३७

अतः परं प्रवक्ष्यामि क्षेत्राचार विधिक्रमम् ।
वर्णानामानुपूर्ण्यश्च शृणुब्रह्मन् समाहितः ॥

सेवनं गर्भगेहञ्च देशिकानां विधीयते ।
अर्धमण्टपसेवा च श्रोत्रियाणां समीरितम् ॥

प्। १४५)

तद्बहिक्षत्रविट्भ्यान्तु तद्बहिश्शूद्रसेवनम् ।
सूचिकस्तन्तु वाग्वश्च तिलघाती च सूनिकः ॥

तक्षकस्स्वर्णकारश्च शिलाभेदी तु लोहकः ।
कुम्भकारश्च गोपालो ह्येते वै न्यूनजातयः ॥

एतैस्तु दर्शनञ्चैव कर्तव्यं ध्वजमूलतः ।
रजकादि हीनजानान्दर्शनं बहिरालयात् ॥

चण्डालश्वपचादीनां क्षेत्राच्च शतदण्डके ।
एतेषां व्यत्यये नैव क्षेत्रान्तर्वेशने सति ॥

देवसान्निध्यहीनञ्च महादोषः प्रजायते ।
महामारिप्रवेशञ्च सर्वे वै पुरवासिनः ॥

पीड्यन्ते सततं रोगैस्तद् दोषशमनाय च ।
पुण्याहन्तु प्रकुर्वीत सम्प्रोक्षणमथाचरेत् ॥

वर्णानां क्रमशो वक्ष्ये शृणु ब्रह्मन् समासतः ।
ब्राह्मण्यां ब्राह्मणाज्जात संस्कृतो ब्राह्मणो भवेत् ॥

एवं क्षत्रियविट्शुद्राः ज्ञेयास्स्वेभ्यस्स्वयोनिजाः ।
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥

दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः ।
षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका ॥

याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ।
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ॥

प्। १४६)

प्रतिग्रहोधिको विप्रे याजनाध्यापने तथा ।
नृपायां विप्रतो जातस्सवर्णो ब्राह्मणो भवेत् ॥

आयुर्वेदाथर्ववेद धनुर्वेदान् सदापठेत् ।
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ॥

वैश्यस्य वर्ण एकस्मिन् षडेते पशदा स्मृताः ।
वैश्यायां विधिना विप्राज्जातो ह्यम्बष्ठ उच्यते ॥

कृष्या जीवी भवेत् तस्य तथैवाग्नेय वृत्तिकः ।
ध्वजिनी जीविका वापि अम्बष्ठाश्शस्त्र जीविनः ॥

वैश्यायां विप्रतश्चेर्योत्कुम्भकारस्स उच्यते ।
कुलालवृत्या जीवेत नापित्वा वा भवन्त्यतः ॥

नाभेरूर्ध्वन्तु वपनं तस्मान्नापित उच्यते ।
शूद्रायां विधिना विप्राज्जातः पारशिवो मतः ॥

भद्रकालि समाशृत्य जीवेयुः पूजकाः स्मृताः ।
तस्यां वै चौर्यतो जातो निषादश्च प्रकीर्तितः ॥

वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् ।
नृपाज्जातोथ वैश्यायां गृह्यायां विधिना सुतः ॥

वैश्यवृत्या तु जीवेत क्षत्रिर्मन्न चाचरेत् ।
तस्यां तस्यैव चौर्येण मणिकारः प्रजायते ॥

मणीनां राजतां कुर्यात् मुक्तानां वेधनक्रियाम् ।
शूद्रा क्षत्रसंसर्गाज्जात उग्र इति स्मृतः ॥

प्। १४७)

नृपस्य दण्डधारस्यादण्डं दण्ड्येषु सञ्चरेत् ।
वैश्या तु करणश्शूद्र्यां भिन्नायान्तु विधिस्मृतः ॥

माहिष्येण करण्यान्तु रथकारः प्रजायते ।
शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा ॥

पठनां वस्तुशास्त्राणां हेमान्याभरणानि च ।
लोहकर्म तथा कुर्यात् रथकारस्य वृत्तयः ॥

नृपाद् ब्राह्मणकन्यायां सूतो नाम प्रजायते ।
वेदानर्हं तथा चैषां धर्माणामनुबोधकः ॥

वैश्याद्वै देहश्शूद्राच्चण्डालो नाम जायते ।
क्षत्रिया मागधं वैश्याछूद्राक्षत्तारमेव च ॥

शूद्रादायोगवं वैश्या जनयामास वैसुतम् ।
नृपायां वैश्यतश्चौर्यात् पुलिन्दो नामजायते ॥

हिंसया दुष्टसत्वानामरण्ये वर्तयेदयम् ।
शूद्रादायोगवः क्षत्ता चण्डाश्चाधमो नृणाम् ॥

यथैव शूद्राद् ब्राह्मण्यां बाह्यजन्तु प्रसूयते ।
तथा बाह्यतरं बाह्याच्चातुर्वण्यं प्रसूयते ॥

प्रातिलोम्येन सम्भूतास्सर्वकर्मबहिष्कृताः ।
उग्रात्तु जातः क्षत्रायां श्वपाक इति कीर्तितः ॥

चण्डालश्व पचानान्तु बहिर्ग्रामात्प्रति श्रयः ।
वर्षोपेतमविज्ञातन्नरं कलुषयोनिजम् ॥

प्। १४८)

आर्यरूपमिवानार्यं कर्मभिस्स्वैर्विभावयेत् ।
वर्णानामानुपूर्व्येण जातो वै ह्यनुलोमजः ॥

वैपरीत्येन सम्भूतो प्रतिलोम इतीरितः ॥

इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्राचारवर्णविवेको नाम
सप्तत्रिंशत्पटलः ॥ ३७ ॥