अथ चतुर्थोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् ।
मन्त्रराजं वदेशान न्यासध्यानादिभिः सह ॥ १ ॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण शिवाकारः प्रजायते ॥ २ ॥
इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् ।
तव स्नेहाद्वदाम्यद्य शृणु मत्प्राणवल्लभे ॥ ३ ॥
अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः ।
श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः ॥ ४ ॥
पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि ।
प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः ॥ ५ ॥
प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् ।
प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् ।
प्रसादकरणाच्छीघ्रं प्रासादमनुरीरितः ॥ ६ ॥
परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् ।
परमानन्दजननात् परधर्मनिदर्शनात् ॥ ७ ॥
परोक्षफलदानाच्च परमैश्वर्यकारणात् ।
परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः ॥ ८ ॥
कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते ।
आदौ प्रातः समुत्थाय गुरुदेवानुचिन्तनम् ॥ ९ ॥
कन्दमूले मनः कृत्वा कुर्याद्विण्मूत्रमोचनम् ।
शौचास्यशोधनं स्नानं सन्ध्यातर्पणमाचरेत् ॥ १० ॥
एकान्ते द्वारयजनं विघ्नत्रयनिवारणम् ।
पूजास्थानप्रवेशश्च तथासनोपवेशनम् ॥ ११ ॥
देवीपूजागृहध्यानं शिवादिगुरुवन्दनम् ।
आसनं गणपक्षेत्रपालवन्दनमीश्वरि ॥ १२ ॥
पादुकास्मरणञ्चैव दिननाथार्चनं प्रिये ।
कराङ्गशोधनं प्राणायामः स्वब्रह्मरन्ध्रके ॥ १३ ॥
दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् ।
दशप्रकारभूताख्यां लिपिं कमठसञ्ज्ञकाम् ॥ १४ ॥
ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका ।
गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा ॥ १५ ॥
दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् ।
षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति ॥ १६ ॥
ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा ।
पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत् ॥ १७ ॥
पञ्चसु ब्रह्मणि तथैवाङ्गविन्यासमाचरेत् ।
आधारशक्तिमारभ्य पीठमन्त्रान्तमम्बिके ॥ १८ ॥
अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना ।
महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ।
वक्ष्यमाणेन विधिना देवताभावसिद्धये ॥ १९ ॥
यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् ।
प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः ।
महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥ २० ॥
तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते ।
प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः ॥ २१ ॥
क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः ।
स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश ॥ २२ ॥
श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी ।
समुद्रतनया लोकमाता कमलवासिनी ॥ २३ ॥
इन्दिरा मा रमा पद्मा तथा नारायणप्रिया ।
सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः ।
शक्तयस्तु प्रपञ्चानां स्वराणामधिदेवताः ॥ २४ ॥
लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि ।
घटिका च मुहूर्त्तश्च प्रहरो दिवसस्तथा ॥ २५ ॥
सन्ध्या रात्रिस्तिथिश्चैव वारो नक्षत्रमेव च ।
योगश्च करणं पक्षौ मासो राशिरृतुस्तथा ॥ २६ ॥
अयनं वत्सरयुगप्रलयाः पञ्चविंशतिः ।
एतेषां स्थाननियमो हृदयान्तः समीरितः ॥ २७ ॥
आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती ।
ईश्वरी शाम्भवीशानी पार्वती सर्वमङ्गला ॥ २८ ॥
दाक्षायणी हैमवती महामाया महेश्वरी ।
मृडानी चैव रुद्राणी सर्वाणी परमेश्वरी ॥ २९ ॥
काली कात्यायनी गौरी भवानीति समीरिता ।
शक्तयः स्युर्लवादीनां स्पर्शानामधिदेवताः ।
एतासां स्थाननियमो हृदयान्तः समीरितः ॥ ३० ॥
पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च ।
गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् ॥ ३१ ॥
ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती ।
गायत्री वाक्प्रदा पश्चात् शारदा भारती प्रिये ।
विद्यात्मिका पञ्चभूतव्यापकानामधीश्वराः ॥ ३२ ॥
वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् ।
त्रितारमूलीविद्यान्त मातृकाक्षरतः परम् ॥ ३३ ॥
वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् ।
प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् ।
मातृकान्याससम्प्रोक्तस्थानेष्वेवं न्यसेत् प्रिये ॥ ३४ ॥
त्रितारमूलसकलप्रपञ्चादि स्वरूपतः ।
आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् ॥ ३५ ॥
प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते ।
त्रितारमूलमन्त्रान्ते अ आम् इम् अतलं वदेत् ॥ ३६ ॥
लोकञ्च निलयञ्चैव शतकोटिपदं ततः ।
गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये ॥ ३७ ॥
वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् ।
ई उम् ऊं वितलं गुह्यतरं चानन्तसञ्ज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत् ॥ ३८ ॥
ऋम् ऋम् ऌं सुतलञ्चातिगुह्यं चाविन्त्यसञ्ज्ञकम् ।
शेषच्च पूर्ववत् प्रोच्य जङ्घयोवीन्यसेत् प्रिये ॥ ३९ ॥
ऌम् एम् एं महातलञ्च महागुह्यं पदं ततः ।
शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत् ॥ ४० ॥
ॐ औं तलातलं देवि परं गुह्याभिधानकम् ।
शेषञ्च पूर्ववत् प्रोच्य ऊर्वोर्देवेशि विन्यसेत् ॥ ४१ ॥
अम् अः रसातलञ्चैव रहस्यं ज्ञानसञ्ज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुह्यदेशे प्रविन्यसेत् ॥ ४२ ॥
कवर्गणापि पातालं लोकेति निलयेति च ।
शेषञ्च पूर्ववत् प्रोच्य मूलाधारे तु विन्यसेत् ॥ ४३ ॥
चवर्गं भूतलञ्चेति रहस्यं डाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने न्यसेत् प्रिये ॥ ४४ ॥
टवर्गेण भुवो लोकं रहस्यं राकिणीमपि ।
शेषञ्च पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये ॥ ४५ ॥
तवर्गं स्वश्च परमरहस्य लाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य हृदये विन्यसेत् प्रिये ॥ ४६ ॥
पवर्गञ्च महर्लोकं रहस्यं काकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य तालुमूले न्यसेत् प्रिये ॥ ४७ ॥
यवर्गञ्च जनो गुप्ततरञ्च शाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य आज्ञायाञ्च न्यसेत् प्रिये ॥ ४८ ॥
शवर्गञ्च तपश्चातिगुह्यञ्च हाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य ललाटे विन्यसेत् प्रिये ॥ ४९ ॥
लं क्षं सत्यं महागुह्यं यक्षिणीमपि च प्रिये ।
शेषञ्च पूर्ववत् प्रोच्य ब्रह्मरन्ध्रे च विन्यसेत् ॥ ५० ॥
त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् ।
नाधिपायै श्रीपरायै देव्यै च व्यापकं न्यसेत् ॥ ५१ ॥
कृत्वैवं भुवनन्यासं मूत्तीन्यासमथाचरेत् ।
केशवनारायणमाधवगोविन्दविष्णवः ॥ ५२ ॥
मधुसूदनसञ्ज्ञश्च स्यात्त्रिविक्रमवामनौ ।
श्रीधरश्च हृषीकेशः पद्मनाभो दामोदरः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ५३ ॥
अक्षोरोष्टदा चेशानी चोग्रोद्ध्र्वनयना तथा ।
ऋद्धिश्च रूपिणी लुप्ता लूनदोषैकनायिका ॥ ५४ ॥
एङ्कारिणी चौघवती सर्वकामाञ्जनप्रभा ।
अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः॥ ५५ ॥
भवः शर्वाऽन्थ रुद्रश्च पशुपतिश्चोग्र एव च ।
महादेवस्तथा भीम ईशस्तत्पुरुषाह्वयः ॥
अघोरसद्योजातौ च वामदेव इतीरिताः ॥ ५६ ॥
करभद्रा खगबला गरिमादिफलप्रदा ।
घण्टाधरोग्रनयना चन्द्रधर्त्री ततः परम् ।
छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम् ॥ ५७ ॥
ज्ञानदा च टङ्कधरा धृतिर्द्वादश ईरिताः ।
कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः ॥ ५८ ॥
ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः ।
विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः ॥
हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश ॥ ५९ ॥
यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी ।
षडाधारलया सर्वनायिका हसितानना ।
ललिता च क्षमा चेति प्रोक्ता याद्यर्णदेवताः ॥ ६० ॥
त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् ।
चतुर्थ्या नमसा युक्तान् मस्तके चानने न्यसेत् ॥ ६१ ॥
सस्कन्धपार्श्वकट्यूरु जानुजङ्घापदेषु च ।
दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि ॥ ६२ ॥
कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् ।
पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् ।
दशाधारेषु ब्रह्मादीन् यादि शक्तियुतान्न्यसेत् ॥ ६३ ॥
त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्त्यम्बिकां वदेत् ।
आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् ।
मूतीन्यासं विधायेत्थं मन्त्रन्यासं समाचरेत् ॥ ६४ ॥
त्रितारमूलम् अम् आम् इम् एकलक्षञ्च कोटि च ।
भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः ॥ ६५ ॥
ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् ।
आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत् ॥ ६६ ॥
ई उम् ऊम् आदि हंसादे द्विकूटं पूर्ववत् परम् ।
ऋम् ऋम् ऌम् आदि वह्न्यादि त्रिकूटं पूर्ववत् परम् ॥ ६७ ॥
ॡम् एम् एं चतुर्लक्षं चन्द्रादि पूर्ववत् परम् ।
ॐ औम् अम् अः पञ्चलक्षं सूर्यादि पूर्ववत् परम् ॥ ६८ ॥
कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् ।
घं ङं चं सप्तलक्षं गणेशादि पूर्ववत् परम् ॥ ६९ ॥
छं जं झम् अष्टलक्षं वटुकादि पूर्ववत् परम् ।
ञं टं ठं नवलक्षञ्च ब्रह्मादि पूर्ववत् परम् ॥ ७० ॥
डं ढं णं दशलक्षञ्च विष्ण्वादि पूर्ववत् परम् ।
तं थं दम् एकादशलक्षं रुद्रादि पूर्ववत् परम् ॥ ७१ ॥
धं नं पं द्वादशलक्षं वाण्यादि पूर्ववत् परम् ।
फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम् ॥ ७२ ॥
मं यं रं चतुर्दशलक्षं गौर्य्यादि पूर्ववत् परम् ।
लं वं शं पञ्चदशलक्षं दुर्गादि पूर्ववत् परम् ।
षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा ॥ ७३ ॥
अक्षरात्मा खिलमन्त्राधिदेवतायै सकलं ततः ।
तथा फलप्रदायै च षोडश कूटेश्वरी पुनः ॥ ७४ ॥
अम्बादेव्यै नमः प्रोक्तो मन्त्रन्यासो महेश्वरि ।
आधारलिङ्गयोर्नाभिहृत्कण्ठे नेत्रयोरपि ॥ ७५ ॥
निबोधिकायामर्द्धेन्दौ बिन्दौ चैव कलापदे ।
उन्मन्यां विष्णुक्त्रे च नादे नादान्त एव च ।
ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके ॥ ७६ ॥
त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् ।
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ॥ ७७ ॥
मन्त्रन्यासं विधायेत्थं दैवतन्यासमाचरेत् ।
त्रितारमूलमन्त्रान्ते अम् आं सहस्रकोटि च ॥ ७८ ॥
योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् ।
निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये ॥ ७९ ॥
इम् ई योगिनीप्रतिष्ठां शेषं पूर्ववदुच्चरेत् ।
उम् ऊं तपस्वि विद्याञ्च शेषं पूर्ववदुच्चरेत् ॥ ८० ॥
ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् ।
ऌं ॡं मुनिं शान्त्यतीतां शेषं पूर्ववदुच्चरेत् ॥ ८१ ॥
एम् ए देवञ्च हृल्लेखां शेषं पूर्ववदुच्चरेत् ।
ॐ औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् ।
अम् अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत् ॥ ८२ ॥
कं खं सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् ।
गं घं साध्यकरालाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८३ ॥
डं चं साप्सरसं जयां शेषं पूर्ववदुच्चरेत् ।
छं जं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत् ॥ ८४ ॥
झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् ।
टं ठं यक्षापराजितां शेषं पूर्ववदुच्चरेत् ॥ ८५ ॥
डं ढं किन्नरवामाञ्च शेषं पूर्ववदुच्चरेत् ।
णं तं पन्नगज्येष्ठाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८६ ॥
थं दं चं पितृरौद्राम्बां शेषं पूर्ववदुच्चरेत् ।
धं नं गणेशमायाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८७ ॥
पं फं भैरवशब्दान्ते कुण्डलीं पूर्ववत् परम् ।
बं भं वटुक कालीञ्च शेषं पूर्ववदुच्चरेत् ॥ ८८ ॥
मं यं क्षेत्रेशशब्दान्ते कालरात्रिञ्च पूर्ववत् ।
रं लं प्रमथभगवतीं शेषं पूर्ववदुच्चरेत् ॥ ८९ ॥
वं शं ब्रह्मसर्वेश्वरीं शेषं पूर्ववदुच्चरेत् ।
षं सं विष्णुञ्च सर्वज्ञां शेषं पूर्ववदुच्चरेत् ॥ ९० ॥
हं लं रुद्रसर्वकर्त्री शेषं पूर्ववदुच्चरेत् ।
क्षं चराचरशक्तिञ्च शेषं पूर्ववदुच्चरेत् ॥ ९१ ॥
अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिपार्श्वके ।
स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात् ॥ ९२ ॥
दक्षभागदिवामान्तं विन्यसेत् कुलनायिके ।
त्रितारमूलमन्त्रान्ते सर्वदेवात्मिकां पदम् ॥ ९३ ॥
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ।
देवन्यासं विधायेत्थं मातृकान्यासमाचरेत् ॥ ९४ ॥
त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटिभू ।
चरीकुलसेवितायै आं क्षां हि मङ्गलापदम् ॥ ९५ ॥
अम्बादेव्यै नमो ब्रूयादां क्षां ब्रह्माण्यतः परम् ।
अम्बादेव्यै ततोऽनन्तकोटिभूतं कुलं वदेत् ॥ ९६ ॥
सहितायै ततो मङ्गलनाथाय अं क्षं वदेत् ।
अं क्षम् असिताङ्गभैरवनाथाय नम उच्चरेत् ॥ ९७ ॥
चवर्गं खेचरीम् ई लां चचीकाञ्च महेश्वरीम् ।
वेतालम् इं लं चचीकं रुरुं शेषञ्च पूर्ववत् ॥ ९८ ॥
टवंर्ग पातालचरीम् ऊं हां योगेश्वरीं वदेत् ।
कौमारीञ्च पिशाचञ्च उं हं योगेशचण्डकौ ॥ ९९ ॥
तवर्गं दिक्चरीम् ऋं सां हरसिद्धाञ्च वैष्णवीम् ।
अपस्मारम् ऋं सं हरसिद्धक्रोधादिपूर्ववत् ॥ १०० ॥
पवर्गं सहचरीम् ऌं षां भट्टि वाराह्यतः परम् ।
ब्रह्मराक्षसकम् ऌं षां भट्टोन्मत्तादि पूर्ववत् ॥ १०१ ॥
यवर्ग स्याद्गिरिचरीम् एं शां किलकिलेति च ।
इद्राणीं चेटकम् एं शं किलिः कापालिकस्तथा ॥ १०२ ॥
शवर्गं स्यात् वनचरीम् औं वां कालादिरात्रि च ।
चामुण्डां प्रेतं ॐ वं च कालरात्रिश्च भीषणः ॥ १०३ ॥
लं क्षं जलचरीम् अः लां वदेत् वश्चञ्च भीषणाम् ।
महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम् ॥ १०४ ॥
संहारभैरवञ्चैव शेषं पूर्ववदुच्चरेत् ।
मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः ॥ १०५ ॥
आज्ञाभाल तलब्रह्मरन्ध्रेष्वेवं प्रविन्यसेत् ।
त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः ॥ १०६ ॥
अधिपायै पराम्बा देव्यै नमो व्यापकं न्यसेत् ।
मातृन्यास महेशानि कुर्यादेवं समाहितः ॥ १०७ ॥
एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः ।
अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते ॥ १०८ ॥
कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे ।
नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे ॥ १०९ ॥
त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् ।
अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥ ११० ॥
कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् ।
मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥ १११ ॥
दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ।
पानपात्रञ्च चिन्मुदां त्रिशूलं पुस्तकं करैः ॥ ११२ ॥
विद्यासंसिद्धिं बिभ्राणां सदानन्दमुखेक्षणम् ।
महाषोढोदिताशेषदेवतागणसेवितम् ॥ ११३ ॥
एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् ।
पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् ॥ ११४ ॥
अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् ।
सवतेजोमयं देवि सचराचरविग्रहम् ॥ ११५ ॥
ततः सन्दर्शयेन्मुद्रादशकं परमेश्वरि ।
योनि लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम् ॥ ११६ ॥
वनमालां महामुद्रां नभोमुद्रामिति क्रमात् ।
यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि ।
मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् ॥ ११७ ॥
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्
वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम्
स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥ ११८ ॥
एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।
मन्त्री नैवात्र सन्देहो निग्रहानुग्रहक्षमः ॥ ११९ ॥
महाषोढाह्वयं न्यासं यः करोति दिने दिने ।
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ॥ १२० ॥
महाषोढाह्वयं न्यासं करोति यत्र पार्वति ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ १२१ ॥
कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः ।
तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये ॥ १२२ ॥
महाषोढाकृतन्यासस्तेन यो वन्द्यते शिवे ।
षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् ॥ १२३ ॥
वज्रपञ्जरनामानमेतं न्यासं करोति यः ।
दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः ॥ १२४ ॥
प्रचण्डभूतवेतालदेवरक्षोग्रहादयः ।
भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि ॥ १२५ ॥
महाषोढाकृतन्यासं ब्रह्माविष्णुशिवादयः ।
देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः ॥ १२६ ॥
बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् ।
नापुत्राय वदेद्देवि नाशिष्याय प्रकाशयेत् ॥ १२७ ॥
आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् ।
अस्मात् परतरा रक्षा देवताभावसिद्धिदा ।
लोके नास्ति न सन्देहः सत्यं सत्यं वरानने ॥ १२८ ॥
ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥ १२९ ॥
इति ते कथितं देवि मन्त्रोद्धारादिकं प्रिये ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३० ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
माहाषोढाकथनं नाम चतुर्थोल्लासः ॥ ४ ॥