अथ पञ्चमोल्लासः
श्रीदेव्युवाच
कुलेशाधारपात्राणां पिशितानाञ्च लक्षणम् ।
कुलद्रव्यस्य निर्माणं भेदं माहात्म्यमेव च ॥ १ ॥
अविधानेन यत् पापं सविधानेन यत् फलम् ।
तत् सर्वं श्रोतुमिच्छामि वद मे करुणानिधे ॥ २ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण त्रिदशैः समतां व्रजेत् ॥ ३ ॥
आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।
तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके ॥ ४ ॥
आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।
अथवा वर्तुलाकारं कुर्याद्देवि मनोहरम् ॥ ५ ॥
स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् ।
नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् ॥ ६ ॥
पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद्विचक्षणः ।
अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् ॥ ७ ॥
सुवर्णरौप्यताम्राणि सर्वसिद्धकराणि च ।
शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् ॥ ८ ॥
नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् ।
शङ्गं ज्ञानप्रदं शुक्तिर्देवीप्रीतिप्रदायिनी ॥ ९ ॥
कपालालाबुपात्राणि योगसिद्धिकराणि च ।
पुण्यवृक्षज पात्राणि सर्वपापहराणि च ।
उक्तेष्वेतेषु देवेशि पात्रमेकं प्रकल्पयेत् ॥ १० ॥
कुलद्रव्यं प्रवक्ष्यामि शृणु देवि समाहिता ।
अम्भसां द्वादशप्रस्थं प्रस्थार्द्धं तक्रमेव च ॥ ११ ॥
तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् ।
मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे ॥ १२ ॥
शीतादिरहिते स्थाने स्थापयेद्दिवसद्वयम् ।
तस्मादग्निं समारोप्य जम्बालसदृशं पचेत् ॥ १३ ॥
अवरोप्य पुनः शीतामवस्थां प्रापयेत्ततः ।
पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः ॥ १४ ॥
प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् ।
सम्यक् सम्मद्ये तक्रेण पाकमालोड्य मेलयेत् ।
एषा पैष्टीति विख्याता पूजिता देवदानवैः ॥ १५ ॥
गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् ।
दशप्रस्थं कुलेशानि धातकीकुसुमं शुभम् ॥ १६ ॥
नारिकेलप्रसूनं वा चैकप्रस्थं विनिक्षिपेत् ।
हरीतकी चाक्षफलं वसुनिष्कप्रमाणतः ॥ १७ ॥
वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् ।
अशीतिगुडसम्मिश्रमेकस्मिन् योजयेद् घटे ॥ १८ ॥
करेण भ्रामयेत् सम्यगनुलोमविलोमतः ।
अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् ॥ १९ ॥
द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे ।
एषा गौडीति कथिता शिवसायुज्यहेतुकी ॥ २० ॥
द्विगुणं मकरन्दस्य वारि संयोजयेद् घटे ।
द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् ।
एषा माध्वी समुद्दिष्टा देवताप्रीतिकारिणी ॥ २१ ॥
एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा ।
धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु ॥ २२ ॥
अशीतिगुडसम्मिश्रं शेषमन्यत् पुरोक्तवत् ।
इदं मनोहरं द्रव्यं योगिनीपानमुत्तमम् ॥ २३ ॥
सार्द्धेन्दुपलकं दघ्नो माहिषं प्रस्थमात्रकम् ।
मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा ॥ २४ ॥
तं मेलयित्वा संयोज्य सान्द्गे वंशपुटे पचेत् ।
चत्वारिंशद्दिनान्यष्टौ पङ्के पङ्कजसम्भवे ॥ २५ ॥
निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् ।
यदा च कठिनीभावस्तदा सङ्गृह्य मानवः ॥ २६ ॥
गुञ्जाफलप्रमाणन्तु जलैः सम्मिलितं शुभम् ।
आत्मेच्छं पूरयेत् पात्रं परमानन्ददं परम् ॥ २७ ॥
एतादप्युत्तमं द्रव्यं सर्वदेवप्रियं प्रिये ।
एतानि मदहेतूनि मद्यान्यन्यानि कारयेत् ॥ २८ ॥
पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् ।
मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम् ॥ २९ ॥
मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च ।
द्वादशन्तु सुरा मद्य सर्वेषामुत्तमं प्रिये ॥ ३० ॥
पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा ।
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी ॥ ३१ ॥
माध्वी मुक्तिकरी ज्ञेया सुरा स्याद्देवताप्रिया ।
विद्याप्रदैक्षवी ज्ञेया द्राक्षी राज्यप्रदा भवेत् ॥ ३२ ॥
तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना ।
नारिकेलभवा श्रीदा पानसी च शुभप्रदा ॥ ३३ ॥
मधूकजा ज्ञानकरी माध्वीकी रोगनाशिनी ।
मैरेयाख्या कुलेशानि सर्वदा पापहारिणी ॥ ३४ ॥
क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् ।
मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम् ॥ ३५ ॥
यस्यानन्दो निवीकार आमोदश्च मनोहरः ।
मद्यं तदुत्तमं देवि देवानां प्रीतिदायकम् ॥ ३६ ॥
आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् ।
एतदामोदकं द्रव्यं सर्वदेवप्रियं प्रिये ॥ ३७ ॥
सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् ॥ ३८ ॥
मद्यस्पर्शनमात्रेण तीर्थकोटिफलं लभेत् ।
देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम् ॥ ३९ ॥
इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे ।
तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता ॥ ४० ॥
मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः ।
तासामेकां समाहृत्य पूजाकर्म समाचरेत् ॥ ४१ ॥
मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् ।
सम्मर्द्य वटिकां कृत्वा सङ्गृह्याथ विचक्षणः ।
मद्याभावे तु वटिकां जले संयुज्य तर्पयेत् ॥ ४२ ॥
गुडमिश्रेण तक्रेण तर्पयेत् मधुभाजिना ।
सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् ।
प्रमादाद् यदि लुप्येत देवताशापमाप्नुयात् ॥ ४३ ॥
मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये ।
यथासम्भवमप्येकं तर्पणार्थं प्रकल्पयेत् ।
मांसदर्शनमात्रेण सुरादर्शनवत् फलम् ॥ ४४ ॥
पितृदैवतयज्ञेषु वैधहिंसा विधीयते ।
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ॥ ४५ ॥
अनिमित्तं तृणं वापि छेदयेन्न कदाचन ।
देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते ॥ ४६ ॥
मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः ।
मन्निमित्तं चरेत् पापं पुण्यं भवति शाम्भवि ॥ ४७ ॥
यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता ।
श्रीकौलदर्शने चापि भैरवेण महात्मना ॥ ४८ ॥
मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) ।
तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः ॥ ४९ ॥
हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं प्रिये ।
गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत् ॥ ५० ॥
शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः ।
तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि ॥५१॥
ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे ।
परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये ॥ ५२ ॥
मांसाभावे तु लशुनं सार्द्रकं नागरन्तु वा ।
आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत् ॥ ५३ ॥
मत्स्यमांसविहीनेन मद्येनापि न तर्पयेत् ।
न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् ॥ ५४ ॥
पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना ।
सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत् ॥ ५५ ॥
कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये ।
तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् ॥५६॥
अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ।
कुलपूजारतो यस्तु स मे प्रियतमो भवेत् ॥ ५७ ॥
चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि ।
पुंस्त्रीनपुंसकानान्तु पूजितेष्टफलप्रदा ॥ ५८ ॥
इहामुत्र फलं दद्याः पूजिता सुवधूरिव ।
अपूजिता त्वं देवेशि दुःखदा कुवधूरिव ॥ ५९ ॥
कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः ।
स याति नरकं घोरमेकविंशतिभिः कुलैः ॥ ६० ॥
तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् ।
लभते सर्वसिद्धींश्च नात्र कार्या विचारणा ॥ ६१ ॥
आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् ।
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥ ६२ ॥
सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् ।
तत् फलं समवाप्नोति सकृत् कृत्वा क्रमार्चनम् ॥ ६३ ॥
महाषोडशदानानि कृत्वा यच्च फलं लभेत् ।
तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ ६४ ॥
सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् ।
तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम् ॥ ६५ ॥
बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः ।
कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् ॥ ६६ ॥
शैवे वा वैष्णवे शाक्ते सौरे सुगतदर्शने ।
बौद्धे पाशुपते साङ्ख्ये व्रते कुलमुखे तथा ॥ ६७ ॥
सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति ।
विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत् ॥ ६८ ॥
कुलद्रव्यैवीना कुर्याज्जपयज्ञ तपोव्रतम् ।
निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम् ॥ ६९ ॥
यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।
तथान्तर्यागनिष्ठा ये ते प्रिया देवि नापरे ॥ ७० ॥
समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् ।
उत्पादयन्ति चानन्दं मत्प्रियाः कौलिकाश्च ते ॥ ७१ ॥
आवयोः परमाकारं सच्चिदानन्दलक्षणम् ।
कुलद्रव्योपभोगेन परिस्फुरति नान्यथा ॥ ७२ ॥
अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः ।
कुलद्रव्योपभोगेन जायते नान्यथा प्रिये ॥ ७३ ॥
सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः ।
जायते भैरवावेशः सर्वत्र समदर्शनः ॥ ७४ ॥
तमःपरिवृतं वेश्म यथा दीपेन दृश्यते ।
तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते ॥ ७५ ॥
मन्त्रपूतं कुलद्रव्यं गुरुदेवापीतं प्रिये ।
ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते ॥ ७६ ॥
मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता ।
अहो भोक्ता च मद्यस्य मोहयेदमरानपि ॥ ७७ ॥
तन्मैरेयं नरः पीत्वा यो न विकुरुते प्रिये ।
मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः ॥ ७८ ॥
सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् ।
तयोरैक्यसमुत्पन्न आनन्दो मोक्ष उच्यते ॥ ७९ ॥
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते ॥ ८० ॥
कुण्डी कम्बुकपालानि मधुपूर्णानि बिभ्रतः ।
किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् ॥ ८१ ॥
निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः ।
निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् ॥ ८२ ॥
मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ।
जायते देवताभावो भवबन्धविमोचकः ॥ ८३ ॥
ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे ।
गोलम्भने तु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि ॥ ८४ ॥
देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना ।
गुरुं स्मरन् पिबन्मद्यं खादन् मांसम्न दोषभाक् ॥ ८५ ॥
तृप्त्यर्थं पितृदेवानां ब्रह्मध्यानस्थिराय च ।
सेवेत मधुमांसानि तृष्णया चेत् स पातकी ॥ ८६ ॥
मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे ।
भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् ॥ ८७ ॥
सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी ।
प्राशयेद्देवताप्रीत्यै स्वाभिलाषविवजीतः ॥ ८८ ॥
मत्स्यमांससुरादीनां मादकानां निषेवणम् ।
यागकालं बिनान्यत्र दूषणं कथितं प्रिये ॥ ८९ ॥
यथा क्रतुषु विप्राणां सोमपानं विधीयते ।
मद्यपानं तथा कार्यं समये भोगमोक्षदम् ॥ ९० ॥
श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ।
पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद् ॥ ९१ ॥
आवृत्तिं गुरुपङ्क्तिश्च वटुकादीन्न पूज्य यः ।
वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात् ॥ ९२ ॥
अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् ।
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ॥ ९३ ॥
अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम् ॥ ९४ ॥
कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति ।
स महापातकी ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ९५ ॥
समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः ।
न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् ॥ ९६ ॥
यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः ।
स सिद्धिमिह नाप्नोति परत्र न परां गतिम् ॥ ९७ ॥
स्वेच्छया रममाणो यो दीक्षासंस्कारवजीतः ।
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः ॥ ९८ ॥
असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् ।
स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् ॥ ९९ ॥
कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः ।
केशसङ्ख्या स्मृता यावत्तावत्तिष्ठन्ति रौरवे ॥ १०० ॥
कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः ।
तदङ्गरोमसङ्ख्यातं भूतयोनिषु जायते ॥ १०१ ॥
मदप्रच्छादितात्मा च न किञ्चिदपि वेत्ति च ।
न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया ॥१०२ ॥
न दैवं न गुरुर्नात्मविचारो न स कौलिकः ।
केवलं विषयासक्तः पतत्येव न संशयः ॥१०३ ॥
मद्यासक्तो न पूजार्थी मांसाशी स्त्रीनिषेवकः ।
कौलोपदेशहीनो यः सोऽक्षयं नरकं व्रजेत् ॥१०४ ॥
असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते ।
कुलेशि ब्रह्यनिष्ठोऽपि निन्द्यतामधिगच्छति ॥१०५ ॥
लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥ १०६ ॥
आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः ॥ १०७ ॥
व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।
सुधापानमिदं प्रोक्तमितरे मद्यपायिनः ॥ १०८ ॥
पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।
परे लयं नयेच्चितं पलाशी स निगद्यते ॥ १०९ ॥
मनसा चेन्द्रियगणं संयम्यात्मनि योजयेत् ।
मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः ॥ ११०॥
अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च ।
शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः ॥ १११ ॥
पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः ।
य आस्ते मैथुनं तत् स्यादपरे स्त्रीनिषेवकाः ॥ ११२ ॥
इत्यादि पञ्चमुद्राणां वासनां कुलनायिके ।
ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते ॥ ११३ ॥
इति ते कथितं देवि कुलद्रव्यादिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः ॥ ५ ॥