अतः परं प्रवक्ष्यामि प्रतिमालक्षणं परम् ।
नवताल प्रामाणेण प्रतिमां कारयेद् बुधः ॥
शिलामयं लोहमयं मृण्मयं वापि कारयेत् ।
ग्रामाच्चाष्टभुजं विद्यात् नगरे च चतुर्भुजम् ॥
वनान्तरे द्विभुजं विद्यात् पर्वताग्रे तु षोडश ।
समुद्रे द्वादशं कुर्यात् जन्दन्द्य * * षट्भुजम् ॥
तटाके दशभुजं कुर्यात् चतुष्पथे चतुर्भुजम् ।
खड्गञ्च खेटकञ्चैव नागं घण्टां तथैव च ॥
शूलकपालखट्वाङ्गं डमरूञ्च तथाष्टकम् ।
श्यामवर्णा च कर्तव्या दंष्ट्राकालदं शुभम् ॥
ऊर्ध्वकेशञ्च कर्तव्यं त्रिणेत्रं नागभूषणम् ।
दारुकस्य हृदि शूलं प्रोक्तव्यं हिमलोचनम् ॥
रौद्ररूपन्तु कर्तव्यं चामुण्डालक्षणं परम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम चत्वारिंशत्
पटलः ॥ ४० ॥