प्। १७०)
शूलस्य लक्षणं वक्ष्ये शृणुब्रह्मन्यथा क्रमम् ।
प्रतिमायांश्च चायामञ्चोत्तमं मध्यमाधमम् ॥
नाभेरन्तं तदूर्ध्वन्तु ललाटान्तमुत्तमं भवेत् ।
तत् तन् मध्यमं ज्ञेयं तदर्धं मध्यमं भवेत् ॥
तस्मान्मध्यं समावर्थवर्तयेदर्धचन्द्रवत् ।
मध्यभागेन कर्तव्यं मध्यभागं यथा भवेत् ॥
मध्यभागलतायां वै हस्त्रनेयस्त्रियं भवेत् ।
ग्रीवा पीठाक्षरं नेत्रे ब्रह्माणी च चतुर्भुजे ॥
चतुर्वक्त्रसमोपेतं वक्त्रे वक्त्रे विलोचनम् ।
पद्ममाला समोपेता कृष्णाजिनविभूषितम् ॥
उपवीतधरां देवीं चित्र * * * * * * ।
पङ्कजासनसंयुक्तं हंसासनमथापि वा ॥
कमण्डलुं वामहस्ते दक्षिणे अक्षसूत्रकम् ।
एवं विधनतन्नेत्रः लक्षणेनसमन्वितम् ।
नेत्रोपरि नेत्रे च वैष्णवी लक्षणान्वितम् ॥
कालालगाङ्गसंयुक्ता तथा चाष्टभुजान्वितम् ।
हारकेयूरसंयुक्तं रक्ताम्बरविभूषितम् ॥
ईदृशां विन्यसेन्नेत्री त्रिणेत्रं शान्तरूपिणम् ।
विधिना * ञ्च कर्तव्यं वायव्यां लक्षणान्वितम् ॥
प्। १७१)
पार्श्वयोस्तु भागाभ्यां पार्श्वशूलं यथा भवेत् ।
मध्य भागस्य पार्श्वञ्च पार्श्वशूलं यथा भवेत् ॥
तस्यां शूलं यथाभागं बाहुलञ्चोच्यते क्रमात् ।
तासां पदस्य विस्तारमष्टाङ्गैः कारयेद् बधः ॥
अष्टभागैकभागन्तु तासां बाहुलमुच्यते ।
तदर्धं वैकदेशे तु अनुपूर्वक्रमेण तु ॥
भ्रामयेद् विततो विद्वान् लक्षणेन समन्वितम् ।
मध्यभागस्य पार्श्वे तु तद्भागे परिवर्तयेत् ॥
भागद्वयं तथा मध्ये ग्रासद्वैव विचक्षणः ।
तस्यां शूलयथाभागं त्रिभिर्भागैस्तु मूलतः ॥
ग्रीवा पीठं प्रकर्तव्यं चतुरश्रं सुशोभनम् ।
सप्तभागैकबाहुल्यं पीठविस्तारतो भवेत् ॥
कौशुकादिमुनौ जाति पीठकोणेषु शोभितम् ।
घण्टाजालसमायुक्तं पिप्पली पत्रशोभितम् ॥
ग्रीवा पीठं भवेदेवमुपशोभासमन्वितम् ।
पीठं वै पार्श्वतश्चैव भागद्वयविना विनाशयेत् ॥
पार्श्वशूलं यथाग्रन्तु ईषच्छेदादिकं भवेत् ।
स्वर्णेनैव प्रकर्तव्यं शूलं वै देवता भवेत् ॥
स्वर्णरजते सर्वे सुवर्णं शूलमुच्यते ।
रजतेन प्रकर्तव्यं राजदंशूलमुच्यते ॥
प्। १७२)
राजतं मध्यमं ज्ञेयं मध्यमं तत्प्रकीर्तितम् ।
राजतन्तु भवेत् सर्वं त्रिशूलं कारयेद् बुधः ॥
शुद्धेनैव प्रकर्तव्यं कन्यसं शूलमुच्यते ।
शुभाकारं भवेत् सर्वं पू * * * * * न्वितम् ॥
एतेष्वेकं समाश्रित्य कारयेत् तत्र वित्तमः ।
अवाटवादिरा नालं कृमिकोटर वर्जितम् ॥
योजयेत् तत्र वित्प्राज्ञो यथा विस्ताररूपतः ।
आसनेनाभि कर्तव्यं सारमध्यं सुशोभनम् ॥
तद्भागं त्रिगुणानालम् आयुधं च प्रकीर्तितम् ।
ग्रीवाभागं त्रिभागैकं नाहं तस्य प्रकीर्तिता ॥
पीठे वै वीरभद्रस्यात् यथा विधि पुरस्सरम् ।
तत्पीठस्य तु विस्तारं तदर्धा येन कीर्तिता ॥
विस्तारं सर्वभागैकं बाहुलञ्च प्रकीर्तितम् ।
वर्तभागैकमुत्सेधं पीठस्यैव प्रकीर्तितम् ॥
ग्रीवं पीठस्य चाकारमधस्तात् सदृशं भवेत् ।
चतुरश्रं भवेदूर्ध्वमधस्ताच्च तताश्रकम् ॥
वृत्ताकारं भवेदूर्ध्वमधस्ता धृतमुच्यते ।
एवं पीठं प्रकर्तव्यमूर्ध्वाधः पद्मशोभितम् ॥
वीरभद्रादि मातॄणां शूलपीठे तु विन्यसेत् ।
एवं वै लक्षणं प्रोक्तं शूलस्त्वेव समासतः ॥
प्। १७३)
गर्भादेन प्रकर्तव्यं शास्त्र दृष्टेन कर्मणा ।
एवमेव प्रकर्तव्यं शूललक्षणसंयुतम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां शूललक्षणविधिर्नाम
चतुश्चत्वारिंशत्पटलः ॥ ४४ ॥