३८

अतः परं प्रवक्ष्यामि बालस्थापनमुत्तमम् ।
प्रासादे छिन्नभिन्ने वा प्रतिमा वा तथा यदि ॥

नवीनं कारयेत् पश्चात् सर्वाङ्गं चित्रशोभनम् ।
ततः प्रवेशकाले तु पूर्ववद्विधिमाचरेत् ॥

कुण्डमण्टप प्रासाद प्रतिमां शुद्धिमाचरेत् ।
स्थापयेद् देव देवेशि तन्त्रोक्तं विधिना कुरु ॥

अन्यथा सम्प्रवक्ष्यामि शुद्धासनमुत्तमम् ।
सुमुहूर्ते च नक्षत्रे योगे च करणान्विते ॥

रात्राधिवासयेद् देवीम्मातरं सहतत्क्रमात् ।
पुरतो देव देवेशी धान्यराशौ विचक्षणः ॥

वृत्तं वा चतुरश्रं वा योगपीठं प्रकल्पयेत् ।
शालिना पूजयेत् तत्र पञ्चद्रोणैस्तथा क्रमात् ॥

तस्योपरि न्यसेन्मन्त्री द्रोणपञ्चकतण्डुलैः ।
चतुरश्र समं कृत्वा पञ्चगव्येन प्रोक्षयेत् ॥

प्। १४९)

तन्मध्ये तु लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
हेमरुप्यमयं कुम्भं ताम्रञ्च मृणमयन्तु वा ॥

कलशान्नवकं ग्राह्य सुपक्वान् सुदृढाञ्च वा ।
इन्द्रादीशानपर्यन्तं कलशान्विन्यसेत् क्रमात् ॥

इन्द्रेत्याचमनं न्यस्त्वा आग्नेय्यां मध्यमेव तु ।
याम्ये पाद्यन्तु विन्यस्य नैर्-ऋत्यान्तु कषायकम् ॥

वारुण्यां क्षीरं विन्यस्य वायव्यां दधिविन्यसेत् ।
सौम्यायां सर्पिविन्यस्य ऐशान्यां गव्यमेव तु ॥

ब्राह्म्यादीन्न्यसेत् तत्र स्वस्वमन्त्रेण दापयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥

वाराही चैव माहेन्द्री ईश्वरी च * * * * ।
नवमे * * एकवीरी * * मध्ये कलशेषु विदुर्बुधः ॥

गन्धपुष्पैश्च धूपैश्च अर्चयित्वा विधानतः ।
विन्यसेत् पद्ममध्यन्तु कर्णिकायां सुसंहितम् ॥

मातरस्थलमध्यस्थ पूर्वादितमयोगत ।
निक्षिपेत् पञ्चरत्नानि नवबीजेन मन्त्रवित् ॥

वारिणा पूरयेत् पश्चात् वस्त्रपूतं सुगन्धिभिः ।
कूर्चाक्षतविन्यस्य वस्त्रयुग्मेन वेष्टयेत् ॥

रक्तेनोपरि सञ्च्छाद्य मन्त्रमुद्रां प्रदर्शयेत् ।
एवन्तु कलशान्न्यस्य पश्चाद् ध्यान परो भवेत् ॥

प्। १५०)

पृथिवी पाकजं ध्यात्वा कर्णिका मेरुनिर्मितम् ।
कर्णिकोपरि विन्यस्य देवेशीं भूतमातरम् ॥

कपालखट्वाङ्ग धारी महाप्रेतकृतासन ।
चतुर्भुजा चाष्टभुजा त्रिणेत्रां रुद्ररूपिणीम् ॥

दिशाम्बरां मुककेशां महाव्यालविभूषिताम् ।
कपालमालिनीन् देवीं प्रलयाग्नि समप्रभाम् ॥

सूर्यकोट्यायुधप्रख्या सुरासुरभयङ्करीम् ।
इत्थं रूपधरीन्देवीं कलशे स्थापयेद् बुधः ॥

निरोधन्तत्र कर्तव्यं मन्त्रमुद्रा समन्वितम् ।
नैवेद्यं विधिना दद्यात् यात्राहोमं समारभेत् ॥

अष्टभिः पञ्चभिर्वापि होमं कुर्या स दीक्षितैः ।
बिल्वं पलाशखदिरं वटमौदुम्बरस्तथा ॥

प्लक्षं वैकङ्कतञ्चैव अश्वत्थं वारुणं तथा ।
पूर्वादिक्षु यथान्यायं होमं कुर्यात् समन्त्रकैः ॥

कुण्डेष्वेव विचित्रेषु लक्षणेषु च बुद्धिमान् ।
चतुरश्रं भवेदिन्द्रे आग्नेय्यां योनि सम्भवम् ॥

याम्यायाञ्चार्धचन्द्रन्तु नैर्-ऋत्यान्तु त्रिकोणकम् ।
वारुण्यां वर्तुलं ज्ञेयं षट्कोणं वायुगोचरे ॥

उत्तरे चैव पद्माभम् ऐशान्याञ्चाष्टकोणकम् ।
एतेषु कुण्डमेवोक्तं कुण्डेषु च विचक्षणः ॥

प्। १५१)

स्वस्वेनैव तु मन्त्रेण मूर्तिधारैश्च होमयेत् ।
अष्टोत्तरशतं हुत्वा सदृशेनैव लम्बिते ॥

शिरोदेशे तु देवानाम् आचार्यो होममारभेत् ।
तिलसिद्धार्थकञ्चैव प्रियङ्गुशालिलाजकम् ॥

आज्यं हुत्वा हुनेत् सर्वान् बाल * * * * * * ।
अष्टोत्तरशतं हुत्वा प्रत्येकं सर्वमूर्तिषु ॥

आचार्य द्विगुणं हुत्वा पु * णतरुणालये ।

चलस्य च न्यसेन्मन्त्री पूर्वोक्ते च * * * येत् ।
गुरुबालस्थानमलङ्कृत्य वितानाद्युपशोभितम् ॥

देशकालं ततः प्राप्य बालस्थाने निवेशयेत् ।
चलन्तु स्थापितं कार्यं बालस्थानन्तु देशिकः ॥

तत्पयवयं गच्छेत् आचार्यो साधकैस्सह ।
शनैरुत्कृत्य कलशं पूर्ववत्स्मरणान्वितम् ॥

निष्टप्य द्वारदेशे तु शनैर्गच्छेत् प्रदक्षिणम् ।
प्रविश्य बालस्थानेषु देवीनामर्चयेद् बुधः ॥

कलशानान्तु सर्वेषाम् अर्चयेच्छूल विन्यसेत् ।
अर्चयित्वा विधानेन नैवेद्यं विधिवद् ददेत् ॥

पञ्चोपचारकान् सर्वान् समन्त्रेण तु दापयेत् ।
महाबलिं ततो दद्यात् भूतक्रूरसमन्वितम् ॥

प्। १५२)

इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थापनविधिर्नाम
अष्टत्रिंशत्पटलः ॥ ३८ ॥