०९

अथ नवमोल्लासः

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम् ।
कुलभक्त्यार्चनफलं वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगः साक्षात् प्रकाशते ॥ २ ॥
ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मप्रभेदतः ।
साकारं स्थूलमित्याहुनिराकारन्तु सूक्ष्मकम् ॥ ३ ॥
स्थिरार्थमनसः केचित् स्थूलध्यानं प्रचक्षते ।
स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम् ॥ ४ ॥
करपादोदरास्यादिरहितं परमेश्वरम् ।
सर्वतेजोमयं ध्यायेत् सच्चिदानन्दनिष्कलम् ॥ ५ ॥
नोदेति नास्तमभ्येति न वृद्धिं याति न क्षयम् ।
स्वयं विभात्यथान्यानि भासयन् साधनं विना ॥ ६ ॥
अनन्तं गतभारूपं सत्तामात्रमगोचरम् ।
मनसा मात्रसम्वेद्यं तज्ज्ञानं ब्रह्मसञ्ज्ञितम् ॥ ७ ॥
प्रणष्टवायुसञ्चारः पाषाण इव निश्चलः ।
परजीवैकधामज्ञो योगी योगविदुच्यते ॥ ८ ॥
यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्थितम् ।
स्वरूपशून्यं तद्ध्यानं समाधिरभिधीयते ॥ ९ ॥
न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ।
स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् ॥ १० ॥
स्वप्नजाग्रदवस्थायां सुप्तवत् योऽवतिष्ठते ।
निश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ११ ॥
निष्पन्दकरणग्रामः स्वात्मलीनमनोऽनिलः ।
य आस्ते मृतवत्साक्षात् जीवन्मुक्तः स उच्यते ॥ १२ ॥
न शृणोति न चाघ्राति न स्पृशति न पश्यति ।
न जानाति सुखं दुःखं न सङ्कल्पयते मनः ॥ १३ ॥
न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् ।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ १४ ॥
यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ १५ ॥
यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते ।
तथा समाधिसामर्थ्याद् ब्रह्मभूतो भवेन्नरः ॥ १६ ॥
क्षीरोद्धृतं घृतं यद्वत्तत्र क्षिप्तं न पूर्ववत् ।
पृथक्कृतो गुणेभ्यः स्यादात्मा तद्वदिहोच्यते ॥ १७ ॥
यथा गाढान्धकारस्थो न किञ्चिदिह पश्यति ।
अलक्ष्यञ्च तथा योगी प्रपञ्चं नैव पश्यति ॥ १८ ॥
यथा निमीलने काले प्रपञ्चं नैव पश्यति ।
तथैवोन्मीलनेऽपि स्यादेतद्ध्यानस्य लक्षणम् ॥ १९ ॥
जनः स्वदेहकण्डूतिं विजानाति यथा तथा ।
परं ब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम् ॥ २० ॥
विदिते परमे तत्त्वे वर्णातीते ह्यविक्रिये ।
किङ्करत्वं हि गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ २१ ॥
आत्मैकभावनिष्ठस्य या या चेष्टा तदर्चनम् ।
यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम् ॥ २२ ॥
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ २३ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि ॥ २४ ॥
योगीन्द्रेण यदा प्राप्तं निर्मलं परमं पदम् ।
देवासुरपदं यत्तत्प्राप्तञ्चापि न गृह्यते ॥ २५ ॥
यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् ।
तस्य किञ्चिदनालभ्यं ज्ञातव्यं नावशिष्यते ॥ २६ ॥
सम्प्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धे शान्तिपदे देवि न योगो नैव धारणा ॥ २७ ॥
परे ब्रह्मणि विज्ञाते समस्तैनीयमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ २८ ॥
आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि ।
न यमो नियमो नास्ति स्वयमोमिति पश्यताम् ॥ २९ ॥
न पद्मासनतो योगो न नासाग्रनिरीक्षणम् ।
एक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ ३० ॥
ध्यायतां क्षणमात्रं हि श्रद्धया परमन्त्विह ।
यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते ॥ ३१ ॥
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ।
स सर्वं पातकं हन्यात्तमः सूर्योदयो यथा ॥ ३२ ॥
व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु ।
यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित् ॥ ३३ ॥
उत्तमा सहजावस्था मध्यमा ध्यानधारणा ।
जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा ॥ ३४ ॥
उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा ।
शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा ॥ ३५ ॥
पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३६ ॥
न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः ।
नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् ॥ ३७ ॥
अक्रियैव परा पूजा मौनमेव परो जपः ।
अचिन्तेव परं ध्यानमनिच्छैव परं फलम् ॥ ३८ ॥
मन्त्रोदकैवीना सन्ध्यां पूजाहोमैवीना तपः ।
उपचारैवीना पूजां योगी नित्यं समाचरेत् ॥ ३९ ॥
निःसङ्गश्च विसङ्गश्च निस्तीर्णोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४० ॥
देहो देवालयो देवि जीवो देवः सदाशिवः ।
त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ॥ ४१ ॥
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।
पाशबद्धः स्मृतो जीवः पाशमुक्तः सदाशिवः ॥ ४२ ॥
तुषेण बद्धो व्रीहिः स्यात्तुषाभावे हि तण्डुलः ।
कर्मबद्धः स्मृतो जीवः कर्ममुक्तः सदाशिवः ॥ ४३ ॥
अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ ४४ ॥
यो निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु ।
सम आस्ते स योगीन्द्रो हर्षाहर्षविवजीतः ॥ ४५ ॥
निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः ।
आस्ते देहे प्रवासीव योगी परमतत्त्ववित् ॥ ४६ ॥
निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४७ ॥
यथा पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः ।
निवसन्ति कुलेशानि तथा योगी च तत्त्ववित् ॥ ४८ ॥
पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः ।
य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि ॥ ४९ ॥
अलिमांसाङ्गनासङ्गे यत् सुखं जायते प्रिये ।
तदेव मोक्षो विदुषामबुधानान्तु पातकम् ॥ ५० ॥
सदा मांसासवोल्लासी सदा चरणचिन्तकः ।
सदासंशयहीनो यः कुलयोगी स उच्यते ॥ ५१ ॥
पिबन्मद्यं पलं खादन् स्वेच्छाचारपरायणः ।
अहं तदनयोरैक्यं भावयन्निवसेत् सुखी ॥ ५२ ॥
आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् ।
प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः ॥ ५३ ॥
यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् ।
विनालिमांसगन्धेन साक्षात् पशुपतिः पशुः ॥ ५४ ॥
लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् ।
कुलमार्ग समुद्दिष्टं भैरवेण महात्मना ॥ ५५ ॥
अनाचारः सदाचारस्त्वकार्य कार्यमुत्तमम् ।
असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५६ ॥
अपेयमपि पेयं स्यादभक्ष्यं भक्ष्यमेव च ।
अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५७ ॥
न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् ।
न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि ॥ ५८ ॥
अनभिज्ञा अभिज्ञन्ति दरिद्रा धनयन्ति च ।
विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके ॥ ५९ ॥
रिपवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः ।
बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि ॥ ६० ॥
विमुखाः सुमुखाः सर्वे गवीताः प्रणयन्ति च ।
बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि ॥ ६१ ॥
निर्गुणाः सगुणायन्ते अकुलं सुकुलायते ।
अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि ॥ ६२ ॥
मृत्युर्वैद्यायते देवि साक्षात् स्वर्गायते गृहम् ।
पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि ॥ ६३ ॥
बहुनात्र किमुक्तेन कुलयोगीश्वराः प्रिये ।
सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा ॥ ६४ ॥
येन केनापि वेशेन येन केनाप्यलक्षितः ।
यत्र कुत्राश्रमे तिष्ठेत् कुलयोगी कुलेश्वरि ॥ ६५ ॥
योगिनो विविधैर्वेशैर्नराणां हितकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ ६६ ॥
सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि ।
उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः ॥ ६७ ॥
अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः ।
नक्षत्राणां ग्रहाणाञ्च तथा वृत्तन्तु योगिनाम् ॥ ६८ ॥
आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम् ।
यथा गतिर्न दृश्येत तथा वृत्तं हि योगिनाम् ॥ ६९ ॥
असन्त इव भाषन्ते चरन्त्यज्ञा इव प्रिये ।
पामरा इव दृश्यन्ते कुलयोग विशारदाः ॥ ७० ॥
जना यथावमन्यन्ते गच्छेयुर्नैव सङ्गतिम् ।
न किञ्चिदपि भाषन्ते तथा योगी प्रवर्त्तते ॥ ७१ ॥
मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् कुलयोगी महेश्वरि ॥ ७२ ॥
यथा हसति लोकोऽयं जुगुप्सति च कुत्सति ।
विलोक्य दूरतो याति तथा योगी प्रवर्त्तते ॥ ७३ ॥
क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् ।
नानावेशधरो योगी विचरेज्जगतीतले ॥ ७४ ॥
योगी लोकोपकाराय भोगान् भुङ्क्ते न काङ्ङ्क्षया ।
अनुगृह्णन् जनान् सर्वान् क्रीडेच्च पृथिवीतले ॥ ७५ ॥
सर्वशोषी यथा सूर्यः सवभोगी यथाऽनलः ।
योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते ॥ ७६ ॥
सर्वस्पर्शी यथा वायुर्यथाकाशश्च सर्वगः ।
सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः ॥ ७७ ॥
यथा ग्रामगतं तोयं नदीयुक्तं भवेच्छुचि ।
तथा म्लेच्छगृहान्नादि योगिहस्तापीतं शुचि ॥ ७८ ॥
यथाऽऽचरन्ति देवेशि कुलज्ञानविशारदाः ।
तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम् ॥ ७९ ॥
यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः ।
यस्यामुदेति सूर्यो हि पूर्वाशा सा निगद्यते ॥ ८० ॥
यत्र यत्र गजो याति तत्र मार्गो यथा भवेत् ।
कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि ॥ ८१ ॥
नदीं वक्रामृजुं कर्त्तुं निरोद्धुं तत्प्रवाहकम् ।
स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः ॥ ८२ ॥
यद्वन्मन्त्रबलोपेतः क्रीडनीयैर्न दृश्यते ।
तद्वन्न दृश्यते ज्ञानी क्रीडन्निन्द्रियपन्नगैः ॥ ८३ ॥
निवृत्तदुःखसन्तुष्टा निर्द्वन्द्वा गतमत्सराः ।
कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः ॥ ८४ ॥
अमदक्रोधदम्भाशाहङ्काराः सत्यवादिनः ।
कौलिकेन्द्रा ह्यचपला ये नेन्द्रियवशानुगाः ॥ ८५ ॥
कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः ।
आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः ॥ ८६ ॥
सर्वधर्माधिको लोके कुलधर्मः शिवोदितः ।
इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः ॥ ८७ ॥
यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः ।
कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये ॥ ८८ ॥
कुलभक्तान् कुलज्ञानान् कुलाचारकुलव्रतान् ।
प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः ॥ ८९ ॥
तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् ।
देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया ॥ ९० ॥
दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् ।
सुपाकेनैव पुण्यानां लभ्यते नान्यथा प्रिये ॥ ९१ ॥
संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा ।
पुनाति कुलधमीष्ठश्चाण्डालोऽपि यदृच्छया ॥ ९२ ॥
सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा ।
यत्र देवि कुलज्ञानी तत्राहञ्च त्वया सह ॥ ९३ ॥
नाहं वसामि कैलासे न मेरौ न च मन्दिरे ।
कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि ॥ ९४ ॥
सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।
द्रष्टव्यञ्च प्रयत्नेन तत्र सन्निहितो ह्यहम् ॥ ९५ ॥
अतिदूरस्थितो वापि द्रष्टव्यः कुलदेशिकः ।
समीपे वर्त्तमानोऽपि न द्रष्टव्यः पशुः प्रिये ॥ ९६ ॥
कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः ।
दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् ॥ ९७ ॥
कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् ।
शंसन्ति पितरस्तस्य यास्यामः परमां गतिम् ॥ ९८ ॥
समाश्वसन्ति पितरः सुवृष्टिमिव कर्षकाः ।
योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् ॥ ९९ ॥
स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।
यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये ॥ १०० ॥
कौलिकेन्द्रे समायाते कौलिकावसथं प्रति ।
समायान्ति मुदा देवि योगिन्यो योगिभिः सह ॥ १०१ ॥
प्रविश्य कुलयोगीन्द्रं भणन्ते पितृदेवताः ।
तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान् ॥ १०२ ॥
अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये ।
पापिष्ठास्त्वत्प्रसादस्य भाजनं न भवन्ति ते ॥ १०३ ॥
नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया ।
रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे ॥ १०४ ॥
त्वद्भक्तपूजनाद्देवि पूजितोऽहं न संशयः ।
तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत् ॥ १०५ ॥
यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् ।
सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् ॥ १०६ ॥
न तुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः ।
कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति ॥ १०७ ॥
यत् फलं कौलिकेन्द्राणां पूजया लभते प्रिये ।
तत् फलं नाप्नुयात्तीर्थतपोदानमखव्रतैः ॥ १०८ ॥
दत्तमिष्टं हुतं तप्तं पूजितं जप्तमम्बिके ।
कौलिकस्य भवेद्वयर्थं कुलज्ञं योऽवमानयेत् ॥ १०९ ॥
श्मशानं तद् गृहं देवि स पापी श्वपचाधमः ।
यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत् ॥ ११० ॥
कुलनिष्ठान् परित्यज्य यच्चान्यस्मै प्रदीयते ।
तद्दानं निष्फलं देवि दाता च नरकं व्रजेत् ॥ १११ ॥
भिन्नभाण्डे जलं यद्वत् शिलायामुप्तबीजवत् ।
भस्मनीव हुतं हव्यं तद्वद्दानमकौलिके ॥ ११२ ॥
यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने ।
विशेषतिथिषु प्रीत्या तत्फलं नैव वर्ण्यते ॥ ११३ ॥
यो देवि स्वयमाहूय कुलज्ञानान् शुभे दिने ।
अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ ११४ ॥
मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् ।
तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः ॥ ११५ ॥
भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने ।
मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते ॥ ११६ ॥
अनिखातविनिक्षिप्तमप्रयत्नेन वद्धीतम् ।
परलोकस्य पाथेयं वीरचक्रेऽपीतं मधु ॥ ११७ ॥
पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् ।
जायते हि कुलद्रव्यं कुलयोगीश्वरापीतम् ॥ ११८ ॥
यस्मिन् देशे वसेत् वीरः कुलपूजारतः प्रिये ।
सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः ॥ ११९ ॥
कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् ।
किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते ॥ १२० ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलधर्मरतो भूयात् कुलज्ञानिनमर्चयेत् ॥ १२१ ॥
ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा ।
तावद्वर्णाश्रमाचारः कर्त्तव्यः कर्ममुक्तये ॥ १२२ ॥
कर्मणोन्मूलितेऽज्ञाने ज्ञानेन शिवतां व्रजेत् ।
शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत् ॥ १२३ ॥
कुर्यादनिन्द्यकर्माणि नित्यकर्माणि वा चरेत् ।
कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत् ॥ १२४ ॥
सर्वकर्माणि सन्त्यक्तुं न शक्यं देहधारिणा ।
त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते ॥ १२५ ॥
स्वकार्येषु प्रवर्त्तन्ते करणानीति चिन्तयेत् ।
अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते ॥ १२६ ॥
क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् ।
न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा ॥ १२७ ॥
तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि सङ्क्षयम् ।
प्रयान्ति नैव लिप्यन्ते क्रियमाणानि वा पुनः ॥ १२८ ॥
उत्पन्नसहजानन्दतत्त्वज्ञानरतः प्रिये ।
सन्त्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत् ॥ १२९ ॥
वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः ।
पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये ॥ १३० ॥
फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः ।
तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् ॥ १३१ ॥
अश्वमेधायुतेनापि ब्रह्महत्यायुतेन च ।
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् ॥ १३२ ॥
पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः ।
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति ॥ १३३ ॥
इति ते कथितं किञ्चित् योगं योगीशलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
योगसंस्थापनकथनं नाम नवमोल्लासः ॥ ९ ॥