अथ षोडशोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
काम्यकर्मविधानञ्च वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणामात्रेण प्रयोगनिपुणो भवेत् ॥ २ ॥
मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः ।
श्रीप्रासादपरामन्त्रं तत्त्वलक्षं जपेत् प्रिये ॥ ३ ॥
दशांशं जुहुयाद्देवि संस्कृते हव्यवाहने ।
दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः ॥ ४ ॥
गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः प्रिये ।
भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः ॥ ५ ॥
तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् ।
एवं न्यासजपध्यानसहोमार्च्चनतर्पणः ॥ ६ ॥
मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् ।
ततः स्वमनसोऽभीष्टान् प्रयोगान् कुलनायिके ॥ ७ ॥
मन्त्रेणानेन मतिमान् साधयेद् भुक्तिमुक्तये ।
सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः ।
नैव सिध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् ॥ ८ ॥
काम्यप्रयोगकर्त्तॄणां परलोको न विद्यते ।
प्रयोगसिद्धिरेवैषां फलमन्यन्न तु प्रिये ॥ ९ ॥
एकस्यापि विधानस्य न कुत्रापि फलद्वयम् ।
देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत् ॥ १० ॥
होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः ।
आत्मनश्च परस्यापि षट् कर्माणि समाचरेत् ॥ ११ ॥
प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् ।
लक्षमेकं जपेन्मन्त्रं न्यासध्यानसमन्वितः ॥ १२ ॥
प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च ।
न चेत् फलं न चाप्नोति देवताशापमाप्नुयात् ॥ १३ ॥
तिथिवारञ्च नक्षत्रं योगमासर्त्तु पक्षकम् ।
दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत् ॥ १४ ॥
ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम् ।
बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १५ ॥
पुत्रबान्धवदाराश्च राशिवर्णानुकूलता ।
भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत् ॥ १६ ॥
मन्त्रविद्याऽभेदरूपं निद्राञ्च बोधरूपकम् ।
स्त्रीपुन्नपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत् ॥ १७ ॥
स्वरवर्णपदद्वित्वं विदुश्चैतन्यसूतकम् ।
हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १८ ॥
पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः ।
दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत् ॥ १९ ॥
तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम् ।
देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २० ॥
साध्यसाधककर्माणि लेखनीद्रव्यपञ्चकम् ।
स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २१ ॥
उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम् ।
कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत् ॥ २२ ॥
अग्निप्रभां धूम्रवर्णध्वनिगन्धशिखाकृतीः ।
शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम् ॥ २३ ॥
मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम् ।
मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २४ ॥
मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् ।
दीक्षानामप्रदानादि ज्ञात्वा दीक्षां समाचरेत् ॥ २५ ॥
नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् ।
पूजाधारणयन्त्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २६ ॥
पूजागृहप्रवेशादिकुलपूजकलक्षणम् ।
कुलद्रव्यादिशुद्धिञ्च ज्ञात्वा पूजां समाचरेत् ॥ २७ ॥
अन्तर्यागं बहिर्यागं घटार्घ्यस्थापनादिकम् ।
पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २८ ॥
पात्राधारालिपिशितं कलामुद्राध्वमेलनम् ।
बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २९ ॥
कुलाकुलाख्यसहजशक्तिभेदञ्च लक्षणम् ।
शुभलक्षणसंयुक्तं स्त्रीसंस्कारार्चनादिकम् ।
देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत् ॥ ३० ॥
पानभेदं फलोल्लासप्रमाणं स्थितिलक्षणम् ।
तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत् ॥ ३१ ॥
चक्रप्रवेशं प्रणति स्थिति निर्गमनं प्रिये ।
योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः ॥ ३२ ॥
रत्युल्लासनकालञ्च कुलदीपनिवेदनम् ।
शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः ॥ ३३ ॥
मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम् ।
विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत् ॥ ३४ ॥
आम्नायभेदं सङ्केतं पुष्पसङ्कोचमेव च ।
गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत् ॥ ३५ ॥
श्रौतविद्याकुलाचारं मनुभेदञ्च पादुकाम् ।
चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत् ॥ ३६ ॥
स्वाधिकस्य समन्यूनकौलिकाराधनक्रमम् ।
सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत् ॥ ३७ ॥
गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं दिग्बलिक्रमम् ।
मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत् ॥ ३८ ॥
इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके ।
सर्वेषामेव मन्त्राणां विधिः साधारणक्रमः ॥ ३९ ॥
मन्त्राः पुरुषदेवाः स्युवीद्याः स्त्रीदेवताः प्रिये ।
मन्त्राः पुंसो हुम्फडन्ताः प्राणे चरति दक्षिणे ।
प्रबुध्यन्तेऽग्निजायान्ता विद्याः स्त्रीदेवताः प्रिये ॥ ४० ॥
वामे प्राणे प्रबुध्यन्ते नमोऽन्ताः स्युर्नपुंसकाः ।
नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति च ॥ ४१ ॥
शान्तिके मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।
स्वाहान्ताः स्युवीयत्प्रायाश्चाग्नेयाः क्रूरकर्मसु ॥ ४२ ॥
फट् च पुष्टौ वषट् वश्ये हुम्फट् चैव तु मारणे ।
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥ ४३ ॥
होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम् ॥ ४४ ॥
शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।
सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम् ॥ ४५ ॥
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके ।
सर्वकार्यंष्वष्टगन्धं क्रूरे चाष्टविषाणि च ॥ ४६ ॥
शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका ।
हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका ॥ ४७ ॥
स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये ।
सर्वकार्यं देवगृहे श्मशाने क्रूरकर्म च ॥ ४८ ॥
लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये ।
सर्वकर्माणि कुर्वीत मन्त्री तत्तत्फलाप्तये ॥ ४९ ॥
मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् ।
उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् ॥ ५० ॥
परस्परजनस्पर्शजनितानन्दनिर्भरः ।
मूलादिब्रह्मरन्ध्रान्तम् अनवच्छिन्नरूपिभिः ॥ ५१ ॥
परामृतरसासेकैः सिक्तमापादमस्तकम् ।
आत्मानं भावयेन्नित्यं स भवेदजरामरः ॥ ५२ ॥
एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् ।
सिध्यन्ति तरसा देवि नात्र कार्या विचारणा ॥ ५३ ॥
ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये ।
ईप्सितं लभते येन पूजाहोमादिकं विना ॥ ५४ ॥
स्थाने मनोहरे देवि साधकः स्थिरमानसः ।
स्थितो मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम् ॥ ५५ ॥
मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम् ।
श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् ॥ ५६ ॥
शुद्धस्फटिककर्पूरकुन्देन्दुधवलं प्रिये ।
सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम् ॥ ५७ ॥
आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना ।
सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम् ॥ ५८ ॥
श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् ।
तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये ॥ ५९ ॥
अपमृत्युमहारोगजरामरणजं भयम् ।
ग्रहापस्मारवेतालभूतोन्मादादिजं भयम् ॥ ६० ॥
जित्वाधिव्याधिरहितः पुत्रपौत्रसमन्वितः ।
जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवः ॥ ६१ ॥
अश्रुतं बुध्यते शास्त्रं कविता निर्मला भवेत् ।
चिन्मयो जायते साक्षान्नात्र कार्या विचारणा ॥ ६२ ॥
ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् ।
शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे ।
तत्तत्स्थानेषु देवेशि पूर्ववच्चिन्तयन् जपेत् ॥ ६३ ॥
महारोगेषु जातेषु सर्वाङ्गेषु विचिन्तयेत् ।
तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः ॥ ६४ ॥
दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् ।
यत्र बीजं स्मरेत्तत्र तत्फलं भवति ध्रुवम् ॥ ६५ ॥
सदा यश्चिन्तयेन्मूध्नी स भवेदजरामरः ।
सर्वरोगप्रहरणं विद्यारोग्यप्रदं प्रिये ॥ ६६ ॥
अस्मात् परतरध्यानं नास्ति सत्यं न संशयः ।
सात्त्विकध्यानजं देवि फलमेतदुदीरितम् ॥ ६७ ॥
शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् ।
विधिनानेन देवेशि सौभाग्यमतुलं भवेत् ॥ ६८ ॥
द्वादशाधारपद्मेषु द्वादशस्वरसंयुतम् ।
बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः ॥ ६९ ॥
षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् ।
षडाधारस्थदेवीभिः पूज्यते कुलनायिके ॥ ७० ॥
हृत्पद्मकणीकामध्ये सूर्यमण्डलसंस्थितम् ।
पराप्रासादबीजन्तु तरुणारुणसन्निभम् ॥ ७१ ॥
जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम् ।
पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके ॥ ७२ ॥
तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम् ।
आत्मानञ्च स्मरेद्देवि निश्चलेनान्तरात्मना ॥ ७३ ॥
पराप्रासादबीजन्तु तरुणोल्लाससंयुतः ।
अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः ॥ ७४ ॥
देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान् ।
विद्याधरान्मुनीन् यक्षान् नागानप्सरसः स्त्रियः ॥ ७५ ॥
सिंहव्याघ्रोरगेन्द्रादीनन्यान् दुष्टमृगानपि ।
वश्यान् करोत्यसन्देहं किं पुनर्मानवादिकान् ॥ ७६ ॥
महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये ।
यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात् ॥ ७७ ॥
राजसध्यानजं देवि फलमेतदुदीरितम् ।
वश्यकर्माणि सर्वाणि विधिनानेन कारयेत् ॥ ७८ ॥
सर्ववश्यकरं देवि सर्वैश्वर्यफलप्रदम् ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ७९ ॥
लिखेत्त्रिकोणं षट्कोणम् अष्टारञ्च महीपुरम् ।
मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् ॥ ८० ॥
षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि ।
केशरेषु स्वरानष्टौ वर्गान् पत्रेषु पार्वति ॥ ८१ ॥
भूगृहस्य चतुष्कोणे विलिखेन्मूलमम्बिके ।
पञ्चवर्णरजोभिश्च शुभं दृष्टिमनोहरम् ॥ ८२ ॥
एवं यन्त्रं समालिख्य विधिवन्मन्त्रवित्तमः ।
एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये ॥ ८३ ॥
मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये ।
अथवाष्टादशेशानि सप्त वा दश वा प्रिये ॥ ८४ ॥
चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः ।
अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम् ॥ ८५ ॥
चर्मवस्त्रशिलाकूर्मनारिकेलफलं शिरः ।
मन्त्रप्राणसमायुक्तां यजेत् कलसदेवताम् ॥ ८६ ॥
सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः ।
विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीन् प्रिये ॥ ८७ ॥
कलसेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः ।
अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये ॥ ८८ ॥
आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् ।
राजाभिषिक्तो लभते चतुःसागरगां महीम् ॥ ८९ ॥
अकिञ्चनोऽभिषिक्तश्च महदैश्वर्यमाप्नुयात् ।
वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् ॥ ९० ॥
भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः ।
त्रिलौहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम् ॥ ९१ ॥
विधृतं बाहुना देवि सर्वरक्षाकरं भवेत् ।
आयुरारोग्यमैश्वर्यं विद्यालाभं यशो जयम् ॥ ९२ ॥
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयः ।
खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम् ॥ ९३ ॥
अणिमाद्यष्टसिद्ध्यादि महारसरसायनम् ।
सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः ॥ ९४ ॥
पराप्रासादमन्त्रज्ञैर्दृश्यन्ते नात्र संशयः ।
षट् कर्माणि प्रयुञ्जीत नान्यथा भवति प्रिये ॥ ९५ ॥
पीतद्रव्यैर्हरिद्राद्यैः समित्पत्रफलादिभिः ।
जुहुयात् पूर्ववन्मन्त्री देवताध्यानतत्परः ॥ ९६ ॥
वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून् प्रिये ।
नानादुष्टमृगान् देवि स्तम्भयेन्नात्र संशयः ॥ ९७ ॥
ग्रहवेगादिदुष्टानां विनाशनकरं प्रिये ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ९८ ॥
तामसध्यानजं देवि फलमेतदुदीरितम् ।
दुष्टमारणकर्माणि विधिनानेन साधयेत् ॥ ९९ ॥
इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये ।
षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते ॥ १०० ॥
खदिरश्वेतमन्दारसितभानुसमिद्वरैः ।
पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः ॥ १०१ ॥
नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः ।
सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः ॥ १०२ ॥
भक्ष्यैश्च पायसैर्दूर्वासहितैस्तिलतण्डुलैः ।
मधुरत्रयसंयुक्तैर्मन्त्रवित् कुलनायिके ॥ १०३ ॥
एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् ।
ज्ञात्वा देवि सहस्रन्तु जुहुयादथ पञ्च वा ॥ १०४ ॥
अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि ।
तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने ॥ १०५ ॥
आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये ।
विधिवज्जुहुयाद्देवि तद्गतेनान्तरात्मना ॥ १०६ ॥
सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम् ।
सर्वदुःखप्रशमनं तत्क्षणान्नात्र संशयः ॥ १०७ ॥
अनेन सर्वशान्तिञ्च ज्ञानं विद्यां लभेत् प्रिये ।
कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः ॥ १०८ ॥
चम्पकद्वयपालाशपाटलश्रीकपित्थकैः ।
मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः ॥ १०९ ॥
कल्हारारुणमन्दारयूथिकुन्दजवादिभिः ।
सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि ॥ ११० ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमादिभिः ।
रक्तैरन्यैः शुभद्रव्यैः समिधृतफलोद्भवैः ॥ १११ ॥
पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ।
महीपतींश्च पुरुषान् कान्ता यौवनगवीताः ॥ ११२ ॥
सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि ।
सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा ।
देवानपि कुलेशानि वशयेन्नात्र संशयः ॥ ११३ ॥
वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् ।
विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत् ॥ ११४ ॥
बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् ।
अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित् ॥ ११५ ॥
ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् ।
कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि ॥ ११६ ॥
सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् ।
पराप्रासादमन्त्रज्ञो मुक्त एव न संशयः ॥ ११७ ॥
दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः ।
ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति ॥ ११८ ॥
निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः ।
अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः ॥ ११९ ॥
वटुकैः कृष्णवर्णैश्च समित्पत्रफलान्तरैः ।
गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः ॥ १२० ॥
उन्मत्तरससंसिक्तै पिष्ट्वा सम्यक् प्रसेचितैः ।
साध्यपादरजोभिश्च चिताभस्मसमन्वितैः ॥ १२१ ॥
साध्यप्रतिकृतिं कुर्यादेकनक्षत्रवृक्षजाम् ।
सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् ॥ १२२ ॥
खनेत्तत्प्रतिमां मन्त्री कुण्डस्याधो यथाविधि ।
मलीमसेन मनसा चोग्रदृष्टिरमर्षणः ॥ १२३ ॥
चितानले विषतरु सप्तकाष्ठसमेधिते ।
तद्द्रव्यैर्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ॥ १२४ ॥
कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः ।
शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत् ॥ १२५ ॥
वश्ये तु राजसं देवि रक्तवर्णं विचिन्तयेत् ।
तामसं क्रूरकार्येषु कृष्णवर्णं विचिन्तयेत् ॥ १२६ ॥
आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् ।
योऽन्यथा कुरुते मोहात् स भवेद्देवतापशुः ॥ १२७ ॥
तस्माद्देवि महाषोढान्यासं पूजां बलिं सुधीः ।
कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते ॥ १२८ ॥
मूलाधारसरोजान्तर्वह्निमध्यगतं प्रिये ।
पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम् ॥ १२९ ॥
प्रतिलोमसु संवीतं दशभिर्व्यापकाक्षरैः ।
स्वयं कालानलसमः सर्वभूतभयङ्करः ॥ १३० ॥
दक्षिणाशामुखो भूत्वात्युग्रदृष्टिमलीमसः ।
यौवनोल्लाससहितः पराप्रासादसञ्ज्ञकम् ॥ १३१ ॥
मन्त्रं मण्डलकं जप्यादष्टोत्तरसहस्रकम् ।
अनिष्टकारिणः सत्त्वान् कलहायासकारिणः ॥ १३२ ॥
वृथा द्वेषकरान् क्रूरान् सपर्याविघ्नकारिणः ।
भूतोपग्रहवेतालान् पिशाचान् यक्षराक्षसान् ॥ १३३ ॥
इत्यादिदुष्टजन्तूंश्च सदा क्लेशकरान् परान् ।
तद्वह्निमध्यपतितान्निर्दग्धांश्च चिन्तयेत् ।
क्षणेन नाशमायान्ति शलभा इव पावके ॥ १३४ ॥
यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति ।
ध्यानेनानेन देवेशि कालादीनपि नाशयेत् ॥ १३५ ॥
इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये ।
समासेन कुलेशानि कि भूयः श्रोतुमिच्छसि ॥ १३६ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
काम्यकर्मकथनं नाम षोडशोल्लासः ॥ १६ ॥