अतः परं प्रवक्ष्यामि योगवृक्षस्य लक्षणम् ।
तिमिरशूलस्य मूर्तिस्यासमिधा लक्षणेन च ॥
प्। १७८)
तोरणं पञ्चायुधञ्चैव तथा ब्रह्मन् पुरा पुरा ।
खदिरं पनसञ्चैव बिलपञ्चासनन्तथा ॥
मधुकञ्चम्पकञ्चैव वसुरन्देवदारुकम् ।
कदम्बमर्जुनञ्चैव पलाशाशङ्खमेव च ॥
चन्दनो नागवृक्षञ्च जाती च स्पन्दनस्तथा ।
स्तम्बकञ्चैव कष्मर्यं शितीतिमिरमेव च ॥
पलाशखदिराश्वत्थं प्लक्षन्यग्रोधबिल्वकम् ।
शमी वैकङ्कतं चैव वैणवञ्च क्रमेण तु ॥
निम्बरा राजवृक्षञ्च पाटलञ्च तथैव च ।
देष्टरञ्च हितं शुभ्रं कुज्जजीर्णञ्च वर्जितम् ॥
अग्निदमं स्वयं शुष्कं पिपीलिकाभिश्च सेवितम् ।
पतितञ्चोदितञ्चैव हरिवृश्चिक सेवितम् ॥
भेद्यं वा सुषिरञ्चैव अन्नस्तोमसमन्वितम् ।
सर्पञ्च कृकलासञ्च कृमिच्छिद्रञ्च वर्जितम् ॥
मूलहीनं तथा पुष्पं पलाश जीर्णितन्तु वा ।
त्वक्दोष स्फुटितञ्चैव दोषहीनेन वर्जयेत् ॥
भिन्नाहन्नद * * * * * * * * * *
शुष्कदग्ध स्वयं भिन्न दक्षिण प्रवणन्तथा ॥
कीर्णकृमिबन्ध * * सम्पूर्ण पक्षिसेवितम् ।
प्। १७९)
नदीतीरे तटाके वा ग्राममध्ये च दिक्पथे ।
पूतभ्रमो मा * * * * ण्डाल शबराष्टिते ॥
वातादपग्निदग्धश्च तथैव पर्वतेषु च ।
वृक्षग्राह्यास्तदालाभे भ्रगतजन दूषिते ॥
चक्षुरोषराशियुक्तेवस्त्रीणे जलवर्जिते ।
मरुप्रदेषु देशेषु कैतैकीत्तोमसङ्कुले ॥
गोमायुवृकभूतिष्ठे ग्रन्थर्क्षश्येन सङ्कुले ।
पक्वापक्वसमाकीर्णं म्लेच्छदेशेषु भीषणे ॥
ग्रामप्रदेशे वल्मीके व्रजनी वृक्षसे शुभम् ।
वृक्षसामान्य सङ्कीर्णे बहनकमृणान्विते ॥
किञ्चिद्दोषेण सङ्ग्राह्य बहुदोषं विवर्जयेत् ।
दोषरहितभ्रमण वामे खलत्वं न विन्यसेत् ॥
वृक्षमं कर्मता कुर्यात् शस्त्र दृष्टेन कर्मणा ।
तत्रैव वृक्षाग्रगर्भ प्रवक्ष्यते यथाविधि ॥
सिराश्च विवराश्चैव आपद्गूढ यथा तथा ।
मण्डलञ्च तथा गर्भ वृक्षता चेति सर्वतः ॥
वृक्षदोषसमाख्यात सर्वसम्पद्विनाशन ।
अधिकञ्चैव विनाशञ्च स्फुटितं पत्रमेव च ॥
स्थूलश्चैवाग्रतश्चैव सुषिरञ्चैव सम्प्रवै ।
दन्तिवृक्षदोषेण विनारोगे विवरेराग्रविग्रहम् ॥
प्। १८०)
आपत्रे वह्नि दुर्भिक्षं प्रभेदस्स्यात्स्वयं भवेत् ।
मण्डले वर्ण दोषे तु शुभये सर्वजनक्षयम् ॥
रूक्षतायन नाभयं कर्तुर्भवति नित्यता ।
अधिकेथ भवेद्व्याधि भिन्नो वा विग्रहं भवेत् ॥
स्फुटिते प्राणिनाशस्तु कर्तुकारद्वितन्तवे ।
वक्त्रे तु सर्वसन्तापं स्थूलव्याधिर्भविष्यति ॥
कलशे तु भुविव्याधि सुषिरे स्वामिनाशनम् ।
शुभवृक्षसमाकीर्णं बहुनाकतृणान्विते ॥
पद्मोत्पलं वा नाकीर्णे वृक्षही क्षेत्र समाकुले ।
कुशागर्भ सङ्कीर्णन्ते ग्राह्या वृक्षते सदा ॥
अथोत्तरायणे मासे पूर्वपक्षे तथैव च ।
सुमुहूर्ते च नक्षत्रे कुनान्याय कुलन्तथा ॥
नादं दक्षिणोत्तरायां प्रत्ये गर्भ यथा पुनः ।
पुण्याहं वाचयित्वा तु परिभ्रम्य * * * * ॥
पराङ्मुखस्स नमस्कुर्यात् वृक्षञ्चैव तदा कर्म * * ।
मेव वा ॥
समिधेन च तत्र दण्डञ्च समिधेन सकृद्भवेत् ।
एवं विधिसमायुक्तं परिक्षयेत् तत्र वित्तमः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां योगलक्षणो नाम
सप्तचत्वारिंशत्पटलः ॥ ४७ ॥