०७

अथ सप्तमोल्लासः

श्रीदेव्युवाच
कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् ।
तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते ॥ २ ॥
यावन्नो वटुके दद्यात्तावन्नैव कुलेश्वरि ।
तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि ॥ ३ ॥
वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः ।
तत्तन्मन्त्रविधानेन देवता प्रीतिमाप्नुयात् ॥ ४ ॥
यत्किञ्चिद्धव्यसङ्घातं पूजार्थं भोगहेतुना ।
आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि ॥ ५ ॥
वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके ।
यैः समचीतमात्रेण सर्वे नश्यन्त्युपद्रवाः ॥ ६ ॥
तारत्रयं ततो देवीपुत्रेति बटुकेति वा ।
नाथेति कपिलजटाभारभास्वरपिङ्गल ॥ ७ ॥
त्रिनेत्रेति पदं पश्चाज्ज्वालामुखपदं ततः ।
इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा ।
उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः ॥ ८ ॥
बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ।
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥ ९ ॥
तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् ।
तत्पश्चात् सवर्भूतेभ्यः सर्वभूताधिवत्ती च ॥१०॥
पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् ।
त्रैलोक्येति पदं चैव वासिनीभ्य इमां वदेत् ॥ ११ ॥
पूजां बलिं गृह्णयुग्मं स्वाहान्तो योगिनीमनुः ।
कथितोऽयं महेशानि मन्त्रः पञ्चादशाक्षरः ॥ १२ ॥
या काचिद् योगिनी रौद्रा सौम्या घोरतरा परा ।
खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा ॥ १३ ॥
तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि ।
पश्चाद् भूतपतिभ्यो हृद्युक्तः सप्तदशाक्षरः ॥ १४ ॥
भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः ।
पातालसंस्था मे केविच्छिवयोगेन भाविताः ॥ १५ ॥
ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः।
तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ १६ ॥
तारत्रयं वदेद्देहियुग्मं देवीपदं वदेत् ।
पुत्राय बटुकनाथाय पश्चादुच्छिष्टहारिणे ।
सर्वविघ्नान् पदं पश्चात् नाशयद्वितयं तथा ॥ १७ ॥
गृह्णयुग्मं रुरुपदं क्षेत्रपालपदं ततः ।
सर्वोपचारसहितामिमां पूजां बलिं वदेत् ।
गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये ॥ १८ ॥
चतुःषष्ट्यक्षरैः प्रोक्तः सर्वसिद्धिप्रदायकः ।
योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः ।
प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥ १९ ॥
तारत्रयं वदेत्तारं श्रीप्रासादपरामनुः ।
ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च ॥ २० ॥
अक्षोभ्यानन्दतः पश्चाद्धृदयाभीष्टदः परम् ।
सिद्धार्थपदमाभाष्य पश्चादवतरद्वयम् ॥ २१ ॥
क्षेत्रपालपदं पश्चात् महाशान्त पदं ततः ।
मातृपुत्रपदं पश्चात् कुलपुत्रपदं तथा ॥ २२ ॥
सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं ततः ।
ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः ॥ २३ ॥
वदेद् बटुकनाथेति देवीपुत्रपदं ततः ।
मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत् ॥ २४ ॥
कपालीति पदं पश्चाद्भीषणेति पदं वदेत् ।
स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् ॥ २५ ॥
गृह्ण गृह्ण कुरुद्वन्द्वं मम दूरययुग्मकम् ।
ज्वलयुक्प्रज्वलयुगं सर्वविघ्नानीतीरयेत् ॥ २६ ॥
नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् ।
क्षेत्रपालाय वौषट् ह्रूं षष्ट्युत्तरशताक्षरः ॥ २७ ॥
तारत्रयं वदेत् पश्चादमुक क्षेत्रपाल च ।
राजराजेश्वर इमां पूजां बलिमतः परम् ।
गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः ॥ २८ ॥
अनेन बलिदानेन वटुवंशसमन्वितः ।
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा ॥ २९ ॥
पश्चिमे वटुकं देवमुत्तरे योगिनीबलिम् ।
पूर्वे भूतबलिं दद्यात् क्षेत्रपालञ्च दक्षिणे ।
राजराजेश्वरं मध्ये पूजयेत् कुलनायिके ॥ ३० ॥
अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः ।
तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः ॥ ३१ ॥
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ।
अङ्गुष्ठतर्जनीभ्याञ्च क्षेत्रपालबलिर्भवेत् ।
अङ्गुष्ठमध्यमाभ्याञ्च राजराजेश्वरस्य च ॥ ३२ ॥
बटुकादीन् समर्च्यैवं कुलदीपान् प्रदर्शयेत् ।
ईषद्रक्तसुपिष्टेन चतुरङ्गुलिमानतः ॥ ३३ ॥
दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् ।
कर्षाज्यग्राहिणः कुर्य्यान्नव सप्ताथ पञ्च वा ॥ ३४ ॥
अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् ।
त्रिधा देव्युपरि भ्राम्य कुलदीपान् निवेदयेत् ॥ ३५ ॥
समस्तचक्रचक्रेशि देवेशि सकलात्मिके ।
आरात्रीकमिदं देवि गृहाण मम सिद्धये ।
कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत् ॥ ३६ ॥
स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमार्गतः ।
पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः ॥ ३७ ॥
अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके ।
मन्त्रदीक्षाविधानेन् शुद्धा भवति नान्यथा ॥ ३८ ॥
तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः ।
अभ्यर्च्य देवताबुद्ध्या भोगपात्रं निवेदयेत् ॥ ३९ ॥
तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः ।
सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक् ॥ ४० ॥
अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते ।
पूजितं निष्फलं तस्य देवता न प्रसीदति ॥ ४१ ॥
चण्डाली चर्मकारी च मातङ्गी पुक्कसी तथा ।
श्वपची खट्टकी चैव कैवर्त्ती विश्वयोषितः ॥ ४२ ॥
कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते ।
कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी ॥ ४३ ॥
गायकी रजकी शिल्पी कौलिकी च तथाष्टमी ।
तन्त्रमन्त्रसमायुक्ता समयाचारपालिका ॥ ४४ ॥
कुमारी च व्रतस्था च योगमुद्राधरापि वा ।
पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः ॥ ४५ ॥
उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् ।
सुरूपा तरुणी शान्ता कुलाचारयुता शुचिः ॥ ४६ ॥
शङ्काहीना भक्तियुक्ता गूढा शास्त्रोपजीविनी ।
अलोलुपा सुशीला च स्मितास्या प्रियवादिनी ॥ ४७ ॥
गुरुदैवतसम्भक्ता सुचिता कौलिकप्रिया ।
विमत्सरा विशेषज्ञा देवताराधनोत्सुका ।
मनोहरा सदाचारा शक्तिरेषा सुलक्षणा ॥ ४८ ॥
दुष्टोग्रा कर्कशा क्रूरा दुःखिता कुलदूषणी ।
दुराचारा पराधीना भीता लुब्धातुराऽलसा ॥ ४९ ॥
निद्रासक्तातिदुर्म्मेधा हीनाङ्गी व्याधिपीडिता ।
दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित् ॥ ५० ॥
कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया ।
विरूपोन्मार्गगा स्तब्धा पङ्ग्वन्धविकृतानना ।
ईदृशीं मन्त्रयुक्ताञ्च शक्तिं यागे विवर्जयेत् ॥ ५१ ॥
ततोऽर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् ।
इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् ॥ ५२ ॥
तारत्रयमितः पूर्वं प्राणबुद्धी ततः परम् ।
देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु ॥ ५३ ॥
मनसा चेतसा वाचा कर्मणा तत्परं वदेत् ।
हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम् ॥ ५४ ॥
शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् ।
तत् सर्वं गुरवे चान्ते मत्समपीतमस्त्विति ।
स्वाहान्तो मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये ॥ ५५ ॥
ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे ॥ ५६ ॥
एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः ।
प्रधानदेवतामूर्त्तौ परिवारान् समर्चयेत् ।
एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे ॥ ५७ ॥
शेषिकाये समर्प्यात्ममूलमन्त्रेण शोधयेत् ।
स्याद्वाग्भवं हृदुच्छिष्टचाण्डालि तदनन्तरम् ॥ ५८ ॥
वदेन्मातङ्गि सर्वन्ते वश्यङ्कुरुयुगन्ततः ।
एकविंशतिवर्णैश्च शेषिकामनुरीरितः ॥ ५९ ॥
मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् ।
देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम् ॥ ६० ॥
वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं
बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् ।
मृद्वङ्गीं सिन्तशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥६१।
ततः श्रीगुरुरूपाय साक्षात् परशिवाय च ।
कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् ॥ ६२ ॥
स्वसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् ।
अन्योन्यवन्दनं कृत्वा पिबेत्तत्तदनुज्ञया ॥ ६३ ॥
सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः ।
यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् ॥ ६४ ॥
पिशितं माषमात्रन्तु द्रव्यं चुल्लुकसम्मितम् ।
आत्मदेहत्रयं तत्त्वं त्रयेणाथ विशोधयेत् ॥ ६५ ॥
तरुणोल्लाससहितः प्रसन्नवदनेक्षणः ।
गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये ॥ ६६ ॥
शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् ।
यथाशक्ति निवेद्याथ वित्तशाठ्यविवजीतः ॥ ६७ ॥
प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये ।
समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे ॥ ६८ ॥
ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी ।
जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् ॥ ६९ ॥
वामाऽङ्गुष्ठानामिकाभ्यां दक्षहस्तप्रसारितम् ।
स्पृष्ट्वा विशुद्धहृदय ईषदानतमस्तकः ॥ ७० ॥
वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये ।
प्रकृत्याद्यैः पृथिव्यन्तैश्चतुवींशतिभिः प्रिये ॥ ७१ ॥
स्वरैरशुद्धतत्त्वैश्च वाग्भवेन कुलेश्वरि ।
संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत् ॥ ७२ ॥
मायादिपुरुषान्तैश्च शुद्धाशुद्धैश्च सप्तभिः ।
तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् ।
युक्तेन विद्यातत्त्वेन सूक्ष्मदेहं विशोधयेत् ॥ ७३ ॥
शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः ।
परया शिवतत्त्वेन परं देहं विशोधयेत् ॥ ७४ ॥
षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये ।
सर्वतत्त्वाश्रयं बीजं सर्वतत्त्वैवीशोधयेत् ॥ ७५ ॥
शोधयेति पदं दद्यात् सद्वितीयमलिं गुरुः ।
चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् ।
भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम् ॥ ७६ ॥
पाणिभ्यां संस्पृशेद्देहं सर्वतत्त्वं समुच्चरन् ।
शिरःप्रभृतिपादान्तं शुद्धं देहं विचिन्तयेत् ॥ ७७ ॥
स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् ।
परान्तं शिवतत्त्वं स्यादिति तत्त्वत्रयं जगत् ॥ ७८ ॥
एवं तत्त्वत्रयज्ञानं गुरोर्ज्ञात्वा य आचरेत् ।
स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम् ॥ ७९ ॥
ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् ।
आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत् ॥ ८० ॥
श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके ।
नोपविश्य पिबेन्मद्यम् इति शास्त्रस्य निर्णयः ॥ ८१ ॥
प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् ।
अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम् ॥ ८२ ॥
निर्मन्त्रं न पिबेन्मद्यं प्रायश्चित्तं विधीयते ।
तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके ॥ ८३ ॥
इदं पवित्रममृतं पिबामि भवभेषजम् ।
पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ ८४ ॥
चित्ते स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः ।
तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे ॥ ८५ ॥
सुषुम्नान्तं विकाशाय सुरसस्तेन पीयते ।
तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम् ॥ ८६ ॥
मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् ।
अनाकुलमनाः कुर्यादलिपानं शनैः शनैः ॥ ८७ ॥
स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ।
कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम् ॥ ८८ ॥
महन्तापात्रभरितमिदन्तापरमामृतम् ।
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ८९ ॥
गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया ।
यावदुल्लासपर्यन्तमुपदेशे पिबेन्मधु ॥ ९० ॥
चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः ।
पानात् परपदप्राप्तिः कौले त्रयमितीरितम् ॥ ९१ ॥
भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् ।
अमृतं तद्विजानीयाद् यदन्नं सुरया सह ॥ ९२ ॥
चर्वणेन युतं पानममृतं कथितं प्रिये ।
चर्वणेन बिना पानं केवलं विषवर्द्धनम् ॥ ९३ ॥
पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् ।
दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम् ॥ ९४ ॥
स्वेच्छया पशुवत्पीतं पशुपानमितीरितम् ॥ ९५ ॥
भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ।
पशुपानं नरकदं प्रोक्तं पानफलं प्रिये ॥ ९६ ॥
दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ ९७ ॥
यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् ।
तावदेव पिबेन्मद्यमन्यथा पतनं भवेत् ॥ ९८ ॥
पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते ।
कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् ।
आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः ॥ ९९ ॥
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ १०० ॥
आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् ।
वमनात् सर्वदेवाश्च तस्मात्रिविधमाचरेत् ॥ १०१ ॥
दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् ।
तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते ॥ १०२ ॥
यत् सुखं कुलनिष्ठानां कुलद्रव्यनिषेवनात् ।
तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने ॥ १०३ ॥
इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १०४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः ॥ ७ ॥