३६

अतः परं प्रवक्ष्यामि जलसम्प्रोक्षणं शुभम् ।
सूतकी प्रेतकी चैव ह्यालयाभ्यन्तरे गतः ॥

प्। १४२)

चण्डालैः पतितैर्वापि क्षेत्राचारविरुद्धकैः ।
प्रविष्टे देवगेहे च मोहाद्वा ज्ञानतोपि वा ॥

स्पर्शितं लिङ्गबेरादि देवमानमथापि वा ।
प्राणिनां मरणे चैव नानादोषसमुद्भवे ॥

सम्प्रोक्षणमतः कुर्याच्छास्त्र दृष्टेण कर्मणा ।
मण्टपं कारयेत् सम्यक् पूर्वोक्तविधिना बुधः ॥

अष्टदीर्घजसंयुक्तं कलशैस्समलङ्कृतम् ।
शालिभिस्थण्डिलं कृत्वा अष्टद्रोणैस्तु बुद्धिमान् ॥

तदर्धं तण्डुलञ्चैव तस्यार्धं तिलमेव च ।
तस्यार्धं लाजसंयुक्तं दर्भमुष्टिश्च विस्तृतम् ॥

तन्मध्ये पङ्कजं लिख्ये साष्टपत्रं सकर्णिकम् ।
तर्पूर्वे योनिकुण्डञ्च आचार्यो विधिसत्तमः ॥

कलशांस्तु वटांश्चैव त्रिसूत्रं वेष्टयेच्छुभम् ।
लोहजैर्मृण्मयैश्चैव क्षालितैः शुभैः ॥

घृतक्षीरदधींश्चैव अर्घ्यपात्रं क्रमान् न्यसेत् ।
मध्ये * * न्तु विन्यस्य पञ्चरत्नं सुनिक्षिपेत् ॥

पूर्वे तु क्षीरविन्यस्य उत्तरेप्य * मेव तु ।
दधीनां दक्षिणे चैव पश्चिमन्तु घृतं न्यसेत् ॥

पाद्यन्तु विन्यसेत् मन्त्री पूर्वोक्तैस्सर्वमेव तु ।

प्। १४३)

शेषाणि पर * त्तोय नवाक्षरेण मन्त्रितम् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥

वाराही चैव माहेन्द्री चामुण्डा च प्रकीर्तिता ।
वीरभद्रगणाद्याश्च स्वस्वमन्त्रेण विन्यसेत् ॥

काली चैव महाकाली सुराली तु चतुष्कला ।
सुराली युक्तमध्ये तु कलशस्य न्यसेद् बुधः ॥

रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् न्यसेत् ।
चतुर्दिक्षु च विन्यस्य होमं कुर्याद् यथा पुरा ॥

पलाशं खदिराश्वत्थं प्लक्षन्यग्रोधमेव च ।
अश्वत्थोदुम्बरञ्चैव बिल्ववैकङ्कतानि च ॥

समिधाज्य चरुर्लाजं दधिक्षीरं तथैव च ।
हुतमष्टोत्तरशतं प्रत्येकं सर्व मूर्तिषु ॥

ब्रह्मादि मूर्तिभिश्चैव धारयेन्मूर्ति धारकाः ।
हुत्वा जप्त्वा स्पृशेद् देवीन्नवाक्षरेण बुद्धिमान् ॥

सुमुहूर्ते सुलग्ने च योगे च करणान्विते ।
नवाक्षरन्तु बिम्बे वा प्रणवादि नमोन्तकम् ॥

नवाक्षरेण संयुक्तश्शस्त्रे सम्प्रोक्षयेद् बुधः ।
स्नपनोक्तविधानेन अभिषिञ्चेद्यथा शुभम् ॥

नृत्तवाद्यैश्च सम्पूर्णं नानाघोषसमन्वितम् ।
वेदघोषसमायुक्तं सर्वातोद्य समायुतम् ॥

प्। १४४)

एवमेव विधानेन अभिषिञ्चेद्यथा शुभम् ।
नृत्तवाद्यैश्च सम्पूर्णं नानाघोषसमन्वितम् ॥

वेदघोषसमायुक्तम् ।

कलशोदकन्तु सङ्ग्राह्य प्रतिमाञ्चाभिषेचनम् ।
प्रासादे परिवारे च सुबाह्याभ्यन्तरेपि च ॥

सर्वं सम्प्रोक्षयेद् विद्वान् पूर्वोक्तं मूलविन्यसेत् ।
आवाहयेत् ततो देवीं सर्वलक्षणसंयुताम् ॥

अष्टाभुजान्त्रिणेत्राञ्च नागाभरणभूषिताम् ।
नागयज्ञोपवीतेन शिरो मालाविभूषिताम् ॥

प्रलयस्थिति सर्वाणां जगद्योनिं महेश्वरीम् ।
प्रतिमायां न्यसेद् देवी कुजवारे विशेषतः ॥

ततः प्रभृति यत्नेन पूजयेत् तत्र वित्तमः ।
प्रतिष्ठा चैव तत्काले आचार्य स्वस्ति वाचकैः ॥

नानाभरणद्रव्यैश्च गोभूमी काञ्चनादिभिः ।

इति ब्रह्मयामले शतसहस्रसंहितायां सम्प्रोक्षणविधिर्नाम
षट्त्रिंशत्पटलः ॥ ३६ ॥