५०

नागपाशविधिं वक्ष्ये कर्तव्यं धातुभिः क्रमात् ।
त्र्यङ्गुलमाकृष्य तदाकारेण बन्धयेत् ॥

शङ्कुसप्तकमाबध्य पट्टे त्र्यङ्गुलमानकम् ।
धूपिका नामिकं दिव्या तस्यार्धं कुक्षिवृत्तकम् ॥

अधस्तादर्धसुषिरं शङ्कुकावेधनं दृढम् ।
गोचर्म द्विविधं प्रोक्तं बाह्याभ्यन्तरमञ्जुलम् ॥

दर्पणोदरसङ्काशं सर्वदोषविवर्जितम् ।
कीलञ्च द्विविधं प्रोक्तमुपकीलञ्च कीलकम् ॥

विस्तृतद्वय हस्तोरोमाचार्य निर्मितम् ।
कीलकस्याष्टदीर्घं स्यात् अङ्गुष्ठोदरमानकम् ॥

रूपसङ्कोश कार्ये तु कीलस्यादीमपो भवेत् ।
उपकीलस्याष्टभागं च द्वापत्रय समाकुलम् ॥

मृदुना चर्मणावेष्ट्य वामकुण्डमथो दृढम् ।
वलये सुषिरं कुर्यात् द्वयं वा त्रयमेव वा ॥

जीवाय जीवमानं स्यात् अर्धजीवी भयं तथा ।
विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् ॥

प्। १८८)

विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् ।
कर्तरिपारि * चैव कर्तरी चालिकाद्वयम् ॥

रेखन्तु चानु जीवा च बद्धहस्तानुवागनु ।
अनुपालिश्च पञ्चैते बलकाञ्चालजीवकम् ॥

अलकाद्वालिस्तथा चैव मलकालकालकैश्च तु ।
रेखामिश्रं पञ्चमुखम् अनुपोदन्तबन्धनम् ॥

कर्तरिजीवा च अन्त्यादिश्च मानकम् ।
मानञ्चालपमानानि द्वादशार्थ प्रभेदकः ॥

रेखादिमानपर्यन्त द्वादशालापचालिकाः ।
बन्धमुक्तमतिप्रोक्तं मालती भेदकद्वयम् ॥

रेखातरतालानां पारणाचालिकात्रयम् ।
चाका च द्विधा प्रोक्ता बाह्याताल प्रदर्शयो ॥

कपित्थमेकं तत्र स्यात् तालवाच्या ततः परम् ।
भेदा वाच्यं स्तोकवाच्यं बहवाच्यमतः परम् ॥

एकवाच्यं काकवाच्यं हंसवाच्यं तथैव च ।
वचो वाद्यञ्च विद्वद्भिरित्यष्टौ सम्प्रकीर्तितम् ॥

व्यूहमेकं पर्वतत्वं तथा चैकमुदाहृतम् ।
चतुर्विंशति संयुक्तं शतं सङ्ख्य प्रकीर्तिताः ॥

सर्वताल प्रयोगेषु तकारस्तु पदं प्रति ।
प्रथमे नियमे तेषां मजीव्य नियमो भवेत् ॥

प्। १८९)

गोपुरश्च नियमो पश्चात् स्रोतो मृन्नियमस्तथा ।
गतिपूर्वश्च नियमस्ते वंशवगुणस्तथा ॥

दीर्घवग्णिकापि स्यात् अन्तरो नियमः परः ।
सताल नियमोपि स्यात् अन्तरीवसुहस्तकाः ॥

पञ्चस्थाली महीष स्यात् चली च बहुचालिका ।
हस्तप्रक्षेपणं पश्चात् तथैवत्यकथापि च ॥

कर्मा वा वर्तकानान्तु वक्ष्यामि दशसञ्ज्ञितम् ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट नवोदश ॥

प्रागेका वर्तनं प्रोक्तं द्वितीयावर्तनं तथा ।
तृतीयावर्तनञ्चैव चतुर्था वर्तकं तथा ॥

पञ्चमावर्तनञ्चैव षष्ठावर्तन्तथैव च ।
सप्तमावर्तकञ्चैव अष्टमावर्तकं तथा ॥

इति ब्रह्मयामले शतसहस्रसंहितायां नागपाशविधिर्नाम
पञ्चाशत्पटलः ॥ ५० ॥