वासार्धलक्षणं वक्ष्ये सर्वकामार्थसाधनम् ।
महापात्रे भूमिकम्पे अनावृष्टिसमुद्भवे ॥
सूरिका ज्ञानमेकस्य महाव्याधि पथेन च ।
शरतमुषिकाकीर्णे दुर्भिक्षे कारयेद्बुधः ॥
ग्रामध्ये तु कर्तव्यम् अग्निकुण्डं सुशोभितम् ।
रत्निद्वयञ्च विस्तारं तदर्धं नामविन्यते ॥
मेखलात्रयसंयुक्तं साकैन्तु षडङ्गुलम् ।
उत्सेध विस्तन्तद्वन्नाभिनेमि सनातनम् ॥
प्। १२९)
नाभि प्रदेश मात्रन्तु योनिगोकर्ण मात्रतः ।
अश्वत्थपत्रं यद् योनि नाभिपद्माकृतिं सुखैः ॥
पलाशखदिरञ्चैव अश्वत्थं वटमेव च ।
रत्निमात्रसमुत्सेधं नाहं षट्त्रिंशदङ्गुलम् ॥
ताराङ्गुल्या च कर्तव्यं सप्ताङ्गुलसमन्वितम् ।
पलाशं पातपूर्वे तु खदिरन्दक्षिणे न तु ॥
पश्चिमे तु तथाश्वत्थम् उत्तरे वटवृक्षकम् ।
स्तम्बध्यायोपरि न्यस्य चोत्तरं दक्षिणं मुखम् ॥
रक्तायान्तु पठेत् पूर्वे करालन्दक्षिणे पठेत् ।
चण्डन्तु पश्चिमे पाठे महोच्छिष्टोत्तरे पठेत् ॥
अमूरण्यामर्धयित्वा अग्निजातेन बुद्धिमान् ।
पञ्चदश कृताधीमान् मर्दयेज्जातवेदसम् ॥
दशं सत्कृत्य विधिवत् कुलमन्त्रेण संयुतम् ।
गर्भाधनादिकं कृत्वा पृथक् च साधयेद् बुधः ॥
इमञ्च वर्तते नैव एकविंशति सङ्ख्यया ।
धारासमिधसाहस्रं पृथक् गोकर्ण मात्रतः ॥
तत् तन् मन्त्रेण संयुक्तम् एकैकं समिधाहुतम् ।
द्वौ द्वौ द्वारं प्रकर्तव्यं द्वौ द्वौ चाध्ययनं भवेत् ॥
पुण्याह जयशब्दैश्च शङ्खं कुर्याच्छुभैरपि ।
गन्धपुष्पैश्च धूपैश्च दीपमर्घ्य हवीषिं च ॥
प्। १३०)
क्षीरं लाजैस्तिलैश्चैव गुगुणा जुहुयात् पृथक् ।
एकैकस्य सहस्रं स्यात् भूतिश्च वामतात् ॥
वसोर्धारा प्रमाणन्तु हविच्छेद समात्रतः ।
यावत्समाप्तसहिता तावत् द्वारं विधीयते ॥
अथवा पुरुषसूक्तेन सहस्रं वा जपेत् ततः ।
अथवा रुद्रसूक्तेन सहस्रं वा जपेत् ततः ॥
ज्येष्ठामन्त्रेण वा मन्त्री सहस्रञ्जपमाचरेत् ।
चामुण्डी मूर्तिभेदेन मन्त्रभेदेन सर्वशः ॥
तेन तेनैव मन्त्रेण वासोद्धारं समाहितः ।
अथवा रुद्रसूक्तेन मुण्डाधारमथापि वा ॥
अथवानुग्रहसूक्तेन अम्बुदस्वामि शक्तिषु ।
गायत्र्याः प्रजपेन्मन्त्री वासोद्धारन्तु कारयेत् ॥
अतन्नवाक्षरं जप्यं वासोद्धारन्तु कारयेत् ।
वासोद्धारं प्रकर्तव्यं व्याहृतिश्चैव बुद्धिमान् ॥
आयुधे सर्वव्याधि नाशमायान्ति केवलम् ।
वासोद्धारं प्रकर्तव्यं कृष्णाष्टम्या विशेषतः ॥
महामारी विनाशार्थं चतुर्दश्यामथाचरेत् ।
अमावास्यां प्रतिपते वासोद्धारन्तु कारयेत् ॥
कृष्णपक्षे चतुर्दश्यां सर्वव्याधि विनाशनम् ।
विशेषेण वसूरिञ्च नाशयेत् तत्र संशयः ॥
प्। १३१)
तस्मात् सर्वप्रयत्नेन भूतादि नैव कारयेत् ।
सहस्राढकं घृतेनैव वासोद्धारन्तु कारयेत् ॥
वासोद्धारं नमते विवशेतदर्धेनाभि कारयेत् ।
अथ शताढके नैव वासोद्धारन्तु कारयेत् ॥
वासोद्धारन्न देवेश महिषी मनलस्य तु ।
तेनैव पितृमाप्नोति सर्वव्याधि हरो भवेत् ॥
वासोर्द्धारं प्रकर्तव्यं महामारी विनाशनम् ।
सुभिक्षं गोबलञ्चैव आयुरारोग्य सम्पदम् ॥
ब्राह्मणान् भोजयेत् तत्र कन्यकां भोजयेत् क्रमात् ।
तत्रैव भोजयेत् तत्र बलिं सर्वत्र दापयेत् ॥
बन्धञ्चैव मोक्षं स्यात् अङ्गनावसेचना नवा ।
पूजयेत् सर्व देवांश्च गन्धपुष्पं हविस्तथा ॥
पुरे सर्वजनाश्चैव स्नानं कृत्वाम्बरान्विताः ।
शुक्लगन्धानुलिप्ताश्च शुक्लमाल्यैश्च भूषिताः ॥
प्रोक्षणीया जनास्सर्वे वासोर्द्धारसमुत्सुकाः ।
तद्दिने चैव पूर्वाह्णे पुराभाण्डं त्यजेद् बहिः ॥
मृण्मयानि च भाण्डानि पुराणानि च मार्जनम् ।
पुराणभाण्डसूर्पाण भूतभाण्डानि सर्वशः ॥
ग्रामाद्बहिस्थितं विद्वान् वासोद्धारं तथा कुरु ।
ग्राममध्ये तु कर्तव्यं वासोद्धारं समाहितः ॥
प्। १३२)
आवाह्य सर्वदेवानां ब्रह्मविष्णु महेश्वरान् ।
इन्द्राग्नि यमनैर्-ऋत्यां वारुणं वायुमेव च ॥
सोमेशान गणांश्चैव इन्द्रादित्य मरुद्गणाः ।
वसवश्चाष्टभिश्चैव द्वादशादित्य एव च ॥
रुद्रा एकादशस्सर्वे अश्विनौ द्वौ तथैव च ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा च गणाधिपाः ।
वीरभद्रञ्च दुर्गा च लक्ष्मी ज्येष्ठा वसुन्धरा ॥
सरस्वती उत्तमा गङ्गाम् आवाह्य विधिवद्बुधः ।
महामारी महादेवी चामुण्डा तु वरा सदा ॥
खारा सानन्तरूपाश्च सूर्पहस्ता भयानका ।
मूर्तिमार्जनि संयुक्ता ऐशान्यां पूजयेद्बुधः ॥
अभ्यन्तरे यजेद्धीमान् ब्रह्मविष्णु महेश्वरान् ।
स्कन्दमादित्यमन्त्रैश्च पूर्वभागे तु पूजयेत् ॥
ऐशान्यां पूजयेद् विद्वान् वसून् पूर्वोत्तरे यजेत् ।
मरुद्गणावयवैश्चैव पूज्य अश्विन्यांशं रोदशम् ॥
उमा श्रिया सरस्वत्या दुर्गा चैव वसुन्धरा ।
गायत्री देवमाता च गङ्गा प्राज्ञायता युति ॥
अभ्यन्तरे यजेद्धीमान् वासोर्धारपरिक्रमात् ।
दक्षिणे सप्तमातॄणां वीरभद्रगणाधिप ॥
प्। १३३)
लोकपालान्न्यसेद्बाह्ये स्वस्वे स्थाने समाहितः ।
अग्नेः पश्चिमे भागे चाधिकं तत्र पूजयेत् ॥
वामपार्श्वे तथाविष्णुं दक्षिणे शङ्करं यजेत् ।
बाह्यतो लोकपालानां महामारिं कदिशम् ॥
पूजयेत् मध्यमांश्चैव आघुवैदरोदनैः ।
स्वस्वेनैव तु मन्त्रेण पूजयेत् त्रिदशेश्वरान् ॥
गन्धपुष्पैश्च धूपैश्च दीपनैवेद्यमेव च ।
पायसेन निवेद्यं स्यात् ब्रह्मविष्णुमहेश्वरान् ॥
महामारितरुद्द्रेण सहस्रं वा जपेत् तथा ॥
ज्येष्ठामन्त्रेण वा मन्त्री सहस्रं जपमाचरेत् ।
चामुण्डी मूर्तिभेदेन भद्रभेदेन सर्वदा ॥
दातव्यञ्चैव चामुण्डी पिङ्गलो पिङ्गलानि च ।
कृसरन्नतु दातव्यं पितृदेवाश्च सर्वदा ॥
गन्धोदनन्तु * * * * * * णां विशेषतः ।
असुरासुरसिद्धाश्च यक्षविद्याधरानपि ।
किन्नरा अप्सरा दैत्या पिशाचा भूतयोग्यकाः ॥
योगिनी डाकिनी चैता गुह्यमातरगानपि ।
सर्वे मांसयुतं स्यात् बलिं सर्वत्र दापयेत् ॥
प्। १३४)
ब्राह्मणान् भोजयेत् तत्र वस्त्राभरणपूजनैः ।
आचार्य दक्षिणां दत्वा गो भूमी काञ्चनादिभिः ॥
गजाश्चतुरगञ्चैव दासी दासञ्च दापयेत् ।
प्रदक्षिणं ततः कृत्वा प्रत्ये प्रत्यक्षमापयेत् ॥
वासोद्धार विधि ह्येतन् महामारि विनाशनम् ।
कपिलायां सहस्रन्तु दत्तस्यात्फलमाप्नुयात् ॥
वासोद्धरविधानेन यन्त्रं कुर्यान्नराधिप ।
तत्रैव जायते वापि रुधिरासूर्य निश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां वासोद्धारलक्षणविधिर्नाम
त्रयस्त्रिंशत्पटलः ॥ ३३ ॥