४८

प्। १८१)

प्रतिष्ठाविधिं प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् ।
आषाढे श्रावणे चैव प्रोष्ठपादे तु मेव च ॥

कार्तिका मार्गशीर्षे तु पौष्यफाल्गुनयोरपि ।
प्रतिष्ठां कारयेन्नूनं कारयेत् तत्र वित्तमः ॥

दक्षिणायन काले तु कृष्णपक्षे शुभे दिने ।
प्रासदस्योत्तरे चैव ऐशान्यान्तु विशेषतः ॥

अथवा पूर्वदेशे तु मण्टपं चतुरश्रकम् ।
दशद्वादशहस्तन्तु तथा षोडशहस्तकम् ॥

कन्यसं मध्यमं श्रेष्ठं त्रिविधं मण्टपं स्मृतम् ।
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव च ॥

द्वात्रिंशत्स्तम्भसंयुक्तं मण्टपन्तु विशेषतः ।
उत्तरापट्टिकायुक्तं पटलाश्चादितं शुभम् ॥

चतुर्भिस्तोरणैश्चैव चत्वारोपशोभितम् ।
यावद्वार प्रमाणानि तावत् तोरणविस्तरम् ॥

विशदङ्गुलनाहन्तु तथाष्टदशमेव च ।
परिणाहं तथोत्सेधं विस्तारं चतुरङ्गुलम् ॥

दर्भैर्मालावृतञ्चैव पुष्पमालाप्रलम्बितम् ।
पलञ्च पल्वलञ्चैव पालिका चपलं कृतम् ॥

छत्रचामारसंयुक्तम् अष्टदिग्ध्वजशोभितम् ।
इन्द्रादीशानपर्यन्तं मालया चैव कारयेत् ॥

प्। १८२)

शक्तितोरणसंयुक्तं कदलीस्तम्भ इक्षुभिः ।
चित्रध्वजसमाकीर्णे नानापुष्पसमाकुलम् ॥

अष्टदिक्षुध्वजञ्चैव पठे वाहन लेखयेत् ।
इन्द्रद्वारं यमद्वारं वरुणद्वारमेव च ॥

सौम्य द्वारसमायुक्तम् अष्टध्वजस्य विस्तरम् ।
द्व्यङ्गुलं शान्तदं प्रोक्तं सुप्रयोगमथोत्तरे ॥

पूर्वमण्टपसंयुक्तं वेदिका चतुरश्रकम् ।
मण्टपं नवभागे तु मध्यभागे तु वेदिका ॥

पञ्चहस्तं प्रमाणं वा चतुर्हस्तमथापि वा ।
त्रिहस्तं वा द्विहस्तं वा एकहस्तमथापि वा ॥

अष्टाङ्गुलाच्छ्रया मानं दर्पणोदरसन्निभम् ।

नवकुण्डसमायुक्तं मध्ये देवी समन्वितम् ।
चतुर्हस्तं त्रिहस्तं वा एकहस्ते एव शुभम् ॥

उत्तमाधमविज्ञेयं मेखलात्रयसंयुतम् ।
दग्धा मुद्रा तथा ब्रह्मन् मध्यमं मेखलान्वितम् ॥

वितस्तिन्नयो ज्ञातां साम्यकलासलान्वितम् ।
अग्निकुण्डानि वक्ष्यामि प्रतिमाया विशेषतः ॥

चतुरश्रन्तु मिन्द्रायामाग्नेय्यां योनिमाश्रितम् ।
अर्धचन्द्रं यमस्थाने त्रिकोणे नैर्-ऋतं भवेत् ॥

प्। १८३)

वारुणे वर्तुलं कुण्डं वायव्यान्तु षडश्रकम् ।
सौम्यायां पद्मकुण्डन्तु ऐशान्याच्चाष्टकोणकम् ॥

एकहस्तप्रमाणेन कुण्डं कुर्याद् विचक्षणः ।
मेखलात्रयसंयुक्तं खानहस्तप्रमाणकम् ॥

कृत्रिमात्तोरणे काले मूले पुष्पादिभिः क्रमात् ।
ध्वजासीषु न्यसेत् पश्चात् पीतरक्तं तथासितम् ॥

हरितः श्यामवर्णञ्च शिखण्डहरमेव च ।
धूमाभं पावकाभञ्च पूर्वादीशान्तमेव च ॥

चतुर्हस्तञ्च सर्वापि त्रियस्ति द्वयविस्तृता ।
पार्श्वे कदलि कोपेत दग्रे तु विधा कृता ॥

ध्वजानामधिदेवश्च पूर्वादीशान्तमेव च ।

पश्चाद्वौ वारिकां न्यसेत् * * * * * * * * ।
आग्नेयां वक्रिताननां चर्चिकां दक्षिणे न्यसेत् ॥

नैर्-ऋत्यां पिङ्गले न्यस्य वारुण्यां विन्यसेत् बुधः ।

इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठा विधिर्नाम
अष्टचत्वारिंशत्पटलः ॥ ४८ ॥