघे ॥ ४-६९ ॥

भैरवानन्दीप्त्यर्थं पवित्रा भव सर्वदा ।
नमामि यामिनीनाथ लेखालङ्कृतमकाम् ॥ ४-७० ॥

भवानीं भव सन्ताप निर्वापणसुधां निधि ।
सिद्धमूलाश्रये देवीं नबोधप्रबोधिनीम् ॥ ४-७१ ॥

राजप्रजावशङ्करि कालकण्ठे त्रिशूलिनी ।
अज्ञाने धनदीप्ताङ्ग्ने ज्ञानविज्ञानरूपिणी ॥ ४-७२ ॥

आनन्दाद्याहुति प्रीते सम्यक् ज्ञानां प्रयछमे ॥ ४-७२एफ़् ॥

दण्डाधिरूढपरिपूरितभोगमोक्ष शुण्डाक्रमेण मदनाञ्जन कामिनीनाम् ।
आराधयामि वहुशत्रुपराजयन्तं विश्वेरी त्रिभुवनं विजयेति देवी ॥ ४-७३ ॥

आनन्दनन्दिनीनन्दे सदा वन्द्यपरद्वये ।
उल्लासकदलीकन्दे स्वछन्दे बोधरूपिणि ॥ ४-७४ ॥

कवचः कवितालहरीं कुरुते तत्त्वार्थ दर्शनं
पुंसाम् अपहरति दुरितनिलयं किं किं करोति संविदुल्लासः ॥ ४-७५ ॥

संविदासवयोर्मध्ये संविदेवगरीयसी ।
भक्षिताभवनाशाय निर्गन्धाबोधरूपिणी ॥ ४-७६ ॥

सुसंविच्छूलिनी देवी विजया संविदङ्कुरा ।
वैष्णवी तुलसी तुङ्गा तेजोवल्लिरसेश्वरीम् ॥ ४-७७ ॥

समया मोहिनी चैव सिद्धमूलीमहौषधी ।
मातुलानीज्ञानरूपा सिद्धविद्यासरस्वती ॥ ४-७८ ॥

यानि चैतानि नामानि सेवयेत् सिद्धमूलिकाम् ।
सम्प्राप्नोति परां विद्यां भुक्तिं मुक्तिं च वाञ्छिताम् ॥ ४-७९ ॥

पाण्डित्यं च कवित्वं च मन्त्रसिद्धिं च विन्दति ।

इति विजयास्तोत्रं समाप्तम् ।

समया गोपयेन्नित्यं शिष्येभ्यश्चापि सुन्दरि ॥ ४-८० ॥

विना समय या देवी सामर्थ्यं नैव जायते ।
सामर्थ्यं सहितो देवि सर्वकर्माणिसाधयेत् ॥ ४-८१ ॥

विना समय या पूजा न कुत्राऽपि शुभोदया ।
ब्राह्मेमुहूर्ते चोत्थाय भक्षिता पापनाशिनी ॥ ४-८२ ॥

तथा सूर्योदये जाते मध्याह्ने भक्षिता तथा ।
तथा पराह्ने विधिवत् सर्वपापविनाशिनी ॥ ४-८३ ॥

अर्द्धरात्रौ विशेषेण वाञ्छितार्थफल प्रदा ।
विना समय या देवि जपपूजादिकं चरेत् ॥ ४-८४ ॥

न च सिद्धिमवाप्नोति अभिचारायकल्पते ।
अपमृत्युहरानूनं रोगशोकविनाशिनी ॥ ४-८५ ॥

दुष्टशत्रुप्रशमनी सर्वलोकानुरञ्जिनी ।
सिद्धयो ह्यणिमाद्याश्च तस्य हस्ते विवस्थिताः ॥ ४-८६ ॥

कायिकं वाचिकं वापि मानसं चैव दुःकृतम् ।
एतत्सर्वं क्षयं जाति ब्रह्महत्यादिकं तथा ॥ ४-८७ ॥

समया भक्षिता येन समयाराधिता तथा ।
समयो पासिता येन रहितः सर्वपातकैः ॥ ४-८८ ॥

सशिवः स च योगी च सतपस्वीसती तथा ।
स एव मुनिमार्गस्थः समया येन भक्षिता ॥ ४-८९ ॥

भक्षियित्वा च समयां यं यं मन्त्रजपेन्नरः ।
समस्तफलमाप्नोति सत्यं सत्यं वरानने ॥ ४-९० ॥

विना समय या देवि मन्त्रं जपति नित्यशः ।
अल्पायुश्च भवेत् सद्यो देवतां कोपयेद् ध्रुवम् ॥ ४-९१ ॥

द्रव्यादीनामलाभेपि नित्यकर्मन लोपयेत् ।
प्रमादालोपयेद् यस्तु नरकं लभते ध्रुवम् ॥ ४-९२ ॥

इति भङ्गाविधानम्

इति श्रीशिवानन्दाचार्य रचिते कुलप्रदीपे चतुर्थप्रकाशः ॥ ४ ॥
पञ्चमः पटलः

अथ द्वितीयतृतीयचतुर्थमकारनिरूपणम् ।

समयाचारतन्त्रे

पशुनां भुक्तभोग्यानां मांसं देवि विनिर्मितम् ।
देवि मन्त्रे च विधिवत् तस्योक्ता शुद्धिरुत्तमा ॥ ५-१ ॥

रुद्रयामले

छागकुकुटवाराह शशजामृगसम्भवा ।
तव चक्रार्चने देवि शुद्धिः पञ्चविधा स्मृता ॥ ५-२ ॥

रोहितोमुद्गलं सौलं शफरिका वृहत् ।
पूजास्तव देवेशि मत्स्यः पञ्चविधिस्मृतः ॥ ५-३ ॥

कुलार्णवे

मांसं तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये ।
यथा सम्भवमेष्वेकं तर्पणार्थं प्रकल्पयेत् ॥ ५-४ ॥

मांससन्दर्शने वापि सुरादर्शनवत् फलम् ।
पितृदैवतयज्ञैषु वेदैर्हिंसाविधीयते ॥ ५-५ ॥

आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ।
अनिमित्तं तृणं वापि छेदयेन्नकदाचन ॥ ५-६ ॥

न देवतार्थे द्विजाङ्गां वाहत्वा पापैर्नलिप्यते ।
मामना दृत्युपुण्येऽपि पापं स्यात् प्रत्यवायतः ॥ ५-७ ॥

मग्निमित्तं कृतं पापं पुण्यं भवति शोम्भवि ।
यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता ॥ ५-८ ॥

श्रीकौलदर्शने देवि भैरवे नमहात्मना ।
तत् कर्मकुर्वतां पुंसां कर्मलोपो न विद्यते ॥ ५-९ ॥

तत् कर्म ते प्रकुर्वन्ति सप्तजन्ममुनीश्वराः ।
हन्न्यान् मन्त्रेण चाण्येन त्वभिमन्त्रा पशुशिवे ॥ ५-१० ॥

गन्धपुष्पैः समभ्यर्चय अन्यथा नरकं व्रजेत् ।
शिवोत्कृतमिदं पिण्डं मन्तस्त्वं शिवतां गतः ॥ ५-११ ॥

उद्बुध्यस्वपशोत्वं हि नाशिवस्त्व शिवोह्यसि ।
ब्रह्मा स्यात् पलले विष्णुः गन्धरुद्रश्च तद्रचौ ॥ ५-१२ ॥

परमात्मा तदा नन्दे तस्मात् सेव्यमिदं प्रिये ।
मांसा भावतुलसु न मार्द्रकं नागरं तु वा ॥ ५-१३ ॥

आदाय पूजयेद् देवि चान्यथा निःफलं भवेत् ।
सत्स्य मांसाविहीनेन मद्येनापि न तर्पयेत् ॥ ५-१४ ॥

न कुर्यान् मत्स्यमांसाभ्यां विना द्रव्येणपूजनम् ।
पिशितं तिलामात्रं तु तिलार्धमलिविन्दुना ॥ ५-१५ ॥

सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत् ।

उत्तरतन्त्रे

ॐ प्रतद्विष्णुस्तव ते वीर्येणमृगोन भीमः ॥ ५-१६ ॥

कुचरोगिरिष्टाः

यस्यो रुषुत्रिषुविक्रमणेष्वधिक्षयन्ति भुवनानि विश्वाः ।

इति मांसशोधयेत्

ॐ त्र्यम्बकं यजामहे सुगन्धिपुष्टिवर्द्धनम् ॥ ५-१७ ॥

उर्वारुकम् इव बन्धनान् मृत्योर्मुक्षीयमामृतात् ।

इति मीनशोधयेत्

रुद्रयामले

गोधूममुग्धमाषाश्चतन्दुलाश्चणकस्तथा ॥ ५-१८ ॥

पूजने तव देवेशि मुद्राः पञ्चविधाः स्मृताः ।

समयाचारतन्त्रे

गुडादिमध्ये निक्षिप्यकुर्वति घुतिवर्धिनीम् ॥ ५-१९ ॥

मुद्रान्तं विधिना प्राहुश्चणकादीश्च वर्जिताम् ।
या रोटिका पालिका च भक्ष्येषु कथिता शुभा ॥ ५-२० ॥

ॐ तद् विष्णो परमं पदं सदा पश्यन्ति सूरयः दिवी व चक्षुरा ततं तद् विप्रासो विपराय वीजागृवांसः समिधत्ते विष्णोः यत् परमं पदम् ।

इति मुद्राशोधनम् ।

इति द्वितीय तृती * चतुर्थमकारनिरूपणम् ॥

अथ पञ्चमकारनिरूपणम् ।

शिवागमे ।

शक्तिः शवः शिवः शक्तिः शकिर्ब्रह्माजनार्दनः ।
शक्तिरिन्दोरविः शक्तिः शक्तिचञ्द्रोग्रहो ध्रुवम् ॥ ५-२१ ॥

शक्तिरूपं जगत्सर्व यो नजातिनारकी ।

समयाचारतन्त्रे ।

प्रथमं तु भवेन् मद्ये मांसे चापि द्वितीयकम् ॥ ५-२२ ॥

मत्स्ये ह्यति तृतीयं स्यान् नाममुद्राचतुर्थकम् ।
पञ्चमे पञ्चमं विद्यात् पञ्चैते नाम तु स्मृताः ॥ ५-२३ ॥

पञ्चानां पञ्चनामानि मकाराणां वरानने ।
प्रथमस्य द्वितीयस्य तृतीयकचतुर्थयोः ॥ ५-२४ ॥

पञ्चमस्य तथा देवि मकाराः पञ्चदुलभाः ।
पञ्चमं देवि सर्वेषु मम प्राणा भवेत् प्रिये ॥ ५-२५ ॥

पञ्चमेन विना देवि चण्डिमन्त्रं वृथा जपेत् ।
यदि सर्वमकारेषु भ्रान्ति च कुरुते प्रिये ॥ ५-२६ ॥

तस्य सिद्धिः कथं देवि शक्तिमन्त्रं जपेत् कथम् ।
पञ्चमेन विना देवि भुक्तिमुक्ति कथं भवेत् ॥ ५-२७ ॥

पञ्चमेन विना देवि कथं च फलदा भवेत् ।
पञ्चमेन तथा देवि यदा नन्दो भवेत् ध्रुवम् ॥ ५-२८ ॥

तन्नाममोक्षो विदुषामबुधानां च पातकम् ।
आनन्दः परमं ब्रह्म मकारानन्दसूचकाः ॥ ५-२९ ॥

भगस्य स्मरणे पुण्यं भगस्य दर्शने तथा ।
भगस्य पूजने पुण्यं भगस्य पञ्चमे तथा ॥ ५-३० ॥

भगस्य पञ्चमे देवि यत् सुखं मम जायते ।
न तत् सुखं जपे होमैर्नदानैस्तपसा तथा ॥ ५-३१ ॥

पञ्चमे तु कृते देवि यत् पुण्यं भुवि जायते ।
न तत् पुण्यसमं देवि कोटितीर्थस्य दर्शनम् ॥ ५-३२ ॥

जपो होमस्तथा दानं दीक्षा यागादि कल्पनम् ।
कृतं पञ्चमभक्तस्य कलानार्हन्तिषोडशीम् ॥ ५-३३ ॥

त्रयोदशाब्दां दर्द्धं हि पञ्चविंशतिवार्षिकी ।
अप्रसूता विशेषेण पञ्चमार्ही भवेत् प्रिये ॥ ५-३४ ॥

अप्रसूता विशेषेण प्रसूता चाप्रसूतिका ।
अवश्यं पञ्चमं कुर्या छक्तिमात्रं महेश्वरि ॥ ५-३५ ॥

पञ्चमे च कृते देवि यत् कुर्यात् पूजनादिकम् ।
तदक्ष्यं लभेत् पुण्यं नात्रकार्याविचारणा ॥ ५-३६ ॥

पञ्चमार्था च या शक्तिस्तस्यां कुर्याच्च पञ्चमम् ।
तस्याः स्तोत्रं प्रकुर्याच्च विशेषेण शृणु प्रिये ॥ ५-३७ ॥

द्रव्येणभूषणैश्चैव वसनालेपनादिभिः ।
चतुःपीठानिसुभगे शक्तिदेहे तु यानि च ॥ ५-३८ ॥

तानि चत्वारिवक्ष्यामि गुह्याद्गु * तराणि च ।
शक्तेः सर्वशरीरं यत् पीठं पूर्णगिरिर्मतम् ॥ ५-३९ ॥

तस्याः शिरश्च सुभगे उड्याणं कीर्तितं मया ।
स्तनौजालन्धरं ज्ञेयं कामरूपं भगं स्मृतम् ॥ ५-४० ॥

सर्वेषु कामपीठं यद् देवानामपि दुर्लभम् ।
एषु पीठेषु संस्थित्वा यं यं मन्त्रं जपेत् प्रिये ॥ ५-४१ ॥

तत् तस्य फलमाप्नोति देवता सुप्रसीदति ।

कुलपञ्चामृते

पाने भ्रान्तिर्भवेद् यस्य घृणास्याद्रक्तरेतसौ ॥ ५-४२ ॥

शुधौ चाशुधतां भ्रान्तिः पापाशङ्का च मैथुने ।
सभ्रष्टः पूजयेद् देवीं चण्डीमन्त्रं कथं जपेत् ॥ ५-४३ ॥

रोगीदुःखी भवेद् देवी रौरवं नरकं व्रजेत् ।

रुद्रयामले

रजकी चर्मकारी च वेश्या चैव रजस्वला ॥ ५-४४ ॥

मातङ्गी मधुमता च अर्चने शक्तयः स्मृताः ।
यत् किञ्चित् सङ्गन्नतीर्थं विद्यते भूमिमण्डले ॥ ५-४५ ॥

तानि सर्वाणि तिष्ठन्ति मातङ्गी सङ्गमेसु कृत् ।
वेश्यागृहं प्रयागश्च रजक्याः पुष्करं प्रिये ॥ ५-४६ ॥

चर्मकार्या भवेत् काशी सर्वतीर्थं रजस्वला ।
पञ्चमेन विना द्रव्यं यः कुर्यात् साधकाधमाः ॥ ५-४७ ॥

तत् सर्वं निःफलं देवि सत्यं सत्यं न संशयः ।
चण्डाली चर्मकारी च मातङ्गीमांसकारकी ॥ ५-४८ ॥

मद्यकारी च रजकी क्षुरकी विश्वयोनिका ।
अष्टौताः कुलयोगिन्यः सर्वसिद्धिप्रदायकाः ॥ ५-४९ ॥

तदा भावेतदन्याश्च या कश्चिदपि कीर्तिताः ।

श्रीकुलार्णवे

चाण्डाली चर्मकारी च मातङ्गीपुलसी तथा ॥ ५-५० ॥

श्वपची खटिकी चैव कैवर्ती विश्वयोषितः ।
कुलाष्टकमिमि प्रोक्तमकुलाष्टकमुच्यते ॥ ५-५१ ॥

कञ्चुकी शौण्डिकी चापि स्पस्त्रजीवी च रञ्जिका ।
गायकी रजकी शिल्पी कोसटी च तथाष्टमी ॥ ५-५२ ॥

मन्त्र तत्र समायुक्ताः समयाचारपालिकाः ।
कुमारी या व्रतस्था वा योगमुद्राधरापि वा ॥ ५-५३ ॥

पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा वुधैः ।
उक्त जात्यङ्गना भावे चतुर्वर्णां गणा यजेत् ॥ ५-५४ ॥

सुरूपातरुणाशान्ता अनुकूलाद्रत्ताशुचिः ।
शङ्काहीना भक्तिद्युक्ता गूढशास्त्रोपयोगिनी ॥ ५-५५ ॥

अलोलुपासुशीला च स्मितास्या प्रियवादिनी ।
गुरुदैवत सद्भक्ता सुचित्ता कौलिक प्रिया ॥ ५-५६ ॥

विमत्सराविशेषेण देवताराधनोत्सुका ।
मनोहरा सदाचारा शक्तिरेषा सुलक्षणा ॥ ५-५७ ॥

दुष्टोग्रा कर्कशास्तब्ध कुत्सिता कुलदूषिका ।
दुराचारापराधीनी भीता कृद्धा तु रालसाः ॥ ५-५८ ॥

निद्रासक्ताति दुर्मेधी हीनाङ्गी व्याधिपीडिता ।
दुर्गन्धादुःखितामूढां वृद्धोन्मत्तारहस्यभित् ॥ ५-५९ ॥

कुतर्ककुत्सितालापा निर्लज्जाकलहप्रिया ।
विरूपोन्मार्गगादुष्टा पग्बन्धावनिताननाः ॥ ५-६० ॥

ईद्रशीं मन्त्रयुक्तां बाशक्तियागे विवर्जियेत् ।
भृगुवरिकुलेशानि कान्तामारूढयौवनाम् ॥ ५-६१ ॥

सर्वलक्षणसम्पन्नामनुकूला मनोहरा ।
कुलाकुलाष्टकं वापि नमन्त्रोद्भुतपुष्पिणीम् ॥ ५-६२ ॥

अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् ।
गन्धपुष्पां वसकल्पैरलङ्कृत्य विधानवित् ॥ ५-६३ ॥

स्वात्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि ।
आवाह्य देवतां तस्यां न्यसेन् न्यासक्रमेण च ॥ ५-६४ ॥

कृत्वा क्रमार्चनं धूपं दीपं च कुलदीपकैः ।
प्रदर्शयेद् देवता वुध्या पदार्थैः षड्रसान्वितैः ॥ ५-६५ ॥

मांसालिभक्ष्यभोज्याद्यैस्तोषयेदतिभक्तितः ।
प्रौढान्तोल्लाससहितां ता प्रपश्यन् जपेन्मनुम् ॥ ५-६६ ॥

यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः ।
निर्विकारेणचित्तेन ह्यष्टोत्तरसहस्रकम् ॥ ५-६७ ॥

जपादिकं समर्प्याथ तया सह निशां नयेत् ।
त्रिपञ्चसप्तनवमबृगुवारेषु यः प्रिये ॥ ५-६८ ॥

पूजयेद् विधिनानेन तस्य पुण्यं नगण्यते ।
चतुःपीठार्चनफलं समाप्नोति कुलेश्वरि ॥ ५-६९ ॥

यद्यत् समनसोभिष्ट तत् तदाप्नोत्य संशये ।
नवम्यां वार्चये देवं विधानेन विधानवित् ॥ ५-७० ॥

सोत्रै व पूज्यते सर्वै महहैश्वर्यमाप्नुयात् ।

तन्त्रान्तरे

ब्राह्मणीक्षत्रियावैश्या शूद्रा च कुलभूषणा ॥ ५-७१ ॥

वेश्यानापित कन्या च रजकी योगिनी तथा ।
विशेष वै दग्धयुताः सर्वा एवा कुलाङ्गनाः ॥ ५-७२ ॥

अष्टकन्यारूपभेदं विलोक्यामलचेष्टितम् ।
ब्रह्मण्याद्यष्टशक्तीनां नामभिः कृत सञ्ज्ञकाः ॥ ५-७३ ॥

आसनं प्रथमं दत्वा स्वागतं च पुनः पुनः ।
अर्घ्यं पाद्यं च पानीयं मधुपर्कं जलं ततः ॥ ५-७४ ॥

स्नापयेद् गन्धपुष्पाद् भिः केशसंस्कारमाचरेत् ।
धूपयित्वा ततः केशान् कौशेयं च निवेदयेत् ॥ ५-७५ ॥

ततस्थानान्तरे पीठमास्तीर्यं पादुकायुगम् ।
दत्वा तत्र समासीनां नानालङ्कारभूषेणैः ॥ ५-७६ ॥

भूषयित्वानुलेपं च गन्धमाल्यं निवेदयेत् ।
तां तां शक्ति समावाह्य मूर्ध्नितासां समर्चयेत् ॥ ५-७७ ॥

भोज्यं मण्डलमध्ये तु स्वर्णपात्रे सुशोभने ।
चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं निवेदयेत् ॥ ५-७८ ॥

अदीक्षिता यदि भवे ततो मायां निवेदयेत् ।
तासां सव्येषु कर्णेषु ततः स्तोत्रं समाचरेत् ॥ ५-७९ ॥

मातर्देवि नमस्ते रक्तब्रह्मरूपधरे नघे ।
कृपया हर मे विद्मं मन्त्रसिद्धिप्रयछमे ॥ ५-८० ॥

माहेशिवरदे देवि परमानन्दरूपिणी ।

कृपया ।

कौमारी सर्वविघ्नेशो कुमारक्रीडनेवरे ॥ ५-८१ ॥

कृपया ।

विष्णुरूपधरे देवि वनितासुतवाहनी ।

कृपया ।

चामुण्डे मुण्डमालासृक् च चित्ते विघ्ननाशिनी ॥ ५-८२ ॥

कृपया ।

महालक्ष्मी महोत्साहे क्षोभसन्तापनाशिनी ।

कृपया ।

मतिमातृमये देवि मितामातृबहिष्कृते ॥ ५-८३ ॥

एके व वहुधे देवि विश्वरूपे नमोऽस्तुस्ते ।
एतस्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ॥ ५-८४ ॥

विदग्धां वासमालोक्य तस्य विघ्नं न जायते ।
दीक्षाकाले नित्यपूजा समयेनार्चयेद् यदि ॥ ५-८५ ॥

तस्य पूजाफलं वत्सनीयते ब्रह्मराक्षसैः ।
यदि व्रीडा परास्तास्तु भोजयेत् तद् गृहाद्वहिः ॥ ५-८६ ॥

स्थित्वास्तोत्रं पठेत् तावद् यावत् तृप्तिः प्रजायते ।
आचम्यमुखवासादि ताम्बूलं च निवेदयेत् ॥ ५-८७ ॥

ततो दद्यात् पुनमार्ल्यं गन्धं च कुलसञ्चयम् ।
विसृज्य प्रदक्षणी कृत्य वरं प्रार्थ्य सुखी भवेत् ॥ ५-८८ ॥

भावचूडामणौ ।

अदीक्षिताङ्गना सङ्गात् सिद्धिहानिः प्रजायते ।
तत् कथा श्रवणं वास्यात् तत् तल्पागमनं यदि ॥ ५-८९ ॥

सुकुलीनः कथं देवि पूजयेत् परमेश्वरीम् ।
श्रीक्रमोसंशोधनं कृत्वा स्त्रियं गछेत् सुसाधकः ॥ ५-९० ॥

कृतेऽपि सिद्धिहानिः स्यात् क्रुद्धा भवति चण्डिका ।

कुलतन्त्रे ।

अभिषेकाद्भवे छक्ति द्विर्मन्त्रस्योच्चारणाछ्रुतौ ॥ ५-९१ ॥

रतिकाले महेशानि दीक्षाकाले च कन्यकाः ।
बलाद् वा यत्नतोप्यर्थाद् अभिषेकं समाचरेत् ॥ ५-९२ ॥

सुरयारेतसा वापि जलेनमधुनाथवा ।
सम्भोगेऽभिषिचेन्नारी रण्डा वा मन्त्रवर्जिताम् ॥ ५-९३ ॥

आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् ।
नमः शब्दं समुच्चार्य इमांशक्तिं ततो वदेत् ॥ ५-९४ ॥

पवित्री कुरुशब्दान्ते मम शक्तिं कुरु प्रिये ।
वह्निजायां समुच्चार्य शुद्धिर्मन्त्रः सुरेश्वरि ॥ ५-९५ ॥

अनेनमनुना देवि अभिषिक्ताः स्त्रिय सदा ।
रमणो भ्रम्रेन्नित्यं सर्वसिद्धिमवाप्नुयात् ॥ ५-९६ ॥

इहलोके परं भोगं भुत्त्कामुक्तिमवाप्नुयात् ।

अन्यत्रापि

आनीय कन्यकाभद्रां घृणालज्जाविवर्जिताम् ॥ ५-९७ ॥

स्वकान्तां परकान्तां वा दीक्षितां यौवनोन्नताम् ।
पूजकः पूजयेन्नित्यं वामपार्श्वे निवेश्य च ॥ ५-९८ ॥

स्वीयकल्पोक्तविधिना न्यासजालं प्रविन्यसेत् ।
ततो जपेत् स्त्रियं गछन् स्वविद्यां भवतारिणीम् ॥ ५-९९ ॥

कुमारी तन्त्रे

नटी कापालिनीवेश्या रजकीनापिताङ्गना ।
ब्राह्मणीशूद्रकन्या च तथा गोपालकन्यका ॥ ५-१०० ॥

मालाकारस्य कन्यापि नवकन्याः प्रकीर्तिताः ।
एतासुकां चिदानी यततस्तद् योनिमण्डले ॥ ५-१०१ ॥

पूजयित्वा महादेवि ततो मैथुनमाचरेत् ।
धर्माधर्महविर्दीप्ते आत्माग्नौमनसास्रु चा ॥ ५-१०२ ॥

सुषुम्णावर्त्त्मणा नित्यमक्षवर्तीजुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः ॥ ५-१०३ ॥

ततो जपन् स्त्रियं गछन् देवीं त्रिभुनेश्वरीम् ।
प्रकाशामर्शहस्ताभ्यामवलंव्योन्मनीशुचम् ॥ ५-१०४ ॥

सुषुम्णावर्त्मनो नित्यमक्षवर्ती जुहोम्यऽहम् ।
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे विधीयते ॥ ५-१०५ ॥

कुलार्णवे

शिवशक्तिसमायोगे यत् सुखं खलुजायते ।
सा सन्ध्या कुलनिष्टानां समाधिः सा विधीयते ॥ ५-१०६ ॥

कौलिकतन्त्रे

पञ्चमाच्च परं नास्ति शाक्तानां सुखमोक्षयोः ।
भगरूपा च या देवि रेतः प्रेता सदा नघे ॥ ५-१०७ ॥

केवलैः पञ्चमैर्देवि सिद्धो भवति साधकः ।
ध्यात्वा कुण्डलिनीं देवी रमन् रेतो विमुञ्चयेत् ॥ ५-१०८ ॥

अमन्त्रा च यदा नारी बालायत्नाच्च लभ्यते ।
आत्मदेहे स्वरूपेण तत् कर्णे मन्त्रमुच्चरेत् ॥ ५-१०९ ॥

ततः सा शक्तिरूपा स्याद् भुक्तिमुक्तिप्रदायिनी ।
पञ्चमेन तु देविशि सर्वपापैः प्रमुच्यते ॥ ५-११० ॥

केवलेनाद्ययोगेन साधकोभैरवो भवेत् ।
द्वितीयेन महेशानि पूजको ब्रह्मरूपभाक् ॥ ५-१११ ॥

केवलेन तृतीयेन महाभैरवतां वर्जेत् ।
चतुर्थेन तु तत्त्वेन भुविपूज्यैकनायकः ॥ ५-११२ ॥

परे च ममतायाति मम तुल्यः परेश्वरि ।
पञ्चमेन भवेद् भोगी सर्वसिद्धिपरायणः ॥ ५-११३ ॥

इति श्रीशिवानन्दाचार्य विरचिते कुलप्रदीपे पञ्चमः प्रकाशः ॥ ५ ॥

षष्ठः पटलः

अथ दूतीयागविधिः ॥

देवी यामले

ईश्वर उवाच

दूतीयागविधिं वक्ष्ये कौलधर्मोत्तमोत्तमम् ।
तस्यनुष्टानमात्रेण स्वयं ब्रह्मत्वमाप्नुयात् ॥ ६-१ ॥

सन्ति नानाविधा धर्मा एहि कामुष्मिक प्रदाः ।
तत् सारं तु समालोक्य तथान्यन्मन्त्रसङ्ग्रहम् ॥ ६-२ ॥

तन्मध्ये सारभूतं च सद्यः प्रत्ययकारकम् ।
नस्याऽपि वरारोहे प्रोक्तवान् त्रिदिशेष्वति ॥ ६-३ ॥

दूतीयागे कृते मन्त्र सर्वज्ञो जायते ध्रुवम् ।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरति ॥ ६-४ ॥

देवायक्षाश्च गन्धर्वा ऋषयश्च मुनीश्वराः ।
ब्रह्मविष्णुमहेशाद्यास्तथा च पितृ देवता ॥ ६-५ ॥

दूतीयागविधिं कृत्वा तत् पदमवाप्नुयुः ।
विविधः सुकृती कृत्वा दूतीयागं तु पार्वति ॥ ६-६ ॥

कृत कृत्यो न सन्देहः सुन्दरी सुप्रसीदति ।
येषां वंशे प्रजायेत दूतीयागो महेश्वरि ॥ ६-७ ॥

ते धन्याश्च समर्द्धास्ते स्तेवन्द्याः सुहृदः सदा ।
कायेन मसावाचा सर्वथा न प्रकाशयेत् ॥ ६-८ ॥

सुतं पुत्नीं शिरोदद्यान् नदेयमिदमुत्तमम् ।
कुर्यात् प्रयत्नतश्चैव दूतिकायजनं प्रिये ॥ ६-९ ॥

यैः कृतं यजनं दूत्यास्तैरिष्टाः क्रतव्योखिलाः ।
सर्वतीर्थमयः प्रोक्तः सर्वदैवमयो भवेत् ॥ ६-१० ॥

पुरश्चर्यादि सकलं कृतं तेन न संशयः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ६-११ ॥

आसमुद्रां च धरणी दत्तातेन सदक्षिणा ।
मेरुमन्दिरतुल्यानि सुवर्णान्यर्पितानि वै ॥ ६-१२ ॥

गो कोटिनाद् यत् पुण्यं तत् पुण्ये जायते प्रिये ।
तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् ॥ ६-१३ ॥

पूजा सम्पूर्णदं भद्रे सर्वारिष्टप्रशामकम् ।
यदनुष्टानमात्रेण सर्वमाचारितं भवेत् ॥ ६-१४ ॥

शक्ति पूजा प्रकर्तव्या विधिवद्भक्तिसंयुतैः ।
अथ दूत्रीं प्रवक्ष्यामि लक्षणानि च सुन्दरि ॥ ६-१५ ॥

अचञ्चला सलज्जा च कुलजा मृदुभाषिणी ।
पटुः सुशीला प्रिय वाक् गुरुसुश्रषयोरता ॥ ६-१६ ॥

दयां धर्मरताशान्ता हि तदा सुखरूपिणी ।
रूपयौवनसम्पन्ना निश्चला मन्त्रतत्परा ॥ ६-१७ ॥

सदा तुष्टा तु पुष्टाङ्गी सुन्दरी माननी शुचिः ।
नाति कुब्जा च दीर्घा च चारुसर्वाङ्गसंयुता ॥ ६-१८ ॥

दीर्घकेशी विशालाक्षी सूत्र सुस्पृष्टनासिका ।
पूर्णगण्डकपोला च रक्तोष्टी च सुदन्तिका ॥ ६-१९ ॥

वर्तुला नलगौरा च सुहनुः कम्बुकण्ठिनी ।
सुबाहु वल्लीयुक्ता च वृत्तपीनपयोधरा ॥ ६-२० ॥

कृशमध्यासुनाभिः स्याद् अरुस्तम्भाति मांसला ।
सरलाङ्गुलिका युक्ता सर्वलक्षणसंयुता ॥ ६-२१ ॥

कायेन मनसा वापि स्वार्थलौल्यविवर्जिता ।
पूजयाप्रयत्नेन पञ्चविंशतिवार्षकी ॥ ६-२२ ॥

अप्रसूता विशेषेण श्यामां चैवोमामता ॥ ६-२२एफ़् ॥

श्यामलक्षणं कामशास्त्रे ।

स्निग्धनर व नयनदन्त्तनानिरनुशयामानिनां स्थिरस्नेहा ।
सुस्पर्शशिशिरमांसलवराङ्गविवराङ्गनाश्यामेति ॥ ६-२३ ॥

अतदूर्ध्व न पूज्यास्याद् इत्याज्ञा पारमेश्वरी ।
पूजिता चेद् वरारोहि तर्पणं निष्फलं भवेत् ॥ ६-२४ ॥

अर्चनेषु प्रयोक्तव्याः कामिन्यो भक्ति चेतसा ।
ता यदा रजसा युक्तास्ततः पूज्या महाफला ॥ ६-२५ ॥

आत्मीयाश्च पराश्चैव पुष्पवन्तीः प्रपूजयेत् ।
अत्र द्वेषपरोमूर्खो दारिद्र्यं समवाप्नुयात् ॥ ६-२६ ॥

अथ पूजा फलं वक्ष्ये उत्तरोत्तरतोत्तरम् ।
स्वशक्त्या अयुतं पुण्यं परशक्तिः प्रपूजने ॥ ६-२७ ॥

ततो वेश्याधिका ज्ञेया रजकी च ततोधिका ।
रक्त्या क्षुरकी श्रेष्टा क्षुरक्याश्चर्मकार्णी ॥ ६-२८ ॥

ततोधिकतरा प्रोक्ता हेतु नारी वरानने ।
ततोधिकान्त्यसम्भूता चाण्डाली च ततोधिका ॥ ६-२९ ॥

ततो मातङ्गिनी श्रेष्टा मातङ्ग्याः पुष्कली तथा ।
पुष्कल्या अक्षता श्रेष्टा ततोऽति सुन्दरी स्मृता ॥ ६-३० ॥

सुन्दरी परतः प्रोक्ता प्रीतिवव्यनुकारिणी ।
तत्परापरमेशानि उन्मत्ता शुभलक्षणा ॥ ६-३१ ॥

समयाचारसम्पन्ना मन्त्रज्ञाभयवर्जिता ।
विदग्धा त्व प्रसूता च धैर्यस्वातन्त्र्यसंयुता ॥ ६-३२ ॥

एवं गुणसमायुक्ता पूजयेत् सर्वयोषितः ।
आत्मीयाश्च पराश्चैव शक्तिमात्रं महेश्वरि ॥ ६-३३ ॥

मन्त्राधि देवता वुध्या पूज्याः सर्वोपचारकैः ।
विविधैः फलताम्बुलवस्त्रालङ्कारहेमभिः ॥ ६-३४ ॥

सम्पूज्य विधिवद्भक्त्या बहुहेतुं प्रदापयेत् ।
सम्भोगवासनां धृत्वा यः कुर्यात् छक्ति पूजनम् ॥ ६-३५ ॥

सदारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवम् ।
परमानन्दरूपेण देहभावविवर्जितः ॥ ६-३६ ॥

शक्त्यायुक्तं देवेशि तदचे शाम्भवी स्वयम् ।
तदाज्ञा तु प्रकर्तव्या तदा श्रेयः प्रवर्तते ॥ ६-३७ ॥

शक्त्याज्ञालङ्घकोमन्त्री तपस्तेपेनिरर्थकम् ।
कृते तत्रोपहास्यादि कुष्टी भवति नान्यथा ॥ ६-३८ ॥

तस्मात् सर्वप्रयत्नेन तद्वाक्यं तु समाचरेत् ।
व्यङ्गाङ्गी विकृताङ्गी च काणाक्षी बधिरा तथा ॥ ६-३९ ॥

मुण्डिनी विधवामूका प्रलापिन्य नृतभाषिणी ।
अदीक्षिता भक्तिहीना गुरुसेवा विवर्जिता ॥ ६-४० ॥

दूषकी समयभ्रष्टाचोरा किन्तु विचारिणी ।
वृद्धातुरावक्रमुखी क्रोधदुर्गन्धकश्यला ॥ ६-४१ ॥

सदा च निष्टुरावाणी अनाचारा च काकवाक् ।
दीर्घदन्ता च लम्बोष्टी शुष्कस्तननितम्बिनी ॥ ६-४२ ॥

कृष्णवर्णानि मलिना कृशा विकलचेतनी ।
महास्छूलातिरोगार्ता प्रलम्बितपयोधरा ॥ ६-४३ ॥

ईषन्नासिकनेत्रा च शुष्काङ्गी चोर्ध्वकेशनी ।
कनिष्टाक्रोडदन्ता च सदा स्वार्थसमन्विता ॥ ६-४४ ॥

कुष्टीहीनाङ्गिनी चैव पग्बन्धा चातुललसा ।
श्वेताङ्गिनी रौद्रबिंवा छागयोनिपिशाचिका ॥ ६-४५ ॥

मतिभ्रष्टाति विकला अतिदीर्घाति कुब्जिका ।
एतल्लक्षणसंयुक्ता शक्तिर्यत्नेन वर्जयेत् ॥ ६-४६ ॥

विशेषतः प्रयत्नेन विधया परिवर्जयेत् ।
शक्तिपात्रं न दातव्यं विधवायैकदाचन ॥ ६-४७ ॥

अज्ञानाल्लभतो मोहादत्ते पूजा तु निःफलाः ।
तस्माद्दूती प्रकर्तव्या लक्षणोक्ता तु पार्वति ॥ ६-४८ ॥

तथा ब्रह्मयामले ।

नारद उवाच

सर्वज्ञजगतां नाथ शाक्तं चेत् श्रुति चोदितम् ।
मातङ्गी पूजनं तत्र कथं मुक्ति प्रदायकम् ॥ ६-४९ ॥

अर्चने प्रथिता वेश्या वेश्या सा तु रजस्वला ।
रजस्वला च मातङ्गी सा दूती सर्वमङ्गला ॥ ६-५० ॥

इति प्रोक्तं त्वया पूर्वमिदानीं तद् विपर्ययः ।
एतद् वाक्यमभूद्ब्रह्मन्नेतद्वद पितामह ॥ ६-५१ ॥

ब्रह्मोवाच

माकुरुष्वात्रसन्देहं वेदोक्तं शाक्तमुत्तमम् ।
अस्ति सर्वज्ञकल्पोसौ मतङ्गोमुनि पुङ्गवः ॥ ६-५२ ॥

वर्षाणामयुतं वत्सतप उग्रं च कारह ।
तेन प्रीता महादेवी देवानां हितकारिणी ॥ ६-५३ ॥

वरंवृणीष्वभगवन् दास्यामि तव वाञ्छितम् ।
तछ्रुत्वा द्विजवर्यस्तां यया चे धर्मसाधनम् ॥ ६-५४ ॥

हे देवि जगतान्मातः प्रीता चेद्यदि साम्प्रदम् ।
अपत्यातां समासाद्यमत्कुलालम्बनं कुरु ॥ ६-५५ ॥

इत्यभ्यश्च मनिश्रेष्टो जनयामासतां सुताम् ।
श्यामलां चारुवदनां वीणाशुकसमन्विताम् ॥ ६-५६ ॥

शारिकां ज्ञानसम्पन्नां जपमालाकराम्बुजे ।
धारयन्तीं विशालाक्षीं शङ्खताटङ्कशोभिनी ॥ ६-५७ ॥

सा बभूव महादेवि मतङ्गकुलनन्दिनी ।
मातङ्गीति तदा देवी विख्याता वरदायिताम् ॥ ६-५८ ॥

विलोक्य तदा शम्भुर्दूतीचक्रे सुलक्षणम् ।
त्रिपुरञ्जे तु कामेन योनिपूजा तदा कृता ॥ ६-५९ ॥

प्रत्यालीढ्य स्थिता देवि पूजां स्वीकृत्य निश्चला ।
तदा दुष्टराजो भूत्वा तां व व्रेशं करः प्रियाम् ॥ ६-६० ॥

तदा प्रभृतिसञ्जातो दूतीयागे मनोहरेः ।
प्रणवेन तदा शम्भुस्तया सार्द्धं रतं भजेत् ॥ ६-६१ ॥

प्रणवान्तर्गतं मन्त्रं मातङ्ग्याख्यं विनिर्गतम् ।
सर्वसौभाग्यजननं मालामभूत्तदा ॥ ६-६२ ॥

रसावापि पदा देव्यामनिन्द्यं लोकरञ्जनम् ।
मातङ्गी मन्त्रमत्यर्थं मन्मथ प्रतिपादकम् ॥ ६-६३ ॥

आर्द्यन्तशून्या सा देवी तस्मात् ख्याता तदन्त्यजा ।
मातङ्गी अन्त्यवर्णस्था तदा सा अन्त्यजा भवेत् ॥ ६-६४ ॥

अन्त्यजानां द्विजानां च चक्रे ऐक्यं प्रशस्यते ।
सा देवी सर्ववर्णानां वरं दत्वा वरं तदा ॥ ६-६५ ॥

न दोषं तत्र विज्ञेयं सर्वं ते श्रुति चोदितम् ।
देवीमुद्दिमोक्षार्थं कृतं यद्दोषवर्जितम् ॥ ६-६६ ॥

एतछास्त्रमिदं दिव्यं नवाच्यं श्रुति चोदितम् ।
अन्तर्यागमिदं ज्ञेयं बहिर्यागं च वैदिकम् ॥ ६-६७ ॥

मन्त्रतन्त्रसमायुक्तं तद्वयं ब्रह्मबोधकम् ।
चक्रे सङ्केतसमयं सर्वतुभ्यं प्रकाशितम् ॥ ६-६८ ॥

गोपनीयं प्रयत्नेन नवाच्यं पशुसन्निधौ ।
त्वजशङ्का महाभाग सत्यमेतन्मयोदितम् ॥ ६-६९ ॥

मातङ्गी पूजने श्रेष्टं दूतीयागे मनोहरे ।
योनिपूजां विना पूजा कृतमप्य कृतं भवेत् ॥ ६-७० ॥

स्मृत्वा केनाऽपि सर्वज्ञस्सभवेद्विगतामयः ।
आयुरारोग्य विभवानमितान् लभते नरः ॥ ६-७१ ॥

अनेनैव विधानेन विषार्तोनिर्विषो भवेत् ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ ६-७२ ॥

मातङ्गी शक्तिमभ्यर्च्य तया सा कं समर्चयेत् ।
मातङ्गी मन्मथोपेता सर्वकामार्थसिद्धये ॥ ६-७३ ॥

शाक्ता साकं सदा पूज्या मातङ्गी मन्त्रदेवता ।
सा देवी शक्तिहीना तु न ददाति मनोरथम् ॥ ६-७४ ॥

निःशङ्कां निर्मलां नन्वीं श्यामां चारूपयोधराम् ।
कौलिकान्वयसम्भूतां दीक्षितां क्रोधवर्जिताम् ॥ ६-७५ ॥

दीक्षितां कौलिके यागे सुशीलां च दृढव्रताम् ।
त्रिंशत्संवत्सराधस्थां षोडशाब्दाधिकामपि ॥ ६-७६ ॥

पूजयेत् परया भक्त्या तस्या योनि सुनिर्मलाम् ।
योनिमध्ये गतां देवीं कालरात्रिमनुं स्मरेत् ॥ ६-७७ ॥

तत्र भोगं समासाद्य देवी सन्तर्पयेत् सदा ।
सकृज्जपेन सिद्धिर्द्वित्रिर्वा नात्र संशयः ॥ ६-७८ ॥

पशुस्त्री सङ्गमे प्राप्ते शुद्धिश्चेत् पशुबन्धनम् ।
अथवा गृहणी पूज्या पूजापुष्पवती यदि ॥ ६-७९ ॥

अर्चने कन्यकाः श्रेष्टाः प्रमदाश्च विशेषतः ।
तासां भोज्यं प्रकर्तव्यामिति शास्त्रस्य निश्चयः ॥ ६-८० ॥

शक्त्युल्लासकरं भोगमानन्दसुखमुच्यते ।
दूत्यश्च भगिनी पुत्री पौत्री नद्त्री तथास्तु षा ॥ ६-८१ ॥

रजकी चर्मकारी च मातङ्गी गृहणी वरा ।
अर्चने प्रथिता वेश्या मन्त्रयुक्ता मनोहरा ॥ ६-८२ ॥

मातङ्गी यदि चेद्वेश्या वेश्या साऽपि रजस्वला ।
रजस्वला तदा चासीत्सर्योत्कृष्टा इति स्मृता ॥ ६-८३ ॥

तथा कुलचूडामणौ ।

तरुणोल्लाससंयुक्तां पर्यङ्के तु निवेशयेत् ।
भयलज्जानि सर्वाणि परित्यज्याथदूतिका ॥ ६-८४ ॥

कंवुकं च परित्यज्य तथा वस्त्रं च पार्वति ।
आचार्यानुचरी रक्ता मनसा सुखदायिनी ॥ ६-८५ ॥

देहभावं परित्यज्य संसक्तभुजका प्रिये ।
चुम्बना लिङ्गने चैव नखदन्तक्षतान्नि च ॥ ६-८६ ॥

बहुनात्र किमुक्तेन प्राणमैक्यं समाचरेत् ।
दूती यस्य सुसञ्ज्ञाता सफलं तस्य जीवितम् ॥ ६-८७ ॥

वंशद्वयं समुद्धृत्य लभते शास्वतं पदम् ।
सर्वदा सुखमाप्नोति सर्वैश्वर्यं च लभ्यते ॥ ६-८८ ॥

न तस्य दुरितं किञ्चिन्न चमारी भयं भवेत् ।
चुम्बने परमैश्वर्यं नखदन्ते क्षतायुषः ॥ ६-८९ ॥

सम्भोगे च सुखं पद्यतद्विष्णोः परमं पदम् ।
नदद्याच्चुम्बनं यस्तु दरिद्रोजायते ध्रुवम् ॥ ६-९० ॥

आलिङ्गनं विनादेवि कुष्टी भवति पार्वति ।
वनादन्तक्षतं देवि लोके भवति निन्दितः ॥ ६-९१ ॥

पञ्चमं तु सकृद्दत्वा सावित्री जायते सती ।
द्वितीये न तु लक्ष्मीः स्यात् तृतीये पार्वती भवेत् ॥ ६-९२ ॥

ततो दद्यात् सुखाधिक्यं तस्याः पुण्यं नगण्यते ।
आलिङ्गने हरेद् रोगान् धनधान्यादि चुम्बने ॥ ६-९३ ॥

नखदन्तक्षताद्यैश्च तदा मोक्षः प्रजायते ।
सा युज्यं सङ्गमे न स्यात् सत्यमेव न संशयः ॥ ६-९४ ॥

उत्तरतन्त्रे ।

याममात्रे गते रात्रौ कुलगेहं ततः पुमान् ।
ताम्बूलपूरितमुखोधूपामोदसुगन्धितः ॥ ६-९५ ॥

रक्तचन्दनदिग्धाङ्गो रक्तमाल्यानुलेपनः ।
रक्तवस्त्रपरीधानो लाक्षारुणगृहे स्थितः ॥ ६-९६ ॥

रक्तमाल्येन संवीतो रक्तपुष्पविभूषितः ।
पञ्चकारणसङ्केतैः पूजयेत् कुलनायिकाम् ॥ ६-९७ ॥

नटिका पालकी वेश्या पुल्कसीनापि नाङ्गना ।
रजकीरञ्जकी चैव सैरन्ध्री च सुवासिनी ॥ ६-९८ ॥

खटिका घटिका चैव तथा गोपाल कन्यका ।
विशेष वै दग्धयुताः सर्वाम् एवकुलाङ्गनाः ॥ ६-९९ ॥

गुरुभक्ताद् एव भक्ता घृणालज्जाविवर्जिताः ।
सङ्गोपनपराः प्रायस्तरुण्यः सर्वसिद्धिदा ॥ ६-१०० ॥

एतास्तु काञ्चिदानी य तूलिकान् यस्य पूजयेत् ।
अद्वैताचारसपन्नां गुरुभक्तां दृढव्रताम् ॥ ६-१०१ ॥

सदानुष्टाननिरतां सात्वकी भक्तिसंयुताम् ।
ईर्ष्याकालुष्यरहितां कुलीनां भक्तवत्सलाम् ॥ ६-१०२ ॥

चातुर्योदार्यसम्पन्ना दाक्षिण्यादि गुणान्वितम् ।
रूपयौवनसपन्नां शीलसौभाग्य शालिनीम् ॥ ६-१०३ ॥

सदा परिगृहीतां वा यद् वा सङ्केतमागताम् ।
विलिप्तां रक्तगन्धेन रक्तांवरविभूषिताम् ॥ ६-१०४ ॥

सुगन्धिरक्तकुसुमां सर्वाभरणभूषिताम् ।
सुधूपि धूपितां तन्वीं दूती कर्मणियोजयेत् ॥ ६-१०५ ॥

एवं भूतां यजेत् तां तु प्रसूनतूलिको परि ।
स्नाता शुद्धदुकुलादि अनुलेपन शोभिताम् ॥ ६-१०६ ॥

अलङ्कृताङ्गश्रान्तां स्वागतं चासनं तथा ।
निवेश्यतूलिकां मध्ये प्रसूने न सुगन्धिना ॥ ६-१०७ ॥

चन्दनागुरुकर्पूर कस्तूरीकुङ्कुमादिभिः ।
समाकीर्णे स्वपर्यङ्के पूजयेत् कुलनायिकाम् ॥ ६-१०८ ॥

अङ्गन्यास करन्यासौ प्रायामस्ततः परम् ।
विधायमातृका न्यासं कुलाङ्गोपरिविन्यसेत् ॥ ६-१०९ ॥

ततः पूर्वोक्तविधिना घटार्घ्यं स्थापनादिकम् ।
विधायपर्यङ्कमध्ये पूजयेत्कुलनायिकाम् ॥ ६-११० ॥

पूजयेदपि पर्यङ्के मध्ये मण्डूकमग्रतः ।
कालाग्निरुद्रमाधारशक्तिकूर्ममनन्तकम् ॥ ६-१११ ॥

वाराहं पृथिवीं कन्दमृणालं केसराण्यपि ।
पद्मं च कर्णिकां चैव मण्डलं च समर्चयेत् ॥ ६-११२ ॥

धर्मं वैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च ।
अनैश्वर्यमवैराग्यमधर्ममपि पूजयेत् ॥ ६-११३ ॥

ज्ञानजीवात्मपरमात्मनश्चापि पूजयेत् ।
गन्धपुष्पाक्षतादीनि दत्वातत्रैव पूजयेत् ॥ ६-११४ ॥

तस्योपरिकुलं स्थाप्य पूजानुष्टानमेव च ।
पूजयेच्च ततस्तस्यां पञ्चकामान् समाहितः ॥ ६-११५ ॥

ह्रीं चैव कामराजं च क्लीं कन्दर्प ऐं मन्मथम् ।
ब्लू- मीनकेतनं चैव स्त्री- चैव हि मनोभवम् ॥ ६-११६ ॥

ॐ कारादि नमो ङे तं कुषुमैर्गन्धसंयुतैः ।
अर्चयित्वा चतुर्दिक्षु पूजयेत् कुलनायिकाम् ॥ ६-११७ ॥

बटुकं भैरवं चैव दुर्गां च क्षेत्रपालकम् ।

तन्त्रान्तरे

वाग्भवं कामराजं च स्त्रीबीजं कामराजकम् ॥ ६-११८ ॥

हसव्लेर्मन्ते च दत्वाधारशक्ति ततो वदेत् ।
श्रीपादुकां ततो दत्वा पूजयामि वदेन्नमः ॥ ६-११९ ॥

अनेन मनुना तस्या ललाटे सुमनोहरम् ।
त्रिकोणं तत्र संलिख्य सिन्दूराद्यैर्वरानने ॥ ६-१२० ॥

उत्तरतन्त्रे ।

तस्या मूर्ध्नित्रिकोणं च यन्त्रमालिख्य साधकः ।
मौलौगणेशं केशाग्रे कुलाध्यक्षं ललाटके ॥ ६-१२१ ॥

दुर्गं भुवोस्तथा लक्ष्मी रसनायां सरस्वती ।
स्तनद्वये वसन्तं च मदनं चैव पूजयेत् ॥ ६-१२२ ॥

मुखे सुधाकरं पृष्टे हू- बीजानन्तरोदितम् ।
दक्षिणां संसमाश्रित्य आशिरश्चरणावधिः ॥ ६-१२३ ॥

यजेत् कामकलास्तस्याः साधकाङ्गेषु सर्वशः ।
श्रद्धा प्रीतिरतिश्चैव धृतिः कीर्तिर्मनोभवा ॥ ६-१२४ ॥

विमलामोदिनी घोरा मदनोन्मादिनी तथा ।
मोहिदीपिनी चैव शोधिनी चैव शाङ्करी ॥ ६-१२५ ॥

रञ्जीनी चैव मदनाकलास्वरविराजिताः ।
तत्र चन्द्रकलाः पूज्या आशिरश्चरणावधि ॥ ६-१२६ ॥

पूषा वशा च सुमनारतिः प्रीतिधृतिस्तथा ।
क्रूधिः सौम्यामरीचिश्च तथा वै चण्डमालिनी ॥ ६-१२७ ॥

अङ्गिराशशिनी छाया तथा सम्पूर्णमण्डलो ।
तुष्टिश्चैवामृता चैव पूज्याश्चन्द्रकला इमाः ॥ ६-१२८ ॥

स्वरैरेव प्रपूज्या हि सर्वकामार्थसिद्धये ।

ललिता व्याप्तदीपिकायाम् ।

भगे तदीये विद्यन्ते नाड्यः स्तिस्रः प्रधानिकाः ॥ १२९ ॥

एका तु नाडिका चान्द्री सौरी चान्या च नाडिका ।
आज्ञेयी चापराज्ञेया पूजयेत्तास्तु साधकः ॥ १३० ॥

अंवुस्रवन्ति चान्द्री सा पुष्पं स्रवति भानवी ।
बीजं स्रवति चा ज्ञेयी तास्तु नामभिरर्चयेत् ॥ १३१ ॥

वाग्भवाद्यै नमोयुक्तैः पूजयेत् सुप्रसन्नधीः ।

उत्तरतन्त्रे

पूजयेन्मदनागारे रक्तगन्धेन चर्चिते ॥ १३२ ॥

भगमालामनुं प्रोच्य त्रितारानन्तरं यजेत् ।
ऐ- ह्री- श्री- ऐ- समुद्धऋत्य व्लूं व्लूं क्लिन्ने ततः परम् ॥ १३३ ॥

सर्वाणीति भगानीति वशमानयमे ततः ।

स्त्रीं ह्रीं ब्लूं क्लीं क्लिन्ने भगमालिन्यै नमः स्वाहा ।

पूजयित्वाथ तच्चक्रं गन्धैः पुष्पैस्तथाक्षतैः ॥ ६-१३४ ॥

धूपैर्दीपैश्च नैवेद्यैर्विविधैः कुलसाधकः ।
विध्याय वन्दितां तां च दुछिष्टं स्वयं हरेत् ॥ ६-१३५ ॥

अर्चद्गन्धपुष्पाद्यै स्वशिरे तदनन्तरम् ।
मूलमन्त्र ततं ॐ ह्रीं नमः शिवाय तत्परम् ॥ १३६ ॥

यजेतत् पुरुषाघोर सद्योजातस्वरानपि ।
निवृतिश्च प्रतिष्टा च विद्या च तदनन्तरम् ॥ १३७ ॥

शान्तिश्च शान्तितीता च षडङ्गं तदनन्तरम् ।
समग्रविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् ॥ १३८ ॥

तदनुज्ञां ततो लब्धा दत्वा ताम्बूलमुत्तमम् ।
शिवं तत्र निक्षिप्य गजतुण्डाख्यमुद्रया ॥ १३९ ॥

धर्माधर्मेति चावद्यजपेदष्टौ सहस्रकम् ।
प्रातं वान्ते प्रकाशाख्यं मुनुनातत्त्व मुत्सृजेत् ॥ १४० ॥

शिवशक्तिसमायोगो यत्र यत्र प्रजायते ।
तत्र तत्र द्वयं ग्राह्यं धर्माधर्मादिकं मनु ॥ १४१ ॥

प्रजपेत् सोभरहितश्चाष्टोत्तरसहस्रकम् ।
शतमष्टोत्तरं वापि अक्षुब्धः स्थिरमानसः ॥ १४२ ॥

जप्यते तज्जपं देव्यै समर्प्यतदनन्तरम् ।
क्षुब्धमानोभवमुखः सुखेन विहरेच्चिरम् ॥ १४३ ॥

गलच्चन्द्रद्रवं तस्माद् ग्रही कुण्डगोलजम् ।
अर्घ्यस्थापन यन्त्राङ्क चन्दनानिषु योजयेत् ॥ १४४ ॥

गजतुण्डाख्य मुद्रेयं मनसोभिष्टिदायिनी ।

देवीयामले

कुण्डोद्भवामृतं देवि उत्तमोत्तम एव च ॥ १४५ ॥

तत् तमं रजवीर्याणि मध्यमं केवलं रजः ।
अधमं पौरुषं वीर्यं तथान्यच्चाधमाधमम् ॥ १४६ ॥

रुद्रयामले

अथाद्वेकमतो वापि लौल्यादपि च यो नरः ।
लिङ्गयोनिरतोमन्त्री रौरवं नरकं व्रजेत् ॥ १४७ ॥

इति दूतीयागः

अथ कुण्डगोलादि ग्रहणविधिः ।

पञ्चमी मले

चव्यं चोष्यं निवेद्याथ वस्त्रालङ्करणादिकम् ।
पूजयेदक्षितैः शुद्धैस्तस्या मदनमन्दिरे ॥ १४८ ॥

भावयेत् कामभावेन तासुतत्त्वं न चोत्सृजेत् ।
शुद्धमन्त्रौषधे नैव मथयेन्मदनालयम् ॥ १४९ ॥

मथ्यमाने पुनस्तस्या जायते तत्त्वामुत्तमम् ।
गृह्णीयात् तत् प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभम् ॥ १५० ॥

मथनं गजहस्तमुद्रयति ॥

शक्तियामले ।

स्वयम्भुवं प्रविक्ष्यामि पूजार्थं साधकस्य च ।
आनीय प्रमदां दिव्यां प्रमत्तां यौवनोन्नताम् ॥ ६-१५१ ॥

दीक्षितां मूलमन्त्रेण सुनासां चारुहासिनीम् ।
सर्वदानन्द हृदयां घृणालज्जाविवर्जिताम् ॥ ६-१५२ ॥

गुरुभक्तां सुवेशां च देवता पूजनेरताम् ।
पूर्ववन्न्यासवर्णं तु कारयेद् देवि सन्दरि ॥ ६-१५३ ॥

तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ।
स्वयमोक्षाभितो भूत्वा साधकः पञ्चमीं यजेत् ॥ ६-१५४ ॥

स्वेछा क्रतुमती शक्तिः साक्षाद्देवी सुरेश्वरि ।
तस्या पुष्पं स्वयं यत् तद्रक्षणीयं प्रयत्नतः ॥ ६-१५५ ॥

वस्त्रालङ्कारपुष्पेण शक्तिं च पूजयेत् सदा ।
यथा काले यथा पुष्पं स्वयं यद् गलितं भवेत् ॥ ६-१५६ ॥

गृहीत्वा तत् प्रयत्नेन स्वयम्भूकुसुमं चरेत् ।

तन्त्रचूडामणौ ।

शृणुवत् सकुलद्रव्यमाहात्म्यं परमं शुभम् ॥ ६-१५७ ॥

यत् प्राप्यकुलदेवेन लभ्यते वाञ्छितं महत् ।
आमावास्यातिथौ देवी सुषुम्णामध्यवर्तिनी ॥ ६-१५८ ॥

अमृतं वर्षते सा तु त्रिदिनं पृथवी तले ।
तस्यां तिथौ कुलं वीक्ष्य यदि विद्यां समुच्चरेत् ॥ ६-१५९ ॥

सर्वसिद्धिर्भवेत् यत्र प्रत्युच्चारणमेव हि ।
तस्मात् सर्वप्रयत्नेन कुलं वीक्ष्य जपं कुरु ॥ ६-१६० ॥

दृष्ट्वा तदमृतं देव गलितं परगृह्य च ।
साधयेत् साधनं सर्वं कुलाचारस्य सिद्धये ॥ ६-१६१ ॥

शिवहीना यदा शक्तिः सैवादौ वर्षतो हि तत् ।
तदैव परमं दिव्यं स्वयम्भुकुसुमाख्यकम् ॥ ६-१६२ ॥

स्वयम्भुकुसुमं द्रव्यं त्रैलोक्ये चापि दुर्ल्लभम् ।
क्वचिद्गन्धर्वराजेन लभ्येते वानवाविभो यदि ॥ ६-१६३ ॥

तल्लभ्यते देव लाक्षारससमन्वितम् ।
कस्तूरीं कुङ्कुमाक्तं च वटीं कृत्वा तु गोपयेत् ॥ ६-१६४ ॥

यन्त्रराजं समालिख्य पूजयेद्यदि साधकः ।
एतेनाक्षतयोगेन महतीं सिद्धिमालभेत् ॥ ६-१६५ ॥

समयाचारतन्त्रे ।

स्नानार्थं देवतानां च रहस्यं पञ्चमं शृणु ।
येन स्नाने कृते देवि देवतासु प्रसीदति ॥ ६-१६६ ॥

रात्रौ पञ्चमकाले तु कृत्वा पञ्चममुत्तमम् ।
भगमध्ये यद्रव्यं गृह्णीयात् तत् प्रयत्नतः ॥ ६-१६७ ॥

तस्य कुण्डोद्भवं तोयं विज्ञेयं भुक्तिमुक्तिदम् ।
लभ्यते भाग्ययोगेन देवतानां च दुर्लभम् ॥ ६-१६८ ॥

तस्मिन् किञ्चिज्ज्लं क्षिप्त्वा ताम्रपात्रे च धारयेत् ।
तद् द्रव्यस्नानमात्रेण देवतासु प्रसीदति ॥ ६-१६९ ॥

स्त्रियोरजश्च प्रथमं यस्मिन्वयसि जायते ।
गृह्णीयाच्चाशुभगे ब्रह्मादीनां च दुर्लभम् ॥ ६-१७० ॥

स्वयम्भूकुसुमं नाम देवतानां च प्रीतये ।
यदि भाग्यवशाद्देवि लभते कुसुमत्विदम् ॥ ६-१७१ ॥

ततं स्वदेवतानां च प्रकुर्यात् स्नानमुत्तमम् ।
वाञ्छितं लभते मन्त्री सत्यं सत्यं वरानने ॥ ६-१७२ ॥

स्वगुरुदत्तमन्त्रेण षडङ्गन्यासमाचरेत् ।
शक्तिदेहे स्वदेह वा पञ्चमं कारयेत् ततः ॥ ६-१७३ ॥

ततो जपादिकं कुर्याच्चाक्षयं लभते फलम् ।
इदं रहस्यं कथितं देवता स्नानहेतवे ॥ ६-१७४ ॥

षडाम्नायेषु तन्त्रेषु रहस्यमिदमीरितम् ।
उत्तराम्नायतन्त्रेषु प्रकुर्याच्च विशेषतः ॥ १७५ ॥

जीवति भर्त्तरनारीणां पञ्चमं कारयेत् प्रिये ।
तस्या भगस्य यद्द्रव्यं तच्चगोलोद्भवं मतम् ॥ ६-१७६ ॥

कुण्डगोलोद्भव द्रव्या भावे तु शृणु सुन्दरी ।
कथं स्नानं प्रकुर्याच्च देवता तोषहेतवे ॥ ६-१७७ ॥

यस्य कस्य तरोः पुष्पं गृहीत्वा सुप्रयत्नतः ।
रक्तचन्दनघृष्टे च जले चैव क्षिपेत् तदा ॥ ६-१७८ ॥

तज्जलेन प्रकुर्वीत देवता स्नानमुत्तमम् ।
वाञ्छितं फलमाप्नोति सत्यं सत्यं वरानने ॥ ६-१७९ ॥

रुद्रयामले ।

तीर्थं कुम्भसहस्रैश्च पलभारशतैरऽपि ।
नतृप्यासि सुरेशानि भगलिङ्गामृतं विना ॥ ६-१८० ॥

भगं कुण्डस्नुवो लिङ्गम्मर्गलं च भगाङ्कुरम् ।
आज्यं वीर्यं मनोहोता इत्युक्तं भैरवागमे ॥ ६-१८१ ॥

दूतीजनं समाहूय गृहीत्वा तत्त्वमुत्तमम् ।
निक्षिप्य चालिपात्रे च ततः पूजा समाचरेत् ॥ ६-१८२ ॥

इति कुण्डगोलादि द्रव्यग्रहण विधिः ॥

इति श्रीगोस्वामिशिवानन्द विरचिते कुलप्रदीपे षष्टः प्रकाशः ॥ ६ ॥

सप्तमः पटलः

कुलाचारनिरूपणम् ।

श्रीकुलार्णवे

पूजाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित् ।
देवता गुरुभक्तश्च नियतात्मार्चनः प्रियः ॥ ७-१ ॥

कुलागमरहस्यज्ञो देवताराधनोत्सुकः ।
गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके ॥ ७-२ ॥

माप्रसादेन भूयाच्चे रुद्रशक्तिसमागतः ।
तदूर्धं तर्पणं कुर्याद् द्रव्यैः श्रीभरवोदितै ॥ ७-३ ॥

गुरुपदेशविधिना चान्यथा पतनं भवेत् ।
मन्त्रयोगन देवेशि कुर्या छ्रीचक्रपूजनम् ॥ ७-४ ॥

तदहं च त्वया सार्द्धं गृह्णामिस्वयमादरात् ।
भैरवोहमिति ज्ञात्वा सर्वोज्ञोहङ्गुणान्वितः ॥ ७-५ ॥

इति सञ्चिन्त्य योगीन्द्र कुलपूजां समाचरेत् ।
इत्यादि लक्षणोपेतः कौलिकोनियतव्रतः ॥ ७-६ ॥

यस्तां समर्चयेद् देवि भुक्तिमुक्त्योः सभाजनम् ।
नष्टैः पर्युषितैः छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः ॥ ७-७ ॥

हेतुभिः परपात्रस्थैस्तर्पणं निःफलं भवेत् ।
स्वादिष्टैश्चमदिष्टैश्च द्रव्यैरमृतसम्भवैः ॥ ७-८ ॥

मनोहरैर्महेशानि तर्पणं सफलं भवेत् ।
स्वशक्तिं परशक्तिं वा दीक्षितां गुरुरग्रणीम् ॥ ७-९ ॥

पाययित्वापि वेद्द्रव्यमिति शङ्करभाषितम् ।
अदीक्षितस्त्रियः कुर्यात् सद्यः संस्कारमम्बिके ॥ ७-१० ॥

मन्त्रदीक्षाविधानज्ञः शुद्धा भवति नान्यथा ।
तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः ॥ ७-११ ॥

अभ्यर्च्य देवता बुध्या भोगपात्रं निवेदयेत् ।
तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः ॥ ७-१२ ॥

सम्पूज्य देवता बुध्या पात्रं दद्यात् पृथक् पृथक् ।
अनिवेद्य तु यः शक्तैः कुलद्रव्यं निषेवते ॥ ७-१३ ॥

सा पूजा निःफलाज्ञेया देवता न प्रसीदति ।
सत्सम्प्रदायसंयुक्तैः वीरैश्च सहपूजयेत् ॥ ७-१४ ॥

अन्योन्य वन्दनं कृत्वा पिवेत तदनुज्ञया ।
सव्येनोद्धृत्यपात्रं तु मुद्रां प्रकृत्वापसव्यतः ॥ ७-१५ ॥

यथा विधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् ।
श्रीगुरुज्येष्ट पूज्यानां पुरतः कुलनायिके ॥ ७-१६ ॥

नोपविश्य पिवे द्रव्यमिति शास्त्रस्य निश्चयः ।
निर्मन्त्रं नपिवे द्रव्यं प्रायश्चितं विधीयते ॥ ७-१७ ॥

तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके ।
इदं पवित्रममृतं पिवामि भव भेषजम् ॥ ७-१८ ॥

पशुपाशसमुछेदकारणं भैरवोदितम् ।
चित्तस्वात् यत्र सारत्वात् तस्यानन्दं मयत्वतः ॥ ७-१९ ॥

तन्मयत्वात्वभावानां भावांश्चातर्हितारसे ।
स्वस्वातन्त्र्य विकाशाय स्वरसः स्वेनपीयते ॥ ७-२० ॥

तस्माद् इमां सुरां देवीं पूर्णादूतां पिवाम्यहम् ।
मन्त्रेणानेन देवेशि मूलमन्त्रेणमन्त्रवित् ॥ ७-२१ ॥

अनाकुलमितिः कुर्याद् अलिपानः शनैः शनैः ।
भोजनान्ते विषं द्रव्यं द्रव्यान्ते भोजनं विषम् ॥ ७-२२ ॥

अमृतं तद् विजानी याद्यदन्नं सुरया सह ।
चर्वणेन युतं पानममृतं कथितं प्रिये ॥ ७-२३ ॥

चर्वणेन विनापानं केवलं विषवर्द्धनम् ।
पानं तु त्रिविधं प्रोक्तं * *? वीरपशुक्रमैः ॥ ७-२४ ॥

दिव्यं देव्यग्रतः पानं वीरमुद्वासने स्मृतम् ।
स्वेछया पशुवत् पीतं पशुपानमितीरितम् ॥ ७-२५ ॥

भुक्तिमुक्तिप्रदं दिव्यं वीरं मुक्तिप्रदं भवेत् ।
नरकं पशुपानं स्याद् इति पानफलं भवेत् ॥ ७-२६ ॥

दृष्टिमानसवाक्वाये यावन्न चलनभ्रमः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ ७-२७ ॥

यावन्नेन्द्र य वै कल्पं यावन्नोमुख वै कृतिः ।
ताव देव पिवेद् द्रव्यमन्यथा न नरकं व्रजेत् ॥ ७-२८ ॥

पूर्णाभिषेकयुक्ताना पानं देवि निगद्यते ।
कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलं च पादुकाम् ॥ ७-२९ ॥

आगलान्तं पिवेन्मद्यं समुक्तोनात्रसंशयः ।
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति (प * ति) भूतले ॥ ७-३० ॥

उत्थाय च पुनः पीत्वा पुनर्जन्म नविद्यते (* विद्यते) ।
आनन्दात् तप्यते देवी मूर्छाया भैरव स्वयम् ॥ ७-३१ ॥

वमनात् सर्वदेवाश्च तस्मात् त्रितयमाचरेत् ।
दिव्यपानरतानां वै यत्सुखं कुलयोगिनाम् ॥ ७-३२ ॥

तत् सुखं सार्वभौमस्य नृपस्याऽपि न विद्यते ।
यत् सौख्यं कुलनिष्टानां कुलद्रव्य निषेवणाम् ॥ ७-३३ ॥

तत् सौख्यमेव मोक्षः स्यात् सत्यमेतद् वरानने ।
आरम्भस्तरुणश्चैव यौवनः प्रौढ एव च ॥ ७-३४ ॥

तदन्तश्चैव तरुणोल्लाससप्तमः ।

तत्त्वत्रयं स्याद् आरभ्यः कथितं कुलनायिके ।
कथितस्तरुणोल्लासस्तरुणं मुखमंविके ॥ ७-३५ ॥

यौवनं मनस सम्यगुल्लासः कथितः प्रिये ।
स्खलनं दृङ्ननो वाचां प्रौढ इत्यभिधीयते ॥ ७-३६ ॥

समुल्लास परे चक्रे य इछेत् पात्रमेलनम् ।
अर्वाक् प्रौढसमुल्लासान् नैव कुर्यात् कदाचन ॥ ७-३७ ॥

यथाधिकारं तत्रापि कर्तव्यां पात्रमेलनम् ।
अदीक्षितैरनाचारैरततज्ञैरदैवतैः ॥ ७-३८ ॥

दूषकैः समयभृष्टौर्नकुर्या द्रव्यसङ्गतिः ।
पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवोदिनः ॥ ७-३९ ॥

कुलधर्मा नभिज्ञाश्चेत् तत् सङ्गं वर्जयेत् प्रिये ।
सत्कुले च प्रसूता वा वृद्धाः स्वाचारवर्तिनः ॥ ७-४० ॥

त्वत् पूजा विमुखाः स्युश्चेत् तत् सङ्गं वर्जयेत् प्रिये ।
स्त्री पुत्रमित्रबन्धूनां स्निग्धान्नामपि पार्वति ॥ ७-४१ ॥

कुलाचारा न भिज्ञानां सङ्गति वर्जयेत् प्रिये ।
अदृष्टपुरुषाणां च देशान्तरनिवासिनाम् ॥ ७-४२ ॥

विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गति ।
एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः ॥ ७-४३ ॥

मन्त्राः पराङ्मुखायान्ति विघ्नाश्चैव पदे पदे ।
स्वपात्रस्थितहेतुं च न दद्याद् भैरवाय च ॥ ७-४४ ॥

यदि दद्यान्महेशानि देवता शापमाप्नुयात् ।
आसनं भोजनं पात्रमम्बरं शयनादिकम् ॥ ७-४५ ॥

अनभिज्ञेरनर्हैश्च शङ्करं नैव कारयेत् ।
योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ॥ ७-४६ ॥

समातृपादुका मूलमन्त्रजप्तं पिवेत् प्रिये ।
क्वचिद् यदि छया प्राप्तमलिपात्रं च भक्तितः ॥ ७-४७ ॥

आदाय पूर्ववज्जप्त्वा पिवेद् देवि गुरुं स्मरन् ।
गुरुशक्तिसुतानां च गुरुज्येष्टकनिष्टयोः ॥ ७-४८ ॥

स्वज्येष्टस्यापि चोछिष्टं खादेन्नान्यस्य पार्वति ।
शक्त्युछिष्टं पिवेद् द्रव्यं वीरोछिष्टं तु चर्वणम् ॥ ७-४९ ॥

आत्मोछिष्टं न दातव्यं परोछिष्टं न भक्षयेत् ।
उछिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोछिष्टमर्पयेत् ॥ ७-५० ॥

चक्रमध्ये तु देवेशि चान्यथा पतनं भवेत् ।
कनिष्टानां स्वशिष्याणां दद्यात् स्वोछिष्टमंवके ॥ ७-५१ ॥

दद्यात् स्नेहेन योन्येभ्यः सभवेदापदां पदम् ।
असमोछिष्टपात्रं तु यो वा गृह्णातिमूढधीः ॥ ७-५२ ॥

स्नेहाल्लोभाद्भयाद्वापि देवता शापमाप्नुयात् ।
स्वाभिष्टचेष्टा चरणं प्रौढान्तः परिकीर्तितः ॥ ७-५३ ॥

प्रौढान्तोल्लासके देवि मुदिते योगमण्डले ।
योगिनीमण्डले चैव चक्रमानन्दमुच्यते ॥ ७-५४ ॥

तरूढेषु वीरेषु कार्यां कार्यं न विद्यते ।
इछैवशास्त्रसम्पत्तिरिव्याज्ञा पारमेश्वरि ॥ ७-५५ ॥

तत्र यद्यत् कृतं कर्म शुभं यदि वा शुभम् ।
तत् सर्वं देवता प्रीत्यै जायते सुरसुन्दरी ॥ ७-५६ ॥

जल्पोजपफलं तन्द्री समाधिरभिधीयते ।
विक्रिया पूजनं देवि छर्दिनं भैरवो बलिः ॥ ७-५७ ॥

मुक्तिः स्याः छक्तिसंयोगस्तोत्रं तत्कालभाषणम् ।
न्यासो वयवसंस्पर्शः कुण्डुभिर्हवनक्रिया ॥ ७-५८ ॥

वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् ।
तदुल्लासैकतानां या चेष्टा सा च सत्क्रिया ॥ ७-५९ ॥

कार्याकार्यविचारं तु षःकरोति सपातकी ।
एतच्चक्रगता वीरा योगिन्यो मदमन्थराः ॥ ७-६० ॥

समाचरन्ति देवेशि यथोल्लासं मनोगतम् ।
शनैप्रछन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् ॥ ७-६१ ॥

निधाय वदने पात्रं निर्घृणा वहसन्ति च ।
मत्तास्वपुरुषं मत्तां कान्तान्यमबलम्बिते ॥ ७-६२ ॥

तथैव पुरुषंश्चापि प्रौढान्तोल्लाससंयुतेः ।
पुरुषः पुरुषमोहादालिङ्गत्यङ्गनां नङ्गनाम् ॥ ७-६३ ॥

पृछन्ति स्वपतिर्मुग्धा कस्त्वकोहमिमम्बके ।
किं कार्यं वयमायाताः किमर्थमिहसंस्थिता ॥ ७-६४ ॥

उद्यानं किमुदं हतद्गृहं किं वाङ्गणं किमुम् ।
मुखेसम्पूर्णमदिरां पाययन्ति स्त्रित्यः प्रियान् ॥ ७-६५ ॥

उपदंशं मुखे क्षिप्त्वा निक्षिपति प्रियानने ।
गृह्णान्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवी ॥ ७-६६ ॥

धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनी ।
अज्ञातकरतालं तमस्पृष्टाक्षरगीतकम् ॥ ७-६७ ॥

प्रस्खलत् पदविन्यासं नृत्यन्ति कुलशाक्तयः ।
योगिनोमदमत्ताश्च पतन्ति प्रमदोरसि ॥ ७-६८ ॥

मदाकुलाश्च योगिन्यः पतन्ति पुरुषोरसि ।
मनोरथं च सम्पूर्णं कुर्वन्ती च परस्परम् ॥ ७-६९ ॥

इत्यादि विविधाश्चेष्टाः कुर्वन्ति कुलनायिके ।
विकृतिं मनसो हित्वा यथोल्लासः प्रवर्तते ॥ ७-७० ॥

तदा तु देवता भावं भजन्ते योगिपुङ्गवाः ।
कौलिकान् भैरवावेशान् यो वा निन्दन्ति मूढधीः ॥ ७-७१ ॥

तेनाशयन्ति न सन्देहो योगिन्यः कुलनायिकाः ।
मनिन्देन्नहसेत्कौलाश्चक्रे मदाकुलान् ॥ ७-७२ ॥

एतच्चक्रगतां वार्तां वहिर्नैव प्रकाशयेत् ।
तेभ्यो द्रोहनकुर्वीत नाहितं च समाचरेत् ॥ ७-७३ ॥

भक्त्या संरक्षयेद् वार्ता गोपयेच्च प्रयत्नतः ।
चक्रे मदाकुलां दृष्ट्वा चिन्तयेद् देवताधिया ॥ ७-७४ ॥

मोदते वन्दते भक्त्या सगछेद्योगिनी पदे ।
पश्ये देवं विधं चक्रयोभक्त्या कौलिकः प्रिये ॥ ७-७५ ॥

व्रततीर्थतपोदान यज्ञकोटिफलं भवेत् ।
उन्मनाः पतनोत्थानं मूर्छानाच्च मुहुर्म्हुः ॥ ७-७६ ॥

उन्मनाख्ये तदुल्लासे षष्टे वीरसमन्विते ।
चिरं सन्निधिदावेतौ यौचिदर्णपराक्षरौ ॥ ७-७७ ॥

परब्रह्मानुसन्धान काक्षिणौ कुलनायिके ।
देहेन्द्रियाणामवशश्वानवस्थानिगद्यते ॥ ७-७८ ॥

अन्यवस्थाभिधानेस्मिन् नुल्लासे सप्तमे प्रिये ।
परामन्त्रस्वरूपोसौ जायते मूर्छनापरः ॥ ७-७९ ॥

प्रवर्ते भैरवीचक्रे सर्वे वर्णाद्विजातयः (वणा-) ।
निवर्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ ७-८० ॥

स्त्री वाथ पुरुषाः षण्ढश्चाण्डालो वा द्विजोत्तमः ।
चक्रमध्ये न भेदोस्ति सर्वे देव समाः स्मृताः ॥ ७-८१ ॥

नगरी निर्झराद्यांवु गङ्गां प्राप्य तथैकताम् ।
याति श्रीचक्रमध्येऽपि चैकत्वं मानवास्तथा ॥ ७-८२ ॥

क्षीरेणसहितं तोयं क्षीरमेव यथा भवेत् ।
तथा श्रीचक्रमध्येऽपि जातिभेदो न विद्यते ॥ ७-८३ ॥

स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा न हि ।
तथैव चक्रमध्येऽपि देवताः सर्वमानुषाः ॥ ७-८४ ॥

जातिभेदो न चक्रेस्ति सर्वे शिवसमास्मृताः ।
वेदेऽपि स्थितमेवं हि सर्वं ब्रह्मेति चाब्रवीत् ॥ ७-८५ ॥

बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ।
द्रूपाः पुरुषाः सर्वेत्वद्रूपाः पमदाः प्रिये ॥ ७-८६ ॥

चक्रमध्ये च मूढात्मा जातिभेदं करोतियः ।
तं भक्षयन्ति योगिन्यस्त्वांशये कुलनायिके ॥ ७-८७ ॥

स्त्रीणामन्यतमं स्थानं पुसामन्यतमं पृथक् ।
अथवा मिथुनं कृत्वा क्रमात् समुपवेशयेत् ॥ ७-८८ ॥

पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये ।
शिवशक्तिधिया सर्वं चक्रमध्ये समर्चयेत् ॥ ७-८९ ॥

अविभक्तौ यथा चावां लक्ष्मीनारायणौ प्रिये ।
यथा वीणीशतानन्दो तथा वीरः सशक्तिकः ॥ ७-९० ॥

अस्नात्वा नासनस्थो वा भुत्त्का वा प्रलयन्नपि ।
गन्धपुष्पाक्षता कल्पवस्त्राद्यैरविलङ्कृतः ॥ ७-९१ ॥

अविन्यस्त शरीरो वा कुलपूजां न कारयेत् ।
विनामन्त्रेण या पूजा विनामन्त्रेणतर्पणम् ॥ ७-९२ ॥

विनाशक्त्या तु यत् पानं निःफलं कथितं प्रिये ।
श्रीचक्रमेको नो कुर्यादेक पात्रे तु नार्चयेत् ॥ ७-९३ ॥

नार्चयेद् एकहस्तेन न पिवेद् एकपाणिना ।
मत्स्यमांसासवैर्देवि नार्चयेत् पशुसन्निधौ ॥ ७-९४ ॥

प्रणम्य प्रविशेच्चक्रं विनिर्गछेत् प्रणम्य च ।
श्रीचक्रमासने तिष्ठेन् न च वीरासने तथा ॥ ७-९५ ॥

श्रीचक्रदर्शनं देवि नेत्रयोः पापनाशनम् ।
तन्नास्ति चेद्ब्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥ ७-९६ ॥

अनाचरान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।
शिवगौरीधीया देवि भावयेन्नावमानयेत् ॥ ७-९७ ॥

कुलाचार्य गृहं गत्वा भक्त्या पापविशुद्धये ।
याचयेदमृतं चान्नं तदभावेलं पिवेत् ॥ ७-९८ ॥

नमस्कृत्य च गृह्णीयादन्यथा नरकं व्रजेत् ।
अस्नात्वा वापि भुत्त्कावाप्य भक्ता वा कुलेश्वरि ॥ ७-९९ ॥

यः सेवे ते कुलद्रव्यं सदारिद्र्यमवाप्नुयात् ।
उष्णीषीकञ्चुकीनग्नो मुक्तकेशोगलाव्रतः ॥ ७-१०० ॥

पराङ्मुखी विवादी च न सेवेत् कुलामृतम् ।
योगामृतस्य निष्ठीवान् मद्यभाण्डपरिभ्रमात् ॥ ७-१०१ ॥

रुदने नान्नपानाच्च देवताशापमाप्नुयात् ।
एकासने निविष्टा ये भुञ्जानाश्चैकभाजने ॥ ७-१०२ ॥

एकपाणि पिवन्तो ये ते यान्ति नरकप्रिये ।
यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ॥ ७-१०३ ॥

तत् कुलज्ञे च तत् पुत्रे स्वजेष्टकुलदेशिको ।
विनानुज्ञां कुलेशानि सोक्षयं नरकं व्रजेत् ॥ ७-१०४ ॥

उछिष्टो नो स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।
वहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् ॥ ७-१०५ ॥

मद्यभाण्डं समुद्धृत्य न पात्रं पूरयेत् प्रिये ।
भोगपात्रं सुराकुम्भे न क्षिपेन्नकदाचन ॥ ७-१०६ ॥

चक्रमध्ये शुचिधिया करस्पृक्षालनादिकम् ।
यः करोति हि मूढात्मा सभवेदापदां पदम् ॥ ७-१०७ ॥

नष्टीवनं मलं मूत्रमध्ये वायुर्विसर्जनम् ।
श्रीचक्रमध्ये यः कुर्यात् सभवेद् योगिनी पशुः ॥ ७-१०८ ॥

चक्रमध्ये घटे भिन्ने पात्रे च स्खलिते प्रिये ।
दीपनाशे च व छान्त्यै श्रीचक्रं कारयेत् प्रिये ॥ ७-१०९ ॥

मताजपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।
रुदन्ति स्त्रियमिछन्ति रुदन्त्याज्ञानतः प्रिये ॥ ७-११० ॥

परिहासं प्रलापं च वितण्डं बहुभाषणम् ।
औदासीनं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥ ७-१११ ॥

पात्रहस्तो महादेवि नभ्रमेच्चक्रमण्डले ।
पात्रं कराभ्यां धृत्वा थनतिष्टेच्चचिरं प्रिये ॥ ७-११२ ॥

चालयेत् पात्रहस्तं न नभिन्द्यात् पात्रमंविके ।
पादाभ्यां न स्पृशेत् पात्रं नबिन्दुं पातयेदधः ॥ ७-११३ ॥

नैकहस्तेन दातव्यं नमुद्रावर्जितं पिवेत् ।
पात्रं न चालयेत् स्थानान्नकुर्यात् पात्रशङ्करम् ॥ ७-११४ ॥

सशब्दं न पिवेन्मद्यं तथैव च न पूरयेत् ।
नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः ॥ ७-११५ ॥

साधारं नोद्धरेत् पात्रमनाधारेण नक्षिपेत् ।
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ ७-११६ ॥

न पात्रं लङ्घयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।
प्रक्षाल्यगोपयेत् पात्रमित्याज्ञा पारमेश्वरि ॥ ७-११७ ॥

यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।
पठेद् वा पशुशास्त्राणि सङ्गछेद् वा पशुस्त्रियः ॥ ७-११८ ॥

कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।
धर्मार्था पुर्यशोलाभो ज्ञानसौख्यादि नस्यति ॥ ७-११९ ॥

श्रीचक्रस्य कुलद्रव्यं यः पशुभ्यः प्रयछति ।
स्नेहाल्लोभाद् भयाद्वापि सभवेद् योगिनी पशुः ॥ ७-१२० ॥

रिपुणापिनकर्तव्यो वाग्वादश्चक्रमध्यमे ।
पितृमातृसमं पश्ये ते नोक्तं स्पर्शनं सहेत् ॥ ७-१२१ ॥

यथा स्त्री पुत्रमित्रादीन् दृष्ट्वा चित्तं प्रदृर्श्यति ।
तथा चेत् कौलिकं पश्यत् सभवेद् योगिनी प्रियः ॥ ७-१२२ ॥

ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
तस्य मे सर्वशिष्यस्य को नपूयोमहीतले ॥ ७-१२३ ॥

इति निश्चितवुद्धि यः सभवेद् आवयोः प्रियः ।
अहं गुरुरहं ज्येष्टत्वंहं वेत्तेतिगर्वित ॥ ७-१२४ ॥

अहमेवमतिर्येषां कौलिका न भवन्ति ते ।
श्रीगुरुं कुलशास्त्राणि पूज्यस्थानानि यानि च ॥ ७-१२५ ॥

भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्तयेत् ।
गुरुं नाम्ना नभाषेत जपकालादृते प्रिये ॥ ७-१२६ ॥

श्रीनाथ देव स्वामीति विवादे बोधने वदेत् ।
श्रीगुरुं पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ॥ ७-१२७ ॥

शिष्यादन्यत्र देविशि न वदेदस्य कस्यचित् ।
पारम्पर्यक्रमाम्नाय मन्त्रा चादिका प्रिये ॥ ७-१२८ ॥

सर्वं गुरुमुखालध्बं सफलं स्यान्नचान्यथा ।
श्रीशास्त्राश्रय सम्भूतं पुस्तकं दैवतं प्रिये ॥ ७-१२९ ॥

नित्यं समर्चयेद् भक्त्या पशुगेहेन निक्षिपेत् ।
स्वदारवन्निवषेवेत कुलशास्त्राणि पार्वति ॥ ७-१३० ॥

पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् ।
स्वचर्मस्थं यथा क्षीरं न प्येयं स्याद् विजोत्तमैः ॥ ७-१३१ ॥

तथा पशुमुखोद्धर्मो नश्रोतव्यश्च कौलिकैः ।
यः शृणोति कुलाचारं यथा शास्त्रं च यो वदेत् ॥ ७-१३२ ॥

तावुभौ गछतः साक्षाद् योगिनीवीरमेलनम् ।
अश्रदधाभाये चात्रकुलधर्मे कुलेश्वरि ॥ ७-१३३ ॥

नरकान्ननिवर्तन्ते यावदाभूतसम्प्लवम् ।
रूढा धृता च प्रीता च मौल्ये न च समाहृता ॥ ७-१३४ ॥

सकृत् कामगता वापि पञ्चधा गुरुयोषितः ।
अलङ्घ्याः पूजनीयास्युः गुरुवद्गुरुयोषितः ॥ ७-१३५ ॥

गुरुशक्तीं वीरशक्तीं कुमारीं व्रतधारिणीम् ।
व्यङ्गाङ्गी विकृताङ्गी च दुष्टामपि न कामयेत् ॥ ७-१३६ ॥

सन्तानभगिनीं पुत्रीं स्नुषां भ्रातृप्रियामपि ।
न कारयेद्गुरोरग्रे कुर्यान्याभ्योपगूहनम् ॥ ७-१३७ ॥

कृष्णां शुक्लां कृष्णवर्णां कुमारीं च कृशोदरीम् ।
मनोहरां यौवनस्थामर्चयेद् देवता धिया ॥ ७-१३८ ॥

एकदापि न सेवेत वलेन कुलयोगिनी ।
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलेश्वरि ॥ ७-१३९ ॥

आममांससुराकुम्भं मत्तेभं सिद्धि लिङ्गनम् ।
सहकारमशोकं च क्रीडालोलाः कुमारिकाः ॥ ७-१४० ॥

एकवृक्षं स्मशानं च समूहं योषितामपि ।
नारीं च रक्तवसनां दृष्ट्वा वन्देतभक्तितः ॥ ७-१४१ ॥

गुरुशक्ति सुतज्येष्टक निष्टकुलदेशिकान् ।
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥ ७-१४२ ॥

प्रेरकान् सूचकांश्चापि वाचकान्या चकास्तथा ।
शिक्षकान् बोधकान् योगिनी सिद्धि पौरुषान् ॥ ७-१४३ ॥

कन्याः कुमारिका नग्ना नुन्मत्तामपि योषितः ।
ननन्देन्नजुगुप्सेत नहसेन्नावमानयेत् ॥ ७-१४४ ॥

ना प्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।
कुरूपेत् पत्तिकृष्णोति न वदेत् कुलयोषितम् ॥ ७-१४५ ॥

परीक्षयेन्नभक्षणां वीराणां च कृता कृते ।
न पश्येत् पतितां मग्नामुन्मत्तां प्रकटस्तनीम् ॥ ७-१४६ ॥

नदि वासेव येन्नारीं तद्योनिं निरीक्षयेत् ।
या काचिदङ्गना लोके समातृकुलसम्भवा ॥ ७-१४७ ॥

कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् ।
स्त्रियं शतां पराधां वा पुष्येणापिनताडयेत् ॥ ७-१४८ ॥

दोषान्नगणयेत् स्त्रीणां गुणान्नेव प्रकाशयेत् ।
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ॥ ७-१४९ ॥

तत् पत्रेषु नभोक्तव्यमर्कपत्रे विशेषतः ।
न स्वपेत् कुलवृक्षाधो न चोपद्रवमादित् ॥ ७-१५० ॥

दृष्ट्वा भक्त्या नमस्कुर्यात् छेदयेन्नकदाचन ।
श्लेष्मान्तककरञ्जाक्षनिम्बाश्वत्थकदम्बका ॥ ७-१५१ ॥

विल्वोवटोदुम्बरौ च चिञ्चेति दशेमे स्मृताः ।
प्रायश्चित्तं भृगोः पातं सन्यासं व्रतधारणम् ॥ ७-१५२ ॥

तीर्थयात्रां च गमनं कौलः पञ्चविवर्जयेत् ।
वीरहत्या वृथापानं वीरद्रव्यापहारणम् ॥ ७-१५३ ॥

वीरस्त्रीगमनं चैव तत् संयोगी च पचमम् ।
महापातकमित्युक्तं कौलिकानां कुलागमे ॥ ७-१५४ ॥

शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।
ज्योतिषे ग्रहणं सारं कौलेनुग्रहनिग्रहौ ॥ ७-१५५ ॥

देवता गुरु शास्त्राणि सिधाचारविडम्बकः ।
विद्या चौरोगुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥ ७-१५६ ॥

मातरपितरं जायां भ्रातरां बान्धवं सुत्रम् ।
गुरुनिन्दाकरं देवि हन्न्यात्तमविचारयन् ॥ ७-१५७ ॥

अन्तः कौलं बहिः शैवं जन्ममध्ये तु वैष्णवम् ।
कौलं सुगोपयेद् देवि नालिकेलफलाम्बुवत् ॥ ७-१५८ ॥

कुलधर्ममिदं देवि सर्वावस्थासुसर्वदा ।
गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥ ७-१५९ ॥

वेदशास्त्रपुराणानि स्पृष्टा वेश्याङ्गना इवा ।
इयं तु शाम्भवी विद्या गुप्ता कुलबधूरिव ॥ ७-१६० ॥

सुगुप्तकौलिकाचारा मनुगृह्णन्ति देवताः ।
वाञ्छा सिद्धिं प्रयछांसि नाशयन्ति प्रकाशकान् ॥ ७-१६१ ॥

शास्त्रेषु निष्कृतिदृष्टा महापातकिनां प्रिये ।
कुलभृष्टस्य देवेशि न दृष्ट्वा निष्कृतिः क्वचित् ॥ ७-१६२ ॥

कुलधर्मं समाश्रित्य ह्याचारं यो न पालयेत् ।
यथेष्टा चारिणस्तस्य महापातकिनः प्रिये ॥ ७-१६३ ॥

आपदो उदिता रोगा दारिद्र्यं कलहोभयम् ।
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे ॥ ७-१६४ ॥

तस्माद् आचारवान् देवि योगिनीनां प्रियो भवेत् ।

रुद्रयामले (रु * यामले)

सर्वशास्त्राणि वेदाश्च तदङ्गानि तपांसि च ॥ ७-१६५ ॥

यज्ञहोमादिकं तीर्थं दानानि विविधानि च ।
निष्फलानिभवन्ती ह पशुमार्गेण सुन्दरि ॥ ७-१६६ ॥

नास्ति कौलसमोधर्मो सत्यं सत्यं न संशयः ।
कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् ॥ ७-१६७ ॥

ददामि परमं ज्ञानं मत्तकालेन संशयः ।
सर्वेशाक्ताद्विजाः प्रोक्ताः नशैवा न च वैष्णवाः ॥ ७-१६८ ॥

आदि देवीमुपासन्ते गायत्रीं वेदमातरम् ।

इति कुलाचारनिरूपणम् ।

अथ चक्रनिरूपणम् ।

रुद्रयामले ।

श्रीदेव्युवाच

देव देव जगन्नाथ सर्वविद्या विशारद ॥ ७- १६९ ॥

कौलिकानां हितार्थाय चक्रभेदं वद प्रभो ।

ईश्वर उवाच

चक्रं पञ्चविधं प्रोक्तं श्रीतन्त्रे रुद्रयामले ॥ ७-१७० ॥

विधिना पूजयेच्चक्रं सौख्यमोक्षफलाप्तये ।
राजचक्रं महाचक्रं देवचक्रमथापरम् ॥ ७-१७१ ॥

वीरचक्रं चतुर्थं स्यात् पशुचक्रं तु पञ्चमम् ।
पूजाद्रव्यं राजचक्रे वदामि शृणु पार्वति ॥ ७-१७२ ॥

चतुर्वर्णकुमार्याश्व सुरूपाः सुमनोहराः ।
तदभावे कुमारीश्च याः कश्चिद् विधिनार्चयेत् ॥ ७-१७३ ॥

यवनी योगिनी चैव रजकीश्च पची तथा ।
कैवर्तकसमुत्पन्ना पञ्चशक्तिरुदाहृता ॥ ७-१७४ ॥

एताः प्रशस्ताः सकलाः साधकेन नियोजिताः ।
कृत मन्त्राभिषेकास्तु सर्वकामफलप्रदा ॥ ७-१७५ ॥

मधुमद्यं च सम्प्रोक्तं शुद्धिः छागसमुद्भवाः ।
मत्स्यं चोद्दालकं प्रोक्तं मुद्रागोधूमजा स्मृताः ॥ ७-१७६ ॥

पुष्पं च चन्दनं चैव राजचक्रे नियोजयेत् ।
एकादश्यां भानुवारे सङ्क्रान्तौ च विशेषतः ॥ ७-१७७ ॥

धर्मार्थकाममोक्षार्थं राजचक्रं विधीयते ।
कृत्वाचक्रं प्रदद्याद् वै गुरवेदक्षिणाम् ॥ ७-१७८ ॥

साधकेभ्यो यथा शक्त्या यथाकालोचितां शुभाम् ।
षष्टिवर्षसहस्राणि देवलोके महीपते ॥ ७-१७९ ॥

इति राजचक्रनिरूपणम् ॥

ईश्वर ।

महाचक्रं प्रवक्ष्यामि भक्त्यासं शृणु पार्वति ।
माता च भगिनी चैव दुहिता चस्तुषा तथा ॥ ७-१८० ॥

गुरुपत्नी च पञ्चैताः शक्तयो यामले स्मृताः ।

श्रीपार्वत्युवाच

समागत्य प्रसू देवि क्रीडयेनयनेन च ॥ ७-१८१ ॥

तत्र देवस्य रचनं कुत्र तिष्टति शङ्कर ।

ईश्वर उवाच

दीक्षितस्य गुरोः पत्नी या मातागर्भधारिणी ॥ ७-१८२ ॥

यस्या विवाह्यतो कन्या तर्पयेन्न च भोगयेत् ।
भगिनी दुहिता चैव वीरभार्यास्तुषा तथा ॥ ७-१८३ ॥

वर्जनीयाः प्रयत्नेन दन्न्याश्चोपभोगयेत् ।
अक्षरं गौडिकं प्रोक्तं शुद्धि कुर्कुटसम्भवा ॥ ७-१८४ ॥

मत्स्यस्तुरोहितः प्रोक्तो मुद्रामाषभवस्तथा ।
करवीरभवं पुष्पं चन्दनं रक्तचन्दनम् ॥ ७-१८५ ॥

दक्षिणां विधिना देवि आचार्याय निवेदयेत् ।
षष्टिवर्षसहस्राणि ब्रह्मणासहमोदते ॥ ७-१८६ ॥

गुरुवारे तथा शुक्रे चतुर्थ्यां सप्तमी दिने ।
महाचक्रं महेशानि सर्वचक्रसमृद्धिदम् ॥ ७-१८७ ॥

इति महाचक्रनि ।

ईश्वर

देवचक्रं प्रवक्ष्यामि यत्सुरैः क्रियते सदा ।
शक्तस्तत्र वक्ष्यामि देवी रूपा मनोरमाः ॥ ७-१८८ ॥

राजवेश्या नानारी च गुप्तवेश्या तथा प्रिये ।
देववेश्या ब्रह्मवेश्या शक्तयः पञ्चकीर्तिताः ॥ ७-१८९ ॥

राजसेवा परा राजवेश्या गुप्ता च कौलजा ।
देववेश्या नृत्यपात्रं ब्रह्मवेश्या च तीर्थगा ॥ ७-१९० ॥

नागरी

कस्यचित् कन्न्या रण्डा कामरसाकुला ।
पञ्चैता शक्तयो देवि देवचक्रे नियोजयेत् ॥ ७-१९१ ॥

अक्षरं धान्यजं प्रोक्तं मुद्राश्चणकसम्भवा ।
पुष्पं जानीयचां पेयं यत् किञ्चिद् गन्धमुत्तमम् ॥ ७-१९२ ॥

आचार्याय पुरस्कृत्य दक्षिणां विनिवेदयेत् ।
षष्टिवर्षसहस्राणि देवराजे न मोदते ॥ ७-१९३ ॥

अष्टम्यां च चतुर्दश्यां नवम्यां कुजसोमयोः ।
शिष्टे समागते चैव मुत्तमं समुदाहृतम् ॥ ७-१९४ ॥

इति देवचक्रनि ।

ईश्वर उवाच

वीरचक्रं प्रवक्ष्यामि येन सिद्ध्यन्ति साधकाः ।
अनया पूजया देवि देहसिद्धिः प्रजायते ॥ ७-१९५ ॥

शक्तयो मत्स्यमद्यादि यत् प्रशस्तं निवेदयेत् ।
भूचराणां खेचराणाम् अतन्मांसं सुसाधकः ॥ ७-१९६ ॥

मुद्राः सर्वश्च पूर्वोक्ता प्रशस्ताः परमेश्वरी ।
पुष्पाणि श्वेतपीतानि रक्तानि च विशेषतः ॥ ७-१९७ ॥

अष्टवीरं षद्वीरं नववीरं तथा द्रिजे ।
कल्पयेद् वीरप�न्क्तीश्च तथा लब्धाश्च सुन्दरी ॥ ७-१९८ ॥

वीरेभ्यो दक्षिणां दद्याद् आचार्याय निवेदयेत् ।
असङ्ख्यं पातकं चैव ब्रह्महत्यादिपातकम् ॥ ७-१९९ ॥

नाशयेत् तत्क्षणाद् देवि वीरचक्रप्रभावतः ।
दक्षिणाविधिहीनं च तच्चक्रं निष्फलं भवेत् ॥ ७-२०० ॥

इति वीरचक्रनिरूपणम् ॥

ईश्वरः ।

पशुचक्रं प्रवक्ष्यामि ह्यधर्मतदुदाहृतम् ।
यस्मिन् पानेन खादेन रतिनार्यातिशैलजे ॥ ७-२०१ ॥

एकाकी मद्यपापी च एकाकीशक्तिभुक् प्रिये ।
माहेश्वरस्य संसर्गं कुरुते न कदाचन ॥ ७-२०२ ॥

मद्यं मांसं तथा मत्स्यं मात्म्यसौख्यस्य कारणात् ।
आयुक्षयश्च दारिद्र्यं मृतः पैशाचतां ब्रजेत् ॥ ७-२०३ ॥

पिशाचचक्रे सन्तिष्ठेत् षष्टिवर्षसहस्रकम् ।

इति पशुचक्रम् ॥

ईश्वर उवाच

राजचक्रं राजदंस्यान् महाचक्रं प्रकाशकृत् ॥ ७-२०४ ॥

वीरचक्रं सिद्धिदं स्याद् देवचक्रं समृद्धिदम् ।
पशुचक्रं च दारिद्र्यमायुर्हानिश्च जायते ॥ ७-२०५ ॥

कपटाद् दक्षिणा हीने सर्वचक्रं वृथा भवेत् ॥ ७-२०५एफ़् ॥

इति पञ्चचक्रनिरूपणं

कौलरहस्ये

श्रीसुन्दरी तर्पण तत् पराणां हालाभिराघूर्णितलोचनानाम् ।
अस्माकम् आनन्दितमानसानां माहेश्वराणां दिवसाः प्रयान्तु ॥ ७-२०६ ॥

दिने दिने सीधुघटोस्तु पूर्णादिने दिने तर्पणमस्त देव्याः ।
दिने दिने सम्भव तु द्वितीयं दिने दिने पञ्चमस�न्गमोस्तु ॥ ७-२०७ ॥

एते पदार्था भवसिन्धुमध्ये निमज्जतामुद्वरणाय दक्षाः ।
निधायविद्याः परदेवतायाः पञ्चाक्षरी शीललवती च दूती ॥ ७-२०८ ॥

नास्वादनं वापि शितस्य पत्रपञ्चाक्षरीहं तन पत्र लभ्यम् ।
नयत्र सङ्गो मृगलोचनानां तत् तद् दिनं दुर्दिनमेवमन्ये ॥ ७-२०९ ॥

करारविन्दे सुरवृक्षलक्ष्मीः पदारविन्दे नृपमौलिमालाः ।
मातस्त्वदाराधन तत्पराणां मुखारविन्दे सुरसास्तुवाणी ॥ ७-२१० ॥

पात्रं करे चेद्धदि सुन्दरीचेच्चेन्मस्तकेनाथ पदारविन्दम् ।
पानं सुधा या वदनारविन्दे पद्यस्ति तत् के विबुधा वयं के ॥ ७-२११ ॥

हालाङ्घिवेद् दीक्षितमन्दिरेषु सुप्तोनिशायां गणिकाग्रहेषु ।
गृहे गृहे चर्वणमेवकुर्याद् विराजते कौलिकचक्रवर्ती ॥ ७-२१२ ॥

पत्रास्तिभोगोन हि तत्र मोक्षो यत्रास्ति मोक्षो न हि तत्र भोगः ।
श्रीसुन्दरी तर्पण तत् पराणां भोगश्च मोक्षश्च करस्थ एव ॥ ७-२१३ ॥

आलिङ्ग्यवामेन भुजेन बालां तयैव सार्द्धं परिपीयहालाम् ।
पात्रं दधद्दक्षिणपाणिपद्मे कुर्वीत चित्तं परदेवतायाः ॥ ७-२१४ ॥

अयातयातेन भवाम्बुराशौ जातो महानेव मम प्रयासः ।
मोक्षायना नाथस्य पदप्रसादादङ्गी कृतः सम्प्रतिकौलमार्गः ॥ ७-२१५ ॥

विधाय धारां वदनं सुधायाः शुद्धेश्च खण्डा नितदन्तराले ।
श्रीसुन्दरी चितयतां जनानां द्वे चा एद्वास्या धिहभुक्तिमुक्ति ॥ ७-२१६ ॥

स एव धन्याश्चिरमादिनाथो येनाश्रितः कौलिकमुक्तिमार्गः ।
गुणन्तिदोषा दुरितानि यस्मिन् पुण्यन्तिहस्ता मलकन्ति भोगाः ॥ ७-२१७ ॥

श्यामैवरामाकविरेवविद्वान् विद्यै व बन्धुर्धनुरेव शस्त्रम् ।
ग�न्गैवतीर्थं स्मर एव धन्वी मार्गेषु माहेश्वर एव मार्गः ॥ ७-२१८ ॥

कथं च देषा करुणाकटाक्षै घ्निरक्षते मां परदेवता चेत् ।
वृथा कथा कल्प महारुहाणामलं च चिन्तामणि चेतनेन ॥ ७-२१९ ॥

श्रीकुलार्णवे

अलिपिशतपुरन्ध्री भोगपूजापरोहं बहुविधकुलमार्गारम्भ सम्भावितोहम् ।
पशुजनविमुखोहं भैरवीं संश्रितोहं गुरुचरणरतोहम् भैरवोहं शिवोहम् ॥ ७-२२० ॥

वामे रामारमण कुशला दक्षिणे चालिपात्रं तप्ता मुद्नाश्चणकवटिकासौकरं सुष्टुमासम् ।
तत्री वीणासरसकवपः सत्कथा सद्गुरुणां कौलोधर्मः परमगहनोयोगिनामप्यगम्यः ॥ ७-२२१ ॥

इति श्रीशिवानन्दाचार्य विरचिते कुलप्रदीपे सप्तमः प्रकाशः सम्पूर्णः । शुभमस्तु । संवत् १७८८ ज्येष्ट सुदी १४ भौमे शुभम् ॥ श्लोकसङ्ख्या १८०० ॥