अथ सप्तदशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् ।
तत्त्वं कुलपदार्थानां वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण कुलज्ञानं प्रकाशते ॥ २ ॥
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ ३ ॥
नारायणस्वरूपाय परमात्मस्वरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चैतन्याय च ॥ ४ ॥
सर्वज्ञाय दयाकॢप्तविग्रहाय शिवात्मने ।
परत्रेह च भक्तानां भव्यानां भावदायिने ॥ ५ ॥
पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ।
सदा सच्चित्तरूपेण विधेहि तव दासताम् ॥ ६ ॥
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते ॥ ७ ॥
गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारो विष्णुरित्युक्तस्त्रितयात्मा गुरुः परः ॥ ८ ॥
गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः ।
उकारः शिवतादात्म्यं गुरुरित्यभिधीयते ॥ ९ ॥
गुह्यागमात्मतत्त्वान्धनद्धानां बोधनादपि ।
रुद्रादिदेवरूपत्वाद् गुरुरित्यभिधीयते ॥ १० ॥
स्वयमाचरते शिष्यानाचारे स्थापयत्यपि ।
आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते ॥ ११ ॥
चराचरसमासन्नमध्यापयति यः स्वयम् ।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते ॥ १२ ॥
आत्मभावप्रदानात्तु रागद्वेषादिवर्ज्जनात् ।
ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते ॥ १३ ॥
देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् ।
करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये ॥ १४ ॥
स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् ।
मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये ॥ १५ ॥
मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात् ।
श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः ॥ १६ ॥
श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् ।
स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ॥ १७ ॥
देशकालाविरोधेन वर्त्तमानात् कुलागमे ।
वशीकृतजगज्जीवाद्देव इत्यभिधीयते ॥ १८ ॥
भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् ।
रक्षणात् कमनीयत्वात् भट्टारक इतीरितः ॥ १९ ॥
प्रगुप्तागमवेदान्तरहस्यार्थविभावनात् ।
भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते ॥ २० ॥
योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् ।
गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये ॥ २१ ॥
सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् ।
मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते ॥ २२ ॥
तत्त्वस्वरूपमननात् परिवादादिवजीतात् ।
स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते ॥ २३ ॥
अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् ।
तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते ॥ २४ ॥
वीतरागमदक्लेशकोपमात्सर्यमोहतः ।
रजस्तमोविदूरत्वाद्वीर इत्यभिधीयते ॥ २५ ॥
कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् ।
येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते ॥ २६ ॥
अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता ।
कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये ॥ २७ ॥
सारसङ्ग्रहणाच्चैव धर्ममार्गप्रवर्त्तनात् ।
करणग्रामनियमात् साधकः सोऽभिधीयते ॥ २८ ॥
भजनात् परया भक्त्या मनोवाक्कायकर्मभिः ।
तरत्यखिलदुःखानि तस्माद्भक्त इतीरितः ॥ २९ ॥
शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः ।
गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते ॥ ३० ॥
योनिमुद्रानुसन्धानात् गिरिजापादसेवनात् ।
निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते ॥ ३१ ॥
शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् ।
तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते ॥ ३२ ॥
पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् ।
पादुकेति समाख्याता मम तत्त्वं तव प्रिये ॥ ३३ ॥
जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् ।
परदेवप्रकाशाच्च जप इत्यभिधीयते ॥ ३४ ॥
स्तोकस्तोकेन मनसः परमप्रीतिकारणात् ।
स्तोतृसन्तारणाद्देवि स्तोत्रमित्यभिधीयते ॥ ३५ ॥
यावदिन्द्रियसन्तापं मनसा सन्नियम्य च ।
स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते ॥ ३६ ॥
चरितार्थविकाशाच्च रक्षणादपि पार्वति ।
नरनारीस्वरूपाच्च चरणं कथितं प्रिये ॥ ३७ ॥
वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् ।
दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ॥ ३८ ॥
पुण्यपापादिकथनाद्राक्षसादिनिवारणात् ।
नवभक्त्यादिजननात् पुराण इति कथ्यते ॥ ३९ ॥
शासनादनिशं देवि वर्णाश्रमनिवासिनाम् ।
तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते ॥ ४० ॥
स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् ।
तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते ॥ ४१ ॥
इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् ।
हरणात् सर्वदुःखानाम् इतिहास इति स्मृतः ॥ ४२ ॥
आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः ।
महात्मतत्त्वकथनादागमः कथितः प्रिये ॥ ४३ ॥
शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे ।
परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते ॥ ४४ ॥
कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् ।
अशेषकुलसम्बन्धात् कौल इत्यभिधीयते ॥ ४५ ॥
पाशच्छेदकराद्देवि रञ्जनात् परतेजसः ।
यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम् ॥ ४६ ॥
संसारसारभूतत्वात् प्रकाशानन्ददानतः ।
यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः ॥ ४७ ॥
आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् ।
यज्ञादिधर्महेतुत्वादाम्नाय इति कीतीतः ॥ ४८ ॥
श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात् ।
श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते ॥ ४९ ॥
आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् ।
रागद्वेषादिशमनादाचार इति कीर्त्त्यते ॥ ५० ॥
दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च ।
दीक्षेति कथिता सद्भिर्भवबन्धविमोचनात् ॥ ५१ ॥
अहम्भावहराद्भीतिमथनात् सेचनादपि ।
कम्पानन्दादिजननादभिषेक इति स्मृतः ॥ ५२ ॥
उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः ।
शक्तिपातनिमित्तादप्युपदेश इति स्मृतः ॥ ५३ ॥
मननात्तत्त्वरूपस्य देवस्यामिततेजसः ।
त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः ॥ ५४ ॥
देहमास्थाय भक्तानां वरदानाच्च पार्वति ।
तापत्रयादिशमनाद्देवता परिकीत्तीता ॥ ५५ ॥
न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् ।
सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते ॥ ५६ ॥
मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च ।
तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि ॥ ५७ ॥
अनन्तफलदानाच्च क्षपिताशेषकल्मषात् ।
मातृकात्मतया लाभकरणादक्षमालिका ॥ ५८ ॥
मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् ।
ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम् ॥ ५९ ॥
कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात् ।
शमितापारपापाच्च कलशः परिकीत्तीतः ॥ ६० ॥
यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि ।
त्रायते सततञ्चैव तस्माद् यन्त्रमितीरितम् ॥ ६१ ॥
आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् ।
नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये ॥ ६२ ॥
मायाजालादिशमनान्मोक्षमार्गनिरूपणात् ।
अष्टदुःखादिविरहान् मद्यमित्यभिधीयते ॥ ६३ ॥
महादानार्थरूपत्वाद् यागभूम्येककारणात् ।
मद्भावजननाद्देवि मद्यमित्यभिधीयते ॥ ६४ ॥
सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये ।
सुराकारप्रदानत्वात् सुरेति परिकीत्तीता ॥ ६५ ॥
अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् ।
तत्त्वप्रकाशहेतुत्वादमृतं कथितं प्रिये ॥ ६६ ॥
पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् ।
पतितत्राणनाद्देवि पात्रमित्यभिधीयते ॥ ६७ ॥
आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि ।
रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः ॥ ६८ ॥
माङ्गल्यजननाद्देवि संविवदानन्ददानतः ।
सर्वदेवप्रियत्वाच्च माम्स इत्यभिधीयते ॥ ६९ ॥
पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात् ।
सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये ॥ ७० ॥
अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् ।
नन्दनात् सर्वदेवानामर्चनं समुदाहृतम् ॥ ७१ ॥
तत्त्वात्मकस्य देवस्य परिवारवृतस्य च ।
नवानन्दप्रजननात्तर्पणं समुदाहृतम् ॥ ७२ ॥
गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् ।
धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते ॥ ७३ ॥
आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् ।
दग्धदुःखादिदमनादामोद इति कथ्यते ॥ ७४ ॥
अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् ।
तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः ॥ ७५ ॥
पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः ।
पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते ॥ ७६ ॥
धूताशेषमहादोषपूतिगन्धप्रभावतः ।
परमानन्दजननाद्धूप इत्यभिधीयते ॥ ७७ ॥
दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् ।
परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते ॥ ७८ ॥
मोहध्वान्तप्रशमनात् क्षयातीविनिवारणात् ।
दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् ।
ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः ॥ ७९ ॥
चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् ।
निवेदनाद्भवेत्तृप्तिर्नैवेद्यं समुदाहृतम् ॥ ८० ॥
बहुप्रकारविचरद् भूतौघप्रीतिकारणात् ।
लिप्तपापप्रशमनाद् बलिरित्यभिधीयते ॥ ८१ ॥
तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये ।
तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम् ॥ ८२ ॥
चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् ।
कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये ॥ ८३ ॥
प्रकाशानन्दजननात् सामरस्यप्रदानतः ।
दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते ॥ ८४ ॥
पाशसञ्छेदनाद्देवि नरकस्य निवारणात् ।
पाबनात् परमेशानि पानमित्यभिधीयते ॥ ८५ ॥
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
समीपसेवा विधिवत् उपास्तिरिति कथ्यते ॥ ८६ ॥
पञ्चाङ्गोपासनेनेष्टदेवता प्रीतिदानतः ।
पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये ॥ ८७ ॥
आवाहनादिकर्माणि षोडश द्वादशावधि ।
विधिनाचरणं प्रोक्तम् उपहारमिति स्मृतम् ॥ ८८ ॥
सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः ।
स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये ॥ ८९ ॥
देवं पूजार्थमाह्वानमावाहनमिति स्मृतम् ।
आसने सन्निवेशः स्यात् स्थापनं कुलनायिके ॥ ९० ॥
अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् ।
यत्र कुत्राप्यचलनं सन्निरोधनमीरितम् ॥ ९१ ॥
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।
आच्छादनं समुद्दिष्टमवगुण्ठनमीरितम् ॥ ९२ ॥
दर्शनं धेनुमुद्राया अमृतीकरणं प्रिये ।
क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये ।
स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः ॥ ९३ ॥
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातालवङ्गकक्कोलैरुक्तमाचमनीयकम् ॥ ९४ ॥
अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात् ।
अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते ॥ ९५ ॥
सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च ।
यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम् ॥ ९६ ॥
मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि ।
देहप्रक्षालनं स्नानं सुगन्धिसलिलैः सह ॥ ९७ ॥
चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते ।
अष्टाङ्गप्रणिपातन्तु कथितं वन्दनं प्रिये ॥ ९८ ॥
एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते ।
तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते ॥ ९९ ॥
इति ते कथिता किञ्चिद् गुरुनामादिवासना ।
समासेन महेशानि यो जानाति स पूजकः ॥ १०० ॥
रहस्यातिरहस्यानां रहस्योऽयं महेश्वरि ।
ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात् ॥ १०१ ॥
कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् ।
प्रकाशितं मया चाद्य गोपनीयं प्रयत्नतः ॥ १०२ ॥
पुस्तकञ्च महेशानि पशुगेहे न निक्षिपेत् ।
न दद्यात् पशुहस्ते च न पठेत् पशुसन्निधौ ।
न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत् ॥ १०३ ॥
नित्यं सम्पूजयेद्भक्त्या जानीयाद् गुरुवक्त्रतः ।
नापुत्राय प्रवक्तव्यं नाशिष्याय कदाचन ॥ १०४ ॥
स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् ।
देवि यद्विद्यते प्राज्ञे तत्तत् किञ्चिन्मयोदितम् ॥ १०५ ॥
साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् ।
यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ ॥ १०६ ॥
भक्त्या परमया देवि यः शृणोति स कौलिकः ।
व्रतं स्नानं तपस्तीर्थं यज्ञदेवार्चनादिषु ॥ १०७ ॥
तत् फलं कोटिगुणितं लभते नात्र संशयः ।
त्वत्सन्निधौ सन्निवसेन्नात्र कार्या विचारणा ॥ १०८ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
काम्यकर्मकथनं नाम सप्तदशोल्लासः ॥ १७ ॥