११

अथैकादशोल्लासः

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि सर्वलोकैकपूजित ।
कुलाचारक्रमं देव वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते ॥ २ ॥
यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः ।
तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् ॥ ३ ॥
तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा ।
तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती ॥ ४ ॥
पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ।
नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया ॥ ५ ॥
ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ ।
तत्र पूर्ववदाचारः कथितः कुलनायिके ॥ ६ ॥
अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् ।
स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् ॥ ७ ॥
नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः ॥ ८ ॥
अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि ।
गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलङ्कृतः ।
अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् ॥ ९ ॥
विना मन्त्रेण या पूजा विना मांसेन तर्पणम् ।
विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये ॥ १० ॥
श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् ।
नार्चयेदेकहस्तेन न पिबेदेकपाणिना ॥ ११ ॥
मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ ।
प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च ॥ १२ ॥
श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये ।
श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् ।
तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥ १३ ॥
अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।
शिवगौरीधिया देवि भावयेन्नावमानयेत् ॥ १४ ॥
कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ।
याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत् ॥ १५ ॥
कुलाचार्येण तच्छक्त्या दत्तं पात्रञ्च भक्तितः ।
नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत् ॥ १६ ॥
अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि ।
यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात् ॥ १७ ॥
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम् ॥ १८ ॥
योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् ।
ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् ॥ १९ ॥
एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने ।
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये ॥ २० ॥
यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ।
तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके ।
विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत् ॥ २१ ॥
उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।
बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् ॥ २२ ॥
मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये ।
भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन ॥ २३ ॥
चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् ।
यः करोति हि मूढात्मा स भवेदापदाम्पदम् ॥ २४ ॥
निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ।
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः ॥ २५ ॥
चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि ।
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ॥ २६ ॥
मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।
बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये ॥ २७ ॥
मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च ।
रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये ॥ २८ ॥
परिहासं प्रलापञ्च वितण्डां बहुभाषितम् ।
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥ २९ ॥
पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः ।
पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये ॥ ३० ॥
नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके ।
पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः ॥ ३१ ॥
नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये ।
पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् ॥ ३२ ॥
सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् ।
नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः ॥ ३३ ॥
साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् ।
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ ३४ ॥
न पात्रं लङ्घयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।
प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ॥ ३५ ॥
यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।
पठेद्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् ॥ ३६ ॥
कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।
धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति ॥ ३७ ॥
श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति ।
स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः ॥ ३८ ॥
रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः ।
पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् ॥ ३९ ॥
यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति ।
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः ॥ ४० ॥
ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ।
द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः ॥ ४१ ॥
अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः ।
अहमेव गतिर्येषां कौलिका न भवन्ति ते ॥ ४२ ॥
श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च ।
भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत् ॥ ४३ ॥
गुरुं नाम्ना न भावेत जपकालादृते प्रिये ।
श्रीनाथ देव स्वामीति विवादे साधने वदेत् ॥ ४४ ॥
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।
शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् ॥ ४५ ॥
पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ ४६ ॥
श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये ।
नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् ॥ ४७ ॥
स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ।
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् ॥ ४८ ॥
स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।
तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः ॥ ४९ ॥
यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् ।
तावुभौ गच्छतः साक्षाद् योगिनीवीरमेलनम् ॥ ५० ॥
अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि ।
नरकान्नो निवर्त्तन्ते यावदाहूत सम्प्लवम् ॥ ५१ ॥
ऊढा धृता तथा क्रीता मूल्येन च समाहृता ।
सकृत् कामरता वापि पञ्चधा गुरुयोषितः ।
अलङ्घ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः ॥ ५२ ॥
गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् ।
व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् ॥ ५३ ॥
सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि ।
न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसङ्ग्रहम् ॥ ५४ ॥
कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् ।
मनोहरां यौवनस्थामर्चयेद्देवताधिया ॥ ५५ ॥
एकदापि न सेवेत बलेन कुलयोगिनीम् ।
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ॥ ५६ ॥
आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् ।
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः ॥ ५७ ॥
एक्रवृक्षं श्मशानञ्च समूहं योषतामपि ।
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ॥ ५८ ॥
गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् ।
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥ ५९ ॥
प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा ।
शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् ॥ ६० ॥
कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् ।
न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् ॥ ६१ ॥
नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।
कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् ॥ ६२ ॥
परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् ।
न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् ॥ ६३ ॥
दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् ।
या काचिदङ्गना लोके सा मातृ कुलसम्भवा ॥ ६४ ॥
कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् ।
स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् ।
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ॥ ६५ ॥
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।
तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः ॥ ६६ ॥
न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ।
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ॥ ६७ ॥
श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः ।
बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता ॥ ६८ ॥
प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् ।
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ॥ ६९ ॥
वीरहत्या वृथापानं वीरपत्नीनिषेवणम् ।
वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः ।
महापातकमित्युक्तं कौलिकानां कुलान्वये ॥ ७० ॥
शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ ॥ ७१ ॥
देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः ।
विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥ ७२ ॥
गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये ।
गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः ।
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ७३ ॥
एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् ।
श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् ॥ ७४ ॥
मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् ।
कुलनिन्दाकरं देवि हन्यादेवाविचारयन् ॥ ७५ ॥
गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि ।
कुलागमार्थमथवा कुलधर्मार्थमेव वा ॥ ७६ ॥
देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा ।
यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे ॥ ७७ ॥
एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् ॥ ७८ ॥
श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् ।
कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि ॥ ७९ ॥
कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये ।
कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत् ॥ ८० ॥
पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् ।
कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ ॥ ८१ ॥
यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये ।
कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत् ॥ ८२ ॥
अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः ।
कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत् ॥ ८३ ॥
कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा ।
गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥ ८४ ॥
वेदशास्त्रपुराणानि स्पष्टानि गणिका इव ।
इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ८५ ॥
सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः ।
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान् ॥ ८६ ॥
कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः ।
ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके ॥ ८७ ॥
गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ।
अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी ॥ ८८ ॥
सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ।
कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत् ॥ ८९ ॥
शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् ॥ ९० ॥
कुलधर्म समाश्रित्य आचारं यो न पालयेत् ।
यथेच्छचारिणस्तस्य महापातकिनः प्रिये ॥ ९१ ॥
आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् ।
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे ॥ ९२ ॥
भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः ।
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः ।
देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा ॥ ९३ ॥
तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ।
भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु ॥ ९४ ॥
तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ।
नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि ॥ ९५ ॥
पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः ।
सदाचारेण देवत्वं योगिनीवीरमेलनम् ।
सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् ॥ ९६ ॥
आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति ।
आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति ॥ ९७ ॥
नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् ।
कारणं कुलधर्मस्य सदाचारः कुलेश्वरि ॥ ९८ ॥
परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः ।
यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि ॥ ९९ ॥
तावन्न कौलिको देवि यावन्न समयीकृतः ।
देहपाते विमोक्षः स्यात् समयाचारपालनात् ॥ १०० ॥
संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।
आचारवर्जनाद्देवि कौलिकः पतितो भवेत् ॥ १०१ ॥
नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् ।
अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम् ॥ १०२ ॥
गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये ।
एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥ १०३ ॥
देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि ।
प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये ॥ १०४ ॥
शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् ।
अथवा सर्वपापानां गुरुनामजपः स्मृतः ॥ १०५ ॥
जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना ।
अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् ॥ १०६ ॥
बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती ।
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ॥ १०७ ॥
गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि ।
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ॥ १०८ ॥
मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा ।
तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये ॥ १०९ ॥
इति ते कथितं किञ्चित् समासेन कुलेश्वरि ।
कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि ॥ ११० ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलाचारकथनं नाम एकादशोल्लासः ॥ ११ ॥