१०

अथ दशमोल्लासः

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् ।
तत्सपर्याफलं देव वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥
उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् ।
मासपूजाऽधमा देवि मासादूर्ध्व पशुर्भवेत् ॥ ३ ॥
विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समर्चनम् ।
पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः ॥ ४ ॥
मद्यं मांसञ्च मत्स्यश्च मुद्रा मैथुनमेव च ।
मकारपञ्चकं देवि देवताप्रीतिकारकम् ॥ ५ ॥
मादिपञ्चकमीशानि देवताप्रीतये सुधीः ।
यथाविधि निषेवेत तृष्णया चेत् स पातकी ॥ ६ ॥
कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ पूणीमा ।
सङ्क्रान्तिः पञ्च पर्वाणि तेषु पुण्यदिनेषु च ॥ ७ ॥
गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि ।
मानवौघादिपुंसाञ्च स्वजन्मदिवसे तथा ॥ ८ ॥
सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे ।
पीठोपगमने वीरपीठे स्वजनदर्शने ॥ ९ ॥
देशिकागमने पुण्यतीर्थदैवतदर्शने ।
एवमादिषु देवेशि विशेषदिवसेषु च ॥ १० ॥
यथाधनं यथाश्रद्धं यथाद्रव्यं यथोचितम् ।
यथाकालं यथादेशं तथा पूजां समाचरेत् ॥ ११ ॥
आचार्येण विधानेन कारयेच्चक्रपूजनम् ।
स्वयं वा पूजयेद्देवि बिन्दुपूजापुरःसरम् ॥ १२ ॥
स ते लोकमवाप्नोति पुनरावृत्तिवजीतम् ।
अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात् ॥ १३ ॥
मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा ।
श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान् ॥ १४ ॥
तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् ।
सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम् ॥ १५ ॥
रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके ।
पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये ॥ १६ ॥
यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः कुलेश्वरि ।
कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये ॥ १७ ॥
पृथग्वा पूजयेद्देवि मिथुनाकारतोऽपि वा ।
गन्धपुष्पाक्षताद्यैस्तु देवेशि समलङ्कृताः ।
भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः ॥ १८ ॥
प्रौढोल्लासेन सहिता यदि ता निवसन्ति च ।
तच्छ्रीचक्रमिति प्रोक्तं वृन्दञ्चापि तदुच्यते ॥ १९ ॥
कुर्यान्नवकुमारीणां पूजामाश्विनमासके ।
प्रातनीमन्त्रयेद्भक्त्या साधकः शुद्धमानसः ॥ २० ॥
मनोहरामेकवर्षी बालाञ्च शुभलक्षणाम् ।
मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम् ॥ २१ ॥
अभ्यङ्गस्नानशुद्धान्तां पूजासदनमानयेत् ।
देवतासन्निधौ बालामुपवेश्य समर्चयेत् ॥ २२ ॥
गन्धपुष्पादिभिर्धूपैर्दीपैश्च कुलदीपकैः ।
भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः ।
कदलीनारिकेलादिफलैस्तां परितोषयेत् ॥ २३ ॥
सशक्तिकः स्वयं देवि प्रौढान्तोल्लाससंयुतः ।
यथाशक्ति जपेदेकोत्तरवृद्ध्याऽथवा मनुम् ॥ २४ ॥
बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् ।
ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् ॥ २५ ॥
द्वितीयायां द्विवर्षान्तामेकवर्षाञ्च पूजयेत् ।
एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम् ॥ २६ ॥
नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः ।
बाला शुद्धा च ललिता मालिनी च वसुन्धरा ।
सरस्वती रमा गौरी दुर्गा च नव कीत्तीताः ॥ २७ ॥
त्रिताराद्यैर्नमोऽन्तैश्च देवतापदपश्चिमैः ।
नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक् ॥ २८ ॥
बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् ।
गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः ॥ २९ ॥
अभ्यर्च्य देवताबुद्ध्या पदार्थैः परितोषयेत् ।
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ॥ ३० ॥
नवरात्रं जपेदेकोत्तरवृद्ध्या क्रमेण च ।
नवरात्रकृतां पूजां देवि देव्यै समर्पयेत् ॥ ३१ ॥
ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् ।
एवं नवकुमारीणामर्चनं प्रातवत्सरम् ॥ ३२ ॥
यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् ।
मनोऽभिलाषं सम्प्राप्य निवसेत्तव सन्निधौ ॥ ३३ ॥
अथवा यौवनारूढाः प्रमदा नव पार्वति ।
मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित् ॥ ३४ ॥
हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् ।
इच्छां ज्ञानां क्रियां दुर्गां बटुकञ्च गणेश्वरम् ।
पूर्ववत् पूर्वमद्याद्यैः पदार्थैः परितोषयेत् ॥ ३५ ॥
प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये ।
साधकस्तुष्टिमासाद्य निवसेत्तव सन्निधौ ॥ ३६ ॥
एवं यः पूजयेद्देवि प्रतिवर्षं यतव्रतः ।
षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये ॥ ३७ ॥
तिस्रो वा पञ्च वा सप्त पूजयेद्देवताधिया ।
सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः ॥ ३८ ॥
भृगुवारे कुलेशानि कान्तामारूढयौवनाम् ।
सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् ॥ ३९ ॥
कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् ।
अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् ॥ ४० ॥
गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् ।
आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि ॥ ४१ ॥
आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च ।
कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान् ॥ ४२ ॥
प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः ।
मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः ॥ ४३ ॥
प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् ।
यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः ॥ ४४ ॥
निवीकारेण चित्तेन ह्यष्टोत्तरसहस्रकम् ।
जपादिकं समर्प्याथ तया सह निशां नयेत् ॥ ४५ ॥
त्रिपञ्चसप्तनवसु भृगुवारेषु यः प्रिये ।
पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते ॥ ४६ ॥
चतुः पीठार्चनफलं स प्राप्नोति कुलेश्वरि ।
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम् ॥ ४७ ॥
नवम्यां वार्चयेदेवं विधानेन विधानवित् ।
स्तोत्रैः सम्पूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात् ॥ ४८ ॥
कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् ।
तुलायां सिंहमेषे वा सर्वसङ्क्रान्तिषु प्रिये ॥ ४९ ॥
गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ ।
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ॥ ५० ॥
भद्रकालीवीरभद्रौ भैरवीभैरवावपि ।
मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना ॥ ५१ ॥
त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानवित् ।
गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत् ॥ ५२ ॥
प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च ।
एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः ।
अनुगृह्णन्ति तं देवि प्रयच्छन्ति मनोरथम् ॥ ५३ ॥
प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् ।
तव लोके स निवसेत् सर्वैश्वर्यसमन्वितः ॥ ५४ ॥
अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि ।
ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च ॥ ५५ ॥
मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखस्थितः ।
आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित् ॥ ५६ ॥
कृत्वा पुरोदितन्यासान् देवताभावमास्थितः ।
किञ्चिदभ्युदिते सूर्ये मण्डले स्वेष्टदेवताम् ॥ ५७ ॥
ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये ।
षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् ॥ ५८ ॥
कुलदीपान् प्रदर्श्याथ शिवाय गुरुरूपिणे ।
मत्स्यमांसादि विधिवद्भक्ष्य भोज्यसमन्वितम् ॥ ५९ ॥
अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये ।
यौवनोल्लाससहितो निवीकारेण चेतसा ॥ ६० ॥
ध्यायंस्तन्मण्डलं देवीमष्टोत्तरसहस्रकम् ।
जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् ॥ ६१ ॥
एवं शुक्लप्रतिपदं समारभ्य दिने दिने ।
कुर्याज्जपार्चनं कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ६२ ॥
अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् ।
त्रिपञ्चसप्त नव वा वित्तलोभविवजीतः ॥ ६३ ॥
एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् ।
देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् ॥ ६४ ॥
माध्याह्ने चार्चयेद्देवं सायाह्ने चार्चयेत् प्रिये ।
स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत् ॥ ६५ ॥
त्रिसन्धां योऽर्चयेदेवं मासमात्रं विधानवित् ।
काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि ॥ ६६ ॥
माघशुक्लप्रतिपदि दिवाहारविवजीतः ।
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च ॥ ६७ ॥
सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः ।
यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् ॥ ६८ ॥
चन्द्रास्तमयपर्यन्तं जपेन्मन्त्रनन्यधीः ।
एवं प्रतिदिनं शुक्लचतुर्द्दश्यन्तमर्चयेत् ॥ ६९ ॥
पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये ॥ ७० ॥
सर्व पापविशुद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसम्पूज्यः शिववन्निवसेद् भुवि ॥ ७१ ॥
शुक्लपक्षेऽर्चनं यद्वत्तद्वत् पक्षे सितेतरे ।
यः करोति विधानेन सर्वान् कामान् समश्नुते ॥ ७२ ॥
इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः ।
योगिनीवीरमेलनं लभते नात्र संशयः ॥ ७३ ॥
अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि ।
स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान् ॥ ७४ ॥
प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि ।
पूर्वार्चनोक्त विधिना सर्वद्रव्यसमन्वितः ॥ ७५ ॥
आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति ।
पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे ॥ ७६ ॥
मधुपूर्णे च कलसे कांस्यपात्रे मनोहरे ।
दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः ॥ ७७ ॥
दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् ।
यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् ॥ ७८ ॥
अष्टोत्तरसहस्रन्तु जपेन्मन्त्रमनन्यधीः ।
एवं समर्चयेत् कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ७९ ॥
अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं कृते कुलेशानि देवता प्रीतिमाप्नुयात् ॥ ८० ॥
सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम् ॥ ८१ ॥
अष्टाष्टकार्चनं कुर्यात् शक्तश्चेदेकवासरे ।
अथवाष्टाष्टदिवसेष्वथ द्व्यष्टदिनेषु च ।
द्वात्रिंशद्दिवसेष्वेवं चतुःषष्टिदिनेषु च ॥ ८२ ॥
गुरुणा कारयेद्देवि क्रमज्ञेनापरेण वा ।
क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः ॥ ८३ ॥
मूलाष्टकन्तु ब्रह्माद्याश्चासिताङ्गादिभैरवाः ।
मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये ॥ ८४ ॥
मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे ।
अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् ॥ ८५ ॥
पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
क्रमलोपं न कुर्वीत स्वेष्टकार्यार्थसिद्धये ॥ ८६ ॥
गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः ।
भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः ।
सम्यक् सन्तोषयेद्देवि मिथुनान्यतिभक्तितः ॥ ८७ ॥
प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके ।
एवं यः कुरुते देवि सकृदष्टाष्टकार्चनम् ॥ ८८ ॥
ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते ।
किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः ॥ ८९ ॥
यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः ।
पुनरावृत्तिरहितो निवसेत्तव सन्निधौ ॥ ९० ॥
समस्तदेवताप्रीतिकारणं परमेश्वरि ।
अस्मात् परतरा पूजा नास्ति सत्यं न संशयः ॥ ९१ ॥
पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये ।
यज्ञदानतपस्तीर्थव्रतकोटिफलं लभेत् ॥ ९२ ॥
राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् ।
चतुःसागरपर्यन्तां महीं शास्ति न संशयः ॥ ९३ ॥
श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् ।
पूर्वोक्तेन विधानेन कुलेश्वरि विधानवित् ॥ ९४ ॥
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ।
प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत् ॥ ९५ ॥
सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् ।
अव्याहताज्ञः सर्वत्र पूज्यते देववत् प्रिये ।
तव लोके वसेद्देवि ब्रह्मादिसुरसंस्तुतः ॥ ९६ ॥
केशवादि गणेशादि कामादि मिथुनानि च ।
श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम् ॥ ९७ ॥
अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने ।
मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये ॥ ९८ ॥
पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
प्रौढान्तोल्लासपर्यन्तं तोषयेत्तद्विधानवित् ॥ ९९ ॥
कुर्वन्त्यनुग्रहं देवि सन्तुष्टाः सर्वदेवताः ।
सर्वोपद्रव रहितः सर्वैश्वर्यसमन्वितः ॥ १०० ॥
लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् ।
देहान्ते समवाप्नोति तव लोकं न संशयः ॥ १०१ ॥
दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये ।
निवीकल्पेन चित्तेन नवशक्तिसमन्वितः ॥ १०२ ॥
वर्षे वर्षे चतुःषष्टिपीठार्चनफलं लभेत् ।
आज्ञासिद्धिर्भवेत्तस्य देवताप्रीतिमाप्नुयात् ॥ १०३ ॥
त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् ।
आगमोक्तेत विधिना पूर्ववेत्तद्विधानवित् ॥ १०४ ॥
पदार्थैस्तोषयेत् सम्यक् यथाविभवविस्तरम् ।
सन्तुष्टा देवतास्तिस्रः सर्वकर्मफलप्रदाः ।
देवेशि साधकाभीष्टं प्रयच्छन्ति न संशयः ॥ १०५ ॥
इत्यादिदेवतापूजां विशेषदिवसेषु यः ।
करोति शस्त्रविधिना स भवेदावयोः प्रियः ॥ १०६ ॥
श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु यः ।
न करोति समर्थः सन् स भवेद् योगिनीपशुः ॥ १०७ ॥
कुलपूजां विना चक्रे नाधिकारः कथञ्चन ।
कुलपूजां सुनियतं यः करोति स कौलिकः ॥ १०८ ॥
विना मन्त्रेण पूजा चेद्देवता न प्रसीदति ।
कुलपूजां सुनियतं यः करोति हि कौलिकः ।
कुलेशि सर्वदाप्नोति योगिनीवीरमेलनम् ॥ १०९ ॥
नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् ।
स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः ॥ ११० ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलपूजारतो भूयादभीष्टफलसिद्धये ॥ १११ ॥
कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् ।
कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः ॥ ११२ ॥
कुलपूजाधिकं दानं कुलपूजाधिका क्रिया ।
कुलपूजाधिकं ज्ञानं कुलपूजाधिकं सुखम् ॥ ११३ ॥
कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् ।
कुलपूजाधिकं ध्यानं कुलपूजाधिकं महः ॥ ११४ ॥
कुलपूजाधिको योगः कुलपूजाधिका गतिः ।
कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना ॥ ११५ ॥
नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके ।
बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति ॥ ११६ ॥
वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः ।
तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११७ ॥
खभूमिदिग्जलगिरिवनसर्वचराः प्रिये ।
सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि ।
नियुक्ता हि मया देवि कुलसंरक्षणाय च ॥ ११८ ॥
दिवसे दिवसे सर्वे पार्वति मुदिताननाः ।
साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया ॥ ११९ ॥
अपूजितास्तु विघ्नन्ति पालयन्ति सुपूजिताः ।
गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान् ॥ १२० ॥
भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् ।
श्रीचक्रे संस्मरेत्तस्माद् योगिनीभैरवान् प्रिये ॥ १२१ ॥
न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः ।
तस्मात् श्रीचक्रमध्ये तु संस्मरेत् सर्वदेवताः ॥ १२२ ॥
अनुगृह्णन्ति देवेशि साधकान् नात्र संशयः ।
अनुग्रहन्तु वक्ष्यामि शृणु देवि यथाक्रमम् ॥ १२३ ॥
आत्मनोऽनुग्रहार्थं वा परार्थं श्रेष्ठमुत्तमम् ।
शुचिद्रव्यसमायुक्तं चक्रपूजासमन्वितम् ॥ १२४ ॥
सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् ।
प्रपूजयेच्च वर्णस्थाः सर्वाभरणभूषिताः ॥ १२५ ॥
हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् ।
पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः ॥ १२६ ॥
गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् ।
हसख फ्रें हेसौं(ह्सौम्) डां डीं डमलवरयूं ततः ॥ १२७ ॥
श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः ।
सङ्कल्प्य मनसोऽभीष्टं मधुरत्रितयः प्रिये ॥ १२८ ॥
गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् ।
पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने ॥ १२९ ॥
ईप्सितानि च सर्वाणि साधको लभते वरम् ।
आत्मनश्च परस्यापि रक्षार्थं पूजयेत् प्रिये ॥ १३० ॥
रोगाणां नाशनार्थञ्च यथात्र पुत्रसिद्धये ।
वश्यार्थं मङ्गलार्थञ्च धर्मकर्मार्थसिद्धये ॥ १३१ ॥
सप्ताहं पूजयेद्देवि चतुर्द्दशदिनानि च ।
एकविंशदिनान्यत्र लभते चेप्सितं फलम् ॥ १३२ ॥
दक्षिणाञ्च पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् ।
कुलाष्टकसमायुक्तं चतुःषष्टिसमन्वितम् ॥ १३३ ॥
अचीतञ्च प्रयत्नेन सिद्धिर्भवत्यनेकशः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः ॥ १३४ ॥
एवं षट्कं समाख्यातमनुग्रहं वरानने ।
अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये ॥ १३५ ॥
ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने ।
सम्पूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये ॥ १३६ ॥
शक्तिदेहसमुत्पन्नं शक्तिनिर्माल्यभोजने ।
स्ववर्गेण समायुक्ता दत्तनिर्माल्यमित्यपि ।
प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम् ॥ १३७ ॥
डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा ।
कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा ॥ १३८ ॥
उलूकवदना देवी राकिणी नीलसन्निभा ।
खड्गखेटकसंयुक्ता सर्वालङ्कारभूषिता ॥ १३९ ॥
लाकिनी श्रीकपालाढ्या पाशाङ्कुशधरा सती ।
पाटलीपुष्पसङ्काशा सर्वाभरणभूषिता ॥ १४० ॥
काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा ।
त्रिमुखीं मुण्डसंयुक्ता सिद्धिदा सर्वशोभना ॥ १४१ ॥
शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना ।
कुलिशञ्च तथा दण्डं धारयन्ति शुचिस्मिता ॥ १४२ ॥
हाकिनी ऋक्षवदना नीलनीरदसन्निभा ।
कपालशूलहस्ता च खेटकैरुपशोभिता ।
एकद्वित्रिचतुःपञ्चषण्मुखा सरभाभया ॥ १४३ ॥
इति ते कथितं किञ्चिद्विशेषदिवसार्चनम् ।
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि ॥ १४४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
विशेषदिवसार्चनं नाम दशमोल्लासः ॥ १० ॥