०३

अथ तृतीयोल्लासः

श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि सर्वधर्मोत्तमोत्तमम् ।
ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो ॥ १ ॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण देवता सुप्रसीदति ॥ २ ॥
न कदाचिन्मया प्रोक्तमितः पूर्व कुलेश्वरि ।
कथयामि तव स्नेहादूर्ध्वाम्नायं शृणु प्रिये ॥ ३ ॥
वेदशास्त्रपुराणानि प्रकाश्यानि कुलेश्वरि ।
शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः ॥ ४ ॥
रहस्यातिरहस्यानि कुलशास्त्राणि पार्वति ।
रहस्यातिरहस्यानां रहस्यमिदमम्बिके ॥ ५ ॥
ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम् ।
सुगोपितं मया यत्नादिदानीन्तु प्रकाश्यते ॥ ६ ॥
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः ।
पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा ।
ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः ॥ ७ ॥
आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः ।
सत्यमेतद्वरारोहे नात्र कार्या विचारणा ॥ ८ ॥
आम्नाया बहवो गुप्तश्चतुराम्नायभेदजाः ।
अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके ॥ ९ ॥
चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि ।
ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते ॥ १० ॥
यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः ।
एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः ॥ ११ ॥
उपमन्त्राश्च तावन्तः सारदाः समुदीरिताः ।
मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया ॥ १२ ॥
सर्वेषामपि मन्त्राणां देवतास्तत्फलप्रदाः ।
आवयोरंशसम्भूताः समुद्दिष्टाः शुचिस्मिते ॥ १३ ॥
सर्वमन्त्रानहं वेद्मि नान्यो जानाति कश्चन ।
मत्प्रसादेन यः कश्चिद्वेत्ति मानवकोटिषु ॥ १४ ॥
एकाम्नायञ्च यो वेत्ति स मुक्तो नात्र संशयः ।
किं पुनश्चतुराम्नायवेत्ता साक्षाच्छिवो भवेत् ॥ १५ ॥
चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये ।
तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः ॥ १६ ॥
ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते ।
ऊर्ध्वं नयत्यधःस्थञ्च ऊर्ध्वाम्नाय इतीरितः ॥ १७ ॥
ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात् ।
ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय इति स्मृतः ॥ १८ ॥
तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् ।
सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम् ॥ १९ ॥
सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये ।
अम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे ॥ २० ॥
देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा ।
तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा ॥ २१ ॥
पर्वतानां यथा मेरुस्तरूणां चन्दनं यथा ।
अश्वमेधः क्रतूनाञ्च पाषाणानां यथा मणिः ॥ २२ ॥
यथा रसानां माधुर्यं धातूनां काञ्चनं यथा ।
चतुष्पदां यथा धेनुर्यथा हंसस्तु पक्षिणाम् ॥ २३ ॥
आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा ।
मनुष्याणां यथा राजाऽवयवानां यथा शिरः ॥ २४ ॥
आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् ।
तथैव सर्वधर्माणामूर्ध्वाम्नायोऽधिकः प्रिये ॥ २५ ॥
नानाजन्माजीतापारपुण्यकर्मफलोदयात् ।
ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते ॥ २६ ॥
धन्यो मनुष्यलक्षेषु जानाति कुलदर्शनम् ।
तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च ॥ २७ ॥
न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः ।
न यज्ञैर्न तपोभिर्वा न तीर्थव्रतकोटिभिः ॥ २८ ॥
नान्यैरुपायैर्द्देवेशि मन्त्रौषधिपुरःसरैः ।
आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना ॥ २९ ॥
तमेवान्वेषयेत्तत्र सर्वज्ञं करुणानिधिम् ।
सर्वलक्षणसम्पन्नम् ऊर्ध्वाम्नायार्थकोविदम् ।
तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि ॥ ३०॥
आम्नायं यो नरो देवि विजानाति च तत्त्वतः ।
लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने ॥ ३१ ॥
ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात् ।
शास्त्रमार्गेण स नरो जीवन्मुक्तो न संशयः ॥ ३२ ॥
आम्नायमीदृशं देवि विजानाति च तत्त्वतः ।
स वन्द्यः सद्गुरुः सोऽर्च्यः स दैवज्ञः स मान्त्रिकः ।
स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः ॥ ३३ ॥
स व्रती स तपस्वी च सोऽनुष्ठाता स पूजकः ।
स वेदागमशास्त्रादिसर्वविद्याविशारदः ॥ ३४ ॥
स आचार्यः स मतिमान् स यतिः स च कौलिकः ।
स यज्वा स च पूतात्मा स जापी स च साधकः ॥ ३५ ॥
स योगी स कृतार्थस्तु स वीरः स च उत्तमः ।
स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये ॥ ३६ ॥
तत्कुलं पावनं देवि धन्या तज्जननी स्मृता ।
तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये ।
पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः ॥ ३७ ॥
बहुनेह किमुक्तेन चोर्ध्वाम्नायपरस्य च ।
स्मरणं कीर्त्तनं वापि दर्शनं वन्दनं तथा ।
सम्भाषणञ्च कुरुते राजसूयाधिकं फलम् ॥ ३८ ॥
स यत्र वसते देवि तत्र श्रीवीजयो भवेत् ।
अनामयं सुभिक्षञ्च सुवृष्टिनीरुपद्रवम् ॥ ३९ ॥
तस्माद् गुरुप्रसादेन ऊर्ध्वाम्नायं नरोत्तमः ।
यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत् ॥ ४० ॥
पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः ।
संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत् ॥ ४१ ॥
मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् ।
पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम् ॥ ४२ ॥
पूर्वाम्नायस्य सङ्केताश्चतुवींशतिरीरिताः ।
दक्षिणाम्नायसङ्केताः पञ्चवींशतिरीरिताः ॥ ४३ ॥
पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः ।
विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे ॥ ४४ ॥
ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके ।
साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते ॥ ४५ ॥
ऊर्ध्वाम्नायस्य माहात्म्यमहं वेद्मि न चापरः ।
मत्स्नेहात्त्वञ्च जानासि सत्यमेतद्वरानने ॥ ४६ ॥
ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया ।
समासेन कुलेशानि मन्त्रमाहात्म्यमुच्यते ॥ ४७ ॥
इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति ।
तद्वदामि तव स्नेहाच्छृणु मत्प्राणवल्लभे ॥ ४८ ॥
श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् ।
आवयोः परमाकारं यो वेत्ति स स्वयं शिवः ॥ ४९ ॥
शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना ।
निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये ॥ ५० ॥
अनिलेन विना मेघो यथाकाशे न वेष्टते ।
पराप्रसादमन्त्रेण विना लोकस्तथा प्रिये ॥ ५१ ॥
पराप्रासादमन्त्रेण स्यूतमेतच्चराचरम् ।
अभिन्नं तत्त्वतो देवि तालवृन्ते यथानिलः ॥ ५२ ॥
बीजेऽङ्कुरस्तिले तैलमग्नावुष्णं रवौ प्रभा ।
चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः ॥ ५३ ॥
शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः ।
शर्करायाञ्च माधुर्यं घनसारे च शीतलम् ॥ ५४ ॥
निग्रहानुग्रहो मन्त्रे प्रतिमायाञ्च देवता ।
दर्पणे प्रतिबिम्बञ्च समीरे चलनं यथा ।
पराप्रसादमन्त्रेऽपि प्रपञ्चोऽयं तथा स्थितः ॥ ५५ ॥
वटबीजे यथा वृक्षः सूक्ष्मरूपेण तिष्ठति ।
पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः ॥ ५६ ॥
सुपक्वेषु पदार्थेषु सुरसेषु कुलेश्वरि ।
लवणेन विना स्वादु यथा भोक्तुर्न जायते ॥ ५७ ॥
पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः ।
ते फलं न प्रयच्छन्ति मन्त्रं शक्तिविवजीताः ॥ ५८ ॥
श्रीप्रासादपरामन्त्रो गोपनीयः प्रयत्नतः ॥ ५९ ॥
विचार्याहं पुराणार्थान् दर्शनाम्नायभेदजान् ।
ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च ॥ ६० ॥
सहस्राक्षादयो देवाः शास्त्रेषु विविधेषु च ।
भ्रमन्ति तेषु मूढास्ते तव मायाविमोहिताः ॥ ६१ ॥
जायन्ते च मिरयन्ते च संसारक्लेशभागिनः ।
श्रीप्रासादपरामन्त्रं न गायन्तः कुलेश्वरि ।
न लभन्ते हि मोक्षं ते तव मायाविमोहिताः ॥ ६२ ॥
मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते ।
श्रीप्रासादपरामन्त्रं स ज्ञात्वा परिमुच्यते ॥ ६३ ॥
पूर्वजन्मसहस्रेषु शैवादिसमयोद्यतान् ।
चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति ॥ ६४ ॥
स पापकञ्चुकान्मुक्तः शुद्धात्मा गुरुवत्सलः ।
श्रीप्रासादपरामन्त्रं विजानाति न चान्यथा ॥ ६५ ॥
सब्रह्माविष्णुरुद्राश्च शक्रादिसुरपुङ्गवाः ।
वसुरुद्रार्कदिक्पाला मनुचन्द्रादयः प्रिये ॥ ६६ ॥
मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः ॥ ६७ ॥
यक्षकिन्नरगन्धर्वाः सिद्धविद्याधरादयः ।
श्रीप्रासादपरामन्त्रप्रभवञ्चामितं फलम् ।
प्राप्य मन्त्रमिमं पुण्यं जपन्त्यद्यापि पार्वति ॥ ६८ ॥
सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता ।
राज्यं स्वर्गञ्च मोक्षञ्च पराप्रासादजापिनः ॥ ६९ ॥
ब्रह्मेन्द्ररुद्रविष्णूनामपि दूरायते पदम् ।
सर्वकर्मविहीनोऽपि पराप्रासादमन्त्रवित् ।
सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः ॥ ७० ॥
तस्य चिन्तामणिः कामधेनुः कल्पतरुर्गृहे ।
कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः ॥ ७१ ॥
यथा दिव्यमणि स्पर्शाल्लौहो भवति काञ्चनम् ।
पराप्रासादजापाच्च पशुः पशुपतिर्भवेत् ॥ ७२ ॥
श्रीप्रासादपरामन्त्रं यो विजानाति तत्त्वतः ।
स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः ॥ ७३ ॥
पराप्रासादमन्त्रज्ञः श्वपचोऽपि हि पार्वति ।
देवतास्थापने शक्तः प्रतिमादौ न संशयः ॥ ७४ ॥
मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसञ्ज्ञकम् ।
श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित् ॥ ७५ ॥
पराप्रासादमन्त्रज्ञो यत् करोति यदिच्छति ।
यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत् ॥ ७६ ॥
दीक्षापूर्वं महेशानि पारम्पर्यसमन्वितम् ।
पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः ॥ ७७ ॥
चराचरसमेतानि भुवनानि चतुर्दश ।
पराप्रासादमन्त्रज्ञदेहे तिष्ठन्ति नित्यशः ॥ ७८ ॥
पराप्रासादमन्त्रज्ञो यत्र तिष्ठति भामिनि ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ ७९ ॥
पराप्रासादमन्त्रार्थतत्त्वज्ञं कुलनायिके ।
सुरासुराश्च वन्दन्ते किं पुनर्मानवादयः ॥ ८० ॥
पराप्रासादमन्त्रज्ञो यत्र तिष्ठति पार्वति ।
सिद्धक्षेत्रं मदीयं वा मुनिदेवगणैः सह ॥ ८१ ॥
शैव वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान् ।
सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित् ॥ ८२ ॥
श्रीप्रासादपरामन्त्रो जिह्वाग्रे यस्य वर्त्तते ।
तस्य दर्शनमात्रेण श्वपचोऽपि विमुच्यते ॥ ८३ ॥
ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये ।
पराप्रासादजापी यः स मुक्तो नात्र संशयः ॥ ८४ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
पराप्रासादमन्त्रोऽयं देवेशि न च निष्फलः ॥ ८५ ॥
चिरेणैकैकफलदा मन्त्राः सन्ति सहस्रशः ।
कुलेशि मन्त्रराजोऽयं शीघ्रं सर्वफलप्रदः ॥ ८६ ॥
पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ।
ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः ॥ ८७ ॥
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ।
लक्ष्मीनारायणौ वाणीधातारौ रात्रिवासरौ ॥ ८८ ॥
अग्नीषोमौ बिन्दुनादौ देवि प्रकृतिपूरुषौ ।
आधाराधेयनामानौ भोगमोक्षौ कुलेश्वरि ॥ ८९ ॥
प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ ।
सुखदुःखादि यद् द्वन्द्वं दृश्यते श्रूयते मया ।
सर्वलोकेषु तत् सर्वमावामेव न संशयः ॥ ९० ॥
पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि ।
पराप्रासादमन्त्रोऽयं तस्मात् सर्वात्मको भवेत् ॥ ९१ ॥
अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि ।
निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम् ॥ ९२ ॥
अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् ।
पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते ॥ ९३ ॥
तस्मान्मन्त्रमिदं देवि पराप्रासादसञ्ज्ञकम् ।
परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात् ॥ ९४ ॥
शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः ।
सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम् ॥ ९५ ॥
श्रीप्रासादपरामन्त्रं सर्वमन्त्रशिरोमणि ।
जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः ॥ ९६ ॥
बहुनात्र किमुक्तेन सर्वसारं शृणु प्रिये ।
श्रीप्रासादपरामन्त्रसमं मन्त्रं न विद्यते ॥ ९७ ॥
इदमेव परं ज्ञानमिदमेव परं तपः ।
इदमेव परं ध्यानमिदमेव परार्चनम् ॥ ९८ ॥
इदमेव परा दीक्षा इदमेव परो जपः ।
इदमेव परं तत्त्वमिदमेव परं व्रतम् ॥ ९९ ॥
इदमेव परो यज्ञ इदमेव परात् परम् ।
इदमेव परं श्रेय इदमेव परं फलम् ॥ १०० ॥
इदमेव परं ब्रह्म इदमेव परा गतिः ।
इदमेव परं गुह्यं सत्यं सत्यं न संशयः ।
इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये ॥ १०१ ॥
आगमोक्तेन विधिना क्रमपूजापुरःसरम् ।
श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् ।
मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः ॥ १०२ ॥
द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
चतुरशीतिलक्षांशधारणाचरितैरपि ॥ १०३ ॥
स्वयोनिजाङ्गवरितैरसङ्ख्यजननाजीतैः ।
वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु ॥ १०४ ॥
कर्मणा मनसा वाचा ज्ञानाज्ञानकृतैरपि ।
महापातकसङ्घैश्च ह्युपपातककोटिभिः ।
मुच्यते नात्र सन्देहः सत्यमेतद्वरानने ॥ १०५ ॥
त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम् ॥ १०६ ॥
सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत् फलं लभते देवि नात्र कार्या विचारणा ॥ १०७ ॥
चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् ।
सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः ।
सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः ॥ १०८ ॥
यद् यन्मनोऽभिलषितं तत्तत् प्राप्नोत्यसंशयः ।
धर्मार्थकाममोक्षाश्च साक्षात्तस्य करे स्थिताः ॥ १०९ ॥
सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम् ।
सत्यमेतन्न सन्देहः साधकः कुलनायिके ॥ ११० ॥
जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् ।
तत्फलं नैव शक्नोमि कथितुं कुलनायिके ॥ १११ ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये ॥ ११२ ॥
नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् ।
न हि वेदाधिका विद्या न कौलसमदर्शनम् ॥ ११३ ॥
न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् ।
नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११४ ॥
श्रीप्रासादपरामन्त्रमाहात्म्यमिह वणीतुम् ।
न शक्नोमि वरारोहे कल्पकोटिशतैरपि ॥ ११५ ॥
गिरौ सर्षपमात्रन्तु सागरे वालुका यथा ।
तथा च मन्त्रमाहात्म्यं किञ्चित्ते कथितं मया ॥ ११६ ॥
ऊर्ध्वाम्नायस्य माहात्म्यं श्रीप्रासादपरामनोः ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ११७ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः ॥ ३ ॥