१२

अथ द्वादशोल्लासः

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् ।
आचारमपि देवेश वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण भक्तिराशु प्रजापते ॥ २ ॥
वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः ।
एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् ॥ ३ ॥
कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः ॥ ४ ॥
कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् ।
कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः ॥ ५ ॥
महारोगे महोत्पाते महादोषे महाभये ।
महापदि महापापे स्मृता रक्षति पादुका ॥ ६ ॥
दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे ।
दुराचारे च दुर्बुद्धौ स्मृता रक्षति पादुका ॥ ७ ॥
तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तञ्च पूजितम् ।
जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः ॥ ८ ॥
सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः ।
स सर्वपापरहितः प्राप्नोति परमां गतिम् ॥ ९ ॥
शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् ।
अनायासेन धर्मार्थकाममोक्षान् लभते सः ॥ १० ॥
श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ ११ ॥
न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।
न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात् ॥ १२ ॥
ध्यानमूलं गुरोर्मूत्तीः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १३ ॥
गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके ।
तस्मात् सेव्यो गुरुनीत्यं सिद्ध्यर्थं भक्तिसंयुतैः ॥ १४ ॥
तावदात्तीर्भयं शोको लोभमोहभ्रमादयः ।
यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् ॥ १५ ॥
तावद् भ्रमन्ति संसारे सर्वदुःखमलीमसाः ।
न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम् ॥ १६ ॥
सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः ।
गुरुप्रसादमूलोऽयं परतत्त्वमहाक्रमः ॥ १७ ॥
यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् ।
तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् ॥ १८ ॥
यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः ।
तदा मुक्तो भवेच्छिष्यस्ततो नास्ति पुनर्भवः ॥ १९ ॥
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ २० ॥
मनसापि न काङ्क्षन्ते यान् कामाननुजीविनः ।
सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः ॥ २१ ॥
ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः ।
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥ २२ ॥
भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना ।
कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम् ॥ २३ ॥
शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः ।
प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः ॥ २४ ॥
यदि तुष्टेन गुरुणात्मशिष्यो यत्र कुत्रचित् ।
मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये ॥ २५ ॥
अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरः ।
करोति गुरुरूपेण पशुपाशविमोचनम् ॥ २६ ॥
न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा ।
तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा ॥ २७ ॥
विप्रः षड्गुणयुक्तश्चेदभक्तो न प्रशस्यते ।
म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते ॥ २८ ॥
गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् ।
सर्वं नश्यति तत्रैव भूषणं लोकरञ्जनम् ॥ २९ ॥
गुरुभक्त्यग्निना सम्यग्दग्धदुर्मतिकल्मषः ।
श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः ॥ ३० ॥
धर्मार्थकामैः किन्तस्य मोक्ष एव करे स्थितः ।
सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा ॥ ३१ ॥
स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम ।
इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः ॥ ३२ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि ॥ ३३ ॥
नारायणे महादेवे मातापित्रोश्च राजनि ।
भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ ॥ ३४ ॥
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ।
श्रीगुरुं गुरुपत्नीञ्च पितराविति चिन्तयेत् ॥ ३५ ॥
गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः ।
यज्ञः दानतपस्तीर्थव्रताद्यैर्न तथा प्रिये ॥ ३६ ॥
श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा ।
तथा तथास्य विज्ञानं वर्द्धते कुलनायिके ॥ ३७ ॥
कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा देवेशि भक्तिरेषा हि सद्गुरोः ॥ ३८ ॥
कायाक्लेशेन महता तपसा वापि यत् फलम् ।
तत् फलं लभते देवि सुखेन गुरुसेवया ॥ ३९ ॥
भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् ।
भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः ॥ ४० ॥
अशुभानि च कर्माणि महापातकजानि च ।
भक्तिः क्षणेन दहति तूलराशिमिवानलः ॥ ४१ ॥
विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने ।
येन मृद्दारुद्दषदः फलन्त्यविफलं फलम् ॥ ४२ ॥
न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते ।
अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते ॥ ४३ ॥
साक्षाद् गुरुमये देवि सर्वस्मिन् भुवनान्तरे ।
किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति ॥ ४४ ॥
गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकम् ।
प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत् ॥ ४५ ॥
गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य हि ।
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः ॥ ४६ ॥
श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च ।
तेषां हि सुकृतं सर्वं पातकं भवति प्रिये ॥ ४७ ॥
जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ ४८ ॥
गुरुः पिता गुरुर्माता गुरुर्द्देवो महेश्वरः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४९ ॥
गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः ।
अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः ॥ ५० ॥
शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये ।
क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः ॥ ५१ ॥
मन्त्र त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ॥ ५२ ॥
गुर्वर्थं धारयेद्देहं तदर्थं धनमर्जयेत् ।
निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् ॥ ५३ ॥
गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ।
तेन सन्ताडितो वापि प्रसादमिति संस्मरेत् ॥ ५४ ॥
भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् ।
तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि ॥ ५५ ॥
गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् ।
तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये ॥ ५६ ॥
न वियोगं गुरोः कुर्यात् युष्मदो नैव भाषयेत् ।
ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन ॥ ५७ ॥
न कुर्यान्नास्तिकैर्वादं सम्भाषणमपीश्वरि ।
विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् ॥ ५८ ॥
गुरौ सन्निहिते यस्तु पूजयेदन्यमम्बिके ।
स याति नरकं घोरं सा पूजा निष्फला भवेत् ॥ ५९ ॥
शिरसा न वहेद्भारं गुरुपादाब्जधारिणा ।
तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः ॥ ६० ॥
मन्त्रागमाद्यमन्यत्र श्रुतं यस्मै निवेदयेत् ।
गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत् ॥ ६१ ॥
स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् ।
यदि ब्रूयात् स समयाच्च्युत एव न संशयः ॥ ६२ ॥
अद्वैतं भावयेन्नित्यं न द्वैतं गुरुणा सह ।
आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि ॥ ६३ ॥
आत्मार्थमानसद्भावैः शुश्रूषा स्याच्चतुवीधा ।
शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम् ॥ ६४ ॥
पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ।
शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम् ॥ ६५ ॥
केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ।
सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा ॥ ६६ ॥
क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः ।
सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये ॥ ६७ ॥
यद् यदात्महितं वस्तु तत्तद्धितमुपाचरेत् ।
गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते ॥ ६८ ॥
भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् ।
अल्पे महति वा तुल्यं पुण्यमाढ्यदरिद्रयोः ॥ ६९ ॥
सर्वस्वमपि यो दद्याद् गुरौ भक्तिविवजीतः ।
शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् ॥ ७० ॥
यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् ।
अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया ॥ ७१ ॥
यस्तिलार्द्धं तदर्द्धं वा गुरुस्वमुपजीवति ।
लोभान्मोहात् स पच्येत नरके च त्रिसप्तके ॥ ७२ ॥
अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः ।
स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये ॥ ७३ ॥
गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः ।
पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते ॥ ७४ ॥
आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्त्तनम् ।
गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी ॥ ७५ ॥
स्वद्रव्यविनियोगञ्च नानिवेद्य गुरौ चरेत् ।
अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः ॥ ७६ ॥
गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् ।
गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः ॥ ७७ ॥
गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् ।
विमृत्युगुरुनिन्दायां गुर्वनिष्टान्महापदः ॥ ७८ ॥
जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा ।
मृत्युहस्तगतो वापि नापराधकरो गुरोः ॥ ७९ ॥
यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके ।
सद्यस्तस्माद्विनिष्क्रामेत् पुनर्न श्रवणं यथा ।
गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया ॥ ८० ॥
गुरुमित्रसुहृद्दासीदासाद्यान् नावमानयेत् ।
न निन्देदस्य समयान् वेदशास्त्रागमादिकान् ॥ ८१ ॥
गुरोः श्रीपादुकाभूषा गुरुनामस्मृतिर्जपः ।
गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः ॥ ८२ ॥
विविक्षुर्द्देशिकावासं शान्तचित्तोऽतिभक्तिमान् ।
वाहनं पादुकां छत्रं चामरं व्यजनादिकम् ।
ताम्बूलं कज्जलं वेशमुत्सृज्य प्रविशेच्छनैः ॥ ८३ ॥
पादुकामासनं वस्त्रं वाहनं छत्रचामरे ।
दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत् ॥ ८४ ॥
पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् ।
मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम् ॥ ८५ ॥
वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् ।
केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा ॥ ८६ ॥
पादप्रसारणं वादं कलहं दूषणं प्रिये ।
अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम् ॥ ८७ ॥
द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके ।
गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु च ।
ना चरेदाचरेन्मोहाद्देवताशापमाप्नुयात् ॥ ८८ ॥
उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् ।
मुखावलोकी सेवेत तदुक्तञ्च समाचरेत् ॥ ८९ ॥
गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये ।
शिरसा यद्गुरुर्ब्रूयात्तत् कार्यमविशङ्कया ॥ ९० ॥
निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् ।
निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते ॥ ९१ ॥
गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत् प्रिये ।
बहुभृत्यपरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् ॥ ९२ ॥
गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् ।
गुर्वाज्ञामेव कुर्वीत तदगतेनान्तरात्मना ॥ ९३ ॥
अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः ।
सर्वदा सेवयेत् नित्यं शिष्यः भ्रीगुरुसन्निधौ ॥ ९४ ॥
कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् ।
देवि भूम्यासने तिष्ठेद् गुरुकार्यं समाचरेत् ॥ ९५ ॥
स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् ।
गुरुपार्श्वगतो नम्रः प्रसन्नवदनो भवेत् ॥ ९६ ॥
सामान्यतो निषिद्धञ्च तद्गुरोर्यदि सन्निधौ ।
आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत् ॥ ९७ ॥
अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः ।
अहितं वा हितं वापि रौरवं नरकं व्रजेत् ॥ ९८ ॥
गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् ।
तत् पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥ ९९ ॥
स्थानान्तरगताचार्ये व्यसने विषमे स्थिते ।
श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये ॥ १०० ॥
अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन ।
न गच्छेदग्रतस्तस्य न तिष्ठेदुत्थिते गुरौ ॥ १०१ ॥
शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् ।
न तेषु कुर्यात् स्वच्छायां न स्वपेद् गुरुसन्निधौ ॥ १०२ ॥
भाषणं पाठनं गानं भोजनं शयनादिकम् ।
अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम् ॥ १०३ ॥
ब्रह्महत्याशतं कुर्यात् गुर्वाज्ञापरिपालनात् ।
विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात् ॥ १०४ ॥
सर्वं गुर्वाज्ञया कुर्यान्न निन्देत्तत्स्त्रियं प्रिये ।
भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये ॥ १०५ ॥
पश्चात्पदेन निर्गच्छेन्नमस्कृत्य गुरोर्गृहात् ।
एकासने नोपविशेद् गुरुणा तत्समैः सह ॥ १०६ ॥
न विशेदासने देवि देवतागुरुसन्निधौ ।
गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ।
देश्यासनं कनिष्ठानामितरेषां समासनम् ॥ १०७ ॥
जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा ।
दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् ॥ १०८ ॥
ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा ।
गुरुप्रगुरुयोगेन वन्देत प्रगुरु प्रिये ॥ १०९ ॥
ततो नमेद् गुरुं वापि गुर्वाज्ञां न विचारयेत् ।
प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् ॥ ११० ॥
गुरुबुद्ध्या नमेत् सर्व दैवतं तृण्मेव वा ।
न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम् ॥ १११ ॥
गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च ।
पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् ॥ ११२ ॥
देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् ।
विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके ॥ ११३ ॥
स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् ।
विकर्माणं कृतघ्नञ्चानाश्रमिणञ्च नो नमेत् ॥ ११४ ॥
अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः ।
अमेध्यं तद्भवेदन्नं शूकरो जायते मृतः ॥ ११५ ॥
एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ।
क्रोशामात्रस्थितः शिष्यो गुरुं प्रतिदिनं नमेत् ॥ ११६ ॥
अर्द्धयोजनगः शिष्यः प्रणमेत् पञ्चपर्वसु ।
एकयोजनमारम्य योजनद्वादशावधि ॥ ११७ ॥
तत्सङ्ख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये ।
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ ११८ ॥
तत्र योजनसङ्ख्योक्तमासेन प्रणमेद् गुरुम् ।
अतिदूरगतः शिष्यो यदिच्छा स्यात्तदा व्रजेत् ॥ ११९ ॥
रिक्तहस्तश्च नोपेयाद्राजानं देवतां गुरुम् ।
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् ॥ १२० ॥
एवं यो न चरेद्देवि ब्रह्मराक्षसतां व्रजेत् ।
गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः ॥ १२१ ॥
आत्मविच्च कनीयांसं पुत्रवत् परिपालयेत् ।
कुलाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः ।
गुरुकल्पस्य कुर्वीत प्रणामं स्वरगुरोर्यथा ॥ १२२ ॥
यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः ।
गुरुज्येष्ठसुतो देवि इति ज्येष्ठचतुष्टयम् ॥ १२३ ॥
यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः ।
गुरुश्च कुलवृक्षश्च वन्दनीयौ विधानतः ॥ १२४ ॥
पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु ।
अभ्युत्थानप्रणामाद्यैरव्यक्तो दोषभाग्बहिः ॥ १२५ ॥
यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् ।
अभ्युत्थानप्रणामाद्यैर्द्दोषभाक् स भवेत्तदा ॥ १२६ ॥
पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति ।
स महापशुरित्युक्तो देवताशापमाप्नुयात् ॥ १२७ ॥
यो गुरुस्थानकं प्राप्तः पादुकापरिसङ्ख्यया ।
गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये ॥ १२८ ॥
इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १२९ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
पादुकाकथनं नाम द्वादशोल्लासः ॥ १२ ॥