३४

अतः परं प्रवक्ष्यामि जीर्णोद्धार विधिं शृणु ।
मूलस्थानं समाश्रित्य बालस्थानं प्रकल्पयेत् ॥

बालस्थान प्रतिष्ठा तु सीमानञ्च तथैव च ।
सीमता षट्तथा चैव कृष्टे कारार्द्धमेव च ॥

लक्षणं वास्तु भूमेस्तु तस्याद्रोहणमेव च ।
तस्याङ्कुराणां रक्षार्थं भूमिवृक्ष्यर्थमेव च ॥

शान्तिहोमं ततः कुर्यात् शङ्खभेर्यादिघोषयेत् ।
रत्निमात्रं खनित्वा तु पांसुमुद्धृत्य पूरयेत् ॥

प्रोक्षणं पञ्चगव्येन पर्यग्निञ्च समाचरेत् ।
कीडिकेशास्थिलोष्टे च स्थाने तत्रैव दृश्यते ॥

प्। १३५)

शान्तिहोमं ततः कुर्यात् कृत्वा पुनः कर्मसमाचरेत् ।
आर्षपौरुषं वापि तत्वांशतरुणालयम् ॥

अन्तसारे मुखे मध्ये पूर्वादीशे तु वारुणे ।
ह्यत्तरे वा विशेषेण बालस्थानं प्रकल्पयेत् ॥

मूलरूपन्तु नष्टं स्यात् पूर्वार्चा प्रतिमं भवेत् ।
इष्टमार्गे वसन् तत्र प्रतिरूपं प्रकल्पयेत् ॥

अष्टसप्तनवाङ्गुल्यं पञ्चषट्चतुरङ्गुलम् ।
एकवर्षन्तु शून्यञ्च पूजाशून्यं न संशयः ॥

द्विवर्षाणि च भूतानि त्रिवर्षन्तु पिशाचकम् ।
चतुर्वर्षन्तु गन्धर्व पञ्चवर्षासुराश्रय ॥

सप्तममल्पतत्वञ्च अष्टौ वेतालमेव च ।
दशवर्षञ्च शून्यञ्च ब्रह्मराक्षसमाश्रये ॥

मूलप्रासादशून्यञ्च आश्रयन्तु न संशयः ।
शान्ति होमं ततः कुर्यात् साधकान् स्वस्ति वाचयेत् ॥

प्रासादे भिन्न हीनञ्च प्राचीनाकृति योजयेत् ।
योजनं शिल्पिभिः कार्यमिष्टका शैलदारुभिः ॥

यद्यत्तु कल्पितं पूर्वं तत्तेनैव तु कारयेत् ।
उत्तमं शैलजं प्रोक्तं मध्यमं दारुयोजनम् ॥

कन्यसन्त्विष्टका चैव योजयेत् पूर्वकर्मणा ।
ह्युत्तरोत्तरजं श्रेष्ठं तन्न्यूनं नैव कारयेत् ॥

प्। १३६)

पुण्याहं प्रत्यहं कुर्यात् शिल्पिभिः कारिते स्थले ।
सम्प्रोक्षणमतः कुर्यात् स्थलकर्मावसानके ॥

पञ्चरत्नेन संयुक्तं पञ्चगव्यन्तु पूजयेत् ।
मूलरूपन्तु नष्टं स्यात् बालबिम्बं प्रकल्पयेत् ॥

अथ प्रासादभिन्नं वा बालस्थानं प्रकल्पितम् ।
तस्मात् सर्व प्रयत्नेन शास्त्रदृष्टेन कारयेत् ॥

इति ब्रह्मयामले शतसहस्रसंहितायां जीर्णोद्धारविधिर्नाम
चतुस्त्रिंशत्पटलः ॥ ३४ ॥