४६

बलिपीठं प्रकर्तव्यं सर्वतो दिक्षु वै तथा ।
सुमहिनी शोषणी चैव मोहिनी कम्पनी तथा ॥

धूम्राक्षी च विशालाक्षी सुमुखी दुर्मुखी तथा ।
तृतीयावरणे कुर्यात् अनिरूपा च तिष्ठति ॥

द्विभुजा श्यामवर्णां च शुभङ्करी तथा शुभा ।
ऐशान्यां क्षेत्रपालस्तु लोहजं सेति पितृता ॥

आलयस्य बलीनान्तु पञ्चदण्डान्तमन्तरे ।
परिवारस्यालयं कुर्यात् पीठं वा चोत्तरान्दिशि ॥

तृतीयावरणे यस्य बाह्यतः परिकल्पयेत् ।
प्रतिष्ठिता एकवीरी बहुवीरी प्रकल्पयेत् ॥

प्। १७७)

बहुवीरं विना यत्र एकवीरं न कारयेत् ।
एकवीरं विना यत्र बहुवीरं न कारयेत् ॥

इदमेव प्रकर्तव्यं सर्वशान्तिर्भविष्यति ।
अतः परं प्रवक्ष्यामि मातॄणां लक्षणं शुभम् ॥

श्रीप्रदं पुत्रदञ्चैव धनधान्यसुवर्धनम् ।
सिद्धिदं मुक्तिदञ्चैव परचक्रविनाशनम् ॥

सर्वमारि प्रशमनं सर्वज्वरविनाशनम् ।
तुष्टिपुष्टिविवर्धनञ्च सुभिक्षमायुवर्धनम् ॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
बलिहोमार्चनैर्युक्तं सर्वपापक्षयं भवेत् ॥

तस्मात् सर्वप्रयत्नेन मातॄणां कारयेद्बुधः ।
पूर्वतो वीरभद्रन्तु पश्चिमे तु विनायकम् ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणि चामुण्डी च ततः परम् ॥

इति ब्रह्मयामले शतसहस्रसंहितायां बलिपीठ मात्रलक्षणो नाम
षट्चत्वारिंशत्पटलः ॥ ४६ ॥