४१

प्। १५४)

अतः परं प्रवक्ष्यामि क्षेत्रपालविधिक्रमम् ।
त्रैलोक्यनाथं सर्वज्ञं सर्वदेवं जितेन्द्रियम् ॥

आगमेशमूर्तिकं च आदिक्षेत्रस्य पालकम् ।
परन्तत्परमाकाशं देवता चित्तमेव च ॥

चिन्तयेन्मनसानित्यं शिवलोके महीयते ।
ततः प्रभृति देवेश शिवरूपं शिवं यथा ॥

पश्चाद् दण्डालयं विद्यात् प्रलयं पङ्क्तिमानकम् ।
सकलजीवरूपञ्च ज्येष्ठवंशान्तवृत्तकम् ॥

वृत्तमध्ये तु ज्योतिस्स्यात् ज्योतिमध्यमणुस्तथा ।
अणुमध्ये तथा बिन्दुक्षेत्रपालं शिवात्मकम् ॥

निष्कलं निर्मलं शान्तं निष्प्रपञ्च * लक्षणम् ।
निष्कलं सकलं सं * * * गन्धस्सदेवता ॥

सक * * * स्वरु * * * * * * * *
कम् ।
सर्वजीवसमुत्पन्नो भगवान् परमेश्वरः ॥

एवं मूर्तित्रिभेदं स्यात् ब्रह्माविष्णुमहेश्वरम् ।
लोके तु पुण्यरक्षार्थं क्षेत्रपालन्तु दृश्यते ॥

पूर्वन्तु ज्ञानमूर्तिः स्यात् द्वितीयं शान्तमूर्तिकम् ।
तृतीयं रौद्रमूर्तिः स्यात् सर्वभूतगुणागुणम् ॥

भूलोके सर्वरक्षार्थमुद्भवन् तत्र विन्यसेत् ।
आरण्ये च गुहे चैव समुद्रे पर्वताग्रके ॥

प्। १५५)

नदी सङ्गमने वापि वनवासे समाश्रये ।
ग्रामे वा नगरे वापि पत्तने खेटकात्मके ॥

भाग्यवादि तथाद्रोणे कोलकं प्रतिमावहेत् ।
तत् तच्छास्त्र यथा योगं क्षेत्रस्थानं विधीयते ॥

क्रियाशेषं प्रवक्ष्यामि यथावदनुपूर्वकम् ।
शान्तिकं पौष्टिकं चैव अद्भूतञ्च विचारकम् ॥

ग्रामादि जनसंस्थाने शान्तिकं विन्यसेद् विधिम् ।
गुहायां वनवासे वा पौष्टिकं तत्र कारयेत् ॥

अद्भूतं परमूर्तिश्च आभिचारकरक्षणम् ।
तत् तत्स्थाने यथायोग्यं योगेनैव तु कारयेत् ॥

चतुर्भुजं शान्तिकञ्चैव पौष्टिकञ्चाष्टबाहुकम् ।
द्विभुजं सर्वसामान्यं क्रिया शेषं विधीयते ॥

चतुर्भुजं दक्षिणे हस्ते त्रिशूलं डमरुकन्तथा ।
वामहस्ते कपालन्तु भुजकञ्च विधीयते ॥

पद्मपीठस्थितं देव परिजनानां विधीयते ।
पादौ तु शैलमेवोक्तं कटिस्थान्नागमावृतम् ॥

पार्श्वे कनकमणीनां रज्जुबन्धनमेव च ।
उदरे नागबन्धञ्च कर्णिकेन समन्वितम् ॥

मुखे या लम्बिते कर्णं सर्वयज्ञोपवीतिनम् ।
नरशिरस्त्रिलम्बैश्च स्तनयोरन्तरे विधु ॥

प्। २५६)

त्रिणेत्रं तत्समं वज्रम् ऊर्ध्वकेशोज्वल प्रभम् ।
ललाटोर्ध्वे नरशिरम् आवृतन्तु विधिक्रमम् ॥

कर्णकुण्डलमेवोक्तं पत्रिमेकमथापि वा ।
केशं भुजङ्ग वेष्टञ्च रक्ताक्षं रक्तकेशकम् ॥

बालचक्रमलङ्कृत्य पाण्डरं शिखरन्तथा ।
पूर्णचन्द्रसमं वक्त्रम्मायुक्तञ्चित * * * ॥

अष्टभुजं पाशञ्च दक्षिणम् ॥

कपालं डमरुकञ्चैव पिनाकं खड्गमेव च ।
पूर्वोक्तविधिवत्कृत्वा भूषणं तद्वदेव च ॥

पौष्टिकस्य विधिज्ञेयं नवमाश्रित्य दैवतम् ।
भूतरूपं द्विहस्तञ्च दक्षिणे दण्डहस्तके ॥

वामे कृत्वा कपालन्तु भूतभूषणभूषितम् ।
तत् तद् देशे च ईशेन क्षेत्रपालस्य आलयम् ॥

दशतालं योगमूर्तं नवतालं सौम्यमूर्तिकम् ।
चतुस्तालं भूमिमूर्तिम् एकमालं विधीयते ॥

शान्तिकं पद्मपीठञ्च रौद्रकोणं तथा भवेत् ।

चतुर्भुजं स्थापितन्तु दायुव्यर्थकरं शुभम् ।
पुत्रमित्रविवर्धन्ते सर्वकामार्थ साधनम् ॥

प्। ५७)

चतुर्भुजमिति ज्ञेयं ग्रामशान्तिकरं शुभम् ।
पौष्टिकस्य विधिं कृत्वा वीर्यं वै शत्रुनाशनम् ॥

स्त्रीवर्धनमिति ज्ञेयं भूताकारमिति स्मृतम् ।
लोकालोक हितार्थाय कार्ये कार्येण योजयेत् ॥

बलिकर्मविधिं कृत्वा शान्तिकर्मविधिस्मृतम् ।
स्नपनादि सर्वकार्यं योजयेत् तद्विचक्षणाः ॥

अधिवासविधिं कृत्वा सर्वद्रव्याणि योजयेत् ।
कलशस्थापनं कृत्वा फट्कारमुच्यते बुधः ॥

प्रतिष्ठामन्त्रमेवं स्यात् मूलमन्त्रमनुस्मरन् ।
महाबेरं तथा मूलं जीवाक्षरमिहोच्यते ॥

ओङ्कारं विन्यसेन्मूलं मध्ये श्रीङ्कारमुच्यते ।
स्वाहान्तं विन्यसेत् तत्र अग्रे स्त्रीङ्कारमुच्यते ॥

विन्यसेद् गन्धपुष्पञ्च धूपदीपञ्च दापयेत् ।
पश्चाद् देव समायुक्तम् आचार्यं स्थापिते बुधः ॥

बहले ब्रह्मसारस्य चन्द्रार्के अर्कमूलतः ।
मध्ये विष्णुस्तथा न्यस्य सर्वसंहारमूर्तयः ॥

महाकायं क्षेत्रपालं ब्रह्मज्ञानमिति स्मृतम् ।
प्रतिष्ठेदिन्द्रसंयुक्तं भगवन्तं सदाशिवम् ॥

ब्रह्मावालं जित्रियाजां द्विवृद्धिं जितवेत्ति ।
कण्ठकहृदयपादनाभिगुह्यशिराशिर ॥

प्। १५८)

पुनः पुनः प्रविन्यस्य ओङ्कारं मन्त्रविन्यसेत् ।
ब्राह्मणान् स्वास्तिवाचञ्च सर्ववाद्यञ्च घोषयेत् ॥

नवभेद क्षेत्रपाले विधिवत् क * * पुनः ॥

शास्त्रोक्तं विधिं कृत्वा स्थापनं वृद्धिदं शुभम् ॥

लक्षणेन यथा कर्मं स्थानभ्रंशं विनश्यति ।

इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपालविधिर्नाम
एकचत्वारिंशत्पटलः ॥ ४१ ॥