०८

अथाष्टमोल्लासः

श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
उल्लासभेदं देवेश द्रव्यपात्रादिसङ्गमम् ॥ १ ॥
रत्युद्वासनकालञ्च श्रीचक्रस्थितिमेव च ।
चेष्टां कौलिकशक्तीनां वद मे परमेश्वर ॥ २ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण जायते दिव्यभावना ॥ ३ ॥
आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः ॥ ४ ॥
तत्त्वत्रयं स्यादारम्भः कथितः कुलनायिके ।
कथितस्तरुणोल्लासस्तरुणं सुखमम्बिके ॥ ५ ॥
यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये ।
स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते ॥ ६ ॥
समुल्लासपरे चक्रे य इच्छेत् पात्रमेलनम् ।
अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन ।
यथाधिकारं तत्रापि कर्त्तव्यं पात्रमेलनम् ॥ ७ ॥
अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः ।
दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ८ ॥
अभिज्ञं मन्यमानैश्च प्रपञ्चव्रतधारिभिः ।
पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ९ ॥
स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः ।
कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् ॥ १० ॥
पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः ।
कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं परिवर्जयेत् ॥ ११ ॥
सत्कुले च प्रसूता वा वृद्धाश्चाचारवत्तीनः ।
त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत् ॥ १२ ॥
स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति ।
कुलाचारानभिज्ञानां सङ्गतिं वर्जयेत्प्रिये ॥ १३ ॥
अदृष्टपौरुषाणाञ्च देशान्तरनिवासिनाम् ।
विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् ॥ १४ ॥
एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे ॥ १५ ॥
स्वपात्रस्थितहेतुञ्च न दद्याद्भैरवाय च ।
यदि दद्यात्कुलेशानि देवताशापमाप्नुयात् ॥ १६ ॥
आसनं भोजनं पात्रमम्बरं शयनादिकम् ।
अनभिज्ञैरनर्हैश्च सङ्गमं नैव कारयेत् ॥ १७ ॥
स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् ।
पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा ॥ १८ ॥
तस्मिन् क्रमार्चनपरैर्वीरैः स्वसदृशैरपि ।
कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये ॥ १९ ॥
योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ।
स्वमातृपादुकामूलमन्त्रजप्तं पिबेत्प्रिये ॥ २० ॥
क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः ।
आदाय पूर्ववज्जप्त्वा पिबेद्देवि गुरुं स्मरन् ॥ २१ ॥
गुरुशक्तिसुतानाञ्च गुरुज्येष्ठकनिष्ठयोः ।
स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति ॥ २२ ॥
शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् ।
आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् ॥ २३ ॥
उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् ।
चक्रमध्येऽपि देवेशि अन्यथा पतनं भवेत् ॥ २४ ॥
कनिष्ठानां स्वशिष्याणां दद्यादुच्छिष्टमम्बिके ।
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम् ॥ २५ ॥
आसवोच्छिष्टपात्रन्तु यो वा गृह्णति मोहतः ।
स्नेहाल्लोभात् भयाद्वापि देवताशापमाप्नुयात् ॥ २६ ॥
प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् ।
पूजागृहाद्बहिः कुर्यात्त्रिकोणे तु गृहान्तरे ॥ २७ ॥
गन्धपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवम् ।
गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् ।
कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणम् ॥ २८ ॥
तारत्रयं समुच्चार्यं पश्चादुच्छिष्टभैरवम् ।
एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः ॥ २९ ॥
बल्युद्वासनमन्त्रोऽयं द्वाविंशतिभिरक्षरैः ।
शान्तिस्तवं पठेत्पश्चात्तर्पयेदलिबिन्दुभिः ॥ ३० ॥
यजन्ति देव्यो हरपादपङ्कजम्
प्रसन्नधामामृतमोक्षदायकम् ।
अनन्तसिद्धान्तमयप्रबोधकं
नमामि चाष्टाष्टकयोगिनीगणम् ॥ ३१ ॥
योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् ।
नमामि शिरसा नाथं भैरवं भैरवीप्रियम् ॥ ३२ ॥
अनादिघोरसंसारध्वान्तैकध्वंसकारिणे ।
नमः श्रीनाथवैद्याय कुलौषधिविधायिने ॥ ३३ ॥
आपदो दुरितं रोगाः समयाचारलङ्घनात् ।
ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात् ॥ ३४ ॥
आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः ।
कान्तिर्मनोहरा चास्तु पान्तु सर्वाश्च देवताः ॥ ३५ ॥
सम्पूजकानां प्रतिपालकानां
यतीन्द्रयोगीन्द्रतपोधनानाम् ।
देशस्य राष्ट्रस्य कुलस्य राज्ञः
करोतु शान्ति भगवान् कुलेशः ॥ ३६ ॥
नन्दन्तु साधककुलाद्वयदर्शका ये
सिंहासनाद्युषितशाक्तमहान्वया ये ।
नन्दन्तु सर्वकुलकौलरताः परे ये
चान्ये विशेषपदभेदकशाम्भवा ये ॥ ३७ ॥
नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा
ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः ।
ये योगिनीप्रवरवीरकुले प्रसूता
नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः ॥ ३८ ॥
नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा
निर्मत्सरा निरुपमा निरुपद्रवाश्च ।
नित्यं निरञ्जनरता गुरवो निरीहाः
शान्ताश्च शान्तमनसो हृतशोकशङ्काः ॥ ३९ ॥
नन्दन्तु योगनिरताः कुलयोगयुक्ता
ह्याचार्यसामयिकसाधकपुत्रकाश्च ।
गावो द्विजा युवतयो यतयः कुमार्यो
धर्मे चरन्तु निरता गुरुभक्तलोकाः ॥ ४० ॥
नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः
शापाः पतन्तु समयद्विषि योगिनीनाम् ।
सा शाम्भवी स्फुरतु कापिं समाप्यवस्था
यस्यां गुरोश्चरणपङ्कजमेव सत्यम् ॥ ४१ ॥
याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः
कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु ।
उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च या-
स्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः ॥ ४२ ॥
या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा
या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः ।
या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदा-
स्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे ॥४३ ॥
ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा
पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन
प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥४४
ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या
वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः ।
भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या
योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे ॥४५।
देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा
योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः ।
अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका-
स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम् ॥ ४६ ॥
सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी
प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् ।
शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत्
सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा ॥ ४७ ॥
नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः ।
अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ ४८ ॥
यद्येषा भैरवी देवी यदि भैरवशासनम् ।
यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः ॥ ४९ ॥
यासामाज्ञाप्रभावेण स्थापितं भुवनत्रयम् ।
नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् ॥ ५० ॥
पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः ।
पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः ॥ ५१ ॥
तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः ।
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः ॥ ५२ ॥
शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।
कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु ॥ ५३ ॥
द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने
शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः ।
कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये
पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च ॥ ५४ ॥
पठित्वाभ्यर्चनापात्रं समुद्धृत्य गुरुः प्रिये ।
ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके ॥ ५५ ॥
स्वाभीष्टचेष्टाचरणं प्रौढान्तः परिकीत्तीतः ।
प्रौढान्तोल्लासिताद्देवि मुदिते योगिमण्डले ।
योगिनीमण्डले चैव क्रमादानन्दमुच्यते ॥ ५६ ॥
तदारूढेषु वीरेषु कार्याकार्यं न विद्यते ।
इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि ॥ ५७ ॥
तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् ।
तत्सर्वं देवताप्रीत्यै जायते सुरसुन्दरि ॥ ५८ ॥
जल्पो जपफलं तन्द्रा समाधिरभिजायते ।
विक्रिया पूजनं देवि उदितं भैरवीबलिः ॥ ५९ ॥
मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् ।
न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया ॥ ६० ॥
वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् ।
तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया ।
कार्याकार्यविचारन्तु यः करोति स पातकी ॥ ६१ ॥
एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः ।
येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम् ॥ ६२ ॥
सम्मोदः परमानन्दः पतनं ज्ञानवर्द्धनम् ।
वेणुवीणादिवाद्यञ्च कवितारचनादिकम् ॥ ६३ ॥
रोदनं भाषणं पातः समुत्थानं विजृम्भनम् ।
गमनं विक्रिया देवि योग इत्यभिधीयते ॥ ६४ ॥
चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः ।
समाचरन्ति देवेशि यथोल्लासं मनोगतम् ॥ ६५ ॥
शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् ।
निधाय वदने पात्रं निवीण्णा निवसन्ति च ॥ ६६ ॥
मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते ।
तथैव पुरुषश्चापि प्रौढान्तोल्लाससंयुतः ॥ ६७ ॥
पुरुषः पुरुषं मोहादालिङ्गत्यनाङ्गनाम् ।
पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के ॥ ६८ ॥
किं कार्यं वयमायातः किमर्थमिह संस्थिताः ।
उद्यानं किमिदं हन्त गृहं किं प्राङ्गणं किमु ॥ ६९ ॥
मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् ।
उपदंशं मुखे क्षिप्त्वा निक्षिपन्ति प्रियानने ॥ ७० ॥
गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि ।
धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः ॥ ७१ ॥
अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम् ।
प्रस्खलत्पदविन्यासं नृत्यन्ति कुलशक्तयः ॥ ७२ ॥
योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि ।
मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि ॥ ७३ ॥
मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् ।
इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके ॥ ७४ ॥
विकृतिं मनसो हित्वा यदोल्लासः प्रवर्त्तते ।
तदा तु देवताभावं भजन्ते योगिपुङ्गवाः ॥ ७५ ॥
कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः ।
तं नाशयन्त्यसन्देहं योगिन्यः कुलनायिके ॥ ७६ ॥
न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् ।
एतच्चक्रगतां वार्त्तां बहिर्नैव प्रकाशयेत् ॥ ७७ ॥
तेभ्यो द्रोहं न कुर्वीत नाहितञ्च समाचरेत् ।
भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः ॥ ७८ ॥
चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया ।
मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम् ॥ ७९ ॥
पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये ।
व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् ॥ ८० ॥
उन्मनाः पतनोत्थाने मूर्च्छना च मुहुर्मुहुः ।
उन्मनाख्यतदुल्लासे चक्रे वीरसमचीते ॥ ८१ ॥
चिरं संविदधाते तौ यौ हि कर्मपराक्षरौ ।
परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके ॥ ८२ ॥
देहेन्द्रियाणामवशः समवस्था निगद्यते ।
समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत् ॥ ८३ ॥
परामन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा ।
मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः ॥ ८४ ॥
अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः ।
एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ८५ ॥
सर्वोत्तीर्णा सदाऽहन्ता सामरस्यसमाकृतिः ।
अनयोल्लासिनो वीराः शिवा एव न संशयः ॥ ८६ ॥
नराः किमपि जानन्ति स्वात्मध्यानपरायणाः ।
तदा यत्परमं सौख्यमिति वक्तुं न शक्यते ॥ ८७ ॥
स्वयमेवानुभूयन्ते शर्कराः क्षीरपानवत् ।
ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते ।
दृश्यते पुलकाद्येर्यत् तद्ब्रह्मध्यानमुच्यते ॥ ८८ ॥
यत्सुखं विद्यते ध्याने देवावेशकरं परम् ।
कथितुं नैव शक्नोमि प्रबुद्धस्तत्समाहितः ॥ ८९ ॥
ब्रह्मध्यानपरानन्दपराः सुकृतिनो नराः ।
क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः ॥ ९० ॥
सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् ।
अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ।
अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः ॥ ९१ ॥
बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः ।
प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम् ॥ ९२ ॥
ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः ।
ते गुणाः कुलतत्त्वज्ञे तत्त्वज्ञानसमाहृताः ॥ ९३ ॥
आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते ॥ ९४ ॥
समवस्था सुषुप्तिः स्यादवस्थात्रयसंयुता ।
सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः ॥ ९५ ॥
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः ।
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ ९६ ॥
स्त्री वाथ पुरुषः षण्डश्चण्डालो वा द्विजोत्तमः ।
चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः ॥ ९७ ॥
नागरि निर्झ्रराद्यम्बु गङ्गां प्राप्य यथैकताम् ।
याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः ॥ ९८ ॥
क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् ।
तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते ॥ ९९ ॥
स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि ।
तथैव चक्रमध्येऽपि देवताः सर्वमानवाः ॥ १०० ॥
जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः ।
वेदेऽपि स्थितमेवं हि सर्वे हि ब्रह्म चाब्रवीत् ॥ १०१ ॥
बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ।
मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये ॥ १०२ ॥
चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः ।
तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके ॥ १०३ ॥
स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् ।
अथवा मिथुनं कृत्वा क्रमात्समुपवेशयेत् ॥ १०४ ॥
पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये ।
शिवशक्तिधिया सर्वे चक्रमध्ये समर्चयेत् ॥ १०५ ॥
अविभक्तौ यथा आवां लक्ष्मीनारायणौ यथा ।
यथा वाणीविधातारौ तथा वीरः सशक्तिकः ॥ १०६ ॥
मधुकुम्भसहस्रैस्तु मांसभारशतैरपि ।
न तुष्यामि वरारोहे भगलिङ्गामृतं विना ॥ १०७ ॥
न चक्राङ्कं न पद्माङ्कं न व्रजाङ्कमिदं जगत् ।
लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् ॥ १०८ ॥
शिवशक्तिसमायोगो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते ॥ १०९ ॥
कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् ।
सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत् ॥ ११० ॥
इति तत्त्वत्रयोल्लासपानभेदादि चोदितम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १११ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये
सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः ॥ ८ ॥