अथातस्सम्प्रवक्ष्यामि अल्लिका लक्षणं शुभम् ।
सर्वलोकहितार्थाय सर्वदोष प्रियाय च ॥
प्। १८४)
पुरामञ्जीरदेहात्मा अङ्कारो जात एव हि ।
यातु अल्लिसमुद्भूता तत्संयोगेन अल्लिका ॥
वेदेन संयुतं पश्चात् अङ्कार इति कीर्तितः ।
दारुप्रमाणवलयञ्चर्म बन्धाधिदैवतम् ॥
पाठ्यमानं समुत्पत्ति वद मे परमेश्वर ।
ईश्वर उवाच ॥
सभाया लक्षणं वक्ष्ये शृणु त्वं नन्दिकेश्वर ।
चन्दनारग्वध * * * * * * * * पकम् ॥
अनन्तजीवशमिनिम्बखदिरापनसार्जुनौ ।
आरण्यवृक्षौ च * * * * * * * * * का ॥
कनकं रजतं ताम्रं कांस्यञ्च कनकद्वयम् ।
निव * रगुधयुगखदिरश्चोत्तमा स्मृता ॥
समसारशम्यानि हिरण्मयनिद्रगमौ ।
पनसान्तजीवय आलामध्यमा कथिता ॥
इमे मृत् चम्पकार्जुन पल्लश्चाधमास्सम्प्रकीर्तिताः ।
अन्तस्सारा अपि परे कन्यायाः कथिताः द्रुमाः ॥
एकभूमि स्थितं वृक्षं नरन्य दारुसंयुतम् ।
समस्थलसमुद्भूतं चन्तुदूग्वायु संहृतम् ॥
ऊर्ध्ववृत्तं मनोहरं ग्राहषयो वाद्यवृक्षकाः ।
अन्यदोषयुतं वृक्षं वर्जयेत् तु प्रयत्नतः ॥
प्। १८५)
लक्षणोपयुतं वृक्षं कञ्चिद्दोषविवर्जितम् ।
ग्राहयेत् सर्वयत्नेन बलिन्दत्वा विशेषतः ॥
सम्यक् कृष्णकृतस्यास्य ततो मानं प्रकल्पयेत् ।
कर्तुरङ्गुलिमानेन प्रमाणं कारयेद् बुधः ॥
कनिष्ठायश्च तर्जन्यो अग्ररेखा तु ये यदा ।
समस्सत्रं भवेत् तत् तु चतुरङ्गुलमुच्यते ॥
यत्र दूतं ममानं स्यात् वाद्यनिर्माण कर्मणि ।
कनिष्ठायाश्च तर्जन्या अग्रप्रान्ते समं यदा ॥
चतुरङ्गुलमाख्यातं तन्मानं मध्यमं विदुः ।
कनिष्ठायाश्च तर्जन्या मध्यरेखाश्च ये यदा ॥
चतुरङ्गुलसूत्रं यत् तन्मानञ्च यमं विदुः ।
पञ्चत्रिंशत् समारभ्य यावत् पञ्चादशाङ्गुलम् ॥
तावदाधममानं स्यादुत्तमाधममध्यमैः ।
सप्तत्रिंशेन्नवति त्रिंशत् पञ्चाशच्च द्विहीनकम् ॥
उत्तमा याममानं स्यात् अधमं मध्यमुच्यते ।
एकोनत्रिनपञ्चाशच्चतुःपञ्चविहीनकम् ॥
चत्वारिंशद् द्विचत्वाष्टत्रिंशच्च मध्यमम् ।
अष्टाङ्गुलीनामारां सत्वयमस्सनिगाहिः ॥
विस्तारमानन्ति विमुक्तयाधममध्यमैः ।
पञ्चपञ्चाशदारभ्य यावत् सप्ततिरङ्गुलिः ॥
प्। १८६)
तावद्विस्तारमानं स्यात् उत्तमाधममध्यमैः ।
एकोन सप्तत्यत्र पञ्चनून सप्तषष्ठिकम् ॥
त्रियूनषाष्टृकञ्चैव पञ्चपञ्चाशदुत्तमम् ।
एकं षष्टित्रिषष्टिश्च सप्तषष्टिश्च मध्यमम् ॥
पं शृङ्ग कुड्यं पौरुक्तम् ।
अन्यदलिनिस्तारमधमं कन्यगर्हितम् ॥
एकोनविंशदारभ्य पञ्चपञ्चशतोवधि ।
मुखविस्तारमानं स्यादोष्ठाश्चाङ्गुष्ठमानकः ॥
आयव्ययोनितार वारांशतिय यत् क्रमात् ।
यथा होमञ्च कर्तव्यं मक्षिकादि प्रभेदकः ॥
द्विभागशक्र च स्थूलं मध्यकोशातकोपमम् ।
एकवर्णे बहुगुणो बहुवर्णो मृति प्रदः ॥
क्वचित् क्वचित् प्रदक्षिणं कबर्हात् स्थाननाशनम् ।
एवं लक्षणहीनन्तु दोष दृष्टविवर्जयेत् ॥
गुणयुक्तं समादाय शिल्पकारं विवर्जयेत् ।
कुण्डद्रव्यं समादाय कांस्यान्तं मृणमयोपि वा ॥
अङ्गुष्ठाकारमात्रेण कुण्डं लक्षणसंयुतम् ।
चतुरङ्गुलविस्तारमधिकं वर्तमानतः ॥
रज्जुभिस्सम्यगावेष्ट्य मणिबन्ध प्रमाणकम् ।
एवं दक्षिण कुण्डं स्यात् वामकुण्डविधिं शृणु ॥
प्। १८७)
यावच्छृङ्गमयैः काष्ठैः कुण्डं कुर्यात् त्रिभेदकम् ।
त्र्यङ्गुलाधिकं वक्त्रात् कुण्डश्लक्ष्णी कृतं शुभम् ।
इति ब्रह्मयामले शतसहस्रसंहितायाम् अ?ल्लिकालक्षणविधिर्नाम
एकोनपञ्चाशत्पटलः ॥ ४९ ॥