प्। १२१)
शिवाप्तन्तु सर्वाङ्गम् एकमेवं महेश्वरम् ।
कथितं वा शिवत्वं हि सर्वं मेलनमेव च ॥
अतः परं प्रवक्ष्यामि प्रकाराणान्तु लक्षणम् ।
वक्ष्येहं विधिना ब्रह्मम् यथावदनुपूर्वकम् ॥
गर्भगृहालयं प्रोक्तम् आलयं दण्डमुच्यते ।
दण्डार्ध मण्टपं कृत्वा सदण्डमन्तर्हारकम् ॥
मध्यागारं द्विदण्डन्तु चतुर्दण्डन्तु मध्यया ।
महामर्यादिभित्तिश्च सप्तदण्डं समं भवेत् ॥
शैलैर्वा इष्टकैर्वापि कारयेत् सुदृढं क्रमात् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा ततो भवेत् ॥
पादान्तमुन्नतस्यान्तं गलान्तं त्रिविधायतम् ।
एवन्तु तत्क्रमेणैव प्राकारं परिपूरितम् ॥
सुधाकार्यं तथा कृत्वा सुखासनं सुशोभितम् ।
प्राकारशैलया मार्गं प्राकारं मण्टपं तथा ॥
पाकारं मातृतो वापि पाकारं त्रिविधं स्मृतम् ।
पवित्रं चित्रर्द्धिकं वा अर्धचित्रमथापि वा ॥
भूतप्रेतगणाश्चैव पिशाच वेतालरूपकम् ।
एतेषां कारयेत् तत्र यथाविभवविस्तरम् ॥
पार्श्वे पृष्ठसमञ्चैव अग्रे तु द्विगुणं तथा ।
अन्तर्हारष्विदं प्रोक्तम् अन्तर्हारे तु चालयम् ॥
प्। १२२)
अष्टौ तु परिवाराणामालयाष्टमतत्समम् ।
द्वारं गोपुरमानेन देव्यालयसमं भवेत् ॥
आलयार्थमथार्थं वा आदिशेद्गोपुरस्य तु ।
सोपानस्याग्रतः कार्यं मण्टपञ्चतुरश्रकम् ॥
मण्टपञ्च प्रकर्तव्यं कूटं वापि तथैव च ।
अन्तर्हारान्तरं पीठम् ऐन्द्रे पीठं तथार्चयेत् ॥
मध्याहारे ततः कुर्यात् वाहनालयमग्रतः ।
अन्येषां परिवाराणाम् आलयं मध्यमं भवेत् ॥
आलयस्य तु तत्पूर्वे आदित्यालयमेव च ।
आग्नेयां वनं स्थानं पचनालयक्रमन्तथा ॥
याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च ।
नैर्-ऋत्यां गोगणस्थानं धान्यसङ्ग्रहमण्टपम् ॥
वारुणे लक्ष्मीस्थानं पचनालय क्रमन्तथा ।
(याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च ॥)
स्कन्दालयन्तु वायव्यां सोमे तु धनसङ्ग्रहम् ।
दुर्गालयन्तु चैवं स्यात् सर्पालयं तथैव च ॥
ऐशान्यामुदकस्थानम् आर्यस्थानन्तु भैरवम् ।
पुरस्ताद्भूतपीठञ्च ध्वजपीठं तथैव च ॥
पशुपीठं सुरापीठं पिशाचपीठन्तु बाह्यतः ।
शिवमेव यथा प्रोक्तं कुर्याच्च विधिपूर्वकम् ॥
प्। १२३)
इति ब्रह्मयामले शतसहस्रसंहितायां प्राकारलक्षणविधिर्नाम
अष्टाविंशत्पटलः ॥ २८ ॥